भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ११५

आदित्यदिननक्तविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
यदारोग्यकरं पुंसां यदनंतफलप्रदम् ।।
व्रतं तद्ब्रूहि गोविन्द सर्वपापप्रणाशनम् ।।१।।
।। श्रीकृष्ण उवाच ।। ।।
यत्तद्विश्वात्मनो धाम परं ब्रह्म सनातनम् ।।
सूर्याग्निचन्द्ररूपेण तत्त्रिधा जगति स्थितम् ।। २ ।।
तमाराध्य पुमान्किं न प्राप्नोति कुरुनन्दन ।।
तस्मादादित्यवारेण सदा नक्ताशनो भवेत् ।। ३ ।।
उत्पद्यते यदा भक्तिर्भानोरुपरि शाश्वती ।।
तदारभ्य सदा कार्यं नक्तमादित्यवासरे ।। ४ ।।
पूर्वोक्तविधिना चैव पूजयित्वा द्विजोत्तमान् ।।
ततोऽस्तसमये भानो रक्तचन्दनपङ्कजम् ।। ५ ।।
विलिख्य द्वादशदलं पूज्य सूर्येति पूर्वतः ।।
दिवाकरं तथाग्नेये विवस्वतमतः परम् ।। ६ ।।
भगं तु नैर्ऋते देवं वरुणं पश्चिमे दले ।।
महेन्द्रं मारुतदले आदित्यं तु तथोत्तरे ।। ७ ।।
शांतमीशानभागे तु नमस्कारेण विन्यसेत्।।
कर्णिकापूर्वपत्रे तु सूर्यस्य तुरगान्न्यसेत् ।। ८ ।।
दक्षिणे यमनामानं मार्तंडं पश्चिमे दले ।।
उत्तरेण रविं देवं कर्णिकायां तु भास्करम् ।। ९ ।।
अर्घ्यं दद्यात्ततः पार्थ सतिलारुणचंदनम् ।।
फलाक्षतयुतं तद्वदिमं मंत्रमुदीरयेत् ।। 4.115.१०
कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः।।
यस्मादग्नींदुरूपस्त्वमतः पाहि प्रभाकर ।। ११ ।।
अग्निमीले नमस्तुभ्यमिषे त्वोर्जे च भास्करे।।
अग्न आयाहि वरद नमस्ते ज्योतिषां पते।।१२।।
अर्घ्यं दत्त्वा विसर्ज्याथ निशि तैलविवर्जितम् ।।
भुञ्जीत भावितमना भास्करं संस्मरन्मुहुः ।।१३।।
प्राक्तनेऽह्नि शनौ चैव तैलाभ्यंगं विवर्जयेत् ।।
वत्सरांते कारयित्वा काञ्चनं कमलोत्तमम् ।। १४ ।।
पुरुषं च यथाशक्त्या कारयेद्द्विभुजं तथा ।। १५ ।।
सुवर्णशृंगीं कपिलां महार्घ्यां रौप्यखुरां कांस्यदोहां सवत्साम् ।।
पूर्णे गुडस्योपरि ताम्रपात्रे निधाय पद्मं च ततो निदध्यात् ।।९।।
गां कल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतनायकाय ।।
अव्यंगरूपाय जितेन्द्रियाय कुटुंबिने शुद्धमनुद्धताय ।। १७ ।।
नमोऽस्तु ऋक्सामयजुर्विधात्रे पद्मप्रबोधाय जगत्सवित्रे ।।
त्रयीमयाय त्रिगुणात्मने च त्रिलोकनाथाय नमोनमस्ते ।।१८।।
इत्यनेन विधानेन वर्षमेकं तु यो नरः ।।
नक्तमादित्यवारेण कुर्यात्स नीरुजो भवेत् ।।१९।।
धनधान्यसमायुक्तः पुत्रपौत्रसमन्वितः ।।
मर्त्ये स्थित्वा चिरं कालं सूर्यलोकमवाप्नुयात् ।। 4.115.२० ।।
कर्मसंक्षयमवाप्य पार्थिवः शोकदुःखभयरोगवर्जितः ।।
स्यादमित्रकुलकालसंनिभो धर्ममूर्तिरमितौजसा युतः ।। २१ ।।
या च भर्तृगुरुदेवतत्परा वेदमूर्तिदिननक्तमाचरत्।।
सापि लोकममरेशपूजिता याति कौ रव रवेर्न्न संशयः ।। २२ ।।
यः पठेदथ शृणोति वा नरः पश्यतीत्थमथ वानुमोदयेत् ।।
सोऽपि शक्रभवने दिवौकसैः कल्पकोटिशतमेकमीड्यते । ।। २३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आदित्यदिननक्तविधिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः । ।। ११५ ।।