भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७०
देवशयनोत्थापनद्वादशीव्रतवर्णनम्
।। श्रीकृष्ण उवाच ।। ।।
शृणु पार्थ प्रवक्ष्यामि गोविन्दशयनं व्रतम् ।।
कटदानं समुत्थानं चातुर्मास्यव्रतक्रमम् ।। १ ।।
।। युधिष्ठिर उवाच ।। ।।
किं देवशयनं नाम देवस्स्वपिति चाप्यसौ ।।
देवः किमर्थं स्वपिति किं विधानं सदा वद ।। २ ।।
के मंत्राः के च नियमा व्रतान्यथ क्रिया च का ।।
किं ग्राह्यं किं च भोक्तव्यं सुप्ते देवे जनार्दने ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
मिथुनस्थे सहस्रांशौ स्थापयेन्मधुसूदनम् ।।
तुलाराशिगते तस्मिन्पुनरुत्थापयेद्व्रतम् ।। ४ ।।
अधिमासे च पतिते एष एव विधिक्रमः ।।
नान्यथा स्थापयेद्देवं न चैवोत्थापयेद्धरिम् ।। ५ ।।
आषाढस्य सिते पक्षे एकादश्यामुपोषितः ।।
स्थापयेद्भक्तिमान्विष्णुं शंखचक्रगदाधरम् ।। ६ ।।
पीतांबरधरं सौम्यं पर्यंके स्वास्तृते शुभे ।।
शुक्लवस्त्रसमाच्छन्ने सोपधाने युधिष्ठिर ।। ७ ।।
इतिहासपुराणज्ञो विष्णुभक्तोपि यः पुमान् ।।
स्नापयित्वा दधिक्षीरघृतक्षौद्रजलैस्तथा ।। ८ ।।
समालभ्य शुभैर्गंधैर्धूपैर्व स्त्रैरलंकृतम् ।।
पूजयित्वा कुंकुमाद्यैर्मंत्रेणानेन पाण्डव ।। ९ ।।
सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् ।।
विबुद्धे त्वयि बुध्येत जगत्सर्वं चराचरम् ।। 4.70.१० ।।
एवं तां प्रतिमां विष्णोः स्थापयित्वा युधिष्ठिर ।।
तस्यैवाग्रे स्वयं वाचं गृह्णीयान्नियमांस्ततः ।। ११ ।।
चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि ।।
स्त्री वा नरो वा मद्भक्तो धर्मार्थं सुदृढव्रतः ।।१२।।
गृह्णीयान्नियमानेतान्दंतधावनपूर्वकम् ।।
तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक्पृथक् ।। १३ ।।
मधुरस्वरो भवेद्राजा पुरुषो गुडवर्जनात् ।।
तैलस्य वर्जनात्पार्थ सुन्दरांगः प्रजायते ।। १४ ।।
कटुतैलपरित्यागाच्छत्रुक्षयमवाप्नुयात् ।।
मधूकतैलत्यागेन सौभाग्यमतुलं भवेत् ।। १५ ।।
पुष्पादिभोगत्यागेन स्वर्गे विद्याधरो भवेत् ।।
योगाभ्यासी भवेद्यस्तु स ब्रह्मपदमाप्नुयात् ।। १६ ।।
कटुकाम्लतिक्तमधुरक्षारकाषायमेव च ।।
यो वर्जयेत्स वैरूप्यं दौर्गत्यं नाप्नुयात्क्वचित् ।। १७ ।।
तांबूलवर्जनाद्भोगी रक्तकण्ठश्च जायते ।।
घृतत्यागात्सुलावण्यं सर्वसिद्धिः पुनर्भवेत् ।। १८ ।।
फलत्यागाच्च मतिमान्बहुपुत्रश्च जायते ।।
शाकपत्राशनाद्रोगी अपक्वादोऽमलो भवेत् ।। १९ ।।
पादाभ्यंगपरित्यागाच्छिरोभ्यंगाच्च पार्थिव ।।
दीप्तिमान् दीप्तकरणो यक्षो द्रव्यपतिर्भवेत् ।। 4.70.२० ।।
दधिदुग्ध तक्रनियमाद्गोलोकं लभते नरः ।।
इन्द्रातिथित्वमाप्नोति स्थालीपाकविवर्जितात् ।। २१ ।।
लभेत संततिं दीर्घां तापपक्वस्य भक्षणात् ।।
भूमावस्तरशायी च विष्णोरनुचरो भवेत् ।। २२ ।।
सदा मुनिः सदा योगी मधुमांसस्य वर्जनात् ।।
निर्व्याधिर्नीरुजौजस्वी सुरामद्यविवर्जनात् ।। ।। २३ ।।
एवमादिपरित्यागाद्धर्मः स्याद्धर्मनन्दन ।।
एकांतरोपवासेन ब्रह्मलोके महीयते ।। २४ ।।
धारणं नखरोमाणां गंगास्नानं दिनेदिने ।।
मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् ।। २५ ।।
भूमौ भुंक्ते सदा यस्तु स पृथिव्याः पतिर्भवेत् ।।
नमो नारायणायेति जपतोनशनं फलम् ।। २६ ।।
पादाभिवंदनाद्विष्णोर्लभेद्गोदानजं फलम् ।।
विष्णुपादांबुसंस्पर्शात्कृतकृत्यो भवेन्नरः ।। २७ ।।
विष्णुदेवकुले कुर्यादुपलेपनमर्चनम् ।।
कल्पस्थायी भवेद्राजा स नरो नात्र संशयः ।। २८ ।।
प्रदक्षिणाशतं यस्तु करोति स्तुतिपाठकः ।।
हंसयुक्तविमानेन स च विष्णु पुरं व्रजेत् ।। २९ ।।
गीतवाद्यकरो विष्णोर्गांधर्वं लोकमाप्नुयात् ।।
नित्यं शास्त्रविनोदेन लोकान्यस्तु प्रबोधति ।। 4.70.३० ।।
स व्यासरूपी भगवानंते विष्णुपुरं व्रजेत् ।।
पुष्पमालादिभिः पूजां कृत्वा विष्णुपुरं व्रजेत् ।। ३१ ।।
नित्यस्नायी नरो यस्तु नरकं स न पश्यति ।।
भोजनं च जयेद्यस्तु स स्नानं पौष्करं लभेत् ।। ३२ ।।
कृत्वा प्रेक्षणकं दिव्यं राज्यं सोऽप्सरसां लभेत् ।।
अयाचितेन प्राप्नोति वापीकूपे यथा फलम् ।। ३३ ।।
षष्ठकालेन्नभोज्येन स्थायी स्वर्गे नरो भवेत् ।।
पर्णेषु यो नरो भुंक्ते कुरुक्षेत्रफलं लभेत् ।।३४।।
शिलायां भोजनान्नित्यं स्नानं प्रयागजं भवेत् ।।
यामद्वये जलत्यागान्न रोगैः परिभूयते ।। ३५ ।।
एवमादिव्रते पार्थ तुष्टिमायाति हेतुतः ।।
सुप्ते सति जगन्नाथे केशवे गरुडध्वजे ।। ३६ ।।
निवर्तते क्रियाः सर्वाश्चातुर्वण्यस्य भारत ।।
विवाहव्रतबंधादिभूतसंस्कारदीक्षणम् ।। ३७ ।।
यज्ञाश्च गृहवेशादि गोदानाच्च प्रतिष्ठितम् ।।
पूज्यानि यानि कर्माणि तानि सर्वाणि वर्जयेत् ।। ३८ ।।
असंक्रांतं तु मासं वै दैवे पित्र्ये च वर्जयेत् ।।
मलिम्लुचमशौचं च सूर्यसंक्रांतिवर्जितम् ।। ३९ ।।
प्राप्ते भाद्रपदे मासि एकादश्यां दिने हरेः ।।
कटदानं भवेद्विष्णोर्महापूजा प्रवर्तयेत् ।। 4.70.४० ।।
य एतदेव शयनं तत्रेदं कारणं शृणु ।।
पुरा तपःप्रभावेन तोषयित्वा हरिं विभुम् ।। ४१ ।।
ममापि मानयत्यङ्गं प्रार्थितो योगनिद्रया ।।
निरीक्ष्य चात्मनो देवा रुद्धं लक्ष्म्या उरःस्थलम् ।। ४२ ।।
शंखचक्रासिमार्गाद्यैर्बाहवोप्यथ वक्षसा ।।
अधो नाभेर्विरुद्धं मे वैनतेयेन पक्षिणा ।। ४३ ।।
मुकटेन शिरो रुद्धं कुंडलाभ्यां च कर्णकौ ।।
ततो ददावहं तुष्टो नेत्रयोः स्थानमादरात् ।। ४४ ।।
चतुरो वार्षिकान्मासान्माऽऽश्रिता सा भविष्यति ।।
योगनिद्रापि माहात्म्यं श्रुत्वा पौरातनं शुभम् ।। ४५ ।।
चकार लोचनावासमतोऽर्थं मे युधिष्ठिर ।।
अहं च तां भावयित्वा मानयामि मनस्विनीम् ।। ४६ ।।
योगनिद्रा महानिद्रा शेषाभिशयने स्थितः ।।
क्षीरोदधौ च विंध्यग्रे धौतपादः समाहितः ।। ४७ ।।
लक्ष्मीकरांबुजैरच्छैर्मृद्यमानपदद्वयः ।।
तस्मिन्कालेऽपि मद्भक्तौ यो मासांश्चतुरः क्षिपेत् ।। ४८ ।।
व्रतैरनेकैनियमैः पांडवश्रेष्ठ मानवः ।।
कल्पस्थायी विष्णुलोकं स व्रजेन्नात्र संशयः ।। ४९ ।।
ततोऽवबुध्यते देवः श्रीमाञ्छङ्खगदाधरः ।।
कार्तिके शुक्लपक्षस्य एकादश्यां पृथक्छृणु ।। 4.70.५० ।।
मन्त्रेणानेन राजेन्द्र देवमुत्थापयेद्द्विजः ।।
इदं विष्णुर्विचक्रमे स्वासने च तदा नृप ।। ५१ ।।
समुत्थिते तदा विष्णो क्रियाः सर्वाः प्रवर्तयेत् ।।
महातूर्यरवे रात्रौ भ्रामयेत्स्यंदने स्थितम् ।।५२।।
उत्थिते देवदेवेशे नगरे पार्थिवः स्वयम् ।।
दीपोद्रेककरे मार्गे नृत्यगीतजनाकुले ।। ५३ ।।
यंयं दामोदरः पश्येदुत्थितो धरणीधरः ।।
तंतं प्रदेयं राजेन्द्र सर्वं स्वर्गाय कल्पते ।। ५४ ।।
रात्रौ प्रजागरे देवमेकादश्यां सुरालये ।।
प्रभाते विमले स्नात्वा द्वादश्यां विष्णुमर्चयेत् ।। ५५ ।।
होमयेद्धव्यवाहं च हव्यद्रव्यैर्घृतादिभिः ।।
ततो विप्राञ्छुभान्स्नात्वा भोजयेदन्नविस्तरैः ।। ५६ ।।
घृतदधिक्षौद्रकाद्यैर्गुडधूपैः समोदकैः ।।
यजमानोऽपि संतुष्टस्त्वरा हास्यविवर्जितः ।। ५७ ।।
एकादश दशाष्टौ वा पंच द्वौ वा कुरूत्तम ।।
अर्चयेच्चन्दनैर्धूपैः पुष्पैर्गन्धैर्द्विजोत्तमान् ।। ५८ ।।
श्रद्धोक्तविधिना पार्थ भोजयेद्भाग्यवान्यतीन् ।।
आचांतेभ्यस्ततो दद्यात्त्यागं यत्किञ्चिदेव हि ।। ५९ ।।
स्ववाचा स्वमनोभीष्टपत्रपुष्पफलादिकम् ।।
चतुरो वार्षिकान्मासान्नियमो यस्य यः कृतः ।। 4.70.६० ।।
कथयित्वा द्विजेभ्यस्तं दद्याद्भक्त्या सदक्षिणाम् ।।
दत्त्वा विसर्जयेद्विप्रांस्ततो भुञ्जीत च स्वयम् ।। ६१ ।।
यत्त्यक्तं चतुरो मासान्प्रवृत्तिन्तस्य चाचरेत् ।।
एवं य आचरेत्पार्थ सोऽनन्तं धर्ममाप्नुयात् ।। ६२ ।।
अवसाने तु राजेन्द्र वासुदेवपुरीं व्रजेत् ।।
यस्याविघ्नैः समाप्येत चातुर्मास्यव्रतं नृप ।। ६३ ।।
स भवेत्कृतकृत्यस्तु न पुनर्मातृको भवेत् ।।
यो देवशयनं पार्थ मासंमासं समाचरेत ।। ६४ ।।
उत्थानं चापि कृष्णस्य स हरेर्लोकमाप्नुयात् ।।
शृणोति ध्यायति स्तौति जुहोत्याख्याति यो नरः ।।
विष्णोर्भक्तिं परां पार्थ स गच्छेद्वैष्णवं पदम् ।। ६५ ।।
दुग्धाब्धिभोगशयने भगवाननन्तो यस्मिन्दिने स्वपिति यत्र विबुध्यते वा ।।
तस्मिन्ननन्यमनसामुपवासभाजां पुंसां ददाति सुगतिं गरुडांगसंगी ।। ६६ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे देवशयनोत्थापनद्द्वादशी व्रतवर्णनं नाम सप्ततितमोऽध्यायः ।। ७० ।।