भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९९

पौर्णमासीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पौर्णमासी महाराज सोमस्य दयिता तिथिः ।।
पूर्णमासो भवेद्यस्यां पौर्णमासी ततः स्मृता ।। १ ।।
पौर्णमास्यां च संजातः संग्रामो जयलक्षणः ।।
सोमस्यारिबुधैः सार्द्धं सर्वसत्त्वभयंकरम् ।। ।। २ ।।
तारायां चन्द्रमाः सक्तस्तस्या भर्ता बृहस्पतिः ।।
तयोरभून्महायुद्धं भार्याकृत्येषु वै पुरा ।। ३ ।।
।। युधिष्ठिर उवाच ।।
तारा कस्य सुता कस्मात्स क्रुद्धः ससुरारिहा ।।
सोमेन सह संग्रामं चक्रे चक्रगदाधर ।। ४ ।।
।। श्रीकृष्ण उवाच ।। ।।
प्रजापतेरभूत्कन्या तारा वृत्रस्य चानुजा ।।
तां बृहस्पतये प्रादात्पृथिव्यामेकसुंदरीम् ।। ५ ।।
देवाचार्याय सा भार्या त्वनिर्देश्या तथाविधा ।।
रूपेणाभ्यां रूपवती सा निर्धूय व्यवस्थिता ।। ६ ।।
बृहस्पतिं पर्यचरद्यथा चान्याः स्त्रियः क्वचित् ।।
तां ददर्शायतापांगीं तन्वंगीं चारुहासिनीम् ।। ७ ।।
शीतांशुर्दर्शनादेव कामस्य वशमीयिवान् ।।
आबभाषे च मधुरं तारे एह्येहि मा चिरम् ।। ८ ।।
इंगिताकारकुशला तारा सोमस्य चेष्टितम् ।।
बुद्ध्वा शुद्धिमथो तन्वी प्राहेदं मधुराक्षरम् ।। ९ ।।
मुनेरंगिरसः पुत्रस्त्वं च सौम्योऽसि सोमराट् ।।
अंगिरसो मुनेर्वीर स्नुषाहमुचितं न ते ।।
सह सौम्येन यो योगस्तव सिद्धोऽ द्भुतो महान् ।। 4.99.१० ।।
अंगिरास्त्वां किल पुरा ससुरासुरराक्षसैः ।।
राजत्वे स्थापयामास नैतत्स्मरसि किं विधो ।। ११ ।।
कथमद्य निशानाथ ह्यनंगेनासि पीडितः ।।
तस्माद्ब्रवीमि सिद्धिं ते रोचये घटितं कुरु ।।
परवत्यस्मि भद्रं ते न गम्यास्मि बुधोत्तम ।। १२ ।।
एवमुक्तस्तथा चासौ न चैतत्कृतवांस्ततः ।।
गृहीत्वाकर्षयामास सोमोऽनंगवशीकृतः ।। १३ ।।
बृहस्पतिस्तु तां ज्ञात्वा स तं सोममगर्हयत् ।।
प्रेषयिष्यति मे भार्यां स्वयमेव ममांतिकम् ।। १४ ।।
एवं चिरेण विज्ञाय बृहस्पतिरुदारधीः ।।
नाससाद स्वकां भार्यां रोषात्प्रस्फुरिताधरः ।। १५ ।।
आचख्यौ सर्वमिन्द्राय सोमस्येदं विचेष्टितम् ।।
इंद्रः समाह्वयामास देवानृषिगणांस्तथा ।। १६ ।।
न सोमो गणयामास ततोऽबुध्यत देवराट् ।।
आकार्यं त्रिदशान्सर्वानाचख्यौ चन्द्रचेष्टितम् ।। १७ ।।
तच्छ्रुत्वा देवगंधर्वाः क्रोधान्धाः क्षुब्धमानसाः ।।
प्रगृहीतप्रहरणा रथानारुरुहुः स्वकान्।। १८ ।।
सोमोऽपि देवान्सोद्योगाञ्ज्ञात्वा सुकृतनिश्चयान् ।।
दैत्यदानवरक्षांसि समानीय व्यवस्थितः ।। १९ ।।
आरुह्य च रथश्रेष्ठं युद्धायैव मनो दधे ।।
प्रवृत्तं सुमहद्युद्धं शरतोमरकंपनैः ।। 4.99.२० ।।
कौणपैः क्ष्मासुरैः शूलैर्देवदानवदारणम् ।।
स तेषां सुमहद्युद्धं दत्त्वा तारागणाधिपः।।।
बभंज देवान्सेन्द्रांश्च हेमवृष्ट्या क्षपाकरः ।। २१ ।।
स जित्वा देवगन्धर्वान्सोमो राजन्यसत्तम ।।
श्रिया परमया युक्तो यथा नान्यो हविर्भुजाम् ।। ।। २२ ।।
देवाश्च निर्जितास्तेन सोमेनामिततेजसा ।।
आजग्मुः शरणं देवं शरण्यं स्वर्गवासिनाम् ।। २३ ।।
इन्द्रः सर्वं समाचख्यौ सोमस्येदृग्विचेष्टितम् ।।
श्रुत्वा क्रुद्धो हृषीकेश आरुह्य गरुडं रुषा ।।
गृहीत्वा चायुधं श्रेष्ठं युद्धायैव मनो दधे ।। २४ ।।
प्रकर्तुं सुमहद्युद्धं चक्रशार्ङ्गगदा धरः ।।
जगाम विबुधैः सार्धं सोमस्योपरि रोषितः ।। २५ ।।
विष्णुं विदित्वा संप्राप्तं सोमो दैत्यगणैः सह ।।
युद्धाय समरामर्षी स्थितः प्रध्माय वारिजम् ।। २६ ।।
स जित्वा देवसंघातं सेंद्रं वायुपुरस्सरम् ।।
विष्णुना सह संयुक्तः शस्त्रास्त्रैरसुभोजनैः ।। २७ ।।
यदा नासावुपरमेद्युद्धाय सह विष्णुना ।।
तदाऽऽददे रुषा विष्णुश्चकं क्रोधसमन्वितः ।। २८ ।।
अथाह ब्रह्मा देवेशमजितं विष्णुमव्ययम् ।।
योऽसौ मेघप्रपुष्टांगं यत्त्वां वच्मि निबोध तत् ।। २९ ।।
नास्ति वध्यं त्रिभुवने चक्रस्यास्य तवानघ ।।
सोमो द्विजाधिपत्ये च मया समभिषेचितः ।। 4.99.३० ।।
तस्माद्यद्युज्यते देवकार्येऽस्मिंस्तद्विधीयताम् ।।
अथाह भगवान्विष्णुः सुरब्रह्मर्षिसन्निधौ ।। ३१ ।।
सिनीवाली कुहूर्नाम तस्यां नष्टः क्षपाकरः ।।
विनष्टोऽपि पुनर्जन्म प्राप्स्यतीति न संशयः ।। ३२ ।।
राकां चानुमतिं प्राप्य वृद्धिरस्य भविष्यति ।।
आप्यायितश्च श्रुत्युक्तैः पितृपिण्डैः समंत्रकैः ।।
ब्राह्मणैर्हव्यकव्यानि देवेभ्यः प्रापयिष्यति ।। ३३।।
वृद्धिः कृष्णेन चैवास्य न च जातस्य भूयसी ।।
एवमेव विधिर्दृष्टस्तस्याप्याय नमेव मे ।। ३४ ।।
अमोघस्य न मोघत्वं भविष्यति कदाचन ।।
शप्तश्च सोमो दक्षेण स चावश्यं भविष्यति ।। ३५ ।।
सुदर्शनस्य च प्रीतिरेवमेव भविष्यति ।।
एवमस्त्विति देवेश यद्भवान्प्रब्रवीति वै ।। ३६ ।।
ब्रह्मा प्रोवाच सोमं तु विनीतवदुपस्थितम् ।।
अर्पयस्व गुरोर्भार्यां न कार्यं पुनरीदृशम् ।। ३७ ।।
स तथोक्तः समानीय ददौ तारां बृहस्पतेः ।।
पुनरूचे शशी स्पष्टं शृण्वतां त्रिदिवौकसाम् ।।३८ ।।
अस्यां गर्भो मदीयोऽयं यदपत्यं ममैव तत् ।।
बृहस्पतिरथोवाच मया गर्भः समाहितः ।। ३९ ।।
क्षेत्रे मदीये चोत्पन्नस्तस्मात्स मम पुत्रकः।।
उक्तं च वेदशास्त्रज्ञैर्षिभिर्द्धर्मदर्शिभिः ।। 4.99.४० ।।
उप्तं वाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।।
क्षेत्रिणस्तस्य तद्बीजं न बीजी फलभाग्भवेत् ।। ४१ ।।
सम्यगुक्तं न भवता शशांकः प्राह तत्त्ववित् ।।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।।
इति पौराणिकाः प्राहुर्मुनयो नयचक्षुषः ।। ४२ ।।
विवदंतौ निवार्याथ ब्रह्मा प्रोवाच तां वधूम् ।।
शनैरेकांतमानीय गर्भोयं कस्य शंस मे ।। ४३ ।।
एवमुक्ता तु सा तारा ह्रिया नोवाच किंचन ।।
उत्ससर्ज क्षणाद्गर्भं भाभासितसुरालयम् ।। ४४ ।।
तमुवाच ततो ब्रह्मा पुत्र कस्य सुतो भवान् ।।
सोमस्याहं सुतो ब्रह्मन्निति तथ्यं मयोदितम् ।। ।। ४५ ।।
बुधोऽयं विबुधाः प्राहुः सर्वज्ञानविदां वरः ।।
गृहीत्वा पुत्रकं सोमो जगाम स्वं निवेशनम् ।। ४६ ।।
गुरुर्गृहीत्वा स्वां भार्यां जगाम भवनं शनैः ।।
सोमोऽपि तनयं लब्ध्वा हर्षव्याकुलमानसः ।। ४७ ।।
पौर्णमासी समाख्याता प्राप्तपूर्णमनोरथा ।।
प्राप्तः पुत्रो मया ह्यस्यां लब्धश्च वि जयस्तथा ।।४८।।
तस्मादेनामुपासिष्ये विधिना व्रततत्परः।।
एवमन्योऽपि पूर्णार्थः पूर्णांशः पूर्णलक्षणः ।।४९।।
यो मामक्यां तिथौ भक्त्या विधिवत्पूजयिष्यति ।।
तस्य प्रसादाभिमुखः सर्वकामप्रदो ह्यहम् ।। 4.99.५० ।।
एवमेषा तिथिः पार्थ सोमस्य दयिता शुभा ।।
पौर्णमासी समाख्याता पूर्णो मासो भवेद्यथा ।। ५१ ।।
तदस्यां स्रोतसि स्नात्वा संतर्प्य पितृदेवताः ।।
आलिख्य मंडले सोमं नक्षत्रैः सहितं विभुम् ।। ५२ ।।
पूजयेत्कुसुमैर्हृद्यैर्नैवेद्यैर्घृतपाचितैः ।।
शुक्लाक्षतैः शुक्लवस्त्रैः पूजयित्वा क्षमापयेत्।।
शाकाहरणमुन्यन्नैर्नक्तं भुञ्जीत वाग्यतः ।। ५३ ।।
वसंतबांधव विधो शीतांशो स्वस्ति नः कुरु ।।
गगनार्णवमाणिक्य चन्द्र दाक्षायणीपते ।। ५४ ।।
पक्षेपक्षे पौर्णमास्यां विधिरेष प्रकीर्तितः ।।
कृष्णपक्षेऽपि यः कश्चिच्छ्रद्धावान्वै व्रती भवेत् ।। ५५।।
तस्याप्येष विधिः प्रोक्तः सर्वसौख्यप्रदायकः ।।
आमावास्या तिथिरियं पितॄणां दयिता सदा ।।
अस्यां दत्तं तपस्तप्तं पितॄणामक्षयं भवेत् ।। ५६ ।।
अमावास्या महाराज प्रयत्नैर्यैरुपोषिता ।।
तैरक्षय्यं भवेद्दत्तं पितृभ्यस्तीर्थमुत्तमम् ।। ५७ ।।
यः कश्चित्कुरुते तस्मिन्पितृपिण्डोदकक्रियाम् ।।
स तारयति पुण्यात्मा पुरुषानेकविंशतिम् ।। ५८ ।।
भवेयुरक्षयास्तस्य लोकाः पितृनिषेविताः ।।
यदा तु इह कालांते तस्यात्रागमनं भवेत् ।। ५९ ।।
ब्राह्मणः पितृभक्तश्च सर्वविद्याविशारदः ।।
एवं जन्मनि राजेन्द्र भवेद्धनसमन्वितः ।। 4.99.६० ।।
एवं संवत्सरस्यांते हैमं कृत्वा सुशोभनम् ।।
सोमं नक्षत्रसहितं विप्राय प्रतिपादयेत् ।। ६१ ।।
उपदेशं प्रयच्छेद्यस्तस्मै व्रतकृते नरः ।।
संपूज्य वस्त्राभरणैर्मंत्रेणेत्थं निवेदयेत् ।।
मासेमासे विधिरयं व्रतस्यास्य नराधिप ।। ६२ ।।
यो न शक्नोति वा कर्तुं पक्षं वाथ निरंतरम् ।।
स एकामप्युपोष्यैव कुर्यादुद्यापनं सुधीः ।। ६३ ।।
यश्चैतत्कुरुते पार्थ पौर्णमासीव्रतं नरः ।।
सर्वपापविनिर्मुक्तश्चन्द्रवद्दिवि राजते ।। ६४ ।।
पुत्रपौत्रधनोपेतो यज्वा दाता प्रियंवदः ।।
संततिं विपुलां प्राप्य प्रयागे मरणं भजेत् ।। ६५ ।।
ततश्चैवाक्षयाँल्लोकान्प्राप्नोति सुरसेवितान् ।।
सेव्यमानः स गन्धर्वैः स्तूयमानः सुरासुरैः ।।
आस्ते संपूर्णसर्वांगो यावत्कल्पायुतत्रयम् ।। ६६ ।।
अभ्यर्चयंति सितपञ्चदशीषु सोमं कृष्णासु ये पितृगणं जलपिंडदानैः ।।
तेषां गृहाणि धन धान्यसुतादिसंपत्पूर्णानि पार्थिव भवंति विधेर्विधानात् ।। ६७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयपौर्ण मासीव्रतवर्णनं नाम नवनवतितमोऽध्यायः ।। ९९ ।।