भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३६

नागपञ्चमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पंचमी दयिता राजन्नागानंदविवर्द्धनी ।।
पञ्चम्यां किल नागानां भवतीत्युत्सवो महान् ।। १ ।।
वासुकिस्तक्षकश्चैव कालिको माणिभद्रकः।।
धृतराष्ट्रो रैवतश्च कर्कोटकधनंजयौ ।।
एते प्रयच्छंत्यभयं प्राणिनां प्राणजीविनाम् ।। २ ।।
पञ्चम्यां स्नपयंतीह नागान्क्षी रेण ये नराः ।।
तेषां कुले प्रयच्छंति अभयं प्राणिनां सदा ।। ३ ।।
शप्ता नागा यदा मात्रा दह्यमाना दिवानिशम् ।।
निर्वापिता गवां क्षीरैस्ततः प्रभृति वल्लभाः ।। ४ ।।
।। युधिष्ठिर उवाच ।। ।।
मात्रा शप्ताः कथं नागाः किमुद्दिश्य च कारणम् ।।
कथं वा तस्य शापस्य विनाशोऽ भूज्जनार्दन ।। ५ ।।
।। श्रीकृष्ण उवाच ।। ।।
उच्चैःश्रवाश्वराजश्च श्वेतवर्णोऽमृतोद्भवः ।।
तं दृष्ट्वा चाब्रवीत्कद्रूर्नागानां जननी स्वसाम् ।। ।। ६ ।।
अश्वरत्नमिदं श्वेतं पश्यपश्यामृतोद्भवम् ।।
कृष्णांश्च वीक्ष्यसे बालान्सर्वश्वेतानुताद्य वै ।। ७ ।।
।। विनतोवाच ।। ।।
सर्वश्वेतो हयवरो नायं कृष्णो न लोहितः ।।
कथं त्वं वीक्षसे कृष्णं विनतोवाच तां स्वसाम् ।। ८ ।।
।। कद्रूरुवाच ।। ।
वीक्षेऽहमेकनयना कृष्णबाल समन्वितम् ।।
द्विनेत्रा च त्वं विनते न पश्यसि पणं कुरु ।। ९ ।।
।। विनतोवाच ।। ।।
अहं दासी भवित्री ते कृष्णकेशे प्रदर्शिते ।।
न चेद्दर्शयसे कद्रु मम दासी भविष्यसि ।। 4.36.१० ।।
एवं ते विपणं कृत्वा गते क्रोधसमन्विते ।।
सुषुप्ते प्राज्यदोषे तु कद्रूर्जिह्ममचिंतयत् ।। ११ ।।
आहूय पुत्रान् प्रोवाच बाला भूत्वा हयोत्तमे ।।
तिष्ठध्वं विपणौ जेष्ये विनतां जयगृद्धिनीम् ।। १२ ।।
प्रोचुस्ते जिह्मबुद्धिं तां नागाः कद्रूं विगृह्य च ।।
अधर्म एष तु महान्करिष्यामो न ते वचः ।।
अशपद्रुषिता कद्रूः पावको वः प्रधक्ष्यति ।। १३ ।।
गते बहुतिथे काले पांडवो जनमेजयः ।।
सर्पसत्रं स कर्ता वै भूमावन्यैः सुदुष्करम् ।।१४।।
तस्मिन्सत्रे च तिग्मांशुः पावको भक्षयिष्यति ।।
एवं शप्त्वा तदा कद्रूः प्रत्युवाच न किंचन ।।१५।।
मात्रा शप्तस्तदा नागः कर्तव्यं नान्वपद्यत ।।
वासुकिर्दुःखसंतप्तः पपात भुवि मूर्च्छितः ।। १६ ।।
वासुकिं दुःखितं दृष्ट्वा ब्रह्मा प्रोवाच सांत्वयन्।।
मा शुचो वासुकेऽत्यर्थं शृणु मद्वचनं परम्।। १७।।
यायावरकुले जातो जरत्कारुरिति द्विजः।।
भविष्यति महातेजास्तस्मिन्काले तपोनिधिः ।।१८।।
भगिनीं च जरत्कारुं तस्य त्वं प्रतिदास्यसि ।।
भविता तस्य पुत्रोऽसावस्तीक इति विश्रुतः ।। १९ ।।
स तत्सत्रं प्रवृद्धं वै नागानां भयदं महत् ।।
निषेधयिष्यति मुनिर्वाग्भिः संपूज्य पार्थिवम् ।। 4.36.२० ।।
तदियं भगिनी नाग रूपौदार्यगुणान्विता ।।
जरत्कारुर्जरत्कारोः प्रदेया ह्यवि चारतः ।। २१ ।।
यदासौ प्रार्थ्यतेऽरण्ये यत्किञ्चित्प्रवदिष्यति ।।
तत्कर्तव्यमशेषेण इच्छेच्छ्रेयस्तथात्मनः ।। २२ ।।
पितामहवचः श्रुत्वा वासुकिं प्रणिपत्य च ।।
तथाकरोद्यथा चोक्तं यत्नं परममास्थितः ।। २३ ।।
तच्छ्रुत्वा पन्नगाः सर्वे प्रहर्षोत्फुल्ललोचनाः ।।
पुनर्जातमिवात्मानं मेनिरे भुजगोत्तमाः ।। २४ ।।
अप्लवे तु निमग्नानां घोरे यज्ञाग्निसागरे ।।
आस्तीकस्तत्र भविता प्लवभूतोऽभयप्रदः ।। २५ ।।
श्रुत्वा स चाग्निराजानमृत्विजस्तदनंतरम् ।।
निवर्तयिष्यति यागं नागानां मोहनं परम् ।। २६ ।।
पञ्चम्यां तच्च भविता ब्रह्मा प्रोवाच लेलिहान् ।।
तस्मादियं महाराज पञ्चमी दयिता शुभा ।। २७ ।।
नागानां हर्षजननी दत्ता वै ब्रह्मणा पुरा ।।
दत्त्वा तु भोजनं पूर्वं ब्राह्मणानां तु कामतः ।। २८ ।।
विसृज्य नागाः प्रीयंतां ये केचित्पृथिवीतले ।।
हिमाचले ये वसन्ति येंऽतरिक्षे दिविस्थिताः ।।
ये नदीषु महानागा ये सरःस्वभिगामिनः ।।२९।।
ये वापीषु तडागेषु तेषु सर्वेषु वै नमः ।।4.36.३०।।
नागान्विप्रांश्च संपूज्य विसृज्य च यथार्थतः ।।
ततः पश्चाच्च भुञ्जीयात्सह भृत्यैर्न्नराधिप ।।३१।।
पूर्वं मधुरमश्नीयात्स्वेच्छया तदनंत रम् ।।
एवं नियमयुक्तस्य यत्फलं तन्निबोध मे ।।३२।।
मृतो नागपुरं याति पूज्यमानोऽप्सरोगणैः ।।
विमानवरमारूढो रमते कालमीप्सितम् ।।३३।।
इह चागत्य राजासौ सर्वराजवरो भवेत् ।।
सर्वरत्नसमृद्धश्च वाहनाढ्यश्च जायते ।। ३४ ।।
पञ्चजन्मन्यसौ राजा द्वापरेद्वापरे भवेत् ।।
आधिव्याधिविनिर्मुक्तः पत्नीपुत्रसहायवान् ।।
तस्मात्पूज्याश्च नागाश्च घृतक्षीरादिना सदा ।। ३५ ।।
।। युधिष्ठिर उवाच ।। ।।
दशंति यं नरं कृष्ण नागाः क्रोधसमन्विताः ।।
भवेत्किं तस्य दष्टस्य विस्तराद्ब्रूहि मां हरे ।। ३६ ।।
।। श्रीकृष्ण उवाच ।। ।।
नागदष्टो नरो राजन्प्राप्य मृत्युं व्रजत्यधः ।।
अधो गत्वा भवेत्सर्पो निर्विषो नात्र संशयः ।। ३७ ।।
।। युधिष्ठिर उवाच ।। ।।
नागदष्टः पिता यस्य भ्राता माता सुहृत्सुतः ।।
स्वसा वा दुहिता भार्या किं कर्तव्यं वदस्व मे ।। ३८ ।।
मोक्षाय तस्य गोविन्द दानं व्रतमुपोषितम् ।।
ब्रूहि मे यदुशार्दूल येन स्वर्गतिमाप्नुयात्।। ।। ३९ ।।
।। श्रीकृष्ण उवाच ।। ।।
उपोष्या पञ्चमी राजन्नागानां पुष्टिवर्द्धिनी ।।
वर्षमेकं तु राजेन्द्र विधानं शृणु यादृशम् ।। 4.36.४० ।।
मासे भाद्रपदे या तु शुक्लपक्षे महीपते ।।
सा च पुण्यतमा प्रोक्ता ग्राह्या सद्गतिकाम्यया ।। ४१ ।।
ज्ञेया द्वादश वर्षांते पञ्चम्यो भरतर्षभ ।।
चतुर्थ्यामेकभक्तं तु तस्यां नक्तं प्रकीर्तितम् ।। ४२ ।।
भूरिचन्द्रमयं नागमथवा कलधौतजम् ।।
कृत्वा दारुमयं चापि उताहो मृन्मयं नृप ।। ४३ ।।
पञ्चम्यामर्चयेद्भक्त्या नागं पञ्चफणं शृणु ।।
करवीरैस्तथा पद्मैर्जातीपुष्पैः सुशोभनैः ।। ४४ ।।
गन्धपुष्पैः सनैवेद्यैः पूज्य पन्नगसत्तमम् ।।
ब्राह्मणान्भोजयेत्पश्चाद् घृतपायसमोदकैः ।। ४५ ।।
नारायणबलिः कार्यः सर्पदष्टस्य देहिनः ।।
दाने पिंडप्रदाने च ब्राह्मणानां च तर्पयेत् ।। ४६ ।।
वृषोत्सर्गस्तु कर्तव्यो गते संवत्सरे नृप ।।
स्नानं कृत्वोदकं दद्यात्कृष्णोऽत्र प्रीयतामिति ।। ४७ ।।
अनंतो वासुकिः शेषः पद्मः कम्बल एव च ।।
तथा तक्षक नागश्च नागश्चाश्वतरो नृप ।। ४८
धृतराष्ट्रः शंखपालः कालियस्तक्षकस्तथा ।।
पिंगलश्च महानागो मासिमासि प्रकीर्तिताः ।।
वत्सरांते पारणं स्यान्महाब्राह्मणभोजनम् ।। ४९ ।।
इतिहासविदे नागः कांचनेन कृतो नृप ।।
तथार्जुनी प्रदातव्या सवत्सा कांस्यदोहना ।। 4.36.५० ।।
एष पारणके पार्थ विधिः प्रोक्तो विचक्षणैः ।।
कृते व्रतवरे तस्मिन्सद्गतिं यांति बान्धवाः ।। ५१ ।।
ये दन्दशूकरदनैर्दष्टाः प्राप्ता ह्यधोगतिम् ।।
वर्षमेकं चरि ष्यंति भक्त्या ये व्रतमुत्तमम् ।।
दांष्ट्रिकं मोक्ष्यते तेषां शुभं स्थानमवाप्स्यति ।। ५२ ।।
यश्चेदं शृणुयान्नित्यं पठेद्भक्त्या समन्वितः ।।
न वै कुटुम्बे नागेभ्यो भयं भवति कुत्रचित् ।। ५३ ।।
।। श्रीकृष्ण उवाच ।। ।।
तद्वद्भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः ।।
यस्त्वालिख्य नरो नागान्कृ ष्णवर्णादिवर्णकैः ।।
पूजयेद्गन्धपुष्पैस्तु सर्पिर्ग्गुग्गुलुपायसैः ।। ५४ ।।
तस्य तुष्टिं समायांति पन्नगास्तक्षकादयः ।।
आसप्तमात्कुलात्तस्य न भयं नागतो भवेत् ।। ५५ ।।
तस्मात्सर्वप्रयत्नेन नागान्संपूजयेद्बुधः ।।
तथा चाश्वयुजे मासि पञ्चम्यां कुरुनंदन ।। ५६ ।।
कृत्वा कुशमयान्नागानिंद्राण्या सह पूजयेत् ।।
घृतोदकाभ्यां पयसा स्नपयित्वा विशांपते ।। ५७ ।।
गोधूमैः पयसा स्विन्नैर्भक्ष्यैश्च विविधैस्तथा ।।
यस्त्वस्यां विविधान्नागाञ्छुचिर्भक्त्या समन्वितः ।। ५८ ।।
पूजयेत्कुरुशार्दूल तस्य शेषादयो नृप ।।
नागाः प्रीता भवन्तीह शांतिं प्राप्नोति शोभनाम् ।।
स शांतिलोकमासाद्य मोदते शाश्वतीः समाः ।। ५९ ।।
इत्येतत्कथितं वीर पञ्चमीव्रतमुत्तमम् ।।
तत्रायमुच्यते मंत्रः सर्वदोषनिषेधकः ।। 4.36.६० ।।
( ॐ कुरुकुल्ले हुं फट्स्वाहा )
भक्तेन भक्तिसहिताः शतपञ्चमीषु ये पूजयंति भुजगान्कुसुमोपहारैः।।
तेषां गृहेष्वभयदा हि सदैव सर्पाः शश्वत्प्रमोदपरमा रुचयो भवंति ।। ६१ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नागपंचमीव्रतवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ।। ३६ ।।