भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०४४

← अध्यायः ०४३ भविष्यपुराणम्
अध्यायः ०४४
वेदव्यासः
अध्यायः ०४५ →

आदित्यमण्डलविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथान्यदपि ते वच्मि दानं श्रेयस्करं परम् ।।
आदित्यमंडलं नाम सर्वाशुभविनाशनम् ।। १ ।।
यवचूर्णेन शुभ्रेण कुर्याद्गोधूमजेन वा ।।
सुपक्वं भानुबिंबाभं गुडगव्याज्यपूरितम् ।। २ ।।
संपूज्य भास्करं भक्त्या तदग्रे मंडलं शुभम् ।।
रक्तचन्दनजं कुर्यात्कुंकुमं वा विशेषतः ।। ३ ।।
मण्डलं तत्र संस्थाप्य रक्तवस्त्रैः सुपूजितम् ।।
ब्राह्मणाय प्रदातव्यं मंत्रेणानेन पांडव ।। ४ ।।
आदित्यतेजसोत्पन्नं राजतं विधिनिर्मितम् ।।
श्रेयसे मम विप्र त्वं प्रतिगृह्णेदमुत्तमम् ।। ५ ।। (इति दानमंत्रः)
कामदं धनदं धर्म्यं पुत्रदं सुखदं तव ।।
आदित्यप्रीतये दत्तं प्रतिगृह्णामि मंडलम् ।। ६ ।। ( इति प्रतिग्रहमंत्र)
एवं दत्त्वा नरो राजन्सूर्यवद्दिवि राजते ।।
सर्वकामसमृद्धार्थो मंडलाधिपतिर्भवेत् ।। ७ ।।
दातव्यं जयसप्तम्यां तदारभ्य दिनेदिने ।।
भास्करस्य महाराज शक्त्या भावेन भावितः ।। ८ ।।
गोधूमचूर्णजनितं यवचूर्णजं वा आदित्यमंडलमखण्डगुडाद्यपूर्णम् ।।
कृत्वा द्विजाय विधिवत्प्रतिपादयेद्यो भूमौ भवत्यमितमंडलमंडितोऽसौ ।। ९ ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे आदित्यमंडलविधिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।