भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३७

श्रीपञ्चमीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
कथमासाद्यते लक्ष्मीर्दुर्ल्लभा भुवनत्रये ।।
दानेन तपसा वापि व्रतेन नियमेन वा ।। १ ।।
जपहोमनमस्कारैः संस्कारैर्वा पृथग्विधैः ।।
एतद्वद यदुश्रेष्ठ सर्ववित्त्वं मतो मम ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
भृगोः ख्यात्यां समुत्पन्ना पूर्वं श्रीः श्रूयते शुभा ।।
वासुदेवाय सा दत्ता मुनिना मानवृद्धये ।। ३ ।।
वासुदेवोऽपि तां प्राप्य पीनोन्नतपयोधराम् ।।
पद्मपत्रविशालाक्षीं पूर्णचन्द्रनिभान नाम् ।। ४ ।।
भाभासितदिगाभोगां साक्षाद्भानोः प्रभामिव ।।
नितंबाडंबरवतीं मत्तमातंगगामिनीम् ।।
रेमे सह तया राजन्बिभ्रमोद्भ्रांतचित्तया ।। ५ ।।
सा च विष्णुं जगज्जिष्णुं पतिं त्रिजगतां पतिम् ।।
प्राप्य कृतार्थमात्मानं मेने मानयशोधना ।। ६ ।।
हृष्टं पुष्टं जगत्सर्वमभवद्भा वितं तया ।।
लक्ष्म्या निरीक्षितं चैव सानंदं हि महीतलम् ।। ७ ।।
क्षेमं सुभिक्षमारोग्यमनाक्रन्दमनाकुलम् ।।
जगदासीदनुद्भ्रान्तं प्रशांतोपद्रवं तथा ।। ८ ।।
दिवि देवा मुमुदिरे दानवा दैत्यमागताः ।।
विस्फारितफणाभोगा नागाश्चैव रसातले ।। ९ ।।
हृदये ब्राह्मणैर्वह्नौ भुज्यते त्रिदिवैर्हविः ।।
चातुर्वर्ण्यमसंकीर्णं पाल्यते पार्थ पार्थिवैः ।।4.37.१ ०।।
विरोचनप्रभृतिभिर्दृष्ट्वैवं दैत्यसत्तमैः ।।
तपस्तप्तुमथारब्धमग्निमाश्रित्य संयतैः ।। ।। ११ ।।
सोमसंस्थाहविःसंस्थापाकसंख्यादिभिर्मखैः ।।
सदाचारैः समारब्धमिष्टं स्वेष्टाभिलाषिभिः ।। १२ ।।
एवं धर्मप्रधानैस्तैर्वेदवादरतात्मभि।।
जगदासीत्समाक्रांतं विक्रमेण क्रमेण तु ।।१३।।
लक्ष्मीविलासप्रभवो देवानामभवन्मदः ।।
मदाच्छीलं च शौचं च सत्यं सद्यो व्यनीनशन् ।। ।। १४ ।।
सत्यशौचविहीनांस्तान्देवान्संत्यज्य चञ्चलान् ।।
जगाम दानवकुलं कुलदेवानुरागतः ।।१५।।
लक्ष्म्या भावितदेहैस्तैः पुनरुद्धतमानसैः।।
व्यवहर्तुं समारब्धमन्यायेन मदोद्धतैः ।। १६ ।।
वयं वेदा वयं यज्ञा वयं विद्या वय जगत् ।।
ब्रह्मविष्णुशंकराद्या वयं सर्वे दिवौकसः ।। १७ ।।
अहंकारविमूढांस्ताञ्ज्ञात्वा दानवसत्तमान् ।।
सागरं सा विवेशाथ भ्रांतचित्ता भृगोः सुता ।। १८ ।।
क्षीराब्धिमध्यगतया लक्ष्म्या क्षीणार्थसंचयम् ।।
निरानन्दगतश्रीकमभवद्भुवनत्रयम् ।। १९ ।।
गतश्रीकमथात्मानं मत्वा शंबरसूदनः ।।
पपच्छांगिरसं विप्रं ब्रूहि किञ्चिद्व्रतं मम ।। 4.37.२० ।।
येन संप्राप्यते लक्ष्मीर्लब्धा न चलते पुनः ।।
निश्चलापि सुहृन्मित्रैर्भोग्या भवति सा मुने ।। २१ ।।
न सा श्रीत्यभिमन्तव्या कन्या सा पाल्यते गृहे ।।
परार्थं या सुहृन्मित्रभृत्यैर्नैवोपभुज्यते ।। २२ ।।
शक्रस्यैतद्वचः श्रुत्वा बृहस्पतिरुदारधीः ।।
कथयामास संचिंत्य शुभं श्रीपञ्चमीव्रतम् ।। २३ ।।
यत्पुरा कस्यचित्प्रोक्तं व्रतानामुत्तमं व्रतम् ।।
तदस्मै कथयामास सरहस्यमशेषतः ।। २४ ।।
तच्छ्रुत्वा कर्तुमारब्धं सुरेशेन सुरैस्तथा ।।
दैत्यदानवगंधर्वैर्यक्षैः प्रक्षीणकल्मषैः ।। २५ ।।
सिद्धैः प्रसिद्धचरितैर्विष्णुना प्रभविष्णुना ।।
ब्राह्मणैर्ब्रह्मतत्त्वज्ञैः समर्थैः पार्थिवैः सह ।। २६ ।।
कैश्चित्सात्त्विकभावेन राजसेनापरैरपि ।।
तामसेन तथा कैश्चित्कृतं व्रतमिदं तथा ।। २७ ।।
व्रते समाप्ते भूयिष्ठे निष्ठया परया प्रभो ।।
देवानां दानवानां च युद्धमासीदथोद्धतम् ।। २८ ।।
निर्मथ्य भुजवीर्येण सागरं सरितां पतिम्।।
समाहरामो ह्यमृतं हिताय त्रिदिवौकसाम् ।। २९ ।।
इत्येवं समयं कृत्वा ममंथुर्वरुणालयम् ।।
मंथानं मंदरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।। 4.37.३० ।।
मथ्यमानजलाज्जातश्चन्द्रः शीतांशुरुज्ज्वलः ।।
अनंतरं समुत्पन्ना लक्ष्मीः क्षीराब्धिमध्यतः ।। ३१ ।।
तया विलोकिताः सर्वे दैत्यदानवसत्तमाः ।।
आलोक्य सा जगामाशु विष्णोर्वक्षःस्थलं शुभम् ।। ३२ ।।
विधिना विष्णुना चीर्णं व्रतं तेनाब्धिसंभवा ।।
शरीरस्था बभूवास्य विभ्रमोद्भ्रांतलोचना ।। ३३ ।।
किं च राजसभावेन शक्रेणैतत्कृतं यतः ।।
ततस्त्रिभुवनैश्वर्यं प्राप्तं तेन महर्द्धिकम् ।। ३४ ।।
तमसावृतचित्तैस्तु संचीर्णं दैत्यदानवैः ।।
तेन तेषामथैश्वर्यं दृष्टनष्टमभूत्किल ।।३५।।
एवं सश्रीकमभवत्सदेवासुरमानुषम् ।।
जरच्च जगतां श्रेष्ठ व्रतस्यास्य प्रभावतः ।। ३६ ।।
।। युधिष्ठिर उवाच ।। ।।
कथमेतद्व्रतं कृष्ण क्रियते मनुजैः कदा ।।
प्रारभ्यते पार्यते च सर्वं वद यदूत्तम ।। ३७ ।।
।। श्रीकृष्ण उवाच ।। ।।
मार्गशीर्षे सिते पक्षे पंचम्यां पतगोदये ।।
उपवासस्य नियमं कुर्यादाशु सुहृद्धृदि ।। ३८ ।।
स्वर्णरौप्यारकूटोत्था ताम्रमृत्काष्ठजाथ वा ।।
चित्रपट्टगतां देवीं लक्ष्मीं क्ष्मापाल कारयेत् ।। ३९ ।।
पद्महस्तां पद्मवर्णां पद्मां पद्मदलेक्षणाम् ।।
दिग्गजेन्द्रैः स्नाप्यमानां कांचनैः कलशोत्तमैः ।। 4.37.४० ।।
ततो यामत्रये जाते निम्नगायां गृहेऽथ वा ।।
स्नानं कुर्यादसंभ्रातं शक्रवदुपचारतः ।। ४१ ।।
देवान्पितॄंश्च संतर्प्य ततो देवगृहं व्रजेत् ।।
तत्रस्थां पूजयेद्देवीं पुष्पै स्तत्कालसंभवैः ।। ४२ ।।
चपलायै नमः पादौ चंचलायै च जानुनी ।।
कटिं कमलवासिन्यै नाभिं ख्यात्यै नमोनमः ।। ४३ ।।
स्तनौ मन्मथवासिन्यै ललितायै भुजद्वयम् ।।
उत्कंठितायै कण्ठं च माधव्यै मुखमण्डलम् ।। ४४ ।।
नमः श्रियै शिरः पूज्य दद्यान्नैवेद्यमादरात् ।।
फलानि च यथालाभं विरूढान्धान्यसंचयान् ।। ४५ ।।
ततः सुवासिनी पूज्या कुसुमैः कुंकुमेन च ।।
भोजयेन्मधुरान्नेन प्रणिपत्य विसर्जयेत् ।। ४६ ।।
ततस्तु तंडुलप्रस्थं घृतपात्रेण संयुतम् ।।
ब्राह्मणाय प्रदातव्यं श्रीशः संप्रीयतामिति ।। ४७ ।।
निर्वर्त्य तदशेषेण ततो भुञ्जीत वाग्यतः ।।
मासानुमासं कर्तव्यं विधिनानेन भारत ।। ४८ ।।
श्रीर्लक्ष्मीः कमला संपदुमा नारायणी तदा ।।
पद्मा धृतिः स्थितिः पुष्टिर्ऋद्धिः सिद्धिर्यथाक्रमम् ।।
मासानुमास राजेन्द्र प्रीयतामिति कीर्तयेत् ।। ४९ ।।
ततश्च द्वादशे मासि संप्राप्ते पंचमे दिने ।।
वस्त्रमंडपिकां कृत्वा पुष्पगन्धाधिवासिताम् ।। ।। 4.37.५० ।।
शय्यायां स्थापयेल्लक्ष्मीं सर्वोपस्करसंयुताम् ।।
मौक्तिकाष्टकसंयुक्तां नेत्रपट्टावृतस्तनीम् ।। ५१ ।।
सप्तधान्यसमोपेतां रसधातुसमन्विताम्।।
पादुकोपानहच्छत्रभाजनासनसत्कृताम्।।५२।।
दद्यात्संपूज्य विधिवद्ब्राह्मणाय कुटुम्बिने।।
व्यासाय वेदविदुषे यस्य वा रोचते स्वयम्।।
सोपस्करां सवत्सां च धेनुं दत्त्वा क्षमापयेत्।।५३।।
क्षीराब्धिमथनोद्भूते विष्णोर्वक्षःस्थलालये ।।
सर्वकामप्रदे देवि ऋद्धिं यच्छ नमोऽस्तु ते ।।५४।।
ततः सुवासिनीः पूज्य वस्त्रैराभरणैः शुभैः ।।
भोजयित्वा स्वयं पश्चाद्भुञ्जीत सह बन्धुभिः ।। ५५ ।।
एवं यः कुरुते पार्थ भक्त्या श्रीपञ्चमीव्रतम्।।
तस्य श्रीर्भवने भाति कुलानामेकविंशतिः ।। ५६ ।।
नारी वा कुरुते या तु प्राप्यानुज्ञां स्वभर्तृतः ।।
सुभगा दर्शनीया च बहुपुत्रा च जायते ।।५७।।
श्रीपञ्चमीव्रतमिदं दयितं मुरारेर्भक्त्या समाचरति पूज्यभृगोस्तनूजाम् ।।
राज्यं निजं स भुवि भव्यजनोपभोगान्भुक्त्वा प्रयाति भुवनं मधुसूदनस्य।।५८।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पञ्चमीव्रतकल्पे श्रीपञ्चमीव्रतनिरूपणं नाम सप्तत्रिंशत्तमोऽध्यायः ।।३७।।