← प्रथमः भावनासारसङ्ग्रह
द्वितीयः
[[लेखकः :|]]

(१)

पश्यन्तीं स्वसुतं शचि भगवती सङ्कीर्तने विक्षतं
प्रातर्हा कथं एव ते वपुरिदं सूनो बभूव क्षतम्
इत्थं लालनतः स्वपुत्रवनुषि व्यग्रा स्पृशन्ती मुहुस्
तल्पाज्जागरयाञ्चकार यं अहं तं गौरचन्द्रं भजे



२.२:

भक्तैः सार्द्धं उपागतैर्भुवि नतैः श्रीवासगुप्तादिभिः
पृच्छद्भिः कुशलं प्रगे परिमिलन्प्रक्षाल्य वक्त्रं जलैः
पुष्पादिप्रतिवासितैः सुकथयन्स्वप्नानुभूतं कथां
स्नात्वाद्याद्धरिशेषं ओदनवरं यस्तं :हि गौरं भजे



२.३:

मूलसूत्र

राधां स्नातविभूषितां व्रजपयाहूतां सखीभिः प्रगे
तद्गेहे विहितान्नपाकरचनां कृष्णावशेषाशनाम्
कृष्णं बुद्धं अवाप्तधेनुसदनं निर्व्यूढगोदोहनं
सुस्नातं कृतभोजनं सहचरैस्तां चाथ तं चाश्रये
(गोविन्दलीलामृत २.१)



२.४:

स्नातानुलिप्तवपुषः पुपुषुः स्वभास्तन्
निर्माल्यमाल्यवसनाभरणेन दास्यः
प्रास्य स्वकामं अनुवृत्तिरतास्तयोर्याः
श्रीरूपमञ्जरिसमानगुणाभिधानाः
(कृष्णभावनामृतं ३.१)




२.५:

ता विद्युदुद्द्युतिजयिप्रपदैकरेखा
वैदग्ध्य एव किल मूर्तिभृतस्तथापि
यूथेश्वरीत्वं अपि सम्यगरोचयित्वा
दास्यामृताब्धिं अनु सस्नुरजस्रं अस्याः
(कृष्णभावनामृतं ३.२)



२.६:

श्वश्रूपुरान्तरगतोत्तर पार्श्ववर्ति
भ्राजिष्णु धाम वरशिल्पकलैकधाम
तातेन वत्सलतया वृषभानुनैव
निर्मापितं तदुपमापि तदेव नान्यत्
(कृष्णभावनामृतं ३.३)



२.७:

स्थूणाप्रघाण प अलाङ्गणतोरणाली
गोपानसीविविधकोष्ठकपा अवेद्यः
राजन्ति यत्र मणिदीपततिप्रदीप्त
वैचित्र्यनिर्मितजनेक्षणचित्रभावाः
(कृष्णभावनामृतं ३.४)



२.८:

यत्रेन्द्रनीलमणिभूर्वलभी घनाभा
हंसालिरप्युपरि राजति राजती सा
ये वीक्ष्य बन्धुरिपुभानभृतो वितत्य
सङ्कोचयन्ति शिखिनः स्वशिखण्डपङ्क्तीः
(कृष्णभावनामृतं ३.५)


२.९:

तत्रोपवेशशयनाशनभूषणादि
वेदीर्विमृज्य परिलिप्य विशोध्य तास्ताः
आस्तीर्य राङ्कवं उपर्युपयुक्तमुक्तम्
उल्लोचं उन्नतमुदो मिलिता बबन्धुः
(कृष्णभावनामृतं ३.६)



२.१०:

एका ममार्ज मणिकाञ्चनभाजनानि
काचित्पयः समययोग्यं उपानिनाय
चित्रांशुकापिहितरत्नचतुष्किकायाम्
आलम्बनीयं अदधादपरोपबर्हम्
(कृष्णभावनामृतं ३.७)



२.११:

पूर्वेद्युरंशुकमणिमयभूषणानि
मृष्टानि यत्र निहितान्यथ सम्पु अं तत्
उच्चैर्झनद्वलयराजि समुद्घटय्य
काचिज्जघर्ष विधुकुङ्कुमचन्दनानि
(कृष्णभावनामृतं ३.८)



२.१२:

अन्या व्यधत्त सुमनाः सुमनोभिरेव
चित्रैः किरी अक अकाङ्गदहारकाञ्चीः
जातीलवङ्गखदिरादिभि रज्यमानाः
काचिद्बबन्ध सुरसाः फणिवल्लीवी ईः



२.कृष्णभावनामृतं ३.९:



२.१३:

अत्रान्तरे प्रतिदिशं दधिमन्थनोत्थ
रावैरवारितमहीसुरवेदघोषैः
हम्बाध्वनिव्यतिविधानमिथोऽवधायि
धेन्वालितर्णकघटा वलदन्तरायैः
(कृष्णभावनामृतं ३.१०)



२.१४:

वृन्दिष्ठवन्दिजनवृन्दवितायमान
श्रीकृष्णकीर्तिविरुदालिसुधातरङ्गैः
शारीशुकव्रजकलैः कलविङ्ककेकि
कोलाहलैः क्रमत एव समेधमानैः
(कृष्णभावनामृतं ३.११)



२.१५:

जाग्रत्सु लोकनिचयेष्वथ वासरेति
कर्तव्यभावनपरेष्वधिशयं एव
कृष्णेक्षणक्षण सतृष्णतया पुरन्ध्री
वृन्देषु नन्दगृहसन्दितमानसेषु
(कृष्णभावनामृतं ३.१२)



२.१६:

नप्त्रीमुखाम्बुजविलोकनजीवितायां
तत्रोपसृत्य सहसा मुखराभिधायाम्
वात्सल्यरत्नपटलीभृतपेटिकायां
राधे! क्व पुत्रि! भवसीति समाह्वयन्त्याम्
(कृष्णभावनामृतं ३.१३)



२.१७२०:

स्वभावकु इलाप्यात्म
सुतसम्पत्तिकाङ्क्षया
व्याकुला जटिला गत्वा
निकटं तां अथाब्रवीत्

सूनोः प्रजायुर्धनवृद्धयेऽसौ
त्वया स्नुषा ज्ञे! नियतं नियोज्या
सुमङ्गलस्नानविभूषणादौ
गोकोटिहेतोस्तपनार्चनाय

आज्ञानवज्ञा निजगोष्ठराज्ञ्याः
कार्यानभिज्ञोक्तिषु तेऽप्यवज्ञा
इत्यादिशत्यन्वहं अर्थविज्ञा
विज्ञापिता मे किल पौर्णमासी

अस्मात्त्वं आर्ये स्वां नप्त्रीं
सर्वमङ्गलमण्डिताम्
विधेहि सर्वसम्पत्तिर्
यथा सूनोर्भवेन्मम
(गोविन्दलीलामृतं २.४३४६)



२.२१:

वधूं अथाभाषसत पुत्रि! तल्पाद्
उत्तिष्ठ तूर्णं कुरु वास्तुपूजाम्
त्वं मङ्गलस्नानविधिं विधाय
पूजोपहारं सवितुर्विधेहि
(गोविन्दलीलामृतं २.४७)



२.२२२३:

प्रभातं आयातं अहो तथापि
निद्राति नप्त्रीति मुहुर्वदन्ती
स्नेहद्रुताङ्गी मुखरा प्रविश्य
शय्यालयं तां अवदत्तदेदम्

उत्तिष्ठ वत्से शयनात्प्रमुग्धे
व्यस्मारि वारोऽद्य रवेस्त्वया किम्?
स्नात्वा प्रभातार्घ्यविधानं अस्मै
पूजोपहारं रचयास्य चाशु
(गोविन्दलीलामृतं २.४८४९)



२.२४:

तद्वचः प्रतिबुद्धाथ
विशाखोत्थाय सालसा
सखि! तूर्णं समुत्तिष्ठोत्
तिष्ठेति प्राह सत्वरा
(गोविन्दलीलामृतं २.५०)



२.२५:

तासां वचोभिः शयनेऽथ मुग्धा
मुहुः प्रजागर्य्य पुनर्निदद्रौ
विचालिता वीचिचयैस्तडागे
सा राजहंसीव रतालसाङ्गी
(गोविन्दलीलामृतं २.५१)



२.२६:

तदैवावसराभिज्ञा
जग्राह रतिमञ्जरी
सखी वृन्दावनेश्वर्याः
श्रीमच्चरणपङ्कजम्
(गोविन्दलीलामृतं २.५२)



२.२७२८:

इत्थं इयं बहुभिः कृतबोधा
स्वाच्छयनादुदतिष्ठदनल्पात्
तां अथ वीक्ष्य सुपीतपटाङ्गीं
शङ्कितहृन्मुखरेदं उवाच
द्रुतकनकसवर्णं सायं एतन्मुरारेर्
वसनं उरसि दृष्टं यत्सखी ते बिभर्ति
किं इदं अयि विशाखे! हा प्रमादः प्रमादो
व्यवसितं इदं अस्याः पश्य शुद्धान्वयायाः
(गोविन्दलीलामृतं २.५३५४)



२.२९३०:

तद्वचश्चकितधीर्हृदि सख्या
वीक्ष्य पीतवसनं चलदृष्ट्या
हा किं एतदिति तां च दिशन्ती
द्रागुवाच जरतीं च विशाखा

स्वभावान्धे! जालान्तरगतविभातोदितरवि
च्छटाजालस्पर्शोच्छलितकनकाङ्गद्युतिभरैः
वयस्यायाः श्यामं वसनं अपि पीतिकृतं इदं
कुतो मुग्धे शङ्कां जरति कुरुषे शुद्धमतिषु
(गोविन्दलीलामृतं २.५५५६)



२.३१:

ललिताप्रमुखास्तावत्
सख्यस्ताः स्वस्वगेहतः
आजग्मुस्त्वरिताः सख्याः
प्रस्खलद्गतयोऽन्तिकम्
(गोविन्दलीलामृतं २.५७)



२.३२३३:

तासां वाक्यैर्गतायान्तु
कृतवञ्चनसञ्चयैः
मुखरायां ततोऽन्यासु
द्रष्टुकामासु तत्र ताम्

एकैकशोऽथ मिलितासु सखीषु सर्वा
स्वन्योन्यहासपरिहासपरासु तासु
सुश्लिष्टमण्डलतयैव कृतोपवेशा
स्वारूढरत्नमणिहेमचतुष्किकासु
(कृष्णभावनामृतं ३.१७ युग्मकम्)



२.३४:

श्रीराधिकामिलनं एव समस्तहर्ष
शस्यैकवर्षं इति यद्धृदि निश्चिकाय
श्यामलैत्य समया समयाभिविज्ञा
श्लिष्टा तया सुषमयेव तदास तत्र
(कृष्णभावनामृतं ३.१८)



२.३५:

श्यामे! त्वं एवं अधुनैव विचिन्त्यमाना
मन्नेत्रवर्त्मगमिता विधिना यथैव
तद्वत्स तर्षवि अपी फलयिष्यते चेद्
अद्यैव तर्हि गणयान्यपि सुप्रभातम्
(कृष्णभावनामृतं ३.१९)



२.३६:

हन्तैष सन्ततं अतीव समेधमानः
शश्वत्सखीभिरपि सुन्दरि! सिच्यमानः
नाद्यापि यत्फलं अधादयि! कोऽत्र हेतुर्
हा तत्कदातिरभसादवलोकयिष्ये
(कृष्णभावनामृतं ३.२०)



२.३७:

राधे! स ते न फलितो यदि तत्फलिष्यत्य्
आश्चर्यं अस्य फलं अप्यलसाङ्गि! बुद्ध्ये
आस्वाद्यमानं अपि सौरभमादितालि
प्रत्याययत्यननुभूतं इव स्वं उच्चैः
(कृष्णभावनामृतं ३.२१)



२.३८:

पक्ष्मावली बत यदीयरसेन शोणे
नारञ्जि कञ्जमुखि! तन्न तदप्यपश्यः
यत्स्वादनव्यतिकरादधरो व्रणित्वम्
आगात्तथापि तदहो! न कदाप्यभुङ्क्थाः
(कृष्णभावनामृतं ३.२२)



२.३९:

श्यामे! त्वं अप्यलं अलक्षितमन्नितान्त
स्वान्तव्रणा हससि मां यदतो ब्रवीमि
विद्युद्विहन्ति तिमिरं निशि यद्दृशोस्तत्
सद्यः पुनर्द्विगुणयेदिति भोः प्रतीहि
(कृष्णभावनामृतं ३.२३)



२.४०:

राधे! कलानिधिरयं विधिनोपनीतस्
त्वां सन्ततामृतमयैरधिनोत्कराग्रैः
यत्तत्कलाः स्वयं अहो कुचयोर्बिभर्षि
विद्युन्निभत्वपरिवादं अथापि दत्से
(कृष्णभावनामृतं ३.२४)



२.४१:

श्यामे! स मे सखि! ददौ न कलङ्कं एव
सत्यं कलानिधिरसाविति वः प्रतीतः
दत्ते कदापि मम दृष्टिचकोरिका यैर्
ज्योत्स्नाकणं यदपि तन्न पुनर्निकामम्
(कृष्णभावनामृतं ३.२५)



२.४२:

राधे! स्फुटं वद भवन्मुखपङ्कजोत्थ
नक्तन्तनेहितसुधाद्युधुनी विधूय
तापं निमज्जयतु मां स्वं अनु प्रभाते
कृत्यान्तरं मम कथं तदृते सुसिध्येत्
(कृष्णभावनामृतं ३.२६)



२.४३:

श्यामेऽधिकुञ्जनिलयं नवनीलकान्ति
धारा यदा स्नपयितुं निशि मां प्रवृत्ता
तर्ह्येव पञ्चशरसञ्चयना यरङ्ग
भूमिं च केन च काञ्चन यापिताऽसम्
(कृष्णभावनामृतं ३.२७)
(४४)

वदन्तीत्थं मूर्छां परमपरमानन्दजनिकां
गता सेयं सद्यः स्मृतिविधुरतापद्धतिं अगात्
कदायाता श्यामे पुनरिति हि पृष्टाहं अधुना
गतेत्युक्त्वापृच्छत्परिकलितबोधां सपदि ताम्



२.४५:

अलसवलितं अङ्गं स्वावसादं व्यनक्ति
ग्लपितं इव मृणालीकन्दलं दोर्द्वयं ते
दशनवसनं एतन्नीरसं गण्डपाली
लुलितललितपत्रा प्रक्रमः कस्तवैषः
(आनन्दवृन्दावनचम्पूः ११.२१७)



२.४६:

अभिनवलतिकेव वातरुग्ना
नवनलिनीव मतङ्गजेन भुग्ना
मृदुतरनवमालिकेव धूता
मदमधुपेन विलक्ष्यसे त्वं अद्य
(आनन्दवृन्दावनचम्पूः ११.२१८)



२.४७:

अपि चिरं अभिलष्यमाण एवं
प्रणयिनि कोऽपि सुदुर्लभो हि लब्धः
अथ कथं इयं अन्यथाऽस्मदादेः
फलितवती सखि! भाग्यकल्पवल्ली
(आनन्दवृन्दावनचम्पूः ११.२१९)



२.४८:

इति सप्रणयवाचा सादरं पृच्छ्यमाना
प अवृतमुखचन्द्रा स्वच्छचित्ता बतासौ
मुदं अथ जनयन्ती पार्श्वगानां सखीनाम्
अवनिनिहितदृष्टिं सस्मितः प्रत्युवाच



२.४९:

क्वाहं स्थिता क्व चलिता क्व च वा स पन्था
नीतास्मि केन नलिनाक्षि तदीय पार्श्वम्
किंवा बभूव मयि तत्र समेतवत्यां
जानाम्यहं यदि तदा भवती न वेत्ति
(आनन्दवृन्दावनचम्पूः ११.२२१)



२.५०:

व्यापारो मनसश्च यत्र न गतः सम्भावनाभावतो
यत्स्वप्नः किं अथेन्द्रजालं अथवा भ्रान्तिः सुदीर्घैव मे
तत्किं ह्लादि किं आर्तिदं किं उभयं किंवा न तन्नापि तच्
चेतोविद्रुतिकारकं च मनसो मूर्छाकरं चाभवत्
(आनन्दवृन्दावनचम्पूः ११.२२२)



२.५१:

अथ श्यामाह
केलीकलाध्ययनकौशलं एकदैव
न स्यादतः किं अपि नो भवती विवेद
भूयस्ततः सखि! विलासगुरोः सकाशाद्
यत्नादधीष्व यदि विज्ञतमासि भूष्णुः
(आनन्दवृन्दावनचम्पूः ११.२२४)



२.५२:

ततः श्रीराधिका प्राह
मातः परं सुमुखि! यामि तदीयपार्श्वं
दूरादसौ नयनवर्त्मनिवर्तनीयः
अध्येतु नाम भवती तत एव तत्ते
पाण्डित्यं एव मनसो रसदं मम स्यात्
(आनन्दवृन्दावनचम्पूः ११.२२६)



२.५३:

भ्राजन्ते वरदन्ति! मौक्तिकगणा यस्योल्लिखद्भिर्नखैः
क्षिप्ताः पुष्करमालयावृतरुचः कुञ्जेषु कुञ्जेष्वमी
शौ ईर्याब्धिरुरोजपञ्जरतटे संवेशयन्त्या कथं
स श्रीमान्हरिणेक्षणे! हरिरभून्नेत्रेण बद्धस्त्वया?
(ऊज्ज्वलनीलमणि, ऊद्दीपनविभावप्रकरणं २०)



२.५४:

कोऽयं कृष्ण इति व्युदस्यति धृतिं यस्तन्वि कर्णं विशन्
रागान्धे! किं इदं सदैव भवती तस्योरसि क्रीडति
हास्यं मा कुरु मोहिते! त्वं अधुना न्यस्तास्य हस्ते मया
सत्यं सत्यं असौ दृगङ्गनं अगादद्यैव विद्युन्निभः
(ऊज्ज्वलनीलमणि, Sथायीभावप्रकरणं १४८)



२.५५:

लज्जाभरक्रान्ततयातितूष्णीं
स्थिता वयस्या प्रियकेलिवार्त्ताम्
श्रोतुं गृहीत्वा चिबुकं तदा सा
ह्यत्याग्रहीदालीं अथ प्रवक्तुम्



२.५६:

प्रियसखि! मम वृत्तं पृच्छ मा भाग्यं ईदृक्
क्व नु मम कथयेयं त्वय्यहं तान्विलासान्
धृतवति करं एव श्यामले क्वास काहं
किं इव च करकोऽसौ किं व्यधान्न स्मरामि
(Vऋन्दावनमहिमामृतं ५.९८)



२.५७:

वेणीं गुम्फति दिव्यपुष्पनिचयैः सीमन्तसीमन्यहो
सिन्दूरं निदधाति कज्जलमयीं निर्माति रेखां दृशोः
दिव्यं वासयते दुकूलं असकृत्ताम्बूलं अप्याशयेद्
इत्थम्भूतरतिः सखा तव न मां तल्पे निधत्तेऽङ्कतः
(Vऋन्दावनमहिमामृतं ५.९९)



२.५८:

नित्यं मन्मुखसम्मुखं मुखविधुं धत्तेऽनिमिषेक्षणो
नित्यं मन्मुखं एव पश्यति मयैवाजस्रगोष्ठीपरः
आधायैव शयीत मां हृदि मयैवावर्तयेत्पार्श्वकं
सख्युस्ते सखि! सर्वनागरमणेः प्रीतिः कथं वर्ण्यताम्?
(Vऋन्दावनमहिमामृतं ५.९७)



२.५९:

विलासचेष्टा सखि! केशिनाशिनो
हलाहलाभा प्रदहन्ति मे मनः
कृन्तन्ति मर्माणि गुणा घुणा इव
प्रेमा विकारी हृदि हृद्व्रणो यथा
(अलङ्कारकौस्तुभ ३.५६)



२.६०:

नो विद्मः किं उ गौरवं गुरुकुले कौलीन्यरक्षाविधौ
न श्रद्धा किं उ दुर्जनोक्तिगरलज्वालासु किं नो भयम्
उद्वेगादनवस्थितं मम मनः कस्यापि मेघत्विषो
यूनः श्रोत्रगतैर्घुणैरिव गुणैरन्तः कृतं जर्जरम्
(अलङ्कारकौस्तुभ ५.७१)



२.६१:
राधे! यदास्यसरसीरुहगन्ध एवम्
अन्धीकरोति कुलजाकुलं आलि! दूरात्
तन्मध्वतीव सुरसं सरसं पिबन्त्याश्
चित्तभ्रमस्तव मदादिति नैव चित्रम्
 (कृष्णभावनामृतं ३.३१)



२.६२:

अत्रान्तरे मधुरिका मिलिताथ पृष्टा
ताभिर् जगाद मधुरं शृणुतैतदाल्यः
कस्यैचिदेव कृतये व्रजराजवेश्म
प्राप्ताद्य कौतुकं अहो यदुषस्यपश्यम्
(कृष्णभावनामृतं ३.३२)



२.६३:

पौर्णमासी भगवती सर्वसिद्धिविधायिनी
काषायवसना गौरी काशकेशी दरायता
कृष्णं द्रष्टुमनास्तल्पादुदतिष्ठद्द्विजध्वनैः
(ऱाधाकृष्णगणोद्देशदीपिका ६९)



२.६४:

अथ प्रभाते कृतनित्यकृत्या
प्रीत्याच्युतस्यातिविहस्तचित्ता
प्रेमेन्दुपूर्णा किल पौर्णमासी
तूर्णं व्रजेन्द्रालयं आससाद
(गोविन्दलीलामृतं २.२)



२.६५:

क्ष्ॐअं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं
पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः
रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कवरविगलन्मालती निर्ममन्थ
(ऊरीमद्भागवतम्, १०.९.३)



२.६६:

रजनिविपरिणामे गर्गरीणां गरीयान्
दधिमथनविनोदादुद्भवन्नेष नादः
अमरनगरकक्षाचक्रं आक्रम्य सद्यः
स्मरयति सुरवृन्दान्यब्धिमन्थोत्सवस्य
(ळलितमाधवनाटकं २.२)



२.६७:

मन्थानोद्धृतगव्यविन्दुनिकरव्याकीर्णरम्याङ्गनं
प्रेमस्निग्धजनान्वितं बहुविधै रत्नैर्विचित्रान्तरम्
क्षीरोर्म्युच्छलितं मुदाहिविलसच्छय्याप्रसुप्ताच्युतं
श्वेतद्वीपं इवालयं व्रजपतेर्वीक्ष्यास सानन्दिता
(गोविन्दलीलामृतं २.३)



२.६८:

तां आगतां अभिप्रेक्ष्य
साक्षादिव तपःश्रियम्
व्रजरज्ञी पराभिज्ञा
स्थितिज्ञाभ्युद्ययौ मुदा
(गोविन्दलीलामृतं २.४)



२.६९:

एहि भो भगवतीति व्रजवन्द्ये
स्वागतासि भवतीं प्रणमामि
इत्युदीर्य सविधे प्रणमन्तीं
सा मुकुन्दजननीं परिरेभे
(गोविन्दलीलामृतं २.५)



२.७०:

आशीर्भिरभिनन्द्यामूं
गोविन्ददर्शनोसुका
पप्रच्छ कुशलं चास्याः
सधवात्मजगोततेः
(गोविन्दलीलामृतं २.६)



२.७१:

निवेद्य कुशलं चास्यै
तयोत्कण्ठितया सह
उत्का शय्यागृहं सूनोः
प्रविवेश व्रजेश्वरी
(गोविन्दलीलामृतं २.७)



२.७२:

डोरीजूटितवक्रकेशप अला सिन्दूरबिन्दूल्लसत्
सीमन्तद्युतिरङ्गभूषणविधिं नातिप्रभूतं श्रिता
गोविन्दास्यनिसृष्टसाश्रुनयनद्वन्द्वा नवेन्दीवर
श्यामश्यामरुचिर्विचित्रसिचया गोष्ठेश्वरी पातु वः
(भक्तिरसामृतसिन्धुः ३.४.१३)



२.७३:

पर्यङ्के न्यस्य सव्यं तदुपरि निहितस्वाङ्गभाराथ पाणिं
कृष्णस्याङ्गं स्पृशन्तीतरकरकमलेनेषदाभुग्नमध्या
सिञ्चन्त्यानन्दबाष्पैः स्नुतकुचपयसां धारया चास्य तल्पं
वत्सोत्तिष्ठाशु निद्रां त्यज मुखकमलं दर्शयेत्याह माता
(गोविन्दलीलामृतं २.१३)



२.७४:

मधुरिकोवाच
गान्धर्विके! शृणु यदन्यदभूद्विचित्रं
नीलांशुकं स्वतनयोरसि वीक्ष्यमाणाम्
तां आह सैव भगवत्ययि गोष्ठराज्ञि!
रामाम्बरेण परिवर्तितं अस्य वास
(कृष्णभावनामृतं ३.३८)



२.७५:

ता अङ्कगारुणमणिप्रतिबिम्ब एव
गण्डे विभाति तव माधव! शोणशोचिः
इत्युक्त एव स तया निजपाणिना तं
सद्यो जघर्ष भवदाधररागभागम्
(कृष्णभावनामृतं ३.३९)



२.७६:

उत्तिष्ठ तात रजनीयं अगाद्विरामं
पश्यांशुमन्तं उदयोद्यमनाभिरामम्
प्रत्यूषसेवनविधौ विलसद्विलासाः
शय्यालयं तव विशन्ति कुमारदासाः
(कृष्णाह्निककौमुदी २.२)



२.७७:

सङ्कीर्तयन्जय जयेति गिरा सुवृत्तस्
त्वां तात जागरयितुं प्रणयात्प्रवृत्तः
कीरस्तवैष निजपाणितलेन पुष्टः
सन्मञ्जुवाक्कनकपञ्जरवासहृष्टः
(कृष्णाह्निककौमुदी २.३)



२.७८:

खेदस्तवैष शयनालसभारमूलः
स्वापं जहीहि भव जागरणानुकूलः
इत्थं करेण मृदुना मुहुरङ्गं अङ्गम्
आस्पृश्य बाहुयुगलेन तं आलिलिङ्ग
(कृष्णाह्निककौमुदी २.४)



२.७९:

मातुः कलां गिरं अतिप्रणयोपगूहं
श्रुत्वानुभूय च तदैव स सम्यगूहम्
गात्रावमो अनपुरःसरजृम्भणेन
जाग्रद्दशां अभिनिनाय कुतूहलेन
(कृष्णाह्निककौमुदी २.५)



२.८०:

कालोचितेषु परिचारणकौशलेषु
गाढानुरागपरभागनिराकुलेषु
दक्षं समक्षं अनुशास्य कुमारदासी
दासं व्रजेन्द्रगृहिणी स्वगृहानयासीत्
(कृष्णाह्निककौमुदी २.६)



२.८१:

तावद्गोभ अभद्रसेनसुबलश्रीस्तोककृष्णार्जुन
श्रीदामोज्ज्वलदामकिङ्किणिसुदामाद्याः सखायो गृहात्
आगत्य त्वरिता मुदाभिमिलिताः श्रीसीरिणा प्राङ्गणे
कृष्णोत्तिष्ठ निजेष्टगोष्ठं अय भो इत्याह्वयन्तः स्थिताः
(गोविन्दलीलामृतं २.८)



२.८२:

ही ही प्रभातं किं उ भो वयस्या
अद्यापि निद्राति कथं सखा नः
तद्बोधयाम्येनं इतीरयन्स्व
तल्पादुदस्थान्मधुमङ्गलोऽपि
(गोविन्दलीलामृतं २.९)



२.८३:

समुत्तिष्ठ वयस्येति
जल्पंस्तल्पालयं हरेः
निद्रालसस्खलद्यानः
प्राविशन्मधुमङ्गलः
(गोविन्दलीलामृतं २.१०)



२.८४:

तद्वाग्विगतनिद्रोऽयम्
उत्तिष्ठासुरपीश्वरः
उत्थातुं ईश्वरो नासीद्
घूर्णापूर्णेक्षणः क्षणम्
(गोविन्दलीलामृतं २.११)



२.८५:

उत्तिष्ठ कुर्यां मुखमार्जनं ते
बलस्य वासः किं इह त्वदङ्गे
इति ब्रुवाणापनिनाय नीलं
वासस्तदङ्गादवदच्च सार्याम्
(गोविन्दलीलामृतं २.१५)



२.८६:

अयि भगवति! पश्याचो इतं मेऽस्य सूनोः
कमलमृदुलं अङ्गं मल्ललीलासु लोलैः
खरनखरशिखाभिर्धातुरागातिचित्रं
चपलशिशुसमूहैर्हा हता किं करोमि?
(गोविन्दलीलामृतं २.१५)



२.८७:

स्नेहभरैः स्वजनन्याश्
चित्रपदां अपि वाणीम्
तां अवधार्य मुरारिर्
ह्रीचकितेक्षण आसीत्
(गोविन्दलीलामृतं २.१७)



२.८८८९:

कृष्णं सशङ्कं आशङ्क्य
परिहासपटुर्बटुः
स्नेहक्लिन्नान्तरां अम्बाम्
अवदन्मधुमङ्गलः

सत्यं अम्ब! वयस्याली
वारितापि मयानिशम्
रेमेऽनेनातिलुब्धेन
कुञ्जेषु केलिचञ्चला
(गोविन्दलीलामृतं २.१८१९)



२.९०:
अथ प्रकाशीकृतबाल्यविभ्रमो
यत्नात्समुन्मील्य विलोचनं मुहुः
पश्यन्पुरः स्वां जननीं हरिः पुनर्
न्यमीलयत्स स्मितवक्त्रपङ्कजः
(गोविन्दलीलामृतं २.२०)



२.९१:

आकर्ण्य वाचं व्रजराजपत्न्याः
समीक्ष्य कृष्णस्य च बाल्यचेष्टाम्
भावान्तराच्छादकरीं जनन्यास्
तं पौर्णमासी स्मितपूर्वं आह
(गोविन्दलीलामृतं २.२१)



२.९२:

सखीनां सन्दोहैर्निरवधि महाकेलिततिभिः
परिश्रान्तस्त्वं यत्स्वपिषि सुमते योग्यं इह तत्
अनालोक्य त्वां भोस्तृषितं अपि नो तर्णककुलं
धयत्यूधः किन्तु व्रजकुलपते जागृहि ततः
(गोविन्दलीलामृतं २.२२)



२.९३:

उत्तिष्ठ गोष्ठेश्वरनन्दनारात्
पश्याग्रजोऽयं सह ते वयस्यैः
गोष्ठं प्रतिष्ठासुरपि प्रतीक्ष्य
त्वां अङ्गने तिष्ठति तर्णकैश्च
(गोविन्दलीलामृतं २.२३)



२.९४:

समुष्टिपाणिद्वयं उन्नमय्य
विमो अयन्सोऽथ रसालसाङ्गम्
जृम्भाविसर्पद्दशनांशुजालस्
तमालनीलः शयनादुदस्थात्
(गोविन्दलीलामृतं २.२४)



२.९५:

उन्मीलनप्रतिनिमीलनयोर्बहुत्वे
जाग्रच्छयानदशयोरिव मिश्रितत्वे
सा निद्रया विरहकातरया धृतेव
तस्योत्थितस्य नयनद्वितयी दिदेव
(कृष्णाह्निककौमुदी २.७)



२.९६:

ख वैकदेशे त्वथ सन्निविष्टो
विन्यस्तपादाब्जयुगः पृथिव्याम्
नमाम्यहं त्वां भगवत्ययीति
जगाद जृम्भोद्गमगद्गदं सः
(गोविन्दलीलामृतं २.२५)



२.९७:

आपादशीर्षं अथ पाणितलाभिमर्शे
नाव्यादजोऽङ्घ्रिं इति मन्त्रं उदाहरन्ती
संरक्ष्य तूर्णं अखिलाङ्गं अथोर्ध्वदृष्ट्या
किञ्चित्सकाकुभरं अर्थयते स्म राज्ञी
(कृष्णभावनामृतं ३.३५)



२.९८:

देवाधिदेव! भवतैव चिरात्सुतोऽयं
दत्तः स्वबन्धुजनजीवनतां उपेतः
पाल्योऽपि नाथ! भवतैव कृपाभरेण
स्वेनैव कां अपचितिं तव वेद्मि कर्तुम्
(कृष्णभावनामृतं ३.३६)



२.९९:

आरात्रिकेण मणिमङ्गलदीपभाजा
विभ्राजितेन जितसौभगवत्समाजाः
आधाय पणिसरसीरुहयोर्मुदास्य
नीराजनं विदधिरेऽस्य कुमारदास्यः
(कृष्णाह्निककौमुदी २.८)



२.१००१०१:

उष्णीषबन्धसुमनोज्ञतमोत्तमाङ्गाः
पाथोजकेशरसुसौरभसुन्दराङ्गाः
श्यामाः सिताश्च हरिता अरुणाश्च पीता
ये केऽपि केऽपि महनीयगुणैः परीताः

तैरेव केवलसुखानुभवस्वरूपैर्
नैसर्गिकानुदिनदिव्यकुमाररूपैः
दासीगणैरपि च दासगणैरुदारैः
सेवा व्यधायि विविधास्य विलोलहारैः
(कृष्णाह्निककौमुदी २.९१०)



२.१०२:

पर्यङ्कतः समधिरुह्य मणीचतुष्कं
श्रीपादपीठमहसा विलसद्वपुष्कम्
चारूपविष्टं अतिहृष्टहृदो गृहीत्वा
चारूपचारं अथ भेजुरमी मिलित्वा
(कृष्णाह्निककौमुदी २.११)



२.१०३:

तैराहितां करतले विनिधाय धारां
कर्पूरसौरभवतां अतिचारुवाराम्
गण्डूषपुरं उपक्प्तसुत्थोपजोषं
कृष्णः शनैरभिषिषेच मुखाब्जकोषम्
(कृष्णाह्निककौमुदी २.१२)



२.१०४:

आमृज्य चारुमृदुसूक्ष्मबलक्षवासः
खण्डेन पाणिवदनं निरुपाधिहासः
तैराहितं करतले मृदु दन्तकाष्ठं
प्रत्यग्रहीन्म्रदिमनिष्ठं अथो लघिष्ठम्
(कृष्णाह्निककौमुदी २.१३)



२.१०५:

कल्पद्रुमस्य मृदुना वि अपेन तेन
रत्नाङ्गुलीयकमहोभिरलङ्कृतेन
दन्तावलिं विहितवीक्षकनेत्रहर्षम्
आलोलकुण्डलयुगं शनकैर्जघर्ष
(कृष्णाह्निककौमुदी २.१४)



२.१०६:

अङ्गुष्ठतर्जनिकयोर्धृतया वितस्त्या
जिह्वाविलेखनिकया मणिहेममय्या
राजन्मणीन्द्रवलयं व्यलिखन्मनोज्ञां
ताम्बूलरागपरभागवतीं रसज्ञाम्
(कृष्णाह्निककौमुदी २.१५)



२.१०७:

भूयः पयोभिरमलैर्वदनं निनेज
भूयो ममार्ज च कदापि न चोद्विवेज
श्रीदर्पणं कृतसमर्पणचञ्चलाक्षि
लक्ष्म्या चकार मुखधावनशुद्धिसाक्षि
(कृष्णाह्निककौमुदी २.१६)



२.१०८:

माणिक्यकङ्कतिकया करपद्मकोषं
सम्प्राप्तया वलयकङ्कतिचारुघोषम्
केशप्रसाधनं अथानभिसन्धिहासी
भूतानना व्यधित कापि कुमारदासी
(कृष्णाह्निककौमुदी २.१७)



२.१०९:

नक्तन्तनं वसनं अस्य निरास्य कश्चिद्
वासोऽन्तरं सुपरिधाप्य कलाविपश्चित्
उष्णीषबन्धं अथ मूर्ध्नि बबन्ध पादौ
प्रक्षाल्य वार्भिरभिमृज्य च वासरादौ
(कृष्णाह्निककौमुदी २.१८)



२.११०:

गा दोग्धुं उद्धुरधियोऽपि वृथोद्यमास्ते
गोपा बभूवुरथ तर्णकमण्डलाश्च
चूषन्त एव न पयः कणमात्रं आसाम्
आपीनतोऽद्य यदवापुरतो विषेदुः
(कृष्णभावनामृतं ३.४४)


२.१११:

गावस्तवाध्वनि धृताश्रुभृताक्षियुग्मा
न प्रस्रवन्त्यपगतान्न लिहन्ति वत्सान्
हम्बाध्वनिध्वनितदिग्वलया विलम्बं
सोढुं दरापि न हि सम्प्रति शक्नुवन्ति
(कृष्णभावनामृतं ३.४५)



२.११२:

इत्येव केनचिदुपेत्य स गोदुहोक्तो
मातृर्निजास्यदरहास्यसुधाभिषेकैः
स्वानन्दशंसिभिरसौ सुखयन्मुखाब्जं
ताम्बूलरञ्जितं अलं कलयन्नुदस्थात्
(कृष्णभावनामृतं ३.४६)



२.११३:

दोहं समाप्य बलभद्र! सहानुजस्त्वं
मल्लाजिरं व्रजसि चेत्कुरु मा विलम्बम्
निर्मञ्चनं तव भजे क्षणमात्रेव
सार्धं विहृत्य सखिभिर्द्रुतं एहि भोक्तुम्
(कृष्णभावनामृतं ३.४७)



२.११४:

श्रुत्वेति मातृगिरं आह हरिर्न मातः
प्रत्येषि मां यदमुं एव वदस्यथैवम्
शिष्टोऽग्रणीः पुनरमीष्वहं एक एव
नो चेदमुष्य वशतां किं उरि करिष्ये?
(कृष्णभावनामृतं ३.४८)



२.११५:

शिष्टो यथा त्वं असि वत्स! निजातिबाल्यम्
आरभ्य तत्खलु विदन्त्यखिलाः पुरन्ध्र्यः

याः स्वालयापचयवेदनया पुरासां
फुत्कर्तुं आपुरिह नो कतिधेति सोचे
(कृष्णभावनामृतं ३.४९)



२.११६:

सौदामिनीततिविभाजयिदामनीद्युद्
विभ्राजिसव्यकरकोरकितारविन्दः
स ग्राहितप्रमितकानकदोहनीको
मात्रा तया सखि! रयादधिकं विरेजे
(कृष्णभावनामृतं ३.५०)



२.११७:

स्तम्बेरमव्रजविडम्बिविलम्बिपाद
विन्यासझञ्झनझणत्कृतकिङ्किणीकः
लोलालकालिमणिकुण्डलकान्तिवेणी
वीचीभरस्नपितवक्त्रसुधांशुबिम्बः
(कृष्णभावनामृतं ३.५१)



२.११८:

पीतोत्तरीयचपलेलितकेलिनृत्य
राजद्घनाङ्गकिरणोच्छलनोच्छ्रितश्रीः
प्रेङ्खोलहारपरिधिश्रितकौस्तुभोद्यद्
भानुः स्वनच्चरणभूषणचुम्बिदामा
(कृष्णभावनामृतं ३.५२)



२.११९:

निष्क्रम्य रम्यपुरतः पुरतोऽभिगच्छन्
यच्छन्मुदं स्वजननीजनलोचनेभ्यः
दासैः प्रधारितं अवारितरोचिरश्नं
ताम्बूलपुलकं अवाप स गोपुराग्रम्
(कृष्णभावनामृतं ३.५३)



२.१२०:

तद्बाह्यकुट्टिमत ईं अवलम्बमानः
का कुत्र किं कुरुत इत्यनुसन्दधानः
व्यापारयन्नयनं अ अघटासु नर्म
प्रेष्ठैर्मिलद्भिरभितः स रराज मित्रैः
(कृष्णभावनामृतं ३.५४)



२.१२१:

तन्निर्मितानुपदकर्णकथारसज्ञ
स्यास्याम्बुजे किं अपि यत्स्मितं उद्बभूव
तस्यार्थजातं अपि किं विवरीतुं ईशे
चेतोऽलिरेव तव सख्यनुसन्दधातु
(कृष्णभावनामृतं ३.५५)



२.१२२:

उष्णीषवक्रिममहामधुरिम्णि तस्य
तात्कालिके किल न कस्य मनो न्यमाङ्क्षीत्
तत्रैव शेखरितकानकसूत्रजाल
राजन्मणिद्युतिभराः किं उ वर्णनीयाः
(कृष्णभावनामृतं ३.५६)



२.१२३:

तैः सौरभैः प्रसृमरैरनु नूपुरादि
ध्वानैर्बलेन वलभीं अधिरोहिताभिः
गोशालवर्त्मनि चलल्ललनावलीभिर्
नेत्राम्बुजैः स कतिधा नहि पूज्यते स्म
(कृष्णभावनामृतं ३.५७)



२.१२४:

तत्तद्विलासबलिता सुषमारसाला
प्रेष्ठस्य सा मधुरिका परिवेश्यमाना
वैश्लेषिकज्वरं अशीशमदप्यथास्यास्
तेने च तं शतगुणं तृषं एधयन्ती
(कृष्णभावनामृतं ३.५८)



२.१२५:

हर्षोन्नतिः स्तिमिततां श्रवसोर्व्यतानीत्
तर्षोत्थसंज्वरभरस्तु दृशोर्विवेश
आकस्मिकी निरुपमा प्रतिवेशिसम्पत्
तापं तनोति सहवासभृतां सदैव
(कृष्णभावनामृतं ३.५९)



२.१२६:

प्राहानुरागपरभागवती ततः सा
ता एव चारुमुखि! धन्यतमा रमण्यः
याः खेलयन्ति सततं सुदृशस्तदीय
लावण्यकेलिजलधौ कलधौतगात्र्यः
(कृष्णभावनामृतं ३.६०)



२.१२७:

जन्मैव हन्त किं अभून्मम गोकुलेऽस्मिंस्
तन्माधुरीं न यदुरीकुरुते कदापि
तत्श्यामलेऽतिचपले हृदि लेशमात्री
नो सम्भवेदिह भवे धृतिरित्यवेहि
(कृष्णभावनामृतं ३.६१)



२.१२८:

श्यामाह यामि! ललिते! शृणु यामि गेहं
सम्प्रत्यमूं प्रति ममास्तु गिरां विरामः
त्वं पद्मिनीं व्रजपुरन्दरसद्मनीमां
कृष्णेक्षणालिनि समर्पय बद्धतृष्णे
(कृष्णभावनामृतं ३.६२)



२.१२९:

प्रियविरहविहस्ता स्रस्तधीः सा तदानीं
क्षणं अपि युगकल्पं कल्पयन्ती बभूव
यदखिलं अपि कृत्यं कारिता किङ्करीभिः
समयविहितं एकोऽभ्यास एवात्र हेतुः



२.१३०:

अथ निखिलसखीनां स्वालिभिः स्नापितानां
धृतसमुचितवस्त्रालङ्कृतीनां ततिः सा
मथितशरदुदञ्चच्चन्द्रिकासिन्धुजातां
श्रियं अपि निजपादाम्भोजभासा विजिग्ये
(कृष्णभावनामृतं ३.६४)



२.१३१:

काचिन्मणीन्द्रमयं आसनं आजहार
श्रीपादपीठं अपरा तदधो दधार
काप्यानयद्वदनधावनभाजनानि
काप्यादधे दशनशोधनसाधनानि
(कृष्णाह्निककौमुदी २.४८)



२.१३२:

उत्थाय तल्पतलतः कनकासनस्था
निद्रावसानविगलन्नियतव्यवस्था
सा पादपीठं अधि दत्तपदारविन्दा
बभ्राज सत्परिजनैर्विहिताभिनन्दा
(कृष्णाह्निककौमुदी २.४९)



२.१३३१३४:

भृङ्गारनालशिखरेण समर्पिताभिः
सन्धाय वक्त्रविवरे चुलुकीकृताभिः
तत्सौरभस्य रभसाधिकसौरभाभिः
श्रीपाणिपद्मतलसङ्गमलोहिताभिः

निक्षेपणे प्रियसखीकरयोः कृताभिः
कर्पूरपूररजसाऽभिसुवासिताभिः!
व्याप्तालिभिः सकलकेलिकलासुहृद्भिः
सा साधु शोधितवती मुखपद्ममद्भिः
(कृष्णाह्निककौमुदी २.५०५१)



२.१३५:

करतलादसकृच्चुलुकीकृतं
सलिलं आरदताल्वनु चालितम्
चलकपोलयुगोन्नतिमञ्जुल
ध्वनिभृतं निभृतं क्षिपति स्म सा
(कृष्णभावनामृतं ४.२)



२.१३६:

विसृमरानलकान्किरती शिरस्य्
उपरि सव्यकराङ्गुलिघटनैः
अलिकगण्डदृगाद्यथ सामित
द्युतिं इतं तिमितं त्रिरदीधवत्
(कृष्णभावनामृतं ४.३)



२.१३७:

वि अपिकां द्युतरोस्ततरोचिषं
रदहितां निहितां स्ववयस्यया
मुकुलिताम्बुजतां भजताञ्जसा
मृदुतरेण करेण सुदृग्दधे
(कृष्णभावनामृतं ४.४)
                                                              
(१३८)

प्रतिसरोदितदोलनं अस्वनद्
वलयं उच्चलकुण्डलं एतया
व्यधित सा मृजती रदनांश्छविं
कणवदुच्छलितां ललितां श्रितान्
(कृष्णभावनामृतं ४.५)



२.१३९:

अथ दधे सुदती धनुराकृतिं
मणिमयीं रसनापरिणेजिनीम्
मृदुलपाणियुगाङ्गुलियुग्मकां
सहचरीकरतोऽदरतोषतः
(कृष्णभावनामृतं ४.६)



२.१४०:

नवदलोपमितां रसनां मृजत्य्
अथ तया नतकम्पितमस्तकम्
मुखं इयं स्खलितैरलकैर्वृतं
विदधती दधती स्मितं आबभौ
(कृष्णभावनामृतं ४.७)



२.१४१:

निरणिजद्बहिरन्तरं अप्यरं
मुखविधोरथ धौतकरद्वया
परिजनार्पितमञ्जुलवाससा
जलकणापनयं सनयं व्यधात्
(कृष्णभावनामृतं ४.८)



२.१४२:

सहचरीविधृते मणिदर्पणे
तदभिनन्दनसाक्षिणि वीक्ष्य सा
स्मितसुधाभिरधावयदाननं
प्रियतमक्षणलक्षणलक्षकम्
(कृष्णभावनामृतं ४.९)



२.१४३:

तस्य दोहादिकां क्रियां
दृष्टागता कलावती
जगादाथ तदभ्यर्णे
परमोल्लाससंयुता



२.१४४:

गोपालोऽपि स्वगोशालं
सराममधुमङ्गलः
सकाव्यगीष्पतिः सायं
शशीवाम्बरं आविशत्
(गोविन्दलीलामृतं २.३७)



२.१४५:

दधार द्युषदां रामो
धवलावलिवेष्टितः
कैलासगण्डशैलाली
मध्यस्थैरावतभ्रमम्
(गोविन्दलीलामृतं २.३८)



२.१४६:

मध्येऽच्युतोऽञ्चन्धवलावलीनाम्
उदाननानां परितः स्थितानाम्
दधौ जनानां स्फू अपुण्डरीक
श्रेण्यन्तरञ्चद्भ्रमरभ्रमं सः
(गोविन्दलीलामृतं २.३९)



२.१४७:

हिही गङ्गे! गोदावरि! शबलि! कालिन्दि! धवले!
हिही धूम्रे! तूङ्गि! भ्रमरि! यमुने! हंसि! कमले!
हिही रम्भे! चम्पे! करिणि! हरिणीति व्रजविधुर्
मुहुर्नामग्राहं निखिलसुरभीराह्वयदसौ
(गोविन्दलीलामृतं २.४०)



२.१४८:

न्यस्ताङ्गः प्रपदोपरि प्रघटयन्जानुद्वये दोहनीं
काश्चिद्दोग्धि पयः स्वयं त्वथ पराः स्वैर्दोहयत्युन्मुखीः
अन्याः पाययति स्वतर्णकगणान्कण्डूयनैः प्रीणयन्न्
इत्थं नन्दसुतः प्रगे स्वसुरभीरानन्दयन्नन्दति
(गोविन्दलीलामृतं २.४१)



२.१४९:

पादाग्रे कृतपादुकं त्रिकसमुल्लासोल्लसत्पार्ष्णिकं
मध्ये न्यस्य घटीं प ओन्नं अनतः प्रोद्यत्त्विषोर्जानुनोः
गोतुन्दव्यतिषङ्गसुन्दरदरक्षोभश्लथोष्णीषकं
पाणिभ्यां क्रमकुड्मलाङ्गुलिपु अं गां दोग्धि दुग्धं हरिः
(आनन्दवृन्दावनचम्पुः ११.८८)



२.१५०:

वत्सादप्यधिकप्रियो भगवतः पाण्यम्बुजस्पर्शन
स्नेहस्राविपयःपयोधरपु आ गौर्दुह्यमाना स्वयम्
धाराभिः सुगभीरघोषगहनं आपूर्य सा दोहनीं
दोहन्यन्तरं एति यावदवनीं तावत्समापुप्लुवत्
(आनन्दवृन्दावनचम्पुः ११.९०)



२.१५१:

अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिरसौ पादार्द्धनीरुद्धभूर्
आपीनाञ्चलमर्दयन्निह पुरो द्वित्रैः पयोबिन्धुभिः
न्यग्जानुद्वयमध्ययन्त्रितघटीवक्त्रान्तरे प्रस्खलद्
धाराध्वानमनोहरं सखि! पयो गां दोग्धि दामोदरः
(Pअद्यावली २.६२)



२.१५२:

शृण्वन्तीं भाववैवश्याद्
विस्मृतस्नापनक्रियाम्
लवङ्गमञ्जरी सद्यो
जुहाव व्यग्रमानसा



२.१५३:

तत्र काञ्चनमये मृदुपीठे
चीनचेलपिहिते विनिविष्टाम्
सेवने परिजना निपुणा द्राक्
तां उपायनकराः परिवव्रुः
(गोविन्दलीलामृतं २.६५)



२.१५४:

सावातारयदाभरणनिचयं
ललिता स्वसखीतनुतः सदयम्
कनकव्रततेरिव सप्रणयं
पल्लवकुसुमस्तवकप्रचयम्
(गोविन्दलीलामृतं २.६०)



२.१५५:

आमृज्य चेलशकलेन तनूत्तमेन
सर्वाङ्गं अङ्कितं अनङ्गरणाङ्ककेन
अभ्यङ्गसङ्गिवसनं परिधाप्य नक्तं
वासोऽभ्यमूमुचदनुत्तमगन्धयुक्तम्
(कृष्णाह्निककौमुदी २.५५)



२.१५६:

आकृष्य मुग्धं अवगुण्ठनं उत्तमाङ्गाद्
उन्मोच्य कुन्तलततीः सुघनोत्तमाङ्गाः
रत्नप्रसाधनिकया चलकङ्कणालिः
सप्रेम सादरं अशूशुधदुत्तमालिः
(कृष्णाह्निककौमुदी २.५४)



२.१५७:

प्रक्षाल्य पादयुगलं मुकुरं पुरस्ताद्
आदर्श्य काचन कलाकुशलत्वशस्ता
तैलेन सत्सुरभिणा लसतारुणिम्ना
भ्यानञ्ज कञ्जवदनां प्रणयेन भूम्ना
(कृष्णाह्निककौमुदी २.५६)



२.१५८:

अङ्गाद्यतो यत उदस्यति चारुचेलं
तत्तन्निरीक्ष्य ह्रियं ऋच्छति सानुवेलम्
तेनाक्तं अक्तं अवधाय सखीयं अङ्गं
तस्याः प्यधात्तदखिलं कृतह्रीविभङ्गम्
(कृष्णाह्निककौमुदी २.५७)



२.१५९:

अभ्यज्य रज्यदतिशुद्धहृदो वयस्या
आपादमूर्धकृतमर्दनं अङ्गं अस्याः
उद्वर्तनं विदधिरे घनसारपूर्णैः
कस्तूरिकाघुसृणचन्दनचारुचूर्णैः
(कृष्णाह्निककौमुदी २.५८)



२.१६०:
गन्धानुबन्धिविमलामलकीकषायैः
केशान्विघृष्य कतमा विविधैरुपायैः
भृङ्गारनालगलितैर्ललितैः कबन्धैर्
उक्षां चकार सहजप्रणयानुबन्धैः
(कृष्णाह्निककौमुदी २.५९)



२.१६१:

कालोचितेन घनसारसुवासितेन
नानामणीश्वरघटीघटया भृतेन
द्वाभ्यां शनैरुभयतः प्रतिपादितेन
द्वे पार्श्वयोः सिषिचतुः सुमुखीं जलेन
(कृष्णाह्निककौमुदी २.६०)



२.१६२:

संवेष्ट्य चारुचिकुरान्सिचयेन बाढं
निष्पीड्य भूरि गलदम्बु निगाल्य गाढम्
भूयः प्रसार्य चलदङ्गुलिभिर्विकीर्य
भूयो बबन्ध कतमा सिचयं वितीर्य
(कृष्णाह्निककौमुदी २.६१)



२.१६३:

काचिन्मुखेन्दुं अपरा गलमूलं अन्या
कर्णौ ममार्ज मृदुना वसनेन धन्या
वक्षो विसारि कतमा कतमा च पृष्ठं
बाहुद्वयं च कतमा सुषमावरिष्ठम्
(कृष्णाह्निककौमुदी २.६२)



२.१६४:

संवेष्ट्य शुष्कवसनेन निरासनीयं
श्रोण्या जहार विगलज्जलं अन्तरीयम्
आमृज्य पाणियुगलेन शनैरुदारम्
अर्द्धोरुकं कटितटे घटयां चकार
(कृष्णाह्निककौमुदी २.६३)



२.१६५:

आमृष्टयोर्वरपयोधरयोरलोलं
काचित्कलासु कुशलाथ बबन्ध चोलम्
प आंशुकेन रचितं स्वसखीजनेन
नानाविधातिशयशिल्पविशारदेन
(कृष्णाह्निककौमुदी २.६४)



२.१६६:

तस्योपरि प्रतनु शोणतरं सुवीचि
चण्डातकादुदयदुच्चलसन्मरीचि
श्रीपादपद्मनखचन्द्रचयाग्रचुम्बि
चेलं बबन्ध तपनीयगुणानुबन्धि
(कृष्णाह्निककौमुदी २.६५)



२.१६७:

लम्बप्रलम्बयुगलेन सुपट्टदाम्ना
मुक्तामणीन्द्रमहसा विलसद्गरिम्णा
आकुञ्चनक्रमवशात्कमलानुकारां
जग्रन्थ नीविं अभिनाभि सुशिल्पसाराम्
(कृष्णाह्निककौमुदी २.६६)



२.१६८:

कनकबिन्दुमती नवशा इका
घनरुचिस्तदुपर्यतिदिद्युते
यदभिवेष्टनं एव मुकुन्ददृङ्
निरनुरोधनरोधनं उच्यते
(कृष्णभावनामृतं ४.३५)



२.१६९:

आरोह्य तां अथ महामणिपीठपृष्ठे
विस्तारितातिमृदुचेलकृतप्रतिष्ठे
प्रक्षाल्य पादकमलद्वितयं सतोषाः
सख्यो व्यधुर्विविधमङ्गलवेषभूषाः
(कृष्णाह्निककौमुदी २.६७)



२.१७०:

भूयः प्रसार्य बहुशो बहुशः प्रसाध्य
रत्नप्रसाधनिकयाङ्गुलिभिर्विशोध्य
कालागुरुप्रभवधूपधुराप्रचारम्
आलीजनः कचभरं सुरभीचकार
(कृष्णाह्निककौमुदी २.६८)



२.१७१:

स्नानादृजुं सदलकालिं अरालयित्वा
कस्तूरिकाभिरलिके तिलकं लिखित्वा
सिन्दूरबिन्दुरुचिरेऽकृत बालपाश्यां
सीमन्तसीमनि मणीन्द्रमयूखरस्याम्
(कृष्णाह्निककौमुदी २.६९)



२.१७२:

कस्तूरीपत्रवल्लीसमुदयखचितं पार्श्वयोराकपोलं
भाले श्रीखण्डबिन्दूत्करवृतं अभितः कामयन्त्राभिधानम्
अन्तः कस्तूरिकोद्यन्मलयजशशभृल्लेखयाधश्चितं सा
चक्रे सीमन्तरेखान्वितं अथ तिलकं सान्द्रसिन्दूरपङ्कैः
(गोविन्दलीलामृतं २.७७)



२.१७३:

मौलौ बबन्ध कतमा सुमणिप्रवेकं
सन्मालतीकुसुमगर्भककान्तिसेकम्
धम्मिल्लं उल्लसितलोहितपट्टदाम्ना
लम्बप्रलम्बयुगलेन मणीन्द्रधाम्ना
(कृष्णाह्निककौमुदी २.७०)



२.१७४:

सूक्ष्मोर्ध्वरन्ध्रगतहेमशलाकिकाया
मूलाग्रसङ्गललिते विदधे सुकाया
श्रीचक्रिकाबकुलिके श्रुतिमध्यदेशे
रत्नप्रभाभरधुरा विहितोपदेशे
(कृष्णाह्निककौमुदी २.७१)



२.१७५:

मुक्ताकलापकलया ललितप्रकाश्यां
काचिद्व्यधादलकसीमनि पत्रपाश्याम्
काचिन्मणीन्द्रमयकुण्डलं अत्युदारम्
एकैकशः श्रुतियुगे घटयां चकार
(कृष्णाह्निककौमुदी २.७२)



२.१७६:

काचिद्विभूष्य नयने दलिताञ्जनेन
स्मारौ शराविव निघृष्टरसाञ्जनेन
नासापसव्यपु अके विततार मुक्तां
नेत्राञ्जनाधरविभाभरनीलरक्ताम्
(कृष्णाह्निककौमुदी २.७३)



२.१७७:

मकरिके लिखती मृदुगण्डयोर्
मकरकेतनं आह्वयदेव सा
यं अधरारुणपल्लवं अर्पयन्
रसमये समये हरिरर्चयेत्
(कृष्णभावनामृतं ४.६८)
(१७८)

रुचिरचिबुकमध्ये रत्नराजच्छलाका
कलितकरविशाखानिर्मितोऽस्याश्चकास्ति
नवमृगमदबिन्दुः शोभयन्श्रीमुखेन्दुं
भ्रमर इव दलाग्रे सन्निविष्टः सरोजम्
(गोविन्दलीलामृतं २.८३)



२.१७९:

कर्पूरागुरुकाश्मीर
पङ्कमिश्रितचन्दनैः
समालिप्य विशाखाऽस्याः
पृष्ठं बाहुकुचावुरः
(गोविन्दलीलामृतं २.७६)



२.१८०:

पुष्पगुच्छेन्दुलेखाब्ज
मकरीचूतपल्लवम्
लिलेख चित्रं कस्तूर्या
चित्रा तत्कुचयोस्तटे
(गोविन्दलीलामृतं २.७८)



२.१८१:

मीनीप्रसूननवपल्लवचन्द्रलेखा
व्याजात्स्वचिह्नशरकुन्तधनूंषि कामः
तद्भ्रूधनुर्धुवनमात्रनिरस्तकर्मा
मन्ये न्यधत्त निजतत्कुचकोषगेहे
(गोविन्दलीलामृतं २.७९)



२.१८२:
चित्रार्पितानेकविचित्ररत्न
मुक्ताचिता रक्तदुकूलचोली
कुचौ भजालेन्द्रधनुर्विचित्रा
तस्तार शैलाविव सान्ध्यकान्तिः
(गोविन्दलीलामृतं २.८०)



२.१८३१८४:

उपरि खचितनानारत्नजालैः स्फुरन्त
विमलपुर अपत्र्या कण्ठं अस्या विशाखा
हरिकरदरचिह्नश्रीहरं पुष्कराक्ष्याः
सपदि हरिभियेव छादयामास मध्ये

वज्राचिताखण्डलरत्नचित्र
सुस्थूलमध्यो गुणबद्धचञ्चुः
ललास तस्या उपकण्ठकूपं
दत्तस्तया हा अकचित्रहंसः
(गोविन्दलीलामृतं २.८६८७)



२.१८५:

सुवर्णगोलीयुगमध्यगोल्लसन्
मसारगोलीगिलितोऽन्तरान्तरा
सुसूक्ष्ममुक्तावलिगुम्फितस्तया
न्ययोजि हारो हृदि गोस्तनाभिधः
(गोविन्दलीलामृतं २.८८)



२.१८६:

मसारचन्द्रोपलपद्मराग
सुवर्णगोलीग्रथितान्तरालैः
मुक्ताप्रवालैः परिगुम्फितां सा
रत्नस्रजं तद्धृदये युयोज
(गोविन्दलीलामृतं २.८९)



२.१८७:

वैदूर्ययुग्माचितहेमधात्रिका
बीजाभगोलीगिलितोऽन्तरान्तरा
विचित्रमुक्तावलिचित्रगुच्छको
रराज तस्या हृदयेऽर्पितस्तया
(गोविन्दलीलामृतं २.९०)



२.१८८:

रासे निशीथे सहनृत्यगान
तुष्टेन दत्तां हरिणा स्वकण्ठात्
तस्यैव साक्षादिव राजलक्ष्मीं
गुञ्जावलीं तद्धृदि सा युयोज
(गोविन्दलीलामृतं २.९१)



२.१८९:

स्थूलतारावलीरम्या
सन्नायकविभूषिता
तस्या एकावलीज्योत्स्नी
हृदम्बरं अमण्डयत्
(गोविन्दलीलामृतं २.९२)



२.१९०:

कनकखचितवज्रैर्वेष्टितैः पद्मरागैश्
चितहरिमणिपूर्णाभ्यन्तरा शातक्ॐभी
प्रतनुपुर अराजच्छृङ्खलालम्बमाना
लसति हृदि विशाखायोजितास्याश्चतुष्की
(गोविन्दलीलामृतं २.९३)



२.१९१:

आलीजनैर्मण्डनकेलिकाले
विभूष्यमाणा वृषभानुपुत्री
उरोगते नीलमणीन्द्रहारे
स्विन्ना सकम्पा पुलकाकुलासीत्
(अलङ्कारकौस्तुभ ५.७३)



२.१९२:

पृष्ठान्तः क्रमलम्बमानं अमलं ग्रीवान्तहारावली
वी ईबन्धनपट्टसूत्रचमरीजालं तदास्या बभौ
मन्ये चारुनितम्बशैलक अकान्मूर्ध्नाधिरोहार्थकं
सोपानं विधिना कृतं करुणया वेणीभुजङ्ग्याः स्फुटम्
(गोविन्दलीलामृतं २.९४)



२.१९३:

मध्येप्रगण्डं अतुलाङ्गदमुन्मणीनि
मध्येप्रकोष्ठं अतुलानि च कङ्कणानि
तत्सीम्नि काप्यकृत मङ्गलपट्टसूत्रं
रत्नप्रकाशि मणिबन्धरुचातिचित्रम्
(कृष्णाह्निककौमुदी २.७५)



२.१९४:

मुक्तावलीखचितहा अककङ्कणाभ्यां
संवेष्टितः स वलयावलिसन्निवेशः
बिम्बैर्विधोर्मिलितभास्करमण्डलाभ्यां
तस्याश्चकास्ति नितरां इव सैंहिकेयः
(गोविन्दलीलामृतं २.९७)



२.१९५:

निजनामाङ्किता नाना
रत्नद्युतिकरम्बिता

बभावङ्गुलिमुद्रास्या
विपक्षमदमर्दनी
(गोविन्दलीलामृतं २.९९)



२.१९६:

तुन्दान्तिके मणिविनिर्मिततुन्दबन्धं
काञ्चीगुणं च तदधो मणिवृन्दबन्धम्
पादाङ्गुलीषु वररत्नमयोर्मिकालीम्
आगुल्फं आधृत सुहंसकयुग्मं आली
(कृष्णाह्निककौमुदी २.७७)



२.१९७:

नखशिखाङ्घ्रितलाद्युरुशोणिमाप्य्
अहह यावकरञ्जिततां अगात्
भवति किं दरदीपजरोचिषा
दिनकृतो न कृतो मनुजैर्महः
(कृष्णभावनामृतं ४.९६)



२.१९८:

अन्या काचिदाह
वृथाऽकृथा यावकं अङ्घ्रिपङ्कजे
स्व एव रागोऽस्य दृशां रसायनः ।
किन्त्वेक एवास्ति गुणोऽस्य राधिके
यः केशवस्यापि च केशरञ्जनः । ।
(अलङ्कारकौस्तुभ ५.६३)



२.१९९:

मञ्जीरयुग्मं अतिमञ्जुलरत्नसिद्धं
पादाम्बुजोपरि चकार च कापि बद्धम्
तत्तत्स्वशिल्पकुशलत्वनिदर्शनाय
काचिन्मणीन्द्रमुकुरं पुरतो निनाय
(कृष्णाह्निककौमुदी २.७८)



२.२००:

अस्या न्यधादुषसि नर्मदया स्वसख्या
मालाकृतस्तनुजयोपहृतं विशाखा
स्मेरारविन्दवदनाथ करारविन्दे
लीलारविन्दं अरविन्दविलोचनायाः
(गोविन्दलीलामृतं २.१०३)




२.२०१:

सा कृष्णनेत्रकुतुकोचितरूपवेशं
वर्ष्मावलोक्य मुकुरे प्रतिबिम्बितं स्वम्
कृष्णोपसत्तितरलास वराङ्गनानां
कान्तावलोकनफलो हि विशेषवेषः
(गोविन्दलीलामृतं २.१०५)



२.२०२:

मल्ललीलादिकं तस्य
तन्मध्ये सखिभिः सह
विलोक्यैव हिरण्याङ्गी
तां आयातावदद्द्रुतम्



२.२०३:

गोदोहनादथ विरम्य स रम्यलीलैः
सार्धं निजप्रियसखैः स्वसमानशीलैः
अभ्याययौ कुतुकमल्लविलासनित्या
भ्यासालयं मणिमयं सकलैकमत्या
(कृष्णाह्निककौमुदी २.२०)



२.२०४:


प्रत्येकं एव सखिभिः सवयोभिरेतैर्
मल्लक्रियां अथ भुजाभुजि वीतभीतैः
स्वस्वौजसः प्रकटनेन सरोषदर्पैश्
चक्रेऽपसर्पपरिसर्पविसर्पसर्पैः
(कृष्णाह्निककौमुदी २.२१)



२.२०५:

विश्रम्य किञ्चिदथ सञ्चितपुण्यवृन्दैस्
तैरेव कैश्चन महागुणवृक्षकन्दैः
अभ्यञ्जनार्थं अनुरञ्जनमञ्जुहासैर्
अभ्यङ्गमङ्गलगृहं प्रविवेश दासैः
(कृष्णाह्निककौमुदी २.२२)



२.२०६:

नानाप्रबन्धबहुबन्धविधौ विदग्धैर्
अभ्यङ्गमङ्गलविशेषकलासु मुग्धैः
तैलेन साधु शुभगन्धसुबान्धवेन
प्रारम्भि यत्तदुररीकृतं अप्यनेन
(कृष्णाह्निककौमुदी २.२३)



२.२०७:

आपादमस्तकं अनस्तसमस्तभाग्यैस्
तैलेन तैः प्रियसमाजसभाजयोग्यैः
नातिश्लथं च न दृढं च सुमङ्गलानि
प्रीत्या चिरं ममृदिरेऽथ तदङ्गकानि
(कृष्णाह्निककौमुदी २.२४)



२.२०८:

ते कौङ्कुमेन रजसा घनसारचूर्णैः
पूर्णेन चारुमृदुना परिपेषशीर्णैः
विम्लानभावं अथ तैलकृतं हरन्तः
कृष्णस्य तानवयवानुदवर्तयन्त
(कृष्णाह्निककौमुदी २.२५)



२.२०९:

केनोचितेन घनसारसुवासितेन
नानाविधस्फटिकहेमघटीभृतेन!
केशान्कषायकषितान्कलयन्कुमार
दासीगणोऽम्बुजदृशं स्नापयां चकार
(कृष्णाह्निककौमुदी २.२६)



२.२१०:

काचित्कषायितकचान्बहुशः कषन्ती
काचिन्मृदूनवयवान्मृदु मार्जयन्ती
भृङ्गारकेण कतमा सलिलं किरन्ती
लेभेतरां अतितरां अनुरागकान्ती
(कृष्णाह्निककौमुदी २.२७)



२.२११:

ज्योत्स्नाभिर्नवनीरदः किं अथवा शुक्लेन नीलो गुणः
शुद्धस्फटिकरत्नकान्तिसलिलैः किं वेन्द्रनीलाङ्कुरः
मुक्ताभिः किं उ वा तमालतरुणः स्नातः समुद्भ्राजते
किं वा श्यामसरोजं उज्ज्वलविधुक्षोदैर्मुरारेर्वपुः



२.२१२:

एवं समाप्य कतमे स्नपनं शुभेन
शङ्खोदकेन शिरसि प्रतिपादितेन
अङ्गोञ्छनांशुकं अनेकं अथोपनीय
संमार्जनं विदधुरस्य भृशं विनीय
(कृष्णाह्निककौमुदी २.२८)



२.२१३:

आदौ सुचेलशकलैर्मृदुलैरशुष्कैः
पश्चात्क्रमेण ममृजुः सितसूक्ष्मशुष्कैः
आपादकुन्तलभरं प्रतिसन्धिसन्धि
ते मार्जनं विदधिरे प्रणयानुबन्धि
(कृष्णाह्निककौमुदी २.२९)



२.२१४:

कश्चित्कचान्गतजलान्द्विविधेन वासः
खण्डेन साधु विदधे मृदुमन्दहासः
कश्चित्पटुः कटित आद्गलदम्बुचेलं
चेलान्तरेण विनिनाय कृतावहेलम्
(कृष्णाह्निककौमुदी २.३०)



२.२१५:
केनापि नूतनं अतित्वरयोपनीतं
कौषेयचेलयुगलं द्रुतहेमपीतम्
केनापि पाणिकमले क्रमतः प्रदत्तम्
उत्सार्य पूर्वपटं आशु स पर्यधत्त
(कृष्णाह्निककौमुदी २.३१)



२.२१६:

तस्यास्थितस्य रमणीयमणीचतुष्कं
प्रक्षालिताङ्घ्रिकमलस्य लसद्वपुष्कम्
पश्चाद्गतेन कतमेन कुमारभृत्ये
नासेवि कुन्तलभरः कुशलेन कृत्ये
(कृष्णाह्निककौमुदी २.३२)



२.२१७:

भूयः प्रसार्य परिमृज्य मुहुः प्रसाध्य
रत्नप्रसाधनिकया बहुशो विशोध्य
आवृत्य चेलशकलेन सता द्विफाल
बद्धः स कुन्तलभरः प्रभया पफाल
(कृष्णाह्निककौमुदी २.३३)



२.२१८:

अन्योन्यपालनकृता कचमेचकिम्ना
सूक्ष्मातिसूक्ष्मवसनस्य च पाण्डरिम्णा
निर्मोकमोकपरभोगिनिभोऽस्य केश
विन्यास एष न हि कस्य दृशोर्विवेश
(कृष्णाह्निककौमुदी २.३४)



२.२१९:

स्नानादृजून्सदलकानथ कुञ्चयित्वा
चारुस्वभावकु इलानपि रञ्जयित्वा
भाले लिलेख तिलकं शशिमण्डलाभं
श्रीखण्डकुङ्कुमरसेन सुजातशोभम्
(कृष्णाह्निककौमुदी २.३५)



२.२२०:

गारुत्मतेन्द्रमणिहीरकपद्मराग
प्रद्योतनं विधुरयन्त्यं इवाप्यनागः
अन्यप्रभावरणकारिमयूखसान्द्रं
श्रीकौस्तुभाभिधं अधत्त महामणीन्द्रम्
(कृष्णाह्निककौमुदी २.३६)



२.२२१:

स्थूलेन मौक्तिकफलप्रकरेण क्प्तान्
हारान्दधार गिरगोचरतां अवाप्तान्
कञ्चिद्विशालतरवक्षसि नाभिकूले
कञ्चित्प्रलम्बं अथ कञ्चन जानुमूले
(कृष्णाह्निककौमुदी २.३७)



२.२२२:

श्रीकुण्डले मणिमये मकरानुकारे
कान्तिप्रभाकृतकपोलमहःप्रचारे
श्रीकर्णयोरुपनिनाय जलोपरुद्धे
स्नानोत्सवेन विरहय्य स पूर्वसिद्धे
(कृष्णाह्निककौमुदी २.३८)



२.२२३:

सत्पट्टसूत्रकृतमञ्जुतरप्रलम्बौ

सद्रत्नपट्टमयमङ्गलसूत्रचुम्बौ
गारुत्मतादिनवरत्नजबाहुबन्धौ
कश्चिद्बबन्ध वलयौ मणिबन्धसन्धौ
(कृष्णाह्निककौमुदी २.३९)



२.२२४:

दिव्याङ्गुलीयकं उदारं अनामिकायां
तत्पद्मरागमहसां परिणामिकायाम्
पृष्ठोपसन्नमणिमुद्रं अवर्जनीयं
दत्ते स्म कश्चिदधितर्जनि रञ्जनीयम्
(कृष्णाह्निककौमुदी २.४०)



२.२२५:

नानामणीन्द्रघटया घटितानुबन्धं
पीतांशुकोदरत ईं अनु तुन्दबन्धम्
माणिक्यकिङ्किणिगुणं च क ईरमूले
कश्चिद्बबन्ध परिधत्तलसद्दुकूले
(कृष्णाह्निककौमुदी २.४१)



२.२२६:

पादाम्बुजोपरि मणीन्द्रघटानुक्प्तं
मञ्जीरयुग्मकं अथो नखचन्द्रदीप्तम्
आधाय कोऽपि मणिदर्पणं अत्युदारम्
आस्येन्दुबिम्बं अधि सस्पृहं आदधार
(कृष्णाह्निककौमुदी २.४२)



२.२२७:

अत्रान्तरे व्रजपुरन्दरसन्निदेशम्
आदाय कश्चन तदस्य गृहं विवेश
ऊचे च कृष्ण! जनकस्य गिरा बहुभ्यस्
त्वं दातुं अर्हसि गवां अयुतं द्विजेभ्यः
(कृष्णाह्निककौमुदी २.४३)



२.२२८:

श्रुत्वा पितुर्गिरं असौ चिकुरं निबध्य
पीतोत्तरीयं अपि सम्यगथो विशोध्य
आचम्य रम्यवदनो गुणरत्नसानू
रामानुजः सीवमनसा विततार धेनूः
(कृष्णाह्निककौमुदी २.४४)



२.२२९:

गोष्ठेश्वरीप्सिततमो रसवत्प्रपाकः
सम्पादितो भवति यावदनेकपाकः
तावन्न सोढुं अभिशक्तवती विलम्बं
सा प्राहिणोत्किं अपि भोक्तुं अथाविलम्बम्
(कृष्णाह्निककौमुदी २.४५)



२.२३०:

हैयङ्गवीनदधिदुग्धसरादिभक्ष्यम्
एतत्समेतघनसाररजोऽभिभक्ष्य
आचम्य च प्रियसखांसकृतावलम्बस्
ताम्बूलमाद मधुराननचन्द्रबिम्बः
(कृष्णाह्निककौमुदी २.४६)




२.२३१:

निशम्येमां वार्त्तां प्रमुदितवती सीधुसदृशीं
स्वयं पक्त्वा यन्नो तदशनं असौ कारितवती
विषण्णा बाष्पाणां हिममिहिकाबिन्दुनिकरं
मुमोचेवाक्षिभ्यां जलजयुगतः शीकरकणम्



२.२३२:

अत्रान्तरे व्रजपुराधिपयाऽनपाय
वात्सल्यकल्पलतयाऽतिरयान्निर्दिष्टा
आगत्य कुन्दलतिकान्तिं एतदक्षि
भृङ्गप्रमोदकृतये कृतिनी व्यराजीत्
(कृष्णभावनामृतं ४.१०९)



२.२३३:

अन्योन्यदर्शनसमुद्गमनस्मिताढ्य
शस्तानुयोगरभसोन्नतिसीधुवृष्टिः
सद्यो बभूव यत एव तदा तदालि
वृन्दं ननन्द समसौहृदहृद्यरोचिः
(कृष्णभावनामृतं ४.११०)
                                                            
(२३४)

व्रजपुरपरमेश्वरीप्रसादं
मयि सखि! व्यक्ति तवोदयो ह्यकस्मात्
न शिशिररुचिना विनैव पूर्वां
दिशं अधि रात्रि समेति कापि लक्ष्मीः
(कृष्णभावनामृतं ५.१)



२.२३५:

तदहं अनुमिमे निदेशदम्भात्
किं अपि कृपामृतं एव सा व्यतारीत्
यदिदं अनुपलभ्य यन्ममात्मा
स्वं अपि सखेदं अवैत्यनात्मनीनम्
(कृष्णभावनामृतं ५.२)



२.२३६:

अजनि रसवतीविधापनार्था
रसवति! ते गतिरित्यवैमि नूनम्
अथ किं इतरथा जवादयासीः
प्रथमतोऽनुनयन्त्यमूं मदार्याम्
(कृष्णभावनामृतं ५.३)



२.२३७:

इति सुदृगुदितामृतं पिबन्ती
स्मितसुभगं निजगाद कुन्दवल्ली
तदयि सखि! विधेहि तत्र यात्राम्
अकृतविलम्बं इतः सहालिवृन्दा
(कृष्णभावनामृतं ५.४)



२.२३८:

किं इह गुरुजनावलेरनुज्ञा
ग्रहणविधावणुमात्रं अस्ति कष्टम्
यदतुलधनधेनुधान्यवर्षैर्
अकृत वशां स्वयं एव तां व्रजेशा
(कृष्णभावनामृतं ५.५)



२.२३९:

निरुपधिपरमप्रियोऽसुकोटेर्
अपि निखिलस्य जनस्य गोष्ठभाजः
व्रजपतितनयः समीहते यत्
परं इह विप्रतिपत्तिरस्ति कस्य
(कृष्णभावनामृतं ५.६)



२.२४०:

सखि! किं अपि न वेद तत्सवित्री
तदतुलरोचकवस्तु संजिघृक्षुः
उचितं अनुचितं स्वलाभहानी
निजपरभावभिदा यशोऽयशो वा
(कृष्णभावनामृतं ५.७)



२.२४१:

पचसि यदपि यश्च तस्य भोक्ता
स च तिरयत्यमृतं सदैव दिव्यम्
इति निखिलपुरेष्वतिप्रसिद्धिस्
तव सखि! कं न चमत्करोति बाढम्
(कृष्णभावनामृतं ५.८)



२.२४२:

यदवधि कलयां बभूव सा त्वां
मुनिवरदत्तवरां वराम्बुजाक्षि!
तदवधि तव पाणिसंस्कृतान्ना
शनविरतिं क्वचनाह्नि नास्य चक्रे
(कृष्णभावनामृतं ५.९)
(२४३)

जयति यदतिघोरदैत्ययूथं
मृदुलतनुः स्वपराबुभूषुं एषः
त्वदमलकरपक्वभक्तभुक्तेर्
अपरं इयं मनुते न हेतुं अत्र
(कृष्णभावनामृतं ५.१०)



२.२४४:

शृणु परमयि तत्त्वं अत्र राधे
यदवगतं सहसान्तरं मयास्याः
प्रतिदिनं अवलोकनं विना ते
शशिमुखि! खिद्यति सा यथा स्वसूनोः
(कृष्णभावनामृतं ५.११)




२.२४५:

सुतनुरभिदधेऽवधेहि विज्ञे
सखि! तदिदं न वदस्ययुक्तं इत्थम्
अपि तु कुलवतीति वादभाजां
स्फुटं अपराङ्गनगामितेत्ययुक्तम्
(कृष्णभावनामृतं ५.१२)



२.२४६:

यदपि बत सखीयं रीतिरेवेह लोके
तदपि तव वचो नो लङ्घनीयं कदापि
अनुनय प्रथमं तां किन्तु युक्त्या हि वृद्धां
परिवदति तु या मां आशु लब्ध्वापि रायम्



२.२४७:

ततः सासाद्य जटिलां
स्नुषायां कु इलां अपि
श्रावयामास सन्देशं
व्रजेश्वर्या विचक्षणा
(गोविन्दलीलामृतं ३.१८)
                                                            
(२४८२४९)

आकर्ण्य साज्ञां व्रजराजराज्ञ्याः
कृष्णात्स्नुषायां अपि शङ्कमाना
विचिन्त्य शिक्षां अथ पौर्णमास्यास्
तां कुन्दवल्लीं प्रणयादवादीत्

स्नुषेयं मे साध्वी गुणगरिममाध्वीकमधुरा
जनश्छिद्रान्वेषी स खलु चपलो नन्दतनयः
न चाज्ञावज्ञेया व्रजपतिगृहिण्या भगवती
वचः पाल्यं वत्से! न अति हृदयं किं नु करवै!
(गोविन्दलीलामृतं ३.१९२०)



२.२५०:

मातः! सत्यं वदति भवती किंच गोपेन्द्रसूनुर्
नायं ज्ञेयः खलसमुदयैर्यादृशः श्रावितोऽस्ति
किन्तु प्रोद्यद्द्युमणिरिव सद्धर्मपद्मे खलाली
घूके चायं वृजिनतिमिरे घोषसन्तोषकोके
(गोविन्दलीलामृतं ३.२१)



२.२५१:

माधुर्यं तून्मदयति जगद्यौवतं तस्य तस्माद्
भीतिर्नीतिस्तव नववधूपालनं चापि युक्तम्
माशङ्किष्ठास्तदयति यथा दृक्पथं नास्य साध्व्याश्
छायाप्यस्याः स्वयं अहं इमां द्राक्तथा तेऽर्पयामि
(गोविन्दलीलामृतं ३.२२)



२.२५२:

त्वं पुत्रि! साध्वी प्रथितासि गोष्ठे
त्वय्यर्पितेयं सरला वधूस्तत्
स लोलदृष्टिः किल नन्दसूनुर्
नैनां यथा पश्यति तद्विधेयम्
(गोविन्दलीलामृतं ३.२३)



२.२५३:

वधूं अथाहूय जगाद वत्से
व्रजालयान्नन्दवधूसमीपम्
निष्पाद्य तस्याः प्रियं एहि तूर्णं
सहानयैवाद्य रविस्त्वयार्च्यः
(गोविन्दलीलामृतं ३.२४)



२.२५४:

राधेति दिष्टा हृदि साभिनन्दिता
प्यनिच्छुवद्गन्तुं उवाच तां सखीम्
अस्तीह कृत्यं न च मे यियासुता
गृहं गृहं नेङ्गति यत्कुलाङ्गना
(गोविन्दलीलामृतं ३.२५)



२.२५५:

व्रजपतिगृहिणीगिरं चिराभ्यर्
थनविनयानुनयानुबद्धमूलाम्
कति निरसितुं अत्र शक्नुमस्तत्
तव भगवान्हरिरेव रक्षितास्तु!
(कृष्णभावनामृतं ५.२१)



२.२५६:

अवति जगदिदं स्वधर्मपालीः
किं इह सतीः स जहाति लोकनाथः?
इति किल भवतीं तदीयपाणौ
सुमुखि! समर्प्य निराकुला भवेयम्
(कृष्णभावनामृतं ५.२२)



२.२५७:

इति गुरुजरतीगिरा समुद्यत्
स्मितलवसंवृतिपेशलाः सखीः स्वाः
विकसदसितनेत्रकोणभङ्ग्या
किं अपि निगद्य बभूव सापि तूष्णीम्
(कृष्णभावनामृतं ५.२३)



२.२५८:

कृताग्रहोच्चैः पुनरार्ययासौ
कौन्द्या बभाषे कृतहस्तकर्षम्
भीतासि किं साध्व्यहं अस्म्यवित्री
त्युच्चालिता फुल्लतनुः प्रतस्थे
(गोविन्दलीलामृतं ३.२६)


२.२५९:

कृष्णस्य प्रातराशाय
संस्कृतं लड्डुकादिकम्
आदाय ललितामुख्याः
सख्योऽप्यनुययुः सखीम्
(गोविन्दलीलामृतं ३.२७)



२.२६०:

अथ निजभवनाद्विनिर्यती सा
तनुवसनाभरणच्छविच्छटाभिः
व्यधित मणिविचित्रशातक्ॐभीं
पुरविशिखां सुरभीकृताखिलाशा
(कृष्णभावनामृतं ५.२५)



२.२६१:

जननिवहगतागतिप्रवृत्तौ
दरविमुखी सरणेः श्रितैकपार्श्वा
अवनतदृगवाचकास्यपद्मो
परि परिगुण्ठनमाधुरी प्रपेदे
(कृष्णभावनामृतं ५.२६)



२.२६२:

वीक्ष्याध्वनि परानन्द
चलद्वक्षःप आञ्चलाम्
सवयस्यां कुन्दवल्ली
प्रेम्णा परिजहास ताम्
(गोविन्दलीलामृतं ३.२८)



२.२६३:

मूल्यानीतोपसर्यास्त्रिचतुरदिवसान्प्रोष्य सन्ध्यागतस्ते
भर्ता गोभिः स्वगोष्ठे घटयितुं अखिलां रात्रिं एव न्यवात्सीत्
वक्षः प्रोद्यन्नखाङ्कावलिचितं अधरः स्पष्टदन्तक्षतो यत्
तत्साध्व्यास्ते सतीत्वं समुचितं अधुना व्यक्तं उल्लालसीति
(गोविन्दलीलामृतं ३.२९)



२.२६४२६५:

अन्तर्गूढस्मितोत्फुल्ल
किञ्चित्कुञ्चितलोचनाम्
स्वसखीं ललितालोक्य
कुन्दवल्लीं अथाब्रवीत्

करकफलधियास्याः कानने धृष्टकीरः
स्तनं अनुविनिविष्टः पक्वबिम्बभ्रमेण
अदशदधरं उच्चैस्तन्नखाचो इतं तद्
धृदयं इदं अमुष्याः किं वृथा शङ्कसे त्वं
(गोविन्दलीलामृतं ३.३०३१)



२.२६६२६७:

सखीवचःस्मारितकृष्णसङ्ग
लीलोच्छलत्कम्पतरङ्गिताङ्गीम्
तां वीक्ष्य पद्माकरं ईक्षमाणा
जगौ पुनः कुन्दलता सहासम्

आनन्दकम्पोत्तरलासि मुग्धे!
किं भो वृथा पद्मिनि! कुन्दवल्ल्याः
न देवरस्त्वां मधुसूदनोऽसौ
भ्राम्यन्पुनः पास्यति भुक्तमुक्ताम्
(गोविन्दलीलामृतं ३.३२३३)



२.२६८२६९:

कर्णशर्मदसन्नर्म
भर्मकुण्डलनिर्मितौ
कर्म हां कुन्दवल्लीं तां
विशाखाह विचक्षणा

स्वेनेऽनुरागं परं उद्वहन्ती
फुल्लापि मृद्वी भ्रमरात्सुलोलात्
सत्पद्मिनीयं सखि कुन्दवल्ली
भृङ्गानुजाद्भीतरला चकम्पे
(गोविन्दलीलामृतं ३.३४३५)



२.२७०:

अथानन्तरम्
क्वचन च पथि निर्जने कदाचित्
स्फुटं इतरेतरवाग्विलासरङ्गैः
यदि चलति तदा कुतः क्व यामी
त्यपि न हि वेदनगोचरीकरोति
(कृष्णभावनामृतं ५.२७)



२.२७१:

कृष्णानुरागेण विहस्तचित्ताम्
आनन्दराशिं जनयन्तं एव
सन्दर्शयामास पथि व्रजन्तीं
नन्दीश्वरं तां किल तुङ्गविद्या
(Sअङ्ग्रहकर्तुः)



२.२७२२७३:

रसालपनसार्जुनक्रमुकनारिकेलासनैः
पलाशव अपर्क ईखदिरबिल्वजम्ब्वादिभिः
मधूकगिरिमल्लिकाबकुलनागपुन्नागकैर्
अशोकबकपा अलीकनकचम्पकैश्चम्पकैः

तमालनवमालिकाकनकयूथिकायूथिका
कुरणकलवङ्गिकादमनकातिमुक्तादिभिः
अपि स्थलसरोजिनीविचकिलादिभिः कन्दली
प्रियङ्गुतुलसीमुखैरपि विचित्रवीरुद्गणैः
(आनन्दवृन्दावनचम्पूः १.१११, ११३)



२.२७४:

सितासितविलोहितोत्पलसरोजकह्लारकै
रथाङ्गबकसारसैः कुररहंसकारण्डवैः
विराजिततरङ्गकैर्विमलवारिभिर्वापिका
तडागसरसीमुखैः परिवृतानि तोयाशयैः
(आनन्दवृन्दावनचम्पूः १.११४)



२.२७५:

हम्बारवैरिह गवां अपि बल्लवानां
कोलाहलैर्विविधवन्दिकलावतां तैः
सम्भ्राजते प्रियतया व्रजराजसूनोर्
गोवर्धनादपि गुरुर्व्रजवन्दिताद्यः
(Vइलापकुसुमाञ्जलिः ६०)



२.२७६:

सखि! निजपुरतो विदूरं आगा
व्रजपतिसद्म समीपवर्ति वृत्तम्
तदयि नयनचातकाभिलाषः
फलति तवाश्विति सम्प्रति प्रतीहि
(कृष्णभावनामृतं ५.२८)



२.२७७२७८:

इति निगदितमात्रतः स्वसख्या
सपदि सवेपथुजाड्यविप्लुताङ्गीम्
प्रसभं अभिदधार चेतयन्ती
किं अपि जगाद च तां तदैव कौन्दी

सुमुखि! किं अधुनैव विक्लवाभूर्
नयनपथामिलितेऽपि कृष्णचन्द्रे
अवगमं अखिलं सतीत्वं आप्तं
तव सवयः सद एव यत्प्रमाणं
(कृष्णभावनामृतं ५.२९३०)



२.२७९:

धृतिं इह हृदि धर्तुं ईशिषे नो
यदपि तदप्यबले! क्षणं दधीथाः
गिरियुगभरधारणाय यत्ते
गिरिधर एव मयाद्य योजनीयः
(कृष्णभावनामृतं ५.३१)



२.२८०:

गिरिधरदिश एव शङ्कया या
जनि विधुराद्य सखी महासतीयम्
परिवदसि बलादिमां अविज्ञे!
तदपि नियोक्ष्यसि हा पुनस्तं अस्याम्
(कृष्णभावनामृतं ५.३२)



२.२८१:

त्वयि मुहुरियं अर्पितार्यया यत्
तदुचितं एव विधित्ससेऽद्य भद्रम्
स्वं इव सखि! परं जनं न विद्धी
त्युदितवती ललिता पुनस्तयोचे
(कृष्णभावनामृतं ५.३३)



२.२८२:

अलं अलं अनया गिराविदूरे
कलय पुरः पुरतोरणोपकण्ठे
स्फटिकघटितरत्नचित्रितास्था
न्यभिनवकुट्टिमगं हृदेककाम्यम्
(कृष्णभावनामृतं ५.३४)



२.२८३:

सरसं उषसि दुग्धनैचिकीकः
सहसवयाः कृतमल्लरङ्गकेलिः
अवगतभवदालियानवार्त्ता
क्षुभितहृदागत एष भाति पश्य
(कृष्णभावनामृतं ५.३५)



२.२८४:

व्रजपुरललनाकुलोन्मदिष्णु
करणपटुच्छविमण्डलोपगूढः
मधुरिमधुरयैव किं त्रिभङ्गी
कृततनुरुच्चलदाममादितालीः
(कृष्णभावनामृतं ५.३६)



२.२८५:

श्रितमृदुतरगण्डकुण्डलाध्या
पनपरताण्डवपण्डिताक्षियुग्मः
पवनधुतपटाङ्गगौरनील
द्युतिलहरीस्तिमितीकृताखिलाशः
(कृष्णभावनामृतं ५.३७)



२.२८६:

प्रियसखभुजशीर्ष्णि राजदुद्यत्
करिकरनिन्दकधामवामबाहुः
निजरुचिविजिताब्जघूर्णनैक
व्यसनवशेतरपाणिरेष ईष्टे
(कृष्णभावनामृतं ५.३८)



२.२८७:

इति गिरं अथ रूपमाधुरीं तां
यदि चषकीकृतकर्णनेत्रयुग्मा!
अपिवददरमोहतस्तदा तत्
प्रसृमरसौरभं आश्वबोधयत्ताम्
(कृष्णभावनामृतं ५.३९)



२.२८८:

पुलकनिवहकम्पसम्पदश्रु
स्रुतिकलिलापि धृतिं दधत्यवादीत्
सखि! किं अपरं अस्ति वर्त्म पादौ
न मम पुरश्चलतोऽस्य किं करोमि
(कृष्णभावनामृतं ५.४०)



२.२८९:

गुरुपरवशतैव दोषदूरी
करणपटुस्तव किं भिया ह्रिया वा
सपदि सवयसेति बोध्यमाना
लघु लघु गन्तुं इयेष सा तदग्रे
(कृष्णभावनामृतं ५.४१)



२.२९०:

किं इदं इति परस्परावलोको
च्छलितमहामधुरिम्णि यत्तयोस्ताः
स्वं अतुलतरसि न्यमज्जयन्ना
लय इति वर्णयितुं न गीरपीष्टे
(कृष्णभावनामृतं ५.४२)



२.२९१:

अघदमनचकोरचन्द्रिकास्ताः
शशिवदनापि पपौ मुहुः पिपासुः
गिरिधरमुदिरोपरीह चात
क्यतनुरसं प्रववर्ष सेति चित्रम्
(कृष्णभावनामृतं ५.४३)



२.२९२:

अथ निजनिज मूर्ध्नि सव्यहस्तोन्
नमनकलाकलितावगुण्ठनास्ताः
अवनतनयनाञ्चलीविलीढ
प्रियचरणाब्जसुधा ययुस्तदग्रात्
(कृष्णभावनामृतं ५.४४)



२.२९३:

हरिरपि परिवृत्य तन्नितम्ब
द्युतिनिहितेक्षणपङ्कजोऽवतस्थे
वरतनुततिरप्यतीत्य तद्गो
पुरं अवगुण्ठनं ईषदस्यति स्म
(कृष्णभावनामृतं ५.४५)



२.२९४२९५:

सखि! भवदवलोकजातहर्षं
सपदि स चम्पकमालया बटुस्तम्
सुखिनं अकृत यत्तदिङ्गितज्ञा
भवसि न वेत्युदिताह सा स्वसख्या

त्वं असि खलु यथा तथान्वमासीर्
निजदृशीर्यतसे परा विधित्सुः
इति दरविकसत्स्मिता भ्रमद्भ्रूस्
त्वरितं अवाप महापुरान्तरं सा
(कृष्णभावनामृतं ५.४६४७)



२.२९६:

स्फटिकघटितकुड्यं ईड्यभर्मोज्
ज्वलप अलं पविकीलकं कवा अम्
मणिमयललनाधृतप्रदीप
व्रततिनगद्विजराजिराजितद्वाः
(कृष्णभावनामृतं ५.४८)



२.२९७:

द्युमणिकिरणदीप्तरत्नकुम्भ
ध्वजन अकेकिवृताग्रपौर आ अम्
सुरवरपुरनिन्दि यत्र शंदं
विलसति मन्दिरवृन्दं इन्दिराढ्यं
(कृष्णभावनामृतं ५.४९)
                                                            
(२९८)

मसारप्राचीरं मरकतगृहं हेमप अलं
प्रवालस्तम्भालिस्फटिकवृतिवैदूर्यवडभिः
महानीलेन्द्रा अं विमलकुरुविन्दोपलमहा
प्रतीहारं नानाकृति जितविमानावलिपुरम्
(आनन्दवृन्दावनचम्पूः १.१५२)



२.२९९:

कुड्ये यस्य मणिप्रवेकरचिते शिल्पक्रियाकल्पितैः
प्रत्यासज्य शुकैः समं गृहशुकेष्वासादितस्थेमसु
सप्राणाः किं अमी इमे किं अथ वेत्युन्मीलतः संशयाद्
दातुं दाडिमबीजकानि सुचिरं मुह्यन्ति मुग्धाङ्गनाः
(आनन्दवृन्दावनचम्पूः १.१५३)



२.३००:

मुख्यप्रकोष्ठे चतुरालयेऽस्या
भाण्डारगेहं वरुणस्य दिश्यम्
श्रीकृष्णवासः शुभदक्षिणस्थः
श्रीरामधामोत्तरदिश्युदेति
(Vरजरीतिचिन्तामणिः २.१९)



२.३०१:

प्राच्यां गृहं तादृशं एव यत्र
प्राच्यां स यस्यान्यतरप्रकोष्ठे
स्वपुत्रभद्राय निजेष्टदेवं
नारायणं सेवते एव नन्दः
(Vरजरीतिचिन्तामणिः २.२०)



२.३०२:

कोषालयस्यान्वितदक्षिणांशे
कृष्णस्य धाम्नः शुभपश्चिमेऽस्ति
या पाकशालाद्वयमध्य एव
विश्रामधामानुरु राधिकायाः
(Vरजरीतिचिन्तामणिः २.२१)



२.३०३:

कृष्णस्य धाम्नोऽन्वित दक्षिणांशे
पाकालयस्यापि विराजमानः
आराम आस्ते सरसी च यत्र
रहो मनोज्ञं बहुगेहवेदि
(Vरजरीतिचिन्तामणिः २.२२)



२.३०४:

अथ समुपसेदुषीं सखीभिर्हरि
जननी निजवेश्म भासयन्तीम्
अमनुत भुवनत्रयैकलक्ष्मीम्
उदितवतीं मुदिताऽर्कमित्रपुत्रीम्
(कृष्णभावनामृतं ५.५२)



२.३०५:

तत्रागतां चरणयोः प्रणतां स्वदोर्भ्याम्
उत्थाप्य तां हृदि निधाय मुकुन्दमाता
आघ्राय मूर्ध्नि मुदिता जननी परार्धा
स्निग्धा चुचुम्ब मुखं अश्रुमुखी ततोऽस्याः
(गोविन्दलीलामृतं ३.३७)



२.३०६:

प्रत्येकं आलिङ्ग्य च तद्वयस्याः
पप्रच्छ साऽव्याहतभव्यं अस्याः
व्यग्रा सुतस्याशनसाधने द्राक्
सस्नेहं एताः पुनरावभाषे
(गोविन्दलीलामृतं ३.३८)



२.३०७:

न सुतासि कीर्तिदायाः
किन्तु ममैवेति तथ्यं आख्यामि
प्राणिमि वीक्ष्य मुखं ते
कृष्णस्येवेति किं त्रपसे?
(ऊज्ज्वलनीलमणिः ४.४५)



२.३०८:

मधुरमृदुलमोदकादि किञ्चित्
समं उपवेश्य सखीजनैर्बलात्ताम्
द्रुतहृदया धनिष्ठयाशयित्वा
भृशं उपलाल्य निनाय पाकशालाम्
(कृष्णभावनामृतं ५.५५)



२.३०९:

विविधमधुरभक्ष्योत्पादने लब्धवर्णा
व्रजभुवि किल यूयं विश्रुता मिष्टहस्ताः
तदिह कुरुत पुत्र्यः! साधु भक्ष्याणि यत्नाद्
दररुचिरपि वत्सः सस्पृहं मे यथात्ति
(गोविन्दलीलामृतं ३.३९)



२.३१०:

उपलावणिकं त्वेकाः
काश्चित्कुरुत दाधिकम्
सार्पिष्कं अपरा यूयं
वत्साः शार्करिकं पराः
(गोविन्दलीलामृतं ३.४०)



२.३११:

सरसरसवतीसत्प्रक्रियापण्डितासि
त्वं इह रसवतीं मे याहि राधे! प्रयत्नात्
जननि! बलजनन्याधिष्ठितां मिष्टं अन्नं
रचय सह तयैव व्यञ्जनान्युत्तमानि
(गोविन्दलीलामृतं ३.४१)



२.३१२:

व अकं अमृतकेलिं साधयातिप्रयत्नात्
सरसमसृणं अन्यं पुत्रि! कर्पूरकेलिम्
मधुरं अमृतकोटेर्यत्र कृष्णः सतृष्णस्
त्रिजगति न हि कश्चित्त्वां ऋते यस्य वेत्ता
(गोविन्दलीलामृतं ३.४२)



२.३१३:

यस्यां उच्चैर्लालसाढ्यः सुतो मे
तां पीयूषग्रन्थिपालीं च कृत्वा
कर्पूरैलाद्यन्वितपानके त्वं
यत्नाद्वत्से! धेहि पञ्चामृताख्ये
(गोविन्दलीलामृतं ३.४३)



२.३१४:

त्वं विधेहि ललितेऽम्ब! रसालां
त्वं च षाडवं इहाशु विशाखे!
त्वं च भोः शिखरिणीं शशिलेखे
पुत्रि चम्पकलते! मथितं त्वम्
(गोविन्दलीलामृतं ३.४४)



२.३१५:

आमिक्षां त्वं पुत्रि! संसाध्य तस्यास्

तत्तद्द्रव्यैर्योगपाकप्रभेदैः
तत्तद्भेदान्तुङ्गविद्ये! विधेहि
त्वं मत्स्यण्डीपानकान्यम्ब! चित्रे!
(गोविन्दलीलामृतं ३.४५)



२.३१६:

त्वं खण्डमण्डानि च रङ्गदेवि!
त्वं क्षीरसारान्विविधान्सुदेवि!
वासन्ति! शुभ्रा मृदुफेनिकास्त्वं
त्वं मङ्गले! कुण्डलिकां विधेहि
(गोविन्दलीलामृतं ३.४६)



२.३१७:

कादम्बरि! त्वं कुरु चन्द्रकान्तीस्
त्वं लासिके! तण्डुलचूर्णपिण्डीः
त्वं शष्कुलीः कौमुदि! भूरिभेदास्
त्वं इन्दुपिण्डानि मदालसेऽम्ब!
(गोविन्दलीलामृतं ३.४७)



२.३१८:

शशिमुखि! व अकानि त्वं विधेहि प्रयत्नाद्
दधिव अकमुखानि प्राज्यमाधुर्यभाञ्जि
प्रणय सुमुखि! रम्याः शर्कराप इकास्त्वं
मणिमति! बहुभेदांस्त्वं च पिष्टान्नपूपान्
(गोविन्दलीलामृतं ३.४८)



२.३१९:

विधत्स्व भोः काञ्चनवल्लि! वत्से!
गोधूमचूर्णोद्भवलड्डुकानि
मनोहराख्यानि मनोरमे! त्वं
त्वं मौक्तिकाख्यानि च रत्नमाले!
(गोविन्दलीलामृतं ३.४९)



२.३२०:

सुभृष्टनिस्तुषतिलैर्
मोदकान्कुरु माधवि!
तथा तिलकदम्बाख्याः
सतिलाः खण्डप इकाः
(गोविन्दलीलामृतं ३.५०)



२.३२१:

लाजान्धानांश्च संभृष्टान्
पृथुकान्घृतभर्जितान्
कृत्वा विन्ध्ये! सिताक्वाथैः
समुद्गान्कुरु मोदकान्
(गोविन्दलीलामृतं ३.५१)



२.३२२:

रम्भे! करम्भं कुरु शातकुम्भ
कुण्ड्यां सुरम्भाफलशर्कराद्यैः
निष्पीड्य पक्वाम्ररसं मनोज्ञे!
सिताघनक्षीरयुतं विधेहि
(गोविन्दलीलामृतं ३.५२)



२.३२३:

उत्थापितं यत्तु मया मथित्वा
प्रातः सुगन्धापयसो दधीनि
तदिष्टगन्धं नवनीतपिण्डं
हैयङ्गवीनं कुरु भोः किलिम्बे
(गोविन्दलीलामृतं ३.५३)



२.३२४:

स्वयं दुग्ध्वा व्रजेन्द्रेण
प्रहितं धवलापयः
पानार्थं अम्बिके मन्दं
त्वं शृतं कुरु वत्सयोः
(गोविन्दलीलामृतं ३.५४)



२.३२५:

ऋजीषदर्वीनिवहैः परीतां
मृद्दारुकुण्ड्यादिकभाजनैश्च
चुल्लीचयाढ्यां मम सिक्तलिप्तां
तद्दुग्धशालां व्रजताशु बालाः
(गोविन्दलीलामृतं ३.५५)



२.३२६:

नानोपकरणानि त्वं
तानि तानि धनिष्ठिके!
निष्कास्य तत्तद्भाण्डेभ्यः
पात्रेष्वाधाय दापय
(गोविन्दलीलामृतं ३.५६)



२.३२७:

तत्तत्पदार्थांस्त्वरितं तुलस्या
सहानया रङ्गणमालिके त्वम्
आनीय कोषालयतोऽस्मदीयाद्
दासीगणैर्दापय तत्र तत्र
(गोविन्दलीलामृतं ३.५७)



२.३२८३२९:

आम्रातकाम्रफलपूरकरीरधात्री
लिम्पाककोलिरुचकादिफलानि कामम्
तैले चिरं सलवणे किल सन्धितानि
मूलान्यथार्द्रकमुखानि च रोचकानि

मत्स्यण्डिकारसचिरोषितपक्वचिञ्चा
धात्रीरसालबदरीशकलानि तद्वत्
निष्कास्य भोस्त्वं इह मन्थनिकाकुलेभ्यः
कृत्वानयेन्दुमुखि! काञ्चनभाजनेषु
(गोविन्दलीलामृतं ३.५८५९)



२.३३०:

शन्दे शुभे भरणि पीवरि मिष्टहस्ते
चुल्लीचयोपरिधृतातुलमन्थनीषु
दुग्धानि भारिकगणोपहृतानि गोष्ठाद्
वत्साः! शनैः श्रपयताशु निधाय यूयम्
(गोविन्दलीलामृतं ३.६०)



२.३३१३३२:

कान्तभुक्तावशिष्टं सं
भुज्य तु जातशर्मिकाम्
आयातां स्वसमीपे तां
राधां आह सलालनम्

सरसिजमुखि! कीर्तिदैककीर्ते!
पचनकलाचतुरा कृतासि धात्रा
तदयि रसवतीं प्रविश्य पाकं
कुरु ललितादिसखीकृतेति कृत्यम्
(कृष्णभावनामृतं ५.५६)



२.३३३:

शशिमुखि! शरदां शतं जयैवं
सुखय मनोनयने ममेत्युदित्वा
अनयत सुमनोहरास्तदालीः
शं अतुलवत्सलतालता नताः सा



२.३३४:

गोष्ठेश्वरीं समभिवाद्य विशेषनम्रा
तत्पाणिपद्मधृतपाणिरतीव कम्रा
आसाद्य रामजननीं प्रणनाम याताम्
अध्यक्षतां पचनकर्मणि साभिजाता
(कृष्णाह्निककौमुदी २.८४)



२.३३५:

कैलासशैलकनिभं दधती स्वकान्त्या
नीलांशुका प्रणयिनी हि सदात्र राधा
एहीति दोःप्रसरणेन मुहुर्वदन्ती
शिश्लेष तां समुखचुम्बं असौ हसन्ती



२.३३६:

ताभ्यां महानसं उपेत्य च पाकशाला
पालीः स्मितेन मृदुना वचसा च बाला
सम्मान्य मान्यचरिता मुमुदे मितानि
पाकक्रियोपकरणानि विलोक्य तानि
(कृष्णाह्निककौमुदी २.८५)



२.३३७३३८:
कुष्माण्डकालुकचुमानककन्दतुम्बी
वार्त्ताकुमूलकपटोलफलानि शिम्बी
डिण्डीशवारणबुषामफलान्यनीचा
रम्भाविशेषनवगर्भनवीनमोचाः
                                                            
वास्तूकमारिषपटोलशिखाः कलाय
वल्लीशिखाश्चणकाग्रशिखाः प्रधाय
तुम्बीशिखाश्च मृदुलाः सहपोदिकाग्राण्य्
आलोक्य सैक्षत सखीः सरसाः समग्राः
(कृष्णाह्निककौमुदी २.८६८७)



२.३३९:

यद्येन येन विधिना रुचिरत्वं एत्य
यद्व्यञ्जने यदुपयुज्यत इत्यवेत्य
ताभिर्महानसचरीभिरमूनि तानि
तत्तत्प्रकारं अथ कुट्टितकर्त्तितानि
(कृष्णाह्निककौमुदी २.८८)



२.३४०:

एलालवङ्गमरिचार्द्रकजात्यजाजी
जातीफलत्वचसुलाङ्गलिसस्यराजीः
सिद्धार्थतण्डुलनिशा दलितांश्च माषान्
केचिज्जनाः पिपिषुरब्जदृशां अशेषान्
(कृष्णाह्निककौमुदी २.८९)



२.३४१:

पिष्ट्वा सुवर्णपुटिकासु शुभप्रभावैर्
आच्छादितास्वनुचरीघटया शरावैः
सुस्थापितानि वसनोपरि पाकलीला
रम्भे चकार हृदयं निरवद्यशीला
(कृष्णाह्निककौमुदी २.९०)



२.३४२:

आवश्यकाभरणवेशलसत्प्रतीका
धौताङ्घ्रिपाणिकमला सहरोहिणीका
बभ्राज सा वरमहानसवेदिकायां
श्रद्धाय कौतुकवती पचनक्रियायाम्
(कृष्णाह्निककौमुदी २.९१)



२.३४३:

दीप्तासु रामजननीङ्गिततोऽनलेन
चुल्लीषु चारुतरदारुसमुज्ज्वलेन
आरूरुहन्नखिललोचनचित्तजैत्रीस्
तास्ताम्ररीतिरजताचितपाकपात्रीः
(कृष्णाह्निककौमुदी २.९२)



२.३४४:

जज्ज्वाल स स्वयं अफुत्कृतिवीतधूमम्
अग्निः स्वयं जलं अभूदनभूमभूम
यद्यत्र यत्र लवणं च तथा प्रमाणं
तत्तत्र तत्करतलेऽकुरुत प्रमाणम्
(कृष्णाह्निककौमुदी २.९३)



२.३४५:

अगुरुसरलदेवदारुदारु
ज्वलनपरिश्रितचुल्लिकाचयाग्रे
निहितविविधपात्रराजिराजद्
बहुविधतेमनसाधुसाधनार्थं



२.कृष्णभावनामृतं ५.६३:



२.३४६३४७:

ज्वलनकलनपात्रधारणोन्न
त्यवनतिमूर्छनदर्विचालनाद्यैः
त्रिवलिकुचभुजांसकम्पचेलोच्
चलनवशादुदपादि यस्तदाऽस्याः

मधुरिमभरं अच्युतः स्वसौध
स्फुरितगवाक्षधृतेक्षणः पिबंस्तम्
मदनमदं उदञ्चितं विवृण्वन्
किं अपि जगाद पटुर्बटुं मिषेण
(कृष्णभावनामृतं ५.६४६५)



२.३४८:

प्रहित्य तं साथ महानसं गता
किं किं त्वया साधितं एतया सह
सर्वं तदेतन्मम तेमनादिकं
संदर्शयेत्याह बलस्य मातरम्
(गोविन्दलीलामृतं ३.८४)



२.३४९:

तां आह सम्मार्जितवेदिकान्तरे
नवीनमृद्भाजनपङ्क्ति सम्भृतम्
सा दर्शयन्ती कृततेमनादिकं
राधां प्रशंसन्त्यथ तां च रोहिणी
(गोविन्दलीलामृतं ३.८५)



२.३५०:

सुमधुरं शशितोऽपि सुसंस्कृतं
निपुणया पचने मृदु राधया
प्रवरमन्थनिकासु सुसम्भृतं
सुमुखि! पश्य पुरः सखि! पायसं
(गोविन्दलीलामृतं ३.८६)



२.३५१:

बलपुष्टिकरं हृद्यं
मधुरं मृदुलं सति!
मन्थनीसम्भृतं पश्य
संयावं अनया कृतम्
(गोविन्दलीलामृतं ३.८७)



२.३५२:

रम्भासीरीक्षीरसारैः
शष्कुलीर्विविधाः सखि!
पश्य पिष्टविकारंश्च
नानाभेदान्सुसंस्कृतान्
(गोविन्दलीलामृतं ३.८८)



२.३५३:

पीयूषग्रन्थिकर्पूर
केलिकामृतकेलिकाः
अनया संस्कृताः पश्य
यद्विधिर्मे न गोचरः
(गोविन्दलीलामृतं ३.८९)



२.३५४:

केवलो मथितक्लिन्नो
मौद्गोऽयं वटको द्विधा
सितालवणसंयोगान्
माषस्यापि चतुर्विधः
(गोविन्दलीलामृतं ३.९०)



२.३५५:

चिञ्चाम्रातकचुक्राम्रैस्
तत्तद्द्रव्यादियोगतः
ईषन्मधुरगाढादि
भेदादम्लो द्विषड्विधः
(गोविन्दलीलामृतं ३.९१)



२.३५६३५७:

बद्धरम्भानव्यगर्भ
तन्नव्यमुकुलांशयोः
मानकन्दाम्बुकच्वीनां
मुखांशस्यालुकस्य च

कुष्माण्डडिण्डिशाणां च
चक्राभखण्डजालकम्
चणकक्षोदपङ्काक्तं
घृतभृष्टं पृथक्पृथक्
(गोविन्दलीलामृतं ३.९२९३)



२.३५८:

चणकक्षोदव अकान्
याज्यभृष्टानि केवलम्
अपरान्यम्लसत्तक्र
क्वाथक्लिन्नानि लोकय
(गोविन्दलीलामृतं ३.९४)



२.३५९:

चणकक्षोदपिण्डानां
स्विन्नानां क्वथिताम्भसि
खण्डानि द्रव्यपाकादि
भेदान्नानाविधानि च
(गोविन्दलीलामृतं ३.९५)



२.३६०:

वटिका फलमूलानां
पृथक्संयोगभेदतः
त्रिजातमरिचाद्यैस्तु
प्रकारान्बहुधाकृतान्
(गोविन्दलीलामृतं ३.९६)



२.३६१:

कर्कारुज्योत्स्निकालाबु
फलान्यालि पृथक्पृथक्
राजिकादधियोगेन
संस्कृतान्यनया शुभे
(गोविन्दलीलामृतं ३.९७)



२.३६२:

वत्सेप्सितप्रसूनानि
घृतभृष्टानि केवलम्
घृतभृष्टा दधिक्लिन्नाः
कलिकाः कोविदारजाः
(गोविन्दलीलामृतं ३.९८)



२.३६३:

घृतभृष्टा दधिक्लिन्नाः
प्रसूनवटिका द्विधा
पटोलस्य फलान्याज्य
भृष्टानि रुचिदान्यलम्
(गोविन्दलीलामृतं ३.९९)



२.३६४:

वृद्धकुष्माण्डवटिकाः
कच्वीमानालुकन्दकैः
तिक्तलालितचूर्णाढ्याश्
चविकाढ्याः पराः कृताः
(गोविन्दलीलामृतं ३.१००)



२.३६५:

सितैलामरिचैर्योगाद्
दुग्धतुम्बीकृतानया
तद्योगादपरं मिष्टं
क्षीरकुष्माण्डनामकम्
(गोविन्दलीलामृतं ३.१०१)



२.३६६:

दधिशूरणकं मिष्टं
धात्रीशूरणकं परम्
दध्नैकं भर्जितं चान्यं
कारविल्वफलं द्विधा
(गोविन्दलीलामृतं ३.१०२)



२.३६७:

मृदुरम्भागर्भखण्ड
वृद्धकुष्माण्डखण्डयोः
सितादधियुतः पाको
मधुराम्लः सुशीतलः
(गोविन्दलीलामृतं ३.१०३)



२.३६८:

नालीतमेथीशतपुष्पिकामिशी
पटोलवास्तूकवितुन्नमारिषाः
प्रकारसंयोगविभेदतोऽनया
शाकाः सुधागर्वहृतः सुसंस्कृताः
(गोविन्दलीलामृतं ३.१०४)



२.३६९:

कलम्बी पक्वचिञ्चाया
रसपक्वा रुचिप्रदा
कृष्णनालीतशाकोऽयम्
आमाम्रफलयुक्शुभः
(गोविन्दलीलामृतं ३.१०५)



२.३७०:

मयुष्ठकस्य मुद्गस्य
माषस्याप्यधुना मया
त्रिविधोऽयं सुधाकूप
निभः सूपो विपाच्यते
(गोविन्दलीलामृतं ३.१०६)



२.३७१:

पङ्कैः सुमनचूर्णानां
दासीभिर्भृशमर्दितैः
पूर्णेन्दुमण्डलाकाराः
क्रियन्ते रो इका मया
(गोविन्दलीलामृतं ३.१०७)



२.३७२:

कृतानि क्रियमाणानि
कर्तव्यानि तु कानिचित्
इत्यन्नव्यञ्जनानि त्वं
संसिद्धानि प्रतीहि नौ
(गोविन्दलीलामृतं ३.१०९)



२.३७३३७४:

सौरभ्यसद्वर्णमनोहरं तत्
सा वीक्ष्य सर्वं मुदिता बभूव
जिज्ञासमानां अथ तद्विधानं
तां रोहिणी विस्मयपूर्वं आह

सामग्री सैव सामान्या
पाकस्य प्रक्रियाप्यसौ
किन्त्वपूर्वगुणे हेतुर्
गान्धर्वाहस्तसौष्ठवम्
(गोविन्दलीलामृतं ३.११०१११)



२.३७५:

सा तां राधां अन्नसंस्कारसक्तां
प्रस्विद्यन्तीं लज्जया नम्रवक्त्राम्
दृष्ट्वा राज्ञी स्नेहविक्लिन्नचित्ता
दासीं अस्या वीजनायादिदेश
(गोविन्दलीलामृतं ३.११२)



२.३७६३७७:

अथ तस्याः परिवेशनकौशलं आह
व्याप्तायां वसनेन भोजनभुवि श्रीरत्नपीठाग्रतस्
तत्तद्व्यञ्जनरत्नरत्नपुटिकापङ्क्तिः क्रमेणाभितः
मिष्टाभीष्टसुपिष्टकौघपुटिकापङ्क्तिस्तु तासां बहिः
सम्यग्भव्यसुगव्यहेमपुटिकापङ्क्तिश्च तासां बहिः

इत्येवं क्रमतोऽर्धमण्डलतया पङ्क्तिक्रमेणाद्भुते
स्वालीभिः पुरुचारुचित्ररचनाद्वैविध्य आपादिते
अन्योन्याव्यतिषक्तसूक्ष्मसुरभिश्लक्ष्णैर्घृताच्योतनैर्
मध्ये हेममयी व्यधायि रुचिरा पात्री शुभैरोदनैः
(कृष्णाह्निककौमुदी ३.१२)



२.३७८:

सौवर्णीं तलपात्रिकां घृतपु ईलिम्पाकखण्डादिभिः
सन्धानार्द्ररसालखण्डसहितैः सत्कासमर्दादिभिः
युक्तां दक्षिणतो निधाय निक ए तस्याश्च भृङ्गारकान्
कर्पूरेण सुवासितेन पयसा पूर्णान्व्यधात्कानकान्
(कृष्णाह्निककौमुदी ३.३)



२.३७९:

तस्याः पाकसुकौशलं बहुविधं दृष्ट्वा व्रजेशप्रिया
तासां तत्परिवेषचित्ररचनां चातिस्फुरद्विस्मया
आनेतुं प्रजिघाय वत्सलमनाः कृष्णं च रामं च सा
धात्रेयीं अथ तौ समीयतुरतिश्रद्धावशादञ्जसा
(कृष्णाह्निककौमुदी ३.४)



२.३८०:

नत्वा मातरं आज्ञया सहबलस्तस्याः समुल्लासनः
प्रेम्णा बालकदासिकाकृतपदाम्भोजद्वयीधावनः
आचम्योपविवेश सम्मुखतया चार्वन्नपात्रीपुरः
सर्वं तत्तदवेक्ष्य विस्मितमना बभ्राज पीताम्बरः
(कृष्णाह्निककौमुदी ३.५)



२.३८१:

श्रीदामसुबलौ वामे
पुरोऽस्य मधुमङ्गलः
दक्षिणे श्रीबलश्चान्ये
परितः समुपाविशन्
(गोविन्दलीलामृतं ४.२२)



२.३८२:

मातृभ्यां क्रमदर्शितेन हि पथा भोक्तुं समारब्धवान्
यद्यद्भोक्तुं उपक्रमं स्म कुरुते त्यक्तुं न तत्सोढवान्
भोक्तुं तत्तदशेषं अप्यभिलषन्सामर्थ्यवांश्च स्वयं
किञ्चित्किञ्चिदभुक्त वीक्षकभिया दुर्वादभीत्याप्ययम्
(कृष्णाह्निककौमुदी ३.७)



२.३८३:

व्याख्याद्भिः सहभोजिभिः सहबलैः पाकस्य तत्कौशलं
स्वादुङ्कारं अदन्नवागपि हृदा सोऽपि प्रशंसन्नलम्
आदौ पायसं आश किञ्चिदपरप्राचुर्यपर्याप्ततां
वीक्ष्य व्यञ्जनरत्नयत्नगमिना लोभेन भूम्ना चिताम्
(कृष्णाह्निककौमुदी ३.८)



२.३८४:

शाकादिक्रमतोऽभितोषवशतः सर्वाणि सद्व्यञ्जना
न्यादन्मातृमुदे भवेदपि यथा पक्त्रीमनोरञ्जना
तान्सर्वान्सहभोजिनः सरसया वाचा हसन्हासयन्
भुञ्जध्वं न परित्यजेत किं अपीत्येकान्तं आह्लादयन्
(कृष्णाह्निककौमुदी ३.९)



२.३८५:

स्वस्वसंस्कृतमिष्टान्नं
प्रातराशोपयोगि यत्
उपजह्रुस्तयाहूता
मात्रे गोप्यो मुदान्विताः
(गोविन्दलीलामृतं ४.२४)



२.३८६:

श्रीराधया यत्नत एव गेहाद्
आनीतखण्डोद्भवलड्डुकानि
गङ्गाजलाख्यान्यथ रङ्गदेवी
तदिङ्गितेनोपजहार मात्रे
(गोविन्दलीलामृतं ४.२५)



२.३८७:

तानि माता बलादिभ्यो
विभज्य स्नेहतो ददौ
प्रकीर्णस्वर्णपात्रेषु
विनिधाय पृथक्पृथक्
(गोविन्दलीलामृतं ४.२६)



२.३८८:

आस्वादयन्तं घृतपक्वं अन्नं
सुनर्मभिस्तानपि हासयन्तम्
आलोकयन्तं नयनाञ्चलेन
राधाननं तं ददृशुर्मुदाल्यः
(गोविन्दलीलामृतं ४.२७)



२.३८९:

अदो भद्रं इदं मिष्टम्
एतत्स्निग्धं सुचारु तत्
तर्जन्या दर्शयन्त्यम्बा
भुङ्क्ष्व वत्सेत्यभाषत
(गोविन्दलीलामृतं ४.२८)



२.३९०:

यद्यदिष्टं भवेद्यस्य
ज्ञात्वा ज्ञात्वा हसन्हरिः
तस्मै तस्मै ददौ तत्तत्
स्वपात्रात्प्रक्षिपन्मुहुः
(गोविन्दलीलामृतं ४.२९)



२.३९१३९३:

वीक्ष्य यत्नान्वितां अम्बां
मन्दं अश्नन्तं अच्युतम्
परिहासपटुस्तस्मिन्
व्रजेशां अवदद्बटुः

अयं चेद्भूरि नात्त्यम्ब!
देहि मे सर्वं अद्म्यसौ
मयैवालिङ्गितः पुष्टो
भविता भूरिभोजिना

नास्य मन्दरुचेः शक्तिर्
घृतपक्वान्नभोजने
तदस्मै लघुराद्धान्नं
व्यञ्जनान्यम्ब! दापय
(गोविन्दलीलामृतं ४.३०३२)



२.३९४:

अथ कृष्णः स्वपात्रस्थ
पक्वान्नाञ्जलिभिर्हसन्
पञ्चषैः पूरयामास
भुङ्क्ष्वेति बटुभाजनम्
(गोविन्दलीलामृतं ४.३३)



२.३९५३९६:

ततो वामकफोणिं स्वं
वादयन्वामपार्श्वके
सम्यग्भोक्तुं कृतारम्भः
प्रहृष्टो बटुराह तम्

वयस्य! पश्य भक्ष्येऽहम्
इत्यश्नन्कवलद्वयम्
मातर्मे दधि देहीति
प्राहिणोत्तां तदाहृतौ
(गोविन्दलीलामृतं ४.३४३५)



२.३९७:

गोपाः पश्यत नृत्यतीह चपलः पक्वान्नलब्धाशया
कीशेशो दधिलम्प ओऽयं इति तान्कृत्वोन्मुखांस्तद्दिशि
तेषां भोजनभाजनेषु शनकैर्निक्षिप्य भक्ष्यं निजं
सर्वं भुक्तं इदं मयेति स पुनर्गर्वायमानोऽवदत्
(गोविन्दलीलामृतं ४.३६)



२.३९८:

तथागतां तां दधिपात्रहस्ताम्
उवाच पश्याम्ब! विनैव दध्ना
मयोपभुक्तं द्रुतं एव सर्वं
तत्पायसं दापय भूरि मह्यम्
(गोविन्दलीलामृतं ४.३७)



२.३९९:

हैमेषु पात्रेषु निधाय राधया

नवीनरम्भादलमन्दमारुतैः
शीतीकृतं स्वे परिवेशितं करे
तेभ्यो ददौ पायसं आशु रोहिणी
(गोविन्दलीलामृतं ४.३८)



२.४००:

आनीयानीय गान्धर्वा
दत्तानि व्यञ्जनानि सा
शाकादीन्यम्लशेषाणि
तेभ्योऽदात्क्रमशः शनैः
(गोविन्दलीलामृतं ४.४०)



२.४०१:

रम्भोदरस्थच्छदवर्णलाघवाः
संमृष्टगोधूमसुचूर्णरो इकाः
घृताभिषिक्ताः परिवेशितास्तया
तेभ्योऽन्यपात्रेषु निधाय सा ददौ
(गोविन्दलीलामृतं ४.४१)



२.४०२:

पूर्वं पक्वान्नं उद्दिश्या
धुना त्वन्नादिकं च या
बटोः सुपरिहासोक्तिर्
नात्र स्यात्पुनरुक्तता



२.४०३:

कृष्णः सतृष्णो नैवात्र
बलः कवलमात्रभुक्
श्रीदामा नाम मन्दाशी
सुबलोऽसुबलोज्झितः
(कृष्णभावनामृतं ६.४५)



२.४०४:

क्वैषां भक्ष्यैकतानत्व
राहित्यं अविदग्धता
क्वैतदन्नं सुधानिन्दि
स्वयं लक्ष्म्यैव साधितम्
(कृष्णभावनामृतं ६.४६)



२.४०५:

काव्यं विफलतां किं न
याति सत्कविनिर्मितम्?
यत्र गोष्ठ्यां तदास्वाद
लोलुपत्वं न वर्तते
(कृष्णभावनामृतं ६.४७)



२.४०६:

चतुर्वर्गफलं मूर्तं
एतदन्नं चतुर्विधम्
अहं केवलं एकोऽस्य
पात्रं इत्यवदद्बटुः
(कृष्णभावनामृतं ६.४८)



२.४०७:

श्रीदामोवाच पिण्डीभिः
पिचिण्डं पूरय द्रुतम्
यदेव तव सर्वस्वं
यदर्थं बटुतां अधाः
(कृष्णभावनामृतं ६.४९)



२.४०८:

बटुराख्यदरे मूर्ख!
गोपस्त्वं किं नु वेत्स्यसि?
रसास्वादं स्वधर्मार्थं
गा रोद्धुं अटवीं अट
(कृष्णभावनामृतं ६.५०)



२.४०९:

पश्यैषोऽहं अनूचानो
विप्रो यैर्मन्मुखे हुतम्!
तैरिष्टः सर्वयज्ञेन
भगवानेव केवलम्
(कृष्णभावनामृतं ६.५१)



२.४१०:

श्रीदामोचे श्रुतिस्मृत्योर्
वर्त्मापि शतजन्मसु
त्वया परिचितं नैव
विप्रत्वे सूत्रं एव ते
(कृष्णभावनामृतं ६.५२)



२.४११:

कृष्णः प्राह बटोरस्ति
रसशास्त्रेऽनुशीलनम्
व्यञ्जनानेकतात्पर्य
लक्षणाभिज्ञता यतः
(कृष्णभावनामृतं ६.५३)



२.४१२:
बटुराह षडेवात्र
रसा न त्वष्ट मन्मते
षोढैव न्याय्य आस्वादो
यत्षडेवेन्द्रियाणि नः
(कृष्णभावनामृतं ६.५४)



२.४१३:

रसा ह्यष्टाविति प्राहुर्
ये तेऽपि व्यञ्जनाश्रिताः
व्यञ्जनाभिज्ञतालेशोऽप्य्
एषां किन्तु न विद्यते
(कृष्णभावनामृतं ६.५६)



२.४१४:

विहाय शाकसूपादीन्
विहायस्ते धयन्ति यत्
तन्नीरं प्रकटं हित्वा
धावन्त्येव मरीचिकाम्
(कृष्णभावनामृतं ६.५७)



२.४१५:

कारणं रसनिष्पत्तौ
चर्वणेनेति तज्जगुः
चर्वन्तु परिचोष्यन्ति
न पितुर्जन्मकोटिभिः
(कृष्णभावनामृतं ६.५८)



२.४१६:

रामः प्राह रसास्वादे
केऽनुभावा भवन्मते
के वा सञ्चारिणः को वा
स्थायी स स्वाद्यते कथम्
(कृष्णभावनामृतं ६.५९)



२.४१७:

बटुरूचे यदप्राप्त्या
पूर्वं एवाश्रु मे भवेत्
प्राप्त्या तु व्यञ्जनस्यास्य
पुलकास्यप्रसन्नते
(कृष्णभावनामृतं ६.६०)



२.४१८:

वर्णस्य स्निग्धतातृप्त्या
वैवर्ण्यं तच्च पश्य मे
भुञ्जान एव यद्वच्मि
स्वरो मे तेन भिद्यते
(कृष्णभावनामृतं ६.६१)



२.४१९:

स्तम्भो मे भूरि मिष्टान्न
भोजनाशक्तिदुःखजः
प्रस्वेदः प्रकटोऽन्ते तु
प्रलयो बहुभक्षणात्
(कृष्णभावनामृतं ६.६२)



२.४२०:

आलस्यचिन्तास्वापाद्याः
स्पष्टाः सञ्चारिणोऽत्र नः
स्वाद्यत्वेनैक एवापि
स्थायी तु विविधाभिधः
(कृष्णभावनामृतं ६.६३)



२.४२१४२२:

आज्याभ्यक्तानि भक्तानि
मन्ये काञ्चनवारिणा
स्नपितानीव सौरभ्यं
येषां सौलभ्यं अभ्यगात्

गोदन्तकृत्तघासादि
घ्रायिण्यां गोपसंसदि
कृतपुण्यस्य मे भूरि
भोगभाजः प्रसङ्गतः
(कृष्णभावनामृतं ६.७०७१)



२.४२३:

वने विप्रास्तपस्यन्ति
पत्रमूलफलाशनाः
बटोस्ते नाधिकारोऽस्ति
भोगे याहि तपश्चर
(कृष्णभावनामृतं ६.७२)



२.४२४४२५:

सत्यं भो यैः पुरा तप्तं
पत्रमूलफलादिभिः
परिणम्य जनुष्यत्र
व्यञ्जनत्वेन तैर्मम

भ्ॐअस्वर्गजुषः साधु
प्रत्यक्षीभूयतेऽन्वहम्
इति जानीतभोगोऽयम्
अतप्ततपसः कुतः
(कृष्णभावनामृतं ६.७३७४)



२.४२६:

एवं चेत्प्रथमं प्राप्तुम्
अर्हन्त्येते वलीमुखाः
वाग्व्ययश्रमिणोऽत्रापि
जनुष्येते तपस्विनः
(कृष्णभावनामृतं ६.७९)



२.४२७:

शीतोष्णवातसहनाः
पत्रपुष्पफलाशनाः
जातिस्मराः कथं न स्युः
कोऽमीषां वेत्ति विज्ञताम्
(कृष्णभावनामृतं ६.८०)



२.४२८:

कृष्णः प्राह सखे! विप्रा
ब्रह्मोपासनतत्पराः
कीशाः कुक्षिम्भरा एषां
द्वयेषां महदन्तरम्
(कृष्णभावनामृतं ६.८१)



२.४२९:

अस्य कीशस्य चावैमि
न किं अप्यन्तरं हरे!
नरत्वं वानरत्वं वा
नयोर्भेदे न कारणम्
(कृष्णभावनामृतं ६.८२)



२.४३०:

किं च ख्यापयता तेन
लोकेऽपूर्वां स्वविज्नतां
बृहत्त्वाद्बृंहणत्वाच्च
स्वकुक्षिर्ब्रह्म मन्यते
(कृष्णभावनामृतं ६.८३)



२.४३१:

अतस्त्रिषवणं तस्य
ध्यायता पूर्तिसाधनम्
स एवोपास्यतेऽनेन
नैष्ठिकब्रह्मचारिणा
(कृष्णभावनामृतं ६.८४)



२.४३२:

कदाचिद्भूरिपक्कान्न
ग्रसनावेशसंभ्रमैः
कीशायितं स्यात्पाणिभ्यां
भुञ्जानस्यास्य लाघवैः
(कृष्णभावनामृतं ६.८५)



२.४३३:

इत्युक्त्वाजीहसत्सर्वान्
सुबलस्तान्बटुः स तु
हसन्भुञ्जान एवोच्चैः
काशैः शोणमुखोऽभवत्
(कृष्णभावनामृतं ६.८६)



२.४३४:

गोष्ठेशाह बटो! तिष्ठ
क्षणं मा भुङ्क्ष्व मा हस!
स्थैर्यं आप्नुहि मा जल्प
मैनं हासयतार्भकाः
(कृष्णभावनामृतं ६.८७)



२.४३५:

धनिष्ठया यल्ललितादिसंस्कृतं
तत्तद्रसालादिकं आहृतं पुरः
कृत्वा पृथक्पात्रचये व्रजेश्वरी
सस्नेहं एभ्यो ददती मुमोद सा
(गोविन्दलीलामृतं ४.४२)



२.४३६:

हृदयदयितमुखवीक्षणहृष्टास्
तदतिमधुरमृदुकान्तिविकृष्टाः
मुमुदुरुदितपृथुभावविहस्ता
रमणभवनं अधि ताः पुरुशस्ताः
(गोविन्दलीलामृतं ४.४३)



२.४३७:

अन्नान्यथो तानि चतुर्विधानि ते
पीयुषसारोद्भवविक्रिया इव
आस्वादयन्तो मधुराणि सस्पृहं
तं हासयन्तो जहसुश्च नर्मभिः
(गोविन्दलीलामृतं ४.४४)



२.४३८:

चर्वन्ति चर्व्याणि मृदूनि केचिल्
लेह्यानि चान्ये चटुलं लिहन्ति
पिबन्ति पेयानि परे प्रहृष्टाश्
चूष्यन्ति चोष्याण्यपरे वितृप्ताः
(गोविन्दलीलामृतं ४.४५)



२.४३९:

स्वादुङ्कारं कमलनयनः सस्पृहं तत्तदन्नं
हस्तस्पर्शादमृतमधुरं मन्दमन्दं प्रियायाः
तद्वक्त्राब्जप्रहितनयनप्रान्तभृङ्गो निगूढं
प्राश्नन्नम्बामनसि निबिडं स प्रमोदं व्यतानीत्
(गोविन्दलीलामृतं ४.४६)



२.४४०:

प्रहितचकितनेत्रप्रान्तदृष्टिप्रणाली
मिलिततदतिलावन्यामृतास्वादपुष्टा
प्रसरदखिलभावोल्लासं आच्छादयन्ती
दयितहृदयं उच्चै राधिकाप्याजहार
(गोविन्दलीलामृतं ४.४७)



२.४४१:

अथ बलजननीं तां अन्तराकृत्य नृत्यन्
मदकलमदिराक्षीं अर्पयन्तीं करेऽस्याः
मृदु मृदु मधुरान्नं प्रेयसीं प्रेक्ष्य कृष्णः
श्लथरुचिरशनेऽभूदुन्मना नागरेशः
(गोविन्दलीलामृतं ४.४८)



२.४४२:

सामिभुक्तं कियत्तेन
किंच त्र्यंशावशेषितम्
भक्ष्यं वीक्ष्याशने मन्दं
तं चासीद्व्याकुला प्रसूः
(गोविन्दलीलामृतं ४.४९)



२.४४३:

यत्नात्संस्कृतं अन्नादि
सर्वं त्यक्तं कथं सुत!
क्षुधितोऽसि कियद्भुङ्क्ष्व
शपथः शिरसो मम
(गोविन्दलीलामृतं ४.५०)



२.४४४:

आनाय्य यत्नाद्वृषभानुकन्यकां
संस्कारितं सर्वं इदं सुतानया
अन्नादि मिष्टं च सुधापरार्द्धतस्
तथापि नाश्नासि करोमि किं हता
(गोविन्दलीलामृतं ४.५१)



२.४४५:

अथ सा रोहिणीं आह
पश्य रोहिणि! चञ्चलः
दुर्बलः क्षुधितोऽप्येष
किं अप्यत्ति न मन्दभुक्
(गोविन्दलीलामृतं ४.५२)



२.४४६४४७:

ततः स्नेहपरीताङ्गी
लालयन्त्यघमर्दनम्
प्रलम्बहन्तुरम्बेयं
बभाषे तं पुरःस्थिता

यत्नादन्नं साधितं वत्स! मिष्टं
मल्लीमृद्व्या राधयेदं मया च
क्षुत्क्षामोऽसि त्वं च नाश्नासि तत्ताम्
अम्बां एतां मां च किंवा दुनोषि
(गोविन्दलीलामृतं ४.५३५४)



२.४४८:

जननी तव पश्य खिद्यते
सुत! निर्मञ्चनं अत्र यामि ते
भ्रमतो भविता वने श्रमः
कियदश्नीहि विधेहि मद्वचः
(गोविन्दलीलामृतं ४.५५)



२.४४९:

भुक्तं मया भूरि गता बुभुक्षे
त्युक्त्वा नियम्योच्छलितं विकारम्
तं वीक्ष्य मन्दं पुनरप्यदन्तं
ननन्दतुर्नन्दसुतं जनन्यौ
(गोविन्दलीलामृतं ४.५६)



२.४५०:

इदं इदं अतिमिष्टं वत्स! भुङ्क्ष्वेति माता
सशपथं अथ तत्तद्दर्शयन्त्यङ्गुलीभिः
सकलं अभिलषन्ती कर्तुं अश्रुप्लुताक्षी
तदुदरगतं अन्नं सात्मजं वावदीति
(गोविन्दलीलामृतं ४.५७)



२.४५१:

रसालापक्वाम्रद्रवशिखरिणीषाडवपयः
करम्भामिक्षाव्यञ्जनदधिफलापूपव अकान्
कृताम्रेडा नेत्रस्तनजपयसा क्लिन्नसिचया
प्यतृप्ता तं तृप्तं मुहुरथ सुतं प्राशयदियम्
(गोविन्दलीलामृतं ४.५८)



२.४५२:

भक्ष्यं भोज्यं बहुतरमिष्टं
लेह्यं पेयं मृदुमधुरं ते
भुक्त्वा पीत्वा रसभरतृप्ताः
सर्वेऽभूवन्वनगमनोत्काः
(गोविन्दलीलामृतं ४.५९)



२.४५३:

सर्वे सुवासितमृदा मुखपाणिपद्मा
न्यामृज्य साधु मृदुलेषिकया च दन्तान्
दासैः प्रणीतकनकादिककुण्डिकासु
तैर्दत्तवारिभिरथाचमनं व्यधूस्ते
(गोविन्दलीलामृतं ४.६०)



२.४५४:

एलालवङ्गघनसारविमिश्रिताभिर्
जम्बूलदत्तवरखादिरगोलिकाभिः
शीतोज्ज्वलाभिरधिवास्य मुदा मुखं ते
सव्येन पूर्णं उदरं ममृजुः करेण
(गोविन्दलीलामृतं ४.६१)



२.४५५:


रसालकरसंस्कृतोपहृतनागवल्लीस्फुरत्
सुपक्वदलवीटिकाः सुखं अदन्त एवोत्सुकाः
ततः शतपदान्तरालयविशालपल्यङ्किका
कुलेष्वथ विशश्रमुः परिजनैरमी वीजिताः
(गोविन्दलीलामृतं ४.६२)



२.४५६:

तं इह विश्रमितं परिचारकाः
शिखिदलव्यजनैः समवीजयन्
अवदलय्य दलं मृदुवीटिकाः
प्रभुं अथादयति स्म विलासकः
(गोविन्दलीलामृतं ४.६३)



२.४५७४५८:

निष्क्रम्य धौताङ्घ्रिकरां महानसाद्
दासीगणैस्तां व्यजनैरुपासिताम्
राधां प्रकोष्ठान्तरगां सखीजनैर्
विलोकयन्तीं रमणं गवाक्षतः

आनन्दजस्वेदजलैर्व्रजेशया
प्रतीयमानां श्रमकर्षितेत्यलम्
भोक्तुं प्रयत्नादुपवेश्य सा मुदा
बलाम्बयान्नानि गृहाददापयत्
(गोविन्दलीलामृतं ४.६४६५)



२.४५९:

तया निदिष्टा घृतसंस्कृतान्नं
दातुं धनिष्ठा हरिभुक्तशेषैः
संमिश्र्य गूढं घृतसंस्कृतान्नैर्
गृहात्तदानीय ददावमूभ्यः
(गोविन्दलीलामृतं ४.६६)



२.४६०४६१:

अनश्नन्तीं ह्रिया वीक्ष्य
वस्त्रावृतनताननाम्
राधिकां अवदत्कृष्ण
माता वात्सल्यविक्लवा

जननि! मयि जनन्यां किं नु लज्जेदृशीयं
सुत इव मम चेतः स्निह्यति त्वय्यतीव
अयि तदपनयैनां यामि निर्मञ्चनं ते
शिशिरय मम नेत्रं भुङ्क्ष्व पश्यामि साक्षात्
(गोविन्दलीलामृतं ४.६७६८)



२.४६२:

यूयं च मे स्थ तनयास्त्वनया ह्रिया किं
पुत्र्यः कुरुध्वं अशनं ललितादयस्तत्
इत्याग्रहाच्छपथदानशतैश्च माता
मिष्टान्नमिष्टवचनैः समभोजयत्ताः
(गोविन्दलीलामृतं ४.६९)



२.४६३:

ततो दासीधौतैः करकमलयुग्मैर्निजनिजैर्
इमाः प्रक्षाल्यास्यं शशिसहितवार्भिर्निजनिजम्
प ऐर्मार्जित्वा च स्वपरिजनदत्ता हिमकरा
वियुक्ता वी ईस्ता वरकनकगौर्यो बुभुजिरे
(Sअङ्ग्रहकर्तुः)



२.४६४:

हृद्युद्गतैः सुतकरग्रहणाभिलाषैस्
तद्भूषणैः सुबहुशः सह यानि यत्नात्
निष्पाद्य तन्नववधूप्रतिरूपकाणि
स्नेहाद्धृतानि सदने वरसम्पु एषु
(गोविन्दलीलामृतं ४.७०)



२.४६५:

तैर्भूषणैरथ धनिष्ठिकयोपनीतैस्
ताम्बूलचन्दननवाम्बरनागजैश्च
आलीवृतां नववधूं इव तां व्रजेशा
सम्मान्य हार्दवलिता मुदिता बभूव
(गोविन्दलीलामृतं ४.७१)



२.४६६:

राधाहृतं यन्निशि तद्विशाखा
धनिष्ठयादात्सुबलाय गूढम्
पीतोत्तरीयं सुबलोऽपि तस्यै
नीलाम्बरं कृष्णहृतं तयैव
(गोविन्दलीलामृतं ४.७२)

इति श्रीभावनासारसङ्ग्रहे प्रातर्लीलासङ्ग्रहो नाम द्वितीयसङ्ग्रहः