भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४७

काञ्चनव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
श्वेतद्वीपे सुखासीनं देवदेवं जगत्प्रभुम् ।।
वासुदेवं जगन्नाथं स्थितिसंयमकारकम् ।। १ ।।
परावराणां स्रष्टारं पुराणं परमव्ययम् ।।
आदिदेवं जगन्नाथं जगतः कारणात्म कम्।। २ ।।
प्रणिपत्य महादेवं चराचरगुरुं हरिम् ।।
लक्ष्मीः प्रोवाच राजेन्द्र पादसंवाहने स्थिता ।। ३ ।।
भगवन्देवदेवेश भक्तानामनुकम्पक ।।
प्रष्टव्यं किञ्चिदिच्छामि प्रष्टुं प्रश्नविदां वर ।। ४ ।।
प्रकुरुष्व महाभाग दयां कृत्वा ममोपरि ।।
व्रतं किञ्चित्कथय मे रूपसौभाग्यदायकम् ।। ५ ।।
उत्तमं सर्ववर्णानां व्रतानामपि चोत्तमम्।।
कृतेन येन देवेश सर्वतीर्थफलं भवेत् ।। ६ ।।
।। विष्णुरुवाच ।। ।।
गृहस्थश्चाश्रमाणां च वर्णानां ब्राह्मणो यथा ।।
यथा नदीषु सर्वासु जाह्नवी लोकविश्रुता ।। ७ ।।
ह्रदानामुदधिः श्रेष्ठो देवानां विष्णुरुत्तमः ।।
स्त्रीणां देवा यथा लक्ष्मीस्तथेदं व्रतमुत्तमम्।। ८ ।।
न गङ्गा न कुरुक्षेत्रं न काशी न च पुष्करम् ।।
पावनानि महाभागे यथेदं व्रतमुत्तमम् ।। ९ ।।
गौर्या देव्या कृतं पूर्वं शंकरेण महात्मना ।।
रामेण सीतया सार्द्धं राज्यं प्राप्य कृतं पुरा ।। 4.147.१० ।।
दमयन्तीवियोगेन नलेन तु तथा कृतम् ।।
कृष्णया सहितैः पार्थ पांडवैर्वन वासिभिः ।। ११ ।।
कृतमेतद्व्रतं भद्रे स्वर्गमोक्षप्रदायकम् ।।
रंभया मेनया वापि पौलोम्या सत्यभामया ।। १२ ।।
शांडिल्या चाप्यरुन्धत्या उर्वश्या देवदत्तया ।।
कृतं व्रतमिदं भद्रं सौभाग्यसुखकाम्यया ।। १३ ।।
पाताले नागकन्याभिः कृतमेतत्सुशोभनम् ।।
गायत्र्या च सरस्वत्या सावित्र्या ब्रह्मभार्यया ।। १४ ।।
अन्याभिः सर्वनारीभिः सर्वकामफलेप्सुभिः ।।
तस्मात्तेऽहं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।। १५ ।।
वसुप्रीतिकरं रम्यं व्रतानां परमं शृणु ।।
ब्रह्महा मुच्यते पापात्सुरापो वसुहारकः ।। १६ ।।
गुरुभार्याभिगामी च ह्येतेषां संगमी च यः ।।
मानकूटं तुलाकूटं कन्यावृत्तिर्गवां व्रती ।। १७ ।।
अगम्यागमनो यस्तु मांसाशी वृषलीपतिः ।।
कुण्डाग्निभोजी यस्तु स्याद्भूभिहर्ता तथैव च ।। १८ ।।
एभिः सर्वैर्महापापैर्मुच्यते नात्र संशयः ।।
एभिः स्यान्नरनारीभिः कर्तव्यं व्रतमुत्तमम् ।।१९।।
अतस्तेऽहं विधिं वक्ष्ये विधानमवधारय ।।
काञ्चनाख्या पुरी नाम व्रतं त्रैलोक्यविश्रुतम् ।। 4.147.२० ।।
यः करोति नरो देवि नारी वा भक्तिसंयुता ।।
तस्य पुत्राश्च पौत्राश्च जायते विपुलं धनम् ।। २१ ।।
तस्मिन्मासे च कर्तव्यं व्रतमेतच्च सुन्दरि ।।
तस्मिन्मासे च कर्तव्या काञ्चनाख्या पुरी शुभा ।। २२ ।।
शुक्लकृष्णतृतीयायामेकादश्यां च पूर्णिमा ।।
संक्रांतिर्वा महाभागे कुहूर्वा चाष्टमी तिथिः ।। २३ ।।
पर्वस्वन्येषु सर्वेषु दातव्या काञ्चनी पुरी ।।
व्रती स्नात्वा तु पूर्वाह्णे नद्यादौ विमले जले ।। २४ ।।
मृत्तिकालंभनं कार्यं मंत्रेणानेन सुव्रते ।।
उद्धृतासि यथापूर्वं विष्णुना क्रोडरूपिणा ।।२५।।
लोकानामुपकारार्थं वन्दनात्सिद्धिकामदा ।।
तस्मात्त्वं वंदिता पापं हर मेऽनेकजन्मजम् ।। २६ ।। ( इति मृत्तिकामंत्रः ।।) ।।
आपस्तु विश्वयोनिर्हि विष्णुना निर्मिताः स्वयम् ।।
सान्निध्यं तीर्थसहितं कर्तव्यं मम सांप्रतम् ।। २७ ।। ( इत्यम्मंत्रः ।।) ।।
अनेन विधिना स्नात्वा यजमानः समाहितः ।।
गृहमागम्य शुद्धात्मा नालपन्पिशुनांस्त्व रात् ।। २८ ।।
पाखंडिनो विकर्मस्थान्धूर्तांश्च कितवाच्छठान् ।।
प्रक्षाल्य पाणिवदनं कुर्यात्त्वाचमनं ततः ।। २९ ।।
उपवासस्य नियमं कुर्यान्नक्तस्य वा पुनः ।।
शंखप्रवरमादाय हेमयुक्तं जलैर्भृतम् ।। 4.147.३० ।।
द्वादशाक्षरमंत्रेण तज्जलं चाभिमंत्रयेत् ।।
पिबेत्तोऽयं गृहे गत्वा हरिरित्यक्षरं जपेत् ।। ३१ ।।
शमीवृक्षमया वेदी चतुःस्तंभसमन्विता ।।
चतुर्हस्तप्रमाणेन कार्य्या चैव सुशोभना ।। ३२ ।।
वस्त्रेणावेष्टिताः स्तम्भा वितानवर मण्डिताः ।।
पुष्पमालान्विताः कार्या दिव्यधूपाधिवासिताः ।। ३३ ।।
मध्ये तु मंडलं कार्यं पद्माख्यं वर्णकैः शुभैः ।।
येन दृष्टेन देवेशि सर्वपाप क्षयो भवेत् ।।
मंडलस्य तु मध्ये वै भद्रपीठं सुशोभनम् ।। ३४ ।।
आसनं तत्र विन्यस्य कोमलं वस्त्रवेष्टितम् ।।
तस्योपरि न्यसेद्देवं लक्ष्म्या युक्तं जनार्दनम् ।। ३५ ।।
अग्रे तु कलशः कार्यो जलपूर्णः सुशोभनः ।।
क्षीरसागरनामा स कल्पितव्यः प्रयत्नतः ।। ३६ ।।
पञ्चरत्नसमायुक्तं वस्त्रेणावे ष्टयेद्धनम् ।।
कुम्भं प्रपूर्णमुदकैस्तस्योपरि न्यसेद्बुधः ।। ३७ ।।
तस्योपरिष्टात्संस्थाप्य कांचनाख्यां पुरीं शुभाम्।।
चतुष्पला ह्युत्तमा स्याद्द्विपला मध्यमा स्मृता ।। ३८ ।।
सामान्यैकपला कार्या कलशैस्तु समन्विता ।।
मोदकान्स्थापयेद्दिव्यान्समंतात्सुंदराकृतीन् ।। ३९ ।।
तदग्रे कदलीस्तम्भैस्तोरणं परिकल्पयेत् ।।
चातुश्चरणिकांस्तत्र विप्रानावाह्य सुंदरि ।। 4.147.४० ।।
प्रतिष्ठां कारयेत्तस्य वेदमन्त्रैः सुशोभनैः ।।
तस्या मध्ये न्यसेद्विष्णुं हैमं लक्ष्म्या समन्वितम् ।। ४१ ।।
नेत्रे रत्नमये कार्ये दशना वज्रभूषिताः ।।
मुक्ताफलमयं तस्य भूषणं परिकल्पयेत् ।। ४२ ।।
अंगं स्वर्णमयं कार्यं शंखचक्रगदायुधम् ।।
पञ्चामृतेन देवेशं स्नाप्य नारायणं विभुम् ।। ४३ ।।
तमेव गंधपुष्पाद्यैर्मंत्रमुच्चार्य पूजयेत् ।।
ब्राह्मणो वैदिकैर्मन्त्रैः पूजयेन्मधुसूदनम् ।। ४४ ।।
शेषा वर्णाः पुराणोक्तैस्ताञ्छृणुष्व मम प्रिये ।।
वासुदेवाय पादौ तु गुल्फौ संकर्षणाय च ।। ४५ ।।
त्रैलोक्यजनकायेति जानुनी पूजयेद्धरेः ।।
त्रैलोक्यनाथाय गुह्ये ज्ञानमयाय वै कटिम् ।। ४६ ।।
दामोदरायेत्युदरं हृदयं विश्वरूपिणे ।।
नित्यं हि पूजयेद्देवि उरः श्रीवत्सधारिणे ।। ४७ ।।
कण्ठं कौस्तुभनाथाय आस्यं यज्ञमुखाय च ।।
दैत्यांतकारिणे बाहू स्वैर्नामैरायुधानि च ।। ४८ ।।
शिरः सर्वात्मने देवि देवदेवस्य पूजयेत् ।।
श्रियं प्रपूजयेद्देवीं देव्या मंत्रैः पृथग्विधैः ।। ४९ ।।
इन्द्रादिलोकपालानां पूजा कार्या यथाक्रमम् ।।
नवग्रहाणां होमश्च कर्तव्यो विघ्ननाशनः ।।4.147.५०।।
पूजा गणपतेः कार्या तथा होमो विधानतः ।।
अग्रे नैवद्यमतुलं दापयेद्धृतपाचितम् ।। ५१ ।।
पायसं घृतपूरांश्च मोदकान्पूरिकास्तथा ।।
सोहालिकादिनैवेद्यं फेणिकाः शर्करास्तथा ।। ५२ ।।
देशकालोद्भवान्येव फलानि विनिवेदयेत् ।।
दीपान्दश दिशो दद्यात्पार्थिवान्रक्तवर्तिकान्।।५३।।
एतेन तु विशालाक्षि मूलमन्त्रेण दापयेत् ।।
पुष्पमालान्वितान्कृत्वा चंदनेन विभूषितान् ।।५४।।
अभिमंत्र्य प्रयत्नेन विष्णुस्तबकवाचकैः ।।
सहस्रशीर्षादिभिर्मंत्रैर्जपद्भिर्ब्राह्मणोत्तमैः ।। ५५ ।।
षोडशाथ सपत्नीकान्पूजयेच्च यथाविधि ।।
भूषयेच्च शुभैर्वस्त्रैस्तथालंकारणादिभिः ।। ५६ ।।
विष्णुं मत्वा द्विजः पूज्यो लक्ष्मीं मत्वा च ब्राह्मणीम् ।।
छत्रं चोपानहौ चैव अंगुल्याभरणं तथा ।।५७।।
फलानि सप्त धान्यानि भोजनं च यदीप्सितम् ।।
दातव्यं च सभार्याय कृष्णो मे प्रीयतामिति ।। ५८ ।।
शय्यां सोपस्करां चैव वस्त्रेणाच्छाद्य यत्नतः ।।
तथा प्रकल्पयेद्वित्तशक्त्या च सुंदरी यथा ।। ५९ ।।
व्रते पूर्णे च गौर्देया सर्वोपस्करसंयुता ।।
पुरीं घटापयेत्पूर्वं वस्त्रेणाच्छाद्ययस्तः ।।
यथा कुर्यात्प्रयासेन यथा कर्ता न पश्यति ।। 4.147.६० ।।
दीपांस्तु दीपितांस्तत्र आनयेद्यज्ञमण्डपम् ।।
श्वेतवस्त्रेण नेत्रे तु यजमानस्य च प्रिये।।६१।।
श्रुतवाञ्छास्त्रवित्प्राज्ञः कृतसर्वाघसंक्षयः ।।
आबध्य नेत्रे सुप्राज्ञ आचार्यस्तमिदं वदेत् ।।६२।।
सर्वकामप्रदां पश्य कांचनाख्यां पुरीमिमाम्।।
वरवस्त्रयुतां रम्यां दुःखदौर्भाग्यनाशिनीम्।। ६३ ।।
एवमुक्तो महाभाग पटमुन्मुच्य नेत्रयोः ।।
पुष्पाञ्जलिं गुरौ क्षिप्त्वा स पश्येत्तां पुरीं शुभाम्।।६४।।
दृष्ट्वा तां नगरीं देवि यजमानः समाहितः ।।
सौवर्णं पात्रमादाय रौप्यं ताम्रमथापि वा ।। ६५ ।।
अथ वा शंखमादाय पात्रालाभे तु सुन्दरि ।।
पञ्चरत्नं क्षिपेत्पात्रे जलं गाङ्गं तथा फलम् ।। ६६ ।।
सिद्धार्थमक्षताः पूर्वं रोचना दधि वा पुनः ।।
ततश्चार्ध्यं प्रदातव्यं कृष्णाय प्रभविष्णवे ।। ६७ ।।
लक्ष्मीनारायणौ देवौ सर्वकामफलप्रदौ ।।
रुक्मपुर्याः प्रदानेन यच्छैतां वांछितं मम ।। ६८ ।।
नारायण हृषीकेश ज्ञानज्ञेय निरंजन।।
लक्ष्मीकांत जगन्नाथ गृहाणार्घ्यं नमोस्तु ते।।६९।। ( इत्यर्घमंत्रः) ।।
एवमर्घ्यं ततो दत्त्वा विष्णवे प्रभविष्णवे।।
देव्यास्त्वर्घ्यं प्रदातव्यं भक्तियुक्ते न चेतसा।।4.147.७०।।
जानुभ्यामवनिं गत्वा मंत्रमेतमुदीरयेत् ।।
ब्रह्मणा पूजिता देवी विष्णुना शंकरेण च ।।७१।।
पार्वत्या पूजिता लक्ष्मीः स्कंदवैश्रवणेन च।।
मया च पूजिता देवि धर्मस्य विजिगीषया ।।७२।।
सौभाग्यं देहि मे पुत्रान्धनं पौत्रांश्च पूजितान् ।।
गृहाणार्घ्यं मया दत्तं देवि सौख्यं प्रयच्छ मे ।।७३।।
य एवं पुरतो दत्त्वा पूर्वोक्तविधिना तव ।।
रात्रौ जागरणं कुर्याद्भक्तियुक्तेन चेतसा ।।७४।।
गीतनृत्यविनोदेन उपाख्यानैश्च वैष्णवैः।।
येन केन विनोदेन निद्रा नैव प्रजायते ।।७५।।
उन्निद्रो जागृयाद्यस्तु शतयज्ञफलं लभेत् ।।
प्रभाते विमले स्नात्वा संपूज्य पितृदेवताः ।।७६।।
ब्राह्मणांश्च सपत्नीकान्परिधाप्यानुभोजयेत् ।।
दक्षिणाश्च यथाशक्त्या प्रदाय च क्षमापयेत् ।। ७७ ।।
दीनांधबधिरान्पंगून्सर्वांस्तान्परितोषयेत् ।।
पश्चात्पारणकं कार्यमुपवासी भवेद्यदि ।। ७८ ।।
मधुरं पयसा युक्तं सुहृद्भिर्बांधवैः सह ।।
एवमेतद्व्रतं कार्यमेकादश्यां शुचिस्मिते ।। ७९ ।।
शुक्लायामथ कृष्णायां तृतीयायां तथा तिथौ।।
संक्रांतिवासरे वापि व्यतीपाते च वैधृतौ ।।4.147.८०।।
यदा वा जायते वित्तं चित्तं च वरवर्णिनि ।।
गौरानीय प्रदातव्या कृष्णो मे प्रीयतामिति ।। ८१ ।।
एवं कृते च यत्पुण्यं तन्न शक्यं निवेदितुम् ।।
अपि वर्षसहस्रेण कुललक्षशतैरपि ।। ८२ ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च।।
ब्रह्मलोकं समासाद्य ब्रह्मणा प्रतिमोद्यते ।। ८३ ।।
ब्रह्मकाद्रुद्रलोकं तत्परं विष्णुसंनिधौ ।।
इन्द्रादिलोकपालानां व्रती लोकमवाप्नुयात् ।। ८४ ।।
ततो भुक्त्वा शुचिः श्रीमान्भोगांस्त्रैलोक्यसुंदरि ।।
चक्रवर्ती भवेद्भूमौ ब्रह्मण्यो वैष्णवस्तथा ।।८५।।
य इदं शृणुयान्नित्यं वाचयमानं समंततः ।।
कुलसप्तकमुद्धृत्य वैष्णवं लोकमाप्नुयात् ।।८६।।
त्वया कांचनपुर्याख्यं व्रतमेतत्कृतं पुरा ।।
तेन पुण्येन लब्धोऽहं भर्ता त्रैलोक्यपूजितः ।। ८७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीलक्ष्मीविष्णुसंवादे कांचनपुरीव्रतवर्णनं नाम सप्तचत्वारिंशदुत्तर शततमोऽध्यायः ।। १४७ ।।