भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२८

वृक्षोद्यापनविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
वृक्षारोपणमाहात्म्यं वद देवकिनन्दन ।।
उद्यापनविधिं चैव सरहस्यं समासतः ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
वरं भूमिरुहाः पञ्च नगकाष्ठरुहा दश ।।
पत्रैः पुष्पैः फलैर्मूलैः कुर्वंति पितृतर्पणम् ।। २ ।।
बहुभिर्मृतकिञ्जातैः पुत्रैर्धर्मार्थवर्जितैः ।।
वरमेके पथितरुर्यत्र विश्रमते जनः ।।३।।
प्राणिनः प्रीणयंति स्म च्छायावल्कलपल्लवैः ।।
घनच्छदाः सुतरवः पुष्पैर्देवान्फलैः पितॄन् ।।४।।
पुष्पपत्रफलच्छायामूलवल्कलदारुभिः ।।
धन्या महीरुहा येषां विफला यांति नार्थिनः ।। ५ ।।
पुत्राः संवत्सरस्यांते श्राद्धं कुर्वंति वा न वा ।।
प्रत्यहं पादपाः पुष्टिं श्रेयोऽर्थं जनयंति हि ।। ६ ।।
न तत्करोत्यग्निहोत्रं सुखं यद्योषितः सुतः ।।
यत्करोति घनच्छायः पादपः पथि रोपितः ।। ७ ।।
सच्छाया च सपुष्पा च सफला वृक्षवाटिका ।।
कुलयोषेव भवति भर्तृलोकद्वयानुगा ।। ८ ।।
अशोकफलावकरा तिलकालंकृतानना ।।
सर्वोपभोग वेश्येव वाटिका रसिका सदा ।। ९ ।।
सदा स तीर्थी भवति सदा दानं प्रयच्छति ।।
सदा यज्ञं स यजते यो रोपयति पादपम् ।। ।। 4.128.१० ।।
अश्वत्थमेकं पिचुमंदमेकं न्यग्रोधमेकं दश चिञ्चिणीकान्।।
कपित्थबिल्वामलकीत्रयं च पञ्चाम्रवापी नरकं न पश्येत् ।। ११ ।।
पुष्पोपगंधाढ्यफलोपगन्धं यः पादपं स्पर्शयते द्विजाय ।।
स स्त्रीसमृद्धं वहुरत्नपूर्णं लभेद्विमानप्रतिमं गृहं वै ।। १२ ।।
प्रतिश्रयाश्रान्त समाश्रयत्वात्समीहितं तत्र फलं बुभुक्षोः ।।
अपत्यमेकं परलोकहेतोर्विमृश्यतां किं तरवो न रोपिताः ।। १३ ।।
न खानिताः पुष्करिण्यो रोपिता न महीरुहाः ।।
मातुर्यौवनचौरेण तेन जातेन किं कृतम् ।। १४ ।।
छायामन्यस्य कुर्वंति तिष्ठंति स्वयमातपे ।।
फलंति च परार्थेषु न स्वार्थेषु महाद्रुमाः ।। १५ ।।
अतः परं प्रवक्ष्यामि वृक्षस्योद्यापने विधिम् ।।
सर्वपापप्रशमनं सर्वकीर्तिविवर्द्धनम् ।। १६ ।।
अपुत्रया पुरा पार्थ पार्वत्या मन्दराचले ।।
अशोकः शोकशमनः पुत्रत्वे परिकल्पितः ।। १७ ।।
जातकर्मादिकास्तस्य याः क्रियाः किल बुद्धिमन् ।।
चरकात्रिपुराणोक्तास्ताः शृणुष्व युधिष्ठिर ।। १८ ।।
ततो मूले घनदलो वल्गुच्छायांगपल्लवः ।।
शीतवातातपसहः संस्कार्यस्तरुणस्तरुः ।। १९।।
स्त्रीनामकंटकीकुब्जकीटवृश्चिककोटरः ।।
नोद्याप्यः पादपः पार्थ शिष्टानां यो न संमतः ।। 4.128.२० ।।
आलवाले सुविहिते शुभे बद्धचतुष्किके ।।
शोधयित्वा तमुद्देशं सुगुप्तं कारयेत्ततः ।। २१ ।।
सदैवोद्यापनं पार्थ पादपानां प्रशस्यते ।।
शुभेऽह्नि विप्रकथिते ग्रहनक्षत्रसंयुते ।। २२ ।।
पताकालंकृतं वृक्षं पूर्वेद्युरधिवासयेत् ।।
रक्तवस्त्रैः समाच्छाद्य रक्तसूत्रेण वेष्टयेत् ।।२३।।
पिष्टातकेनावकिरेत्सर्वौषध्या च पादपम् ।।
स्थापयेत्पूर्णकलशांश्चतुर्दिक्षु विचक्षणः ।। २४ ।।
पल्लवालंकृतमुखान्सितचन्दनचर्चितान् ।।
सितवासोयुगच्छन्नान्सकलान्रत्नगर्भिणः ।। २५ ।।
पताकालंकृताः सर्वे कार्यास्तत्सन्निधौ द्रुमाः ।।
मूलविन्यस्तकलशा रक्तसूत्रावगुण्ठिताः ।। २६ ।।
रक्तपीतसिताच्छादैश्चर्चिताः सुमनोहरैः ।।
कलधौतमयान्यत्र फलानि दश पंच वा ।। २७ ।।
ताम्रपात्र्यां सबीजानि सरलान्यधिवासयेत् ।।
तूर्यमङ्गलघोषेण चतुर्दिक्षु क्षिपेद्बलिम् ।। २८ ।।
इन्द्रादिलोकपालेभ्यो भूतेभ्यो मंत्रविद्गुरुः ।।
ततः प्रभाते विमले कुंडं कृत्वा समेखलम् ।। २९ ।।
ग्रहयज्ञविधानेन शांतिकर्म समारभेत् ।।
सुवर्णालंकृतान्कृत्वा ब्राह्मणान्वेदपारगान् ।। 4.128.३० ।।
चतुरोऽष्टौ यथाशक्त्या वासोभिरभिपूजयेत् ।।
तिलाज्येन च होमः स्यात्तुष्टिपुष्टिकरः सदा ।। ३१ ।।
मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः ।।
श्रपयित्वा चरुं सम्यक्पायसाद्यपरिप्लुतम् ।। ३२ ।।
होमादौ जातकर्मादि गोदानं यावदेव तु ।।
पादपं स्नापयित्वा तु समंत्रैस्तीर्थवारिभिः।।३३।।
जातकं नामकरणमन्नप्राशनमेव च ।।
सुवर्णसूच्या कुर्वीत कर्णवेधं विधानवित् ।। ३४ ।।
जातरूपक्षुरेणात्र चूडाकार्या यथाक्रमम् ।।
बध्नीयान्मेखलां मौञ्जीं वासश्च परिधापयेत् ।। ३५ ।।
यजमानस्ततः स्नातः शुक्लांबरधरः शुचिः ।।
पुष्पाञ्जलिः समभ्येत्य मंत्रमेतमुदीरयेत् ।। ३६ ।।
ये शाखिनः शिखरिणां शिरसा विभूषा ये नन्दनादिषु वनेषु कृतप्रतिष्ठाः ।।
ये कामदाः सुरनरोरगकिन्नराणां ते मे नतस्य दुरितार्तिहरा भवंतु ।।। ३७ ।।
एतैर्द्विजैर्विधिवरप्रहुतो हुताशः पश्यत्यसावहिमदीधितिरंबरस्थः ।।
त्वं वृक्ष पुत्रपरिकल्पनया वृतोऽसि कार्यं सदैव भवता मम पुत्रकार्यम् ।। ३८ ।।
इत्येवमुक्त्वा तं वृक्षं लालयित्वा पुनःपुनः ।।
घृतपात्रे स्ववदनं दृष्ट्वाशिषमुदीरयेत् ।। ३९ ।।
अङ्गादङ्गात्संभवसि हृदयादभिजायसे ।।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ।। 4.128.४० ।।
ब्राह्मणानां ततो देया दक्षिणा हृष्टमानसैः ।।
स्थापकाय शुभां धेनुं दत्त्वा कुर्यान्महोत्सवम् ।। ४१ ।।
दीनानाथजनानां च भोजनं चानिवारितम् ।।
इतरेषां प्रदातव्यं संतुष्टेन सुरासवम् ।। ४२ ।।
ज्ञातिबन्धुजनैः सार्द्धं स्वयं भुञ्जीत कामतः ।।
प्रेष्याः कर्मकराः सर्वे पूजनीयाः स्वशक्तितः ।। ४३ ।।
य एवं कुरुते पार्थ वृक्षाणां महदुत्सवम् ।।
सर्वकामानवाप्नोति इहलोके परत्र च ।। ४४ ।।
पुत्रैर्विना शुभगतिर्न भवेन्नराणां दुष्पुत्रकैरिति तथोभयलोकनाशः ।।
एतद्विचार्य सुधिया परिपाल्य वृक्षान्पुत्राः पुराणविधिना परिकल्पनीया ।। ४५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृक्षोद्यापनविधिवर्णनं नामाष्टाविंशत्युत्तरशततमोऽ ध्यायः ।। १२८ ।।