भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४९

ब्राह्मणशुश्रूषाविधिवर्णनम्

।। श्रीकृष्ण उवाच।। ।।
ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ।।
ब्राह्मणेभ्यः परं नास्ति नास्ति भूतं जगत्त्रये ।। १ ।।
अदेवं दैवतं कुर्युः कुर्युर्देवमदैवतम् ।।
ब्राह्मणा हि महाभागाः पूज्यंते सततं द्विजाः ।।२।।
ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति स्मृतिः ।।
ब्राह्मणेभ्यो जगत्सर्वं तस्मात्पूज्यतमा द्विजाः ।। ३ ।।
येषामश्नंति वक्त्रेण देवताः पितरस्तथा ।।
ऋषयश्च तथा नागाः किं भूतमधिकं ततः ।। ४ ।।
यदैव मनुजो भक्त्या ब्राह्मणेभ्यः प्रयच्छति ।।
तदैवाप्नोति धर्मज्ञ बहुजन्मनि जन्मनि ।। ५ ।।
तालवृंतानिलेनैव श्रांतसंवाहनेन च ।।
उत्सादनेन गात्राणां तथा व्यंजनकर्मणा ।। ६ ।।
पादशौचप्रदानेन पादयोः सेचनेन च ।।
परिचर्य यथा काममेकेनैव द्विजोत्तम ।। ७ ।।
अनिष्ट्वापि समाप्नोति स्वर्गलोकं च शाश्वतम् ।।
ब्राह्मणानां शुभं कृत्वा नाकलोके महीयते ।। ८ ।।
यद्ब्राह्मणास्तुष्टिमन्तो वदंति प्रत्यक्षदेवेषु परोक्षदेवाः ।।
तद्वै शुभं तस्य नरस्य नूनं भवेदतस्तान्सततं निषेवेत् ।। ९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ब्राह्मणशुश्रूषाविधिवर्णनं नामैकोनपंचा शदुत्तरशततमोऽध्यायः ।। १४९ ।।