भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०४९

शर्करासप्तमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
शर्करासप्तमीं वक्ष्ये सर्वकल्मषनाशिनीम् ।।
आयुरारोग्यमैश्वर्यं ययानंतं प्रजायते ।। १ ।।
माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः ।।
प्रातः स्नात्वा तिलैः शुद्धैः शुक्लमाल्यानुलेपनैः ।। २ ।।
स्थंडिले पद्ममालिख्य कुंकुमेन सकर्णिकम् ।।
तस्मिन्नमः सवित्रेति गन्धपुष्पं निवेदयेत्।।३।।
स्थापयेदुदकुंभं च शर्करापात्रसंयुतम् ।।
रक्तवस्त्रैः स्वलंकृत्य शुक्लमाल्यानुलेपनैः ।। ४ ।।
सुवर्णाश्वसमायुक्तं मंत्रेणानेन पूजयेत् ।।
विश्वेदेवमयो यस्माद्वेदवादीति पठ्यते ।। ५ ।।
त्वमेवामृतसर्वस्वमतः पाहि सनातन ।।
सौरसूक्तं जपंस्तिष्ठेत्पुराणश्रवणेन वा ।। ६ ।।
अहोरात्रे गते पश्चादष्टम्यां कृतनित्यकः ।।
सर्वं च वेदविदुषे ब्राह्मणायोपपादयेत् ।।७।।
भोजयेच्छक्तितो विप्राञ्छर्कराघृतपायसैः ।।
भुञ्जीत तैललवणं स्वयमप्यथ वाग्यतः ।। ।। ८ ।।
अनेन विधिना सर्वं मासिमासि समाचरेत् ।।
वत्सरांते पुनर्दद्याद्ब्राह्मणाय समाहितः ।। ९ ।।
शयनं वस्त्रसंवीतं शर्कराकलशान्वितम् ।। ।
सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् ।। 4.49.१० ।।
गृहं च शक्तितो दद्यात्समस्तोपस्करान्वितम् ।।
सहस्रेणापि निष्काणां कृत्वा दद्याच्छतेन वा ।।। ११ ।।
दशभिर्द्वित्रिभिर्निष्कैस्तदर्धेनापि भक्तितः ।।
सुवर्णाश्वः प्रदातव्यः पूर्ववन्मंत्रवाचनम् ।। १२ ।।
वित्तशाठ्यं न कुर्वीत कुर्वन्दोषान्स मश्नुते ।।
अमृतं पिबतो वक्त्रात्सूर्यस्यामृतबिन्दवः।।१३।।
निपेतुरेत उत्थाय शालिमुद्गेक्षवः स्मृताः ।।
शर्करा च परं तस्मादिक्षुरसोद्भवा मता।।१४।। ।
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ।।
शर्करासप्तमी चैषा वाजिमेधफलप्रदा ।। १५ ।।
सर्वे ह्युपशमं यांति पुनः संततिवर्द्धिनी ।।
यः कुर्यात्परया भक्त्या स परं ब्रह्म गच्छति ।। १६ ।।
कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम् ।। १७ ।।
इदमनघ शृणोति यः स्मरेद्वा परिपठतीह सुरेश्वरस्य लोके ।।
मतिमपि च ददाति यो जनानाममरवधूजनकिन्नरैः स पूज्यः ।। १८ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे शर्करासप्तमीव्रतवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ।। ४९ ।।