भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ११३

ग्रहनक्षत्रव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि रहस्यं ह्येतदुत्तमम् ।।
येन लक्ष्मीनिर्वृतिस्तु पुष्टिश्चैवोपजायते ।। १ ।।
सर्वे ग्रहाः सदा सौम्या जायंते येन पांडव ।।
आदित्यवारे हस्तेन पूर्वं गृह्य विचक्षणः ।। २ ।।
नक्तोक्तविधिना सर्वं कुर्यात्पूजां तथा रवेः ।।
प्रत्यक्षं सप्त नक्तानि कृत्वा भक्तिपरो नरः ।। ३ ।।
ततस्तु सप्तमे प्राप्ते कुर्याद्ब्राह्मणवाचनम् ।।
भास्करं सर्वसौवर्णं कृत्वा यत्नेन मानवः ।। ४ ।।
ताम्रपात्रे स्थापयित्वा रक्तपुष्पैः प्रपूज्य च ।।
रक्तवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ।। ५ ।।
घृतेन स्नपनं कृत्वा लड्डुकान्विनिवेद्य च ।।
मंत्रेणानेन विदुषे ब्राह्मणायोपपादयेत् ।। ६ ।।
आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकर ।।
त्वं रवे तारयस्वास्मानऽस्मात्संसारसागरात् ।। ७ ।।
कृतेनानेन राजेन्द्र भवेदारोग्यमुत्तमम् ।।
द्रव्यसंपत्सुतप्राप्तिरिति पौराणिका विदुः ।। ८ ।।
अविसंवादिनी चेयं शान्तिपुष्टिप्रदा नृणाम्।।
तद्वच्चित्रासु संगृह्य सोमवारं विचक्षणः ।। ९ ।।
सप्तमे च ततः प्राप्ते दत्त्वा ब्राह्मणभोजनम् ।।
कांस्यभाजनसंस्थं वा राजतं राजतेऽथ वा ।। 4.113.१० ।।
पात्रे कृत्वा सोमराजं श्वेतवस्त्रावगुंठितम् ।।
पादुकोपानहच्छत्रभाजनासनसंयुतम् ।। ११ ।।
दध्यन्नशिखरं दत्त्वा ब्राह्मणाय निवेदयेत् ।।
मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते ।। १२ ।।
श्रीमहादेवजावल्ली पुष्पगोक्षीरपांडुर ।।
सोम सौम्यो भवास्माकं सर्वदा ह्युत्तमोत्तम ।। ।। १३ ।।
एवं कृते महाराज सोमस्तुष्टिप्रदो भवेत् ।।
भवंति तुष्टेऽत्रिसुते सर्वे सानुग्रहा ग्रहाः ।। १४ ।।
स्वात्यामंगारकं गृह्य क्षपयेन्नक्तभोजनः ।।
सप्तमे त्वथ संप्राप्ते स्थापितं ताम्रभाजने ।। १९ ।।
रक्तवस्त्रयुगच्छन्नं कुंकुमेनानुलेपनम् ।।
नैवेद्यं हंतकारं च पूज्य धूपाक्षतादिभिः ।। १६ ।।
मंत्रेणानेन तं दद्याद्ब्राह्मणाय कुटुंबिने ।।
कुजन्मप्रभवोऽपि त्वं मंगलः पठ्यसे बुधैः ।।
अमंगलं निहत्याशु सर्वदा यच्छ मंगलम् ।। १७ ।।
विशाखासु बुधं गृह्य सप्त नक्तान्यथाचरेत् ।।
बुधं हेममयं कृत्वा स्थापितं कांस्यभाजने ।। १८ ।।
शुक्लवस्त्रयुगच्छन्नं शुक्लमाल्यानुलेपनैः ।।
गुडौदनोपहारं तु ब्राह्मणाय निवेदयेत् ।। १९ ।।
बुधः सद्बुद्धिजननो बोधदः सर्वदा नृणाम् ।।
तत्त्वावबोधं कुरु मे राजपुत्र नमोनमः ।। 4.113.२० ।।
अनुराधास्वथाचार्यं देवानां पूज्य भक्तितः ।।
पूर्वोक्तक्रमयोगेन सप्त नक्तान्यथाचरेत् ।। २१ ।।
हैमं हेममये पात्रे स्थापयित्वा बृहस्पतिम् ।।
पीतांबरयुगच्छन्नं पीतयज्ञोपवीतिनम् ।। २२ ।।
पादुकाच्छत्रसहितं सदंडं सकमण्डलुम् ।।
संपूज्य पुष्पनिकरैर्दीपधूपाक्षतादिभिः ।। २३ ।।
खण्डखाद्योपहारैश्च द्विजाय प्रतिपादयेत् ।।
धर्मशास्त्रार्थशास्त्रज्ञ ज्ञानविज्ञानपारग ।।
अगाधबुद्धिगांभीर्य देवाचार्य नमोऽस्तु ते ।। २४ ।।
शुक्रं ज्येष्ठासु संगृह्य क्षपयेन्नक्तभोजनैः ।।
पूर्वोक्तक्रमयोगेन द्विजसंतर्पणेन च ।। २५ ।।
सप्तमे त्वथ संप्राप्ते सौवर्णं कारयेच्छुभम् ।।
रौप्ये वा वंशपात्रे वा स्थापयित्वा भृगोः सुतम् ।। २६ ।।
संपूज्य परया भक्त्या श्वेतवस्त्रविलेपनैः ।।
अग्रे तस्य प्रदातव्यं पायसं घृत संयुतम् ।। २७ ।।
दद्यादनेन मंत्रेण ब्राह्मणाय विचक्षणः ।।
भार्गवो भृगुपुत्रोऽसि शुक्र क्रमविशारद ।। २८ ।।
हत्वा ग्रहकृतान्दोषानायुरारोग्यदो भव ।।
मूलेन सूर्यतनयं गृहीत्वा भरतर्षभ ।। २९ ।।
तस्मिन्दिने पूजनीयं ग्रहत्रितयमादरात् ।।
शनैश्चरश्च राहुश्च केतुश्चेति क्रमान्नृप ।। 4.113.३० ।।
होमं तिलघृतैः कुर्याद्गृहनाम्ना तु मंत्रवित् ।।
अर्कः पलाशखदिरौ ह्यपामार्गोथ पिप्पलः ।। ३१ ।।
उदुंबरशमीदूर्वाकुशाश्च समिधः क्रमात् ।।
एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा ।। ३२ ।।
होतव्यं मधुसर्पिभ्यां दध्ना वा पायसेन वा ।।
सप्तमे त्वथ संप्राप्ते नक्तं सूर्यसुतस्य तु ।। ३३ ।।
ग्रहास्त्रयोऽपि कर्तव्या राजँल्लोहमयाः शुभाः ।।
व्रतांते सर्वतश्चैतान्सौवर्णान्वाथ कारयेत् ।। ३४ ।।
कृष्णवस्त्रयुगं दद्यादेकैकस्य क्रमान्नृप ।।
मृगनाभ्या समालभ्य कृशरान्विनिवेद्य च ।। ३५ ।।
होमावसाने सर्वं तद्ब्राह्मणायोपपादयेत् ।।
शनैश्चर नमस्तेऽस्तु नमोऽस्तु राहवे तथा ।। ३६ ।।
केतवे च नमस्तुभ्यं सर्वशांतिप्रदो भव ।।
एवं कृते भवेद्यस्तु तन्निबोध नरेश्वर ।। ३७ ।।
यदि भौमो रविसुतो भास्करो राहुणा सह ।।
केतुश्च मूर्ध्नि तिष्ठंति सर्वे पीडाकरा ग्रहाः ।। ३८ ।।
अनेन कृतमात्रेण सर्वे शाम्यंत्युपद्रवाः ।। ३९ ।।
एवं यः कुरुते राजन्सदाभक्तिसमन्वितः ।।
तस्य सानुग्रहा सर्वे यच्छन्ति विजयं सुखम् ।।4.113.४०।।
यश्चैतच्छ्रणुयात्कल्पं ग्रहाणां पठतेऽपि वा ।।
तस्य सानुग्रहा सर्वे शांतिं यच्छंति नान्यथा ।।४१।।
शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेत् ।।
कृष्णागरुः स्मृतो धूपो दक्षिणा चात्मशक्तितः ।।४२।।
सूर्यं विधुं कुज बुधौ गुरुशुक्रसौरीन्हस्तादिकर्क्षसहितानुदितक्रमेण।।
संपूज्य हेमघटितान्द्विजपुङ्गवाय दत्त्वा पुमान्ग्रहगणेन न पीड्यतेऽत्र ।।४३।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ग्रहनक्षत्रव्रतवर्णनं नाम त्रयोदशोत्तरशततमोऽध्यायः ।। ११३ ।।