भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८५

विभूतिद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
शृणु भूपाल वक्ष्यामि विष्णुव्रतमनुत्तमम् ।।
विभूतिद्वादशीं नाम सर्वामरनमस्कृतम् ।। १ ।।
कार्त्तिके वाथ वैशाखे मार्गशीर्षे च फाल्गुने ।।
आषाढे वा दशम्यां च शुक्लायां लघुभुङ्नरः ।। २ ।।
कृत्वा सायंतनीं संध्यां गृह्णीयान्नियमं बुधः ।।
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।। ३ ।।
द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो ।।
तदविघ्नेन मे यातु साफल्यं मधूसूदन ।। ४ ।।
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः ।।
पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ।। ५ ।।
भूतिदाय नमः पादौ विशोकाय च जानुनी ।।
नमः शिवायेत्यूरू च विश्वमूर्ते नमः कटिम् ।। ६ ।।
कंदर्पाय नमो मेढ्रमादित्याय नमः करौ ।।
दामोदरायेत्युदरं वासुदेवाय च स्तनौ ।। ७ ।।
माधवायेति हृदयं कंठं वैकुंठिने नमः ।।
श्रीधराय मुखं केशान्केशवायेति पांडव ।। ८ ।।
पृष्ठं शार्ङ्गधरायेति श्रवणौ वरदाय वै ।।
स्वनाम्ना शंखचक्रासिगदापरशुपाणये ।। ९ ।।
सर्वात्मने शिरो राजन्नम इत्यभिपूजयेत् ।।
दशावताररूपाणि प्रतिमासं क्रमान्नृप ।। 4.85.१० ।।
दत्तात्रेयं यथा व्यासमुत्पलेन समन्वितम् ।।
दद्यादनेन विधिना पाखंडानपि वर्जयेत् ।। ११ ।।
समाप्यैवं यथाशक्त्या द्वादश द्वादशीर्नरः ।।
संवत्सरांते लवणपर्वतेन सह प्रभो ।।
शय्यां दद्यान्मुनिश्रेष्ठ गुरवे रससंयुताम् ।। ।। १२ ।।
ग्रामं च शक्तिमान्दद्यात्क्षेत्रं वा भवनान्वितम् ।।
गुरुं संपूज्य विधिवद्वद्वस्त्रालंकारभूषणैः ।। १३ ।।
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान्।।
तर्पयेद्वस्त्रगोदानैरन्यत्र धनसंचयात् ।। १४ ।।
अल्पवित्तो यथाशक्त्या स्तोकंस्तोकं समाचरेत् ।।
यश्चातिनिःस्वः पुरुषो भक्तिमान्माधवं प्रति ।।
पुप्पार्चनविधानेन स कुर्याद्वत्सरत्रयम् ।।१५ ।।
अनेन विधिना यस्तु विभूतिद्वादशीव्रतम् ।।
कुर्यात्स पापनिर्मुक्तः पितॄणां तारयेच्छतम् ।। १६ ।।
जन्मनां शतसाहस्रं न शोकफलभाग्भवेत् ।।
न च व्याधिर्भवेत्तस्य न दारिद्यं न बन्धनम् ।। १७ ।।
वैष्णवो वाथ शैवो वा भवेजन्मनिजन्मनि ।।
यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् ।।
तावत्स्वर्गे वसेद्राजन्भूपतिश्च पुनर्भवेत् ।। १८ ।।
पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः ।।
नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः ।। १९ ।।
तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत ।।
कमलं काञ्चनं दत्तं यथाकामगतिः सदा।।।।4.85.२० ।।
समस्तभृत्यसहितः सांतःपुरपरिस्थितः ।।
द्वीपानि सुरलोकं च यथेष्टं विचरत्यसौ ।। २१ ।।
कल्पादौ सप्तमे द्वीपे तेन पुष्करवासिनः ।।
लोके संपूजिता यस्मात्पुष्करद्वीप उच्यते ।। २२ ।।
तदैव ब्रह्मणा दत्तं यानमस्य यतो नृप ।।
पुष्पवाहनमित्याहुस्तस्मात्तं देवदानवाः ।। २३ ।।
नागस्य तस्यास्य जगत्त्रयेपि ब्रह्मांबुजस्थस्य तपोऽनुभावात् ।।
पत्नी च तस्याप्रतिमा नरेन्द्र नारीसहस्रैरभितोऽभिनंद्या।।२४।।
नाम्ना च लावण्यवती बभूव या पार्वतीवेष्टतमा भवस्य ।।
तस्यात्मजानामयुतं बभूव धर्मात्मनामग्र्यधनुर्द्धराणाम् ।। २५ ।।
तदात्मनः सर्वमवेक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद ।।
सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाचमिमां बभाषे ।। २६ ।।
कस्माद्विभूतिरमला मम मर्त्यपूज्या जाया च सर्वविजितामरसुन्दरी या ।।
भार्या त्वनल्पतपसा वसुतोषितेन दत्तं ममांबुजगृहं परमप्रसादात् ।। २७ ।।
यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुजरनराश्वघनावृतानाम् ।।
नालक्ष्य सम्बाधतया हि बाधस्तारागणैरपि सुरासुरलोकपालैः ।। २८ ।।
तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगं स्यात् ।।
सम्यङ्मयाथ तनयैरनया महर्षे माहार्यया तदखिलं कथय प्रचेतः ।।२९।।
तस्य तद्वचनं श्रुत्वा ध्यानेना वेक्ष्य चाखिलम् ।।
प्रचेतास्तमुवाचाथ शृणु भूप पुरातनम् ।। 4.85.३० ।।
लुब्धकस्त्वं पुरा राजन्सर्वसत्त्वभयंकरः ।।
आसीदसाधुचरितः सुहृन्मित्रवि वर्जितः ।। ३१ ।।
यतमध्यो ह्रस्वकेशः कृष्णांगो रक्तलोचनः ।।
धनुष्पाणिर्वनगतः कृतांतकसमो भवान् ।।३२।।
अभूदनावृष्टिरतीव रौद्रा कदाचि दाहारनिमित्तरोषः ।।
पद्मान्यथादाय ततो बहूनि गतं पुरं वैदिशनामधेयम् ।। ३३ ।।
उन्मूल्य लोभाच्च पुरं समस्तं भ्रांतं त्वयाशेषमहत्तदा सीत् ।।
क्रेता न कश्चित्कमलेषु जातस्तोके भृशं क्षुत्परिपीडितश्च ।। ३४ ।।
उपविष्टस्त्वमेकस्मिन्सभार्यो भवनांगणे ।।
अथ मंगलशब्दस्तु त्वया रात्रौ तथा श्रुतः ।। ३५ ।।
समाप्य माघमासस्य द्वादश्यां लवणाचलम् ।।
निवेदयंती गुरवे शय्यां चोपस्करान्विताम् ।। ३६ ।।
अलंकृत्य हृषीकेशं सीवर्णं परमं पदम् ।।
साथ दृष्टा ततस्ताभ्यामिदं चित्तेवधारितम्।।३७।।
किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः।।
इति भक्तिस्तदा जाता दाम्पत्यस्य नरेश्वर ।। ३८ ।।
तत्प्रसंगात्समभ्यर्च्य केशवं लवणाचलम्।।
शय्या च पुष्पप्रकरैः पूजिताभूच्च सर्वदा ।। ३९ ।।
अथानंगवती तुष्टा तयोर्होनशतत्रयम् ।।
प्रादाद्गृहीतं ताभ्यां च न तत्सर्वावलंबनात् ।। 4.85.४० ।।
अनंगवती च पुनस्तयोरन्नं चतुर्विधम्।।
आनाय्योपहृतं कृत्वा भुज्यतामिति भूपते।। ।।४१।।
ताभ्यां तु तदपि त्यक्तं भोज्यावः श्वो वरानने ।।
प्रसंगाच्चोपवासेन तवाद्यास्तु सुखावहः ।। ४२ ।।
जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते।।
सत्प्रसंगाद्धनुर्मध्ये धर्मलाभस्तु चावयोः ।। ४३ ।।
इति जागरणं ताभ्यां प्रसंगात्तदनुष्ठितम् ।।
प्रभाते च तया दत्ता शय्या सलवणाचला ।। ४४ ।।
ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव हि ।।
वस्त्रालंकारयुक्तांगा गावश्च कनकांचिताः ।। ४५ ।।
भोजनं च सुहृन्मित्रदीनांधकृपणैः समम् ।।
तत्तु लुब्धकदांपत्यं पूजयित्वा विसर्जितम् ।।४६।।
भवाँस्तु लुब्धको जातः सपत्नीको नरेश्वरः ।।
पुष्पाणां प्रकरे तस्मात्केशवस्य प्रपूजनम् ।।४७।।
प्राप्तं सुदुर्ल्लभं वीर त्वया पुष्करमन्दिरम् ।।
तस्य सर्वस्य माहात्म्यादलं न तपसा नृप ।। ४८ ।।
यथा कामगतं दक्षं पद्मयोनिं विरिंचिना ।।
संतुष्टस्तस्य राजेन्द्र ब्रह्मरूपी जनार्दनः ।।४९ ।।
शय्यानंगवती वेश्या कामदेशस्य सांप्रतम् ।।
पत्नी सपत्नी संजाता रत्या प्रीतिरिति श्रुता ।। 4.85.५० ।।
लोकेष्वानंदजननी सकलामरपूजिता ।।
तदप्युत्सृज्य राजेन्द्र निर्वाणं समवाप्स्यसि ।। ५१ ।।
इत्युक्त्वा स मुनिः सर्वं तत्रैवांतर्हितोभवत् ।।
राजा यथोक्तं च पुनः स चक्रे पुष्पवाहनः ।। ५२ ।।
इमामाचरतो ब्रह्मन्नखण्डव्रतमाचरेत् ।।
यथाकथंचित्कालेन द्वादश द्वादशीर्मुने ।।
कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणा नृप ।। ५३ ।।
इति कलुषविदारणं जनानामिति पठति शृणोति चातिभक्त्या ।।
मतिमपि च ददाति देवलोके वसति स परःशतानि वत्सराणाम् ।। ५४ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विभूतिद्वादशीव्रतवर्णनं नाम पंचाशीतितमोऽध्यायः ।। ८५ ।।