कर्णपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ८.१ ॥

हते द्रोणे कुरुक्षेत्रे पुनरभ्येत्य संजयः ।

राज्ञे न्यवेदयद्युद्धमाश्चर्यं कर्णपार्थयोः ॥ ८.२ ॥

ततो दुर्योधनः कर्णं चित्तसंकल्पशालिनम् ।

चक्रे द्रौणिगिरा हृष्टः शूरं सेनासु नायकम् ॥ ८.३ ॥

अभिषिक्तो मणिमयैः कलशैर्यशसां निधिः ।

मनोरथसुधावर्षी सोऽभवत्कुरुभूपतेः ॥ ८.४ ॥

विधाय मकरव्यूहं स्थितो वैरिकुलेषु सः ।

चक्रिरे पाण्डवा व्यूहमर्धचन्द्रमतन्द्रितम् ॥ ८.५ ॥

ततः शस्त्रास्त्रसंघर्षकीर्णवह्निकणाकुले ।

घोरे प्रवृत्ते समरे निर्धोषस्तुमुलोऽभवत् ॥ ८.६ ॥

भीमोऽथ कुञ्जरारूढो मत्तमातङ्गमास्थितम् ।

चतुर्दन्तं जघानोग्रं कुलूतनृपतिं रणे ॥ ८.७ ॥

ततः कर्णान्तनिर्मुक्तैः कर्णचापच्युतैः शरैः ।

निर्भिन्नाः कुञ्जराः पेतुश्छिन्नपक्षा इवाचलाः ॥ ८.८ ॥

पार्थसात्यकिपाञ्चालद्रौपदेयशिखण्डिनः ।

कृपद्रौणिमुखैश्चक्रुः परं नवमिवाहरम् ॥ ८.९ ॥

पार्थः संशप्तकान्हत्वा निनाय भ्रातरौ नृपौ ।

दण्डाधारं सदण्डं च दण्डाधारपुरं शरैः ॥ ८.१० ॥

अथ पाण्ड्यः कुरुचमूं दारयञ्जगतीभुजाम् ।

भल्लैः शिरांसि चिच्छेद लब्धलक्ष्यः प्रहारिणाम् ॥ ८.११ ॥

भीष्मद्रोणार्जुनस्पर्धां दर्पज्वरभवां नयः ।

सहते नित्यमात्मानं मन्यमानो बलाधिकम् ॥ ८.१२ ॥

दक्षिणापथनाथेन कर्णाटीस्मितकीर्तिना ।

लाटीनेत्रशितास्त्रेण तेन बाणैर्निपीडिता ॥ ८.१३ ॥

द्रौणिना सूतपूत्रेण सौबलेन कृपेण च ।

वार्यमाणापि दुद्राव कुरुराजवरूथिनी ॥ ८.१४ ॥

तमभ्येत्य जवाद्द्रौणिर्विशिखाशनिवर्षिणम् ।

अयोधयदसंभ्रान्तो जम्भारिरिव शम्बरम् ॥ ८.१५ ॥

तस्य लीलावतीलोललोचनभ्रमराम्बुजम् ।

द्रौणिः शिरो जहाराथ भल्लेनान्देलिकुण्डलम् ॥ ८.१६ ॥

पाण्ड्यसंज्ञे हते वीरे मौलिरत्ने महीभुजाम् ।

पाण्डुसेना न शुशुभे शशिहिनेव शर्वरी ॥ ८.१७ ॥

          • पाण्ड्यवधः ॥ १ ॥ *****

ततो गाढनिषक्तेषु शस्त्रवृष्टिं पिबत्सिव ।

आविष्टेष्विव वीरेषु युधि मानेष्ववारितम् ॥ ८.१८ ॥

मिश्रीभूतेषु भूपानां रथेषु च गजेषु च ।

नष्टालोकेषु लोकेषु वपुर्गाढेन पांसुना ॥ ८.१९ ॥

म्लेच्छराजं महानीकं नकुलः क्रूरयोधिनम् ।

जघान राक्षसाचारं सर्वायुधविशारदम् ॥ ८.२० ॥

विमर्दे निबिडे तस्मिन्नकुलं वधगोचरम् ।

स्मरन्कुन्तीवचः कर्णो नावधीत्सत्यविक्रमः ॥ ८.२१ ॥

ततः कर्णमुखैर्वीरैः कीर्णाः पाञ्चालसॄञ्जयाः ।

न लेभिरे परित्राणं कुरवश्चार्जुनादिभिः ॥ ८.२२ ॥

हतवीरेषु भग्नेषु च्छिन्नध्वजरथेषु च ।

गाढविद्धस्रवद्दन्तिघटानिष्पिष्टपत्तिषु ॥ ८.२३ ॥

अकाण्डताण्डवाविद्धकबन्धाकुलवर्त्मसु ।

विशालशोणितनदीमञ्जत्कुञ्जरवाजिषु ॥ ८.२४ ॥

हतशेषेषु सैन्येषु श्रान्तेषु कुरुपाण्डवाः ।

अवहारं दिनापाये चक्रुः शिथिलकार्मुकाः ॥ ८.२५ ॥

          • प्रथमो युद्धदिवसः ॥ २ ॥ *****

अथ प्रभाते संनद्धे संनिकृष्टे बलद्वये ।

ऊचे दुर्योधनं कर्णः पाण्डुसेनां व्यलोकयन् ॥ ८.२६ ॥

त्वत्प्रसादप्रणयिनो मानस्य विभवस्य च ।

अद्याहमनृणो भूत्वा रणे गच्छामि निर्वृतिम् ॥ ८.२७ ॥

अद्य गाण्डीवधन्वानं हत्वा सारं भवद्द्विषाम् ।

सफलं ते करोम्येष संकल्पं चिरसंभृतम् ॥ ८.२८ ॥

निन्द्यं सर्वात्मना लोके सतां स्वगुणकीर्तनम् ।

किंतु कर्तव्यकालेषु न प्रशंसन्ति मूकताम् ॥ ८.२९ ॥

अहमभ्यधिकः पार्थाद्विद्यया विक्रमेण च ।

एतावदधिकं कृष्णो यदनर्घोऽस्य सारथिः ॥ ८.३० ॥

कृष्णादभ्यधिकः शल्यो विदितः सर्वभूभुजाम् ।

तेन सारथिना जिष्णुं विजेतुमहमुत्सहे ॥ ८.३१ ॥

इति वैकर्तनेनोक्ते हृष्टो राजा सुयोधनः ।

तदेवाभ्येत्य विनयान्मद्रराजमभाषत ॥ ८.३२ ॥

ततो मद्राधिपः क्रुद्धः संरम्भलुलितांशुकः ।

सासूयं वीक्ष्य राधेयं कौरवाधिपमभ्यधात् ॥ ८.३३ ॥

अहो सरलता राजन्नवमानाय केवलम् ।

यदहं दीर्घसंघाभ्यां सारथ्ये गदितस्त्वया ॥ ८.३४ ॥

किमहं पाण्डवान्सर्वान्हन्तुं शक्ते न संगरे ।

नृपं मां सूतपुत्रस्य सूतं कर्तुं यदिच्छसि ॥ ८.३५ ॥

उक्त्वेति सहसा शल्ये सानुगे हन्तुमुद्यते ।

प्रसाद्य तं कुरुपतिर्वक्तुं समुपचक्रमे ॥ ८.३६ ॥

मद्रराज ज संरम्भमस्थाने कर्तुमर्हसि ।

अधिकस्त्वं हि गोविन्दादतोऽस्माभिरिहार्थ्यते ॥ ८.३७ ॥

अर्जुनादधिकः कृष्णः सारथिर्विहितः परैः ।

त्वं कर्णादधिकस्तस्मात्सारथ्ये मा हठं कृथाः ॥ ८.३८ ॥

त्रैलोक्योपप्लवे दैत्यैः प्रजापतिवरोर्जितैः ।

राजतायससौवर्णस्वच्छन्दपुरवासिभिः ॥ ८.३९ ॥

वध्यमानेषु लोकेषु देवाः शक्रपुरोगमाः ।

पुरा पिनाकिनं देवं शंकरं शरणं ययुः ॥ ८.४० ॥

विश्वत्राणाय विश्वेशस्त्रिदशैरर्थितस्ततः ।

सर्वदेवमयं कृत्वा रथं विष्णुं च सायकम् ॥ ८.४१ ॥

उवाच देवान्संनद्धः सारथिः कल्प्यतां मम ।

मत्प्रभावाधिकः कश्चिद्येन हन्तास्मि दानवान् ॥ ८.४२ ॥

ततः शक्रमुखा देवा विचार्य सुचिरं धिया ।

ब्रह्माणं विश्वकर्तारं सारथ्ये पर्यकल्पयन् ॥ ८.४३ ॥

तेनोङ्कारप्रतोदेन गृहीते स्यन्दने हरः ।

एकीभूतान्पुरे दैत्यान्ददाह विशिखाग्निना ॥ ८.४४ ॥

          • त्रिपुरवधोपाख्यानम् ॥ ३ ॥ *****

इति रुद्रस्य धातापि स्वयं सूतोऽभवत्पुरा ।

तथा त्वमपि कर्मस्य नावज्ञां कर्तुमर्हसि ॥ ८.४५ ॥

ऐश्वर्यस्याभिजन्यस्य गुणानां विक्रमस्य च ।

सन्तः फलं हि मन्यन्ते मित्रप्रणयपूरणम् ॥ ८.४६ ॥

उक्ते दुर्योधनेनेति मद्रराजः स्मिताननः ।

स्वच्छन्दवादी सूतोऽहं भविष्यामीत्यभाषत ॥ ८.४७ ॥

          • शल्यसारथ्यस्वीकारः ॥ ४ ॥ *****

ततः स्वकल्पितैः श्वेतैस्तुरङ्गैरिव मातलिः ।

तप्तकाञ्चनसंनाहे कर्णस्य रुचिरे रथे ॥ ८.४८ ॥

जग्राह हेलया शल्यो रश्मिममालां सुशिक्षिताम् ।

प्रतापधाम्नः सूर्यस्य दिवीव गरुडाग्रजः ॥ ८.४९ ॥

युयुत्सुं कर्णमालोक्य धन्विनं शल्यसारथिम् ।

जयं हस्तगतं मेने कुरुराजः सहानुगः ॥ ८.५० ॥

नदस्तु कुरुसैन्येषु शङ्खदुन्दुभिनिःस्वनैः ।

मौर्वीमास्फालयन्कर्णो मद्रराजमभाषत ॥ ८.५१ ॥

अद्य शक्रः सुतं दृष्ट्वा मया निहतमर्जुनम् ।

दिव्यास्त्रेषु दृशः शङ्के सासूयं क्षिपति क्षणात् ॥ ८.५२ ॥

अद्य मद्बाणदलितं पार्थं वीक्ष्य युधिष्ठिरः ।

भीष्मद्रोणवधायासवैफल्यात्परितप्यताम् ॥ ८.५३ ॥

इति ब्रुवाणं राधेयं कर्ण मद्राधिपोऽब्रवीत् ।

मा सूतपुत्र मिथ्यैव प्रलापं शिशुवत्कृथाः ॥ ८.५४ ॥

गन्धर्वसमरे पूर्वं त्वयि धीमति विद्रुते ।

येन त्रैलोक्यवीरेण कौरवाः परिरक्षिताः ॥ ८.५५ ॥

मानिनामात्तशस्त्रभाणां तस्मिन्गोग्रहविग्रहे ।

युष्मद्विधानां सहसा हृता येनांशुकावली ॥ ८.५६ ॥

आखण्डलः सानुचरः खाण्डवे येन निर्जितः ।

तं समुत्सहसे जेतुं कर्ण कर्णोऽसि किं न वा ॥ ८.५७ ॥

इति शल्येन सहसा शल्येनेवार्दितो मुहुः ।

संस्तम्भ्य कोपं राधेयो द्रक्ष्यसीति तमभ्यधात् ॥ ८.५८ ॥

ततो व्यूहेष्वनीकेषु सव्यसाचिरणोत्सुकः ।

अग्रेसरो रथाग्र्याणां कर्णः पप्रच्छ सैनिकान् ॥ ८.५९ ॥

क्वासौ जयद्रथारातिर्वीरो वानरकेतनः ।

तं विना रभसादेते ताम्यन्त्येव ममेषवः ॥ ८.६० ॥

विधत्ते लोचनपथं मम यस्तूर्णमर्जुनम् ।

ददामि तस्मै वासांसि चित्राण्याभरणानि च ॥ ८.६१ ॥

रथान्समत्तमातङ्गान्गाः सुवर्णं पुराणि च ।

कान्ताश्च विविधं चान्यद्द्रविणं यावदिच्छति ॥ ८.६२ ॥

एतदाकर्ण्य सोत्प्रासं बभाषे मद्रभूपतिः ।

हासो दुःखाय जायेत राधेय त्वद्विचेष्टितैः ॥ ८.६३ ॥

मूमूर्षुरिव निष्पुत्रो द्रविणं चिरसंभृतम् ।

अविचार्यैव किं मोहात्परेषु त्यक्तुमिच्छसि ॥ ८.६४ ॥

स्वयमर्जुनमायान्तं वशः सितसटाभरम् ।

द्रष्टासि बाणनखरैः कुरङ्ग इव कातरः ॥ ८.६५ ॥

श्रुत्वैतत्कुपितः कर्णो जगाद भ्रुकुटीमुखः ।

निर्गुणस्त्वं न जानीषे न मां न च धनंजयम् ॥ ८.६६ ॥

अहमेवार्जुनं जाने प्रतिमल्लं पिनाकिनः ।

स च मां वेत्ति तत्त्वेन त्वं मिथ्या तु प्रगल्भसे ॥ ८.६७ ॥

अयं मित्रोपधिः शत्रुः केनापि प्रेषितोऽसि नः ।

कुदेशजस्य वा नैतत्तव कौटिल्यमद्भुतम् ॥ ८.६८ ॥

मद्रकाः कुत्सिताचाराः सत्यशीलार्जवोज्झिताः ।

मानं प्रचक्षते लोके सर्ववेदविदो जनाः ॥ ८.६९ ॥

निर्लज्जाः सर्वगामिन्यो लोभमोहमदाकुलाः ।

अनार्या मद्रिकायास्ताः स्वसारो मातरश्च ते ॥ ८.७० ॥

राधेयेनेति संरम्भाद्भाषितो मद्रभूपतिः ।

उवाच मूढ बहुशो हितमुक्तं न बुध्यसे ॥ ८.७१ ॥

स्मर्तासि विगलद्दर्पो निर्जितः सव्यसाचिना ।

हितोपदेशवाक्यानां शोचन्ननुशयाकुलः ॥ ८.७२ ॥

समुद्रकूलनिलयः पुरा वैश्यो महाधनः ।

बह्वपत्योऽभवद्राज्ञा रक्षितो निरुपद्रवः ॥ ८.७३ ॥

तत्पुत्राणामभूत्काकः सततोच्चिष्टभोजनः ।

पुष्टाङ्गो यो धनाढ्यानां प्रणयी पुत्रवत्प्रियः ॥ ८.७४ ॥

ततः कदाचिदायाता हंसा मानसगामिनः ।

सोऽवदज्जातसंघर्षस्तुल्या यूयं न मे जवे ॥ ८.७५ ॥

जाने पातशतं पूर्णं विडीनोड्डीनभेदतः ।

ज्ञायते तुल्यपातान्मे युष्माकं च तरस्विता ॥ ८.७६ ॥

इत्युच्छिष्टभुजा तेन राजहंसा विवल्गिताः ।

आहूता विहसन्तोऽन्तर्वीरा नो किंचिदूचिरे ॥ ८.७७ ॥

एकस्तु हंसो जलधौ व्रजाव इति संविदा ।

काकेन सार्धं शरवन्निपपात स्मिताननः ॥ ८.७८ ॥

तेन वातजवेनाब्धौ वायसः खे व्रजन्समम् ।

स च क्रोशार्धमात्रेऽभूद्धस्तपक्षोऽतिविह्वलः ॥ ८.७९ ॥

तेनैव भग्नदर्पोऽथ तीरे न्यस्तः कृपावता ।

रक्तष्ठीवी चिरात्प्राप संज्ञां ज्ञातखगान्तरः ॥ ८.८० ॥

          • हंसकाकीयम् ॥ ५ ॥ *****

एवं त्वमपि राधेय कौरवैः परिवारितः ।

अर्जुनं समरे प्राप्य हीनदर्पो भविष्यसि ॥ ८.८१ ॥

श्रुत्वैतन्मद्रराजेन कथितं मर्मदारणम् ।

ऊचे वैकर्तनो वीरः पृथुकोपोऽप्यविक्रियः ॥ ८.८२ ॥

युष्मद्विधानां वचसा जायते न भयं मम ।

पश्यार्जुनं मया शल्य समरे विनिपातितम् ॥ ८.८३ ॥

लक्ष्याभ्यासे मया वत्सः पुरा बाणेन दारितः ।

प्रच्छन्नस्तरुखण्डेन होमधेनोर्द्विजन्मनः ॥ ८.८४ ॥

तच्छापाद्रथचक्रं मे पर्यन्तं साधयिष्यति ।

इत्येतच्छिद्रमेकं मे दुर्जयोऽहमतोऽन्यथा ॥ ८.८५ ॥

त्वं तु केवलयानेन नृपेण वाहिना वृतः ।

मया स्वयं संनिकर्षे द्विजिह्वः कुटिलो वृतः ॥ ८.८६ ॥

मद्रकाणां कुवृत्तानां पापदेशनिवासिनाम् ।

तीर्थाचारविहीनानामधिपोऽसि किमुच्यते ॥ ८.८७ ॥

अभक्ष्यं भुञ्जते नित्यमपातव्यं पिबन्ति ये ।

अगम्यासु रमन्ते च ते मद्रास्तव बान्धवाः ॥ ८.८८ ॥

सर्वसाधारणा योषाः सर्वभक्ष्या द्विजातयः ।

सर्वपातकसंपृक्ता मद्रा येषु भवान्नृपः ॥ ८.८९ ॥

          • मद्रकुत्सनम् ॥ ६ ॥ *****

इति कर्णेन गदिते मद्रराजोऽप्यभाषत ।

कर्ण राजा त्वमङ्गानां मातुल्यत्यागपापिनाम् ॥ ८.९० ॥

विक्रीयन्ते सदा यत्र दाराः पुत्राश्च मानवैः ।

तस्मिन्प्रणेता विषये नैवं मे वक्तुमर्हसि ॥ ८.९१ ॥

          • अङ्गकुत्सनम् ॥ ७ ॥ *****

इत्युक्ते मद्रराजेन चोदितास्ते तुरङ्गमाः ।

दारयन्त इव क्षोणीं जातपक्षा इवोद्ययुः ॥ ८.९२ ॥

अथादृश्यत शुभ्राश्वो जिष्णुरच्युतसारथिः ।

अग्रे समग्रसैन्यानां व्यग्रः शत्रुनिबर्हणे ॥ ८.९३ ॥

ततः प्रवृत्ते वीराणां समरे प्राणहारिणि ।

धनुषां कूजतां शब्दे छादिते तूर्यनिःस्वनैः ॥ ८.९४ ॥

उवाच शल्यो राधेयं धनंजयरणोत्सुकम् ।

पश्य गाण्डीवधन्वानं भिन्दानं कुरुवाहिनीम् ॥ ८.९५ ॥

एते संशप्तकाः पार्थशरश्रेणीशतार्दिताः ।

हतद्विपघटाकूटकुटीषु निभृतं स्थिताः ॥ ८.९६ ॥

पश्यार्जुनशरोत्कृत्तकण्ठानां मौक्तिकावली ।

पतिता भूमिपालानामश्रुमाला इव श्रियः ॥ ८.९७ ॥

इति मद्राधिपेनोक्ते क्व यास्यति धनंजयः ।

मद्बाणगोचरं यातो हर्षादित्यवदन्नृपः ॥ ८.९८ ॥

ततो वैकर्तनशरैः पूरिते भुवनोदरे ।

चकम्पे पाण्डवानीकं वातैरिव महद्वनम् ॥ ८.९९ ॥

धृष्टद्युम्नमुखान्वीरान्कुर्वाणो विरथान्मुहुः ।

अयुतानि क्षणात्कर्णो वीराणामवधीद्दश ॥ ८.१०० ॥

चेदिमागधपाञ्चालसैन्ये भग्ने युधिष्ठिरः ।

महारथैरनुगतः स्वंय राधेयमाद्रवत् ॥ ८.१०१ ॥

राजवल्लभ वाग्युद्धं नेदं यत्र प्रगल्भसे ।

इत्युक्त्वा धर्मतनयः शरैः कर्णमपूरयत् ॥ ८.१०२ ॥

अथ कर्णो नरपतेश्चक्ररक्षौ महारथौ ।

हत्वा शरैरुन्ममाथ ध्वजं चापं चकर्त च ॥ ८.१०३ ॥

ततः शक्तिं निशाताग्रां कालदंष्ट्रामिवोत्कटाम् ।

प्राहिणोत्सूतवृत्राय स निर्ह्नादां युधिष्ठिरः ॥ ८.१०४ ॥

भित्त्वा वैकर्तनः शक्तिं तां घण्टाक्रन्दिनीं मुहुः ।

जातरूपमयं वर्म चकर्त नृपतेः शरैः ॥ ८.१०५ ॥

मुहूर्तं तं समापूर्य च्छिन्नवर्माणमाशुगैः ।

दन्तवर्णाञ्जघानास्य कृष्णबालांस्तुरङ्गमान् ॥ ८.१०६ ॥

विद्रुतं धर्मतनयं दृष्ट्वा क्रोधी वृकोदरः ।

कर्णं पराङ्मुखं चक्रे शरैरशनिदारुणैः ॥ ८.१०७ ॥

दुर्योधनानुजान्वीरानायातान्भ्रातुरज्ञया ।

विदधे विपुलैर्बाणैर्भीमः प्रेतपुराश्रयान् ॥ ८.१०८ ॥

नन्दोपनन्दौ दुर्धर्षं धनुर्ग्राहं महाभुजम् ।

जरासंधं श्रुतर्वाणं दुर्दिनं सनिषङ्गिणम् ॥ ८.१०९ ॥

पाशहस्तं कवचिनं क्रोधं च स महाभुजम् ।

हत्वा प्रविश्य पृतनां नागानीकमपोथयत् ॥ ८.११० ॥

ततः सात्यकिपाञ्चालमाद्रीसुतयुधिष्ठिराः ।

अयोधयन्कर्णमुख्यांस्तस्मिन्सुभटसंक्षये ॥ ८.१११ ॥

वृषसेनमुखैर्वीरैर्भिद्यमाने बलार्णवे ।

उदभूच्चण्डगाण्डीवध्वनिराघट्टिताम्बरः ॥ ८.११२ ॥

हत्वा संशप्तकान्सर्वान्प्रत्यावृत्ते धनंजये ।

आवर्तनर्तितेवाभूत्सहसा कुरुवाहिनी ॥ ८.११३ ॥

भग्ने सुशर्मप्रमुखे पार्थास्त्रैर्नृपमण्डले ।

कर्णः पाण्डवसैन्येषु काललीलायितं व्यधात् ॥ ८.११४ ॥

अयुतानि गजेन्द्राणां सप्त हत्वा तरस्विनाम् ।

तावन्त्येव रथानां च चक्रे भूमिभुजां क्षयम् ॥ ८.११५ ॥

व्याघ्रकेतुं जयं शङ्कुं रुद्रमुग्रायुधं परम् ।

सिंहसेनं रोचमानं शुक्तं चित्रायुधं हरिम् ॥ ८.११६ ॥

देवापिं जिष्णुकर्माणं शलभं चित्रदण्डकौ ।

अन्यांश्च भूमिपान्हत्वा पाञ्चालकदनं व्यधात् ॥ ८.११७ ॥

वध्यमानेऽथ कर्णेन विदीर्णे च सहस्रधा ।

बभूव पाण्डवे सैन्ये घोरो व्यतिकरो नवः ॥ ८.११८ ॥

कर्णेन द्रोणपुत्रेण कृपेण कृतवर्मणा ।

किरीटिना पार्षतेन शैनेयेन शिखण्डिना ॥ ८.११९ ॥

कुपितेन च भीमेन ते सेने प्रविदारिते ।

बभूवतुर्विप्रकीर्णे विध्वस्तकवचायुधे ॥ ८.१२० ॥

दिव्यास्त्रवर्षिणं द्रौणिं दिव्यास्त्रेणैव फल्गुणः ।

जित्वा ददर्श कर्णेन वध्यमानान्महारथान् ॥ ८.१२१ ॥

तमब्रवीन्मधुरिपुर्विस्मितः कर्णाविक्रमात् ।

पश्य कौन्तेय कर्णास्त्रवह्निदग्धां वरूथिनीम् ॥ ८.१२२ ॥

पश्य कालकटाक्षेण लक्षितः सूतनन्दनः ।

कटाक्षेण मदाध्मातः सारथ्ये मां यदैक्षत ॥ ८.१२३ ॥

क्षणेन निखिलां स्यूतां तां सेनां कुरुते नृपः ।

पश्यास्य शरजालेन नीरन्ध्रेणावृता दिशः ॥ ८.१२४ ॥

इत्युक्त्वा केशवस्तूर्णं रथेन घननादिना ।

निनाय शक्रतनयं भीमसेनरथान्तिकम् ॥ ८.१२५ ॥

ततो भीमगिरा ध्यात्वा धर्मराजं धनंजयः ।

कर्णसायकनिर्भिन्नं प्रयातं शिबिरं शनैः ॥ ८.१२६ ॥

निःश्वसन्भृशसंतप्तः केसरीव तलाहतः ।

प्रययौ भ्रातरं द्रष्टुं सह कालियविद्विषा ॥ ८.१२७ ॥

स हेमपुङ्खैर्निर्भिन्नं कर्णनामाङ्कितैः शरैः ।

शयानं धर्मतनयं ददर्श च्छिन्नकङ्कटम् ॥ ८.१२८ ॥

तस्याभिवाद्य चरणौ निषण्णौ केशवार्जुनौ ।

चिन्तासंतापिततनू तस्थतुः क्षणमाकुलौ ॥ ८.१२९ ॥

युधिष्ठिरस्तं विज्ञाय कर्णं हत्वा समागतम् ।

उत्थाय निर्व्यथो हर्षाज्जयादपृथुविस्मयः ॥ ८.१३० ॥

प्रायो निःशेषिताः सेना येनास्त्रदहनेन नः ।

स दिष्ट्या समरे पार्थ त्वया कर्णो निपातितः ॥ ८.१३१ ॥

वीराः स विद्विषां हन्ता धौरेयः सर्वधन्विनाम् ।

रामशिष्यस्त्वया ब्रूहि कथं वैकर्तनो हतः ॥ ८.१३२ ॥

इति पृष्टो नृपतिना बभाषे श्वेतवाहनः ।

युध्यमानस्य सुचिरं द्रौणिना रुद्रतेजसा ॥ ८.१३३ ॥

संशप्तकैश्च विघनोऽभून्मम कर्णनिपातने ।

भीमसेनमवस्थाप्य प्रत्यनीके महाभुजम् ॥ ८.१३४ ॥

प्रहारविक्षतं देव त्वामहं द्रष्टुमागतः ।

अधुना त्वदनुज्ञातः कौरवाणां परायणम् ॥ ८.१३५ ॥

कथाशेषं करोऽप्येष कर्णं कर्णायतैः शरैः ।

इति ब्रुवाणं बिभत्सुं मोघसंकल्पदुःखितः ॥ ८.१३६ ॥

उवाच सायकाकीर्णः कोपतप्तो युधिष्ठिरः ।

भारं विन्यस्य विपुलं भीमसेने धनुर्धरः ॥ ८.१३७ ॥

अपयातोऽसि कर्णस्य सत्यं दृष्ट्वा पराक्रमम् ।

मिथ्यैव कुन्त्या गर्भे त्वं क्षत्रियव्यञ्जनो धृतः ॥ ८.१३८ ॥

पूरकः पुत्रसंख्यायां बाणस्तृणमयो यथा ।

त्रयोदश समास्ते ते संकल्पा विहितास्त्वयि ॥ ८.१३९ ॥

सर्वे प्रयाता वैफल्यमुपकारा इवाधमे ।

क एव नाम जानीते कर्णाद्भीतो धनंजयः ॥ ८.१४० ॥

अपयास्यति संग्रामाद्यो वर्तेत तथा विधिम् ।

एतत्प्रयच्छ कस्मैचिद्गाण्डीवं शौर्यशालिने ॥ ८.१४१ ॥

समरे कर्णसंत्रासं योऽस्माकमपनेष्यति ।

एतदाकर्ण्य बीभत्सुर्मर्मणीव समाहतः ॥ ८.१४२ ॥

एतद्गिरा ददौ खड्गे क्रुद्धः साश्रुलवा दृशः ।

तं कोपसंकटो घोरे दुःखाग्नौ च निरन्तरे ॥ ८.१४३ ॥

पतितं वीक्ष्य गोविन्दः सर्वव्यापी तमभ्यधात् ।

जाने ते हृद्गतं पार्थ येन दोलायसे मुहुः ॥ ८.१४४ ॥

गाण्डीवं वितरान्यस्मै त्वां ब्रूयाद्यः स ते ध्रुवम् ।

वध्य इत्युचिताचार प्रतिज्ञा तव विश्रुता ॥ ८.१४५ ॥

तदर्थमसि कोपान्धो निहन्तुं किंस्विदग्रजम् ।

आत्मानं वा व्रतभ्रंशभयात्खङ्गं निरीक्षसे ॥ ८.१४६ ॥

श्रुयतामत्र सत्येन केवलेन विमुह्यसे ।

धर्माधर्मौ न जानीषे सत्यमात्रदृढव्रतः ॥ ८.१४७ ॥

असत्यं धर्मतां याति सत्यमायात्यधर्मताम् ।

कदाचित्कर्मभेदेन तद्विचार्यं धिया बुधैः ॥ ८.१४८ ॥

धर्मोऽपि गहनः सूक्ष्मो ज्ञायते न यथा तथा ।

पुरा बभूव विपिने बलाको नाम लुब्धकः ॥ ८.१४९ ॥

घोरसत्त्वं कदाचित्स गोब्राह्मणगणान्तकम् ।

हत्वा शरेण सहसा शक्रलोकमवाप्तवान् ॥ ८.१५० ॥

कौशिको नाम विप्रः प्राक्सत्यवाक्यकृतव्रतः ।

विद्रुतान्धनिकान्पृष्टो दस्युभिः क्व गता इति ॥ ८.१५१ ॥

अदर्शयत्सत्यवादी स तान्गुणदयाश्रयान् ।

दृष्टांश्च दस्यवो जघ्नुस्तूर्णं तान्द्रविणाशया ॥ ८.१५२ ॥

कौशिकोऽप्यथ कालेन पतितो नरकं ययौ ।

इत्येवं गहना पार्थ प्रवृत्तिः सत्यधर्मयोः ॥ ८.१५३ ॥

तस्मात्त्वमग्रजे राज्ञि धर्मनिष्ठे युधिष्ठिरे ।

मोहादसांप्रतं किंचिन्न चिन्तयितुमर्हसि ॥ ८.१५४ ॥

श्रुत्वैतत्खड्गमाकृष्य हन्तुमात्मानमुद्यतम् ।

प्रतिज्ञाभङ्गनिर्भिन्नं पार्थं कृष्णोऽब्रवीत्पुनः ॥ ८.१५५ ॥

अवमानेन निहतो गुरुर्भवति सर्वथा ।

भवत्यात्मा च निहतः श्लाघया गुरुसंसदि ॥ ८.१५६ ॥

रक्षन्प्रतिज्ञामज्ञानं निरस्य क्रोधसंभवम् ।

तस्मादेतद्वधायाद्य निवृत्तो भव फल्गुण ॥ ८.१५७ ॥

इत्युक्तवति दाशार्हे तथेत्युक्त्वा धनंजयः ।

भीरुः प्रमादी क्रूरस्त्वमित्युवाच युधिष्ठिरम् ॥ ८.१५८ ॥

मयैकेन हताः सर्वे संहता दैत्यदानवाः ।

धुर्योऽहं कार्मुकभृतामित्यात्मानमुवाच च ॥ ८.१५९ ॥

ततो धर्मसुतं दुःखात्काननं गन्तुमुद्यतम् ।

यत्नात्प्रसादयामास गृहीत्वा चरणौ हरिः ॥ ८.१६० ॥

पार्थं च पादपतितं साश्रुनेत्रं युधिष्ठिरः ।

रुरोध गाढमालिङ्ग्य विगलन्मन्युविप्लवः ॥ ८.१६१ ॥

कृतशौचौ ततो वीरौ धर्मराजधनंजयौ ।

रथावारुह्य संनद्धौ जग्मतुः समराङ्गणम् ॥ ८.१६२ ॥

अथार्जुनशरव्रातकृत्तवक्त्रैर्नरेश्वरैः ।

क्षणं बभूव पतितैः सा कबन्धमयीव भूः ॥ ८.१६३ ॥

अत्रान्तरे भीमसेनो हत्वा दुर्योधनानुजान् ।

दुःशासनं युध्यमानमाससादेभविक्रमम् ॥ ८.१६४ ॥

निष्पिष्य गदया तस्य रथं साश्वायुधध्वजम् ।

आचकर्ष रणे ध्वस्तं तं हिडिम्बापतिर्बलात् ॥ ८.१६५ ॥

प्रियापरिभवं घोरं स्मरन्नथ वृकोदरः ।

प्रकोपराक्षसाविष्टः कोष्णं शोणितमापपौ ॥ ८.१६६ ॥

घोरं तत्कर्म भीमस्य दृष्ट्वा स्रस्तासिकार्मुकाः ।

त्रस्ता महारथाः सर्वे मीलिताक्षाकम्पिरे ॥ ८.१६७ ॥

असृक्प्रसरगर्वितः पुलकदण्डगण्डाननो मदादतिविशृङ्खलः स्खलितपादचारक्रमः ।

बभौ भयदविभ्रमभ्रमितभीमभास्वद्गदः प्रियाचिकुरसंयमोद्यतमतिः समीरात्मजः ॥ ८.१६८ ॥

अपूर्वेणैव विधिना हते दुःशासने तथा ।

महतामपि भूतानामभूत्कण्टकिता तनुः ॥ ८.१६९ ॥

          • ***** दुःशासनवधः ॥ ८ ॥ ***** *****

अत्रान्तरे पाण्डवानां वृषसेनशरार्दिते ।

सैन्ये बभूव निर्घोषः पततां गजवाजिनाम् ॥ ८.१७० ॥

संहता अपि भूपाला भीमसात्यकिरक्षिताः ।

न सेहिरे रणे दीप्तं कर्णसूनोः पराक्रमम् ॥ ८.१७१ ॥

स सात्यकिं भीमसेनं माद्रीपुत्रौ किरीटिनम् ।

धृष्टद्युम्नं नृपाश्चान्यान्वीरस्तुल्यमयोधयत् ॥ ८.१७२ ॥

आश्चर्ययोधिनस्तस्य स्मयमान इवार्जुनः ।

भुजौ शिरश्च चिच्छेद कमलाकमलोपमम् ॥ ८.१७३ ॥

          • वृषसेनवधः ॥ ९ ॥ *****

वृषसेने हते कर्णः पुरो गाण्डीवधन्वना ।

सस्मार साश्रुनयनः सौभद्रं बहुभिर्हतम् ॥ ८.१७४ ॥

अथामर्षाज्यसिक्तेन भ्रुकुटीधूमकेतुना ।

क्रोधाग्निना दह्यमानः कर्णोऽधावद्धनंजयम् ॥ ८.१७५ ॥

मनोरथशताभ्यस्ते प्रवृत्ते समरे तयोः ।

बभूव कौतुकायातसुरसिद्धाकुलं नभः ॥ ८.१७६ ॥

कर्णार्जुनरणे तस्मिन्स्वपुत्रजयशंसिनोः ।

जाते विवादे सहसा दिवि सूर्यसुरेन्द्रयोः। भ्म्ज्_८.१७७ ॥

पृष्टो द्विधा स्थितैर्देवैर्वृषाङ्ककमलोद्भवौ ।

कृष्णो यत्र जयस्तत्रेत्यूचतुर्निश्चितं पुरा ॥ ८.१७८ ॥

अथ गम्भीरनिर्घोषौ शङ्खौ कर्णकिरीटिनौ ।

दध्मतुः शौरिशल्यौ च यैश्चकम्पे जगत्त्रयी ॥ ८.१७९ ॥

ततो धवलपक्षाग्राः स्वयशोभिरिवाङ्किताः ।

वैकर्तनः पाण्डवाय प्राहिणोद्विशिखावलीः ॥ ८.१८० ॥

पार्थध्वजेनाभिहतः कर्णकेतुरकम्पत ।

कृष्णस्य दृक्त्रिभागश्च शल्यं शल्यमिवाविशत् ॥ ८.१८१ ॥

अथार्जुनशरैर्दिक्षु पूर्यमाणासु संततम् ।

बाणपातमतिक्रम्य तस्थुः कौरवसैनिकाः ॥ ८.१८२ ॥

दुर्योधनप्रयुक्तानां राधेयरथरक्षिणाम् ।

महारथानां वक्त्राणि जहाराथ कपिध्वजः ॥ ८.१८३ ॥

असंभ्रान्तस्ततः कर्णो मुष्टिमूले किरीटिनः ।

प्रयुज्यमानमसकृच्चिच्छेद शरमण्डलम् ॥ ८.१८४ ॥

ततो भीमोऽब्रवीत्पार्थमच्युतश्चातिविस्मितः ।

दुर्जयः समरे कर्णः स्थिरो युध्यस्व फल्गुण ॥ ८.१८५ ॥

कैराते खाण्डवे वीर कालकेयवधेऽपि वा ।

योऽभवत्तव संरम्भो गृहाणाभ्यधिकं ततः ॥ ८.१८६ ॥

एतदाकर्ण्य विजयो वेल्लन्मुखरकङ्कणः ।

गाढमाकृष्य गाण्डीवं दिव्यास्त्रैर्द्यामपूरयत् ॥ ८.१८७ ॥

भार्गवास्त्रेण हत्वा तामस्त्रवृष्टिं किरीटिनः ।

तं च भीमं च कृष्णं च कर्णो बाणैरपूरयत् ॥ ८.१८८ ॥

ततः कर्णशरासारैरर्जुनास्त्रैश्च सर्वतः ।

पाण्डुकौरवसेनासु बभूव विपुलः क्षयः ॥ ८.१८९ ॥

अथ सर्पमुखं दीप्तं कीर्णचन्दनशालिनम् ।

अस्त्रं कर्णो महाभोगं प्राहिणोत्सव्यसाचिनः ॥ ८.१९० ॥

विसृष्टे भुजगे तस्मिन्शल्योऽङ्गपतिमभ्यधात् ।

नायं प्राप्नोति पार्थस्य कण्ठं नागस्त्वयेरितः ॥ ८.१९१ ॥

पुनः संधानयोग्यस्ते राधेय यदि मन्यसे ।

अकर्णोऽस्यथ वा कर्णहितवाक्येषु सर्वदा ॥ ८.१९२ ॥

इति तेजोवधायोक्तः शल्येन तपनात्मजः ।

उवाच द्विर्न संधत्ते कर्ण इत्यमलाशयः ॥ ८.१९३ ॥

कर्णच्युतं महाघोरमापतन्तं विषोल्बणम् ।

व्यालं दृष्ट्वा हरिश्चक्रे वपुर्मन्दरगौरवम् ॥ ८.१९४ ॥

जानुभिर्वसुधां याते ततो हयचतुष्टये ।

फणी जग्राह नम्रस्य किरीटाग्रं किरीटिनः ॥ ८.१९५ ॥

किरीटखण्डे पतिते मुक्तारत्नाट्टहासिनि ।

सोऽविशद्वसुधां सर्पो विप्रलब्धो विनिःश्वसन् ॥ ८.१९६ ॥

ततः कृष्णार्जुनौ विध्यन्कालदण्डोपमैः शरैः ।

कर्णः कर्णायतोऽसृष्टैरुन्ननाद हसन्मुहुः ॥ ८.१९७ ॥

अथ शक्रसुतः कोपाद्दिव्यरत्नविराजितम् ।

वर्म चिच्छेद कर्णस्य शरैश्चापूरयद्वपुः ॥ ८.१९८ ॥

खाण्डवे कृतवैरं तं खं व्रजन्तं महोरगम् ।

छित्त्वा षड्भिः शरैः पार्थः कर्णं पुनरताडयत् ॥ ८.१९९ ॥

वैकर्तनेन निहते ब्रह्मास्त्रे शाक्रमर्जुनः ।

प्रादुश्चक्रे विघाताय वज्राशनिशताकुलम् ॥ ८.२०० ॥

हत्वा तमस्त्रं राधेयो ज्यां चिच्छेद किरीटिनः ।

क्षणादभिनवां मौर्वी विदधे च धनंजयः ॥ ८.२०१ ॥

ततो रौद्रं स्फुरज्ज्वालाजटालं संदधेर्ऽजुनः ।

अस्त्रं येनाभवद्व्योम घोरदिग्दाहभीषणम् ॥ ८.२०२ ॥

अत्रान्तरे मही स्वयं रथचक्रं विधेर्वशात् ।

जग्राह समये तस्मिन्नङ्गराजस्य संगरे ॥ ८.२०३ ॥

ततस्तच्चक्रमुद्धर्तुमुद्यतो विषमस्थितः ।

उवाच कर्णः कौन्तेयं मुहूर्तं क्षमतां भवान् ॥ ८.२०४ ॥

उद्धृतेऽस्मिन्मया चक्रे महास्त्रं मुञ्च फल्गुण ।

व्यसनस्थे विशस्त्रे च नहि शूरा भवादृशः ॥ ८.२०५ ॥

एतच्छ्रुत्वावदत्कर्णं हसन्कालियसूदनः ।

दिष्ट्याद्य कर्ण जानीषे धर्मं वीरव्रते स्थितः ॥ ८.२०६ ॥

बहुभिर्निहतो बालः सौभद्रः किं नु विस्मृतः ।

गण्यतां तच्च यत्कृष्णां सभायामुक्तवानसि ॥ ८.२०७ ॥

विषवह्निप्रदानेषु च्छिन्नधर्मः स्मृतस्त्वया ।

नूनं विपदि नीचानां नृपाणां धर्मवृत्तयः ॥ ८.२०८ ॥

उक्ते जनार्दनेनेति मन्युना प्रज्वलन्निव ।

ब्रह्मास्त्रं कर्णविहितं ब्राह्मेण विजयोऽवधीत् ॥ ८.२०९ ॥

आग्नेयमर्जुनोत्सृष्टं वारुणेनाङ्गभूपतिः ।

अस्त्रेणास्त्रं समाहृत्य ग्रस्तचक्रो व्यलम्बत ॥ ८.२१० ॥

अथोन्ममाथ बाणेन ध्वजं कनकभास्वरम् ।

कर्णस्याखण्डलसुतो मनोरथमिवोन्नतम् ॥ ८.२११ ॥

ततोऽञ्जलिकमादाय शरं काञ्चनभूषितम् ।

अभिमन्त्र्य समाकृष्य मृत्युदंष्ट्रासिताननम् ॥ ८.२१२ ॥

रुद्रादयोऽस्त्रगुरवस्तुष्टा मे तपसा यदि ।

तदनेन रिपुं हन्यामित्युक्त्वासृजदर्जुनः ॥ ८.२१३ ॥

निर्भिन्नस्तेन सहसा कण्ठे हारपरिष्कृते ।

राधेयः क्रकचोत्कृत्तहेमताल इवापतत् ॥ ८.२१४ ॥

हते धनुष्मतां धुर्ये कौरवानीकनायके ।

कर्णे द्रुतं ययौ शल्यः शल्ययन्हृदयाननम् ॥ ८.२१५ ॥

प्राप्तं रथेन शून्येन दृष्ट्वा मद्रनरेश्वरम् ।

हतो दुर्योधनः कर्णो जीवतीत्यूचिरे नृपाः ॥ ८.२१६ ॥

दुर्योधनोऽर्जुनशरैरङ्गराजे निपातिते ।

उत्तमाङ्ग इवाज्ञासीन्न किंचिद्विहतोन्द्रियः ॥ ८.२१७ ॥

तेजस्ततस्तरलदीधितिकर्णदेहादभ्युद्गतं तरणिमण्डलमाविवेश ।

येनावकाशविशरारुविमानमासीज्ज्वालाकलापजटिलं क्षणमन्तरिक्षम् ॥ ८.२१८ ॥

इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां कर्णपर्व
"https://sa.wikisource.org/w/index.php?title=भारतमञ्जरी/कर्णपर्व&oldid=101958" इत्यस्माद् प्रतिप्राप्तम्