भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ११४

शनैश्चरव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।।
पुरा त्रेतायुगे पार्थ नावर्षत्पाकशासनः ।।
कथंचिदनयाद्राज्ञस्तस्य राष्ट्रे समंततः ।। १ ।।
ततो राष्ट्रं क्षुधाविष्टं बभूवातीव दारुणम् ।।
पतंगमूषिकाकीर्णं चोरव्यालभयाकुलम् ।। २ ।।
तस्मिन्घोराकुले काले सपत्नीकः सबालकः ।।
कौशिकः स्वगृहं त्यक्त्वा परराष्ट्रमगाच्छनैः ।। ३ ।।
मार्गेऽथ गच्छता तेन कौशिकेन महर्षिणा ।।
त्यक्तः स बालको ह्येको दुर्भरं च कुटुम्बकम् ।। ४ ।।
तस्मिन्काले विशेषेण क्षीणेन्नौषधि संचये ।।
कृत्वातिनिर्घृणं कर्म गतोऽसौ कौशिको मुनिः ।। ५ ।।
सोऽपि बालो रुदन्दीनो दिशो वीक्ष्य स्थितः पथि ।।
उत्थाय पिप्पलस्याधः फलान्यत्तुं प्रचक्रमे ।। ६ ।।
कूपे जलं पपौ नित्यं तत्रैवाश्रममंडले ।।
कृत्वा सम्यक् स्थितो रौद्रं तेपे च विपुलं तपः ।। ७ ।।
अथाजगाम भगवान्नारदो वेदपारगः ।।
तं दृष्ट्वा दीनवदनं क्षुधार्तं द्विजपोतकम् ।। ८ ।।
दयया तस्य संस्कारं चक्रे मौंज्यादिबंधनम् ।।
वेदानध्यापयामास सरहस्यपदक्रमान् ।।
ददौ च वैष्णवं मंत्रं द्वादशाक्षरमित्युत ।। ९ ।।
वेदाभ्यासरतस्यास्य विष्णुध्यानपरस्य च ।।
प्रत्यहं पिप्पलादस्य विष्णुः प्रत्यक्षतां ययौ ।। 4.114.१० ।।
वैनतेयसमारूढो नीलोत्पलदलच्छविः ।।
चतुर्भुजः पीतवासाः शंखचक्रगदाधरः ।। ११ ।।
स उवाच तदा तुष्टो वरं ब्रूहि यमि च्छसि ।।
तच्छ्रुत्वा नारदमुखं समालोक्य शिशुस्तदा ।।
नारदेनाप्यनुज्ञातो ज्ञानविद्यामयाचत ।। १२ ।।
दत्त्वा ज्ञानं सोपदेशं योगाभ्यासं च निर्मलम् ।।
नागारिगमनो विष्णुस्तत्रैवान्तर्हितोभवत् ।। १३ ।।
ततो राजन्महाज्ञानी महर्षिः स शिशुस्तदा ।।
नारदं परिपप्रच्छ केनाहं पीडितो मुने ।। १४ ।।
ग्रहेणाग्रहभूतेन बालरूपोऽपि दुःखित. ।।
न मे पिता न मे माता जीवितोस्म्यतिपीडया ।। १५ ।।
ब्राह्मण्यं भवता दत्तं दैवान्मम द्विजोत्तम ।।
एतच्छ्रुत्वा शिशोर्वाक्यं कथयामास नारदः ।। १६ ।।
शनैश्चरेण क्रूरेण ग्रहेण त्वं हि पीडितः ।।
पीडितश्च समस्तोऽपि देशोयं मंदचारिणा ।। १७ ।।
तेनैतत्ते फलं प्राप्तं सैषः सौरिः शनैश्चरः ।।
प्रज्वलन्नतिदर्पेण स्फुरतीव नभस्तले ।। १८ ।।
एवमुक्तः शिशुः क्रोधात्प्रजज्वालेव पावकः ।।
आलोक्य गगनाद्भूमौ पातयामास वै शनिम् ।।
पतमानो गिरेः शृंगाद्भग्नः खंजो बभूव ह ।। १९ ।।
धरण्यां पतितं दृष्ट्वा भास्करात्मजमातुरम् ।।
नरीनर्ति भुजक्षेपैर्नारदो हृष्टमानसः ।। 4.114.२० ।।
हर्षाद्देवानथाहूय दर्शयामास तं शनिम् ।। २१ ।।
अथ देवास्तथा प्राप्ता ब्रह्मरुद्रेन्द्रपावकाः ।।
शनैः संशमयासुरूचुश्चेदमृषिं च तम् ।। २२ ।।
स्वस्ति तेऽस्तु महाभाग पिप्पलाद महामुने ।।
भद्रं तेऽत्र कृतं नाम नारदेन महर्षिणा ।।
अन्वर्थयुक्तं विप्रेन्द्र जीवितं पिप्लादनात् ।। २३ ।।
भगवन्पिप्पलान्यत्त्वा जीवितोऽसि यतो मुने ।।
ततश्च पिप्पलादेति ख्यातिं लोके गमिष्यसि ।। २४ ।।
ये च त्वां पूजयिष्यंति स्नात्वा पुष्पैर्महाऋषिम् ।।२५।।
इहाश्रमे समभ्येत्य रूपेस्मिन्भक्तिभाविताः ।।
सप्तजन्मान्तरं यावत्पुत्रपौत्रानुगामिनः।।२६।।
न तेषां बाधिका सत्यं ग्रहपीडा भविष्यति ।।
स्मरिष्यंतीह ये च त्वां पिप्पलादेति नामतः ।।२७।।
तेषां शनैश्चर कृता पीडा न प्रभविष्यति ।।
क्षमस्वास्य महाभाग निर्दोषोऽयं ग्रहाग्रणीः ।। २८ ।।
चरन्वृक्षं शनैरेष शुभाशुभफलप्रदः ।।
हतसाध्या ग्रहाश्चैते न भवंति कदाचन।।२९।।
बलिहोमनमस्कारैः शांतिं यच्छंति पूजिताः ।।
अतोऽर्थमस्य दिवसे स्नानमभ्यंगपूर्वकम् ।।4.114.३०।।
कार्यं देयं च विप्राणां तैलमभ्यंगहेतवे ।।
यस्तु संवत्सरं यावत्प्राप्ते शनिदिने नरः ।।३१।।
तैलं ददाति विप्राणां स्वशक्त्यान्यजनेपि च ।।
ततस्संवत्सरस्यांते प्राप्ते तस्य दिनं पुनः ।। ३२ ।।
लोहैस्संघटितं सौरिं तैलमध्ये विनिक्षिपेत् ।।
लोहभांडकमध्यस्थं कृष्णवस्त्रयुगच्छदम् ।। ३३ ।।
कृष्णगोदक्षिणायुक्तं कृष्णकंबल शायिनम् ।।
तिलतैलेन च स्नानं कृष्णपुष्पैः सुपूजितम् ।।३४।।
कृष्णगंधैः कृष्णधूपैः कृशरान्नैस्तिलौदनैः ।।
पूजयित्वा सूर्यपुत्रं ब्राह्मणाय निवेदयेत् ।। ३५ ।।
मंत्रेणानेन ब्रह्मर्षे शन्नोदेवीति भक्तिमान् ।।
इतरेषां तु वर्णानां शृणु मन्त्रं द्विजोत्तम ।। ३६ ।।
क्रूरावलोकनवशाद्भुवनं नाशयिष्यति यो ग्रहो रुष्टः ।।
तुष्टो धनकनकसुखं ददाति सौरिः शनैश्चरः पातु ।। ३७ ।।
यत्पुरा नष्टराज्याय नलाय प्रददौ किल ।।
स्वप्ने सौरिर्निजं मन्त्रं शृणु कामफलप्रदम् ।। ३८ ।।
क्रोडं नीलाञ्जनप्रख्यं नीलवर्णसमस्रजम ।।
छायामार्तंडसंभूतं नमस्यामि शनैश्चरम् ।। ३९ ।।
नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णांजनमेचकाय ।।
श्रुत्वा रहस्यं भवकामदश्च फलप्रदो मे भव सूर्यपुत्र ।। 4.114.४० ।।
नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः ।।
शनैश्चराय क्रूराय शुद्धबुद्धिप्रदायिने ।। ४१ ।।
य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम् ।।
मदीयं तु भयं तस्य स्वप्नेऽपि न भविष्यति ।।४२।।
एवमूचे शनिः पूर्वमतस्तं ब्राह्मणे ददेत् ।।
एवमेतद्व्रतं विप्र ये चरिष्यंति मानवाः ।। ४३ ।।
स्थावरेस्थावरे प्राप्ते वत्सरं यावदेव तु ।।
तेषां शानैश्चरी पीडा देशेऽपि न भविष्यति ।। ४४ ।।
एवमुक्त्वा सुराः सर्वे प्रतिजग्मुर्यथागतम् ।।
शनैश्चरोऽपि स्वस्थाने ग्रहांते खे प्रतिष्ठितः ।। ४५ ।।
पिप्पलादोऽपि ब्रह्मज्ञो ब्रह्माज्ञां प्रतिपालयन् ।।
शनैश्चरं तु संपूज्य तुष्टाव रचिताञ्जलिः ।। ४६ ।।
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।।
सौरिः शनैश्चरो मोदः प्रीयतां मे ग्रहोत्तमः ।।४७।।
शनैश्चरमिति स्तुत्वा पिप्पलादो महामुनिः ।।
खे प्रज्वलन्विमानस्थो दृश्यतेऽद्यापि मानवैः ।।४८।।
इदं शनैश्चराख्यानं ये श्रोष्यन्ति समाहिताः ।।
तेषां कुरुवरश्रेष्ठ शनिः पीडां न दास्यति ।। ४९ ।।
कृष्णायसेन घटितां ग्रहराजमूर्तिं लोहे निधाय कलशे तिलतैलपूर्णे ।।
यो ब्राह्मणाय रविजं प्रददाति भक्त्या पीडा शनैश्चरकृता न हि बाधते तम् ।। 4.114.५० ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शनैश्चरव्रतवर्णनंनाम चतुर्दशोत्तरशतमोऽध्यायः ।। ११४ ।।