भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२८

चैत्रभाद्रपदमाघवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
चैत्रे भाद्रपदे माघे रूपसौभाग्य पुत्रदम् ।।
तृतीयात्रयमेतन्मे कृष्ण कस्मान्न कीर्तितम् ।। १ ।।
किमहं भक्तिरहितस्त्रयीमार्गातिगो नरः ।।
सुप्रसिद्धं जगत्येतद्गोपितं केन हेतुना ।। २ ।।
भवान्सर्वार्थानुकूलः सर्वज्ञ इति मे मतिः ।।
श्रीकृष्ण उवाच ।।
व्रतं चैतज्जगत्ख्यातं नाख्यातं तेन ते मया ।।३।।
यद्यस्ति श्रवणे बुद्धिः श्रूयतां पाण्डुनन्दन ।।
कोऽन्यः श्रोता जगत्यस्मिन्भवता सदृशो भुवि ।। ४ ।।
जया च विजया चैव उमायाः परिचारिके ।।
आगत्य मुनिकन्याभिः पृष्टेभीष्टफलेच्छया ।। ५ ।।
भवत्यौ सर्वदा देव्याश्चित्तवृत्तिविदौ किल ।।
केन व्रतोपचारेण कस्मिन्नहनि पार्वती ।।
पूजिता तुष्टिमभ्येति मंत्रै कैश्च वरानने ।। ६ ।।
तासां तद्वचनं श्रुत्वा जया प्रोवाच सादरम् ।।
श्रूयतामभिधास्यामि सर्वकामफलप्रदम् ।।
व्रतमुत्सवसंयुक्तं नरनारी मनोरमम् ।। ७ ।।
चैत्रे सिततृतीयायां दन्तधावनपूर्वकम् ।।
उपवासस्य नियमं गृह्णीयाद्भक्तिभावितम् ।। ८ ।।
सकुंकुमं सतांबूलं सिन्दूरं रक्तवाससी ।।
विधवा सोपवासाप्यवैधव्यकरणं परम् ।। ९ ।।
विधवा याति मार्गेण कुमारी तु यदृच्छया ।।
कुर्यादभ्यर्चनविधिं श्रूयतां मंत्रविक्रमः ।। 4.28.१० ।।
नेत्रपट्टपटीवस्त्रैर्वस्त्रमण्डपिकां शुभाम् ।।
कारयेत्कुसुमामोददिव्याभरणभूषिताम् ।। ११ ।।
 प्रवाललंबितव्रातामंतर्दिव्यवितानिकाम् ।।
विन्यस्तपूर्णकलशां सत्पीठस्थापितद्विजाम् ।। १२ ।।
पुरतः कारयेत्कुण्डं हस्तमात्रं समेखलम् ।।
ततः स्नातानुलिप्तां च परिधाय सुवाससी ।। १३ ।।
देवान्पितॄन्समभ्यर्च्य ततो देवीगृहं व्रजेत् ।।
नामाष्टकेन संपूज्या गौरी गोपतिवल्लभा ।। १४ ।।
तत्कालप्रभवैः पुष्पैर्गन्धालि बकुलाकुलैः ।।
कुंकुमेन समालभ्य कर्पूरागुरुचन्दनैः ।। १५ ।।
एवं संपूज्य विधिवत्सद्धूपेनाधिवासयेत् ।।
पार्वती ललिता गौरी गांधारी शाङ्करी शिवा ।।
उमा सती समुद्दिष्टं नामाष्टकमिदं मया ।। १६ ।।
लड्डुकैः खण्डवेष्टैश्च गुडकैः सिंहकेसरैः ।।
सोमालकैः कोकसरैः खण्डखाद्यकरंबकैः ।। १७ ।।
घृतपक्वैर्बहुविधैः सुपक्वफलकल्पितैः ।।
दृष्टिप्राणहरैर्हृद्यैर्न्नैवेद्यैः प्रीणयेदुमाम् ।। १. ।।
कटुखंडं जीरकं च कुंकुमं लवणार्द्रकम् ।।
इक्षुदंडानैक्षवं च हरिद्रार्द्रान्पुरो न्यसेत् ।। १९ ।।
नारिकेलानामलकान्मातुलुंगान्सदाडिमान् ।।
कूष्माण्डकर्कटीवृंतनारङ्गपनसादिकान् ।। 4.28.२० ।।
कालोद्भवानि चान्यानि फलानि विनिवेदयेत् ।।
गृहाद्युलूखलशिलाशूर्पान्प्रणतिभिः सह ।। २१ ।।
नेत्रांजनशलाकाश्च नखरे चनकानि च ।।
दर्पणं वंशपात्राणि भवान्यै विनिवेदयेत् ।। २२ ।।
शंखतूर्यनिनादेन गीतमङ्गलनिस्वनैः ।।
भक्त्या संपूजयेद्देवीं स्वशक्त्या शिववल्लभाम् ।। २३ ।।
ततोऽस्तसमये भानोः कुमार्यः करकैर्नवैः ।।
स्नानं कुर्युर्मुदा युक्ताः सौभाग्यारोग्यवृद्धये ।। २४ ।।
यामेयामे गते स्नानं देवीपूजनमेव च ।।
तैरेव नामभिर्होमस्तिलाज्येन प्रशस्यते ।। २५ ।।
पद्मासनस्थिता साध्वी तेनैवार्द्रेण वाससा ।।
गौरीमुखेक्षणपरा तां रात्रिमतिवाहयेत् ।। २६ ।।
काश्चिद्वाद्यंति संहृष्टाः काश्चिन्नृत्यंति हर्षिताः ।।
कथयंति कथाः काश्चिद्देव्यास्तत्र महोत्सवे ।। २७ ।।
गीततालानु संबद्धमनुद्धतमनाकुलम् ।।
नृत्यंति स्म पुरे देव्याः काश्चिदुल्लसितभ्रुवः ।। २८ ।।
नृत्येन हृष्यति हरो गौरी गीतेन तुष्यति ।।
सद्भावेनाथ वा सर्वे गच्छंति परमां मुदम् ।। २९ ।।
सुवासिनीभ्यस्तांबूलं कुंकुमं कुसुमानि च ।।
प्रदेयं जागरवत्या चान्येषामपि किंचन ।। 4.28.३० ।।
नटैर्विटैर्भटैश्चैव तथा प्रेक्षणकोत्सवैः ।।
सखिभिः सहिता रात्रिं गायनृत्यन्हितां नयेत् ।। ३१ ।।
एवं प्रभातसमये स्नात्वा संपूज्य पार्वतीम् ।।
ततो वै सा समारोहेद्वस्त्रालंकृततोरणम् ।। ३२ ।।
तोलयेत्सा तथासीनं गुडेन लवणेन च ।।
कुंकुमेनाथ वा शक्त्या कर्पूरागरुचंदनैः ।। ३३ ।।
पर्वतानामपिच्छेदैः केचिदिच्छंति सूरयः ।।
कुंडमंडपसंभारैर्मंत्रैस्तत्रैव शोभयेत् ।। ३४ ।।
लवणेन सहात्मा हि तोल्यते च गुडेन वा ।।
कयापि भक्तिपरया सौभाग्यमतुलीकृतम् ।। ३५ ।।
एवं देवीं प्रणम्यार्यां क्षमाप्य गृहमाविशेत् ।।
आमंत्र्य शास्त्रकुशलानाचारविधिपारगान् ।। ।। ३६ ।।
अन्नं च मधुरप्रायं भोजयित्वा सुवासिनीः ।।
स्वयं भुंजीत सहसा ज्ञातीजनबुधैः स्वकैः ।। ३७ ।।
यच्च देव्याः पुरो दत्तं नैवे द्यादि तदिच्छया ।।
गृहं प्रतिनयेत्सर्वं विभज्याभ्रांतिमानसा ।। ३८ ।।
ततो दद्याद्गृहस्थेभ्यः कृतकृत्या भवेत्तदा ।।
विधिर्भाद्रपदेऽप्येष सुसौन्दर्यप्रदायकः ।। ३९ ।।
सप्तधान्यस्वरूपां च शूर्पे संपूजयेदुमाम् ।।
गोमूत्रप्राशनं ह्यत्र तेन गोमूत्रसंज्ञिता ।। 4.28.४० ।।
माघमासतृतीयायां विशेषः श्रूयतामिति ।।
पूर्वोक्तं सकलं कृत्वा प्रभाते यवसंस्तरम् ।।
तोलयित्वा कुंदपुष्पैः पूजयेत्तत्सुतामिति ।। ४१ ।।
एतेन कारणेनोक्ता चतुर्थी कुन्दसंज्ञया ।।
तृतीयाख्यं मयैतत्ते कथितं सर्वकारणम् ।।
जयया मुनिकन्यानां यत्पुरा समुदाहृतम् ।। ४२ ।।
श्रीकृष्ण उवाच ।।
आसीद्विदर्भनगरे वेश्या सर्वांगसुंदरी ।।
तया ब्राह्मणवाक्येन सर्वमेतत्कृतं पुरा ।। ४३ ।।
भुक्त्वा भोगान्महीपृष्ठे दत्त्वा दानं यथेप्सया ।। ४४ ।।
कालेन समनुप्राप्ता मरणं मनुजेश्वर ।।
अचिन्त्या राजदुहिता सा बभूवातिशोभना ।।
अवंतिसुन्दरी नाम देवानामपि सुन्दरी ।। ४५ ।।
यदि वक्त्रसहस्राणां सहस्रं स्यात्कथंचन ।।
तथापि निर्वर्णयितुमशक्या सा सुलोचना ।। ४६ ।।
चैत्रतृतीयामाहात्म्यात्सा बभूव प्रभावती ।।
मातापित्रोरतिप्रेष्ठा शिष्टा न्यजनवल्लभा ।। ४७ ।।
लब्धाब्धिसंभवा यद्वत्कृष्णेनाक्लिष्टकर्मणा ।।
ततः सा बुभुजे भोगान्भर्त्रा सार्द्धं मुदा सती ।। ४८ ।।
यददाद्ब्राह्मणेभ्यः सा भूषणं कटकादिकम् ।।
तत्प्रभावेण सा लेभे सौभाग्यं किं ततः परम् ।। ४९ ।।
पुत्रांश्च जनयामास विष्णुशक्रपराक्रमान् ।।
सर्वास्त्रशस्त्रकुशला न्वेदोक्तविधिपारगान् ।। 4.28.५० ।।
एवं रूपं महत्प्राप्य सौभाग्यं पुत्रसंपदम् ।।
भर्त्रा सहैव मरणमंते प्राप्य पतिव्रता ।। ५१ ।।
शक्रादिलोकपा लानां भवनेषु यथाक्रमम् ।।
आक्रम्य ब्रह्मलोकं च जगाम शिवसात्मताम् ।। ५२ ।।
एवं यान्यापि कुरुते नारी व्रतमिदं शुभम् ।।
सा रूपसौभाग्यसुतान्प्राप्य स्वर्गे महीयते ।। ५३ ।।
न दुर्भगा कुले तस्याः काचिद्भवति कन्यका ।।
न दुर्विनीतश्च सुतो न भृत्योऽप्रियकृद्भवेत् ।। ५४ ।।
न दारिद्र्यं गृहे तस्मिन्न व्याधिरुपजायते ।।
यत्र सा रमते साध्वी ध्मातचामीकरप्रभा ।। ५५
अन्याश्च याश्चरिष्यंति ब्राह्मणानुमते व्रतम् ।।
संपूज्य वाचकं भक्त्या भूषणाच्छादनादिभिः ।। ५६ ।।
ताः सर्वसुखसंपन्ना अविपन्नमनोरथाः ।।
भविष्यंति कुरुश्रेष्ठ तस्यै देवि नमोस्तु ते ।। ५७ ।।
माघे महार्घ्यमणिमंडितपादपीठां चैत्रे विचित्रकुसुमोत्करचर्चितांगीम् ।।
शूर्पप्ररूढनवसस्यमयीं नभस्ये संपूज्य शंभुदयितां प्रभवंति नार्यः ।। ।। ५८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चैत्रभाद्रपदमाघतृतीयाव्रतवर्णनं नामाष्टविंशतितमोऽध्यायः ।। २८ ।। ।।