भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८२

सुकृतद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
यन्न तापाय वै पुंसां भवत्यामुष्मिकं कृतम् ।।
तदपापाय भवति तदाचक्ष्व यदूत्तम ।। १ ।।
उपवासप्रभावं वै कृष्णाराधनकांक्षिणाम् ।।
कथयेह महाबाहो नैव तृप्यामि जल्पतः ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
श्रूयतां पार्थ यत्पृष्टाः कौतुकाद्भवता वयम् ।।
आमुष्मिकं न तापाय प्रतापाय च जायते ।। ३ ।।
उपोषितप्रभावं च कृष्णाराधनकांक्षिणाम् ।।
कथयामि यथावृत्तं पूर्वमेव नरोत्तम ।। ४ ।।
वैदिशं नाम नगरं प्रख्यातं नृपसत्तम ।।
तत्र वैश्योऽभवत्पूर्वं सीरभद्र इति श्रुतः ।। ५ ।।
भार्यया मातृदुहिता पुत्रपौत्रैः समन्वितः ।।
प्रभूत भृत्यवर्गश्च बहुव्यापारकारकः ।। ६ ।।
पुत्रपौत्रादिभरणे व्यासक्तिर्मतिरेव च ।।
परलोकं प्रति मतिस्तस्य नासीत्कदाचन ।। ७ ।।
चकारानुदिनं सोऽथ न्यायान्यायैर्द्धनार्जनम् ।।
सर्वत्रान्यत्र निःस्नेहः पुत्रस्नेहपरिप्लुतः ।। ८ ।।
न जुहोत्युदिते काले न ददात्यतितृष्णया ।।
बभूव चोद्यमस्तस्य पुत्रादिभरणे परः ।। ९ ।।
नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणा ।।
तृष्णाभिभूतो राजेन्द्र स्ववर्गभरणोज्झितः ।। 4.82.१० ।।
कालेनागच्छतासोऽथ मृतो विंध्याटवीतटे ।।
यातनादेहभृत्प्रेतो ग्रीष्मकालेऽभवन्नृप ।। ११ ।।
तं ददर्श महाभागो दिव्ययानसमन्वितः ।।
वेदवेदाङ्गविद्वेषी विपीतो नाम वै द्विजः ।।
भास्करस्याशुभिर्द्दीप्तैर्दहंतमतिदारुणैः ।। १२ ।।
प्रतप्तवालुकामध्ये तृषार्तं चातिपीडितम् ।।
क्षुत्क्षामकंठं शुष्कास्यं तथोद्वृत्तविलोचनम् ।।
निष्क्रांतजिह्वमंगेषु विस्फोटैः सर्वतश्चितम् ।। १३ ।।
निश्वासायासखेदेन विह्वलं पीडितोदरम् ।।
निजेन कर्मणा बद्धमसमर्थं प्रसर्पणे ।। १४ ।।
तथादृशमथो दृष्ट्वा गर्दभेयो महानृषिः ।।
विपीतः प्राह राजेन्द्र कारुण्यभरितं वचः ।। १५ ।।
जानन्नपि यथाप्राप्तं तस्यानुष्ठानजं फलम् ।।
जंतोस्तस्योपकाराय सर्वतो ह्लादयन्निव ।। १६ ।।
।। विपीत उवाच ।। ।।
अधः सूर्यांशुभिस्तप्तैर्बहुभिः पथि पांशुभिः ।।
उपर्यर्ककरैस्तीक्ष्णैस्तृषावातनिपीडितम् ।। १७ ।।
अन्यस्तत्राणकैर्घोरैरविषह्यैः सुदारुणैः ।।
कथयेह यथातत्त्वमेकाकी दह्यसे कथम् ।। १८ ।।
तस्यैतद्वचनं श्रुत्वा विपीतस्य सवेदनः ।।
वेदनार्त उवाचेदं कृच्छ्रादुच्छुस्य मंदकम् ।। १९ ।।
।। सीरभद्र उवाच ।। ।।
ब्रह्मन्नालोचितं पूर्वं कथमंते भविष्यति ।।
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः ।। 4.82.२० ।।
इदं करिष्याम्यपरं त्विदं कृत्वा त्विदं पुनः ।।
इतीच्छा शतमारूढस्तेन दह्यामि दुर्मतिः ।। २१ ।।
शीतोष्णवर्षादिभवं लोभात्सोढं मयाऽशुभम् ।।
तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिः ।। २२ ।।
पितृदेवमनुप्याणामदत्त्वा यापिता हि ये ।।
ते गता नापि वर्तंत दह्याम्येकोऽत्र दुर्मतिः ।।२३।।
पुत्रक्षेत्रकलत्रेषु ममत्वाहृतचेतसा ।।
बह्वसाधु कृतं कर्म तेन दह्यामि दुर्मतिः ।। २४ ।।
मृते मयि धने तस्मिन्नन्यायोपार्जिते सदा ।।
रूपवंतोऽभिवर्तंते दह्याम्येकोत्र दुर्मतिः ।। २५ ।।
न मया पूजिता गेहान्निर्गता द्विजसत्तमाः ।।
स्ववर्गमिह कामेन तेन दह्याम्यहंमतिः ।। २६ ।।
यन्मे न पूजिता देवाः कुटुंबं पोषितं परम् ।।
एकाकी तत्र दह्यामि ये सुतास्तेऽन्यतो गताः ।।२७।।
नित्यं नैमित्तिकं कर्म पूर्वेषां चैव नो कृतम् ।।
एकाकी तेन दह्यामि गतस्ते फलभोगिनः ।। २८ ।।
दाराः पुत्राश्च भृत्याश्च पापबुद्ध्या मया भृताः ।।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ।। २९ ।।
दाराः पुत्राश्च भृत्यार्थे मया न्यायार्थसंचयः ।।
कृतस्तेनात्र दह्यामि ये भुक्तास्तेऽन्यतो गताः ।। 4.82.३० ।।
क्षतपापं मया भुक्तमन्यैस्तत्कर्म संचितम् ।।
दह्याम्येकोऽहमत्यंतं गतास्ते फलभोगिनः ।। ।। ३१ ।।
यन्ममत्वाभिभूतेन मया पापमुपार्जितम् ।।
न तदन्यस्य कस्यापि केवलं मम दुष्कतम् ।। ३२ ।।
अंतर्दुःखेन दग्धोऽहं बहिर्दह्यामि भावयन् ।।
तावद्दुःखं नवाभं तु पापमेकं द्विधास्थितम् ।। ३३ ।।
कुरु तस्मात्समुद्धारं पश्यस्यमृतसागरम् ।।
तव येनाहमाह्लादं प्राप्नुयां मुनिसत्तम ।। ।। ३४ ।।
।। विपीत उवाच ।। ।।
अल्पकालिक उद्धारे तव पश्यामि संशयम् ।।
प्रक्षीणं पापमेतावत्सुवृत्तं चास्ति ते परम् ।। ३५ ।।
प्रतीते दशमे जन्मन्यच्युताराधनेच्छया ।।
सुकर्मजयदा भद्रद्वादशीं समुपोषितः ।।
न च तस्याः प्रसादेन पापमत्यन्तदुर्जयम् ।। ३६ ।।
अल्पैरहोभिः संक्षीणमामपात्रे यथा जलम् ।।
गतं पापमयं ह्यस्याः प्रभावोऽत्यन्तदुर्ल्लभः ।। ३७ ।।
नाशं पापस्य कुरुते जयं सुकृतकर्मणः ।।
सकृत्कर्मप्रदा ह्येषा ततो वै द्वादशी स्मृता ।। ३८ ।।
यथैतद्वदतार्तेन भवता परिदेवितम् ।।
तमुवाचात्र संदेहो मम तापाय देव किम् ।। ३९ ।।
पापमत्र कृतं प्रेत्य भद्र तापाय जायते ।।
आह्लादाय तथा पुण्यमिह पुण्यकृतां नृणाम् ।। 4.82.४० ।।
सीरभद्रं समाश्वास्य ययावित्थं महामुनिः ।।
सोप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् ।। ४१ ।।
उपवासप्रभावश्च कथितस्ते नरोत्तम ।।
येनाल्पैरेव दिवसैर्भूरि पापं क्षयं गतम् ।। ४२ ।।
तस्मान्नरेण पुण्याय यतितव्यं न पातकम् ।।
उपवासाश्च कर्तव्याः सदैवात्महितैषिणा ।। ४३ ।।
।। युधिष्ठिर उवाच ।। ।।
अथैतत्कष्टपापानां विपाको नरकस्थितैः ।।
पुरुषैर्भुज्यते शश्वत्तं मोक्षं वद सत्तम ।। ४४ ।।
।। श्रीकृष्ण उवाच ।। ।।
जयासमेताः पुरुषाः सदा सुकृतकर्मणः ।।
जया सा द्वादशी शस्ता नृणां सुकृतकर्मणाम् ।। ४५ ।।
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः ।।
द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ।। ४६ ।।
एकादश्यां समुत्तिष्ठन्विष्णोर्नामानुकीर्तयन् ।।
पूजायां वासुदेवस्य भुञ्जीत सुसमाहितः ।। ४७ ।।
कामं क्रोधं च लोभं च मदं मोहं च वर्जयेत् ।।
द्रोहादीन्वर्जयेद्दोषान्सर्वान्धनमदोद्भवान् ।। ४८-।।
भाययेद्विष्णुभक्तश्च संसारेऽसारतां तथा ।।
एवं भावितचित्तेन प्राणिनां हितमिच्छता ।। ।।४९।।
नमो नारायणायेति वक्तव्यं स्वपता निशि ।।
तथैव कुर्याद्द्वादश्यां नाम्ना क्षुत्पारणं नृप ।।4.82.५०।।
सौवर्णताम्रपात्राणि मृन्मयान्यपि पांडव ।।
यवपात्राणि पूर्वं तु दद्यान्मासचतुष्टयम्।।५१।।
आषाढादिद्वितीयं तु पारयेच्च महामते ।।
तत्रापि घृतपात्राणि दद्याच्छ्रद्धासमन्वितः ।।५२।।
कार्त्तिकादिषु मासेषु माघांतेषु तथा तिलान्।।
विप्राय दद्यात्पात्रं तु प्रतिमासमुपोषितः ।।५३।।
नामत्रयमशेषेण मासिमासि दिनद्वयम्।।
तथैवोच्चारयन्दद्यान्मासिमासि यवादिकम् ।।
प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत् ।।५४।।
विष्णो नमस्ते जगती प्रसोत्रे श्रीवासुदेवाय नमो नमस्ते ।।
नारायणाख्यः प्रणतैर्विचिंत्यः करोतु मां शाश्वतपुण्यराशिम्।।५५।।
प्रसीद पुण्यं जयमेति विष्णो श्रीवासुदेवर्द्धिमुपैतु पुण्यम्।।
प्रयातु वाशेषमथो विनाशं मा तेंऽघ्रिपद्मादितरत्र मे मतिः।।५६।।
विष्णो पुण्योद्भवो मेस्तु वासुदेवास्तु मे शुभम् ।।
नारायणोस्तु धर्मो जहि पापमशेषतः ।।५७।।
अनेक जन्मजनितं बाल्ययौवनवार्द्धके।।
पुण्यं विवृद्धिमायातु यातु पापं च संक्षयम् ।।५८।।
आकाशादिषु शब्दादौ श्रोत्रादौ महदादिषु।।
प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः।।५९।।
यथैक एव धर्मात्मा वासुदेवो व्यवस्थितः।।
तेन सत्येन पापं मे नरकार्तिप्रदं क्षयम् ।।4.82.६०।।
प्रयातु सुकृतस्यास्तु ममानुदिवसञ्जयः।।
पापस्य हानिः पुण्यस्य वृद्धिर्मेस्तूत्तमोत्तमा।।६१।।
एवमुच्चार्य विप्राय दद्याद्यत्कथितं तव।।
भुञ्जीत कृतकृत्यस्तु पारणेपारणे गते।।६२।।
पारणांते तु देवेश प्रीणनं शक्तितो नृप ।।
कुर्वीताखिलपाखण्डैरालापं च विवर्जयेत् ।। ६३ ।।
एवं संवत्सरस्यांते कांचनीं प्रतिमां हरेः।।
पूजयित्वा वस्त्रपुष्पैर्घृतपात्रेण संयुतैः ।। ६४ ।।
गां सवत्सां च विप्राय दद्याच्छ्रद्धासमन्वितः ।।
विलंबितं च यत्पूर्वं देवानन्यान्भजेद्यदि ।। ६५ ।।
तस्मिन्नहनि दातव्यं भोजने चानिवारितम् ।।
इत्येषा कथिता पुण्या सुकृतस्य जयावहा ।।
द्वादशी नरकं पार्थ यामुपोष्य न पश्यति ।।६६।।
नाग्नयो न च शस्त्राणि न च लोहमुखाः खगाः ।।
नारकास्तं प्रबाधन्ते मतिर्यस्य जनार्दने ।। ६७ ।।
नामोच्चारणमात्रेण विष्णोः क्षीणाघसंचयः ।।
भवत्यघ विनाशश्च नरके पतनं कुतः ।। ६८ ।।
नमो नारायण हरे वासुदेवेति कीर्तयन् ।।
न याति नरकं मर्त्यः संक्षीणाशेषपातकः ।। ६९ ।।
तस्मात्पाखंडिसंसर्गमकुर्वन्द्वादशीमिमाम् ।।
उपोष्य पुण्योपचये न याति नरकं नरः ।। 4.82.७० ।।
पापं क्षिणोति सुकृतस्य करोति वृद्धिं वृद्धिं प्रयच्छति नियच्छति सर्वदोषान् ।।
यद्द्वादशीह सुकृतातिहिता च लोके कस्मान्न तामुपवसंति विमूढचित्ताः ।।७१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सुकृतद्वादशीव्रतवर्णनं नाम द्व्यशीतितमोऽध्यायः ।। ८२ ।।