भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १३४

दमनकांदोलकरथयात्रामहोत्सववर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
रथयात्राविधानं ते कथ यामि युधिष्ठिर ।।
स्थिरो भूत्वा निबोधेदं त्वं हि मूर्तविदां वरः ।। १ ।।
चैत्रे त्रिनेत्रसंभूतमलयाख्यमहागिरौ ।।
प्रवहत्पवनध्वानप्रेंखोलितलताचये ।। २ ।।
एतस्मिन्नेव काले तु भ्रममाणो यदृच्छया ।।
नारदः शारदाकांताच्छिवलोके समाययौ ।। ३ ।।
दृष्ट्वापूर्वं शिवं शांतं सुरेशैः सर्वतो वृतम् ।।
प्रणम्योपाविशद्विप्रः पुरतः केशवेशयोः ।। ४ ।।
तमुपासीनमालक्ष्य भगवान्भगनेत्रहा ।।
पप्रच्छाच्छादितमनाः कुतश्चागम्यते पुनः ।। ५ ।।
।। श्रीनारद उवाच ।। ।।
शिव कामं च तं विद्धि दग्धं मा विबुधोत्तम ।।
वसंतो नाम कोऽप्येष कामस्य दयितः सखा ।। ६ ।।
मलयानिलयुक्तेन तेन विश्वं वशीकृतम् ।।
सहकारकरीन्द्रस्थं कृत्वा कोकिलडिंडिमम् ।। ७ ।।
पोषयामास विजयं मन्मथस्य पुरेपुरे ।।
शशांकशेखरः कोऽयं कोयं शंखगदाधरः ।। ८ ।।
कोयं च डिम्बो वा ब्रह्मा कामस्त्रिजगतां प्रभुः ।।
प्रायः क्रीडारतिर्लोको वसंतवचनात्पुनः ।। ९ ।।
ऊर्ध्वबाहुस्तु नर्नर्ति तालदत्तपदक्रमः ।।
व्यवसायं न गच्छंति ये संहृत्य वनांतरम् ।। 4.134.१० ।।
गायंतश्च परीहृष्टास्ते चाप्यायांति यांति च ।।
गोप्यसीमांतरगताः क्षेत्रस्थानस्य रक्षिणः ।। ११ ।।
तेऽपि गायंति नृत्यंति हसंति स्मरतारकाः ।।
करस्य ताडनेऽत्यर्थं मुरजो धुर्धरायते ।। १२ ।।
विटं पश्यंति कुलटाः प्रारब्धोचितपण्डिताः ।।
सुमनांसि सुसंगीतनृत्यवाद्यसुवादितम् ।। १३ ।।
एवमेतत्त्रिलोकेऽस्मिन्निति व्यवसितो जनः ।।
ललल्लम्बस्तनीं दृष्ट्वा जरा योषापि नृत्यति ।। १४ ।।
वसंतस्य प्रभावोऽयं कोऽप्यपूर्वो विजृंभते ।।
सरांस्यद्भुतपद्मानि प्रफुल्ला पुष्पवाटिकाः ।। १५ ।।
वृक्षाः पक्षिशताकीर्णा विजिघ्राणमुखाः सुराः ।।
विकंपवसनावालः पवनस्त्रिगुणात्मकः ।।१६।।
कृतः प्रत्यक्षसुमहान्वसंतो न जगत्त्रये ।।
अवजल्पमुखा बाला वृद्धास्तु विकलद्विजाः ।। १७ ।।
उभावपि प्रतप्येते पश्येदं कामचेष्टितम् ।।
पक्षिणां पक्षनिक्षेपैर्नद्यस्तुंगतरंगकैः ।। १८ ।।
पादपाः पल्लवशतैर्नृत्यंते च प्रहर्षिणः ।।
एतच्छ्रुत्वा तु वचनं नारदस्येन्दुशेखरः ।। १९ ।।
कौतुकाकुलितः शीघ्रमारुरोह रथं स्वकम् ।।
रथेन काञ्चनांगेन पतत्रिवरकेतनः ।। 4.134.२० ।।
प्रययौ पुण्डरीकाक्षः शंखचक्रगदाधरः ।।
पारावतप्रतीकाशं चतुर्वेदमयं रथम् ।। २१ ।।
आस्थाय प्रययौ हृष्टो ब्रह्मा ब्राह्मणसंस्तुतः ।।
मुनिभिश्चाप्सरोभिश्च यक्षरक्षोमहोरगैः ।। २२ ।।
वृतो रथेन प्रययौ भास्करो वारितस्करः ।।
शैलजोरुपताकेन रथेनादित्यवर्चसा ।। २३ ।।
कात्यायनी प्रचलिता पञ्चवक्त्रेण केतुना ।।
लंबोदरः करशतगृहीतकनकोत्पलः ।। २४ ।।
प्रयातः स्वरथारूढः कृतकर्णकुलाकुलः ।।
एवं देवः परिवृतो भगवान्गोवृषध्वजः ।। २५ ।।
रथारूढैरमूढात्मा मर्त्यलोकमवातरत् ।।
यावत्पश्यति देवेशस्तावत्सर्वं तदक्षरम् ।। २६ ।।
नारदेन यथैवोक्तस्तावत्सर्वं तदक्षरम् ।।
नारदेन यथैवोक्तं जगदानन्दनिर्भरम् ।। २७ ।।
देवैः सार्द्धं पशुपतिर्यावत्पश्यति विस्मितः ।।
तावत्तस्यैव हि गणाः परब्रह्मसमंजसम् ।। २८ ।।
गायंति केचित्सोत्कंठं लुठंत्यन्ये प्रहर्षिताः ।।
वादयंत्यपरे तुष्टा जहसुः केचिदुल्बणम् ।। २९ ।।
वादयंत्यन्यथा वाद्यं गायंत्यन्येन्यथा गणाः ।।
अन्येन्यथा प्रनृत्यंति चित्रं चैत्रस्य चेष्टितम् ।। 4.134.३० ।।
नीलोत्पलाभनयनैर्विलसत्प्रांततारकैः ।।
क्रीडारतिभिरारब्धमालापैश्च सुरैरपि ।। ३१ ।।
सुराणां क्षोभमालक्ष्य भगवान्गोवृषध्वजः ।।
चिन्तयामास सुमहान्कार्ययोगो ह्युपस्थितः ।। ३२ ।।
अनर्थमुत्थितं तद्वत्तद्विघाताय ये जनाः ।।
नयंते येऽतिमूर्खत्वादापदोऽभिभवंति तान् ।। ३३ ।।
वसंतः स्वामिभक्तत्वान्मान्यपुष्पाकरं यदा ।।
उन्मादाढ्यजनो रक्ष्यः कार्यं कार्यद्वयं मम ।। ३४ ।।
संचिंत्यैवं समानाय्य वसंतं प्राह शंकरः ।।
समानीतो मासमेकं स्थातव्यं भवता त्विह ।। ३५ ।।
सितपक्षः सहायोऽयं सर्वभूतसुखप्रदः ।।
भवत्यतिमहानन्दो विशेषेण दिवौकसाम् ।। ३६ ।।
यो यथा रथमारूढः समायातः समीक्षितुम् ।।
वर्षेवर्षे स तेनैव संस्थानेनागमिष्यति ।। ३७ ।।
कारयिष्यन्ति ये मर्त्या रथयात्रामहोत्सवम् ।।
ते दिव्यभोगभोक्तारो भविष्यन्ति निरामयाः ।। ३८ ।।
एवमाभाष्य भगवान्वसंतं च ततः सुरैः ।।
संस्तुतोऽथ नतश्चापि स्वस्थानमगमत्ततः ।। ३९ ।।
।। युधिष्ठिर उवाच ।। ।।
रथः किमात्मकः कार्यः कार्या यात्रा कथं भवेत् ।।
आरोपयेत्कथं देवान्रथे वद जगत्पते ।। 4.134.४० ।।
।। श्रीकृष्ण उवाच ।। ।।
सुविचित्रं चित्रतनुं श्रेष्ठकाष्ठमयं रथम् ।।
सुदृढाक्षं दृढाबंधं सुचक्ररथकूबरम् ।। ४१ ।।
अथ वा वंशविहितं नेत्रपट्टपटावृतम् ।।
तारकाशतचित्रांशं पुष्पमालाविभूषितम् ।। ४२ ।।
सितगोयुगसंयुक्तं पञ्चबाणपताकिनम् ।।
छत्रचामरशोभाढ्यं स्थापयेद्भवनाङ्गणे ।। ४३ ।।
वैश्वदेवं ततः कुर्याद्ग्रहयज्ञविधानतः ।।
चतुश्चरणकैर्मंत्रैर्विप्र शान्तिकपौष्टिकैः ।। ४४ ।।
आरोपयेद्रथे देवं मूलमंत्रेण मंत्रवित् ।।
वेदोक्तैरथपौराणैर्गंधधूपाधिवासिते ।। ४५ ।।
रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।।
अभीषूणां महिमानं पनायत मनुः पश्चादनुयच्छन्ति रश्मयः।।
शंखदुंदुभिनिर्घोषैः काहलानां च निःस्वनैः।।
हस्तदीपैः प्रज्वलितैस्तालकोलाहा लेन च ।। ४७ ।।
दोषासुखेन रमितं प्रेषणीयपुरःसरम् ।।
महतोत्सवभारेण भ्रामयेत्परितो रथम्।।४८।।
तांबूलानि रथे दद्यात्पुष्पमालायुतानि च ।।
रथवोढ्रं प्रदद्यात्तु प्रेक्षकेभ्योऽप्यवारितम् ।। ४९ ।।
यस्ययस्य गृहेभ्येति प्रेरितो रथिना रथः।।
तस्य तस्य भवेत्पूज्यः पुष्पधूपाक्षतादिभिः ।।। ।। 4.134.५० ।।
इतरोऽपि भवेत्पूज्यः संप्राप्ते गृहिणां गृहे ।।
किं पुनर्जगतां भर्ता सर्वलोकमहेश्वरः ।। ५१ ।।
कदाचिदक्षभङ्गः स्याद्ध्वजभंगोऽथ वा भवेत्।।
भज्येत वा युगमध्ये नहनं त्रुट्यते यदि ।। ५२ ।।
ब्राह्मणांस्तत्र संपूज्य होमः कार्यो विजानता ।।
तिलैराज्येन पयसा येन संपद्यते सुखम् ।। ।। ५३ ।।
प्रेरणीप्रेक्षणीयैश्च भ्रामयित्वा रथोत्तमम् ।।
स्थापयेन्नगरस्यांतस्तत्र कुर्यान्महोत्सवम् ।। ५४ ।।
दोलाग्राहैश्चक्रदोलाभ्रमैर्डमरकैस्तथा ।।
विद्याधरीणां चरितमितराभिः प्रकाश्यते ।। ५५ ।।
एवं यः कुरुते पार्थ सुखदं तु रथोत्सवम् ।।
तथैव पूजयेत्पार्थ उपवासपरो नरः ।। ५६ ।।।
सर्वव्याधिविहीनश्च सुखी स्याच्छरदां शतम् ।।
यः कारयित्वा सौवर्णं रौप्यं वा रथमुत्तमम् ।। ५७ ।।
वर्णकैश्चित्रितं दिव्यं दारुजं वा सुशोभनम्।।
स्वहस्तरचितं यश्च भास्कराय निवेदयेत् ।। ५८ ।।
स मर्त्यलोके सुचिरात्सुखानि च समश्नुते ।।
पूर्वोक्तविधिना भानुं भ्रामयित्वा रथे स्थितम् ।। ।। ५९ ।।
स्थापयेत्सर्वभागे तु गेयं वाद्यपुरःसरम् ।।
दक्षिणे तु दिशो भागे द्वितीयेऽह्नि नयेद्रथम् ।। 4.134.६० ।।
तत्रापि जागरं कुर्याद्वाद्यगीतसुमं गलैः ।।
अपरायां तृतीयेऽह्नि स्थापयेद्रथमुत्तमम् ।। ६१ ।।
प्रेक्षणीयविनोदेन तां रात्रिमतिवाहयेत् ।।
स्थापयेदुत्तरस्यां तु चतुर्थे दिवसे रथम् ।। ।।६२ ।।
महायात्रां प्रकुर्वीत तत्राप्यद्भुतचेष्टितम् ।।
पंचमे दिवसे प्राप्ते नगरांतस्थितं रविम् ।। ६३
पूजयित्वा विधानेन षष्ठेऽह्नि भवनं नयेत् ।।
रथयात्राप्रसंगेन कथिता रथसप्तमी ।। ६४ ।।
सर्वपापहरा पुण्या किञ्चिदन्यन्निबोध मे ।।
गौरी पूज्या तृतीयायां चतुर्थ्यां विघ्ननायकः ।। ६५ ।।
पञ्चम्यां पंकजकरां पूजयेद्वा सरस्वतीम् ।।
षष्ठ्यां शक्तिधरं स्कन्दं सप्तम्यां तु दिवाकरम् ।। ६६ ।।
अष्टम्यां च चतुर्दश्यां सम्पूज्यः शशिशेखरः ।।
नवम्यां पूजयेच्चण्डीं चामुण्डां मुण्डमालिनीम् ।। ६७ ।।
दशम्यामृषयः शांताः सर्वे व्यासपुरस्सराः ।।
एकादश्यां चक्रपाणिं द्वादश्यां वा समर्चयेत्।।६८।।
त्रयोदश्यां त्रिनेत्रोत्थवह्निना शांतविग्रहम्।।
साधारणी तु सर्वेषां पौर्णमासी तिथिः स्मृता।।६९।।
आंदोलके मदनके रथयात्रासु चैव हि।।
व्युत्क्रमेणापि कर्तव्या तिथीनां कार्यगौरवात्।।
यात्रा वासंतिकी चेयं चित्तस्वास्थ्यकरी परा।।4.134.७०।।
सम्यक्सुधाधवलिते भवने सुराणामंतस्सुवस्त्रमणिमौक्तिकदानचित्रे ।।
तांबूलकक्रमुकवारविलासिनीभिर्यात्रां विधाय भवतीह स भारतेशः ।। ।। ७१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दमनकांदोलकरथयात्रामहोत्सववर्णनं नाम चतुस्त्रिंशदुत्तरशततमो ऽध्यायः ।। १३४ ।।