भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १०५
विशोकपूर्णिमाव्रतवर्णनम्
।। श्रीकृष्ण उवाच ।। ।।
अशोकपूर्णिमां चान्यां शृणुष्व गदतो मम ।।
यामुपोष्य नराः शोकं नाप्नुवंति कदाचन ।। १ ।।
फाल्गुनामलपक्षस्य पौर्णमास्यां नरोत्तम ।।
मृज्जलेन नरः स्नात्वा दत्त्वा शिरसि वै मृदम् ।।
मृत्प्राशनं ततः कृत्वा कृत्वा च स्थंडिलं मृदा ।। २ ।।
पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नाम नामतः ।।
धरणीं च तथा देवीमशोकेत्यभिकीर्तयेत् ।। ३ ।।
यथा विशोकां धरणे कृतवांस्त्वां जनार्दनः ।।
तथा मां सर्वशोकेभ्यो मोचयाशेषधारिणि ।।४ ।।
यथा समस्तभूतानामाधारत्त्वं व्यवस्थिता ।।
तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः ।। ५ ।।
ध्यानमात्रे यथा विष्णोः स्वास्थ्यं जानासि मेदिनि ।।
तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि ।। ६ ।।
एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च।।
उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् ।। ७ ।।
अनेनैव प्रकारेण चत्वारः फाल्गुनादयः ।।
उपोष्या नृपते मासाः प्रथमं पारणं स्मृतम् ।। ।। ८ ।।
आषाढादिषु मासेषु तद्वत्स्नानं मृदंबुना ।।
तथैव प्राशनं पूजा तद्वदिंदोस्तथार्हणम् ।। ९ ।।
चतुर्ष्वन्येषु चैवोक्तं कार्तिकादिषु पारणम्।।
पारणत्रितये चैव चातुर्मासिकमुच्यते ।। 4.105.१० ।।
विशेषपूजा दानं च तथा जागरणं निशि ।।
विशेषेणैव कर्तव्यं पारणेपारणे गते ।। ११ ।।
प्रथमे धरणी नाम तुभ्यं मासचतुष्टयम् ।।
द्वितीये मेदिनी वाच्या तृतीये च वसुन्धरा ।। १२ ।।
पारणेपारणे पार्थ युग्मानेवार्च्चयेद्द्विजान् ।।
धरणीं देव देवं च तत्तत्स्थानेन केशवम् । । १३ ।।
वस्त्राभावे च सूत्रेण पूजयेद्धरणीं तथा ।।
घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः । ।. १४ । ।
एवं संवत्सरस्यांते गौः सवत्सा द्विजातये ।।
प्रदेया धरणी देवी वस्त्रालंकारसंयुता ।। १५ ।।
पातालसंस्थया देव्या चीर्णमेतन्महाव्रतम् । ।
धरण्या केशव प्रीत्यै ततः प्राप्ता समुन्नतिः ।। १६ ।।
देवेन चोक्ता धरणी वराहवपुषा पुरा ।।
उपवासव्रतपरा समुद्धृत्य रसातलात् ।। १७ । ।
व्रतेनानेन कल्याणि त्वयाहं परितोषितः ।।
तस्मात्प्रसादमतुलं करोमि तव सुवते ।। १८ ।।
यथैव कुरुषे भक्त्या पूजां मम सुशोभनाम् । ।
तथैव तव कल्याणि प्रणतो यः करिष्यति । । १ ९। ।
व्रतमेतदुपाश्रित्य पारणं च यथाविधि । ।
सर्वबाधाविनिर्मुक्तो जन्मजन्मांतराण्यपि ।।
विशोकः सर्वकल्याणभाजनं स्यान्न संशयः ।। 4.105.२० ।।
यथा त्वमेव वसुधे संप्राप्ता निर्वृतेः पदम् । ।
तथा स परमँल्लोके सुखं प्राप्स्यति मानवः । । २१ ।।
एवमेतन्महापुण्यं सर्वपापप्रशांतिदम् । ।
विशोकाख्यं व्रतवरं तत्कुरुष्व महाव्रतम् ।। २२ ।।
सम्यग्विशोककरणी नृपपूर्णिमा ते ख्याता मया मनुमहेन्द्रसमानकीर्ते ।।
एवं करोति कुरुपुंगव यः प्रयत्नाच्छोको न तस्य भवतीह कुलेपि पुंसः ।। २३ । ।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकपूर्णिमाव्रतं नाम पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।