भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४८

कन्याप्रदानवर्णनम् ( अथ कन्यादानम्)

।। श्रीकृष्ण उवाच ।। ।।
ब्रह्मदेयां तु यः कन्यामलंकृत्य प्रयच्छति ।।
सप्तपूर्वान्भविष्यांश्च स्वकुले सप्त मानवान्।।१।।
तेन कन्याप्रदानेन स तारयत्यसंशयम् ।।
लोकानाप्नोति च तथा दक्षस्यैव प्रजापतेः।।२।।
प्राजापत्येन विधिना आत्मानं च समुद्धरेत्।।
महत्पुण्यमवाप्नोति स्वर्गलोकं च गच्छति ।।३।।
भूगवाश्वप्रदानानि गजदानं तथैव च ।।
दत्त्वा तु वर्णहीनाय घोरे तमसि मज्जति ।।४।।
बहुवर्षसहस्राणि पुरीषं काकमश्नुते।।
शुल्केन दत्त्वा कन्यां च घोरं नरकमाप्नुयात् ।।५।।
बहून्यब्दसहस्राणि तथा अशुचिभुङ्नरः।।
सवर्णां च सवर्णेभ्यो दद्यात्कन्यां यथाविधि ।।६।।
दत्त्वा चाधिकवर्णाय द्विगुणं निर्गुणं तथा ।।
द्विजपुत्रमनाथं वा संस्कुर्याद्यश्च कर्मभिः ।।७।।
चूडोपनयाद्यैश्च सोऽश्वमेधफलं लभेत् ।।
अनाथां कन्यकां दत्त्वा नाकलोके महीयते ।। ८ ।।
कन्यया सह दत्तं च सुवर्णं वह्निमूलकम् ।।
सकलं द्विगुणं तस्य फलमुक्तं पुरातनैः ।। ९ ।।
कन्यादानादवाप्नोति दक्षलोकं नरोत्तम ।।
विष्णुपूजासमं पुण्यं तत्कन्यापूजया भवेत् ।। 4.148.१० ।।
विमानमाहृत्य मनोभिरामं सुराङ्गनागीतविलासहृद्यम् ।।
प्राप्नोति लोकं त्रिदशोत्तमानां कन्याप्रदानान्न विचारणेति ।। ११ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कन्याप्रदानवर्णनं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४८ ।।