भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६७

रोहिणीचन्द्रव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
घनावृते वरे देवे वर्षाकाले ह्युपस्थिते ।।
मयूरकेकाकुलिते दर्दुरारावपूरिते ।। १ ।।
कुलस्त्रियः प्रयच्छंति कस्यान्नं काऽत्र देवता ।।
किं व्रतं कृष्ण विख्यातमन्नं कस्यां तिथौ भवेत् ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
प्रवृत्ते श्रावणे मासि कृष्णपक्षे ह्युपस्थिते ।।
एकादश्यां शुचिर्भूत्वा सर्वौषधिजलैः शुभैः ।। ३ ।।
माषचूर्णेन राजेन्द्र कुर्यादिंदुरिकाशनम् ।।
मोदकांश्च तथा पंच घृतपक्वान्सुनिर्मलान् ।। ४ ।।
नरमेकैकमुद्दिश्य ततो गत्वा जलाशयम् ।।
दुष्टयादोविरहितं सतोयं जलजैर्युतम् ।। ५ ।।
तस्यैव पुलिने रम्ये जुष्टान्ने गोमयादिना ।।
कृत्वा मंडलकं वृत्तं पिष्टकादिभिरर्चितम् ।। ६ ।।
चर्चितं गंधकुसुमैर्धूप दीपाक्षतोज्ज्वलम् ।।
तत्र चंद्रं लिखेदेव रोहिण्या सहितं विभुम्।।
अर्चयेच्च सभार्यो वै मन्त्रेणानेन भावितः ।।७ ।।
सोमराज नमस्तुभ्यं रोहिण्यै ते नमोनमः ।।
महासति महादेवि संपादय ममेप्सितम् ।। ८ ।।
एवं संपूज्य तस्याग्रे नैवेद्यं देयमर्चितम् ।।
तत्रैव ब्राह्मणे दद्यात्सोमो मे प्रीयता मिति ।।
प्रीयतामिति मे देवी रोहिणी सहितप्रिया ।। ९ ।।
एवमुच्चार्य दत्त्वा च ततोंऽतर्जलमाविशेत् ।।
कंठांतं कटिमात्रं वा गुल्फांतं वा जला शये ।। 4.67.१० ।।
ध्यायेच्च मनसा सोमं रोहिणीसहितं तदा ।।
यावत्समस्तं तद्भुक्तं भुक्त्वा चांतस्तटे स्थितः ।। ११ ।।
नियम्य वसतां चान्ये ततो विप्राय भोजनम् ।।
दक्षिणासहितं देयं निश्चयं वाचि कल्पयेत् ।।
भक्त्या शक्त्या यथाचित्तं यथावित्तं तथा तथा ।। १२ ।।
यः करोति नरो राजन्नारी वाथ कुमारिका ।।
वर्षेवर्षे विधानेन पार्थेदं रोहिणीव्रतम् ।। १३ ।।
इह लोके चिरं स्थित्वा धनधान्यसमाकुले ।।
गृहाश्रमे शुभां लब्ध्वा पुत्रपौत्रादिसंततिम् ।। १४ ।।
ततः सुतीर्थे मरणं ततो ब्रह्मपुरं व्रजेत् ।।
तस्माद्विष्णुपुरं पार्थ ततो रुद्रपुरं शुभम् ।।१५।।
खे रोहिणी शशधराभिमता हिता च किं कारणं शृणु नरेन्द्र निवेदयामि ।।
संपिष्टमाषरचितेंदुरिकाशितुं यद्भुक्तं जले गुडघृतेन फलं तदेतत् ।।१६।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रोहिणीचन्द्रव्रतं नाम सप्तषष्टितमोध्यायः ।। ६७ ।।