भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५३
अचलासप्तमीव्रतवर्णनम्
।। युधिष्ठिर उवाच ।।
अध्रुवेण शरीरेण सुपक्वेनापि किं फलम् ।।
माघस्नानविहीनेन यत्त्यक्तं यदुनन्दन ।। १ ।।
प्रातःस्नानासमर्थानां शरीरं पश्य देहिनाम् ।।
किं तेन वद कर्तव्यं माघे संसारभीरुणा ।। २ ।।
कायक्लेशसहा नार्यो न भवंति यदूत्तम ।।
सौकुमार्यं शरीरस्य अचलत्वात्तथैव च ।। ३ ।।
कथं च ताः सुरूपाः स्युः सुभगाः सुप्रजास्तथा ।।
सुकृतस्येह पुण्यस्य सर्वमेतत्फलं यतः ।। ४ ।।
अल्पायासेन सुमहद्येन पुण्यमवाप्यते ।।
स्त्रीभिर्माघे मम ब्रूहि स्नानं तत्त्वं रमाधव ।।५।।
।। श्रीकृष्ण उवाच ।। ।।
श्रूयतां पांडवश्रेष्ठ रहस्यमृषिभाषितम्।।
यन्मया कस्यचिन्नोक्तमचलासप्तमीव्रतम् ।। ।। ६ ।।
वेश्या चेन्दुमती नाम रूपौदार्यगुणान्विता ।।
आसीत्कुरुकुलश्रेष्ठ मगधस्य विलासिनी ।। ७ ।।
तनुमध्या सुजघना पीनोन्नतपयोधरा ।।
सम्यग्विभक्तावयवा पूर्णचन्द्रनिभानना ।। ८ ।।
सौंदर्यं सौकुमार्यं च तस्याः कामेन गीयते ।।
यस्याः संदर्शनादेव कामः कामातुरो भवेत् ।।९।।
मूर्तिः शशधरस्येव नयनानन्दकारिणी ।।
वशीकरणविद्येव सर्वलोकमनोहरा ।। 4.53.१० ।।
एकस्मिन्दिवसे प्रातः सुमुखस्थितया तया ।।
चिंतिता हृदये राजन्त्संसारस्यानवस्थितिः ।। ११ ।।
सन्निमज्य जगदिदं विषये कायसागरे ।।
जन्ममृत्युजराग्राहं न कश्चिदवबुद्ध्यते ।। १३ ।।
अपाको भूतभाण्डानां धातृशिल्पिविनिर्मितम् ।।
स्वकर्मेंधनसंवीतं पच्यते बालवह्निना ।। १३ ।।
ये यांति दिवसाः पुंसां धर्मकामार्थवर्जिताः ।।
न ते पुनरिहायांति हरभक्ता नरा यथा ।। १४ ।।
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।।
यस्मिन्दिने न क्रियते वृथा स दिवसो नृणाम् ।। ।। १५ ।।
पुत्राणां दारगृहकसमासक्तं हि मानसम्।।
वृकीवोरणमासाद्य मृत्युर्द्वाराय गच्छति ।। १६ ।।
इत्येवं चिंतयित्वा तु वेश्या चेन्दुमती ततः।।
वशिष्ठस्याश्रमं पुण्यं जगाम गजगामिनी ।। १७ ।।
वशिष्ठमृषिमासीनं प्रणम्य विनयात्ततः ।।
कृताञ्जलिपुटा भूत्वा इदं वचनमब्रवीत् ।। १- ।।
।। इन्दुमत्युवाच ।।
दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ।।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ।।१९।।
मया न दत्तं न हुतं नोपवासो व्रतं कृतम् ।।
भक्त्या न पूजितः शम्भुः श्रितो नैको धनी नरः ।। 4.53.२० ।।
सांप्रतं वर्तमानाया व्रतं किंचिद्वदस्व मे ।।
येन दुःखांबुपापौघादुत्तरामि भवार्णवात् ।। २१ ।।
एतदस्याः सुबहुशः श्रुत्वा धर्मं परंतपः ।।
वशिष्ठः कथयामास महाकारुणिको मुनिः ।। २२ ।।
।। वशिष्ठ उवाच ।। ।।
माघस्य सितसप्तम्यां सर्वकामफलप्रदम् ।।
तपःसौभाग्यजननं स्नानं तव वरानने ।।२३।।
कृत्वा षष्ठ्यामेकभक्तं सप्तम्यां निश्चलं जलम् ।।
रात्र्यंते चालयेथास्त्वं दत्त्वा शिरसि दीपकम्।। २४ ।।
माघस्य सितसप्तम्यामचलं चालितं मया ।।
जलामलानां सर्वेषां कृतं न चलनं तथा ।। २५ ।।
वशिष्ठवचनं श्रुत्वा तस्मिन्नहनि भूपते ।।
सर्वं चकारेन्दुमती स्नानं दानं यथाविधि ।। २६ ।।
त्र्यहस्नानप्रभावेण भुक्त्वा भोग्यान्यथेप्सितान् ।।
इन्द्रलोकेप्सरःसंघे नायिकात्वमवाप सा ।। २७।।
अचलासप्तमीस्नानं कथितं च विशांपते ।।
सर्वपापप्रशमनं सुखसौभाग्यवर्द्धनम् ।। २८ ।।
।। युधिष्ठिर उवाच ।।
सप्तमीस्नानमाहात्म्यं श्रुतं न च विशेषतः ।।
सांप्रतं श्रोतुमिच्छामि विधिमंत्रसमन्वितम् ।।२९।।
।। श्रीकृष्ण उवाच ।। ।।
एकभक्तेन संतिष्ठेत्षष्ठ्यां संपूज्य भास्करम् ।।
सप्तम्यां तु व्रजेत्प्रातः सुगंभीरं जलाशयम् ।। 4.53.३० ।।
सरित्संगं तडागं च देवखातमथापि वा ।।
सुखावगाहसलिलं दुष्टसत्त्वैरदूषितम् ।। ३१।।
पशुभिः पक्षिभिश्चैव जलजैर्मत्स्यकच्छपैः ।।
न जलं चाल्यते यावत्तावत्स्नानं समाचरेत् ।।३२।।
नमस्ते रुद्ररूपाय रसानां पतये नमः ।।
वरुणाय नमस्तेऽस्तु हरिवास नमोऽस्तु ते ।। ३३ ।।
यावज्जन्म कृतं पापं मया जन्मसु सप्तसु ।।
तन्मे रोगं च शोकं च माकरी हंतु सप्तमी ।। ३४ ।।
जननी सर्वभूतानां सप्तमी सप्तसप्तिके ।।
सर्वव्याधिहरे देवि नमस्ते रविमंडले ।। ३५ ।।
जलोपरितरं दीपं स्नात्वा संतर्प्य देवताः ।।
चंदनेन लिखेत्पद्ममष्टपत्रं सकर्णिकम् ।।३६।।
मध्ये शर्वं सपत्नीकं प्रणवेन तु पूजयेत् ।।
भानुं शक्रे दले पूज्य रविं वैश्वानरे दले।।३७।।
याम्ये विवस्वान्नैर्ऋत्ये भास्करस्येति पूजयेत् ।।
पश्चिमे सविता पूज्यः पूज्योर्को वायुना जले ।।३८।।
सौम्ये सहस्रकिरणः शेषे सर्वात्मनेति च ।।
पूज्याः प्रणवपूर्वास्तु नमस्कारांतयोजिताः ।।३९।।
पुष्पैः सुगन्धधूपैश्च वस्त्रेणाच्छाद्य भास्करम्।।
विसर्जयेत्ततः पश्चात्स्वस्थानं गम्यतामिति ।। 4.53.४० ।।
ताम्रपात्रे सुविस्तीर्णे मृन्मये वा युधिष्ठिर ।।
स्थापयेत्तिलचूर्णं च सघृतं सगुडं तथा ।। ४१ ।।
काञ्चनं तालकं कृत्वा ह्यसिक्तस्तिलचूर्णकम् ।।
संस्थाप्य रक्तवस्त्रैस्तु पुष्पैर्धूपैस्तथार्चयेत् ।। ४२ ।।
ततस्तं ब्राह्मणे दद्याद्दत्त्वा मंत्रेण तालकम् ।।
आदित्यस्य प्रसादेन प्रातः स्नानफलं भजेत् ।। ४३ ।।
दुष्टदौर्भाग्यदुःखेभ्यो मया दत्तं तु तालकम् ।।
ततस्तत्तालकं कृत्वा ब्राह्मणायोपपादयेत्।। ४४ ।।
सपुत्रपशुभृत्याय मेऽर्कोयं प्रीयतामिति ।।
ततो व्रतोपदेष्टारं पूजयेद्वस्त्रगोतिलैः ।। ४५ ।।
विप्रानन्यान्यथाशक्त्या पूजयित्वा गृहं व्रजेत् ।।
एतत्ते कथितं कार्यं रूपसौभाग्यकारकम् ।। ४६ ।।
अचलासप्तमीस्नानं सर्वकामफलप्रदम् ।। ४७ ।।
इति पठति य इत्थं यः शृणोति प्रसंगात्कलिकलुषहरं वै सप्त मीस्नानमेतत् ।।
मतिमपि नयनानां यो ददाति प्रसंगात्सुरभवनगतोऽसौ पूज्यते देवसंघैः ।। ४८ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽचलासप्तमीव्रतविधिवर्णनं नाम त्रिपंचाशत्तमोऽध्यायः ।। ५३ ।।