भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४०

दीपालिकोत्सववर्णनम्

श्रीकृष्ण उवाच ।। ।।
पुरा वामनरूपेण याचयित्वा धरामिमाम् ।।
बलियज्ञे हरिः सर्वं क्रांतवान्विक्रमैस्त्रिभिः ।। ।। १ ।।
इन्द्राय दत्तवान्राज्यं बलिं पातालवासिनम् ।।
कृत्वा दैत्यपतेर्वासमहोरात्रं पुनर्नृप ।। २ ।।
एकमेव हि भोगार्थं बलिराज्येतिचिह्नितम् ।।
सरहस्यं तदेतत्ते कथयामि नरोत्तम ।। ३ ।।
कार्त्तिके कृष्णपक्षस्य पञ्चदश्यां निशागमे ।।
यथेष्टचेष्टा दैत्यानां राज्यं तेषां महीतले ।। ४ ।। ।।
युधिष्ठिर उवाच ।। ।।
निश्शेषेण हृषीकेश कौमुदीं ब्रूहि मे प्रभो ।।
किमर्थं दीयते दानं तस्यां का देवता भवेत् ।। ५ ।।
किंस्वित्तस्यै भवेद्देयं केभ्यो देवं जनार्दन ।।
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कात्र प्रकीर्तिता ।। ६ ।।
श्रीकृष्ण उवाच ।। ।।
कार्त्तिके कृष्णपक्षे च चतुर्दश्यां दिनोदये ।।
अवश्यमेव कर्तव्यं स्नानं नरकभीरुभिः ।। ७ ।।
अपामार्गपल्लवान्वा भ्राभयेन्मस्तकोपरि ।।
सीतालोष्टसमायुक्तसकंटकदलान्वितान् ।। ८ ।।
हर पापमपामार्ग भ्राम्यमाणं पुनःपुनः ।।
आपदं किल्बिषं चापि ममापहर सर्वशः ।।
अपामार्ग नमस्तेस्तु शरीरं मम शोधय ।। ९ ।। ( इत्यपामार्ग भ्रमण मन्त्रः)
ततश्च तर्पणं कार्यं धर्मराजस्य नामभिः ।।
यमाय धर्मराजाय मृत्यवे चांतकाय च ।।
वैवस्वताय कालाय सर्वभूतक्षयाय च ।।4.140.१ ०।।
नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।।
ततः प्रदोषसमये दीपान्दद्यान्मनोरमान् ।। ११ ।।
ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च ।।
कूटागारेषु चैत्येषु सभासु च नदीषु च ।। १२ ।।
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च ।।
सिद्धार्हबुद्धचामुंडाभैरवायतनेषु च ।।
मंदुरासु विविक्तासु हस्तिशालासु चैव हि ।। १३ ।।
एवं प्रभातसमयेऽमावास्यायां नराधिप ।।
स्नात्वा देवान्पितॄन्भक्त्या संपूज्याथ प्रणम्य च ।। १४ ।।
कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः ।।
भोज्यैर्नानाविधैर्विप्रान्भोजयित्वा क्षमाप्य च ।। १५ ।।
ततोऽपराह्णसमये घोषयेन्नगरे नृपः ।।
अद्य राज्यं बलेर्लोका यथेष्टं मोद्यतामिति ।। १६ ।।
लोकश्चापि परे हृष्येत्सुधाधवलिताजिरे ।।
वृक्षचन्दनमालाढ्यैश्चर्चिते च गृहेगृहे ।। १७ ।।
द्यूतपानरतोदृप्तनरनारीमनोहरे ।।
नृत्यवादित्रसंघुष्टे सम्प्रज्वलितदीपके ।। १८ .।।
अन्योन्यप्रीतिसंहृष्टदत्तलाभेन वै जने ।।
तांबूलहृष्ट वदने कुङ्कुमक्षोदचर्चिते ।। १९ ।।
दुकूलपट्टनेपथ्ये स्वर्णमाणिक्यभूषिते ।।
अद्भुतोद्भटशृंगारप्रदर्शितकुतूहले ।। 4.140.२० ।।
युवतीजनसंकीर्णवस्त्रोज्ज्वलविहारिणि ।।
दीपमालाकुले रम्ये विध्वस्तध्वांतसञ्चये ।।
प्रदोषे दोषरहिते शस्तदोषागमे शुभे ।। २१ ।।
शशिपूर्णमुखाभिश्च कन्याभिः क्षिप्ततण्डुलम् ।।
नीराजनं प्रकर्तव्यं वृक्षशाखासु दीपकैः ।। २२ ।।
भ्राम्यमाणो नतो मूर्घ्नि मनुजानां जनाधिपः ।।
वृक्षशाखांतदीपानां निरस्ताद्दर्शनाद्व्रजेत् ।।
नीराजनं तु तेनेह प्रोच्यते विजयप्रदम् ।। २३ ।।
तस्माज्जनेन कर्तव्यं रक्षोदोषभयापहम् ।।
यात्राविहारसञ्चारे जयजीवेति वादिना ।। २४ ।।
क्षुद्रोपसर्गरहिते राजचौरभयोज्झिते ।।
मित्रस्वजनसम्बन्धिसुहत्प्रेमानुरंजिते ।। २५ ।।
ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम् ।।
अवलोकयितुं रम्यं पद्भ्यामेव शनैःशनैः ।। २६ ।।
महता तूर्यघोषेण ज्वलद्भिर्हस्तदीपकैः ।।
कृतशोभां पुरीं पश्येत्कृतरक्षां स्वकैर्नरैः ।। २७ ।।
तं दृष्ट्वा महदाश्चर्यमृद्धिं चैवात्मनः शुभाम् ।।
बलिराज्यप्रमोदं च ततः स्वगृहमाव्रजेत् ।। २८ ।।
एवं गते निशार्धे तु जने निद्रार्द्रलोचने ।।
तावन्नगरनारीभिः शूर्पडिंडिमवादनैः ।।
निष्क्राम्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहांगणात् ।। २९ ।।
ततः प्रबुद्धे सकले जने जातमहोत्सवे ।।
माल्यदीपकहस्ते च स्नेहनिर्भरलोचने ।। 4.140.३० ।।
वेश्या विलासिनी सार्धं स्वस्ति मंगलकारिणी ।।
गृहाद्गृहं व्रजन्ती च पादाभ्यंगप्रदायिनी ।। ३१ ।।
पिष्टकोद्वर्तनपरे गुरुशुश्रूषणाकुले ।।
द्विजाभिवादनपरे सुखराज्याभिवीक्षणे ।। ३२ ।।
सुवासिनीभ्यो दाने च दीयमाने यदृच्छया ।।
यथाप्रभातसमये राजार्हमानयेज्जनम् ।। ३३ ।।
सद्भावेनैव सन्तोष्या देवाः सत्पुरुषा द्विजाः ।।
इतरे चान्नपानेन वाक्प्रदानेन पंडिताः ।। ३४ ।।
वस्त्रैस्तांबूलदानैश्च पुष्पकर्पूरकुंकुमैः ।।
भक्ष्यैरुच्चावचैर्भोज्यैरन्तःपुरविलासिनीः ।। ३५ ।।
ग्रामैर्विषयदानैश्च सामंतनृपतीन्धनैः ।।
पदातीनङ्गसंलग्नान्ग्रैवेयकटकैः स्वकान् ।। ३६ ।।
स्वयं राजा तोषयेत्स जनान्भृत्यान्पृथक्पृथक् ।।
यथार्हं तोषयित्वा तु ततो मल्लनटान्भटान् ।।३७।।
वृषभान्महिषांश्चैव युध्यमानान्परैः सह ।।
गजानश्वांश्च योधांश्च पदातीन्समलंकृतान् ।।।३८।।
मंचारूढः स्वयं पश्येन्नटनर्तकचारणान् ।।
क्रुद्धापयेदानयेच्च गोमहिष्यादिकं ततः ।। ३९ ।।
दिष्ट्या कार्यं पयोज्योतिरुक्तिप्रत्युक्तिका वदेत् ।।
ततोपराह्नसमये पूर्वस्यां दिशि भारत ।। 4.140.४० ।।
मार्गपालीं प्रबध्नीयात्तुंगस्तंभेऽथ पादपे ।।
कुशकाशमयीं दिव्यां संभवे बहुभिर्वृताम् ।। ४१ ।।
पूजयित्वा गजान्वाजीन्सार्धे यामत्रये गते ।।
गावो वृषाः समहिषा मंडिता घटिकोत्कटाः ।। ४२ ।।
कृते होमे द्विजेन्द्रैस्तु गृह्णीयान्मार्गपालिकाम् ।।
राष्ट्रभोज्येन धाराभिः सहस्रेण शतेन वा ।।४३।।
स्वशक्त्यपेक्षया वापि गृह्णीयाद्वामभोजनैः ।।
मातुः कुलं पितृकुलमात्मानं सहबंधुभिः ।। ४४।।
संतारयेत्स सकलं मार्गपालीं ददाति यः ।।
नीराजनं च तत्रैव कार्यं राज्ञे जयप्रदम् ।।४५।।
मार्गपालीतलेनेत्थं हया गावो गजा वृषाः ।।
राजानो राजपुत्राश्च ब्राह्मणा शूद्रजातयः ।। ४६ ।।
मार्गपालीं समुल्लंघ्य नीरुजः स्यात्सुखी सदा ।।
कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः ।। ।। ४७ ।।
पूजां कुर्यान्नरः साक्षाद्भूमौ मंडलके कृते ।।
बलिमालिख्य दैत्येन्द्रं वर्णकैः पंचरंगकैः ।। ४८ ।।
सर्वाभरणसंपूर्णं विंध्यावल्या सहासितम्।।
कूष्मांडबाणजंघोरुमुरदानवसंवृतम् ।। ४९ ।।
संपूर्णहृष्टवदनं किरीटोत्कटकुण्डलम् ।।
द्विभुजं दैत्यराजानं कारयित्वा नृपः स्वयम्।।4.140.५०।।
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् ।।
भ्रातृमंत्रिजनैः सार्द्धं संतुष्टो वंदिभिः स्तुतः ।। ५१ ।।
कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः ।।
गन्धधूपान्ननैवेद्यैरक्षतैर्गुडपूपकैः ।।५२।।
मद्यमांससुरालेह्यदीपवर्त्युपहारकैः ।।
मंत्रेणानेन राजेन्द्र समंत्री सपुरोहितः ।। ५३ ।।
बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।।
भविष्येन्द्रसुराराते पूजेयं प्रतिगृह्यताम् ।। ५४ ।।
एवं पूजां नृपः कृत्वा रात्रौ जागरणं ततः ।।
कारयेत्प्रेक्षणीयादि नटक्षत्रकथानकैः ।। ५५ ।।
लोकश्चापि गृहस्यांते शय्यायां शुक्लतंडुलैः ।।
संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ।। ५६ ।।
बलिमुद्दिश्य दीयंते दानानि कुरुनन्दन ।।
यानि तान्यक्षयाण्याहुर्मयैवं संप्रदर्शितम् ।। ५७ ।।
यदस्यां दीयते दानं स्वल्पं वा यदि वा बहु ।।
तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं परम् ।। ५८ ।।
विष्णुना वसुधा लब्धा प्रीतेन बलये पुनः ।।
उपकारकरो दत्तश्चासुराणां महोत्सवः ।। ५९ ।।
ततः प्रभृति राजेन्द्र प्रवृत्ता कौमुदी पुनः ।।
सर्वोपद्रवविद्रावि सर्वविघ्नविनाशिनी ।।4.140.६०।।
लोकशोकहरी काम्या धनपुष्टिसुखावहा ।।
कुशब्देन मही ज्ञेया मुदी हर्षे ततः परम् ।। ६१ ।।
धातुज्ञैर्नैगमज्ञैश्च तेनैषा कौमुदी स्मृता ।।
कौ मोदन्ते जना यस्यां नानाभावैः परस्परा ।। ६२ ।।
हृष्टास्तुष्टाः सुखायत्तास्तेनैषा कौमुदी स्मृता ।।
कुमुदानि बलेर्यस्माद्दीयन्तेऽस्यां युधिष्ठिर ।। ६३ ।।
अर्थार्थे पार्थ भूमौ च तेनैषा कौमुदी स्मृता ।।
एकमेवमहोरात्रं वर्षे वर्षे विशांपते ।। ६४ ।।
दत्तं दानवराजस्य आदर्शमिव भूतले ।।
यः करोति नृपो राष्ट्रं तस्य व्याधिभयं कुतः ।। ६५ ।।
कुत ईति भयं तत्र नास्ति मृत्युकृतं भयम् ।।
सुभिक्षं क्षेममारोग्यं सर्वसम्पद उत्तमाः ।। ६६ ।।
नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः ।।
कौमुदीकरणाद्राजन्भवतीह महीतले ।। ६७ ।।
यो यादृशेन भावेन तिष्ठत्यस्यां युधिष्ठिर ।।
हर्षदैन्यादिरूपेण तस्य वर्षं प्रयाति हि ।। ६८ ।।
रुदिते रोदिति वर्षं हृष्टो वर्षं प्रहृष्यति ।।
भुक्तौ भोक्ता भवेद्वर्षं स्वस्थः स्वस्थो भवेदिति ।। ६९ ।।
तस्मात्प्रहृष्टैस्तुष्टैश्च कर्तव्या कौमुदी नरैः ।।
वैष्णवी दानवी चेयं तिथिः पैत्री युधिष्ठिर ।। 4.140.७० ।।
उपशमितमेघनादं प्रज्वलितदशाननं रमितरामम् ।।
रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ।। ७१ ।।
कूष्माण्डादानरम्यं कुवलयखण्डैश्च धातुकाभद्रम् ।।
शरदिव हरिगतनिद्रं दीपदिनं हरतु वो दुरितम् ।।७२।।
दीपोत्सवे जनितसर्वजनप्रमोदां कुर्वंति ये सुमनसो बलिराजपूजाम् ।।
दानोपभोगसुखवृद्धिशताकुलानां हर्षेण वर्षमिह पार्थिव याति तेषाम् ।।७३।।

इति श्रीभविष्ये महापुराण उत्तरप र्वणि श्रीकृष्णयुधिष्ठिरसंवादे दीपालिकोत्सववर्णनं नाम चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४० ।।