भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७५

श्रवणद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
उपवासासमर्थानां सदैव पुरुषोत्तम ।।
एका या द्वादशी पुण्या तां वदस्व ममानघ ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता ।।
सर्वकामप्रदा पुण्या चोपवासे महाफला ।। २ ।।
संगमे सरितां स्नात्वा द्वादश्यां समुपोषितः ।।
अयत्नात्समवाप्नोति द्वादशद्वादशीफलम् ।। ३ ।।
बुधश्रवणद्वादश्यामेवं वै संयतो भवेत् ।।
अतीव महती तस्यां कृतं सर्वमथाक्षयम् ।। ४ ।।
द्वादशी श्रवणोपेता यदा भवति भारत ।।
संगमे सरितां स्नात्वा गंगादिस्नानजं फलम्।।
सोपवासः समाप्नोति नात्र कार्या विचारणा ।। ५ ।।
जलपूर्णे तथा कुंभे स्थापयित्वा विचक्षणः ।।
पंचरत्नसमोपेतं सोपवीतं सुपूजि तम् ।। ६ ।।
तस्य स्कंधे सुघटितं स्थापयित्वा जनार्दनम् ।।
यथाशक्ति स्वर्णमयं शंखशार्ङ्गविभूषितम् ।। ७ ।।
स्नापयित्वा विधानेन सितचंदन चर्चितम् ।।
सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ।। ८ ।।
ॐ नमो वासुदेवायेति शिरः संपूजयद्धरेः ।।
श्रीधराय मुखं तद्वत्कंठ कृष्णाय वै पुनः ।। ९ ।।
ॐ नमः श्रीमते वक्षो भुजौ सर्वास्त्रधारिणे ।।
व्यापकाय नमः कुक्षी केशवायोदरं नमः ।। 4.75.१० ।।
त्रैलोक्यजनकायेति एवं संपूजयेद्धरिम् ।।
सर्वाधिपतये जंघे पादौ सर्वात्मने नमः ।। ११ ।।
अनेन विधिना राजन्पुष्पैर्धूपैः समर्चयेत् ।।
ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम् ।। १२ ।।
सोदकांश्च नवान्कुंभाञ्छक्त्या दद्याद्विचक्षणः ।।
एवं संपूज्य गोर्विदं जागरं तत्र कारयेत् ।। १३ ।।
प्रभाते विमले स्नात्वा संपूज्य गरुडध्वजम् ।।
पुष्पधूपादिनैवेद्यैः फलैर्वस्त्रैः सुशोभनैः ।।
ततः पुष्पांजलिं बद्ध्वा मंत्रमेतमुदीरयेत् ।। १४ ।।
नमो नमस्ते गोविन्द बुधश्रवण संज्ञक ।।
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ।। १५ ।।
एवं संपूज्य गोविंद ब्राह्मणं पूजयेत्ततः ।।
अनंतरं ब्राह्मणे वै वेदवेदांतपारगे ।।
पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत् ।। १६ ।।
द्वादश्यां श्रवणे युक्ते अशेषाहस्करान्विते ।।
करकं संगमे स्नात्वा प्रीयतां मे जनार्दनः।। १७ ।। ।।
।। श्रीकृष्ण उवाच ।। ।।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।
महत्यरण्ये यद्वृत्तं भूमिपाल शृणुष्व तत् ।।१८।।
देशो दशार्णको नाम तस्य भागे तु पश्चिमे ।।
अस्ति कश्चिन्मरुदेशः सर्वसत्त्वभयंकरः ।। १९ ।।
सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः।।
अल्पच्छायद्रुमाकीर्णो मृतप्राणि समाकुलः ।।4.75.२० ।।
शमीखदिरपालाशकरीरैः पीलुभिः सह ।।
तत्र भीमा द्रुमाः पार्थ कंटकैः शबला दृढैः ।।२१।।
दग्धप्राणिगणाकीर्णा यत्र भूर्द्दृश्यते क्वचित्।।
अन्नोदकं नो लभंते राजंस्तत्र बलाहकाः ।।२२।।
कदाचिदपि दृश्यंते भ्राम्यन्तो हि विहगमाः।।
वृक्षांतरगतैर्नित्यं शिशुभिस्तृषितैः समम् ।।
उत्कृत्तजीविता राजन्दृश्यंते विहगोत्तमाः ।।२३।।
तृषातुराश्च सहसा मृगाः सैकतमागताः।।
सैकतेष्वेव नश्यंति जलं सैकतसेतुवत्।।२४।।
तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक् ।।
निजसार्थपरिभ्रष्टः प्रविष्टो मरुजांगले ।। २५ ।।
पिशाचान्मलिनांस्तीक्ष्णान्निर्मांसान्भीमदर्शनान् ।।
इतस्ततः संचरतो ददर्श वणिगुत्तमः ।। २६ ।।
बभ्रामोद्भ्रांतहृदयः क्षुत्तृषाभ्रमकर्षितः ।।
क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध सः ।।२७।।
अथ प्रेतान्ददर्शासौ तृष्णाव्याकुलितेंद्रियान् ।।
स्नायुबद्धास्थिचरणान्प्रेक्षमाणानितस्ततः ।। २८ ।।
प्रेतस्कंधसमारूढमेकं प्रेतं ददर्श ह ।।
अपश्यद्बहुभिः प्रेतैः समंतात्परिवारितम् ।। २९ ।।
आगच्छन्तं तमव्यग्रं स्रुतुशब्दपुरःसरम् ।।
प्रेतस्कंधान्महीं गत्वा तस्यांतिकमुपागमत् ।। 4.75.३० ।।
स दृष्ट्वाथ वणिक्छ्रेष्ठमिदं वचनमब्रवीत् ।।
अस्मिन्वै निर्जले देशे गमनं भवतः कथम् ।।३१।।
तमुवाच वणिग्धीमान्सार्थभ्रष्टस्य चैव मे ।।
प्रवेशो दैवयोगेन पूर्वकर्मकृतेन तु ।।३२।।
तृष्णा मां बाधतेऽत्यर्थं क्षुद्दुनोति भृशं तथा ।।
प्राणाः कंठमनुप्राप्ता वचनं नश्यतीव मे ।।
अत्रोपायं न पश्यामि जीवेयं येन केनचित् ।।३३।।
।। कृष्ण उवाच ।। ।।
इत्येवमुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत् ।।
पुंनागमिममाश्रित्य प्रतीक्षस्व मुहूर्तकम् ।।३४।।
कृतातिथ्यो यथालाभं गमिष्यसि यथासुखम् ।।
एवमुक्तस्तथा चक्रे स वणिक्तृष्णयार्दितः ।। ३५ ।।
मध्याह्नसमये प्राप्ते ततस्तं देशमागतः ।।
पुन्नागवृक्षात्करको वारिधारामनोरमः ।।
दध्योदनसमायुक्तो वर्धमानेन संयुतः ।। ३६ ।।
आगते करके तस्मिन्प्रादादतिथये तदा ।।
भुक्त्वान्नं च जलं पीत्वा वणिक्तुष्टिमुपागतः ।।
वितृष्णो विज्वरश्चैव क्षणेन समपद्यत ।। ३७ ।।
ततस्तु प्रेतसंघस्य भोक्तुकामस्य वै ददौ ।।
दध्योददनं सपानीयं प्रेतास्तृप्तिं परां गताः ।। ३८ ।।
अतिथिं तर्पयित्वा च प्रेतलोकं च सर्वशः ।।
ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम् ।। ३९ ।।
तस्य भुक्तवतश्चान्नं पानीयं च क्षयं ययौ ।।
प्रेताधिपं ततस्तृप्तो वणिग्वचनमब्रवीत् ।। 4.75.४० ।।
आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ।।
अन्नपानस्य सम्प्राप्तिः परमस्य कुतस्तव ।। ४१ ।।
स्तोकेन च तथान्नेन बिभर्षि सुबहून्पृथक् ।।
तृप्ताः परं कथं त्वेते निर्मांसा भिन्नकु क्षयः ।। ४२ ।।
अपरं च कथं चेह मम पापपरिक्षयः ।।
हस्तावलंबनकस्त्वं सम्प्राप्तो निर्जने वने ।।
तृप्तश्चासि कथं ग्रासमात्रेण च शुभव्रत ।। ।। ४३ ।।
कस्त्वमस्यां सुघोरायामटव्यां तु कृतालयः ।।
तमेतं संशयं छिंधि परं कौतूहलं मम ।। ४४ ।।
एवमुक्तः स वाणिज्या प्रेतो वचनमब्रवीत ।।
शृणु भद्र प्रवक्ष्यामि दुष्कृतं कर्म चात्मनः ।। ४५ ।।
शाकले नगरे रम्ये अहमासं सुदुर्मतिः ।।
वाणिज्यासक्तितः पूर्वं कालो नीतो मयानघ ।। ४६ ।।
धनलोभान्मया तत्र कदाचिच्च प्रमादिना ।।
न दत्ता भिक्षवे भिक्षा तृष्णया पीडिताय च ।। ४७ ।।
प्रतिवेशे च तत्रासीद्ब्राह्मणो गुणवान्मम ।।
श्रवणद्वादशीयोगे मासि भाद्रपदे तथा ।। ४८ ।।
स कदाचिन्मया सार्धं तोषां नाम नदीं ययौ ।।
तस्याश्च संगमः पुण्यो यत्रासीच्चन्द्रभागया ।। ४९ ।।
चंद्रभागा सोमसुता तोषा चैवार्कनंदिनी ।।
तयोः शीतोष्णसलिलसंगमः सुमनोहरः ।। 4.75.५० ।।
तत्तीर्थवरमासाद्य प्रातिवेश्यः स च द्विजः ।।
श्रवणद्वादशीयोगे स्नातश्चैवमुपोषितः ।। ५१ ।।
चंद्रभागातोषयोश्च वारिधान्यैर्नवैर्दृढैः ।।
दध्योदनयुतैः सार्धं सम्पूर्णैर्वर्धमानकैः ।। ५२ ।।
छत्रोपानद्युगं वस्त्रं प्रतिमां विधिवद्धरेः ।।
चंद्रभागाजीवनेन दध्योदनयुतं तदा ।। ५३ ।।
एतत्कृत्वा गृहं प्राप्तस्ततः कालेन केनचित् ।।
पञ्चत्वमहमासाद्य नास्तिक्यात्प्रेततां गतः ।।
अस्यामटव्यां घोरायां यथा दृष्टस्त्वयानघ ।। ५४ ।।
ब्रह्मस्वहारिणस्त्वेते पापाः प्रेतत्वमागताः ।।
परदाररताः केचित्स्वामिद्रोहरताः परे ।। ५५ ।।
मित्रद्रोहरताः केचिद्देशेऽस्मिंस्तु सुदारुणे ।।
ममैते भृत्यतां याता अन्नपानकृतेन च ।। ।।५६।।
अक्षय्यो भगवान्कृष्णः परमात्मा सनातनः ।।
यद्दीयते तमुद्दिश्य अक्षय्यं तत्प्रकीर्तितम् ।।५७।।
मया विहीनाः किं त्वेते वनेऽस्मिन्भृशदारुणे।।
पीडामनुभविष्यंति दारुणां कर्मयोनिजाम् ।।५८।।
एतेषां त्वं महाभाग ममानुग्रहकाम्यया ।।
अनेकनामगोत्राणि गृहाण लेखनेन च ।।५९।।
अस्तु कक्षागता चैव तव संपुटिका शुभा ।।
हिमवत्यां तथासाद्य तत्र त्वं लप्स्यसे निधिम् ।। 4.75.६० ।।
गयाशीर्षे ततो गत्वा श्राद्धं कुरु महामते ।।
एकमेकमथोद्दिश्य प्रेतंप्रेतं यथासुखम् ।। ६१ ।।
एवं सम्भाषमाणोऽसौ तप्तजांबूनदप्रभः ।।
विमानवरमारुह्य स्वर्गलोकमितो गतः ।।६२।।
स्वर्गते प्रेतनाथे तु प्रभावात्स वणिक्पुमान् ।।
नामगोत्राणि संगृह्य प्रयातः स हिमाचलम् ।। ६३ ।।
तत्र प्राप्य निधिं गत्वा विनिक्षिप्य स्वके गृहे ।।
धनभागमुपादाय गयाशीर्षवटं ययौ ।।
प्रेतानां क्रमशस्तत्र चक्रे श्राद्धं दिनेदिने ।। ६४ ।।
यस्ययस्य गयाश्राद्धं स करोति दिने वणिक् ।।
स च तस्य सदा स्वप्ने दर्शयत्यात्मनस्तनुम् ।। ६५ ।।
ब्रवीति च महाभाग प्रसादेन तवानघ ।।
प्रेतभावो मया त्यक्तः प्राप्तोस्मि परमां गतिम् ।।६६।।
स कृत्वा धनलोभाच्च प्रेतानां सत्कृतिं वणिक् ।।
जगाम स्वगृहं तत्र मासि भाद्रपदे तथा ।। ६७ ।।
श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम् ।।
दानं च दत्त्वा विप्रेभ्यः सोपवासो जितेन्द्रियः ।। ६८ ।।
महानदीसंगमेषु प्रतिवर्षं युधिष्ठिर ।।
चकार विधिवद्दानं ततो दिष्टांतमागतः ।। ६९ ।।
अवाप परमं स्थानं दुर्लभं चात्र मानवैः ।।
यत्र कामफला वृक्षा नद्यः पायसकर्दमाः ।।
शीतलामलपानीयाः पुष्करिण्यो मनोहराः ।। 4.75.७० ।।
तं देशमासाद्य वणिङ् महात्मा सुतप्तजांबूनदभूषितांगः ।।
कल्पं समग्रं सह सुन्दरीभिः स्वर्गे स रेमे मुदितः सदैव ।। ७१ ।।

इति श्रीभविष्ये महा पुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रवणद्वादशीव्रतवर्णनं नाम पञ्चसप्ततितमोऽध्यायः ।। ७५ ।।