भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८३

महाभूतघटदानवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि दानमन्यत्तवोत्तमम् ।।
महाभूतघटं नाम महापातकनाशनम् ।। १ ।।
पुण्यां तिथिं समासाद्य स्वनुलिप्ते गृहांगणे ।।
कारयेत्कांचनं कुंभं महारत्नान्वितं पुनः ।। २ ।।
प्रादेशादंगुलशतं यावत्कुर्यात्प्रमाणतः ।।
शक्त्या पंचपलादूर्ध्वमाशताच्च नरोत्तम ।। ३ ।।
क्षीराज्यपूरितं कृत्वा कल्पवृक्षसमन्वितम् ।।
पद्मासनगतास्तत्र ब्रह्मविष्णुमहेश्वराः ।। ४ ।।
लोकपाला महेन्द्राश्च स्ववाहनसमास्थिताः ।।
ऋग्वेदः साक्षसूत्रश्च यजुर्वेदः सपंकजः ।। ५ ।।
वीणाधारी सामवेदो ह्यथर्वा स्रक्छुभान्वितः ।।
पुराणवेदो वरदः साक्षसूत्रकमंडलुः ।। ६ ।।
सप्तधान्यानि पुरतः स्थापयेच्छक्तितो बुधः ।।
पादुकोपानहच्छत्रं चामराग्र्यासनायुधान् ।। ७ ।।
एवं प्रकल्प्य विधिवन्महाभूतघटं नरः ।।
गुडसारोपरिगतं माल्यवस्त्रैरथार्चयेत् ।। ८ ।।
अथ पर्वसमीपे तु स्नात्वा नियतमानसः ।।
त्रिः प्रदक्षिणमावृत्य मंत्रमेतमुदीरयेत् ।। ९ ।।
यस्मान्न किंचिदप्यस्ति महाभूतैर्विना कृतम् ।।
महाभूतमयश्चायं तस्माच्छांतिं ददातु मे ।। 4.183.१० ।।
अत्र सन्निहिता देवाः स्थापिता विश्वकर्मणा ।।
ते मे शांतिं प्रयच्छंतु भक्तिभावेन पूजिताः ।। ११ ।।
इत्येवं पूजयित्वा तु महाभूतघटं नरः ।।
ब्राह्मणं पूजयित्वा तु भूषणाच्छादनादिभिः ।। १२ ।।
महाभूतघटं दद्यात्पर्वकाले यतव्रतः ।।
पुनः प्रदक्षिणीकृत्य ब्राह्मणं तं क्षमापयेत्।। १३ ।।
अनेन विधिना यश्च दानमेतत्प्रयच्छति ।।
एकविंशत्कुलोपेतः शिवलोके प्रयात्यसौ ।। १४ ।।
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।
अजेयः शत्रुसंघातैर्महाबल पराक्रमः ।। १५ ।।
क्षत्रधर्मरतो विद्वान्देवब्राह्मणपूजकः ।।१६।।
अष्टापदोत्तमघटं विमलं विधाय ब्रह्मेशकेशवयुतं सहलोकपालैः ।।
क्षीराज्यपूर्णविवरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ।।।१७।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महाभूतघटदान विधिवर्णनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ।। १८३ ।।