भारतमञ्जरी/स्वर्गपर्व
- स्वर्गपर्व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १८.१ ॥
ततः स्वर्गश्रिया जुष्टं भ्राजिष्णुमुकुटाङ्गदम् ।
ददर्श शक्रसंकाशं कुरुराजं युधिष्ठिरः ॥ १८.२ ॥
तं वीक्ष्य सानुजं तत्र जातमन्युः शतक्रतुम् ।
उवाच स्वस्ति देवेभ्यः स्वर्गायास्त्वयमञ्जलिः ॥ १८.३ ॥
यत्र दुर्योधनः पापः पृथिवीक्षयकारणम् ।
सुमेरुकूटविकटे विभाति परमासने ॥ १८.४ ॥
न तत्र मम वासोऽस्ति व्रजाम्येष नमोऽस्तु ते ।
यत्र मे भ्रातरः शूरास्तत्र वासो ममाधुना ॥ १८.५ ॥
इति राज्ञो ब्रुवाणस्य देवदूतं सुरास्ततः ।
भ्रातॄन्प्रति प्रयाहीति प्राहुर्वायुमनोजवम् ॥ १८.६ ॥
स देवदूतादिष्टेन व्रजन्सपदि वर्त्मना ।
ददर्श पुरुषान्घोरान्नरकान्तरवर्तिनः ॥ १८.७ ॥
केशशोणितमांसासृग्वसासंघातपिच्छिले ।
प्रक्लिन्नानेककुणपव्याकीर्णकृमिसंकुले ॥ १८.८ ॥
काककङ्कबकोलूकवदनैरभितो वृते ।
शवदुर्गन्धनीरन्ध्रसंघट्टशतसंकुले ॥ १८.९ ॥
करपत्त्रशिलापाकसंतप्तसिकतातटे ।
लोहितैलवसाकुम्भकूटशल्मलिदारुणे ॥ १८.१० ॥
क्षुरकण्टककीलोग्रज्वालास्तम्भविभीषणे ।
तप्तवैतरणीविस्रपूयपूरितसैकते ॥ १८.११ ॥
असिपत्रवनोत्कृत्तनरनारीकृतस्वने ।
घोरान्धकारगहने तत्र शुश्राव धर्मजः ॥ १८.१२ ॥
पापिनां क्वाथ्यमानानामाक्रन्दं धृतिदारुणम् ।
क्षणमेकमितो राजन्मा निवर्तस्व शीतलैः ॥ १८.१३ ॥
त्वत्पुण्यवातैः स्पृष्टानामस्माकं बाधते तमः ।
वयं भीमप्रभृतयः पाण्डवा भ्रातरस्तव ॥ १८.१४ ॥
कृष्णा चेयं वरारोहा महिषी वल्लभा सती ।
श्रुत्वैतत्करुणं राजा वज्रेणेव विदारितः ॥ १८.१५ ॥
तत्रैव तस्थौ निर्द्वन्द्वो निन्दन्दुर्ललितं विधेः ।
सोऽवदद्बत देवानामविचारहतैव धीः ॥ १८.१६ ॥
यैरेत धर्मनिरताः क्लेशेऽस्मिन्समुपेक्षिताः ।
अयं मोहः प्रसादो वा विवेको नायमीदृशः ॥ १८.१७ ॥
विबुधानां न जानन्ति ये धर्मस्य व्यतिक्रमम् ।
भ्रमः स्वप्नोऽथ मायेयं किमेतदिति चिन्तयन् ॥ १८.१८ ॥
देवदूत न जानामि कस्येदं दुर्विचेष्टते ।
इहैवाहं स्थितो गच्छ न मे स्वर्गेण कारणम् ॥ १८.१९ ॥
पूज्यन्ते यत्र दुर्वृत्ता विशस्यन्ते नु साधवः ।
इत्युक्तो धर्मराजेन देवदूतः सुराधिपम् ॥ १८.२० ॥
गत्वा व्यजिज्ञपत्सर्वं स च तूष्णीं समाययौ ।
प्राप्ते सुराधिपे तत्र सह धर्मादिभिः सुरैः ॥ १८.२१ ॥
नादृश्यताशुभं किंचिद्ववौ पुण्यश्च मारुतः ।
ततोऽब्रवीत्सुरपतिर्विष्णं धर्मनन्दनम् ॥ १८.२२ ॥
असत्यमेतन्नायेयं मयैवेह प्रदर्शिता ।
एतदालोकनं राज्ञामवश्यं मिश्रकर्मणाम् ॥ १८.२३ ॥
असत्यलेशसंस्पर्शादेतद्द्रोणवधात्तव ।
एहि पश्य निजान्भ्रातॄन्दिव्यं स्वपदमाश्रितान् ॥ १८.२४ ॥
स्वर्गश्रियं च पाञ्चालीं पुत्रांश्चामरतां गतान् ।
इत्युक्ते देवराजेन वीतशोकी युधिष्ठिरः ॥ १८.२५ ॥
स्नात्वा धर्मगिरा स्वर्गगङ्गाम्भसि नभःप्रभे ।
उत्सृज्य मानुषं भावं पुण्यां सुरसभां ययौ ॥ १८.२६ ॥
अप्सरोनृत्तललितान्गायन्गन्धर्वकिंनरान् ।
तत्र स्वपदमारूढानपश्यदनुजान्निजान् ॥ १८.२७ ॥
मण्डले च रवेः कर्णं स्वयमिन्द्रेण दर्शितम् ।
अभिभन्युं च रुचिराकारनिर्जितमन्मथम् ॥ १८.२८ ॥
वर्चोभिधानं सोमस्य तं सुतं सोममण्डले ।
गन्धर्वराजं साक्षाच्च धृतराष्ट्रं जनेश्वरम् ॥ १८.२९ ॥
वसुं शान्तनवं भीष्मं गुरुं द्रोणं बृहस्पतिम् ।
नारायणं च विश्वेशं शङ्खचक्रगदाधरम् ॥ १८.३० ॥
यदंशा भुवि ये जातास्तांश्च दृष्ट्वा तदाश्रयान् ।
आससाद सदानन्दं वन्द्यं नन्दनवासिनाम् ।
धर्मसूनुर्निधिर्धाम्नां हरिश्चन्द्रोचितं पदम् ॥ १८.३१ ॥
अथ नहुषदिलीपधुन्धुमारसगरभगीरथरामकार्तवीर्यैः ।
नृपतिभिरभितोऽभिवन्द्यमानः सितचरितः स रराज राजचन्द्रः ॥ १८.३२ ॥
श्रुत्वेति भारतकथां वैशम्पायनकीर्तिताम् ।
संपन्नसर्पसत्रोऽभून्निर्वृत्तो जनमेजयः ॥ १८.३३ ॥
एतत्सूतेन कथितं नैमिषारण्यवासिनः ।
निशम्य शौनकमुखास्तस्थुरानन्दनिर्भराः ॥ १८.३४ ॥
- इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यां स्वर्गपर्व