भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २०६

रोहिणीचन्द्रशयनव्रतविधिवर्णनम्

।। नारद उवाच ।। ।।
दीर्घायुरारोग्यकुलादिवृद्धियुक्तः पुमान्येन गुणान्वितः स्यात् ।।
मुहुर्मुहुर्जन्मनि येन सम्यग्व्रतं मम ब्रूहि तदिंदुमौलेः ।। १ ।।
।। श्रीभगवानुवाच ।। ।।
त्वया पृष्टमिदं सम्यगमुत्राक्षयकारकम् ।।
रहस्यं ते प्रवक्ष्यामि यत्पुराणविदो विदुः ।। २ ।।
रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम् ।।
तस्मिन्नारायणस्यार्च्चामर्च्चयेदिंदुनामभिः ।। ३ ।।
यदा सोमदिनयुक्ता भवेत्पंचदशी क्वचित् ।।
अथ वा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते ।। ४ ।।
तदा स्नानं नरः कुर्यात्पंचगव्यं च सर्षपैः ।।
आप्यायस्वेति च जपेद्विद्वानष्टशतं पुनः ।। ।। ५ ।।
शूद्रोऽपि परया भक्त्या पाखंडालापवर्जितः ।।
सोमाय वरदायाथ विष्णवे च नमोनमः ।। ६ ।।
कृतजप्यः स्वभवनमागत्य मधुसूदनम् ।।
पूजयेत्फलपुष्पैश्च सोमनामानि कीर्तयेत् ।। ७ ।।
सोमाय शांताय नमोऽस्तु पादावनंतनाम्ने ह्यनुजानु जंघे ।।
ऊरुद्वयं चापि वृकोदराय संपूजयेन्मेढ्रमनंगबाहवे ।। ८ ।।
नमोनमः कामसुखप्रदाय कटिः शशांकस्य समर्चनीया ।।
तथोदरं चाप्यमृतोदराय नाभिः सुपूज्या विधिलोचनाय ।। ९ ।।
 नमोऽस्तु चन्द्राय मुखं प्रपूज्य हनुर्द्विजानामधिपाय पूज्या ।।
आस्यं नमश्चंद्रमसेभिपूज्यमोष्ठौ कुमुत्खंडवनप्रियाय ।। 4.206.१० ।।
नासा च नाथाय वनौषधीनां ह्यानंन्ददायाथ पुनर्भ्रुवोश्च ।।
नेत्रद्वयं नीलकुमुत्प्रियाय चेंदीवरश्यामकराय चोरः ।। ११ ।।
नमः समस्ताध्वरवंदिताय कर्णद्वयं दैत्यनिषूदनाय ।।
ललाटमिंदोरुदधिप्रियाय केशा सुषुम्णाधिपतेः प्रपूज्याः ।। १२ ।।
शिरः शशांकाय नमोऽसुरारेर्विश्वेश्वरायेति नमः किरीटम् ।।
पद्मप्रिये रोहिणि नाम लक्ष्मि सौभाग्यसौख्यामृततारकायै ।। १३ ।।
देवीं च संपूज्य सुगन्धधूपनेवद्यपुष्पादिभिरिंदुपत्नीम्।।
प्रपूज्य भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः ।।१४।।
देयः प्रभाते स हिरण्यवारिकुंभो मनःपापविनाशनाय।
संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिं च ।। १५ ।।
ग्रासान्पयः सर्पियुतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तम् ।।
कदंबनीलोत्पलकेतकानि जाती सरोजं शतपत्रिका च ।।१६।।
अम्लानकुब्जानथ सिंदुवारपुष्पं पुनर्नारद मल्लिकायाः।।
मुक्तं च विष्णोः करवीरपुष्पं श्रीचंपकं चंद्रमसश्च देयम्।।१७।।।
श्रावणादिषु मासेषु क्रमादेतानि सर्वदा ।।
यस्मिन्मासे व्रतादिः स्यात्पुष्पैरभ्यर्चयेद्धरिम् ।। १८ ।।
एकसंवत्सरं यावदुपोष्य विधिवन्नरः ।।
व्रतांते शयनं दद्याद्दर्पणोपस्करान्वितम् ।। १९ ।।
रोहिणचंद्रमिथुनं कारयित्वा तु कांचनम् ।।
चंद्रः षडंगुलः कार्यो रोहिणी चतुरंगुला ।। 4.206.२० ।।
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम् ।।
क्षीरकुंभोपरि पुन. कांस्यपात्राक्षतान्वितम् ।। २१ ।।
दद्यान्मंत्रेणे पूर्वाह्ने शालीक्षुफलसंयुतम् ।।
श्वेतामथ सुवर्णास्यां रौप्यखुरसमन्विताम् ।। २२ ।।
सवस्त्रभाजनां धेनुं तथा शंखं च शोभनम् ।।
भूषणैर्द्विजदांपत्यमलंकृत्य गुणान्वितम् ।। २३ ।।
चंद्रोऽयं द्विजरूपेण सभार्य इति कल्पयेत् ।।
यथा न रोहिणी कृष्ण शयनं त्यज्य गच्छति ।। २४ ।।
सोमरूपस्य ते तद्वन्ममाभेदोऽस्तु मूर्तिभिः ।।
यथा त्वमेव सर्वेषां परमानंदमुक्तिदः ।। २५ ।।
भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि यज्ञेऽस्तु मे दृढा ।।
इति संसारभीतस्य मुक्तिकामस्य चानघ ।। २६ ।।
रूपारोग्यायुषामेतद्विधायकमनुत्तमम् ।।
इदमेव पितॄणां च सर्वदा वल्लभं मुने ।। २७ ।।
त्रैलोक्याधिपतिर्भूत्वा शतकल्पशतत्रयम् ।।
चंद्रलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ।। २८ ।।
नारी वा रोहिणी चंद्रशयनं वा समाचरेत् ।।
साऽपि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम् ।। २९ ।।
इति पठति शृणोति वा य इत्थं मधुमथनार्चनमिंदुकीर्तनेन ।।
मतिमपि च ददाति सोऽपि शौरेर्भवनगतः परिपूज्यतेऽमरौघैः ।। 4.206.३० ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नारदमहेश्वरसंवादे रोहिणीचंद्रशयनव्रतविधिवर्णनं नाम पडधिकद्विशततमोऽध्यायः ।। २०६ ।।