भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९२

नक्षत्रदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
श्रुतो दानविधिः सर्वः प्रसादात्ते रमाधव ।।
नक्षत्रदानस्येदानी दानकल्पं प्रचक्ष्व मे ।। १ ।।
।। श्रीकृष्ण उवाच ।।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।
देवक्याश्चैव संवादं देवर्षेर्नारदस्य च ।। २ ।।
द्वारकामनुसंजातं नारदं देवदर्शनम् ।।
पप्रच्छेदं तथा प्रश्नं देवकी धर्मदर्शिनी ।। ३ ।।
तस्याः संपृच्छमानाया देवर्षिर्नारदस्ततः ।।
आचष्ट विधिवत्सर्वं यत्तच्छृणु विशांपते ।। ४ ।।
नक्षत्रयोगं वक्ष्यामि सर्वपातकनाशनम् ।।
कृत्तिकासु महाभाग पायसेन ससर्पिषा ।। ५ ।।
संतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमान् ।।
रोहिण्यां पांडवश्रेष्ठ मांसैरन्नेन सर्पिषा ।। ६ ।।
संतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमान् ।।
पयोऽऽन्नदानं दातव्यमानृण्यार्थं द्विजातये ।। ७ ।।
दोग्ध्नीं सवत्सां तु नरो नक्षत्रे सोमदैवते ।।
दत्त्वा दिव्यविमानस्थः स्वर्गं प्राप्नोत्यनुत्तमम् ।। ८ ।।
आर्द्रायां कृशरां दत्त्वा तिलमिश्रा समाहितः ।।
नरस्तरति दुर्गाणि सर्वाण्येव नरोत्तम ।। ९ ।।
पूषान्पुनर्वसौ दत्त्वा घृतपूर्णान्सुपाचितान् ।।
यशस्वी रूपसंपन्नः सज्जनो जायते कुले ।। 4.192.१० ।।
पुष्ये तु कांचनं दत्त्वा कृतं वाकृतमेव वा ।।
अनालोकेषु लोकेषु सोमवत्स विराजते ।।११।।
आश्लेषासु तथा रौप्यं यः सुरूपं प्रयच्छति ।।
सर्वभयविनिर्मुक्तः शास्त्रवानभिजायते ।। १२ ।।
मघासु तिलपूर्णानि वर्धमानानि मानवः ।।
प्रदाय पशुमांश्चैव पुत्रवांश्च प्रजायते ।।१३।।
फाल्गुनीपूर्वसमये वडवां द्विजपुंगवे ।।
दत्त्वा पुण्यकृतांल्लोकान्प्राप्नोति सुरसेवितान् ।। १४ ।।
उत्तराफाल्गुनीयोगे दत्त्वा सौवर्णपंकजम् ।।
सूर्यलोकमवाप्नोति सर्वबाधाविवर्जितः ।। १५ ।।
हस्ते तु हस्तिनं दत्त्वा कांचनं शक्तितः कृतम् ।।
यात्यसौ शक्रसदनं वरवारणधूर्गतः ।। १६ ।।
चित्रासु वृषभं दत्त्वा पुण्यानां पुण्यमुत्तमम् ।।
चरत्यप्सरसां लोके मोदते नंदनेवने ।। १७ ।।
स्वातीषु च धनं दत्त्वा यदभीष्टमिहात्मनः ।।
प्राप्नोति च शुभांल्लोकानिह लोके महद्यशः ।। १८ ।।
विशाखासु महाराज धुरंधरविभूषितम् ।।
सोपस्करं च शकटं सधान्यं वस्त्रसंवृतम् ।। १९ ।।
दत्त्वा प्रीणाति स पितुः प्रेत्य चानन्त्यमश्नुते ।।
न च दुर्गाण्यवाप्नोति रौरवादीनि मानवः ।। 4.192.२० ।।
दत्त्वा यथेष्टं विप्रेभ्यो गतिमिष्टां स गच्छति ।।
कम्बलान्यनुराधक्षें दत्त्वा प्रावरणानि च ।। २१ ।।
स्वर्गे वर्षशतं साग्रमास्ते सुरगणैर्वृतः ।।
कालशाकं च विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ।। २२ ।।
ज्येष्ठानुज्येष्ठतामेति गतिमिष्टां च गच्छति ।।
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ।। २३ ।।
पितॄन्प्रीणयते सर्वान्गतिं प्राप्नोत्यनुत्तमाम् ।।
अथ पूर्वास्वषाढासु दधिपात्राणि मानवः ।। २४ ।।
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ।।
प्रदाय जायते प्रेत्य कुले च बहुभोगवान् ।। २५ ।।
पुत्रपौत्रैः परिवृतः पशुमान्धनवांस्तथा ।।
उदमंथं ससर्पिष्कं प्रभूतमधुफाणितम् ।। २६ ।।
दत्त्वोत्तरास्वषाढासु सर्वान्कामानवाप्नुयात्।।
दुग्धं त्वभिजितो भागे
दत्त्वा घृतमधुप्लुतम् ।। २७ ।।
धर्मनित्यो मनीषिभ्यः स्वर्गे वसति पुण्यभाक् ।।
श्रवणे पुस्तकं श्रेष्ठं प्रददातीह यो नरः ।। २८ ।।
स्वेच्छया याति यानेन सर्वांल्लोकान्न संशयः ।।
गोयुगं च धनिष्ठासु दत्त्वा विप्राय मानवः ।। २९ ।।
सर्वत्र मानमाप्नोति यत्र यत्रेह जायते ।।
तथा शतभिषायोगे दत्त्वा सागरु चंदनम् ।। 4.192.३० ।।
प्राप्नोत्यप्सरसां लोके प्रेत्य गंधांश्च शोभनान् ।।
पूर्वभाद्रपदायोगे राजमाषान्प्रदापयेत् ।। ३१ ।।
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ।।
रत्नमुत्तरयोगे तु सुवस्त्रं यः प्रयच्छति ।।३२।।
पितॄन्प्रीणाति सकलान्प्रेत्य चानंत्यमश्नुते ।।
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ।। ३३ ।।
स प्रेत्य कामानादाय दातारमुपगच्छति ।।
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तम ।। ३४ ।।
हस्त्यश्वरथसंपूर्णे वर्चस्वी जायते कुले ।।
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै ।। ३५ ।।
गावः प्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ।।
इत्येष दक्षिणोद्देशः प्रोक्तो नक्षत्रयोगतः ।। ३६ ।।
देवक्यै नारदेनैव मया च कथितस्तव ।।
सर्वपापप्रशमनः सर्वोपद्रवनाशनः ।। ३७ ।।
न चात्र कालनियमो नक्षत्रप्रकमस्तथा ।।
वित्तं श्रद्धा च राजेन्द्र कारणं चात्र कथ्यते ।। ३८ ।।
यद्यच्च ते भगवता कमलोद्भवस्य पुत्रेण दानमुदितं प्रसमीक्ष्य वेदान्।।

तद्यो ददाति विभवे सति साधुवृत्ते किं तेन पार्थ न कृतं भवतीह लोके ।। ३९ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रदानविधिवर्णनंनाम द्विनवत्युत्तरशततमोऽध्यायः ।। १९२ ।।