भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०४६

कुक्कुटीमर्कटीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
लोमशो नाम विप्रर्षिर्मथुरायां गतः पुरा ।।
सोर्चितो वसुदेवेन देवक्या च युधिष्ठिर ।। १ ।।
उपविष्टः कथाः पुण्याः कथयित्वा मनोहराः ।।
ततः कथयितुं भूयः कथामेतां प्रच क्रमे ।।२।।
कंसे हते मृताः पुत्राः पुत्रा जाताः पुन. पुनः ।।
मृतवत्सा देवकि त्वं पुत्रदुःखेन दुःखिता।।३।।
यथा चन्द्रमुखी दीप्तिर्बभूव मृतपुत्रिका ।।
पश्चाच्चीर्णव्रता सैव बभूवाक्षतवत्सका ।।
त्वमेव देवकि तथा भविष्यसि न संशयः ।।४।।
।। देवक्युवाच ।। ।।
का सा चन्द्रमुखी ब्रह्मन्बभूव बहु पुत्रिका ।। ५ ।।
चरितं किं व्रतवरं बहुसंततिकारकम् ।।
सतां सदर्थकरणं सौभाग्यारोग्यवर्द्धनम् ।। ६ ।।
।। लोमश उवाच ।। ।।
अयोध्यायां पुरा राजा नुहुषो नाम विश्रुतः ।।
तस्य राज्ञो महादेवी नाम्ना चन्द्रमुखी पुरा ।। ७ ।।
पुरोहितस्य तस्यैव पत्न्यासीन्मानमानिका ।।
तयोरासीद्दृढा प्रीतिः स्पृहणीया परस्परम् ।। ८ ।।
अथापि तेपि मित्रिण्यौ स्नानार्थं सरयूजले ।।
प्राप्ते प्राप्ताश्च तत्रैव बह्व्यश्च नगराङ्गनाः ।। ९ ।।
स्नात्वा तु मंडल चक्रुः स्वपतेर्व्यक्तरूपिणः ।।
लेखयित्वा शिवं शांतमुमया सह शंकरम् ।। 4.46.१० ।।
गन्धपुष्पाक्षतैर्भक्त्या पूजयित्वा यथाविधि ।।
प्रणम्य गंतुकामास्ताः पृष्टास्ताभ्यां नरस्त्रियः ।। ११ ।।
ता ऊचुः शङ्करोऽस्माभिः पार्वत्या सह पूजितः ।।
स्वर्णसूत्रमयस्तंतुः शिवायात्मा निवे दितः ।। १२ ।।
धारामयमिदं तावद्यावत्प्राणावधारणम् ।।
तासां तु वचनं श्रुत्वा मित्रिण्यौ तेऽपि भारत ।। १३ ।।
तस्यैव समयं तत्र बद्ध्वा दोर्भ्यां तु दोरकैः ।।
ततस्ताः स्वगृहाञ्जग्मुः स्वसखीभिः समावृताः ।। १४ ।।
कालेन महता यातं तस्या वै तद्व्रत नृप ।।
चंद्रवत्याः प्रमत्ताया विस्मृतः स तु दोरकः ।। १५ ।।
मृता कैश्चिदहोरात्रैः सा बभूव प्लवङ्गमी ।।
मानी च कुक्कुटी जाता प्रायः संनिकटञ्चरे ।। ।। १६ ।।
तथैव जाते मित्रिण्यौ पूर्वजातिस्मरे तथा ।।
संभूय भूपसमयं प्राग्भूतं चक्रतुः पुनः ।। १७ ।।
तद्दिने तत्र संप्राप्ते पुनः काले न ते मृते ।।
तत्रैव मात्रके देशे जाते गोकुलसंयुते ।। १८ ।।
राज्ञो जाया बभूवाथ पृध्वीनाथस्य वा पुनः ।।
ईश्वरी नाम विख्याता राज्ञी राजेंद्रवल्लभा ।। १९ ।।
अग्निमीला द्विजस्याभूद्भार्या भूषणनामिका ।।
पुरोहितस्य कालेन कुक्कुटी बहुपुत्रिणी ।। 4.46.२० ।।
जातिस्मरा पद्महस्ता अष्टपुत्रा मृतप्रजा ।।
पुनर्निरन्तरा प्रीतिर्बभूवाथ तयोर्नृप ।। २१ ।।
तत्रेश्वरी पुत्रमेकं प्रसूता चैव रोगिणम् ।।
नववर्षस्तु पञ्चत्वमगात्स च युधिष्ठिर ।। २२ ।।
ततस्तां भूषणां द्रष्टुमथैषा पुत्रदुःखिता ।।
सखीभावादतिस्नेहात्सर्वपुत्रसमन्विता ।।
अमुक्ताभरणा नित्यं स्वभावेनैव भूषिता ।। २३ ।।
तां दृष्ट्वा पुत्रिणीं भव्यां प्रजज्वालेश्वरी रुषा ।।
ततो गृहं प्रेष्य च तां सखीं वै तीव्रमत्सरा ।। २४ ।।
चिन्तयामास सा रात्र्यां तस्याः पुत्रवधं प्रति ।।
हताहताश्च तत्पुत्रा पुनर्जीवन्त्यनामयाः ।। २५ ।।
कदाचिदाहूय सखीं भूषणां पुरतः स्थिताम् ।।
ईश्वरी प्राह किमिदं सखि पुण्यं त्वया कृतम् ।। २६ ।।
येन ते निहताः पुत्राः पुनर्जीवन्ति नो भयम् ।।
बहुपुत्रा जीववत्सा अमुक्ताभरणा कथम् ।।
शोभसेऽभ्यधिकं भद्रे विद्युत्सौदामिनीव हि ।। २७ ।।
।। भूषणोवाच ।। ।।
भद्रे भाद्रपदे मासि सप्तम्यां सलिलाशये ।।
स्नात्वा शिवमंडलके लेखयित्वा सहांबिकम् ।। २८ ।।
भक्त्या संपूज्य समयं कुर्याद्बद्ध्वा करे गुणम् ।।
यावज्जीवं मया तावच्छिवस्यात्मा निवेदितः ।। २९ ।।
इत्येवं समयं कृत्वा ततःप्रभृति दोरकम् ।।
स्वर्णरौप्यमयं वापि करशाखासु धारयेत् ।। 4.46.३० ।।
मंडकं वेष्टिकां दयाच्छ्वश्रूपक्षे द्विजे तु वा ।।
स्वयं च ता न भोक्तव्या व्रतभंगभयात्सखि ।। ३१ ।।
परितो मुद्रिका रौप्या सौवर्णीं च युधिष्ठिर ।।
ताम्रपात्रोपरि स्थाप्य ब्राह्मणाय निवेदयेत् ।। ३२ ।।
सोहालकानि कांसारं दद्याद्भुञ्जीत च स्वयम् ।।
मण्डलं सद्म वित्तं च शिवं शक्तिसमन्वितम् ।। ३३ ।।
सम्पूज्य सखि दुष्प्राप्यं त्रैलोक्येऽपि न विद्यते ।।
तदेवं समयः पूर्वं त्वया सह मया कृतः ।। ३४ ।।
स मया पालितो भक्त्या ततोऽहं सुस्थिता सखि ।।
त्वया स भग्नः समयो दर्पात्त्यक्तः शरीरयोः ।। ३५ ।।
तेन सन्ततिविच्छिन्ना राज्येपि सति दुःखिता ।।
एष प्रभावः कथितो व्रतस्यास्य मया तव ।। ३६ ।।
अर्द्धं तव प्रदास्यामि तस्य धर्मस्य सुव्रते ।।
सखीभावात्प्रतीच्छ त्वं नात्र कार्या विचारणा ।। ३७ ।।
इत्युक्त्वा प्रतिजग्राह व्रतदानफलं ततः ।।
बभूव सुप्रजाः साध्वी मोक्षं प्राप सुरेश्वरी ।। ३८ ।।
व्रतस्यास्य प्रभावेण सपुत्रा त्वं च देवकि ।।
भविष्यसि त्रिलोकेशं पुत्रं च जनयिष्यसि ।। ३९ ।।
इत्येवं कथयित्वास्यै लोमशो मुनिपुंगवः ।।
जगाम नभसा पार्थ मयाऽप्येतत्तवोदितम्।। 4.46.४० ।।
ये चरिष्यंति मनुजा व्रतमेतद्युधिष्ठिर ।।
कृकवाकुप्रसङ्गाख्यं देवक्या चरितं शुभम् ।। ४१ ।।
तेषां सन्ततिविच्छेदो न कदाचिद्भविष्यति ।।
स्त्रियश्च याश्चरिष्यंति व्रतमेतत्सुतप्रदम् ।।
मर्त्यलोके सुखं स्थित्वा यास्यंति शिवमंदिरम् ।। ४२ ।।
यः कुक्कुटीव्रतवरं प्लवगीसमेतं चक्रे चराचरगुरुं हृदये निधाय ।।
तद्व्याकरोति कलुषौघविघातरक्षां सा स्त्री युवां भवति शोभनगीतवत्सा ।। ४३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कुक्कुटीमर्कटीव्रतवर्णनं नाम षट्चत्वारिंशोऽध्यायः ।। ४६ ।।