भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १०७

सांभरायणीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
अप्राप्तैर्न तथा दुःखमैश्वर्याद्यैर्नरोत्तम ।।
यथा मनोरथैः स्वैः स्वैर्नानादुःखं भवेन्नृणाम् ।। १ ।।
यथा मनोरथैर्लब्धैर्न स्याद्दुःखभयं नृणाम् ।।
ऐश्वर्याद्विच्युतो वापि संततेर्देवलोकतः ।। २ ।।
अभीष्टादन्यतो वापि यदाघेन विनिष्कृतिम् ।।
प्राप्नोति पुरुषो वाथ नारी वा पुण्यसंचयात् ।।
तन्ममाचक्ष्व भगवन्येन नाभ्येति विच्युतिम् ।। ३ ।। ।।
।। श्रीकृष्ण उवाच ।। ।।
सत्यमेतन्महाभाग दुःखं प्राप्नोत्यसंशयः ।। ४ ।।
ऐश्वर्योदयचित्तस्य बंधुवर्गसुखस्य च ।।
तदेतच्छ्रूयतां पार्थ यथा नेष्टात्परिच्युतिः ।। ५ ।।
स्वर्गादेर्जायते सम्यगुपवासवतां सताम् ।।
द्वादशर्क्षाणि राजेन्द्र प्रतिमासं तु यानि वै ।। ६ ।।
तन्नाम्ना चाच्युतं तेषु सम्यक्संपूजयेन्नृप ।।
पुष्पैर्धूपैस्तथांभोभिरभीष्टैरपरैरपि ।। ७ ।।
आदितः कृत्तिकां कृत्वा कार्त्तिके नृपसत्तम ।।
कृशरामत्र नैवेद्यं पूर्वं मास चतुष्टयम् ।।८।।
निवेदयेत्फाल्गुनादि संयावं च ततः परम् ।।
आषाढादिषु देवाय पायसं विनिवेदयेत् ।। ९ ।।
तेनैवान्नेन राजेन्द्र ब्राह्मणान्भोजयेद्बुधः ।।
पञ्चगव्यजलस्नानं तस्यैव प्राशनाच्छुचिः ।। 4.107.१० ।।
सम्यक्संपूज्य राजेन्द्र तमेव पुरुषोत्तमम् ।।
प्रणम्य प्रार्थयेद्विष्णुं शुचिः स्नातो यथाविधि ।।११।।
नमोनमस्तेऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यम् ।।
ऐश्वर्यवित्तादि तथाऽक्षयं मेक्षयं च मा संततिरभ्युपैतु ।। १२ ।।
यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतः परतः परात्मा ।।
तथाच्युतं मे कुरु वांछितं त्वं हरस्व पापं च तथाप्रमेय ।। १३ ।।
अच्युतानंत गोविन्द प्रसीद यदभीप्सितम् ।।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ।। १४ ।।
एवमेवं समभ्यर्च्य प्रार्थयित्वा तथा शिवम् ।।
नैवेद्यं स्वयमश्नीयान्नक्तं संपूजितेच्युते ।। १५ ।।
ततः संवत्सरस्यांते सुखसुप्तोत्थितेऽच्युते ।।
घृतपूर्णं ताम्रपात्रं ब्राह्मणाय निवेदयेत् ।।१६।।
शक्तितो दक्षिणां दद्यादच्युतः प्रीयतामिति ।।
ततस्तु सप्तमे वर्षे कुर्यादुद्यापनं बुधः ।। १७ ।।
कार्या चैवाच्युतस्यार्चा शक्त्या स्वर्णमयी नृप ।।
तदग्रे ब्राह्मणी स्थाप्या स्थविरा सांभरायणी ।। १८ ।।
महासती रौप्यमयी समानार्हा सदेवता ।।
ततस्तौ पूजयित्वा च माल्यवस्त्रविलेपनैः ।। १९ ।।
मंत्रेणानेन राजेन्द्र प्रणिपत्य विधानतः ।।
प्रतिवर्षं च दत्तं चेत्ताम्रं पात्रं द्विजातये ।। 4.107.२० ।।
तदेवहेलया दद्यात्सहिरण्याश्वसंयुतम् ।।
गाश्च प्रदद्यात्सं पूज्य सवत्साः कांस्यदोहनाः ।। २१ ।।
एकां वा शक्तितो दद्याद्भक्त्या तुष्यति केशवः ।।
घटाः सत्पात्रनिर्दिष्टाः सान्नाः पूर्णजलोज्ज्वलाः ।।२२।।
छत्रोपानद्युगैः सार्धमेवं दत्त्वा विसर्जयेत् ।।
शय्यां सतूलिकां दद्याद्गृहं चोपस्करैः सह ।। २३ ।।
श्रिया च सह विष्णुं च पूजयेद्भूषयेत्प्रभुम् ।।
वस्त्रैराभरणैश्चैव प्रणिपत्य क्षमापयेत् ।। २४ ।।
कृतेनानेन राजेन्द्र च्युतिं नाप्नोति मानवः ।।
संततेः स्वर्गवित्तादेरैश्वर्यस्य तथैव च ।।
यद्वाभिमतमन्यच्च ततो न च्यवते नरः ।। २५ ।।
तस्मात्सर्वप्रयत्नेन मासनक्षत्रपूजनैः ।।
यजेताक्षयकामस्तु सदैव पुरुषोत्तमम् ।। २६ ।।
।। श्रीकृष्ण उवाच ।। ।।
अत्रापि श्रूयते काचित्सिद्धा स्वर्गे महाव्रता ।।
नारी तपोधना भूत्वा प्रख्याता सांभरायणी ।।
समस्तसंदेहहरा सदास्वर्गौ कसां हि सा ।। २७ ।।
कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः ।।
पूर्वेन्द्रचरितं राजन्पप्रच्छेदं बृहस्पतिम् ।। २८ ।।
पूर्वेन्द्रात्परतः पूर्वे ये बभूवुः सुरेश्वराः ।।
तेषां चरितमिच्छामि श्रोतुमंगिरसां वर ।। २९ ।।
एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः ।।
प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः ।। 4.107.३० ।।
नाहं चिरंतनान्वेद्मि देवराज सुरेश्वरान् ।।
आत्मनः समकालीनमवेहि च सुरेश्वर ।। ३१ ।।
ततः पप्रच्छ देवेन्द्रः कोस्माभिर्मुनिपुंगवः ।।
प्रष्टव्योऽत्र महाभाग कृतादिवसतिर्दिवि ।। ३२ ।।
बृहस्पतिश्चिरं ध्यात्वा ततः प्राह शचीपतिम् ।।
तपस्विनीं महाभागां पृच्छैतां सांभरायणीम् ।। ३३ ।।
इत्युक्तस्तेन देवेन्द्रः कौतूहलसमन्वितः ।।
ययौ यत्र महाभागा सम्यगास्ते तपस्विनी ।। ३४ ।।
सा तौ दृष्ट्वा समायांतौ देवराजबृहस्पती ।।
सम्यगर्घ्येण संपूज्य प्रणिपत्याह सुव्रता ।। ३५ ।।।
नमोऽस्तु देवराजाय तथैवाङ्गिरसे नमः ।।
यद्वां कार्यं महाभागौ सकलं तदिहोच्यताम्।।३६।।
यदि कर्तुं मया शक्यं तत्करिष्ये विमृश्य च ।।३७।।। ।।
।। बृहस्पतिरुवाच।। ।।
आवामभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम् ।।
यच्च कार्यं महाभागे पृष्टं तत्कथयस्व नः ।।३८।।
यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि वै ।।
तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलम् ।। ३९ ।।
।। सांभरायण्युवाच ।। ।।
यो वै पूर्वं सुरेंद्रस्य ततश्च प्रथमो हि यः।।
तस्मात्पूर्वतरो यस्य तस्यापि प्रथमश्च यः ।। 4.107.४० ।।
तेषां पूर्वतरा ये च वेद्मि तानखिलानहम् ।।
तेषां च चरितं कृत्स्नं जानाम्यगिरसां वर ।।४१।।
मन्वंतराण्यनेकानि सृष्टीश्च त्रिदिवौकसाम् ।।
सप्तर्षीन्सुबहून्वेद्मि मनूनां च सुतान्नृपान् ।। ४२ ।।
एवमुक्त्वा ततस्ताभ्यां सुहृष्टा सांभरायणी ।।
यथावदाचष्ट तयोः पूर्वेन्द्रचरितं महत् ।। ४३ ।।
स्वायंभुवे यस्तु मनौ मनौ स्वारोचिषे च यः ।।
उत्तमे तामसे चैव रैवते चाक्षुषे तथा ।। ४४ ।।
ये बभूवुर्हि देवेन्द्रास्तस्य तस्य तपस्विनी ।।
तदा जगाद चरितं यथावत्सांभरायणी ।। ४५ ।।
कथयामास चाश्चर्यं तच्चापि कथयामि ते ।।४६ ।।
शंकुकर्णस्तदा दैत्यो बभूवात्यंतदुर्जयः ।।
स लोकपालान्समरे विजित्य सह दैवतैः ।।
इन्द्रस्यासाद्य भवनं प्रविवेश सुनिर्भयः ।। ४७ ।।
तं दृष्ट्वा सहसा प्राप्तं शक्रः शय्यातलेऽलुठत् ।।
जुगोप सहसात्मानं शंकुकर्णभयार्दितः ।।४८।।
दानवः शक्रशयने तस्मिन्नुपविवेश ह ।।
इन्द्राण्यपि तथा भीता गता वाचस्पतेर्गृहम् ।। ४९ ।।
अथ देवाः समाजग्मुर्भयाद्द्रष्टुं सुरद्विषम् ।।
आसीनं शक्रशयने प्रणिपातपुरस्सराः ।। 4.107.५० ।।
वासुदेवोऽपि तत्रागात्तं द्रष्टुं देवकंटकम् ।।
दृष्ट्वा कृष्णमनुप्राप्तं दानवः प्राह हर्षितः ।। ५१ ।।
धन्योऽहं कृतकृत्योहं यस्य मे गरुडध्वजः ।।
शक्रशय्यासनस्थस्य द्रष्टुमभ्येति केशवः ।। ५२ ।।
ततः करे समालंब्य शयनाभ्याशमानयत् ।।
चकार कंठग्रहणं बांधवस्येव हर्षित ।। ५३ ।।
ततः कृष्णस्तु सहसा गृह्य दोर्भ्यां शनैः शनैः ।।
पीडयामास विहसन्नदंतं भैरवान्रवान् ।।
ममार दानवेन्द्रोऽसौ बलाद्भग्नास्थिपञ्जरः ।। ५४ ।।
निर्जगाम ततः शक्रः शय्यामूलादवाक्छिराः ।।
तुष्टाव हरिमासीनं शंखचक्रगदाधरम् ।। ५९ ।।
एतद्दृष्टं मया शक्र वसंत्या सुरसद्मनि ।। ५६ ।।
ततः कुतूहलपरो देवराट् तां तपस्विनीम् ।।
उवाच जानासि कथं त्वमेतान्सांभरायणि ।।५७।।
।। सांभरायण्युवाच ।। ।।
सर्व एव हि देवेन्द्राः स्वर्गस्था येमरेश्वराः।।
बभूवुरेते चरितमेतेषां वेद्मि तेन वै ।।
चरितं च मया तेषां श्रुतं दृष्टं तथैव च ।।५८।।
।। इन्द्र उवाच ।। ।।
किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया ।।
स्वर्लोके वसतिः प्राप्ता यथा नान्येन केनचित् ।। ५९ ।।
अहो सर्वव्रतानां तु ह्युपोषितमथाद्भुतम् ।।
प्रधानतरमत्यंतं स्वर्गवासप्रदं मतम् ।। 4.107.६० ।।
एवमुक्ता ततस्तेन देवेन्द्रेण तपस्विनीं ।।
प्रत्युवाच महाभागा यथावत्सांभरायणी ।। ६१ ।।
मासर्क्षे ह्यच्युतो देवः प्रतिमासं सुरेश्वर ।।
यथोक्तव्रतया सम्यक्सप्तवर्षाणि पूजितः ।। ६२।।
तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे ।।
देवलोकादभिमता देवराजपदच्युतिः ।। ६३ ।।
स्वर्गेन्द्रविभवैश्वर्यं संततिं याति चाच्युतिम् ।।
नरो वाञ्छति तेनेत्थं तोषणीयस्ततः प्रभुः ।। ६४ ।।
एतत्ते पूर्वदेवेन्द्रचरितं सकलं मया ।।
स्वर्गवासाक्षयत्वं च मासर्क्षाच्युतपूजनात् ।।
यथावत्कथितं देव पृच्छतस्त्रिदशेश्वर ।। ६५ ।।
धर्मार्थकाममोक्षाश्च वाञ्छिता विबुधाधिप ।।
विष्णोराराधनादन्यत्परमं सिद्धिकारणम् ।। ६६ ।।
तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती ।।
तत्तथेत्यूचतुः साध्वीं चेरतुश्चापि तद्व्रतम् ।। ६७ ।।
तस्मात्पार्थ प्रयत्नेन प्रतिमासं समाहितः ।।
मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा ।।६८।।
ये सांभरायणिकथाचरितव्रतेस्मिन्वर्षाणि सप्त विधिना सुधियो नयंति ।।
ते स्वगर्लोकमभिगम्य कृताधिवासाः कल्पायुतायुतशतैरपि न च्यवंते ।। ६९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे सांभरायणीव्रतवर्णनं नाम सप्ताधिकशततमोऽध्यायः ।। १०७ ।।