भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२९

अनन्तरतृतीयाव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
शुक्लपक्षतृतीयास्तु बहवः समुदाहृताः ।।
आनन्तर्यव्रतं ब्रूहि तृतीयोभयसंयुतम् ।। १ ।।
हिताय सर्वभूतानां ललनानां विशेषतः ।।
नाम प्राशननैवेद्यैर्मासिमासि पृथक्पृथक ।। २ ।।
श्रीकृष्ण उवाच ।। ।।
ब्रह्मविष्णुमहेशाद्यैर्यथोक्तं सुरसत्तमैः ।।
अपूर्वं सर्वमंत्राणामानंतर्यव्रतं शृणु ।। ३ ।।
आदौ मार्गशिरे मासि व्रतमेतत्समाचरेत् ।।
नक्तं कुर्याद्द्वितीयायां तृतीयायामुपोषिता ।। ४ ।।
उमां देवीं समभ्यर्च्य पुष्पगंधादिभिः क्रमात् ।।
शर्करापुत्रिकां शक्त्या प्रणिपत्य निवेदयेत् ।। ५ ।।
संप्राश्य दधि रात्रौ च स्वप्याद्विगतमत्सरा ।।
प्रभाते विधिवद्भक्त्या मिथुनं भोजयेत्सुधीः ।।६।।
अश्वमेधमवाप्नोति समग्रं नात्र संशयः ।।
तथा कृष्णतृतीयायां सोपवासा जितेन्द्रिया ।। ७ ।।
जपेत्कात्यायनीं नाम नालि केरं निवेदयेत् ।।
स्वप्यात्प्राश्य पयो रात्रौ कामक्रोधविवर्जिता ।।
दांपत्यं सुभगं भोज्यं गोमेधफलमाप्नुयात् ।। ८ ।।
पौषस्यादितृतीयायां सोपवासा जितेन्द्रिया ।।
गौरीं नाम तु संपूज्य लड्डुकान्विनिवेदयेत् ।। ९ ।।
स्वप्यात्प्राश्य घृतं रात्रौ त्यक्त्वा कामं तदग्रतः।।
प्रभाते मिथुनं भोज्यं नरमेधफलं भवेत् ।। 4.29.१० ।।
एवं कृष्णतृतीयायां पार्वतीमिति पूजयेत् ।।
निवेदयान्नं शष्कुल्यो गोमयं प्राशयेन्निशि ।।
दांपत्यं विविधं भोज्यम श्वमेधफलं लभेत् ।। ११ ।।
माघस्य शुक्लपक्षे तु तृतीयायामुपोषितः ।।
सुरनायिकां च संपूज्य खण्डबिल्वं निवेदयेत् ।। १२ ।।
ततः कुशोदकं प्राश्य स्वप्याद्भूमौ जितेन्द्रिया ।।
प्रभाते मधुरान्नेन मिथुनं भोज्य भक्तितः ।।
क्षमाप्यांते नमस्कृत्य इति स्वर्णफलं लभेत् ।। १३ ।।
पुनरेतत्ततो माघे कृष्णपक्षे शुचिव्रता ।।
आर्यां नाम्ना प्रपूज्याथ खाद्यकानि निवेदयेत् ।। १४ ।।
मधु प्राश्य स्वपेद्रात्रौ कामक्रोधविवर्जिता ।।
मिथुनं भोजयित्वा तु वाजपेयफलं लभेत् ।। १५ ।।
एवं वै फाल्गुने मासि सोपवासा शुचिव्रता ।।
भद्रीं नाम प्रपूज्याथ कासारं विनिवेदयेत् ।। १६ ।।
सुप्राश्य शर्करां चाथ स्वप्याद्रात्रौ विमत्सरा ।।
प्रभाते मिथुनं भोज्यं सौत्रामणिफलं लभेत ।। १७ ।।
पुनः कृष्णतृतीयायां फाल्गुनस्यैव भारत।।
विशालाक्षीं समभ्यर्च्य पूरिका विनिवेदयेत् ।। १८ ।।
सोदकांस्तंडुलान्दत्त्वा स्वप्याद्भूमौ मनस्विनी ।।
भोजयेन्मिथुनं प्रातरग्निष्टोमफलं लभेत् ।। १९ ।।
चैत्रस्यादितृतीयायां शुचिर्भूता जितेन्द्रिया ।।
श्रियं देवीं यजेद्भक्त्या वटकान्विनिवेदयेत् ।। 4.29.२० ।।
बिल्वपत्रं ततः प्राश्य स्वप्याद्ध्यान परायणा ।।
प्रातरुत्थाय मद्भक्त्या मिथुनं पूजयेत्सुधीः ।।
प्रणिपत्य क्षमाप्यैवं राजसूयफलं लभेत् ।। २१ ।।
पुनः कृष्णतृतीयायां चैत्रे सम्यगुपोषितः ।।
कालीं नाम समभ्यर्च्य पिष्टं प्राश्य स्वपेन्निशि ।। २२ ।।
पूपकानि निवेद्याथ कुर्याद्रात्रौ प्रजागरम् ।।
मिथुनानि च संभोज्य अतिरात्रफलं भवेत् ।। २३ ।।
एवं वैशाखमासे तु सोपवासा जितेन्द्रिया ।।
पूजयेच्चण्डिकां देवीं मधुकानि निवेदयेत् ।। २४ ।।
श्रीखंडं चंदनं लिप्त्वा स्वप्याद्देव्यग्रतो भुवि ।।
भोजयित्वा च दांपत्यं चांद्रायणफलं लभेत् ।। २५ ।।
तथा कृष्णतृतीयायां सोपवासा विमत्सरा ।।
पूजयेत्कालरात्रिं तु गन्धपुष्पैः सदीपकैः ।। २६ ।।
सुराज्यं यावकं दत्त्वा तिलान्भुंजन्स्वपेन्निशि ।।
प्रभाते मिथुनं भोज्यम तिकृच्छ्रफलं लभेत् ।। २७ ।।
ज्येष्ठे सिततृतीयायां ह्युपवासकृतां वरा ।।
शुभां देवीं समभ्यर्च्य आम्राणि विनिवेदयेत् ।।
संप्राश्यामलकं रात्रौ गौरीं ध्यात्वा सुखं स्वपेत् ।। २८ ।।
ततः प्रातः समुत्थाय दंपती रूपशालिनौ ।।
भोजयित्वा विधानेन तीर्थयात्राफलं लभेत् ।। २९ ।।
पुनः कृष्णतृतीयायां सोपवासा सुवासिनी ।।
स्कन्दमातेति संपूज्य इडायै विनिवेदयेत् ।। 4.29.३० ।।
प्राशयेत्पंचगव्यञ्च स्वप्याद्देव्यग्रतस्ततः ।।
प्रभाते मिथुनं भोज्यं कन्यादानफलं लभेत् ।। ३१ ।।
आषाढमासे संप्राप्ते पूजयेच्च यशोधनम् ।।
करंजकं च नैवेद्यं गोशृंगांभः पिबेन्निशि ।।
प्रभाते मिथुनं भोज्यं कन्यादानफलं लभेत् ।। ३२ ।।
तथा कृष्णतृतीयायां कूष्मांडीं शक्तितो यजेत् ।।
सक्तून्गुडाज्यसंमुक्तान्पुरतो विनिवेदयेत् ।। ३३ ।।
कुशोदकं च संप्राश्य स्वप्याद्रात्रौ जितेन्द्रिया ।।
प्रभाते मिथुनं भोज्यं गोसहस्रफलं लभेत् ।। ३४ ।।
श्रावणे सोपवासा च चंडां घण्टां प्रपूजयेत् ।।
कुल्माषास्तत्र नैवेद्यं पिबेत्पुष्पोदकं पुनः ।। ३५ ।।
प्रभाते शक्तितो दद्याद्भोजनं मिथुनस्य तु ।।
प्राप्नोत्यभयदानस्य फलं नैवात्र संशयः ।। ३६ ।।
तद्वत्कृष्णतृतीयायां रुद्राणीं नामभिर्यजेत् ।।
सिद्धपिंडानि दिव्यानि नैवेद्यं दापयेत्तथा ।। ३७ ।।
पिण्याकं प्राश यित्वा तु स्वप्याद्रात्रौ विमत्सरा ।।
संपूज्य द्विजदांपत्यमिष्टापूर्तफलं लभेत् ।। ३८ ।।
भाद्रे शुक्लतृतीयायां पूजयेत हिमाद्रिजाम् ।।
गोधूमान्नं निवेद्यैव प्राशयेच्चन्दनं सितम् ।। ३९ ।।
गन्धोदकं ततः प्राश्य सखीभिः सहिता स्वपेत् ।।
प्रभाते मिथुनं भोज्यं मार्गपालीशतं लभेत् ।। 4.29.४० ।।
तद्वत्कृष्णतृतीयायां दुर्गां दैवीं समर्चयेत् ।।
दद्यात्पिष्टफलान्दिव्यान्गुडाज्यपरिपूरितान् ।। ४१ ।।
प्राशयित्वा तु गोमूत्रं स्वप्याच्छांतेन चेतसा ।।
प्रातस्तु मिथुनं भोज्यं सदासत्रफलं लभेत् ।।४२।।
मासि चाश्वयुजे भक्त्या देवीं नारायणीं यजेत् ।।
सोपवासा खण्डपूपान्नैवेद्यं परिकल्पयेत् ।। ।। ४३ ।।
प्राशयेच्चंदनं रक्तं स्वप्याच्च गतमत्सरा ।।
प्रभाते भोज्यं दांपत्यमग्निहोत्रफलं लभेत् ।। ४४ ।।
तथा कृष्णतृतीयायां स्वस्ति नाम प्रपूज येत् ।।
शाल्योदनं गुडोपेतं नैवेद्यं निर्वपेत्ततः ।। ४५ ।।
कुसुंभबीजान्संप्राश्य त्यक्त्वा कामं स्वपेन्निशि ।।
संभोज्य मिथुनं प्रातर्गवाह्निकफलं लभेत् ।। ४६ ।।
कार्तिकस्य तृतीयायां स्वाहानाम्नीं प्रपूजयेत् ।।
क्षीरं खण्डघृतोपेतं नैवेद्यं दापयेच्च ताम् ।। ४७ ।।
स्वप्याद्रात्रौ जितक्रोधा प्राश्य कुंकुमकेशरान् ।।
प्रभाते मिथुनं भोज्यमेकभक्तफलं लभेत् ।।४८ ।।
तथा कृष्णतृतीयायां स्वधानाम्नीं प्रपूजयेत् ।।
मुद्गौदनं निवेद्याथ घृतं प्राश्य स्वपेन्निशि ।।४९।।
प्रातः संभोज्य मिथुनं नक्तव्रतफलं लभेत् ।।
एवं संवत्सरं कृत्वा मुक्तपापा शुचिर्भवेत् ।।4.29.५०।।
शुक्लपक्षे तृतीयायां सोपवासा निरामया ।।
विज्ञाय च द्रुतं भक्त्या उमां शास्त्रार्थबोधकैः ।। ५१ ।।
मंडलं च ततो लिख्य नवनाभं वरप्रदम् ।।
सौवर्णं कारयेद्देवमुमया सहितं प्रभुम् ।। ५२ ।।
ताभ्यां नेत्रेषु दातव्यं मौक्तिकं नीलमेव च ।।
प्रवालमोष्ठयोर्दद्यात्कर्णयो रत्नकुण्डले ।। ५३ ।।
उपवीतं तु देवस्य देव्या हारं तथो रसि ।।
रक्तवस्त्रधरां देवीं सितवस्त्रं महेश्वरम् ।। ५४ ।।
चतुःसमेन वालभ्य पुष्पैर्धूपैरथार्च्चयेत् ।।
मंडले पूजयित्वा च होमं कुर्यात्ततोऽगुरोः ।।५५।।
ततोऽपराजितां नाम देवीं तत्रैव पुजयेत् ।।
मृत्स्नां संप्राशयित्वा च रात्रौ कुर्यात्प्रजागरम् ।। ५६ ।।
गीतवाद्योत्सवैर्हृद्यैर्वीणामंगलपाठकैः ।।
रात्रिमेव जपेद्भक्त्या यावदुद्गच्छते रविः ।। ५७ ।।
तूलीगंडकसंयुक्ते पर्यंकेत्यंतशोभिते ।।
उद्धृत्य मण्डलाद्देवं पर्यंकोपरि विन्यसेत् ।। ५८ ।।
वितानध्वजमालालिकिंकिणीदर्प्पणान्वितम् ।।
पुष्पमण्डपिकाच्छन्नं धूपगुग्गुलुवासितम् ।। ५९ ।।
तस्याग्रे भोजयेद्भक्त्या स्वशक्त्या मिथुनानि च ।।
प्रीणयेद्भक्ष्यभोज्यैश्च पक्वान्नैर्मधुरैः शुभैः ।। 4.29.६० ।।
ततो दत्त्वाऽक्षतान्हस्ते तांबूलं विनिवेदयेत् ।।
प्रीयतां मे उमाकांतः पार्वत्या सहितः शिवः ।। ६१ ।।
उच्छिष्टं शोधयित्वा तु पुनः प्रोक्ष्य समन्ततः ।।
रक्तवर्णां सुशीलां च सुरूपां सुपयस्विनीम् ।। ६२ ।।
शृंगाभ्यां दत्तकनकां राजतखुरसंयुताम् ।।
कांस्यदोहनकोपेतां रक्तवस्त्रावगुंठिताम् ।। ६३ ।।
घण्टाभरणशोभाढ्यां देवदेव्यग्रसंस्थिताम् ।।
पादुकोपानहच्छत्रभोज्यभाजनसंयुताम् ।।
त्रिधा प्रदक्षिणीकृत्य गुरोः सर्वं निवेदयेत् ।। ६४ ।।
उमामहेश्वरं देवमवियोगं सुरार्चितम् ।।
अव्यवच्छेदभूतं च सुप्रीतं तदिहास्तु मे ।। ६५ ।।
प्रणम्य शिरसा भूमौ क्षमस्वेति गुरुं वदेत् ।।
एवं समाप्यते देव्यां आनंतर्यव्रतोद्यमम् ।।
यः प्रकुर्यात्पुमान्स्त्री वा तस्य पुण्यफलं शृणु ।। ६६ ।।
गन्धर्वयक्षलोकांश्च विद्याधरमहोरगान् ।।
ऋषिसिद्धामरं ब्राह्मं विष्णुलोकं सनातनम् ।।६७।।
भुक्त्वा भोगानशेषांश्च एकविंशत्कुलान्वितः ।।
रत्नयाने समारूढो गुह्याप्सरससंवृतः ।। ६८ ।।।
देवविद्याधरैर्यक्षैर्वृतो याति शिवालयम्।।
तत्र भुक्त्वा महाभोगान्स भुंक्ते शिववद्बहून् ।। ६९ ।।
भुक्त्वा भोगान्यदा भूतः कदाचित्तपसः क्षयात ।।
पृथिव्यां तु समागम्य भवेत्सकलभूमिपः ।। 4.29.७० ।।
स्त्री वा समाचरेद्या तु महादेवी तु जायते ।।
आनंतर्यव्यवच्छिन्नान्भोगान्देवी उमा यथा ।।
त्रैलोक्यपतिरुद्रेणसा भुंक्ते सहिता तथा।।७१।।
मनुर्द्देव्या यथामह्या शच्या शक्रो यथासुखम् ।।
नैरंतर्यं यथा सौख्यं सा भुंक्ते पतिना सह ।। ७२ ।।
मुनेररुंधती यद्वद्विष्णोर्लक्ष्मीर्हृदि स्थिता ।।
तथा तयोर्महत्सौख्यं नैरंतर्यं हि जायते ।। १३ ।।
सावित्री ब्रह्मणो यद्वद्गंगा तोयनिधेर्यथा ।।
अव्यवच्छिन्नयोः प्रीतिस्तथा जन्मनिजन्मनि ।। ७४ ।।
अथ जन्मन्यहोन्यस्मिन्व्रतमेतत्कृतं भवेत् ।।
तेनैव पतिना सार्द्धं न वियोगमुपैति सा ।।
योजनायुतसाहस्रे सुरूपा मण्डले भवेत् ।।
अर्घाढ्या सुभगा साध्वी पुत्रपौत्रैरलंकृता ।। ७५ ।।
एत्तते निखिलं प्रोक्तमानंतर्यव्रतं मया ।।
भक्ताय सुविनीताय कथितव्यं न चान्यथा ।। ७६ ।।
एषा विशेषविहिताभिहिता तृतीया यानंतरीत्य विधवाभिरुदीरितोच्चैः ।।
एतामुपोष्य विधिवत्प्रतिपक्षयोगान्नैवांतरं सुतसुहृत्स्वजनैरुपैति ।। ७७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर संवादे अनंतरतृतीयाव्रतवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः ।। २९ ।।