भावकर्मप्रक्रियान्तर्गतद्विकर्मकादिधातूनां विषये विचारः
विदुरेव सर्वे यल्लकारास्तत्तद्गणपठितधातुभ्य:"लः कर्मणि च भावे चाकर्मकेभ्यः" इत्येतेन सूत्रेण सकर्मकेभ्यः कर्मणि कर्तरि चाकर्मकेभ्यो भावे कर्तरि भवन्तीति। यथात्र सकर्मकात् 'दृशिर् प्रेक्षणे' धातोरित्यस्माद् कर्तरि "देवदत्तो ग्रामं पश्यति' इत्यत्र "यस्मिन्प्रत्ययो भवति स उक्तः" अभिहित इत्यर्थः, "यस्मिन्प्रत्ययो न भवति स अनुक्तः" अनभिहित इत्यर्थ इति नियमानुगुणं साम्प्रतं कर्तरि प्रत्ययोऽत्र सञ्जातश्चेदुक्ते कर्मणि प्रथमा चानुक्ते कर्मणि द्वितीया भवतीत्यतः कर्मण अनुक्तत्त्वात् 'ग्राममिति' द्वितीयान्तपदं 'देवदत्तश्च' प्रथमान्तपदमित्यवलोक्यते । पूर्वोक्तस्य वाक्यस्य कर्मणि यग्विधायकत्वेन 'सार्वधातुके यगित्येतेन'सूत्रेण यग्भविष्यति तर्हि सति कर्मणि प्रत्यये तस्योक्तत्त्वाद् 'ग्राम' इत्यत्र प्रथमा तथा कर्तुरनभिहितत्त्वाद् 'कर्तृकरणयोस्तृतीया' सूत्रेणामुना 'देवदत्तेन' इत्यत्र तृतीया भविष्यति तद्यथा देवदत्तेन ग्रामो दृश्यते। भावेऽपि यथा- 'देवदत्तो हसति' इति कर्तरि भावेऽस्य 'देवदत्तेन हस्यते'। प्रयोगा इमे साधुत्वं भजन्ते ।'सार्वधातुके यक्' -सूत्रार्थ:- धातोर्यक् प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे ।भावपदेनात्र 'भावना, उत्पादना, क्रिया गृह्यन्ते । 'लः कर्मणि' .... इत्यस्मिन् सूत्रे भावकर्मकर्तृस्वरूपा लस्यार्थाः प्रोक्तास्तत्र धातुमात्रात् कर्तरि लकारमभिधाय इदानीमकर्मकेभ्यो भावे सकर्मकेभ्यः कर्मणि च लकारान् विधातुं प्रकरणारम्भ इति ज्ञेयम्। भावकर्मणोः_सूत्रार्थः भावे कर्मणि च यो लस्तस्यात्मनेपदं स्यात्। यथा "भूयते','परिदृश्यते" इति भावपदमुद्दिश्य शङ्कोदेति यत् – अकर्मकेभ्यो धातुभ्यो यो लकारो विधीयते तत्र भावपदार्थः कः? इति चेत् भावः क्रिया भावना व्यापारः सर्वेऽपि पर्यायवाचिनस्समेषामत्र ग्रहणम्। इत्येतत्सर्वं सम्प्रोच्य अथ द्विकर्मकेभ्यो धातुभ्यो नियमानाहुराचार्याः गौणे कर्मणि दुह्यादेः प्रधाने नीह्कृष्वहाम् बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ।।प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ॥ इति। द्विकर्मकेभ्यो धातुभ्यो व्यवस्थयानया निश्चेतुं शक्नुमो यद् द्वयोरपि कर्मणोः कतरस्मिन् कर्मणि लकारा भवन्तीति। तर्हि दुह्यादेरित्युक्ते'दुह्याच्पच्दण्डरुधिप्रच्छिचिब्रूशासुजिमथमुषाम्'द्वादशानामेतेषां धातूनां'गौणे (अप्रधाने) कर्मणि' लादयो मताः। यथा 'गां पयो दोग्धि' इत्येतस्य कर्मणि 'गौर्दुह्यते पयः' इत्यत्र गौरित्यप्रधानकर्म पयश्च प्रधानकर्म तर्हि गोरप्रधानकर्मत्त्वात्तस्मिन् कर्मणि लकारस्तथा तिङोक्तत्त्वाद्गौरिति प्रथमा एवं पयः' इति प्रधानकर्मत्त्वात् द्वितीया इत्थमेव 'बलिं याचते वसुधामित्यस्य' कर्मणि 'बलिर्याच्यते वसुधामिति' उभयोरप्युदाहरणयोः गौणे कर्मणि लकाराः संवृत्ताः। अथ 'नीहृकृष्वहां' धातूनां प्रधाने कर्मणि लकारा बोद्धव्या यथोदाहरणम्'देवदत्तो ग्राममजां नयति, हरति, कर्षति, वहति वा' इति कर्तृस्थस्य वाक्यस्य कर्मणि प्रयोगः 'देवदत्तेन अजा ग्रामं नीयते, हियते, कृष्यते, उद्यते वा भविष्यति अत्राप्यजायां प्रधाने कर्मणि लकारस्तेन प्रधानकर्मत्त्वात् तस्योक्तत्त्वाच्च 'अजेत्यत्र' प्रथमैव तथा ग्रामस्याऽनुक्तत्वात् 'ग्राममित्यत्र' द्वितीया।
'अथ बुद्ध्यर्थकभक्षार्थकशब्दकर्मकाणाञ्च' धातूनां सन्दर्भे व्यवस्थां विधायोच्यते यदेतेषां प्रधाने वा गौणे वा कर्मणि निजेच्छया लकारास्स्थापनीयाः। यथोदाहरणम् 'बोध्यते माणवकं धर्मः' यद्वा 'बोध्यते माणवको धर्ममिति' अनयोरप्युदाहरणयोर्गौणे वा प्रधाने वा कर्मणि लादयो भवितुमर्हन्ति बुद्ध्यर्थकधातोरिदमुदाहरणमासीत्। सम्प्रति भक्षार्थकधातोर्यथा - 'अश्यन्ते देवा अमृतं हरिणा' उत 'अश्यतेऽमृतं देवानिति' इत्युदाहर्त्तव्यम् अत्रापि स्वधिया स्वेच्छया लादयो मताः। शब्दकर्मधातोर्यथा - वेदोऽध्याप्यते विधिं हरिणा' यद्वा'वेदमध्याप्यते विधिर्हरिणा' इहापि द्वयोरपि कर्मणोः कतरस्मिन्नपि भवितुं शक्नुवन्ति लादयः। प्रयोज्यकर्मणि यथा - अन्येषां गत्यर्थकानां धातूनां तथा ‘‘हृक्रोरन्यतरस्यामिति' सूत्रपठितानां धातूनां 'प्रयोज्यकर्मणि' लादयो बुद्धाः यथा देवदत्तो ग्रामं गम्यते' (केनापि) इत्यत्र प्रयोज्यकर्मणि देवदत्ते प्रयोज्यकर्मत्त्वात् तिङोक्तत्त्वाच्च प्रथमा तथा ग्रामस्याऽनुक्तत्वात् 'ग्रामे' द्वितीया अत्र गमेर्ण्यन्ताल्लादयो ज्ञेयाः अकर्मकण्यन्तधातूनां प्रयोज्यकर्मणि लादिव्यवस्थेयमपार्था प्रयोज्यं विहायान्यकर्माभावात् वारयितुमिमां शङ्कां वा. 'अकर्मकधातुभिर्योगेदेशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' इत्युच्चारितम्। देशकालादिकर्मत्त्वेन ‘अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते इति भाष्येष्टिमादाय देशकालकर्मादिधातुभ्यः कर्मणि लादयस्स्युरेव तथा 'मासो मासं वा आस्यते देवदत्तेन' वाक्यमिदं भवति। णिजन्तात्तु प्रयोज्ये प्रत्ययः - ‘मासमास्यते माणवकः' अत्राकर्मकधातुरपि णिजन्तत्त्वात् सकर्मकतां प्राप्नोति तेन ‘प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः' एतेन प्रयोज्यकर्मण्येव 'माणवके' एव प्रत्यये सति तस्योक्तत्त्वात्प्रथमा। धन्यवादाः🙏