भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १३२

फाल्गुनपूर्णिमाव्रतवर्णनम्

।।युधिष्ठिर उवाच ।। ।।
किमर्थं फाल्गुनस्यांते पौर्णमास्यां जनार्दन ।।
उत्सवो जायते लोके ग्रामेग्रामे पुरे पुरे।। १ ।।
किमर्थं शिशवस्तस्यां गेहेगेहेऽतिवादिनः ।।
होलिका दीप्यते कस्मात्फाल्गुनांते किमुच्यते ।। २ ।।
अडाडेति च का संज्ञा शीतोष्णेति किमुच्यते ।।
को ह्यस्यां पूज्यते देवः केनेयमवतारिता ।।
किमस्यां क्रियते कृष्ण एतद्विस्तरतो वद ।। ३ ।। ।।
।। श्रीकृष्ण उवाच ।। ।।
आसीत्कृतयुगे पार्थ रघुर्नाम नराधिपः ।।
शूरः सर्वगुणोपतः प्रियवादी बहुश्रुतः ।। ४ ।।
स सर्वां पृथिवीं जित्वा वशीकृत्य नराधिपान् ।।
धर्मतः पालयामास प्रजाः पुत्रानिवौरसान् ।। ५ ।।
न दुर्भिक्षं न च व्याधिर्नाकालमरणं तथा ।।
नाधर्मरुचयः पौरास्तस्मिञ्छासति पार्थिव ।। ६ ।।
तस्यैवं शासतो राज्यं क्षात्रधर्मरतस्य वै ।।
पौराः सर्वे समागम्य पाहिपाहीत्यथाब्रुवन्।। ७ ।।
।। पौरा ऊचुः ।।
अस्माकं हि गृहे काचिढ्ढौंढा नामेति राक्षसी ।।
दिवा रात्रौ समागम्य बालान्पीडयते बलात् ।।८।।
रक्षया कंडकेनापि भेषजैर्वा नराधिप ।।
मंत्रज्ञैः परमाचार्यैः सा नियंतुं न शक्यते ।। ९ ।।
पौराणां वचनं श्रुत्वा रघुर्विस्मयमागतः ।।
विस्मयाविष्टहृदयः पुरोहितमथाब्रवीत्।।4.132.१०।
।। रघुरुवाच ।। ।।
ढौंढेति राक्षसी केयं किंप्रभावा द्विजोत्तम ।।
कथमेषा नियंतव्या मया दुष्कृतकारिणी ।। ११ ।।
रक्षणात्प्रोच्यते राजा पृथिवीपालनात्पतिः ।।
अरक्षमाणः पृथिवीं राजा भवति किल्बिषी ।। १२ ।।
वशिष्ठ उवाच ।।
शृणु राजन्परं गुह्यं यन्नाख्यातं मया क्वचित् ।।
ढौंढा नामेति विख्याता राक्षसी मालिनः सुता ।। १३ ।।
तया चाराधितः शंभुरुग्रेण तपसा पुरा ।।
प्रीतस्तामाह भगवान्वरं वरय सुव्रते ।। १४ ।।
यत्ते मनोभिलषितं तद्ददाम्यविचारितम् ।।
ढौंढा प्राह महादेवं यदि तुष्टः स्वयं मम ।। १५ ।।
न च वध्यां सुरादीनां मनुजानां च शंकर ।।
मां कुरु त्वं त्रिलोकेश शस्त्रास्त्राणां तथैव च ।। १६ ।।
शीतोष्णवर्षासमये दिवा रात्रौ बहिर्गृहे ।।
अभयं सर्वदा मे स्यात्त्वत्प्रसादान्महेश्वर ।। १७ ।।
शंकर उवाच ।।
एवमस्त्वित्यथोक्त्वा तां पुनः प्रोवाच शूलभृत् ।।
उन्मत्तेभ्यः शिशुभ्यश्च भयं ते संभविष्यति ।।
ऋतावृतौ महाभागे मा व्यथां हृदये कृथाः ।। १८ ।।
एवं दत्वा वरं तस्यै भगवान्भगनेत्रहा ।।
स्वप्ने लब्धो यथार्थार्थस्तत्रैवांतर्हितोऽभवत् ।। १९ ।।
एवं लब्धवरा सा तु राक्षसी कामरूपिणी ।।
नित्यं पीडयते बालान्संस्मृत्य हरभाषितम् ।।4.132.२०।।
अडाडयेति गृह्णाति सिद्धमंत्रं कुटुंबिनी ।।
गृहेषु तेन सा लोके ह्यडाडेत्यभिधीयते ।। २१ ।।
एतत्ते सर्वमाख्यातं ढौंढायाश्चरितं मया ।।
सांप्रतं कथयिष्यामि येनोपायेन हन्यते ।।२२।।
अद्य पञ्चदशी शुक्ला फाल्गुनस्य नराधिप ।।
शीतकालो विनिष्क्रांतः प्रातर्ग्रीष्मो भविष्यति ।। २३ ।।
अभयप्रदानं लोकानां दीयतां पुरुषोत्तम ।।
यथाद्याशंकिता लोका रमंति च हसंति च ।। २४ ।।
दारुजानि च खंडानि गृहीत्वा समरोत्सुकाः ।।
योधा इव विनिर्यांतु शिशवः संप्रहर्षिताः ।। २५ ।।
संचयं शुष्ककाष्ठानामुपलानां च कारयेत् ।।
तत्राग्निं विधिवद्धुत्वा रक्षोघ्नैर्मन्त्रविस्तरैः ।। २६ ।।
ततः किलकिलाशब्दैस्तालशब्दैर्मनोहरैः ।।
तमग्निं त्रिः परिक्रम्य गायंतु च हसंतु च ।।
जल्पंतु स्वेच्छया लोका निःशंका यस्य यन्मतम् ।। २७ ।।
तेन शब्देन सा पापा होमेन च निरा कृता ।।
अदृष्टघातैर्डिंभानां राक्षसी क्षयमेष्यति ।।२८।।
श्रीकृष्ण उवाच ।।
तस्यर्षेर्वचनं श्रुत्वा स नृपः पांडुनदन।।
सर्वं चकार विधिवदुक्तं तेन च धीमता ।।२९।।
गता सा राक्षसी नाशं तेन चोग्रेण कर्मणा ।।
ततः प्रभृति लोकेऽस्मिन्नडाडा ख्यातिमागता।।4.132.३०।
सर्वदुष्टापहो होमः सर्वरोगोपशांतिदः ।।
क्रियतेऽस्यां द्विजैः पार्थ तेन सा होलिका मता ।। ३१ ।।
सर्वसारातिविश्वेयं पूर्वमासीद्युधिष्ठिर ।।
सारत्वात्फल्गुरित्येषा परमानंददायिनी ।। ३२।।
अस्यां निशागमे पार्थ संरक्ष्याः शिशवो गृहे ।।
गोमयेनोपसंलिप्ते सचतुष्के गृहांगणे ।। ३३ ।।
आकारयेच्छिशुप्रायान्खड्गव्यग्र करान्नरान् ।।
ते काष्ठखण्डैः संस्पृश्य गीतैर्हास्यकरैः शिशून् ।।
रक्षंति तेषां दातव्यं गुडं पक्वान्नमेव च ।।३४।।
एवं ढौंढितमात्रस्य स दोषः प्रशमं व्रजेत् ।।
बालानां रक्षणं कार्यं तस्यात्तस्मिन्निशागमे ।। ३५ ।।
।। युधिष्ठिर उवाच ।। ।।
प्रभाते किञ्जनैर्देव कर्तव्यं सुखमीप्सुभिः ।।
प्रवृत्ते माधवे मासि प्रतिपद्भास्करोदये ।। ३६ ।।
।। श्रीकृष्ण उवाच ।। ।।
कृत्वा चावश्यकार्याणि संतर्प्य पितृदेवताः ।।
वंदयेद्धोलिकाभूतिं सर्वदुष्टोपशांतये ।। ३७ ।।
मंडिते चर्चिते चैव उपलिप्ते गृहाजिरे ।।
चतुष्कं कारयेच्छ्रेष्ठं वर्णकैश्चाक्षतैः शुभैः ।। ३८ ।।
तन्मध्ये स्थापयेत्पीठं शुक्लवस्त्रोत्तर च्छदम् ।।
अग्रतः पूर्णकलशं स्थापयेत्पल्लवैर्युतम्।। ३९ ।।
साक्षतं सहिरण्यं च सितचन्दनचर्चितम्।।
कलशस्याग्रतो देया उपानहवरांशुकाः।।4.132.४०।।
आसने चोपविष्टस्य ब्रह्मघोषेण भारत ।।
चर्चयेच्चन्दनं नारी अव्यंगांगा सुलक्षणा ।। ४१ ।।
पद्मरागोत्तरपटा श्रेष्ठांशुकविभूषिता ।।
वसुधारां शिरोग्रे च दधिदूर्वाक्षतान्विताम्।। ४२ ।।
चर्चापयित्वा श्रीखंडमायुरारोग्यवृद्धये ।।
पश्चाच्च प्राशयेद्विद्वांश्चूतपुष्पं सचंदनम्।। ४३ ।।
मनोभवस्य सा पूजा ऋषिभिः संप्रदर्शिता ।।
ये पिबंति वसंतादौ चूतपुष्पं सचन्दनम् ।। ४४ ।।
सत्यं हृदिस्थकामस्य तत्पूर्तिर्जायतेञ्जसा ।।
अनंतरं द्विजेन्द्राणां सूतमागधबंदिनाम् ।। ४५ ।।
दद्याद्दानं यथाशक्त्या कामो मे प्रीयतामिति ।।
ततो भोजनवेलायां शृतं यत्प्राक्तनेऽहनि ।। ४६ ।।
प्राश्नीयात्प्रथमं चान्नं ततो भुञ्जीत कामतः ।।
य एवं कुरुते पार्थ शास्त्रोक्तं फाल्गुनोत्सवम् ।। ४७ ।।
अनायासेन सिध्यंति तस्य सर्वे मनोरथाः ।।
आधयो व्याधयश्चैव यांति नाशं न संशयः ।।४८।।
पुत्रपौत्रसमायुक्तः सुखं तिष्ठति मानवः ।। ४९ ।।
पुण्या पवित्रा जयदा सर्वविघ्रविनाशिनी ।।
एषा ते कथिता पार्थ तिथीनामुत्तमा तिथिः ।। 4.132.५० ।।
वृत्ते तुषारसमये सितपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च ।।
संप्राश्य चूतकुसुमं सह चन्दनेन सत्यं हि पार्थ पुरुषः स सुखी समास्ते ।। ५१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे फाल्गुनपूर्णिमो त्सववर्णनं नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ।। १३२ ।।