अवमेधिकंपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १४.१ ॥

यशः शशाङ्कोशेषेऽस्तं प्रयाते भीष्मभास्वति ।

पपात धर्मतनयः शोकम्लानमुखाम्बुजः ॥ १४.२ ॥

मोहमूर्च्छाकुले तस्मिन्विषण्णे सह बान्धवैः ।

शुचं संस्तम्भ्य शनकैर्धृतराष्ट्रस्तमब्रवीत् ॥ १४.३ ॥

उत्तिष्ठ पृथिवीपाल न धैर्यं हातुमर्हसि ।

संसारासारचरितं मुनिभ्यः श्रुतवानसि ॥ १४.४ ॥

शोकस्यावसरो नायं स्वधर्मादच्युतस्य ते ।

पाहि सत्त्वसुधासिन्धो प्रजापतिरिव प्रजाः ॥ १४.५ ॥

शोचितव्यो ममैवायं कालः समुचितोऽधुना ।

विदुरस्य गिरो येन न श्रुताः सुनयोज्ज्वलाः ॥ १४.६ ॥

इत्युक्ते धृतराष्ट्रेण कृष्णः क्ष्मापालमभ्यधात् ।

मा शुचः क्षत्रधर्मेण लब्धां भुङ्क्ष्व महीमिमाम् ॥ १४.७ ॥

दुःखिभ्यो हि पलायन्ते धैर्यायत्ता विभूतयः ।

यजस्व विजयी राजन्पापशङ्कापनुत्तये ॥ १४.८ ॥

अश्वमेधेन विधिना यातस्तद्योग्यतामसि ।

एतन्मुनिवचः श्रुत्वा यज्ञे बद्धमनोरथः ॥ १४.९ ॥

धनमूलां क्रियं मत्वा राज्यकोशमचिन्तयत् ।

सोऽथ सर्वान्समाहूय कोशाध्यक्षान्मखोत्सुकः ॥ १४.१० ॥

तेभ्यः शुश्राव सर्वस्वं क्षयितं युधि कौरवैः ।

अश्वमेधे निराशं तं विज्ञाय द्रविणं विना ॥ १४.११ ॥

उवाच करुणासिन्धुर्व्यासो निर्वापयन्निव ।

मरुत्तस्य क्षितिपतेर्यज्ञशेषं हिमाचले ॥ १४.१२ ॥

काञ्चनं विद्यते भूरि यज्ञार्थं तदवाप्स्यसि ।

श्रुत्वैतत्पाण्डुपुत्रेण मरुत्तस्य महीपतेः ॥ १४.१३ ॥

महायज्ञकथां पृष्टः प्रोवाच मुनिपुंगवः ।

महीयसि मनोर्वंशे महतां यशसां निधिः ॥ १४.१४ ॥

करंधमकुले श्रीमान्मरुत्तोऽभून्महीपतिः ।

तमन्द्रः स्पर्धते नित्यं न स शक्नोति चेष्टितैः ॥ १४.१५ ॥

यदा तदा मन्युतप्तो रहः प्राह बृहस्पतिम् ।

करंधमोऽभवद्याज्यस्त्वत्पितुः पृथिवीपतिः ॥ १४.१६ ॥

क्रमात्तवापि तत्सूनुर्मरुत्तस्तद्गुणाधिकः ।

किंतु तद्दर्पसंघर्षाद्भवन्तमहमर्थये ॥ १४.१७ ॥

न याजकपदं तस्य गन्तव्यं भवताधुना ।

इत्यर्थितो मघवता तथेत्यूचे बृहस्पतिः ॥ १४.१८ ॥

अद्यप्रभृति मर्त्यो मे न याज्य इति संविदा ।

अत्रान्तरे नरपतिर्मरुत्तो विपुलं क्रतुम् ॥ १४.१९ ॥

आहर्तुं कृतसंकल्पो बृहस्पतिमुपाययौ ।

स तेनाभ्यर्थितो यत्नाद्याजकोऽस्तु भवानिति ॥ १४.२० ॥

न चकाराभ्युपगमं शक्रप्रणययन्त्रितः ।

प्रत्याख्यातः स गुरुणा राजा लज्जानताननः ॥ १४.२१ ॥

व्रजन्विनष्टसंकल्पो ददर्श पथि नारदम् ।

नारदोऽपि तमालोक्य पृष्ट्वा श्रुत्वा च तत्कथाम् ॥ १४.२२ ॥

उवाच त्यज संतापं मा राजन्विमना भव ।

संवर्ताख्यो निधिर्धाम्नामनुजोऽस्ति बृहस्पतेः ॥ १४.२३ ॥

स्वच्छन्दचारी योगीन्द्रो वाराणस्यां स वर्तते ।

संवर्तः स परिज्ञेयो व्रजेथाः शरणं तु तम् ॥ १४.२४ ॥

निवेदितोऽहं केनेति पृष्टस्तेन त्वमानतः ।

ब्रवीथा नारदो मह्यं त्वामिहस्थं न्यवेदयत् ॥ १४.२५ ॥

कथयित्वा प्रहृष्टश्च ज्वलितं जातवेदसम् ।

इत्युक्त्वा प्रार्थयेथास्तं याजकं यज्वनां वरः ॥ १४.२६ ॥

नारदेनेत्यभिहिते भूपालो हर्षनिर्भरः ।

तदुक्तं विदधे सर्वं गत्वा वारणसीं स्वयम् ॥ १४.२७ ॥

संत्यक्तोन्मत्तरूपं स प्राप्य तं याजकं नृपः ।

चकार तदनुज्ञातस्तपो हिमगिरेस्तटे ॥ १४.२८ ॥

तपसा यज्ञवित्तार्थी देवमाराध्य शंकरम् ।

अनेकमेरुविपुलं लेभे हेम स पार्थिवः ॥ १४.२९ ॥

हैमेषु सर्वभाण्डेषु रचितेष्वथ शिल्पिभिः ।

संपूर्णो यज्ञसंभारः प्रावर्तत महीभुजः ॥ १४.३० ॥

समृद्धिमतुलां तस्य यज्ञे ज्ञात्वा बृहस्पतिः ।

संवर्तकं याजकं च संतप्तस्तनुतां ययौ ॥ १४.३१ ॥

स शोककारणं पृष्टः शक्रेण म्लानमानसः ।

मरुत्तयज्ञविभवं भ्रातृस्पर्धाकुलोऽवदत् ॥ १४.३२ ॥

ततः शतक्रतुस्तस्य प्रीत्ये गुरुवत्सलः ।

उवाच वह्निमाहूय मरुत्तं व्रज पार्थिवम् ॥ १४.३३ ॥

गत्वा मद्वचसा वाच्यः स च राजा त्वया क्रतौ ।

यथा संवर्तकं त्यक्त्वा भवेद्याज्यो बृहस्पतेः ॥ १४.३४ ॥

इत्युक्तः सुरराजेन गत्वा वह्निर्नराधिपम् ।

शक्रसंदेशमवदन्न च राजाभ्यमन्यत ॥ १४.३५ ॥

ततः प्रतिनिवृत्तोऽथ पुनर्गच्छेति वज्रिणा ।

प्रेरितः पावकोऽवादीत्संवर्तभयकम्पितः ॥ १४.३६ ॥

स तत्र ब्रह्मचारी मामूचे संवर्तकः क्रुधा ।

तेजोराशिः शपेयं त्वां समेष्यसि पुनर्यदि ॥ १४.३७ ॥

श्रुत्वैतत्कातरोऽसीति तं जगाद पुरंदरः ।

ज्वलनः प्रत्युवाचाथ तं कोपहविषा ज्वलन् ॥ १४.३८ ॥

अहो नु ब्रह्मकोपाग्निरहल्यावल्लभस्य ते ।

प्रमादादथ कोपाद्वा मोहाद्वा शक्र विस्मृतः ॥ १४.३९ ॥

स यदा च्यवनः कोपान्महादंष्ट्रं महासुरम् ।

असृजत्त्वद्वधायोग्रं तदा धैर्यं क्व ते गतम् ॥ १४.४० ॥

दुःसहा ब्राह्मणरुषो निर्दहन्ति जगत्क्षणात् ।

उक्ते हुताशनेनेति न शक्तः किंचिदब्रवीत् ॥ १४.४१ ॥

विसृष्टः पुनरिन्द्रेण गन्धर्वाधिपतिर्नृपम् ।

ऊचे गुरुं भजस्वेति न च राजा तमग्रहीत् ॥ १४.४२ ॥

ततः क्रुद्धः स्वयं वज्री गर्जन्गम्भीरनिःस्वनः ।

यज्ञाङ्गनं नरपतेर्व्योम्ना मेघैर्वृतो ययौ ॥ १४.४३ ॥

प्रभावेनाथ महता संवर्तस्योग्रतेजसः ।

शतमन्युसमुत्सृष्टं वज्रं मेघान्समाविशत् ॥ १४.४४ ॥

तन्मन्त्रशक्त्या विवशः समाहूतोऽथ वृत्रहा ।

आययौ सह भागार्हैस्त्रिदशैः सोमपीथिभिः ॥ १४.४५ ॥

पूजितोऽथ मरुत्तेन शान्तमन्युः शतक्रतुः ।

यज्ञक्रियापरिकरे परिचर्यापरोऽभवत् ॥ १४.४६ ॥

तदाज्ञया सुराः सर्वे यज्ञसंभारकारिणः ।

बभूवुर्भूमिपालस्य निदेशवशगाश्चिरम् ॥ १४.४७ ॥

एवं तस्येन्द्रजयिनो राज्ञः संवर्ततेजसा ।

निर्विघ्नः पूर्णतां प्राप यज्ञः कनकवर्षिणः ॥ १४.४८ ॥

तच्छेषद्विणेन त्वं हयमेधमहामखम् ।

प्रयतः प्राप्नुहीत्युक्ताव विरराम मुनीश्वरः ॥ १४.४९ ॥

          • संवर्तमरुत्तीयम् ॥ १ ॥ *****

कृष्णेनाश्वारस्यमानोऽथ मुनिभिर्भ्रातृभिस्तथा ।

अश्वमेधधृतोद्योगो धृतिं लेभे युधिष्ठिरः ॥ १४.५० ॥

द्रष्टुं ततः प्रजाकार्यं प्रवृत्ते धर्मनन्दने ।

अन्तर्दधे तमामन्त्र्य सर्वं तन्मुनिमण्डलम् ॥ १४.५१ ॥

हेमरत्नलताकान्ते विकासिकनकाम्बुजे ।

अथ कृष्णौ सभोद्याने स्वैरं प्रीत्या विजह्वतुः ॥ १४.५२ ॥

कथान्ते तत्र कंसारिं सुभद्रावल्लभोऽवदत् ।

युद्धारम्भे त्वयोक्तं यत्सर्वं तन्मम विस्मृतम् ॥ १४.५३ ॥

विसृष्टं परमार्थज्ञ ज्ञानं तत्पुनरुच्यताम् ।

इत्युक्तः पाण्डुपुत्रेण विषण्णः केशवोऽब्रवीत् ॥ १४.५४ ॥

अहो त्वयावधानेन न श्रुतं तदबुद्धिना ।

न शक्यते पुनर्वक्तुं तथापि श्रूयतामिदम् ॥ १४.५५ ॥

ब्राह्मणेन पुरा कश्चिज्जीवन्मुक्तदशां श्रितः ।

सिद्धः पृष्टोऽवदत्सर्वं विज्ञाय भवविभ्रमम् ॥ १४.५६ ॥

अस्मिन्नसत्यसंघाते भूतानां पाञ्चभौतिके ।

गुणैर्निबद्धः पक्षीव जीवस्तिष्ठति पञ्जरे ॥ १४.५७ ॥

अहंकारैकसाराणां देहिनां विस्मृतात्मनाम् ।

चक्रवत्परिवर्तन्ते सुखदुःखक्षयोदयाः ॥ १४.५८ ॥

देहान्ते कर्मसंसर्गाज्जन्तवः शुभदुष्कृतैः ।

तारारूपा विमानानि भजन्ते नरकाणि वा ॥ १४.५९ ॥

ततो भोगक्षये गर्भं जरायुपरिवेष्टितम् ।

शुक्ररूपो विशत्यात्मा योन्यां शोणितसंप्लुतः ॥ १४.६० ॥

निःश्वासाग्रैर्यथा वारि लीयते दर्पणोदरे ।

निर्धूतस्य यथा वह्नेरूष्मा व्योम्नि प्रसर्पति ॥ १४.६१ ॥

यथा वा कुसुमामोदः प्रविशत्यन्तरेऽनिले ।

रागः संक्रान्तिमायाति सरन्ध्रे स्फटिके यथा ॥ १४.६२ ॥

तथा दुर्लक्ष्यसंचारो गर्भमात्मा प्रधावति ।

बिभ्राणो वासनामन्तः शीतस्पर्शमिवानिलः ॥ १४.६३ ॥

जातस्य जायते तस्य वर्धमानस्य वर्धते ।

तृष्णातन्तुर्भि(र्वि)सस्येव शुष्यतो न तु शुष्यति ॥ १४.६४ ॥

विवेकाद्दुःखसंयोगाद्वैराग्यं गाढमाश्रितः ।

नाहमसस्मीति मन्त्रेण मुच्यते ब्रह्मदीक्षितः ॥ १४.६५ ॥

पूर्वं भावेषु निर्वाणस्ततः कारणवृत्तिषु ।

निरालम्बदशामेत्य योगी ब्रह्मणि लीयते ॥ १४.६६ ॥

सर्वतः पाणिचरणं सर्वव्यापिनमव्ययम् ।

आत्मानं स परिज्ञाय सत्यामेतां भवस्थितिम् ॥ १४.६७ ॥

इत्युक्त्वा ब्राह्मणं सिद्धः सहसान्तरधीयत ।

इदमन्यच्च कौन्तेय श्रेयसे प्रयतः शृणु ॥ १४.६८ ॥

उवाच ब्राह्मणी काचिद्भर्तारं विजने पुरा ।

गमिष्यामि गतिं साध्वी कामहं त्वत्परायणा ॥ १४.६९ ॥

इति पृष्टस्तया विप्रस्तामुवाच स्मिताननः ।

अग्निर्वैश्वानरो नाम स्थितोऽन्तः किल देहिनाम् ॥ १४.७० ॥

इन्द्रियाणि मनोबुद्धिस्तस्य सप्तार्चिष स्मृताः ।

विषयाश्चास्य समिधो भोक्तारः सप्त चर्त्विजः ।

तस्मिन्हते सर्वमिदं जायते च पुनः पुनः ॥ १४.७१ ॥

इन्द्रियाणीव मनसो मनस्तेषां च सर्वदा ।

परस्परोपकारेण प्रीयते देहसंगमे ॥ १४.७२ ॥

मनोबुद्धिप्रभृतयः सप्तेन्द्रियमृगाः पुरा ।

अतर्केणैव निहता राज्ञा योगमयैः शरैः ॥ १४.७३ ॥

जितेन्द्रियस्य नो किंचिदिदं तस्यैव चाखिलम् ।

विषया विषयस्येति जनको विप्रमभ्यदात् ॥ १४.७४ ॥

तस्मादसक्तमनसा दृष्ट्वा सर्वमिदं मया ।

त्यक्तं परावरज्ञेन भवाविर्भावशान्तये ॥ १४.७५ ॥

गतिस्तवापि कल्याणि मद्भावसदृशी सदा ।

ब्रह्मारणीसमुद्भूतं जानीहि ज्ञानपावकम् ॥ १४.७६ ॥

एतत्पत्युर्वचः श्रुत्वा ब्राह्मणी तत्त्वदर्शिनी ।

क्षेत्रक्षेत्रज्ञविज्ञानं परं प्रावीण्यमाययौ ॥ १४.७७ ॥

श्रुत्वैतदर्जुनः कृष्णं बभाषे विस्मयाकुलः ।

योगीन्द्रो ब्राह्मणः कोऽसौ क्वास्ते वा सा च तद्वधूः ॥ १४.७८ ॥

इत्युक्तः कैटभारातिः पुनरूचे धनंजयम् ।

शिष्येण पृष्टः सर्वज्ञः पुरा गुरुरभाषत ॥ १४.७९ ॥

बृहस्पतिप्रभृतिभिर्मुनीन्द्रैः सर्वदर्शिभिः ।

श्रुतेयं भवविच्छेदकथा प्रोक्ता स्वयंभुवा ॥ १४.८० ॥

गुणत्रयनिबद्धानां कर्मभेदविकारिणाम् ।

भावोऽयं प्राणिनां शश्वदल्पोऽप्यायात्यनल्पताम् ॥ १४.८१ ॥

विचित्रः किल सर्गोऽयमहंकाराद्विनिर्गतः ।

तस्मिन्नेव लयं याति श्वभ्रे पुष्पचयो यथा ॥ १४.८२ ॥

जन्मान्तरशताभ्यासादन्तरङ्गत्वमागतः ।

अहंकारः स मनसो लीलया केन भेद्यते ॥ १४.८३ ॥

अविद्या तानवेनैव शनैः संन्यस्तकर्मणः ।

विकल्पद्वंद्वविरतौ ज्ञानालोकः प्रजायते ॥ १४.८४ ॥

ज्ञानाग्निना प्रवृद्धेन दग्ध्वा भवविषद्रुमम् ।

सर्वग्रन्थिविनिर्मुक्तः परमामृतमश्नुते ॥ १४.८५ ॥

इति ब्रह्मोदितं ज्ञानं शिष्याय गुरुणा पुरा ।

नानानिदर्शनोपेतं कथितं भवशान्तये ॥ १४.८६ ॥

अहमेव गुरुः पार्थ शिष्यश्च त्वं समो मम ।

इत्युक्त्वा ज्ञानसर्वस्वं विरराम जनार्दनः ॥ १४.८७ ॥

          • अनुगीताः ॥ २ ॥ *****

ततो विहृत्य सुचिरं प्रीत्या कृष्णः किरीटिना ।

द्वारकागमने चक्रे मतिं बन्धुजनोत्सुकः ॥ १४.८८ ॥

स गत्वा नृपमामन्त्र्य धृतराष्ट्रं च सानुगम् ।

आश्वास्य कृष्णां कुन्तीं च प्रणम्यादाय चानुजाम् ॥ १४.८९ ॥

अश्वमेधे समेष्यामि पुनः कृत्वेति संविदम् ।

दारुकप्रेरितरथः प्रतस्थे गरुडध्वजः ॥ १४.९० ॥

स व्रजन्सात्यकिसखस्तेजोरञ्जितदिङ्मुखः ।

उत्तङ्कं तपसां राशिमालुलोके मुनिः पथि ॥ १४.९१ ॥

तं दृष्ट्वा सादरं शौरिः प्रणम्य रचिताञ्जलिः ।

कुशलं वीतवैराणां पप्रच्छाश्रमवासिनाम् ॥ १४.९२ ॥

उत्तङ्कोऽपि हरिं दृष्ट्वा प्रीतिपूर्वमनामयम् ।

ऊचे कच्चित्त्वया साम्ना रक्षितं भारतं कुलम् ॥ १४.९३ ॥

कच्चिद्दुर्योधनो राजा धर्मपुत्रश्च सानुगौ ।

स्थितौ विगतसंघर्षौ त्वद्बुद्ध्या पैत्रिके पदे ॥ १४.९४ ॥

इत्युत्तङ्केन गोविन्दः पृष्टस्तं प्रत्यभाषत ।

भारतानां मुने यत्नः परः संधौ कृतो मया ॥ १४.९५ ॥

हितमुक्तोऽपि बहुशः कौरवो विदुरादिभिः ।

न जग्राह कृतान्तेन दैवेन च विमोहितः ॥ १४.९६ ॥

निर्बन्धात्कुरुराजस्य राधेयमुनिवर्तिनः ।

निहताः पार्थिवाः सर्वे शेषाः पञ्चैव पाण्डवाः ॥ १४.९७ ॥

एत्च्छ्रुत्वा मुनिः कोपाज्ज्वलितानलसंनिभः ।

तमूचे वक्रमनसा ते त्वयैव निपातिताः ॥ १४.९८ ॥

शक्तेनापि त्वया कृष्ण यस्मात्पार्थहितैषिणा ।

उपेक्षितः क्षयो घोरस्तस्माच्छापं ददानि ते ॥ १४.९९ ॥

उत्तङ्केनेत्यभिहिते बभाषे कैटभान्तकः ।

जानामि तेजसां राशिं त्वामुत्तङ्क तपोनिधिम् ॥ १४.१०० ॥

किंतु नार्हसि कोपेन तीव्रं कर्तुं तपोव्ययम् ।

तमो हि दुःसहं घोरं क्रोधो मृत्युः शरीरिणाम् ॥ १४.१०१ ॥

नाद्यापि नष्टमोहोऽसि ननु नाद्यापि पश्यसि ।

किं न जानासि मां सर्वं सर्वव्यापिनमव्ययम् ॥ १४.१०२ ॥

सर्वदेवमयः कर्ता विश्वात्मा जगतामहम् ।

इत्युक्ते पुष्कराक्षेण शान्तकोपोऽब्रवीन्मुनिः ॥ १४.१०३ ॥

जाने त्वां किं तु तद्दिव्यं द्रष्टुमिच्छामि ते वपुः ।

इत्यर्थितो मुनीन्द्रेण विश्वाविष्कारलीलया ॥ १४.१०४ ॥

शक्तिप्रकाशपरिपूरितसंविदग्रे रेखास्फुरद्द्रुहिणरुद्रमहेन्द्रचन्द्रम् ।

धामत्रयोत्तरमनश्वरमैश्वरं त द्दृष्ट्वा वपुर्मुनिवरोऽभवदस्तमोहः ॥ १४.१०५ ॥

ततः स्तोत्रैरुत्तङ्केन विष्णुर्भक्त्या नमस्कृतः ।

तद्गिरा स्ववपुः सौम्यं तदेव पुनराददे ॥ १४.१०६ ॥

संनिधि ते विधास्यामि सर्वतः स्मरणान्मुने ।

इत्युक्त्वा तं समामन्त्र्य प्रायाद्गरुडकेतनः ॥ १४.१०७ ॥

ततः कदाचित्स मुनिर्जलार्थी मरुधन्वसु ।

चरन्ददर्श चण्डालं धनुष्पाणिं जलप्रदम् ॥ १४.१०८ ॥

गृहाणेत्यसकृत्तेन प्रार्थितोऽपि मुनिर्यदा ।

न जग्राहाशुचि जलमुत्तङ्कोऽन्तर्दधे तदा ॥ १४.१०९ ॥

ततः समेत्य भगवान्स्वयं विष्णुस्तमब्रवीत् ।

मुने मद्वचसा शक्रः सुधां त्वां दातुमाययौ ॥ १४.११० ॥

जलदो न स चाण्डालो मिथ्या शङ्का तवाभवत् ।

प्रत्याख्यातः स यन्मोहान्न तद्युक्तं त्वया कृतम् ॥ १४.१११ ॥

अधुना मद्वरात्तेऽस्तु सामृतैर्जलनिर्झरैः ।

पूरितेयं मरुमही निगद्येति ययौ हरिः ॥ १४.११२ ॥

एवं महाप्रभावोऽसावुत्तङ्को यशसां निधिः ।

दुर्लभं दर्शनं विष्णोः सानुग्रहमवाप्तवान् ॥ १४.११३ ॥

आसाद्य परमं ज्ञानं यः पुरा गुरुसेवया ।

तद्दक्षिणार्थी प्रययौ राज्ञः पौषस्य मन्दिरम् ॥ १४.११४ ॥

कुण्डले प्राप्य रुचिरे वितीर्णे पौषभार्यया ।

हृते च दृष्ट्वा नाशेन जीवितेशरसातलम् ॥ १४.११५ ॥

जित्वा नागान्समासाद्य ते पुरा रत्नकुण्डले ।

यो ददौ गुरुभार्यायै कृतकृत्यो बभूव च ॥ १४.११६ ॥

          • उत्तङ्कविश्वरूपदर्शनम् ॥ ३ ॥ *****

याते द्वारवतीं कृष्णे यादवानन्ददायिनि ।

युधिष्ठिरः सहामात्यो यज्ञकार्यमचिन्तयत् ॥ १४.११७ ॥

स गत्वा सानुजः शैलं श्रीकण्ठदयितं शनैः ।

आराध्य तपसा रुद्रं देवदेवं पिनाकिनम् ॥ १४.११८ ॥

उपहारेण विधिना मुहूर्ते शुभशंसिनि ।

अभ्यर्च्य गुह्यकाधीशं मणिभद्रं च सानुगम् ॥ १४.११९ ॥

मुनिभिस्तर्पिते वह्नौ धौम्येन च पुरोधसा ।

लेभे पाणडुसुतः श्रीमान्मरुत्तनिहितं निधिम् ॥ १४.१२० ॥

पृथुप्रमाणरूपाणि भास्वन्ति विविधानि च ।

हेमभाण्डसहस्राणि रत्नभारशतानि च ॥ १४.१२१ ॥

उष्ट्राणां शकटानां च हयानां करिणां तथा ।

दशलक्षाणि तद्वित्तमनयद्धस्तिनापुरम् ॥ १४.१२२ ॥

महिषाणां स्वराणां च पुरुषाणां गवां तथा ।

न बभूव तदा संख्या वहतां भूरि काञ्चनम् ॥ १४.१२३ ॥

अक्षय्यं कोशमादाय प्राप्तेऽथ स्वपुरं नृपे ।

सहितो वृष्णिभिः सर्वैराययौ मधुसूदनः ॥ १४.१२४ ॥

एतस्मिन्नेव समये सौभद्रमहिषी सुतम् ।

द्रोणपुत्रास्त्रनिर्दग्धमसूत गतजीवितम् ॥ १४.१२५ ॥

उत्तरायाः सुतो जातः स्त्रीणामित्युत्सवस्वनः ।

व्यसुर्व्यसुश्चेत्यभवत्स एव रोदनध्वनिः ॥ १४.१२६ ॥

बालप्रवालकलिकाकोमलावयवे शिशौ ।

जाते निर्जीविते शोकान्मुमोह जननीजनः ॥ १४.१२७ ॥

ततः कुन्ती सुभद्रा च समेत्य करुणानिधिम् ।

बाष्पसंदिग्धया वाचा रुक्मिणीपतिमूचतुः ॥ १४.१२८ ॥

स्वस्रेयस्य यशोमूर्तेरभिमन्योः प्रियस्य ते ।

बालस्य बालस्तनयो जातोऽद्य गतजीवनः ॥ १४.१२९ ॥

करुणार्द्रे निशम्यैतद्भगवान्भूतभावनः ।

विवेश सूतिकावेश्म शौरिः कलशभूषितम् ॥ १४.१३० ॥

रत्नदीप्तांशुकपिशं दीप्तौषधिशताचितम् ।

मन्त्रैर्भिषग्भिः शिखिना शस्त्रैरस्त्रैश्च रक्षितम् ॥ १४.१३१ ॥

अथोत्तरा प्राप्य संज्ञां शीतवारिभिरुक्षिता ।

तमङ्के शिशुमादाय विललाप हरेः पुरः ॥ १४.१३२ ॥

ततो जलदगम्भीरघोषः शौरिरभाषत ।

दृशा पीयूषवर्षिण्या विलोक्य शनकैः शिशुम् ॥ १४.१३३ ॥

सत्याद्द्विजेभ्यो धर्माच्च यथा नान्यत्प्रियं मम ।

तेन सत्येन बालोऽयमस्त्रमुक्तोऽद्य जीवतु ॥ १४.१३४ ॥

माधवेनेत्यभिहिते लब्धजीवः स बालकः ।

सूर्यांशुभिरिव स्पृष्टो बभूवाम्बुजकोरकः ॥ १४.१३५ ॥

ततः प्रवृत्ते विपुले सहसा नगरोत्सवे ।

नभश्चराणामप्यासीत्यसाधु साध्विति निःस्वनः ॥ १४.१३६ ॥

परिक्षीणे कुरुलये यस्माज्जातोऽयमर्भकः ।

तस्मात्परीक्षिन्नाम्नास्तु जगादेत्यथ केशवः ॥ १४.१३७ ॥

          • पिरक्षिज्जन्म ॥ ४ ॥ *****

व्यासाज्ञया ततो राज्ञो यज्ञयोग्यो महाधनः ।

प्रावर्ततोरुरत्नाढ्यः संभारो बहुकौतुकः ॥ १४.१३८ ॥

अथोत्सृज्य विधानेन कृष्णशारं तुरङ्गमम् ।

रक्षितं पाण्डुपुत्रेण स्वयं गाण्डीवधन्वना ॥ १४.१३९ ॥

बभूव चैत्रशुक्लान्ते दीक्षितो धर्मनन्दनः ।

हेममालाधरो दण्डी मुण्डः कृष्णाजिनावृतः ॥ १४.१४० ॥

ततस्त्रिगर्तविषयं प्राप्ते यज्ञतुरङ्गमे ।

राजपुत्रैरभूद्युद्धं तुमुलं सव्यसाचिनः ॥ १४.१४१ ॥

युधिष्ठिराज्ञा तस्याभून्न हन्तव्या नृपा इति ।

तां स्मरन्नावधीद्भूपान्स विजिग्ये तु केवलम् ॥ १४.१४२ ॥

प्राग्ज्योतिषेश्वरं वीरं भगदत्तात्मजं युधि ।

त्रिभिर्दिनैर्वज्रदत्तं जित्वा कुञ्जरयोधिन्म् ॥ १४.१४३ ॥

सैन्धवैरकरोद्युद्धं सुचिरं क्रूरयोधिभिः ।

पादचारी रणे पार्थो रथकुञ्जरवर्तिभिः ॥ १४.१४४ ॥

पौत्रं जयद्रथस्याथ शिशुमादाय दुःशला ।

सव्यसाचिनमासाद्य बभाषे साश्रुलोचना ॥ १४.१४५ ॥

भ्रातस्त्वयि समायाते त्वन्नामैव निशम्य मे ।

पुत्रो जायद्रथिर्यातः पञ्चतां स्फटिताशयः ॥ १४.१४६ ॥

तत्सुतो मम पौत्रोऽयं स्वस्रयतनयस्तव ।

रक्ष्यः सर्वात्मनेत्युक्त्वा रुरोद धृतराष्ट्रजा ॥ १४.१४७ ॥

विषण्णास्तां समाश्वास्य पार्थो बाष्पार्द्रलोचनः ।

निन्दन्निजां क्षत्त्रजातिं जगाम तुरगानुगः ॥ १४.१४८ ॥

श्वेताश्वमश्वगोप्तारं मणिपूरपुरं ततः ।

प्राप्तं प्रत्युद्ययौ राजा तत्पुत्रो बभ्रुवाहनः ॥ १४.१४९ ॥

पूजामादाय तनयं नम्रं दृष्ट्वा पुरः स्थितम् ।

युद्धार्थी शक्रतनयो नाभ्यनन्दत्कृताञ्जलिम् ॥ १४.१५० ॥

दृष्ट्वा मां सायुधं प्राप्तं साम्ना प्रत्युद्यतोऽसि किम् ।

धिक्त्वामक्षत्त्रियं भीरुमित्यूचे तं धनंजयः ॥ १४.१५१ ॥

अत्रान्तरे महीं भित्त्वा समुत्थायोरगाङ्गना ।

भर्तुः पाण्डुसुतस्याग्रे बभाषे बभ्रुवाहनम् ॥ १४.१५२ ॥

युद्धेन तुष्यति पिता तवायं सुभटप्रियः ।

वीरसंतानसफला शौर्यश्रीरभिमानिनाम् ॥ १४.१५३ ॥

इत्युक्तः स तया धन्वी रथं हेमहरिध्वजम् ।

आरुह्यामुक्तकवचः पितरं योद्धुमाययौ ॥ १४.१५४ ॥

ततः शरशतैर्विद्धस्तेन श्रान्तो धनंजयः ।

आनन्दनिर्भरस्तस्य प्रशशंस पराक्रमम् ॥ १४.१५५ ॥

गाण्डीवधन्वना मुक्तान्नाराचान्वज्रगौरवान् ।

अप्राप्तानेव चिच्छेद शरैश्चित्राङ्गदासुतः ॥ १४.१५६ ॥

अथोन्ममाथ पुत्रस्य स्यन्दनं शक्रनन्दनः ।

हेमपत्त्रलताचित्रमुद्यानमिव मारुतः ॥ १४.१५७ ॥

विलोक्य विरथं पुत्रं युध्यमानमसंभ्रमम् ।

मन्दप्रयत्नशिथिलान्प्राहिणोद्विजयः शरान् ॥ १४.१५८ ॥

अथ तीक्ष्णेन हृदये पत्त्रिणा बभ्रुवाहनः ।

वज्रेणेवाचलभिदा जघान श्वेतवाहनम् ॥ १४.१५९ ॥

अवध्ये सर्वभूतानां पुत्रेण निहतेर्ऽजुने ।

नादो बभूव गगने हा हेति त्रिदिवौकसाम् ॥ १४.१६० ॥

पितरं पतितं दृष्ट्वा शक्रकेतुमिव क्षितौ ।

मुमोह निन्दन्नात्मानं त्यक्तचापोर्ऽजुनात्मजः ॥ १४.१६१ ॥

अथ चित्राङ्गदाभ्येत्य पुत्रेण निहतं पतिम् ।

विलोक्य शोकसंपन्ना विललाप सुमध्यमा ॥ १४.१६२ ॥

अहो बत चिरादेत्य जायाया मम मन्दिरम् ।

आर्यपुत्र त्वयातिथ्यं प्राप्तं पुत्राद्बलीयसः ॥ १४.१६३ ॥

अहो नु हतभाग्याहं चिरविप्रोषितं पतिम् ।

त्वां प्राप्तं नयनानन्दं पश्यामि निहतं क्षितौ ॥ १४.१६४ ॥

इत्युक्त्वा गाढमालिङ्ग्य सा पतिं बाष्पगद्गदा ।

उलूपी नागतनया भुवि चित्राङ्गदापतत् ॥ १४.१६५ ॥

लब्धसंज्ञोऽथ शोकार्तः प्रलपन्बभ्रुवाहनः ।

शरीरत्यागनियमं चक्रे किल्बिषकूणितः ॥ १४.१६६ ॥

ततः प्रदध्यौ मनसा नागी संजीवनं मणिम् ।

स च ध्यातस्तया सत्या नागलोकात्समाययौ ॥ १४.१६७ ॥

स्पृष्टोऽथ हृदये तेन जीवितं प्राप्य फल्गुणः ।

चित्राङ्गदा च सहसा शोकं त्यक्त्वा ह्रियं ययौ ॥ १४.१६८ ॥

ततो निवेद्य वृत्तान्तं जगाद भुजगात्मजा ।

उलूपी धैर्यलधिं सुप्तोत्थिचमिवार्जुनम् ॥ १४.१६९ ॥

शापो भीष्मवधादेष दत्तस्ते वसुभिः पुरा ।

कोऽन्यथा त्वां रणे शक्तो जेतुं निर्जितधूर्जटिम् ॥ १४.१७० ॥

मत्पिता मयि वात्सल्याच्छापिता वसवश्च ते ।

ऊचुस्त्वच्छापनिर्वाणं रत्नमेतन्महाप्रभम् ॥ १४.१७१ ॥

श्रुत्वैतद्विस्मितः पार्थो नागीं चित्राङ्गदां तथा ।

परिसान्त्व्य शनैः पूजां जग्राह तनयार्पिताम् ॥ १४.१७२ ॥

ततस्तं दयितं वीरः पुत्रमामन्त्र्य पाण्डवः ।

हयानुसारी बभ्राम वसुधामब्धिमेखलाम् ॥ १४.१७३ ॥

स जित्वा मगधाधीशं जरासंधात्मजात्मजम् ।

वङ्गान्पुण्ड्रान्किरातांश्च दाक्षिणात्यान्समागधान् ॥ १४.१७४ ॥

गान्धारान्सौबलसुतान्राजपुत्रान्प्रहारिणः ।

आगन्तव्यं मखे राज्ञः सर्वैरित्यादिदेश तान् ॥ १४.१७५ ॥

ततः प्रतिनिवृत्तेन तुरगेन सहार्जुनः ।

विवेश पूजितः पौरौर्विजयी हस्तिनापुरम् ॥ १४.१७६ ॥

          • हयोत्सर्गः ॥ ५ ॥ *****

ततः प्रवृत्ते विधिवद्यज्ञे कनकवर्षिणः ।

राज्ञो मुनिजनाकीर्णे प्राप्तेष्वखिलराजसु ॥ १४.१७७ ॥

जनन्या सह भूपाले संप्राप्ते बभ्रुवाहने ।

सादरं फल्गुणप्रीत्या पूजिते पाण्डुनन्दनैः ॥ १४.१७८ ॥

निःशेषकल्मषप्लोषदिव्यदीक्षाकृतक्षणः ।

क्रियामहीनां विदधे स्वयं सत्यवतीसुतः ॥ १४.१७९ ॥

हैमं तत्राभवत्सर्वमिष्टकाचयनादिकम् ।

यूपभाण्डघनस्थालीपर्यङ्कगृहतोरणम् ॥ १४.१८० ॥

देवर्षिसिद्धगन्धर्वकिंनरा मङ्गलं जगुः ।

कर्मान्तरेषु यज्ञस्य ननृतुश्चाप्सरोगणाः ॥ १४.१८१ ॥

शमिते पशुसङ्घे च तुरगं ब्राह्मणोत्तमाः ।

आलभन्त यथाशास्त्रमुपसंरोध्य पार्षतीम् ॥ १४.१८२ ॥

ततस्ते याजकास्तत्र वपामुद्धृत्य वाजिनः ।

श्रपयित्वा शुभं धूमं पाण्डवेभ्यो न्यवेदयन् ॥ १४.१८३ ॥

ततः पूर्णे न विधिना व्यासाय पृथिवीपतिः ।

चतुःसमुद्ररसनां पृथिवीं दक्षिणां दधौ ॥ १४.१८४ ॥

दत्त्वाथ हेमकोटीनां कोटिं तद्वचसा नृपः ।

ब्राह्मणेभ्यः पुनः क्षोणीं जग्राह मुनिनार्पिताम् ॥ १४.१८५ ॥

पूजयित्वा नरेन्द्रेण मानार्हेष्वथ राजसु ।

विसृष्टेष्वभवत्कोऽपि ब्रह्मसङ्घमहोत्सवः ॥ १४.१८६ ॥

बभूवुस्तत्र वाहिन्यो मधुनः क्षीरसर्पिषाम् ।

बभुश्च कुलशैलाभा भक्ष्या मोदकराशयः ॥ १४.१८७ ॥

द्विजेभ्यो दीयमानेषु हेमरत्नेषु भूभुजा ।

शक्रायुधैरिव व्याप्ता दिशो दश चकाशिरे ॥ १४.१८८ ॥

धृतराष्ट्रः सविदुरः सञ्जयः सुबलात्मजाः ।

तस्थुर्दैवतवत्तत्र पूज्यमाना महीभुजा ॥ १४.१८९ ॥

          • यज्ञः ॥ ६ ॥ *****

अत्रान्तरे हेमचित्रपार्श्वो बिलमुखोद्गतः ।

नकुलो लघुसंचारो यज्ञभूमिमुपाययौ ॥ १४.१९० ॥

स मनुष्यगिरा प्राह जनयञ्जनकौतुकम् ।

अहो नु सक्तृप्रस्थेन न तुल्योऽयं महामखः ॥ १४.१९१ ॥

नूनं दानकणः शुद्धः कृशोऽपि प्रथते नृणाम् ।

नूनं बहुद्रविणता मिथ्यैवोत्सवडम्बरः ॥ १४.१९२ ॥

इति ब्रुवाणः पृष्टोऽसौ विप्रैर्विस्मयनिर्भरैः ।

उवाच स्रक्तुप्रस्थस्य माहात्म्यं श्रूयतां द्विजाः ॥ १४.१९३ ॥

शिलोच्छवृत्तिरभवत्कुरुक्षेत्रे पुरा द्विजः ।

विशुद्धसत्त्वद्रविणः कृशो बहुकुटुम्बकः ॥ १४.१९४ ॥

घोरे कदाचिद्दुर्भिक्षे क्षीणवृत्तिश्चिरेण सः ।

कृच्छ्रात्क्षेत्रशतं भ्रान्त्वा सक्तुप्रस्थमवाप्तवान् ॥ १४.१९५ ॥

बैश्वदेवेन विधिना स कृत्वावश्यकं गृहे ।

कलत्रसहितो भोक्तुं प्रस्थितोऽपश्यदर्थिनम् ॥ १४.१९६ ॥

क्षुत्परीतः क्षुधाक्रान्तं स तं दृष्ट्वातिथिं द्विजः ।

ददौ स्वमशनं तस्मै संतोषविषदाशयः ॥ १४.१९७ ॥

तद्भुक्त्वा नाभवत्तस्य क्षुन्नवृत्तिर्यदार्थिनः ।

तद्भार्या तत्सुतश्चास्मै तत्स्नुषा च ददौ तदा ॥ १४.१९८ ॥

सर्वेषां भोजनेनाथ तृप्तः सोऽतिथिरब्रवीत् ।

धर्मस्तुष्टोऽस्मि सत्त्वेन महती सिद्धिरस्तु वः ॥ १४.१९९ ॥

इत्युक्त्वान्तर्हिते तस्मिन्विमानैस्तरणिप्रभैः ।

सशरीरा दिवं प्रापुः सर्वे ते श्लाघ्यवृत्तयः ॥ १४.२०० ॥

अथाहं सक्तुगन्धेन समाहूतो बिलाश्रयः ।

तामुच्छिष्टभुवं प्राप्तो भुक्तवान्यत्र सोऽतिथिः ॥ १४.२०१ ॥

तत्पात्रसलिलस्पृष्टमेकं पार्श्वमिदं मम ।

लुठितं हेमरुचिरं जातं पुण्यैरिवाप्लुतम् ॥ १४.२०२ ॥

द्वितीयपार्श्वचिन्ता मे कथं हैमं भवेदिति ।

बभूव सुचिरं तस्मात्प्राप्तोऽहं वसुधाधिपम् ॥ १४.२०३ ॥

द्विजलक्षसहस्राणामिह भोजनभूमिषु ।

भ्रान्तस्यापि न संजातः कोऽपि कान्तो लवस्तनौ ॥ १४.२०४ ॥

तस्मान्न सक्तुप्रस्थस्य समतामर्हति क्रतुः ।

इत्युक्त्वा नकुलः प्रायाच्चित्रकान्तिरदर्शनम् ॥ १४.२०५ ॥

एवं यज्ञसहस्रेभ्यः श्रेयसी भावशुद्धता ।

मनसः किल वैमल्यं परं ब्रह्म प्रचक्षते ॥ १४.२०६ ॥

अगस्त्यस्य पुरा सत्रे विप्रा द्वादशवार्षिके ।

शशंसुर्भाविनीं घोरामनावृष्टिं परस्परम् ॥ १४.२०७ ॥

ततोऽगस्त्यः परित्यज्य द्रव्ययज्ञं महामतिः ।

चकार स्तब्धमनसा ध्यानयज्ञं तपोनिधिः ॥ १४.२०८ ॥

स एव वसुसंपन्नः सर्ववित्कृतसंनिधिः ।

क्रतुर्बभूव येनेन्द्रो ववर्षानन्दनिर्भरः ॥ १४.२०९ ॥

श्रेयान्सत्त्वविशुद्धस्य पाण्डवस्याभवत्क्रतुः ।

किं तु स्वकार्यान्नकुलस्तत्र चक्रे विमाननाम् ॥ १४.२१० ॥

जिज्ञासुर्जमदग्निं प्राक्स्वयं क्रोधः श्वविग्रहः ।

पस्पर्श जिह्वया श्राद्धे धृतं हि पिठिरे पयः ॥ १४.२११ ॥

क्रोधोऽयमिति विज्ञाय मुनिस्तं ज्ञानलोचनः ।

न शशाप ततो भीतः क्रोधः कम्पाकुलोऽभवत् ॥ १४.२१२ ॥

ततस्ते पितरः क्रुद्धा येषां श्राद्धे धृतं पयः ।

अशपन्सुचिरं येन क्रोधो नकुलतां ययौ ॥ १४.२१३ ॥

अवमानकथां कृत्वा स्वयं यौधिष्ठिरे क्रतौ ।

शापक्षयं प्राप्स्यसीति तैरेवास्य कृतोऽवधिः ॥ १४.२१४ ॥

          • नकुलोपाख्यानम् ॥ ७ ॥ *****

इति सकलनरेन्द्रैर्वन्द्यमानस्य राज्ञो द्विजजनपरिपुष्टः सत्त्वपुष्पप्रकारः ।

शुभफलनिचयाद्यो यज्ञसंभारमूलश्चरिततरुरुदारः सत्यशाखो रराज ॥ १४.२१५ ॥

इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यामाश्वमेधिकं पर्व