भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २०१

← अध्यायः २०० भविष्यपुराणम्
अध्यायः २०१
वेदव्यासः
अध्यायः २०२ →

घृताचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम् ।।
तेजोऽमृतमयं दिव्यं महापातकनाशनम् ।। १ ।।
पंचाशद्घृतकुम्भानामुत्तमः स्याद्घृताचलः ।।
मध्यमस्तु तदर्धेन तदर्द्धेनावरः स्मृतः ।। २ ।।
अल्पवित्तस्तु कुर्वीत यथाशक्त्या विधानतः ।।
विष्कंभपर्वतांस्तद्वच्चतुर्भागेन कल्पयेत् ।। ३ ।।
शालेयतंदुलानां च कुंभांश्च परिविन्यसेत् ।।
कारयेत्संहतानुच्चान्यथाशोभं विधानतः ।। ४ ।।
वेष्टयेच्छुक्लवासोभिरिक्षुदंडफलादिकैः ।।
धान्यपर्वतवच्छेषं विधानमिह पठ्यते ।। ५ ।।
अधिवासनपूर्वं च तद्वद्धोमं सुरार्चनम् ।।
प्रभातायां तु शर्वयां गुरवे विनिवेदयेत्।।६।।
विष्कंभपर्वतांस्तद्वदृत्विग्भ्यः शांतमानसः ।।
मंत्रेणानेन कौंतेय तच्छृणुष्व वदामि ते ।।७।।
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसे ।।
तस्माद्घृताचलश्चास्मात्प्रीयतां मम शंकरः ।।८ ।।
तस्मात्तेजोमयं ब्रह्म घृते नित्यं व्यवस्थितम् ।।
घृतपर्वतरूपेण तस्मान्नः पाहि भूधर ।। ९ ।।
अनेन विधिना दद्याद्घृताचलमनुत्तमम् ।।
महापातकयुक्तोऽपि लोकमायाति शांकरम् ।। 4.201.१० ।।
हंससारससंयुक्ते किंकिणीजालमालिते ।।
विमाने अप्सरोभिश्च सिद्धविद्याधरैर्वृतः ।। ११ ।।
विहरेत्पितृभिः सार्द्धं यावदाभूतसंप्लवम् ।। १२ ।।
आज्याचलं प्रचलकुंडलसुन्दरीभिः संसेव्यमानमिह ये वितरंति मर्त्याः ।।
स्वर्गं सुरेंद्रभवनं भवसंनिधिं वा स्नेहानुबंधमचलं भवतीति सर्वम् ।। १३ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे घृताचलदानविधिवर्णनं नामैकाधिकद्विशततमोऽध्यायः ।। २०१ ।।