भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२६

सांभरायणीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
गृहस्थो मरणे प्राप्ते कथं त्यजति जीवितम्।।
एतन्मे ब्रूहि गोविन्द परं कौतूहलं हि मे।।१।।
।। श्रीकृष्ण उवाच।।
नान्यदुष्कृष्टमुद्दिष्टं तज्ज्ञैरनशनात्परम् ।।
तस्याहं लक्षणं वक्ष्ये यज्जप्यं च मुमूर्षता ।। २
यादृग्रूपश्च भगवांश्चिंतनीयो जनार्दनः ।।
आसन्नमात्मनः कालं ज्ञात्वा प्राज्ञो युधिष्ठिर ।। ३ ।।
निर्धूतमलदोषश्च स्नातो नियतमानसः ।।
समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ।। ४ ।।
प्रणिपातैः स्तवैः पुण्यैर्गंधैर्धूपैस्तु पूजयेत् ।।
दत्त्वा दानं च विप्रेभ्यो विकलादिभ्य एव च ।।
समर्प्य ब्राह्मणेभ्यश्च देवार्चाद्युपयोगि च ।। ५ ।।
बंधु पुत्रकलत्रेषु क्षेत्रधान्यधनादिषु ।।
मित्रवर्गे च राजेन्द्र ममत्वं विनिवर्तयेत् ।। ६ ।।
मित्राण्यमित्रान्मध्यस्थान्परान्स्वांश्च पुनः पुनः ।।
अत्यर्थमपकारेण नोपकारेण चिन्तयेत् ।। ७ ।।
ततश्च प्रयतः कुर्यादुत्सर्गं सर्वकर्मणाम् ।।
शुभाशुभानां राजेन्द्र वाक्यं चेदमुदीरयेत् ।। ८ ।।
परित्यजाम्यहं भोगांस्त्यजामि सुहृदोऽखिलान् ।।
भोजनं हि मयोत्सृष्टमुत्सृष्टमनुलेपनम् ।। ९ ।।
स्रग्भूषणादिकं गेयं दानमासनमेव च ।।
होमादयः परार्था ये ये च नित्यक्रमागताः ।। 4.126.१० ।।
नैमित्तिकास्तथा काम्याः श्राद्धधर्मादयोज्झिताः ।।
त्यक्ताश्चाश्रमिका धर्मा वर्णधर्मास्तथोज्झिताः ।।११।।
पद्भ्यां कराभ्यां विहरन्कुर्वाणः कर्म चोद्वहन् ।।
न पापं कस्यचिन्न्याय्याः प्राणिनः संतु निर्भयाः ।। १२ ।।
नभसि प्राणिनो ये च ये जले ये च भूतले ।।
क्षितेर्विवरगा ये च ये च पाषाणसंपुटे ।। १३ ।।
धान्यादिषु च वस्त्रेषु शयनेष्वासनेषु च ।।
ते स्वयं तु विबुध्यंते दत्तं तेभ्योऽभयं मया ।। १४ ।।
न मेऽस्ति बांधवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् ।।
मित्रपक्षे च मे विष्णुरधश्चोर्ध्वं तथा पुनः ।। १५ ।।
पार्श्वतो मूर्ध्नि हृदये बाहुभ्यां चैव चक्षुषोः ।।
श्रोत्रादिषु च सर्वेषु मम विष्णुः प्रतिष्ठितः ।। १६ ।।
इति सर्वं समुत्सृज्य धृत्वा सर्वेशमच्युतम् ।।
वासुदेवेत्यविरतं नाम देवस्य कीर्तयेत् ।। १७ ।।
दक्षिणाग्रेषु दर्भेषु शेते वै प्राक्छिरास्तथा ।।
उदक्छिरा वा राजेंद्र चिंतयञ्जगतः पतिम् ।। १८ ।।
विष्णुं जिष्णुं हृषीकेशं केशवं मधुसूदनम् ।।
नारायणं नरं शौरिं वासुदेवं जनार्दनम् ।। १९ ।।
वाराहं यज्ञपुरुषं पुंडरीकाक्षमच्युतम् ।।
वामनं श्रीधरं कृष्णं नृसिंहमपराजितम् ।। 4.126.२० ।।
पद्मनाभमजं श्रीशं दामोदरमधोक्षजम् ।।
सर्वेश्वरेश्वरं शुद्धमनंतं विश्वरूपिणम् ।। २१ ।।
चक्रिणं गदिनं शांतं शंखिनं गरुडध्वजम् ।।
किरीटकौस्तुभधरं प्रणमाम्यहमव्ययम् ।। २२ ।।
अहमस्मि जगन्नाथ मयि वासं कुरु द्रुतम् ।।
आवयोरंतरं मास्तु समीराकाशयोरिव ।। २३ ।।
अयं विष्णुरयं शौरिरयं कृष्णः पुरो मम ।।
नीलोत्पलदलश्यामः पद्मपत्रायतेक्षणः ।। २४ ।।
एष पश्यतु मामीशः पश्याम्यहमधोक्षजम् ।।
इत्थं जपेदेकमनाः स्मरन्सर्वेश्वरं हरिम् ।। २५ ।।
आसीत सुखदुःखेषु समो मित्राहितेषु च ।।
ॐ नमो वासुदेवाय ' इत्येतत्सततं जपेत् ।। २६ ।।
यथायथा भवेत्कामस्तथा तन्नामकीर्तयेत् ।।
ध्यायेच्च देवदेवेशं विष्णो रूपं मनोरमम् ।। २७ ।।
प्रसन्ननेत्रभ्रूचक्रशंखचक्रगदाधरम् ।।
श्रीवक्षसं सुमनसं चतुर्वक्त्रं किरीटिनम् ।। २८ ।।
पीतांबरधरं कृष्णं चारुकेयूरधारिणम् ।।
चिंतयेत्तु सदारूपं मनः कृत्वैकनिश्चयम्।।२९।।
यादृशे वा मनः स्थैर्यं रूपे बध्नाति चक्रिणः ।।
तदेव चिंतयेद्रूपं वासुदेवेति कीर्तयेत् ।। 4.126.३० ।।
इत्थं जपन्स्मरन्नित्यं स्वरूपं परमात्मनः ।।
अप्राणपरमोदारस्तच्चित्तस्तत्परायणः ।। ३१ ।।
सर्वपातकयुक्तोऽपि पुरुषः पुरुषर्षभ ।।
प्रयाति देवदेवेशे लयमीड्यतमेच्युते ।। ३२ ।।
यथाग्निस्तृण जातानि दहत्यनिलसंगतः ।।
तथानशनसंकल्पः पुंसां पापमसंशयम् ।। ३३ ।।
।। युधिष्ठिर उवाच ।। ।।
उत्क्रांतिकाले भूतानां मुह्यंति चित्तवृत्तयः ।।
जराव्याधिविहीनानां किमुत व्याधिदोषिणाम् ।। ३४ ।।
अत्यंतवयसा दग्धो व्याधिना चोपपीडितः ।।
यदि स्थातुं न शक्नोति क्षितिस्थो दर्भसंस्तरे ।। ३५ ।।
किमप्यन्योप्युपायोऽस्ति न वानशनकर्मणि ।।
वैकल्यं येन नाप्नोति तन्मे ब्रूहि जनार्दन।।३६।।
त्वयोक्तं भगवन्ध्यानं तद्ब्रूहि मम तत्त्वतः ।।
ध्यानस्वरूपमखिलं कथयस्व जनार्दन ।।३७।।
।। श्रीकृष्ण उवाच।। ।।
नात्र भूमिर्न च कुशाः स्वास्तराश्च न कारणम्।।
चित्तस्यालं वनीभूतो विष्णुरेवात्र कारणम् ।। ३८ ।।
तिष्ठन्भुञ्जन्स्वपन्गच्छंस्तथा धावन्नितस्ततः ।।
उत्क्रांतिकाले गोविन्दं संस्मरंस्तन्मयो भवेत् ।। ३९ ।।
यं यञ्चापि स्मरन्भावं त्यजन्यन्ते कलेवरम् ।।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ।।4.126.४०।।
तस्मात्प्रधानमंत्रोक्तं वासुदेवस्य चिन्तनम् ।।
यद्यत्पृष्टं त्वया ध्यानं तदेव कथयामि ते ।।४१।।
पुरा मे कथितं पार्थ मार्कंडेयेन धीमता ।।४२।।
राज्योपभोगशयनासनवाहनेषु स्त्रीगंधमाल्यमणिवस्त्रविभूषणेषु ।।
इच्छाभिलाषमतिमात्रमुदेति मोहाद्ध्यानं तदात्तमिति संप्रवदंति तज्ज्ञाः ।।४३।।
संछेदनैर्दहनताडनपीडनैश्च गात्रप्रहारदमनैर्विनिकर्तनैश्च।।
यस्येह चेतसि हि याति न चानुकंपा ध्यानं तु रौद्रमिति तत्प्रवदंति तज्ज्ञाः ।। ४४ ।।
सूत्रार्थमार्गणमहाव्रतभावनाभिर्बंधप्रमोक्षगतिरागतिहेतु चिन्ता ।।
पञ्चेन्द्रियाद्युपशमश्च शमश्च भूतेर्ध्यानं तु धर्म्यमिति तत्प्रवदंति संतः ।। ४५ ।।
यस्येन्द्रियाणि विषयैर्न विवर्जितानि सङ्कल्पनात्मज विकल्पविकारयोगैः ।।
तत्वेकनिष्ठहृदयो निभृतांतरात्मा ध्यानं तु शुक्लमिति तत्प्रवदंति सिद्धाः ।। ४६ ।।
आद्ये तिर्यगधोगतिश्च नियतं ध्याने तु रौद्रे सदा धर्म्ये देवगतिः शुभं फलमहोशुक्ले च जन्मक्षयः ।।
तस्माज्जन्मरुजापहे हिततरे संसारनिर्वाहके ध्याने शुक्लतरे रजःप्रमथने कुर्यात्प्रयत्नं बुधः ।। ४७ ।।
समाः सहस्राणि तु सप्त वै जले दशैकमग्नौ पवने च षोडश ।।
गवां गृहे षष्टिरशीतिराहवे अनाशने भारत चाक्षया गतिः।। ।। ४८ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सांभरायणीव्रतवर्णनं नाम षड्विंशत्युत्तरशततमोऽध्यायः ।। १२६ ।। ।।