भावप्रकाशः/पूर्वखण्डे परिभाषादिप्रकरणम् ०७
- भावप्रकाशः
- पूर्वखण्डे द्वितीयो भागः
- तत्र सप्तमं परिभाषादिप्रकरणम् ७
- न मानेन विना युक्तिर्द्र व्याणां जायते क्वचित्
- अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया १
- चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः
- विहाय सर्वमानानि मागधं मानमुच्यते २
- त्रसरेणुर्बुधैः प्रोक्तस्त्रिशता परमाणुभिः
- त्रसरेणुस्तु पर्यायनाम्ना वंशी निगद्यते ३
- जालान्तरगतैः सूर्यकरैर्वंशी विलोक्यते
- षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका ४
- तिसृभी राजिकाभिश्च्न सर्षपः प्रोच्यते बुधैः
- यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ५
- षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधानकौ
- माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते ६
- टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते
- क्षुद्र को वटकश्चैव द्र ङ्क्षणः स निगद्यते ७
- कोलद्वयन्तुं कर्षः स्यात्स प्रोक्तः पाणिमानिका
- अक्षः पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम् ८
- विडालपदकं चैव तथा षोडशिका मता
- करमध्यो हंसपदं सुवर्णं कवलग्रहः ९
- उदुम्बरञ्च पर्यायैः कर्षमेव निगद्यते
- स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा १०
- शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका
- प्रकुञ्चः षोडशी बिल्वं पलमेवात्र कीत्तर्यते ११
- पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते
- प्रसृतिभ्यामञ्जलि स्यात्कुडवोऽद्धशरावकः १२
- अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका
- शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः १३
- शरावाभ्यां भवेत्प्रस्थश्चतुः प्रस्थस्तथाऽढकः
- भाजनं कांस्यपात्रं च चतुःषष्टिपलश्च सः १४
- चतुर्भिराढकैद्रो र्णः! कलशो नल्वणोऽमणः
- उन्मानञ्चघटो राशिद्रो र्ण!पर्यायसंज्ञितः १५
- द्रो णाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः
- शूर्पाभ्याञ्च भवेद् द्रो णी वाहो गोणी च सा स्मृता १६
- द्रो णीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः
- चतुःसहस्रपलिका षण्णवत्यधिका च सा १७
- पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः
- तुलापलशतं ज्ञेयं सर्वत्रैवैष निश्चयः १८
- माषटङ्काक्षबिल्वानि कुडवप्रस्थमाढकम्
- राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम् १९
- गुञ्जाऽदिमानमारभ्य यावत्स्यात्कुडवस्थितिः
- द्र वार्द्र शुष्कद्र व्याणां तावन्मानं समं मतम् २०
- प्रस्थादिमानमारभ्य द्विगुणं तद् द्र वार्द्र योः
- मानं तथा तुलायास्तु द्विगुणं न क्वचित्स्मृतम् २१
- मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम्
- विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत् २२
- इति मागधमानं समाप्तम्
- यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ
- अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसंमता २३
- यवो द्वादशभिर्गौरसर्षपैः प्रोच्यते बुधैः
- यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते २४
- माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत्क्वचित्
- चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च २५
- गद्याणो माषकैः षड्भिः कर्षः स्याद्दशमाषकैः
- चतुष्कर्षैः पलं प्रोक्तं दशशाणमितं बुधैः २६
- चतुष्पलैश्च कुडवः प्रस्थाद्याः पूर्ववन्मताः
- स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम् २७
- प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत्
- नाल्पं हन्त्यौषधं व्याधिं यथाऽम्भोऽल्प महानलः
- अतिमात्रं च दोषाय यथा शस्ये बहूदकम् २८
- इति कालिङ्गमानं समाप्तम्
- इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे प्रथमं मानपरिभाषाख्यं प्रकरणं समाप्तम् १
- अथ द्वितीयं भेषजविधानप्रकरणम् २
- स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ
- ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् १
- अहतात्तत्क्षणाकृष्टाद् द्र व्यात्क्षुण्णात्समुद्भवेत्
- वस्त्रनिष्पीडितो यश्च स्वरसो रस उच्यते २
- कुडवं चूर्णितं द्र व्यं क्षिप्तञ्च द्विगुणे जले
- अहोरात्रं स्थितं तस्माद्भवेद्वा रस उत्तमः ३
- आदाय शुष्कद्र व्यं वा स्वरसानामसंभवे
- जलेऽष्टगुणिते साध्यं पादशिष्टं च गृह्यते ४
- स्वरस्य गुरुत्वाच्च पलमर्द्धं प्रयोजयेत्
- निशोषितं चाग्निसिद्धं पलमात्रं रसं पिबेत् ५
- सितामधुगुडक्षाराञ्जीरकं लवणं तथा
- घृतं तैलञ्च चूर्णादीन् कोलमात्रान् रसे क्षिपेत् ६
- कण्डितं तण्डुलपलं जलेऽष्टगुणिते क्षिपेत्
- भावयित्वा जलं ग्राह्यं देयं सर्वत्र कर्मसु ७
- क्षुण्णं द्र व्यपलं सम्यक् षड्भिर्नीरपलैः प्लुतम्
- निशोषितं हिमः स स्यात्तथा शीतकषायकः
- तस्य मानं मतं पाने पलद्वयमितं बुधैः ८
- जले चतुष्पले शीते क्षुण्णं द्र व्यपलं क्षिपेत्
- मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत् ९
- क्षुण्णे द्र व्यपले सम्यग्जलमुष्णं विनिक्षिपेत्
- मृत्पात्रे कुडवोन्मानं ततस्तु स्रावयेत्पटात् १०
- स स्याच्चूर्णद्र वः फाण्टस्तन्मानं द्विपलोन्मितम्
- क्षौद्रं सितागुडादींस्तु कर्षमात्रान्विनिक्षिपेत् ११
- द्र व्यमाद्र रं! शिलापिष्टं शुष्कं वा सजलं भवेत्
- तदेव कल्को विज्ञेयस्तन्मानं कर्षसम्मितम् १२
- कल्के मधुघृतं तैलं देयं द्बिगुणमात्रया
- सितां गुडं समं दद्याद् द्र वो देयश्चतुर्गुणः १३
- अत्यन्तशुष्कं यद् द्र व्यं सुपिष्टं वस्त्रगालितम्
- तत्स्याच्चूर्णं रजः क्षोदस्तन्मात्रा कर्षसम्मिता १४
- चूर्णे गुडः समो देयः शर्करा द्विगुणा मता
- चूर्णेषु भर्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत् १५
- लिहेच्चूर्णं द्र वैः सर्वैर्घृताद्यैर्द्विगुणोन्मितैः
- पिबेच्चतुर्गुणैरेवं चूर्णमालोडितं द्र वैः १६
- चूर्णावलेहगुटिकाकल्कानामनुपानकम्
- पित्तवातकफातङ्के त्रिद्व्येकपलमाहरेत् १७
- यथा तैलं जले क्षिप्तं क्षणेनैव विसर्पति
- अनुपानबलादङ्गे तथा सर्पति भेषजम् १८
- द्र वेण यावता सम्यक् चूर्णं सर्वं प्लुतं भवेत्
- भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः १९
- पुटपाकस्य कल्कस्य स्वरसो गृह्यते यतः
- अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया २०
- पुटपाकस्य पाकोऽय लेपस्याङ्गारवर्णता
- लेपश्च द्व्यङ्गुलं स्थूलं कुर्याद् द्व्यङ्गुलमात्रकम् २१
- काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम् २२
- पलमात्रो रसो ग्राह्यः कर्षमानं मधु क्षिपेत्
- कल्कचूर्णद्र वाद्यास्तु देयाः कोलमिता बुधैः २३
- अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा
- अथवा क्वथनेनैव सिद्धमुष्णोदकं भवेत् २४
- श्लेष्मामवातमेदोघ्नं वस्तिशोधनदीपनम्
- कासश्वासज्वरान् हन्ति पीतमुष्णोदकं निशि २५
- क्षीरमष्टगुणं द्र व्यात्क्षीरान्नीरं चतुर्गुणम्
- क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत् २६
- पानीयं षोडशगुणं क्षुण्णे द्र व्यपले क्षिपेत्
- मृत्पात्रे क्वाथयेद् ग्राह्यमष्टमांशावशेषितम् २७
- कर्षादौ तु पलं यावद् दद्यात्षोडशिकं जलम्
- ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत्
- चतुर्गुणमतश्चोर्ध्वं यावत् प्रस्थादिकं जलम् २८
- तज्जलं पाययेद्धीमान्कोष्णं मृद्वग्निसाधितम्
- शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते २९
- मात्रोत्तमा पलेन स्यात्त्रिभिरक्षैस्तु मध्यमा
- जघन्या च पलार्द्धेन स्नेहक्वाथौषधेषु च ३०
- क्वाथ्यद्र व्यपले वारि द्विरष्टगुणमिष्यते
- चतुर्भागावशिष्टन्तु पेयं जलचतुष्टयम् ३१
- दीप्तानलं महाकायं पाययेदञ्जलि जलम्
- अन्ये त्वर्द्धं परित्यज्य प्रसृतिं तु चिकित्सकाः ३२
- क्वाथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम्
- पारम्पर्योपदेशेन वृद्धवैद्याः पलद्वयम् ३३
- क्वाथे क्षिपेत्सितामंशैश्चतुर्थाष्टमषोडशैः
- वातपित्तकफातङ्के विपरीतं लघु स्मृतम् ३४
- जीरकं गुग्गुलं क्षारं लवणं च शिलाजतु
- हिङ्गु त्रिकटुकञ्चैव क्वाथे शाणोन्मितं क्षिपेत् ३५
- क्षीरं घृतं गुडं तैलं मूत्रं चान्यद् द्र वं तथा
- कल्कं चूर्णादिकं क्वाथे निक्षिपेत् कर्षसम्मितम् ३६
- तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः
- औषधं हेमरजतमृद्भाजनपरिस्थितम् ३७
- पिबेत् प्रसन्नहृदयः पीत्वा पात्रमधोमुखम्
- विधायाचम्य सलिलं ताम्बूलाद्युपयोजयेत् ३८
- क्वाथादेर्यत्पुनः पाकाद् घनत्वं सा रसक्रिया
- सोऽवलेहश्च लेहश्च तन्मात्रा स्यात्पलोन्मिता ३९
- सिता चतुर्गुणा कार्या चूर्णाच्च द्विगुणो गुडः
- द्र वं चतुर्गुणं दद्यादिति सर्वत्र निश्चयः ४०
- सुपक्वे तन्तुमत्त्वं स्यादवलेहेऽप्सु मज्जनम्
- स्थिरत्वं पीडिते मुद्रा गन्धवर्णरसोद्भवः ४१
- दुग्धमिक्षुरसं यूषं पञ्चमूलकषायकम्
- वासाक्वाथं यथायोग्यमनुपानं प्रशस्यते ४२
- वटका अथ कथ्यन्ते तन्नाम गुटिका वटी
- मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ४३
- लेहवत्साध्यते वह्नौ गुडो वा शर्कराऽथवा
- गुग्गुल्लुर्वा क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी ४४
- कुर्यादवह्निसिद्धेन क्वचिद् गुग्गुलुना वटीम्
- द्र वेण मधुना वाऽपि गुटिकां कारयेद् बुधः ४५
- सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः
- चूर्णे चूर्णसमः कार्यो गुग्गुलुर्मधु तत्समम् ४६
- द्र वं तु द्विगुणं देयं मोदकेषु भिषग्वरैः ४७
- कर्षप्रमाणं तन्मात्रा बलं दृष्ट्वा प्रयुज्यते ४८
- कल्काच्चतुर्गुणीकृत्य घृतं वा तैलमेव च
- चतुर्गुणद्र वे साध्यं तस्य मात्रा पलोन्मिता ४९
- निक्षिप्य क्वाथयेत्तोयं क्वाथ्यद्र व्याच्चतुर्गुणम्
- पादशिष्टं गृहीत्वा तु स्नेहं तेनैव साधयेत् ५०
- चतुर्गुणं मृदुद्र व्ये कठिनेऽष्टगुणं जलम्
- मृद्वादिक्वाथ्यसंघाते दद्यादष्टगुणं पयः
- अत्यन्त कठिने द्र व्ये नीरं षोडशिकं मतम् ५१
- प्रस्थादितः क्षिपेन्नीरं खारीं यावच्चतुर्गुणम् ५२
- अम्बुक्वाथरसैर्यत्र पृथक् स्नेहस्य साधनम्
- कल्कस्यांशं तत्र दद्याच्चतुर्थ षष्ठमष्टमम् ५३
- दुग्धेदध्नि रसे तक्रे कल्को देयोऽष्टमांशकः
- कल्काच्च सम्यक् पाकार्थं तोयमत्र चतुर्गुणम् ५४
- द्र वाणि यत्र स्नेहेषु पञ्चादीनि भवन्ति हि
- तत्र स्नेहसमान्याहुर्यथापूर्वं चतुर्गुणम् ५५
- द्र व्येण केवलेनैव स्नेहपाको भवेद् यदि
- तत्राम्बुपिष्टः कल्कः स्याज्जलं चात्र चतुर्गुणम् ५६
- क्वाथेन केवलेनैव पाको यत्रोदितः क्वचित्
- क्वाथ्यद्र व्यस्य कल्कोऽपि तत्र स्नेहे प्रयुज्यते ५७
- कल्कहीनस्तु यः स्नेहः स साध्यः केवले द्र वे ५८
- पुष्पकल्कस्तु यः स्नेहस्तत्र तोयं चतुर्गुणम्
- स्नेहात् स्नेहाष्टमांशश्च पुष्पकल्कः प्रयुज्यते ५९
- वर्त्तिवत्स्नेहकल्कः स्याद् यदाऽङ्गुल्या विवर्त्तितः
- शब्दहीनोऽग्निनिक्षिप्तःस्नेहः सिद्धो भवेत्तदा ६०
- यदा फेनोद्गमस्तैले फेनशान्तिश्च सर्पिषि
- वर्णगन्धरसोत्पत्तिः स्नेहः सिद्धो भवेत्तदा ६१
- स्नेहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा
- ईषत्सरसकल्कस्तु स्नेहपाको मृदुर्भवेत् ६२
- मध्यपाकस्य सिद्धिश्च कल्के नीरसकोमले
- ईषत्कठिनकल्कश्च स्नेहपाको भवेत्खरः ६३
- तदूर्ध्वं दग्धपाकः स्याद्दाहकृन्निष्प्रयोजनः
- आमपाकश्च निर्वीर्यो वह्निमान्द्यकरो गुरुः ६४
- नस्यार्थं स्यान्मृदुः पाको मध्यमः सर्वकर्मसु
- अभ्यङ्गार्थः खरः प्रोक्तो युञ्ज्यादेवं यथोचितम् ६५
- घृततैलगुडादींश्च साधयेन्नैकवासरे
- प्रकुर्वुन्त्युषितास्त्वेते विशेषाद् गुणसञ्चयम् ६६
- द्र वेषु चिरकालस्थं द्र व्यं यत्सन्धितं भवेत्
- आसवारिष्टभेदैस्तु प्रोच्यते भेषजोचितम् ६७
- यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः
- अरिष्टः क्वाथसाध्यः स्यात्तयोर्मानं पलोन्मितम् ६८
- अनुक्तमानारिष्टेषु द्र वाद् द्रो णं गुडात्तुलाम्
- क्षौद्रं क्षिपेद् गुडादर्द्धं प्रक्षेपं दशमांशिकम् ६९
- ज्ञेयः शीतरसः सीघुरपक्वमधुरद्र वैः
- सिद्धः पक्वरसः सीधुः सम्पक्वमधुरद्र वैः ७०
- परिपक्वान्नसन्धानात्समुत्पन्नां सुरां जगुः
- सुरामण्डः प्रसन्ना स्यात्ततः कादम्वरी घना ७१
- तदधो जगलो ज्ञेयो मेदको जगलाद्घनः
- वक्कसो हृतसारः स्यात्सुराबीजं तु किण्वकम् ७२
- यत्तालखर्जूररसैः सन्धिता सा हि वारुणी ७३
- कन्दमूलफलादीनि सस्नेहलवणानि च
- यत्र द्र वेऽभिषूयन्ते तच्छुक्तमभिधीयते ७४
- विनष्टमम्लतां यातं मद्यं वा मधुरद्र वः
- विनष्टः सन्धितो यस्तु तच्चुक्रमभिधीयते ७५
- गुडाम्बुना सतैलेन कन्दशाकफलैस्तथा
- संधितं चाम्लतां यातं गुडचुक्रं प्रचक्ष्यते
- एवमेव हि शुक्तं स्यान्मृद्वीकासम्भवं तथा ७६
- तुषाम्बु सन्धितं ज्ञेयमामैर्विदलितैर्यवः
- यवैस्तु निस्तुषैः पक्वैः सौवीरं साधितं भवेत् ७७
- आरनालन्तु गोधूमैरामैः स्यान्निस्तुस्तुषीकृतैः
- पक्वैर्वा संहितं तत्तु सौवीरसदृशं गुणैः ७८
- कुल्माषधान्यमण्डादिसहितं काञ्जिकं विदुः
- शिण्डाकी संहिता ज्ञेया मूलकैः सर्षपादिभिः ७९
- इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे द्वितीयं भेषजविधानप्रकरणं समाप्तम् २
- अथ तृतीयं धात्वादिशोधनमारण विधिप्रकरणम् ३
- दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम्
- तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् १
- तच्छेदे कठिनं रूक्षं विवर्णं समलं दलम्
- दाहे छेदे सितं श्वेतं कषे स्फुटं लघु त्यजेत् २
- पत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत्
- निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ३
- गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा
- एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ४
- बलं सवीर्य्यं हरते नराणां रोगव्रजं पोषयतीह काये
- असौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्यात् ५
- स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत्
- तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ६
- गोलकञ्च ततो रुद्ध्वा शरावदृढसम्पुटे
- त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश
- निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ७
- काञ्चने गलिते नागं षोडशांशेन निक्षिपेत्
- चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा तु गोलकम् ८
- गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् ९
- शरावसम्पुटे धृत्वा पुटेत् त्रिंशद्वनोपलैः
- एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते १०
- काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः
- कज्जलद्यं हेमपत्राणि लेपयेत्समया तथा ११
- काञ्चनारत्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत्
- धृत्वा तत्संपुटे गोलं मृण्मूषासम्पुटे च तत् १२
- निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम्
- वह्निं खरतरं कुर्यादेवं दत्त्वा पुटत्रयम् १३
- निरुत्थं जायते भस्म सर्वकर्मसु योजयेत्
- काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् १४
- ज्वालामुखी तथा हन्याद् यथा हन्ति मनःशिला १५
- शिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः
- सप्तधा भावनां दद्याच्छोषयेच्च पुनः पुनः १६
- ततस्तु गलिते हेम्नि कल्कोऽय दीयते समः
- पुनर्धमेदतितरां यथा कल्को विलीयते
- एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् १७
- सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम्
- स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् १८
- पवित्रं बृंहणं नेत्र्! यं मेधास्मृतिमतिप्रदम्
- हृद्यामायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत्
- विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित् १९
- असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत्
- करोति रोगान् मृत्युं च तद्धन्याद् यत्नतस्ततः २०
- लोहादेरनपुनर्भावस्तद्गुणत्वं गुणाढ्यता
- सलिले तरणं चापि तत्सिद्धिः पुटनाद्भवेत् २१
- गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके
- वनोपलसहस्रेण पूरिते पुटनौषधम् २२
- कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत्
- वनोपलसहस्रार्द्धं कोष्ठिकोपरि निक्षिपेत् २३
- वह्निं विनिक्षिपेत्तत्र महापुटमिति स्मृतम् २४
- सपादहस्तमानेन कुण्डे निम्ने तथाऽयते
- वनोपलसहस्रेण पूर्णे मध्ये विधारयेत् २५
- पुटनद्र व्यसंयुक्तां कोष्टिकां मुद्रि तां मुखे
- अधोऽधानि करण्डानि अर्धान्युपरि निक्षिपेत्
- एतद्गजपुटं प्रोक्तं ख्यातं सर्वपुटोत्तमम् २६
- अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते
- वितस्तिमात्रके खाते कथितं कौक्कुटं पुटम् २७
- षोडशाङ्गुलके खाते कस्यचित्कौक्कुटं पुटम् २८
- यत्पुटं दीयते खाते ह्यष्टसंख्यैर्वनोपलैः
- कपोतपुटमेतत्तु कथितं पुटपण्डितैः २९
- गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम्
- गोबरं तत्समाख्यातं वरिष्ठं रससाधने ३०
- बृहद्भाण्डस्थितैर्यत्र गौबरैर्दीयते पुटम्
- तद् गोबरपुटं प्रोक्तं भिषग्भिः सूतभस्मनि ३१
- बृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत्
- क्षिप्त्वाऽग्नि मुद्र येद्भाण्डं तद्भाण्डपुटमुच्यते ३२
- भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके
- कूपिकाकण्ठपर्यन्तं वालुकाभिश्च पूरिते ३३
- भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते
- बालुकायन्त्रमेतद्धि यन्त्रं तत्र बुधैः स्मृतम् ३४
- निबद्धमौषधं सूतं भूर्जे तत्त्रिगुणे वरे
- रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ३५
- सन्धानपूर्णकुम्भान्तःस्वावलम्बनसन्धितम्
- अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि
- दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ३६
- साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च
- पिधाय पच्यते तत्र तद् यन्त्रं स्वेदनं स्मृतम् ३७
- अधःस्थाल्यां रसं क्षिप्त्वा विदध्यात्तन्मुखोपरि
- स्थालीमूर्ध्वमुखीं सम्यङ्निरुध्य मृदुमृत्स्नया ३८
- ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा चुल्ल्यामारोप्य यत्नतः
- अधस्ताज्ज्वालयेदग्निं यावत्प्रहरपञ्चकम् ३९
- स्वाङ्गशीतं ततो यन्त्राद् गृह्णीयाद्र समुत्तमम्
- विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम् ४०
- बालुकाभिः समस्ताङ्गं गर्त्ते मूषां रसान्विताम्
- दीप्तोपलैः संवृणुयाद् यन्त्रं भूधरनामकम् ४१
- यन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्या मुद्रि ते मुखे ४२
- गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम्
- वर्णाढ्यं चन्द्र वत् स्वच्छं तारं नवगुणं शुभम् ४३
- कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु
- दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम् ४४
- पत्तलीकृतपत्राणि तारस्याग्नौ प्रतापयेत्
- निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ४५
- गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
- एवं रजतपत्राणां विशुद्धिः संप्रजायते ४६
- रूप्यं त्वशुद्धं प्रकरोति तापं विबन्धकं वीर्यबलक्षयं च
- देहस्य पुष्टिं हरते तनोति रोगांस्ततः शोधनमस्य कुर्यात् ४७
- भागैकं तालकं मर्द्यं याममम्लेन केनचित्
- तेन भागत्रयं तारपत्त्राणि परिलेपयेत् ४८
- धृत्वा मूषापुटे रुद्ध्वा पुटेत्त्रिंशद्वनोपलैः
- समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत्
- एवं चतुर्दशपुटैस्तारं भस्म प्रजायते ४९
- स्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत् ५०
- तालकस्य प्रकारेण तारपत्राणि बुद्धिमान्
- पुटेच्चतुर्दशपुटैस्तारं भस्म प्रजायते ५१
- रौप्यं शीतं कषायं च स्वादुपाकरसं सरम्
- वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्
- प्रमेहादिकरोगांश्च नाशयत्यचिराद्र् ध्रुवम् ५२
- जपाकुसुमसङ्काशं स्निग्धं गुरु घनक्षमम्
- लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते ५३
- कृष्णं रूक्षमतिस्वच्छं श्वेतं चापि घनासहम्
- लोहनागयुतं चेति शुल्वं दुष्टं प्रकीर्त्तितम् ५४
- पत्तलीकृतपत्राणि ताम्रस्याग्नौ प्रतापयेत्
- निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ५५
- गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
- एवं ताम्रस्य पत्राणां विशुद्धिः संप्रजायते ५६
- एको दोषो विषे ताम्रे त्वशुद्धेऽष्टौ भ्रमो वमिः
- विरेकस्वेद उत्क्लेदो मूर्च्छा दाहोऽरुचिस्तथा ५७
- न विषं विषमित्याहुस्ताम्रन्तु विषमुच्यते
- एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्त्तिताः ५८
- सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद् बुधः
- वासरत्रयमम्लेन ततः खल्वे विनिक्षिपेत् ५९
- पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत्
- ततः उद्धृत्य पत्राणि लेपयेद् द्विगुणेन च ६०
- गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम्
- ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ६१
- तत्कल्केन बहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम्
- धृत्वा तद् गोलकं भाण्डे शरावेण च रोधयेत् ६२
- बालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः
- दत्वा भाण्डमुखे मुद्रा ं! ततश्चुल्ल्यां विपाचयेत् ६३
- क्रमवृद्ध्याऽग्निना सम्यग्यावद्यामचतुष्टयम्
- स्वाङ्गशीतं समुद्धृत्य मर्दयेच्छूरणद्र वैः ६४
- यामैकं गोलकं तच्च विक्षिपेच्छूरणोदरे
- मृदा लेपस्तु कर्त्तव्यः सर्वतोऽङ्गुष्ठमात्रकः ६५
- पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् ६६
- वमनं च विरेकं च भ्रमं क्लममथारुचिम्
- विदाहं स्वेदमुत्क्लेदं न करोति कदाचन ६७
- ताम्रं कषायं मधुरं सतिक्तमम्लञ्च पाके कटु सारकं च
- पित्तापहं श्लेष्महरं च शीतं तद्रो पणं स्याल्लघु लेखनं च ६८
- पाण्डूदरार्शोज्वरकुष्ठकासश्वासक्षयान्पीनसमम्लपित्तम्
- शोथं कृमीञ्शूलमपाकरोति प्राहुर्बुधा बृंहणमल्पमेतत् ६९
- एको दोषो विषे ताम्रे त्वसम्यङ्मारिते पुनः
- दाहः स्वेदोऽरुचिर्मूर्च्छोत्क्लेदो रेको वमिर्भ्रमः ७०
- वङ्गं च गिरिजं तच्च खुरकं मिश्रकं द्विधा
- तयोस्तु खुरकं श्रेष्ठं मिश्रकं त्वहितं मतम् ७१
- वङ्गं विधत्ते खलु शुद्धिहीनमाक्षेपकम्पौ च किलासगुल्मौ
- कुष्ठानि शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च ७२
- विषोपमं रक्तविकारवृन्दं क्षयञ्च कृच्छ्राणि कफज्चरञ्च
- मेहाश्मरीविद्र धिमुष्करोगान् नागोऽपि कुर्यात्कथितान्विकारान् ७३
- वङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत्
- त्रिधा त्रिधा विशुद्धिः स्याद्र विदुग्धेऽपि च त्रिधा ७४
- मृत्पात्रे द्रा विते वङ्गे चिञ्चाऽश्वत्थत्वचो रजः
- पिष्ट्वा वङ्गचतुर्थांशमथोदर्व्या प्रचालयेत् ७५
- ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते
- अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन विमर्दयेत् ७६
- ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत्
- तालेन दशमांशेन याममेकं ततः पुटेत्
- एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ७७
- वङ्गं लघु सरं रूक्षं कुष्ठं मेहकफकृमीन्
- निहन्ति पाण्डुं सश्वासं नेत्र्! यमीषत्तु पित्तलम् ७८
- सिंहो गजौघं तु यथा निहन्ति तथैव वङ्गोऽखिलमेहवर्गम्
- देहस्य सौख्यं प्रबलेन्द्रि यत्वं नरस्य पुष्टिं विदधाति नूनम् ७९
- यशदं गिरिजं तस्य दोषाः शोधनमारणे
- वङ्गस्येव हि बोद्धव्या गुणांस्तु गणयाम्यथ ८०
- यशदं च सरं तिक्तं शीतलं कफपित्तहृत्
- चक्षुष्यं परमं मेहान् पाण्डुं श्वासञ्च नाशयेत् ८१
- तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः
- शोधनञ्चापि तस्येव भिषग्भिर्गदितं पुरा ८२
- ताम्बूलरससम्पिष्टं शिलालेपात् पुनः पुनः
- द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते ८३
- अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत्
- मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः ८४
- यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला
- काञ्जिकेन द्वयं पिष्ट्वा पचेद्गजपुटेन च ८५
- स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च
- पुनः पचेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः ८६
- सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ८७
- नागस्तु नागशततुल्यबलं ददाति व्याधिं च नाशयति जीवनमातनोति
- वह्निं प्रदीपयति कामबलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः ८८
- खञ्जत्वकुष्ठामयमृत्युकारी हृद्रो गशूलौ कुरुतेऽश्मरीञ्च
- नानारुजानां च तथा प्रकोपं कुर्याच्च हृल्लासमशुद्धलौहम् ८९
- पत्तलीकृतपत्राणि लौहस्याग्नौ प्रतापयेत्
- निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ९०
- गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
- एवं लौहस्य पत्राणां विशुद्धिः संप्रजायते ९१
- शुद्धं लौहभवं चूर्णं पातालगरुडीरसैः
- मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम् ९२
- पुटत्रयं कुमार्याश्च कुठारच्छिन्निकिरसैः
- पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत् ९३
- क्षिपेच्च द्वादशांशेन दरदं तीक्ष्णचूर्णतः
- मर्दयेत्कन्यकाद्रा वैर्यामयुग्मं ततः पुटेत्
- एवं सप्तपुटैर्मृत्युं लौहचूर्णमवाप्नुयात् ९४
- सत्योऽनुभूतो योगेन्द्रै ः! क्रमोऽन्यो लौहमारणे
- कथ्यते रामराजेन कौतूहलधियाऽधुना ९५
- सूतकाद् द्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम्
- द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्र वैः ९६
- यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके
- घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद्बुधः ९७
- यामत्रयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः
- दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ९८
- पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत्
- दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा ९९
- तद्र सेनायसं चूर्णं सन्नीय प्लावयेदिति
- आतपे शोषयेत्तच्च पुटेदेवं पुनः पुनः १००
- एकविंशतिवारैस्तन्म्रियते नात्र संशयः
- एवं सर्वाणि लौहानि स्वर्णादीन्यपि मारयेत् १०१
- लौहं तिक्तं सरं शीतं कषायं मधुरं गुरु
- रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् १०२
- कफं पित्तं गरं शूलं शोफार्शः प्लीहपाण्डुताः
- मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि १०३
- गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः
- तावल्लौहं समश्नीयाद्यथादोषानलं नरः १०४
- कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा
- मद्यमम्लरसञ्चैव वर्जयेल्लौहसेवकः १०५
- शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः
- म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा १०६
- मन्दानलत्वं बलहानिमुग्रां बिष्टम्भितां नेत्रगदान् सकुष्ठान्
- मालां तथैव व्रणपूर्विकाञ्च कुर्यादशुद्धं खलु माक्षिकञ्च १०७
- माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च
- मातुलुङ्गद्र वैर्वाऽथ जम्बीरस्य द्र वैः पचेत् १०८
- चालयेल्लौहजे पात्रे यावत्पात्रं सुलोहितम्
- भवेत्ततस्तु संशुद्धिं स्वर्णमाक्षिकमृच्छति १०९
- कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्
- तक्रेण वाऽजमूत्रेण म्रियते स्वर्णमाक्षिकम् ११०
- स्वर्णमाक्षिकवद्दोषा विज्ञेयास्तारमाक्षिके
- अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते १११
- कर्कोटीमेषशृङ्ग्युत्थैर्द्र वैर्जम्बीरजैर्दिनम्
- भावयेदातपे तीव्रे विमला शुद्ध्य्ति ध्रुवम् ११२
- कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्
- मरणं वाऽजमूत्रेण तारमाक्षिकमृच्छति ११३
- न केवलं स्वर्णरूप्यगुणास्तापीजयोर्मताः
- द्र व्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणास्तयोः ११४
- माक्षिकं मधुरं तिक्तं स्वर्यं वृष्यं रसायनम् ११५
- चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरम्
- अर्शः शोफं क्षयं कण्डूं त्रिदोषञ्च नियच्छति ११६
- विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः
- दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे ततः
- पुटं दध्ना पुटं क्षौद्रै र्देयं तुत्थविशुद्धये ११७
- तुत्थकं कटुकं क्षारं कषायं वामकं लघु ११८
- लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत्
- विषाश्मकुष्ठकण्डूघ्नं तद्गुणं खर्परं मतम् ११९
- पत्तलीकृतपत्राणि कांस्यस्याग्नौ प्रतापयेत्
- निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके १२०
- गोमूत्रे च कुलत्थानां कषायेऽत्र त्रिधा त्रिधा
- एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते १२१
- अर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत्
- समेन कांस्यपत्राणि शुद्धान्यम्लद्र वैर्मुहुः १२२
- ततो मूषापुटे धृत्वा पचेद्गजपुटेन च
- एवं पुटद्वयात् कांस्यं रीतिश्च म्रियते ध्रुवम् १२३
- कांस्यं कषायं तीक्ष्णोष्णं लेखनं विशदं सरम्
- गुरु नेत्रहितं रूक्षं कफपित्तहरं परम् १२४
- रीतिका तु भवेद्रू क्षा सतिक्ता लवणा रसे
- शोधनी पाण्डुरोगघ्नी कृमिहृन्नातिलेखनी १२५
- दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः १२६
- सिन्दूर उष्णो वीसर्पकुष्ठकण्डूविषापहः
- भग्नसन्धानजननो व्रणशोधनरोपणः १२७
- गोमूत्रगन्धवत्कृष्णं स्रिग्धं मृदु तथा गुरु
- तिक्तं कषायं शीतञ्च सर्वश्रेष्ठं तदायसम् १२८
- विन्ध्यादौ बहुलं तत्तु यत्र लौहं यतोऽधिकम्
- तच्छोधनमृते व्यर्थमनेकमलमेलनात् १२९
- शिलाजतु समानीय सूक्ष्मं खण्डं विधाय च
- निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः १३०
- मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम्
- स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः १३१
- उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रके
- एवं पुनः पुनर्नीतं द्विमासाभ्यां शिलाजतु १३२
- भवेत्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत्
- निर्धूमञ्च ततः शुद्धं सर्वकर्मसु योजयेत् १३३
- व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयःपात्रे
- प्राक् केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम् १३४
- तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं क्वाथ्यम्
- तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् १३५
- तत्समरसतां यातं संशुष्कं प्रक्षिपेद्र से भूयः
- स्वैः स्व्रेवं क्वाथैर्भाव्यं वारान् भवेत् सप्त १३६
- अथ स्निग्धस्य शुद्धस्य वृतं तिक्तकसाधितम्
- त्र्! यहं युञ्जीत गिरिजमेकैकेन तथा त्र्! यहम् १३७
- फलत्रयस्य यूषेण पटोल्या मधुकस्य च
- शिलाजमेवं देहस्य भवत्यत्युपकारकम् १३८
- लोहस्थितं निम्बगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्तत्
- सन्तानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय १३९
- उष्णे च काले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे
- चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः १४०
- शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद् द्विगुणञ्च तोयम्
- उष्णं तदूर्ध्वं क्वथितञ्च दत्त्वा विशोधयेत्तन्मृदितं यथावत् १४१
- ततस्तु यत्कृष्णमुपैति चोर्ध्वं सन्तानिकावद्र विरश्मितप्तम्
- पात्रे तदन्यत्र ततो निदध्यात्तत्रापरं कोष्णजलं क्षिपेच्च १४२
- पुनश्च तस्मादपरत्र पात्रे पश्चाच्च पात्रादपरत्र भूयः
- यदा विशुद्धं जलमेवमूर्ध्वं कृष्णं समस्तं मलमेत्यधस्तात्
- तदा त्यजेत्तत्सलिलं मलञ्च शिलाजतु स्याज्जलशुद्धमेवम् १४३
- शिलाजतु स्मृतं तिक्तं कटूष्णं कटुपाकि च
- रसायनं योगवाहि श्लेष्ममेहाश्मशर्कराः १४४
- मूत्रकृच्छ्रं क्षयं श्वासं शोथमर्शांसि पाण्डुताम्
- वातरक्तं तथा कुष्ठमपस्मारोदरं हरेत् १४५
- नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः
- मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् १४६
- तन्मध्ये भृङ्गराड् मुण्डी विष्णुक्रान्ता पुनर्नवा
- मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी १४७
- त्रिफला गिरिकर्णी च हंसपादी च चित्रकम्
- समूलं कुट्टयित्वा तु यथालाभं विनिक्षिपेत् १४८
- पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं स्मृतम्
- स्वेदनादिषु सर्वत्र रसराजस्य योजयेत्
- अत्यम्लमारनालं वा तदभावे प्रयोजयेत् १४९
- त्र्! यूषणं लवणं राजी रजनी त्रिफलाऽद्र कम्
- महाबला नागबला मेघनादः पुनर्नवा १५०
- मेषशृङ्गी चित्रकञ्च नवसारं समं समम्
- एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् १५१
- प्रलिम्पेत्तेन कल्केन वस्त्रमङ्गुलमात्रकम् १५२
- तन्मध्ये निक्षिपेत्सूतं बद्ध्वा तत्त्रिदिनं पचेत्
- दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः १५३
- मूलकानलसिन्धूत्थत्र्! यूषणार्द्र कराजिकाः
- रसस्य षोडशांशेन द्र व्यं युञ्ज्यात् पृथक्पृथक् १५४
- द्र व्येष्वनुक्तमानेषु मतं मानमितं बुधैः
- पट्टावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके १५५
- स्वेदयेद्दिनमेकञ्च दोलायन्त्रेण बुद्धिमान्
- स्वेदात्तीव्रो भवेत्सूतो मर्दनाच्च सुनिर्मलः १५६
- इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्यो रसस्ततः
- दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः १५७
- कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्बृहतीविमिश्रितैः
- फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते १५८
- त्र्! यूषणत्रिफलावन्ध्याकन्दैः क्षुद्रा द्वयान्वितैः
- चित्रकोर्णानिशाक्षारकन्याऽककनकद्र वैः १५९
- सूतं कृतेन यूषेण वारान्सप्त विमर्दयेत्
- इत्थं संमूर्च्छितः सूतस्त्यजेत्सप्तापि कञ्चुकान् १६०
- मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च
- यन्त्रे विद्याधरे कुर्याद्र सेन्द्र स्योर्ध्वपातनम् १६१
- त्रिफलाशिग्रुशिखिभिर्लंवणासुरिसंयुतैः
- नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाजनम् १६२
- ततो दीप्तैरधः पातमुपलैस्तस्य कारयेत्
- यन्त्रे भूधरसंज्ञे तु ततः सूतो विशुद्ध्य्ति १६३
- स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा भवेत्
- तदा कार्याणि कुरुते प्रयोज्यः सर्वकर्मसु १६४
- गृहकन्या हरति मलं त्रिफलाऽग्नि चित्रको विषं हन्ति
- तस्मादेभिर्मिश्रैर्वारान् संमूर्च्छयेत्सप्त १६५
- कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः
- फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते १६६
- कुमार्या च निशाचूर्णैर्दिनं सूतं विमर्दयेत्
- एवं कदर्थितः सूतः षण्ढो भवति निश्चितम् १६७
- बह्वौषधिकषायेण स्वेदितः स बली भवेत्
- सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः स्वेदितो बली
- ततः स पावकद्रा वैः स्विन्नः स्यादतिदीप्तिमान् १६८
- धूमसारं रसं तोरीं गन्धकं नवसादरम्
- यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् १६९
- काचकूप्यां विनिक्षिप्य ताञ्च मृद्वस्त्रमुद्र या
- विलिप्य परितो वक्त्रे मुद्रा ं! दत्त्वा विशोषयेत् १७०
- अधः सच्छिद्र पिठरीमध्ये कूपीं निवेशयेत्
- पिठरीं बालुकापूरैर्भृत्वा चाकूपिकागलम् १७१
- निवेश्य चुल्ल्यां तदधो बह्निं कुर्याच्छनैः शनैः
- तस्मादत्यधिकं किञ्चित्पावकं ज्वालयेत्क्रमात् १७२
- एवं द्वादशभिर्यामैम्रियते रस उत्तमः
- स्फोटयेत्स्वाङ्गशीतं तमूर्ध्वगं गन्धकं त्यजेत् १७३
- अधःस्थञ्च मृतं सूतं गृह्णीयात्तं तु मात्रया
- यथोचितानुपानेन सर्वकर्मसु योजयेत् १७४
- अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत्
- तत्सम्पुटे क्षिपेत्सूतं मलयूदुग्धमिश्रितम् १७५
- द्रो णपुष्पीप्रसूनानि विडङ्गमरिमेदकः
- एतच्चूर्णमधश्चोर्ध्वं दत्त्वा मुद्रा प्रदीयते १७६
- तद्गोलं स्थापयेत्सम्यङ् मृन्मूषासम्पुटे पचेत् १७७
- एवमेकपुटेनैव सूतकं भस्म जायते
- तत्प्रयोज्यं यथास्थाने यथामात्रं यथाविधि १७८
- काकोदुम्बरिकादुग्धैः रसं किञ्चिद्विमर्दयेत्
- तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत् १७९
- क्षिप्त्वा तत्संपुटे सूतं तत्र मुद्रा ं! प्रदापयेत्
- धृत्वा तद् गोलकं प्राज्ञो मृन्मूषासम्पुटेऽधिके
- पचेद् गजपुटेनैव सूतकं याति भस्मताम् १८०
- नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः
- मृन्मूषासम्पुटे पक्वं सूतो यात्येव भस्मताम् १८१
- तत्र पारदस्य संक्षिप्तं शोधनं कर्त्तव्यम्
- शुद्धसूतसमं कुर्यात्प्रत्येकं गैरिकं सुधीः
- इष्टिकां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च १८२
- वल्मीकं क्षारलवणं भाण्डरञ्जकमृत्तिकाम्
- सर्वाण्येतानि संचूर्ण्य वाससा चापि शोधयेत् १८३
- एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दयेत्
- तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत् १८४
- तस्याः स्थाल्या मुखे स्थालीमपरां धारयेत्समाम्
- सवस्त्रकुट्टितमृदा मुद्र येदनयोर्मुखम् १८५
- संशोष्य मुद्र येद्भूयो भूयः संशोष्य मुद्र येत्
- सम्यग्विशोष्य मुद्रा ं! तां स्थालद्यं चुल्ल्यां विधारयेत् १८६
- अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम्
- अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम् १८७
- शनैरुद्घाटयेद्यन्त्रमूर्ध्वस्थालीगतं रसम्
- कर्पूरवत्सुविमलं गृह्णीयाद् गुणवत्तरम् १८८
- तद्देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम्
- खादन् हरति फिरङ्गं व्याधिं सोपद्र वं सपदि १८९
- विन्दति वह्नेर्दीप्तिं पुष्टिं वीर्यं बलं विपुलम्
- रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम् १९०
- शुद्धसूतस्य गृह्णीयाद्भिषग्भागचतुष्टयम्
- शुद्धगन्धस्य भागैकं तावत्कृत्रिमगन्धकम् १९१
- अथवा पारदस्यार्द्धं शुद्धगन्धकमेव हि
- तयोः कज्जलिकां कुर्याद्दिनमेकं विमर्दयेत् १९२
- मृत्तिका वाससा सार्द्धं कुट्टयेदतियत्नतः
- तथा वारत्रयं सम्यक्काचकूपीं प्रलेपयेत् १९३
- मृत्तिकां शोषयित्वा तु कूप्यां कज्जलिकां क्षिपेत्
- तां कूपीं बालुकायन्त्रे स्थापयित्वा रसं पचेत् १९४
- अग्निं निरन्तरं दद्याद्यावद्दिनचुतष्टयम्
- गृह्णीयादूर्ध्वसंलग्नं सिन्दूरसदृशं रसम् १९५
- इति सिन्दूररसः
- पारदः कृमिकुष्ठघ्नो जयदो दृष्टिकृत्सरः
- मृत्युहृच्च महावीर्यो योगवाही ज्वरापहः १९६
- स्मृत्योजोरूपदो वृष्यो वृद्धिकृद्धातुवर्द्धनः
- षण्ढत्वनाशनः शूरः खेचरः सिद्धिदःपरः १९७
- पारदः सकलरोगहा स्मृतः षड्रसो निखिलयोगवाहकः
- पञ्चभूतमय एष कीर्त्तितस्तेन तद्गुणगणैर्विराजते १९८
- यस्य रोगस्य यो योगस्तेनैव सह योजितः
- रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् १९९
- मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम्
- सप्तवारान्प्रयत्नेन शुद्धिमायाति निश्चितम् २००
- तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि
- हृल्लासकण्डूज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति २०१
- निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम्
- घृष्ट्वा दरदमूर्ध्वन्तु पातयेत्सूतयुक्तिवत् २०२
- तत्रोर्ध्वपिठरीलग्नं गृह्णीयाद्र समुत्तमम्
- शुद्धमेव हि तं सूतं सर्वकर्मसु योजयेत् २०३
- अशुद्धो गन्धकः कुर्यात्कुष्ठं पित्तरुजां भ्रमम्
- हन्ति वीर्य्यं बलं रूपं तस्माच्छुद्धः प्रयुज्यते २०४
- लौहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत्
- तप्ते घृते तत्समानं क्षिपेद् गन्धकजं रजः २०५
- विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिक्षिपेत्
- यथा वस्त्राद्विनिःस्रुत्य दुग्धमध्येऽखिलं पतेत्
- एवं स गन्धकः शुद्धः सर्वकर्मोचितो भवेत् २०६
- गन्धकः कटुकस्तिक्तो वीर्य्योष्णस्तुवरः सरः २०७
- पित्तलः कटुकः पाके कण्डूवीसर्पजन्तुजित्
- हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः २०८
- पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदञ्च कुर्य्यात्
- हृत्पार्श्वपीडां च करोत्यसह्यामशुद्धमभ्रं गुरु वह्निहृत्स्यात् २०९
- कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत्
- भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्र वैः
- भावयेदष्टयामं तदेवमभ्रं विशुद्ध्यति २१०
- कृत्वा धान्याभ्रकं तथा शोषयित्वाऽथ मर्दयेत्
- अर्कक्षीरैर्दिनं खल्वे चक्राकारं च कारयेत् २११
- वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत्
- पुनर्मर्द्यं पुनः पाच्यं सप्तवारान् पुनः पुनः २१२
- ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम्
- म्रियते नात्र सन्देहः प्रयोज्यं सर्वकर्मसु २१३
- तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत्
- घृते जीर्णे तदभ्रन्तु सर्वयोगेषु योजयेत् २१४
- पादांशशालिसंयुक्तमभ्रं बद्ध्वाऽथ कम्बले
- त्रिरात्रं स्थापयेन्नीरे तत्क्लिन्नं मर्दयेत्करैः २१५
- कम्बलाद्गलितं सूक्ष्मं बालुकारहितञ्च यत्
- तद् धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये २१६
- अभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनञ्च
- हन्यात् त्रिदोषं व्रणमेहकुष्ठं प्लीहोदरं ग्रन्थिविषकृमींश्च २१७
- रोगान् हन्ति द्र ढयति वपुर्वीर्यवृद्धिं विधत्ते
- तारुण्याढ्यं रमयति शतं योषितां नित्यमेव
- दीर्घायुष्काञ्जनयति सुतान् सिंहतुल्यप्रभावान्
- मृत्योर्भीतिं हरति सुतरां सेव्यमानं मृताभ्रम् २१८
- अशुद्धं तालमायुर्हृत्कफमारुतमेहकृत्
- तापस्फोटाङ्गसङ्कोचं कुरुते तेन शोधयेत् २१९
- तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत्
- दोलायन्त्रेण यामैकं ततः कूष्माण्डजद्र वैः २२०
- तिलतैले पचेद्यामं यामञ्च त्रिफलाजले
- एवं यन्त्रे चतुर्यामं पक्वं शुद्ध्य्ति तालकम् २२१
- सदलं तालकं शुद्धं पौनर्नवरसेन तु
- खल्वे विमर्दयेदेकं दिनं पश्चाद्विशोधयेत् २२२
- ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत्
- तत्र तद्गोलकं कृत्वा पुनस्तेनैव पूरयेत् २२३
- आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे
- स्थालद्यं चुल्ल्यां समारोप्य क्रमाद्वह्निं विवर्धयेत् २२४
- दिनान्यन्तरशून्यानि पञ्च वह्निं प्रदापयेत् २२५
- एवं तन्म्रियते तालं मात्रा तस्यैकरक्तिका
- अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत् २२६
- हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम्
- कण्डूकुष्ठास्यरोगास्रकफपित्तकचव्रणान् २२७
- तालकं हरते रोगान्कुष्ठमृत्युज्वरापहम्
- शोधितं कुरुते कान्तिं वीर्यवृद्धिं तथाऽयुषम् २२८
- तालकस्यैव भेदोऽस्ति मनोगुप्तैतदन्तरम्
- तालकं त्वतिपीतं स्याद्भवेद्र क्ता मनः शिला २२९
- मनःशिला मन्दवलं करोति जन्तुं ध्रुवं शोधनमन्तरेण
- मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदञ्च कुर्य्यात् २३०
- पचेत्त्र्यहमजामूत्रे दोलायन्त्रे मनःशिलाम्
- भावयेत्सप्तधा पित्तैरजायाः सा विशुद्ध्यति २३१
- गुर्वी मनः शिला वर्ण्या सरोष्णा लेखनी कटुः
- तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् २३२
- नरमूत्रे च गोमूत्रे सप्ताहं रसकं पचेत्
- दोलायन्त्रेण शुद्धः स्यात्ततः कार्येषु योजयेत् २३३
- खर्परं कटुकं क्षारं कषायं वामकं लघु
- लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत्
- विषाश्मकुष्ठकण्डूनां नाशनं परमं मतम् २३४
- सूर्यावर्त्तो वज्रकन्दः कदली देवदालिका
- शिग्रुः कोशातकी वन्ध्या काकमाची च बालकम् २३५
- एषामेकरसेनैव त्रिक्षारैर्लवणैः सह
- भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः २३६
- ततः पचेच्च तद्द्रा वैर्दोलायन्त्रे दिनं सुधीः
- एवं शुद्ध्य्न्ति ते सर्वे प्रोक्ता उपरसा हि ये २३७
- कङ्कुष्ठं गैरिकं शङ्खः कासीसं टङ्कणं तथा
- नीलाञ्जनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः २३८
- जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणा
- शुद्धिमायान्त्यमी योज्या भिषग्भिर्योगसिद्धये २३९
- अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा
- पाण्डुत्वं पङ्गुलत्वञ्च तस्मात्संशोध्य मारयेत् २४०
- कुलत्थकोद्र वक्वाथे दोलायन्त्रे विपाचयेत्
- व्याघ्रीकन्दगतं वज्रं त्रिदिनात्तद्विशुद्ध्य्ति २४१
- गृहीत्वाऽह्नि शुभे वज्रंव्याघ्रीकन्दोदरे क्षिपेत्
- महिषीविष्ठया लिप्त्वा कारीषाग्नौ विपाचयेत् २४२
- त्रियामायां चतुर्यामं यामिन्यन्तेऽश्वमूत्रके
- सेचयेत्पाचयेदेवं सप्तरात्रेण शुद्ध्य्ति २४३
- हिंगुसैन्धवसंयुक्ते क्षिपेत्क्वाथे कुलत्थजे
- तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा २४४
- मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसान् २४५
- शशदन्तं समं पिष्ट्वा वज्रीक्षीरेण गोलकम्
- कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेव हि २४६
- आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च
- सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः २४७
- वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा
- शुद्धानां मारितानाञ्च तेषां शृणु गुणानपि २४८
- मणयो वीर्यतः शीता मधुरास्तुवरा रसात्
- चक्षुष्या लेखनाश्चापि सारका विषहारकाः
- धारणात्ते तु मङ्गल्या ग्रहदृष्टिहरा अपि २४९
- सिन्धुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा
- यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः २५०
- गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्य्ति
- रक्तसर्षपतैलाक्ते तथा धार्यञ्च वाससि २५१
- ये गुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात्
- तस्माद्विषं प्रयोगे तु शोधयित्वा प्रयोजयेत् २५२
- विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च
- आग्नेयं वातकफहृद्योगवाहि मदावहम् २५३
- तदेव युक्तियुक्तन्तु प्राणदायि रसायनम्
- योगवाहि परं वातश्लेष्मजित्सन्निपातहृत् २५४
- अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः
- गुञ्जाऽहिफेनो धत्तूरः सप्तोपविषजातयः २५५
- गुणहीनं भवेद्वर्षादूर्ध्वं तद्रू पमौषधम्
- मासद्वयात्तथा चूर्णं लभते हीनवीर्यताम् २५६
- हीनत्वं गुटिकालेहौ लभेते वत्सरं यदि
- हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिकास्तथा २५७
- घृतमब्दात्परं पक्वं हीनवीर्यत्वमाप्नुयात्
- तैलं पक्वमपक्वञ्च चिरस्थायि गुणाधिकम् २५८
- ओषध्यो लघुपाकाः स्युर्निर्वीर्या वत्सरात्परम्
- पुराणाः स्युर्गुणैर्युक्ता आसवा धातवो रसाः २५९
- इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे तृतीयं धात्वादिशोधनमारणविधिप्रकरणं समाप्तम् ३
- अथ चतुर्थं स्नेहपानविधिप्रकरणम् ४
- स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा
- मज्जा च तं पिवेन्मर्त्यः किञ्चिदभ्युदिते रवौ १
- स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते
- तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम्
- द्वाभ्यां त्रिभिश्चतुर्भिर्वा यमकस्रिवृतो महान् २
- पिबेत् त्र्! यहं चतुरहं पञ्चाहं षडहानि वा ३
- दोषकालवयोवह्निबलान्यालोक्य योजयेत्
- हीनाञ्चमध्यमां ज्येष्ठां मात्रां स्नेहस्य बुद्धिमान् ४
- अमात्रया तथाऽकाले मिथ्याऽहारविहारतः
- स्नेहः करोति शोथार्शस्तन्द्रा निद्रा विसंज्ञताः ५
- देया दीप्ताग्नये मात्रा स्नेहस्यैकपलोन्मिता
- मध्यमाय त्रिकर्षा स्याज्जघन्याय द्विकार्षिकी ६
- अथवा स्नेहमात्राः स्युस्तिस्रोऽन्या सर्वसम्मताः
- अहोरात्रेण महती जीर्यत्यह्नि तु मध्यमा
- जीर्यत्यल्पा दिनार्द्धेन सा विज्ञेया सुखावहा ७
- अल्पा स्याद्दीपनी वृष्या स्वल्पदोषे प्रपूजिता ८
- मध्यमा स्नेहनी ज्ञेया वृंहणी भ्रमहारिणी
- ज्येष्ठा कुष्ठविषोन्मादग्रहापस्मारनाशिनी ९
- या मात्रा प्रथमे यामे गते जीर्यति वासरे
- सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता १०
- या मात्रा वासरस्यार्द्धे व्यतीते परिजीर्यति
- सा वृष्या बृंहणी च स्यान्मध्यदोषे प्रपूजिता ११
- या मात्रा चरमे यामे स्थितेऽह्न परिजीर्यति
- सा मात्रा स्नेहनी ज्ञेया बहुदोषेषु पूजिता १२
- केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्
- देयं वहुकफे वह्निव्योषक्षारसमन्वितम् १३
- रूक्षक्षतविषार्त्तानां वातपित्तविकारिणाम्
- हीनमेधास्मृतीनां च सर्पिष्पानं प्रशस्यते १४
- कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः
- पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनस्तु ये १५
- व्यायामकर्षिताः शुष्करेतोरक्ता महारुजः
- महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः १६
- क्रूराशयाः क्लेशसहा वातार्त्ता दीप्तवह्नयः
- मज्जानञ्च पिबेयुस्ते सर्पिर्वा सर्वतो हितम् १७
- शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि
- वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा १८
- नस्याभ्यज्जनगण्डूषमूर्ध्वकर्णाक्षितर्पणे
- तैलं घृतं वा युञ्जीत दृष्ट्वा दोषबलाबलम् १९
- घृते कोष्णं जलं पेयं तैले यूषः प्रशस्यते
- वसामज्ज्ञोः पिबेन्मण्डमनुपानं सुखावहम् २०
- स्नेहद्विषः शिशून्वृद्धान्सुकुमारान्कृशानपि
- तृष्णालुकानुष्णकाले सह भक्तेन पाययेत् २१
- सर्पिष्मती बहुतिला यवागूः स्वल्पतण्डुला
- सुखोष्णा सेव्यमाना तु सद्यः स्नेहनकारिणी २२
- शर्कराचूर्णसंयुक्ते दोहनस्थे घृते तु गाम्
- दुग्ध्वा क्षीरं पिबेद्रू क्षः सद्यः स्नेहनमुत्तमम् २३
- मिथ्याऽचाराद् बहुत्वाच्च यस्य स्नेहो न जीर्यति
- विष्टभ्य वाऽपि जीर्येत वारिणोष्णेन वामयेत् २४
- स्नेहस्याजीर्णशङ्कायां पिबेदुष्णोदकं नरः
- तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा २५
- स्नेहेन पैत्तिकस्याग्निर्यदा तीक्ष्णतरीकृतः
- तदाऽस्योदीरयेत् तृष्णां विषमां तस्य पाययेत्
- शीतलं पायसं तेन तृष्णा तस्य प्रशाम्यति २६
- अजीर्णी वर्जयेत्स्नेहमुदरी तरुणज्वरी
- दुर्बलोऽरोचकी स्थूलो मूर्च्छालो मेहपीडितः २७
- दत्तवस्तिविरिक्तश्च वान्तस्तृष्णाश्रमान्वितः
- अकालप्रसवा नारी दुर्दिने च विवर्जयेत् २८
- स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचित्तकाः २९
- वृद्धबालकृशा रूक्षाः क्षीणास्राः क्षीणरेतसः
- वातार्त्तास्तिमिरार्त्ता ये तेषां स्नेहनमुत्तमम् ३०
- वातानुलोम्यं दीप्ताग्निर्वर्चः स्निग्धमसंहतम्
- मृदुस्निग्धाङ्गताऽग्लानिः स्नेहद्वेषोऽथ लाघवम्
- विमलेन्द्रि यता सम्यक् स्निग्धे रूक्षे विपर्ययः ३१
- भक्तद्वेषो मुखस्रावो गुदे दाहः प्रवाहिका
- तन्द्रा ऽतीसारपाण्डुत्वं भृशं स्निग्धस्य लक्षणम् ३२
- रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्
- श्यामाकचणकाद्यैश्च तक्रपिण्याकसक्तुभिः ३३
- दीप्ताग्निः शुद्धकोष्ठश्च पुष्टधातुर्दृढेन्द्रि यः
- निर्जरो बलवर्णाढ्यः स्नेहसेवी भवेन्नरः ३४
- स्नेहे व्यायामसंशीतवेगाघातप्रजागरान्
- दिवास्वप्नमभिष्यन्दि रूक्षान्नञ्च विवर्जयेत् ३५
- इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे चतुर्थं स्नेहपानविधिप्रकरणं समाप्तम् ४
- अथ पञ्चमं पञ्चकर्मविधिप्रकरणम् ५
- प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम्
- एतानि पञ्चकर्माणि निरूहो नावनं तथा १
- शरत्काले वसन्ते च प्रावृट्काले च देहिनाम्
- वमनं रेचनं चैव कारयेत्कुशलो भिषक् २
- बलवन्तं कफव्याप्तं हृल्लासादिनिपीडितम्
- तथा वमनसात्म्यञ्च धीरचित्तञ्च वामयेत् ३
- विषदोषे स्तन्यरोगे मन्देऽग्नौ श्लीपदेऽबुदे
- हृद्रो गे कुष्ठवीसर्पमेहाजीर्णभ्रमेषु च ४
- विदारिकाऽपचीकासश्वासपीनसवृद्धिषु
- अपस्मारे ज्वरोन्मादे तथा रक्तातिसारिषु ५
- नासाताल्वोष्ठपाकेषु कर्णस्रावेऽधिजिह्वके
- गलशुण्ड्यामतीसारे पित्तश्लेष्मगदे तथा
- मेदोगदेऽरुचौ चैव वमनं कारयेद्भिषक् ६
- न वामनीयस्तिमिरी न गुल्मी नोदरी कृशः
- नातिवृद्धो गर्भिणी च न स्थूलो न क्षतातुरः ७
- मदार्त्तो बालको रूक्षः क्षुधितश्च निरूहितः
- उदावत्तर्यूर्ध्वरक्ती च दुश्छर्द्यः केवलानिली ८
- पाण्डुरोगी कृमिव्याप्तः पवनात्स्वरघातवान् ९
- एतेऽप्यजीर्णव्यथिता वाम्या ये विषपीडिताः
- कफव्याप्ताश्च ते वाम्या मधुकक्वाथपानतः १०
- सुकुमारं कृशं बालं वृद्धं भीरुञ्च वामयेत्
- पाययित्वा यवागूं वा क्षीरतक्रदधीनि च ११
- असात्म्यैः श्लेष्मलैर्भोज्यैर्दोषानुत्क्लेश्य देहिनाम्
- स्निग्धस्विन्नाय वमनं दत्तं सम्यक्प्रवर्त्तते १२
- वमनेषु च सर्वेषु सैन्धवं मधु वा हितम्
- वीभत्सं वमनं दद्याद्विपरीतं विरेचनम् १३
- क्वाथद्र व्यस्य कुडवं श्रपयित्वा जलाढके
- अर्द्धभागावशिष्टञ्च वमनेष्ववचारयेत् १४
- क्वाथपाने नवप्रस्था ज्येष्ठा मात्रा प्रकीर्त्तिता
- मध्यमा षण्मिता प्रोक्ता त्रिप्रस्था च कनीयसी १५
- वमने च विरेके च तथा शोणितमोक्षणे
- अर्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः १६
- कल्कचूर्णावलेहानां त्रिपलं मात्रयोत्तमम्
- मध्यमं द्विपलं विद्यात्कनीयस्तु पलं भवेत् १७
- वमने चाष्टवेगाःस्युः पित्तान्ता उत्तमास्तु ते
- षड् वेगा मध्यमा वेगाश्चत्वारस्त्वपरे मताः १८
- कफं कटुकतीक्ष्णोष्णैः पित्तं स्वादुहिमैर्जयेत्
- सुस्वादुलवणाम्लोष्णैः संसृष्टं वायुना कफम् १९
- कृष्णां राठफलं सिन्धुं कफे कोष्णजलैः पिबेत्
- पटोलवासानिम्बांश्च पित्ते शीतजलैः पिबेत् २०
- सश्लेष्मवातपीडायां सक्षीरं मदनं पिबेत्
- अजीर्णे कोष्णपानीयं सिन्धुं पीत्वा वमेत्सुधीः २१
- वमनं पाययित्वा तु जानुमात्रासने स्थितम्
- कण्ठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक् २२
- प्रसेको हृद्ग्रहः कोठः कण्डूर्दुश्छर्दिते भवेत्
- अतिवान्ते भवेत्तृष्णा हिक्कोद्गारो विसंज्ञिता २३
- जिह्वानिःसरणं चाक्ष्णोर्व्यावृत्तिर्हनुसंहतिः
- रक्तच्छर्दिः ष्ठीवनञ्च कण्ठपीडा च जायते २४
- वमनस्यातियोगे तु मृदु कुर्याद्विरेचनम्
- वमनेन प्रविष्टायां जिह्वायां कवलग्रहाः
- स्निग्धाम्ललवणैर्युक्तैर्घृतक्षीररसैर्हिताः २५
- फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः
- निःसृतान्तु तिलद्रा क्षाकल्कलिप्तां प्रवेशयेत् २६
- व्यावृत्तेऽक्ष्णि घृताभ्यक्तेपीडनञ्च शनेः शनैः
- हनुमोक्षे स्मृतः स्वेदो नस्यञ्च श्लेष्मवातहृत् २७
- रक्तपित्तविधानेन रक्तष्ठीवमुपाचरेत्
- धात्रीरसाञ्जनोशीरलाजाचन्दनवारिभिः २८
- मन्थंकृत्वा पाययेच्च सघृतं क्षौरद्र शर्करम्
- शाम्यन्त्यनेन तृष्णाऽद्या रोगाश्छर्दिसमुद्भवाः २९
- हृत्कण्ठशिरसां शुद्धिर्दीप्ताग्नित्वञ्च लाघवम्
- कफपित्तविनाशश्च सम्यग्वान्तस्य लक्षणम् ३०
- ततोऽपराह्णे दीप्ताग्निं मुद्गषष्टिकशालिभिः
- हृद्यैश्च जाङ्गलरसैः कृत्वा यूषञ्च भोजयेत् ३१
- तन्द्रा निद्रा ऽस्यदौर्गन्ध्यं कण्डूश्च ग्रहणी विषम्
- सुवान्तस्य न पीडायै भवन्त्येते कदाचन ३२
- अजीर्णं शीतपानीयं व्यायामं मैथुनं तथा
- स्नेहाभ्यङ्गञ्च रोषञ्च दिनमेकं सुधीस्त्यजेत् ३३
- स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग्विरेचनम्
- अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः ३४
- मन्दाग्निं गौरवं कुर्याज्जनयेद्वा प्रवाहिकाम्
- अथवा पाचनैरामं वलासं परिपाचयेत् ३५
- ऋतौ वसन्ते शरदि देहशुद्धौ विरेचयेत्
- अन्यदाऽत्ययिके कार्ये शोधनं शीलयेद् बुधः ३६
- पित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथा
- उदरे च तथाऽध्माने कोष्ठशुद्धौ विशेषतः ३७
- दोषाः कादाचित्कुप्यन्ति जिता लङ्घनपाचनैः
- शोधनैः शोधिता ये तु न तेषां पुनरुद्भवः ३८
- बालो वृद्धो भृशं स्निग्धः क्षतक्षीणो भयान्वितः
- श्रान्तस्तृषाऽत्त स्थूलश्च गर्भिणी च नवज्वरी ३९
- नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी
- शल्यार्दितश्च रूक्षश्च न विरेच्या विजानता ४०
- जीर्णज्वरी गरव्याप्तो वातरोगी भगन्दरी
- अर्शः पाण्डूदरग्रन्थिहृद्रो गारुचिपीडिताः ४१
- योनिरोगप्रमेहार्त्ता गुल्मप्लीहव्रणार्दिताः
- विद्र धिच्छर्दिविस्फोटविसूचीकुष्ठसंयुताः ४२
- कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः
- प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षारानिलार्दिताः ४३
- शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः ४४
- बहुपित्तो मृदुः कोष्ठो बहुश्लेष्मा च मध्यमः
- बहुवातःक्रूरकोष्ठो दुर्विरेच्यः स कथ्यते ४५
- मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमा
- क्रूरे तीक्ष्णा मता द्र व्यैर्मृदुमध्यमतीक्ष्णकैः ४६
- मृदुद्रा र्क्षा!पयश्चञ्चुतैलैरपि विरिच्यते
- मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरिच्यते
- क्रूरः स्नुक्पयसा हेमक्षीरीदन्तीफलादिभिः ४७
- मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तिका
- वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका ४८
- द्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत्
- पलार्द्धं च कषायाणां कनीयस्तु विरेचनम् ४९
- कल्कमोदकचूर्णानां कर्षो मध्वाज्यलेहतः
- कर्षद्वयं पलं वाऽपि वयोरोगाद्यपेक्षया ५०
- पित्तोत्तरे त्रिवृच्चूर्णं द्रा क्षाक्वाथादिभिः पिबेत्
- त्रिफलाक्वाथगोमूत्रैः पिबेद् व्योषं कफार्दितः ५१
- त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबन्नेरः
- वातार्दितो विरेकाय जाङ्गलानां रसेन वा ५२
- एरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन वा
- युक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते ५३
- त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्
- समृद्वीकारसं क्षौद्रं वर्षाकाले विरेचनम् ५४
- त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्
- द्रा क्षाऽम्बुना सयष्ट्याह्वं शीतलञ्च घनात्यये ५५
- त्रिवृता चित्रकं पाठामजाजीं सरलं वचाम्
- हेमक्षीरीं हेमन्ते तु चूर्णमुष्णाम्बुना पिबेत् ५६
- पिप्पलद्यं नागरं सिन्धुं श्यामां त्रिवृतया सह
- लिह्यात्क्षौद्रे ण शिशिरे वसन्ते च विरेचनम् ५७
- त्रिवृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् ५८
- अथाभयादिमोदकः
- अभया मरिचं शुण्ठीविडङ्गामलकानि च
- पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव च ५९
- एतानि समभागानि दन्ती तु त्रिगुणा भवेत्
- त्रिवृताऽष्टगुणा ज्ञेया षड्गुणा चात्र शर्करा ६०
- मधुना मोदकान्कृत्वा कर्षमात्रान्प्रमाणतः
- एकैकं भक्षयेत् प्रातः शीतञ्चानु पिबेज्जलम् ६१
- तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते
- पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा ६२
- विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान्
- दुर्नामकुष्ठगुल्मार्शोगलगण्डोदरभ्रमान् ६३
- विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान्
- वातरोगांस्तथाऽध्मानं मूत्रकच्छ्रादि चाश्मरीम् ६४
- पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत्
- स्नेहाभ्यङ्गञ्च रोषञ्च दिनमेकं सुधीस्त्यजेत् ६५
- सततं शीलनादेव पलितानि प्रणाशयेत्
- अभयामोदका ह्येते रसायनवराः स्मृताः ६६
- पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी
- सुगन्धि किच्चिदाघ्राय ताम्बूलं शीलयेद् बुधः ६७
- निर्वातस्थो न वेगांश्च धारयेन्न शयीत च
- शीताम्बु न स्पृशेत्क्वापि कोष्णनीरं पिबेन्मुहुः ६८
- वलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत्
- रेकात्तथा मलं पित्तं भेषजञ्च कफो व्रजेत् ६९
- दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक्
- पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम् ७०
- विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते
- तं पुनः पाचनैः स्नेहैः पक्त्वा स्निग्धं तु रेचयेत्
- तेनास्योपद्र वा यान्ति दीप्ताग्निर्लघुता भवेत् ७१
- विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च
- शूलं कफातियोगः स्यान्मांसधावनसन्निभम् ७२
- मेदोनिभं जलाभासं रक्तश्चापि विरिच्यते
- तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः ७३
- मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु
- सहकारत्वचः कल्को दध्ना सौवीरकेण वा ७४
- पिष्ट्वा नाभिप्रलेपेन हन्त्यतीसारमुल्वणम्
- सौवीरं तु यवैरामैः पक्वैर्वा निस्तुषीकृतैः ७५
- अजाक्षीरं रसञ्चापि वैष्किरं हारिणं तथा
- शालिभिः षष्टिकैस्तुल्यैर्मसूरैर्वापि भोजयेत् ७६
- शीतैः संग्राहिभिर्द्र व्यैः कुर्यात्संग्रहणं भिषक्
- लाघवे मनसस्तुष्टावनुलोमं गतेऽनिले ७७
- सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि
- इन्द्रि याणां बलं बुद्धे प्रसादो वह्निदीप्तता ७८
- धातुस्थैर्यं वयःस्थैर्यं भवेद्रे चनसेवनात्
- प्रवातसेवां शीताम्बुस्नेहाभ्यङ्गमजीर्णताम् ७९
- व्यायामं मैथुनञ्चैव न सेवेत विरेचितः
- शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत्कृताम् ८०
- जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम् ८१
- वस्तिर्द्विधाऽनुवासाख्यो निरूहश्च ततः परम्
- यः स्नेहो दीयते स स्यादनुवासन नामकः ८२
- कषायक्षीरतैलैर्यो निरूहः स निगद्यते
- वस्तिभिर्दीयते यस्मात्तस्माद्वस्तिरिति स्मृतः ८३
- तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते
- अनुवासनभेदश्च मात्रावस्तिरुदीरितः ८४
- पलद्वयं तस्य मात्रा तस्मादर्द्धाऽपि वा भवेत्
- अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली ८५
- नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी
- नास्थाप्या नानुवास्याश्च जीर्णोन्मादतृडर्दिताः
- शोथमूर्च्छाऽरुचिभयश्वासकासक्षयातुराः ८६
- नेत्रं कार्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः
- नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ८७
- एकवर्षात्तु षड्वर्षाद्यावन्मानं षडङ्गुलम्
- ततो द्वादशकं यावन्मानं स्यादष्टसम्मितम् ८८
- ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता
- मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिसन्निमम् ८९
- यथा संख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम्
- गोपुच्छसन्निमं मूले स्थूलं तस्मात् क्रमात् कृशम् ९०
- आतुराङ्गुष्ठमानेन मूले स्थूलं निधीयते
- कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ९१
- तन्मूले कर्णिके द्वे च कार्ये भागाच्चतुर्थकात् ९२
- योजयेत्तत्र वस्तिञ्च बन्धद्वयविधानतः
- मृगाजशूकरगवां महिषस्यापि वा भवेत् ९३
- मूत्रकोषस्य वस्तिस्तु तदलाभे तु चर्मणः
- कषायरक्तः स मृदुर्वस्तिः स्निग्धो दृढो हितः ९४
- व्रणवस्तेस्तु नेत्रं स्याच्छ्लक्ष्णमष्टाङ्गुलोन्मितम्
- मुद्गच्छिद्रं गृध्रपक्षनलिकापरिणाहि च ९५
- शरीरोपचयं वर्णं बलमारोग्यमायुषः
- कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः ९६
- दिवा शीते वसन्ते च स्नेहवस्तिः प्रदीयते
- ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् ९७
- न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत्
- मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ९८
- रूक्षभुक्तवतोऽत्यन्तं बलं वर्णञ्च हापयेत्
- युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ९९
- हीनमात्रावुभौ वस्ती नातिकार्यकरौ स्मृतौ
- अतिमात्रौ तथाऽनाहक्लमातीसारकारकौ १००
- उत्तमास्यात्पलैः षड्भिर्मध्यमा स्यात्पलैस्त्रिभिः
- पलाध्यर्द्धेन हीनास्यादुक्ताः मात्राऽनुवासने १०१
- शताह्वासैन्धवाभ्याञ्च देयं स्नेहे च चूर्णकम्
- तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्वयमाषकैः १०२
- विरेचनात्सप्तरात्रे गते जातबलाय च
- भुक्तान्नायानुवास्याय वस्तिर्देयोऽनुवासनः १०३
- तथाऽनुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
- भोजयित्चा यथाशास्त्रं कृतचङ्क्रमणं ततः
- उत्सृष्टानिलविण्मूत्रं योजयेत्स्नेहबस्तिना १०४
- सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः
- कुञ्चितापरजङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत् १०५
- बद्धं वस्तिमुखं सूत्रैर्वामहस्तेन धारयेत्
- पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः १०६
- जृम्भाकासक्षवादींश्च वस्तिकाले न कारयेत्
- त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने १०७
- ततः प्रणिहिते स्नेहे उत्तानो वाक्शतं भवेत्
- प्रसारितः सर्वगात्रैर्यथावीर्यं प्रसर्पति १०८
- स्वजानुनः करावर्त्तं कुर्याच्छोटिकया पुनः
- एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः १०९
- निमेषोन्मेषणं पुंसामङ्गुल्या छोटिकाऽथ वा
- गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः ११०
- ताडयेत्तलयोरेनं त्रींस्त्रीन्वाराञ्छनैः शनैः
- स्फिजोश्चैव तथा श्रोणीं शय्याञ्चैवोत्क्षिपेत्ततः १११
- स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताडयेद् बुधः ११२
- शय्याञ्च पादतस्तस्य त्रीन्वारानुत्क्षिपेत्ततः
- जाते विधाने तु ततः कुर्यान्निद्रा ं! यथासुखम् ११३
- सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
- उपद्र वं विना शीघ्रं स सम्यगनुवासितः ११४
- जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः
- लघ्वन्नं भोजयेत्कामं दीप्ताग्निस्तु नरो यदि ११५
- अनुवासिताय दातव्यमितरेऽह्नि सुखोदकम्
- धान्यशुण्ठीकषायं वा स्नेहव्यापत्तिनाशनम् ११६
- अनेनविधिना षड्वा सप्त चाष्टौ नवापि वा
- विधेया वस्तयस्तेषामन्ते चैव निरूहणम् ११७
- दत्तस्तु प्रथमो वस्तिः स्नेहयेद्वस्तिवङ्क्षणौ
- सम्यग्दत्तो द्वितीयस्तु मूर्द्धस्थमनिलं जयेत् ११८
- बलं वर्णश्च जनयेत्तृतीयस्तु प्रयोजितः
- चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी ११९
- षष्ठो मांसं स्नेहयति सप्तमो मेद एव च
- अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम् १२०
- एवं शुक्रगतान्दोषान्द्विगुणः साधु साधयेत् १२१
- अष्टादशाष्टादशकाद्दिनाद्यो ना निषेवते
- स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः १२२
- रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने
- दद्याद्वैद्यस्तथाऽन्येषामग्न्याबाधभयात् त्र्! यहात्
- स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः १२३
- तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते
- अथ वा यस्य तत्कालं स्नेहो निर्याति केवलः
- तस्याप्यल्पतरो देयो न हि स्निग्धेऽवतिष्ठते १२४
- अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
- तदाऽङ्गसदनध्माने शूलं श्वासश्च जायते १२५
- पक्वाशये गुरुत्वञ्च तत्र दद्यान्निरूहणम्
- तीक्ष्णं तीक्ष्णोषधैर्युक्तं फलवर्त्तिमथापि वा १२६
- यथाऽनुलोमनो वायुर्मलः स्नेहश्च जायते
- तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्च शस्यते १२७
- यस्य नोपद्र वं कुर्यात्स्नेहवस्तिरनिःसृतः
- सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः स विजानता १२८
- अनायातं त्वहोरात्रे स्नेहं संशोधनैर्हरेत्
- स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते १२९
- गुडूच्येरण्डपूतीकभार्ङ्गींवृषकरौहिषम्
- शतावरीसहचरौ काकनासां पलोन्मिताम् १३०
- यवमाषातसीकोलकुलत्थान्प्रसृतोन्मितान्
- चतुद्रो र्णे!ऽम्भसः पक्त्वा द्रो णशेषेण तेन च १३१
- पचेत्तैलाढकं सर्वैर्जीवनीयैः पलोन्मितैः
- अनुवासनमेतद्धि सर्ववातविकारनुत् १३२
- षटसप्ततिव्यापदस्तु जायन्ते बस्तिकर्मणः
- दूषितात् समुदायेन ताश्चिकित्स्यास्तु सुश्रुतात् १३३
- पानाहारविहाराश्च परिहाराश्च कृत्स्नशः
- स्नेहपानसमाः कार्य्या नात्र कार्या विचारणा १३४
- निरूहवस्तिर्बहुधा भिद्यते कारणान्तरः
- तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः १३५
- निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः
- स्वस्थाने स्थापनाद्दोषधातूनां स्थापनं मतम् १३६
- निरूहस्य प्रमाणं तु प्रस्थं पादोत्तरं परम्
- मध्यमं प्रस्थमुद्दिष्टं हीनञ्च कुडवास्त्रयः १३७
- अतिस्निग्धोऽक्लिष्टदोषः क्षतोरस्कः कृशस्तथा
- आध्मानच्छर्दिहिक्काऽशकासश्वासप्रपीडितः १३८
- गुदशोफातिसारार्त्तो विसूचीकुष्ठसंयुतः
- गर्भिणी मधुमेही च नास्थाप्यश्च जलोदरी १३९
- वातव्याधावुदावर्ते वातासृग्विषमज्वरे
- मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु च १४०
- वृद्ध्य्सृग्दरमन्दाग्निप्रमेहेषु निरूह्रणम्
- शूलेऽम्लपित्ते हृद्रो गे योजयेद्विधिवद् बुधः १४१
- उत्सृष्टानिलविण्मूत्रं स्निग्धं स्विन्नमभोजितम्
- मध्याह्ने गृहमध्ये च यथायोग्यं निरूहयेत् १४२
- स्नेहवस्तिविधानेन बुधः कुर्यान्निरूहणम् १४३
- जाते निरूहे च ततो भवेदुत्कटकासनः
- तिष्ठेन्महूर्त्तमात्रन्तु निरूहागमनेच्छया १४४
- अनायातं मुहूर्त्तं तु निरूहं शोधनैर्हरेत्
- निरूहैरेव मतिमान्क्षारसूत्राम्लसैन्धवैः १४५
- यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः
- लाघवं चोपजायेत सुनिरूहं तमादिशेत् १४६
- यस्य स्याद्वस्तिरत्यल्पवेगो हीनमलानिलः
- मूर्च्छाऽत्तिजाड्यारुचिमान्दुर्निरूहं तमादिशेत् १४७
- विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः
- आस्थापनस्नेहवस्त्योः सम्यग्दाने तु लक्षणम् १४८
- अनेन विधिना युञ्ज्यान्निरूहं वस्तिदानवित्
- द्वितीयं वा तृतीयं वा चतुर्थं वा यथोचितम् १४९
- सस्नेह एकः पवने पित्ते द्वौ पयसा सह
- कषायकटुमूत्राद्याः कफेऽत्युष्णास्त्रयो हिताः १५०
- पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्
- निरूढं भोजयित्वा च ततस्तमनुवासयेत् १५१
- सुकुमारस्य वृद्धस्य बालस्य च मृदुर्हितः
- वस्तिस्तीक्ष्णः प्रयुक्तस्तु तेषां हन्याद्बलायुषी १५२
- दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं ततः
- पश्चात्संशमनीयञ्च दद्याद्वस्तिं विचक्षणः १५३
- एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
- हपुषाफलकल्कश्च वस्तिरुत्क्लेशनः स्मृतः १५४
- शताह्वा मधुकं बिल्वं कौटजं फलमेव च
- सकाञ्जिकः सगोमूत्रो वस्तिर्दोषहरः स्मृतः १५५
- प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्
- सक्षीरः शस्यते वस्तिर्दोषाणां शमनः स्मृतः १५६
- त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुतः
- ऊषकादिप्रतीवापैर्वस्तयोलेखनाः स्मृताः १५७
- बृंहणद्र व्यनिक्वाथैः कल्कैर्मधुरकैर्युताः
- सर्पिर्मांसरसोपेता वस्तयो बृंहणाः स्मृताः १५८
- बदर्यैरावतीशेलुशाल्मलीपुष्पजाङ्कुराः
- क्षीरसिद्धाःक्षौद्र युक्ता नाम्ना पिच्छलसंज्ञिताः १५९
- अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः
- मात्रा पिच्छिलवस्तीनां पलैर्द्वादशभिर्मता १६०
- दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्
- विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतित्रयम् १६१
- एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
- सम्मूर्च्छिते कषायन्तु चतुः प्रसृतिसम्मितम् १६२
- गृह्णीयाच्च तदा वाऽल्पमन्ते द्विप्रसृतोन्मितम्
- क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक् १६३
- एवं प्रकल्पितो वस्तिर्द्वादशप्रसृतिर्भवेत्
- वाते चतुष्पलं क्षौद्रं दद्यात् स्नेहस्य षट्पलम् १६४
- पित्ते चतुष्पलं क्षौद्रं स्नेहं दद्यात्पलत्रयम्
- कफे तु षट्पलं क्षौद्रं क्षिपेत् स्नेहं चतुष्पलम् १६५
- एरण्डक्वाथतुल्यांशं मधुतैलं पलाष्टकम्
- शतपुष्पापलार्द्धेन सैन्धवार्द्धेन संयुतम्
- मधुतैलकसंज्ञोऽय वस्तिर्दारुविलोडितः १६६
- मेदोगुल्मकृमिप्लीहमलोदावर्तनाशनः
- बलवर्णकरश्चैव वृष्यो दीपनबृंहणः १६७
- क्षौद्रा ज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत्
- हपुषासैन्धवाक्षांशो वस्तिः स्याद्यापनः परः १६८
- एरण्डमूलनिक्वाथो मधुतैलं ससैन्धवम्
- एष युक्तरथो वस्तिः सवचापिप्पलीफलः १६९
- पञ्चमूलस्य निक्वाथैस्तैलं मागधिका मधु
- ससैन्धवः सयष्ट्याह्वः सिद्धवस्तिरिति स्मृतः १७०
- स्नानमुष्णोदकैः कुर्याद्दिवास्वप्नमजीर्णताम्
- वर्जयेदपरं सर्वमाचरेत्स्नेहवस्तिवत् १७१
- अतः परं प्रवक्ष्यामि वस्तिमुत्तरसंज्ञितम्
- निरूहादुत्तरो यस्मात्तस्मादुत्तरसंज्ञकः १७२
- द्वादशाङ्गुलकं नेत्रं मध्ये च कृतकर्णिकम्
- मालतीपुष्पवृन्ताभं छिद्रं सर्षपनिर्गमम् १७३
- पञ्चविंशतिवर्षाणामधोमात्रा द्विकार्षिकी
- तदूर्ध्वं पलमात्रा च स्नेहस्योक्ता भिषग्वरैः १७४
- अथास्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः
- स्थितस्य जानुमात्रे च पिष्टे स्निग्धे शलाकया १७५
- स्निग्धया मेढ्रमार्गे तु तत्रो नेत्रं नियोजयेत्
- शनैः शनैर्घृताभ्यक्तं मेढ्ररन्ध्राङ्गुलानि षट् १७६
- ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं विनिर्हरेत्
- ततः प्रत्यागते स्नेहे स्नेहवस्तिंक्रमो हितः १७७
- स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्याद् दशाङ्गुलम्
- मुद्गप्रवेशयोग्यञ्च योन्यन्तश्चतुरङ्गुलम् १७८
- द्व्यङ्गुलं मूत्रमार्गे च सूक्ष्मं नेत्रं नियोजयेत्
- मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम् १७९
- शनैर्निष्कम्पमाधेयं सूक्ष्मं नेत्रं विचक्षणैः
- मालतीपुष्पवृन्ताभं नेत्रमित्युदितं पुनः १८०
- योनिमार्गेषु नारीणां स्नेहमात्रा द्विपालिकी
- मूत्रमार्गे पलोन्माना बालानां च द्विकार्षिकी १८१
- उत्तानायै स्त्रियै दद्यादूर्ध्वजान्वै विचक्षणः
- अप्रत्यागच्छति भिषग् वस्तावुत्तरसंज्ञिते १८२
- भूयो वस्तिं विदध्याच्च संयुक्तं शोधनैर्गुणैः
- फलवर्त्तिं विदध्याद् वा योनिमार्गे दृढां भिषक् १८३
- सूत्रैर्विनिर्मितां स्निग्धां शोधनद्र व्यसंयुताम् १८४
- दह्यमाने तथा वस्तौ दद्याद्वस्तिं विशारदः
- क्षीरिवृक्षकषायेण पयसा शीतलेन वा १८५
- वस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजा रुजः
- हन्यादुत्तरवस्तिस्तु नोचितो मेहिने क्वचित् १८६
- सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च
- वस्तेरुत्तरसंज्ञस्य समानाः स्नेहवस्तिना १८७
- घृताभ्यक्ते गुदे क्षिप्ता श्लक्ष्णा स्वाङ्गुष्ठसन्निभा
- मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता १८८
- नस्यं तत्कथ्यते धीरैर्नासाग्राह्यं यदौषधम्
- नावनं नस्यकर्मेति तस्य नामद्वयं मतम् १८९
- नस्यभेदो द्विधा प्रोक्तो रेचनं स्नेहनं तथा
- रेचनं कर्षणं प्रोक्तं स्नेहनं वृंहणं मतम् १९०
- कफपित्तानिलध्वंसि पूर्वमध्यापराह्णके
- दिनस्य गृह्यते नस्यं रात्रावप्युत्कटे गदे १९१
- नस्यं त्यजेद्भोजनान्ते दुर्दिने चापतर्पितः
- तथा नवप्रतिश्यायी गर्भिणी गरदूषितः
- अजीर्णी दत्तवस्तिश्च पीतस्नेहोदकासवः १९२
- क्रुद्धः शोकाभिभूतश्च तृषार्त्तो वृद्धबालकौ
- वेगावरोधी श्रान्तश्च स्नातुकामश्च वर्जयेत् १९३
- अष्टवर्षस्य बालस्य नस्यकर्म समाचरेत्
- अशीतिवर्षादूर्ध्वञ्च नावनं नैव दीयते १९४
- अथ वैरेचनं नस्यं ग्राह्यं तैलैः सुतीक्ष्णकैः
- तीक्ष्णैः भेषजसिद्धैर्वा स्नेहैः क्वाथै रसैस्तथा १९५
- नासिकारन्ध्रयोरष्टौ षट् चत्वारश्च बिन्दवः
- प्रत्येकं रेचनं योग्यं मुख्यमध्याल्पमात्रया १९६
- नस्यकर्मणि दातव्यं शाणैकं तीक्ष्णमौषधम्
- हिङ्गु स्याद्यवमात्रन्तु माषैकं सैन्धवं मतम् १९७
- क्षीरं चैवाष्टशाणं स्यात्पानीयञ्च त्रिकार्षिकम्
- कार्षिकं मधुरद्र व्यं नस्यकर्मणि योजयेत् १९८
- अवपीडः प्रधमनं द्वौ भेदावपरौ स्मृतौ
- शिरोविरेचनस्याथ तौ तु देयौ यथायथम् १९९
- कल्कीकृतादौषधाद्यः पीडितो निःसृतो रसः
- सोऽवपीडः समुद्दिष्टस्तीक्ष्णद्र व्यसमुद्भवः २००
- षडङ्गुला द्विवक्त्रा या नाडी चूर्णं तथा धमेत्
- तीक्ष्णं कोलमितं वक्त्रवातैः प्रधमनं हितम् २०१
- ऊर्ध्वजत्रुगते रोगे कफजे स्वरसंक्षये
- अरोचके प्रतिश्याये शिरःशूले च पीनसे २०२
- शोफापस्मारकुष्ठेषु नस्यं वैरेचनं हितम्
- भीरुस्त्रीकृशबालानां नस्यं स्नेहेन शस्यते २०३
- गलरोगे सन्निपाते निद्रा यां विषमज्वरे
- मनोविकारे कृमिषु पूज्यते चावपीडनम् २०४
- अत्यन्तोत्कटदोषेषु विसंज्ञेषु च दीयते
- चूर्णं प्रधमनं धीरैस्तद्धि तीक्ष्णतरं यतः २०५
- नस्यं स्याद् गुडशुण्ठीभ्यां पिप्पलीसैन्धवेन वा
- जलपिष्टेन कर्णाक्षिनासामूर्द्धभवा गदाः २०६
- मन्याहनुगलोद्भूता नश्यन्ति भुजपृष्ठजाः
- मधूकसारकृष्णाभ्यां वचामरिचसैन्धवैः २०७
- नस्यं कोष्णाम्भसा पिष्टं दद्यात्संज्ञाप्रबोधनम्
- अपस्मारे तथोन्मादे सन्निपातेऽपतन्त्रके २०८
- सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
- बस्तमूत्रेण संपिष्टं नस्यं तन्द्रा निवारणम् २०९
- रोहितस्य च पित्तेन भावितं मरिचं वचा
- कट्फलं चेति तच्चूर्णं देयं प्रधमनं वुधैः २१०
- अथ बृंहणनस्यस्य कल्पना कथ्यतेऽधुना
- मर्शश्च प्रतिमर्शश्च द्वौ भेदौ स्नेहने मतौ २११
- मर्शस्य तर्पणी मात्रा मुख्या शाणैः स्मृताऽष्टभिः
- मध्यमा तु चतुःशाणैर्हीना शाणमिता मता २१२
- एकैकस्मिंस्तु मात्रेयं देया नासापुटे बुधैः २१३
- मर्शस्य द्वित्रिवेलं वा वीक्ष्य दोषबलाबलम्
- एकान्तरं द्वयन्तरं वा नस्यं दद्याद्विचक्षणः २१४
- त्र्! यहं पञ्चाहमथवा सप्ताहं वा सुयन्त्रितः २१५
- मर्शे शिरोविरेके च व्यापदो विविधाः स्मृताः
- दोषोत्क्लेशात्क्षयाच्चैव विज्ञेयास्ता यथाक्रमम्
- दोषोत्क्लेशनिमित्तासु युञ्ज्याद्वमनशोधनम् २१६
- अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम्
- शिरोनासाऽक्षिरोगेषु सूर्यावर्त्तार्द्धभेदके २१७
- दन्तरोगे बले हीने मन्याबाह्वंसजे गदे
- मुखशोषे कर्णनादे वातपित्तगदे तथा २१८
- अकालपलिते चैव केशश्मश्रुप्रपातने
- पूज्यते बृंहणं नस्यं स्नेहैर्वा मधुरद्र वैः २१९
- सशर्करं पयःपिष्टं भृष्टमाज्येन कुङ्कुमम्
- नस्यप्रयोगतो हन्याद्वातरक्तभवा रुजः
- भ्रूशङ्खाक्षिशिरःकर्णसूर्यावर्त्तार्द्धभेदकान् २२०
- नस्यं स्यादणुतैलेन तथा नारायणेन वा
- माषादिना वा सर्पिर्भिस्तत्तद्भेषजसाधितैः २२१
- तैलं कफे स्याद्वाते च केवले पवने वसाम्
- दद्यान्नस्यं सदा पित्ते सर्पिर्मज्जानमेव च २२२
- माषात्मगुप्तारास्नाभिर्बलारुबुकरौहिषैः
- कृतोऽश्वगन्धया क्वाथो हिङ्गुसैन्धवसंयुतः २२३
- कोष्णो नस्यप्रयोगेण पक्षाघातं सकम्पनम्
- जयेदर्दितवातञ्च मन्यास्तम्भावबाहुकौ २२४
- प्रतिमर्शस्य मात्रा तु द्वित्रिविन्दुमिता मता
- प्रत्येकशो नासिकया स्नेहनेति विनिश्चितम् २२५
- स्नेहे ग्रन्थिद्वयं यावन्निमग्ना चोद्धृता ततः
- तर्जनी यं स्रवेद्बिन्दुं सा मात्रा बिन्दुसंज्ञिता २२६
- एवंविधैर्बिन्दुसंज्ञैरष्टाभिः शाण उच्यते
- स देयो मर्शनस्येषु प्रतिमर्शो द्विबिन्दुकः २२७
- समयाः प्रतिमर्शस्य बुधैः प्रोक्ताश्चतुर्दश
- प्रभाते दन्तकाष्ठान्ते गृहान्निर्गमने तथा २२८
- व्यायामाध्वव्यवायान्ते विण्मूत्रान्तेऽञ्जने कृते
- कवलान्ते भोजनान्ते दिवास्वप्नोस्त्थिते तथा २२९
- वमनान्ते तथा सायं प्रतिमर्शः प्रयुज्यते २३०
- रीषदुच्छिक्कनात्स्नेहो यथा वक्त्रं प्रपद्यते
- नस्ये निषिक्तं तं विद्यात्प्रतिमर्शप्रमाणतः २३१
- उच्छिष्टं न पिबेन्नैव निष्ठीवेन्मुखमागतम् २३२
- क्षीणे तृष्णाऽस्यशोषार्त्ते बाले वृद्धे च पूज्यते
- प्रतिमर्शान्न जायन्ते रोगाश्चैवोर्ध्वजत्रुजाः
- बलीपलितनाशश्च बलमिन्द्रि यजं भवेत् २३३
- बिभीतनिम्बौ गाम्भारी शिवा शेलुश्च काकिनी
- एकैकतैलनस्येन पलितं नश्यति ध्रुवम् २३४
- अथ नस्यविधिं वक्ष्ये नस्यग्रहणहेतवे
- देशेवातरजोमुक्ते कृतदन्तनिघर्षणम् २३५
- विशुद्धं धूमपानेन स्विन्नभालगलं तथा
- उत्तानशायिनं किञ्चित्प्रलम्बशिरसं नरम् २३६
- आस्तीर्णहस्तपादञ्च वस्त्राच्छादितलोचनम्
- समुन्नामितनासाऽग्र वैद्यो नस्येन योजयेत् २३७
- कोष्णेनाच्छिन्नधारेण हेमतारादिशुक्तिभिः
- शुक्त्या वा यन्त्रयुक्त्या वा प्लोतैर्वा नस्यमाचरेत् २३८
- नस्येष्वासिच्यमानेषु सिरो नैव प्रकम्पयेत्
- न कुप्येन्न प्रभाषेत नोच्छिक्केन्न हसेत्तथा २३९
- एतैर्हि विहितः स्नेहो नैवान्तं सम्प्रपद्यते
- ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः २४०
- शृङ्गाटकमभिव्याप्य स्थापयेन्न गिलेद् द्र वम्
- पञ्च सप्त दशैव स्युर्मात्राः स्नेहस्य धारणे २४१
- उपविश्याथ निष्ठीवेन्नासावक्त्रागतं द्र वम्
- वामदक्षिणपार्श्वाभ्यां निष्ठीवेत्संमुखं न हि २४२
- नीते नस्ये मनस्तापं रजःक्रोधञ्च सन्त्यजेत्
- शयीत निद्रा ं! त्यक्त्वा च प्रोत्तानो वाक्छतं नरः २४३
- तथा शिरोविरेकान्ते धूमो वा कवलो हितः
- नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः २४४
- शुद्धहीनातियोगा हि विज्ञेयाः शास्त्रचिन्तकैः
- लाघवं मलसंशुद्धिः स्रोतसां व्याधिसंक्षयः
- चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम् २४५
- कण्डूःप्रदेहो गुरुता स्रोतसां कफसंस्रवः
- मूर्ध्नि हीनाविशुद्धेस्तु लक्षणं परिकीर्त्तितम् २४६
- मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
- शून्यता शिरसश्चापि मूर्ध्नि गाढं विरेचिते २४७
- हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्
- तत्र हीनेन नस्येन शुद्धे वातघ्नमाचरेत् २४८
- सम्यग्विशुद्धे शिरसि सर्पिर्नस्येन दीयते
- कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः २४९
- लक्षणं तदतिस्निग्धे तत्र रूक्षं प्रदापयेत्
- भोजयेच्चानभिष्यन्दि नस्ये वातिकमादिशेत् २५०
- इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषाऽदिप्रकरणे पञ्चमं पञ्चकर्मविधिप्रकरणं समाप्तम् ५
- अथ षष्ठं धूमपानादिविधिप्रकणम् ६
- धूमस्तु षड्विधः प्रोक्तः शमनो बृंहणस्तथा
- रेचनः कासहा चैव वामनो व्रणधूपनः १
- शमनस्य तु पर्यायौ मध्यः प्रायोगिकस्तथा
- बृंहणस्य च पर्यायौ स्नेहनो मृदुरेव च २
- रेचनस्यापि पर्यायौ शोधनस्तीक्ष्ण एव च
- अधूमार्हाश्च खल्वेते श्रान्तो भीतश्च दुःखितः ३
- दत्तवस्तिर्विरिक्तश्च रात्रौ जागरितस्तथा
- पिपासितश्च दाहार्त्तस्तालुशोषी तथोदरी ४
- शिरोऽभितापी तिमिरी छर्द्याध्मानप्रपीडितः
- क्षतोरस्कः प्रमेहार्त्तः पाण्डुरोगी च गर्भिणी ५
- रूक्षः क्षीणोऽभ्यवहृतक्षीरक्षौद्र घृतासवः
- भुक्तान्नदधिमत्स्यश्च बालो वृद्धः कृशस्तथा ६
- अकाले चातिपीतश्च धूमः कुर्यादुपद्र वान्
- तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम् ७
- सर्पिरिक्षुरसं द्रा क्षां पयो वा शर्कराऽम्बु वा
- मधुराम्लौ रसौ वाऽपि वमनाय प्रदापयेत् ८
- धूमस्तु द्वादशाद्वर्षाद् गृह्यतेऽशीतिकान्न च
- कासश्वासप्रतिश्यायान् मन्याहनुशिरोरुजः ९
- वातश्लेष्मविकारांश्च हन्याद्धूमः सुयोजितः
- धूमोपयोगात्पुरुषः प्रसन्नेन्द्रि यवाङ्मनाः
- दृढकेशद्विजश्मश्रुः सुगन्धिवदनो भवेत् १०
- धूमनाडी भवेत्तत्र त्रिखण्डा च त्रिपर्विका
- कनिष्ठिकापरीणाहा राजमाषागमान्तरा ११
- धूमपानी भवेद्दीर्घा शमने रोगिणोऽङ्गुलैः
- चत्वारिंशन्मितैस्तद्वद् द्वात्रिंशद्भिर्मृदौ मता १२
- तीक्ष्णे चतुर्विंशतिभिः कासघ्ने षोडशोन्मित्! १३
- दशाङ्गुलैर्वामनीये तथा स्याद् व्रणनाडिका
- कलायमण्डलस्थूला कुलत्थागमरन्ध्रिका १४
- अथेषिकां प्रलिम्पेच्च सुश्लक्ष्णां द्वादशाङ्गुलाम्
- धूमद्र व्यस्य कल्केन लेपश्चाष्टाङ्गुलः स्मृतः १५
- कल्कं कर्षमितं लिप्त्वा छायाशुष्कञ्च कारयेत्
- ईषिकामपनीयाथ स्नेहाक्तां वर्त्तिमादरात् १६
- अङ्गारैर्दीपितां कृत्वा धृत्वा नेत्रस्य रन्ध्रके
- वदनेन पिबेद् धूमं वदनेनैव संत्यजेत् १७
- नासिकाभ्यां ततः पीत्वा मुखेनैव वमेत्सुधीः
- शरावसम्पुटे क्षिप्त्वा कल्कमङ्गारदीपितम्
- छिद्रे नेत्रं निवेश्याथ व्रणं तेनैव धूपयेत् १८
- एलादिकल्कं शमने स्निग्धं सर्जरसं मृदौ १९
- रेचने तीक्ष्णकल्कञ्च श्वासघ्ने क्षुद्र कोषणम्
- वामने स्नायुचर्माढ्यं दद्याद्धूमस्य पानकम् २०
- व्रणे निम्बवचाद्यश्च धूपनं संप्रशस्यते
- अन्येऽपि धूमा गेहेषु कर्त्तव्या रोगशान्तये २१
- मयूरपिच्छं निम्बस्य पत्राणि बृहतीफलम्
- मरिचं हिङ्गु मांसी च बीजं कार्पाससम्भवम् २२
- छागरोमाहिनिर्मोको विष्ठा वैडालिकी तथा
- गजदन्तश्च तच्चूर्णं किञ्चिद्घृतविमिश्रितम् २३
- गेहेषु धूपनं दत्तं सर्वान् बालग्रहान् हरेत्
- पिशाचान् राक्षसान् हत्वा सर्वज्वरहरं भवेत् २४
- मनस्तापं रजःक्रोधौ धूमपाने निवारयेत्
- नेत्राणि धातुजान्याहुर्नलवंशादिजान्यपि २५
- स्नेहक्षीरकषायादिद्र वैः सम्पूर्णमाननम्
- आपूर्य स्थीयते तावद्विधिर्गण्डूषधारणे २६
- कफपूर्णास्यता यावच्छेदो दोषस्य वा भवेत्
- नेत्रघ्राणस्रुतिर्यावत्तावद्गण्डूषधारणम् २७
- गण्डूषान् सुस्थितः कुर्य्यात्स्विन्नभालगलादिकः
- मनुष्यस्त्रींस्तथा पञ्च सप्त वाऽदोषनाशनात् २८
- चतुर्विधः स्याद् गण्डूषः स्नेहनः शमनस्तथा
- शोधनो रोपणश्चैव कवलश्चापि तादृशः २९
- स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः
- पित्ते कट्वम्ललवणैरुष्णैः संशोधनः कफे
- कषायतिक्तमधुरैः कटूष्णो रोपणो व्रणे ३०
- दद्याद् द्र व्येषु चूर्णञ्च गण्डूषे कोलमात्रकम्
- कर्षप्रमाणः कल्कश्च कवले दीयते बुधैः ३१
- धार्यन्ते पञ्चमाद्वर्षाद्गण्डूषाः कवलादयः ३२
- व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्
- इन्द्रि याणां प्रसादश्च गण्डूषे विधृते भवेत् ३३
- हरेदास्यस्य वैरस्यं शोषं पाकं व्रणं तृषाम्
- दन्तचालञ्च गण्डूषो वैशद्यं तु करोति हि ३४
- वातपित्तकफघ्नस्य द्र व्यस्य कवलं मुखे
- अर्द्धं निक्षिप्य संचर्व्य निष्ठीवेत्कवले विधिः ३५
- कवलः कुरुते काङ्क्षां भक्ष्येषु हरते कफम्
- तृष्णां शोषञ्च वैरस्यं दन्तचालञ्च नाशयेत् ३६
- दन्त जिह्वामुखानां यच्चूर्णकल्कावलेहकैः
- शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ३७
- वैरस्यं मुखदौर्गन्ध्यं मुखशोषं तथा तृषाम्
- अरुचिं दन्तपीडाञ्च निहन्ति प्रतिसारणम् ३८
- हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च
- अतियोगान्मुखे पाकः शोषस्तृष्णावमिः क्लमः ३९
- स्वेदश्चतुर्विधः प्रोक्तस्तापोष्मस्वेदसंज्ञितः
- उपनाहो द्र वः स्वेदः सर्वे वातार्त्तिहारिणः ४०
- स्वेदौ तापोष्मजौ प्रायः श्लेष्मघ्नौ समुदीरितौ
- उपनाहस्तु वातघ्नः पित्तसङ्गे द्र वो हितः ४१
- महाबले महाव्याधौ शीते स्वेदो महान् स्मृतः
- दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो मतः
- बलासे रूक्षणः स्वेदो रूक्षस्निग्धः कफानिले ४२
- कफमेदोवृते वाते कोष्णं गेहं रवेः करान्
- नियुद्धं मार्गगमनं गुरु प्रावरणं ध्रुवम् ४३
- चिन्ताव्यायामभारांश्च सेवेतामयमुक्तये
- येषां नस्यं प्रदातव्यं वस्तिश्श्चापि हि देहिनाम् ४४
- शोधनीयाश्च ये केचित् पूर्वं स्वेद्याश्च ते मताः
- स्वेद्या ऊर्ध्वं त्रयोऽपीह भगन्दर्यर्शसस्तथा ४५
- अश्मर्या चातुरो जन्तुः शययेच्छस्त्रकर्मणः ४६
- पश्चात्स्वेद्या हृते शल्ये मूढगर्भगदे तथा
- काले प्रजाताऽकाले वा पश्चात्स्वेद्या नितम्बिनी ४७
- सर्वान्स्वेदान्निवाते च जीर्णेऽन्ने वाऽवचारयेत्
- स्वेदाद्धातुस्थिता दोषाः स्नेहक्लिन्नस्य देहिनः ४८
- द्र वत्वं प्राप्य कोष्ठान्तर्गत्वा यान्ति विरेकताम्
- स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी
- स्वेद्यमानशरीरस्य हृदयं शीतलः स्पृशेत् ४९
- अजीर्णी दुर्बली मेही क्षतक्षीणः पिपासितः ५०
- अतिसारी रक्तपित्ती पाण्डुरोगी तथोदरी
- मेदस्वी गर्भिणी चैव न हि स्वेद्या विजानता ५१
- स्वेदादेषां याति देहो विनाशं नो साध्यत्वं यान्ति तेषां विकाराः ५२
- एतानपि मृदुस्वेदैः स्वेदसाध्यानुपाचरेत्
- मृदुस्वेदं प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ५३
- अतिस्वेदात्सन्धिपीठा दाहस्तृष्णा क्लमो भ्रमः
- पित्तासृक्पिडिकाकोपस्तत्र शीतैरुपाचरेत् ५४
- तेषु तापाभिधः स्वेदो बालुकावस्त्रपाणिभिः
- कपालकन्दुकाङ्गारैर्यथायोग्यं हि जायते ५५
- प्रतप्तैरम्लसिक्तैश्च कायेऽलक्तकवेष्टिते
- ऊष्मस्वेदः प्रयोक्तव्यो लोहपिण्डेष्टकादिभिः
- अथवा वातनिर्णाशिद्र व्यक्वाथरसादिभिः ५६
- उष्णैर्घटं पूरयित्वा पार्श्वे छिद्रं विधाय च
- विमुद्र य्स्यां त्रिखण्डां च धातुजां काष्ठजामुत ५७
- षडङ्गुलास्यां गोपुच्छां नाडीं युञ्ज्याद् द्विहस्तकाम्
- सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्
- हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् ५८
- पुरुषायाममात्रां वा भूमिं सम्मार्ज्य खादिरैः
- काष्ठैर्दग्ध्वा तथाऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ५९
- वातघ्नपत्रैराच्छाद्य शयानं स्वेदयेन्नरम्
- एवं माषादिभिः स्विन्नैः शयानं स्वेदमाचरेत् ६०
- अथोपनाहस्वेदञ्च कुर्याद्वातहरौषधैः
- प्रदिह्य देहं वातार्त्तं क्षीरमांसरसादिभिः ६१
- अम्लपिष्टैः सलवणैः सुखोष्णैः स्नेहसंयुतैः
- अथ ग्राम्यानूपमांसैर्जीवनीयगणेन च ६२
- दधिसौवीरकक्षीरैर्वीरतर्वादिना तथा
- कुलत्थमाषगोधूमैरतसीतिलसर्षपैः ६३
- शतपुष्पादेवदारुशेफालीस्थूलजीरकैः
- एरण्डमूलजीरैश्च रास्नामूलकशिग्रुभिः ६४
- मिसिकृष्णाकुठेरैश्च लवणैरम्लसंयुतैः
- प्रसारण्यश्वगन्धाभ्यां बलाभिर्दशमूलकैः ६५
- गुडूच्या वानरीवीजैर्यथालाभसमाहृतैः
- क्षुण्णैः स्विन्नैश्च वस्त्रेण बद्धैः संस्वेदयेन्नरम् ६६
- महाशाल्वणसंज्ञोऽय योगः सर्वानिलार्त्तिहृत् ६७
- अथवाऽम्लेन सम्पिष्टैः कोष्णैःसूक्ष्मपटस्थितैः
- भेषजैः स्वेदयेत् किं वा स्विन्नैः कोष्णैः पटस्थितैः ६८
- द्र वस्वेदस्तु वातघ्नद्र व्यक्वाथेन पूरिते
- कटाहे कोष्ठके वाऽपि सूपविष्टोऽवगाहयेत् ६९
- सौवर्णं राजतं वापि ताम्रं लौहञ्च दारुजम्
- कोष्ठकं तत्र कुर्वीतोच्छ्राये षड्विंशदङ्गुलम्
- आयामे वा तदेव स्याच्चतुष्कोणन्तु चिक्कणम् ७०
- नाभेः षडङ्गुलं यावन्मग्नं क्वाथस्य धारया
- कोष्णया स्कन्धयोः सिक्तस्तिष्ठेत्स्निग्धतनुर्नरः ७१
- मुहूर्त्तैकं समारभ्य यावत्स्यात्तच्चतुष्टयम्
- तावत्तदवगाहेत यावदारोग्यनिश्चयः ७२
- एवं तैलेन दुग्धेन सर्पिषा स्वेदयेन्नरम्
- एकान्तरो द्व्यन्तरो वा युक्तः स्नेहोऽवगाहने ७३
- सिरामुखैर्लोमकूपैर्धमनीभिश्च तर्पयेत्
- शरीरे बलमाधत्ते युक्तः स्नेहोऽवगाहने ७४
- जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङकुरादयः
- तथैव धातुवृद्धिर्हि स्नेहसिक्तस्य जायते ७५
- नातः परतरः कश्चिदुपायो वातनाशनः
- शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे ७६
- दीप्तैऽग्नौ मार्दवे जाते स्वेदनाद्विरतिर्मता ७७
- अभ्यङ्गः परिषेकश्च पिचुर्वस्तिरिति क्रमात्
- मूर्द्धतैलं चतुर्द्धा स्याद्बलवत्तद्यथोत्तरम् ७८
- त्रयोऽभ्यङ्गादयः पूर्वे प्रसिद्धाः सर्वतः स्मृताः
- शिरोवस्तिविधिश्चात्र प्रोच्यते सुज्ञसम्मतः ७९
- शिरोवस्तिश्चर्मणः स्याद् द्विमुखो द्वादशाङ्गुलः
- शिरःप्रमाणस्तं बद्ध्वा मस्तके माषपिष्टकैः ८०
- सन्धिरोधं विधायाशु स्नेहैः कोष्णैः प्रपूरयेत्
- तावद्धार्यस्तु यावत्स्यान्नासाकर्णमुखस्रुतिः ८१
- वेदनोपशमो वाऽपि मात्राणां वा सहस्रकम्
- स्वजानुनः करावर्त्तं कुर्याच्छोटिकया युतम् ८२
- एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः
- विना भोजनमेवात्र शिरोवस्तिः प्रशस्यते ८३
- प्रयोज्यस्तु शिरोवस्तिः पञ्च सप्त दिनानि वा
- विमोच्य शिरसो बस्तिं गृह्णीयाच्च समन्ततः ८४
- ऊर्ध्वकायं ततः कोष्णे नीरे स्नानं समाचरेत्
- अनेन दुर्जया रोगा वातजा यान्ति संक्षयम्
- शिरःकम्पादयस्तेन सर्वकालेषु युज्यते ८५
- स्वेदयेत्कर्णदेशन्तु किञ्चिन्नुः पार्श्वशायिनः
- मूत्रैः स्नेहै रसैरुष्णैः श्रोत्ररन्ध्रं प्रपूरयेत् ८६
- कर्णञ्च पूरितं रक्षेच्छतं पञ्च शतानि वा
- सहस्रं वापि मात्राणां श्रोत्रकण्ठशिरोगदे ८७
- मूत्राद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
- तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ८८
- कर्णे शूलाकुले कोष्णं बस्तमूत्रं ससैन्धवम्
- निक्षिपेत्तेन शाम्यन्ति शूलपाकादिजा रुजः ८९
- शृङ्गवेरञ्च मधुकं सैन्धवं तैलमेव च
- कदुष्णं कर्णयोर्देयमेतत्स्याद्वेदनाऽपहम् ९०
- पीतार्कपत्रमाज्येन लिप्तं वह्नौ प्रतापयेत्
- तद्र सः श्रवणे क्षिप्तः कर्णशूलहरः परः ९१
- आलेपस्य तु नामानि लेपो लेपनलिप्तकौ
- दोषघ्नो विषहा वर्ण्यः स च लेपस्त्रिधा मतः ९२
- त्रिप्रमाणश्चतुर्भागत्रिभागार्द्धाङ्गुलोन्नतः
- आद्रो र्! व्याधिहरः स स्याच्छुष्को दूषयति च्छविम् ९३
- दोषघ्नो लेपो यथा
- शोथघ्नीदारुसिद्धार्थशुण्ठीशोभाञ्जनत्वचाम्
- आरनालेप पिष्टानां प्रलेपः सर्वशोथहा ९४
- शिरीषं मधुयष्टी च तगरं रक्तचन्दनम्
- एला मांसी निशायुग्मं कुष्ठं बालकमेव च ९५
- इति सञ्चूर्ण्य लेपोऽय पञ्चमांशघृतप्लुतः
- जलेन क्रियते सुज्ञैर्दशाङ्ग इति संज्ञितः ९६
- वीसर्पश्च विषस्फोटाञ्छोथदुष्टव्रणाञ्जयेत् ९७
- विषहा लेपो यथा
- अजादुग्धतिलैर्लेपो नवनीतेन संयुतः
- शोथमारुष्करं हन्ति लेपो वा कृष्णमार्त्तिकः ९८
- अपरः कृमिविषापहलेपो यथा
- लाङ्गल्यतिविषाऽलाबूशालिनीबीजमूलकैः
- लेपो धान्याम्बुसम्पिष्टः कीटविस्फोटनाशनः ९९
- मुखकान्तिदो लेपो यथा
- रक्तचन्दन मञ्जिष्ठा लोध्र कुष्ठ प्रियङ्गवः
- वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः १००
- अथ लेपविधिश्चैव प्रोच्यते सुज्ञसम्मतः
- आलेपश्च प्रदेहश्च द्वौ भेदौ तस्य भाषितौ १०१
- चर्माद्र रं! माहिषं यद्वत्प्रोन्नतं सा मितिस्तयोः
- शीतस्तनुविशोषी च प्रलेपः पित्तहृन्मतः १०२
- आद्रो र्! घनस्तथोष्णः स्यात्प्रदेहः श्लेष्मवातहा
- न रात्रौ लेपनं कुर्याच्छुष्यमाणं न धारयेत्
- शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति १०३
- तमसा पिहितो ह्यूष्मा लोमकूपमुखे स्थितः
- विना लेपेन निर्याति रात्रौ नालेपयेदतः १०४
- रात्रावपि प्रलेपादिर्व्रणे देयो विचक्षणैः
- अपाकिन्यतिगम्भीरे रक्तश्लेष्मसमुद्भवे १०५
- प्रलेपो यथा
- मधुकं चन्दनं मूर्वा नलमूलञ्च पर्पटम्
- उशीरं बालकं पद्मं प्रलेपः पित्तशोथहृत् १०६
- प्रदेहो यथा
- बीजपूरजटा हिंस्रा देवदारु महौषधम्
- रास्नाऽरणिः प्रदेहोऽय वातशोथविनाशनः १०७
- कृष्णापुराणपिण्याकशिग्रुत्वक्सिकताशिवाः
- गोमूत्रपिष्टः कोष्णोऽय प्रदेहः श्लेष्मशोथहा १०८
- शोणितं स्रावयेज्जन्तोरामयं प्रसमीक्ष्य च
- प्रस्थं प्रस्थार्द्धमथ वा प्रस्थार्द्धार्द्धमथापि वा १०९
- शरत्काले स्वभावेन शोणितं स्रावयेन्नरः
- त्वग्दोषग्रन्थिशोथाद्या नश्यन्ति रुधिरोद्भवाः ११०
- व्यभ्रे वर्षासु विध्येत शीते ग्रीष्मे शरद्यपि
- मध्याह्ने शीतकाले च रुधिरं स्रावयेद् बुधः १११
- अनुष्णाशीतं मधुरं स्निग्धं रक्तञ्चवर्णतः
- शोणितं गुरु विस्रं स्याद् विदाहश्चास्य पित्तवत् ११२
- विस्रता द्र वता रागश्चलनं विलयस्तथा
- भूम्यादिपञ्चभूतानामेते रक्ते गुणाः स्मृताः ११३
- रक्ते दुष्टे भवेच्छोथो रक्तमण्डलमेव च
- व्यथा दाहश्च पाकश्च कण्डूश्च पिडकोद्गमः ११४
- वृद्धे रक्ताङ्गनेत्रत्वं सिराणां पूर्णता तथा
- गात्राणां गौरवं निद्रा मोहो दाहश्च जायते ११५
- क्षीणेऽस्रे मधुराकाङ्क्षा मूर्च्छा च त्वचि रूक्षता
- शैथिल्यं च सिराणां स्याद्वातादुन्मार्गगामिता ११६
- अरुणं फेनिलं रूक्षं परुषं तनु शीघ्रगम्
- आस्कन्दि सूचीनिस्तोदि रक्तं स्याद्वातदूषितम् ११७
- पित्तेन पीतं हरितं नीलं श्यावं च विस्रकम्
- अस्वादूष्णं मक्षिकाणां पिपीलीनामनिष्टकम् ११८
- शीतलं बहुलं स्निग्धं गैरिकोदकसन्निभम्
- मांसपेशीप्रभं स्कन्दि मन्दगं कफदूषितम् ११९
- द्विदोषदुष्टं संसृष्टं त्रिदुष्टं पूतिगन्धकम्
- सर्वलक्षणसंयुक्तं काञ्जिकाभं च जायते १२०
- विषदुष्टं भवेच्छ्यावं नासिकोन्मार्गगं तथा
- विस्रं काञ्जिकसंकाशं सर्वकुष्ठकरं तथा १२१
- इन्द्र गोपप्रभं ज्ञेयं प्रकृतिस्थमसंहतम् १२२
- शोथे दाहेऽङ्गपाके च रक्तवर्णेऽसृजः स्रुतौ
- वातरक्ते तथा कुष्ठे सपीडे दुर्जयेऽनिले
- पाण्डुरोगे श्लीपदे च विषदुष्टेच शोणिते १२३
- ग्रन्थ्यर्बुदापचीक्षुद्र रोगाधिमन्थकाभिधे
- विदारीस्तनरोगेषु गात्राणां सादगौरवे १२४
- रक्ताभिष्यन्दतन्द्रा यां पूतिघ्राणास्यदाहके
- यकृत्प्लीहविसर्पेषु विद्र धौ पिडकोद्गमे १२५
- कर्णौष्ठघ्राणवक्त्राणां पाके दाहे शिरोरुजि
- उपदंशे रक्तपित्ते रक्तस्रावः प्रशस्यते १२६
- एषु रोगेषु शृङ्गैर्वा जलौकाऽलाबुकैरपि
- अथवापि सिरामोक्षैः कारयेद्र क्तपातनम् १२७
- न कुर्वीत सिरामोक्षं कृशस्यातिव्यवायिनः
- क्लीबस्य भीरोर्गर्भिण्याः सूतायाः पाण्डुरोगिणः १२८
- पञ्चकर्मविशुद्धस्य पीतस्नेहस्य चार्शसाम्
- सर्वाङ्गशोथयुक्तानामुदरिश्वासकासिनाम् १२९
- छर्द्यतीसारजुष्टानामतिस्विन्नतनोरपि
- ऊनषोडशवर्षस्य गतसप्ततिकस्य च १३०
- आघातात्स्रुतरक्तस्य सिरामोक्षो न शस्यते १३१
- एषां चात्ययिके रोगे जलौकाभिर्विनिर्हरेत्
- तथा च विषजुष्टानां सिरामोक्षो न शस्यते १३२
- गोशृङ्गेण जलौकाभिरलाबूभिरपि त्रिधा
- वातपित्तकफैर्दुष्टं शोणितं स्रावयेद् बुधः १३३
- द्विदोषाभ्यान्तु दुष्टं यत्त्रिदोषैरपिदूषितम्
- शोणितं स्रावयेद्युक्त्यासिरामोक्षैः पदैस्तथा १३४
- गृह्णाति शोणितं शृङ्गं दशाङ्गुलमितं बलात्
- जलौकाहस्तमात्रं तु तुम्बी तु द्वादशाङ्गुलम् १३५
- पदमङ्गुलमात्रस्य सिरा सर्वाङ्गशोधिनी
- शीते निरन्ने मूर्छार्त्तिनिद्रा भीतिमदश्रमैः १३६
- युक्तानां न स्रवेद्र क्तं तथा विण्मूत्रसङ्गिनाम्
- शोणिते चाप्रवृत्ते तु कुष्ठत्रिकटुसैन्धवैः १३७
- मर्दयेद् व्रणवक्त्रञ्च तेन रक्तं प्रवर्त्तते
- तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते १३८
- पीत्वा यथागूं तृप्तस्य स्रावयेच्छोणितं बुधः
- अतिस्विन्नस्योष्णकाले तथैवातिसिराव्यधात् १३९
- अतिप्रवर्त्तते रक्तं तत्र कुर्यात्प्रतिक्रियाम्
- अतिप्रवृत्ते रक्ते तु लोध्रसर्जरसाञ्जनैः १४०
- यवगोधूमचूर्णैश्च धवधन्वनगैरिकैः
- सर्पनिर्मोकचूर्णैर्वा भस्मना क्षौमवस्त्रयोः १४१
- मुखं व्रणस्य बद्ध्वा च शीतैश्चोपचरेद् व्रणम्
- विध्येदूर्ध्वसिरां तावद्दहेत्क्षारेण वह्निना १४२
- व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम्
- व्रणास्यं पाचयेत्क्षारो दाहः सङ्कोचयेत्सिराः १४३
- रक्ते दुष्टेऽवशिष्टेऽपि व्याधिर्नैव प्रकुप्यति
- अतो रक्षेत्सावशेषं रक्ते नातिस्रुतिर्हिता १४४
- आन्ध्यमाक्षेपकं तृष्णां तिमिरं शिरसो रुजः
- पक्षाघातं श्वासकासौ हिक्कादाहौ च पाण्डुताम्
- कुरुतेऽतिस्रुतं रक्तं मरणं वा करोति च १४५
- देहस्योत्पत्तिरसृजा देहस्तेनैव धार्यते
- रक्तं जीवस्य चाधारस्तस्माद्र क्षेदसृग्बुधः १४६
- शीतोपचारैः कुपिते स्रुतरक्तस्य मारुते
- कोष्णेन सर्पिषा शोथं सव्यथं परिषेचयेत् १४७
- क्षीणस्यैणशशोरभ्रहरिणच्छागमांसजः
- रसः समुचितः पाने क्षीरः षष्टिकया हितम् १४८
- पीडाशान्तिर्लघुत्वं च व्याध्युपद्र वसंक्षयः
- मनःस्वास्थ्यं भवेच्चिह्नं सम्यङ्निःसारितेऽसृजि १४९
- व्यायाममैथुनक्रोधशीतस्नानप्रवातकान्
- एकाशनं दिवानिद्रा क्षाराम्लकटुभोजनम् १५०
- शोकं वादमजीर्णञ्च त्यजेदाबलदर्शनात् १५१
- सेक आश्च्योतनं पिण्डी विडालस्तर्पणं तथा
- पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् १५२
- सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
- मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः १५३
- स सस्नेहो भवेद्वाते पित्ते रक्ते च रोपणः
- लेखनस्तु कफे कार्यस्तस्य मात्राऽभिधीयते १५४
- षड्भिर्वाचां शतैः स्नेहे चतुभिश्चैव रोपणे
- तैस्त्रिभिर्लेखने कार्यः सेको नेत्रप्रसादने १५५
- निमेषोन्मेषणं पुंसामङ्गुल्या च्छोटिकाऽथ वा
- गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः १५६
- सेकस्तु दिवसे कार्यो रात्रौ चात्यन्तिके गदे
- एरण्डस्य दलैः पिष्टैः पक्वमाजं पयो हितम्
- सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १५७
- क्वाथक्षौद्रा सवस्नेहबिन्दूनां यत्तु पातनम्
- द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हितम् १५८
- बिन्दवोऽष्टौ लेखनेषु रोपणे दश बिन्दवः
- स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः १५९
- उष्णे तु शीतरूपाः स्युः सर्वत्रैवैष निश्चयः
- वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम् १६०
- कफे तिक्तोष्णरूक्षं च क्रमादाश्च्योतनं हितम्
- आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्छतोन्मिता १६१
- ततः परं लोचनाभ्यां भेषजानामयोगतः
- आश्च्योतनं न कर्त्तव्यं निशायां केनचित्क्वचित् १६२
- बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुमिः
- क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः १६३
- युक्तभेषजकल्कस्य पिण्डी कवलमात्रया
- वस्त्रखण्डेन सम्बद्ध्या नेत्रेऽभिष्यिन्दनाशिनी १६४
- स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता
- रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयम् १६५
- एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी
- धात्रीविरचिता पित्ते शिग्रुपत्रकृता कफे १६६
- विडालको बहिर्लेपो नेत्रपक्ष्मविवर्जितः
- तस्य मात्रा परिज्ञेया मुखालेपविधानवत् १६७
- यष्टीगैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकेः
- जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः १६८
- वातातपरजोहीने वेश्मन्युत्तानशायिनः
- अभितो माषचूर्णेन क्लिन्नेन परिपिण्डितौ १६९
- समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोशयोः
- पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः १७०
- सर्पिषा शतधौतेन क्षीरजेन घृतेन वा
- निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि १७१
- पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः
- भिषग्भिरेष विख्यातस्तर्पणस्योदितो विधिः १७२
- यद्रू क्षञ्च परिष्यन्दि नेत्रं कुटिलमाविलम्
- शीर्णपक्ष्मसिरोत्पातकृच्छ्रोन्मीलनसंयुतम् १७३
- तिमिरार्जुनशुक्लाद्यैरभिष्यन्दाधिमन्थकैः
- शुष्काक्षिपाकशोथाभ्यां युतं वातविपर्ययैः
- तन्नेत्रं तर्पयेत्सम्यङ् नेत्ररोगविशारदः १७४
- तर्पणं धारयेद्वर्त्मरोगे वाचां शतं बुधः
- स्वस्थे कफे सन्धिरोगे वाचां पञ्च शतानि च १७५
- षट्शतानि कफे कृष्णरोगे सप्त शतानि हि
- दृष्टिरोगे शतान्यष्टावधिमन्थे सहस्रकम् १७६
- सहस्रं वातरोगेषु धार्यमेव हि तर्पणम् १७७
- पूर्णे चापाङ्गमार्गेण स्रावयित्वाऽक्षि शोधयेत्
- स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः १७८
- यथास्वं धूमपानेन कफमस्य विरेचयेत्
- एकाहं वा त्र्! यहं वापि पञ्चाहं तर्पणं चरेत् १७९
- तर्पणे तृप्तिलिङ्गानि नेत्रस्यैतानि लक्षयेत्
- सुखस्वप्नावबोधत्वं वैशद्यं नेत्रपाटवम्
- निर्वृतिर्व्याधिशान्तिश्च क्रियालाघवमेव च १८०
- गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत्
- घर्षतोदयुतं नेत्रमतितर्पितमादिशेत् १८१
- सास्रावशोफरोगाढ्यमुपदेहसमाकुलम्
- रूक्षमस्रावमरुणं नेत्रं स्याद्धीनतर्पितम् १८२
- अनयोर्दोषबाहुल्यात्प्रयतेत चिकित्सिते
- रूक्षस्निग्धोपचाराभ्यामनयोः स्यात्प्रतिक्रिया १८३
- दुर्दिनात्युष्णशीतेषु चिन्तायां संभ्रमेषु च
- अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते १८४
- द्वे बिल्वे स्निग्धमांसस्य परद्र व्यपलं मतम्
- द्र वस्य कुडवोन्मानं सर्वमेकत्र पेषयेत् १८५
- तदेकत्र समालोड्य पत्रैः सुपरिवेष्टितम्
- पुटपाकविधानेन तत्पक्त्वा तद्र सं बुधः १८६
- तर्पणोक्तेन विधिना यथावदवधारयेत्
- दृष्टिमध्ये निषेच्यः स्यान्नित्यमुत्तानशायिनः १८७
- स्नेहनो लेखनश्चैव रोपणश्चेति स त्रिधा
- हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्य स तु लेखनः १८८
- दृष्टेर्बलार्थमितरः पित्तासृग्व्रणवातनुत् १८९
- स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः
- स्नेहनः पुटपाकः स्याद्धार्यो द्वे वाक्छते तु सः १९०
- जाङ्गलानां यकृन्मांसैर्लैखनद्र व्यसंयुतैः
- कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः १९१
- समुद्र फेनकासीसस्रोतोऽजदधिमस्तुभिः
- लेखनो वाक्छतं तस्य परं धारणमिष्यते १९२
- स्तन्य जाङ्गलमध्वाज्यतिक्तद्र व्यविपाचितः
- लेखनात्त्रिगुणो धार्यः पुटपाकस्तु रोपणः १९३
- निम्बामृतावृषपटोलनिदिग्धिकाभिः
- स्यात्पञ्चतिक्तक इति प्रथितो गणोऽयम् १९४
- आचरेत्तर्पणोक्तां तु क्रियां व्यापत्तिदर्शने १९५
- तेजांस्यनिलमाकाशमादर्शं भास्वराणि च
- नेक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान् १९६
- अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
- अञ्जनं क्रियते येन तद् द्र व्यं चाञ्जनं मतम् १९७
- तत्प्रत्येकं त्रिधा प्रोक्तं लेखनं रोपणं तथा
- स्नेहनं चेति लिङ्गानि तेषां विस्तरतः शृणु १९८
- लेखनं क्षारतीक्ष्णाम्लरसैरञ्जनमुच्यते
- नेत्रवर्त्मसिराजालश्रोत्रशृङ्गाटकस्थितम् १९९
- मुखनासाऽक्षिभिर्दोषमुत्क्लिश्य स्रावयेच्च तत्
- कषायं तिक्तकं चापि सस्नेहं रोपणं मतम् २००
- स्नेहस्य शैत्याद्वर्ण्यं स्याद् दृष्टेश्च बलवर्द्धनम्
- मधुरं स्नेहमण्डं तदञ्जनं स्यात्प्रसादनम् २०१
- दृष्टिदोषप्रसादार्थं स्नेहनार्थञ्च तद्धितम्
- हरेणुमात्रावर्त्तिस्तु लेखनी स्यात्प्रमाणतः २०२
- सार्द्धहरेणुकमिता रोपणी वर्त्तिरिष्यते
- क्रियते स्नेहनी वर्त्तिर्द्विहरेणुकमात्रया २०३
- रसाञ्जनस्य मात्रा तु पिष्टवर्तिमिता मता
- चूर्णं तु लेखनं वैद्यैर्द्विशलाकं प्रदीयते
- रोपणं त्रिशलाकं स्याच्चतस्रः स्नेहनाञ्जने २०४
- मुखयोर्मुकुलाकारा कलायपरिमण्डला
- अष्टाङ्गुला शलाका स्यादश्मजा धातुजाऽथ वा २०५
- ताम्रलोहाश्मसञ्जाता शलाका लेखने मता
- सुवर्णरजतोद्भूता स्नेहने समुदाहृता २०६
- अङ्गुली च मृदुत्वेन रोपणे सम्प्रयुज्यते
- कृष्णभागावधिं लिम्पेदपाङ्गं यावदञ्जनम् २०७
- हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते
- पूर्वाह्णेवाऽपराह्णे वा ग्रीष्मे शरदि चेष्यते २०८
- वर्षास्वनभ्रे नात्युष्णे वसन्ते तु सदैव हि
- अथ वा सर्वदा प्रातः सायं वाऽञ्जनमाचरेत् २०९
- नातिशीतोष्णवाताभ्रवेलायां तत्प्रयुज्यते
- श्रान्तेऽथ रुदिते भीते पीतमद्ये नवज्वरे २१०
- अजीर्णे वेगघाते च नाञ्जनं सम्प्रयुज्यते
- रागोपदेहौ तिमिरं शूलं संरम्भमेव च २११
- निद्रा क्षयञ्च कुरुते निषिद्धे युक्तमञ्जनम् २१२
- शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
- पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् २१३
- छागक्षीरेण सम्पिष्य वर्त्तिं कुर्याद्यवोन्मिताम्
- हरेणुमात्रां सम्पिष्य जलैः कुर्याद्यथाऽञ्जनम् २१४
- तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम्
- रात्र्! यन्धं वार्षिकं पुष्पं वर्त्तिश्चन्द्रो दया हरेत् २१५
- इति चन्द्रो दया वर्त्तिर्लेखनी
- अशीतिस्तिलपुष्पाणि षष्टिः पिप्पलितण्डुलाः
- जातीपुष्पाणि पञ्चाशन्मरिचानि तु षोडश २१६
- सूक्ष्मं पिष्ट्वाऽम्बुना वर्त्तिः कृता कुसुमिकाऽभिधा
- तिमिरार्जुनशुक्लानां नाशिनी मांसवृद्धिनुत्
- एतस्या अञ्जने प्रोक्ता मात्रा सार्धहरेणुका २१७
- धात्र्! यक्षपथ्याबीजानि एकद्वित्रिगुणानि च
- पिष्ट्वा वर्त्तिं जलैः कुर्यादञ्जनं द्विहरेणुकम् २१८
- नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा २१९
- तुत्थमाक्षिकसिन्ध्त्थाः सिताशङ्खमनःशिलाः
- गैरिकं सिन्धुफेनञ्च मरिचं चेति चूर्णयेत् २२०
- संयोज्य मधुना कुर्यादञ्जनार्थं रसक्रियाम्
- वर्त्मरोगार्मतिमिरकाचशुक्लहरीं पराम् २२१
- रसाञ्जनं सर्जरसो जातिपुष्पं मनः शिला
- समुद्र फेनो लवणं गैरिकं मरिचं तथा२२२
- एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मने
- अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणाञ्च प्ररोहणम् २२३
- कतकस्य फलं घृष्ट्वा मधुना नेत्रमञ्जयेत्
- ईषत्कर्पूरसहितं स्मृतं नेत्रप्रसादनम् २२४
- दक्षाण्डत्वक्छिलाकाचशङ्खचन्दनसैन्धबैः
- अञ्जनं हरते नित्यं सर्वानक्षिगदान्बलात् २२५
- शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
- गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् २२६
- शुष्कं तच्च जलं सर्वं पर्पटीसन्निभं भवेत्
- विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः २२७
- कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
- अञ्जयेन्नयनं तेन सर्वदोषप्रशान्तये
- समस्तनेत्ररोगघ्नं चूर्णमेतन्न संशयः २२८
- अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
- सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विच्!र्णितम् २२९
- अञ्जयेत्तेन नयने प्रत्यहं चक्षुषोर्हितम्
- सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः २३०
- गतदोषमपेताश्रु प्रपश्यत्सम्यगम्भसि
- प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः २३१
- न वा निर्वातदोषेऽक्षिधावनं सम्प्रयोजयेत्
- प्रत्यञ्जनं तत्रदद्याच्चूर्णं तीक्ष्णप्रसादनम् २३२
- शुद्धे नागे द्रुते तुत्थं शुद्धं सूतं विनिक्षिपेत्
- कृष्णाञ्जनं तयोस्तुल्यं सर्वमेकत्र चूर्णयेत् २३३
- दशमांशेन कर्पूरं तस्मिश्चूर्णे विनिक्षिपेत्
- एतत्प्रत्यञ्जनं नेत्रगदजिन्नयनामृतम् २३४
- त्रिफलाभृङ्गशुण्ठीनां रसैस्तद्वच्च सर्पिषा
- गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः २३५
- तच्छलाका हरत्येव सर्वान्नेत्रभवान्गदान् २३६
- इति भेषजानां विधानानि
- भैषज्यमभ्यवहरेत्प्रभाते प्रायशो बुधः
- कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः २३७
- ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम्
- किञ्चित्सूर्योदये जाते तथा दिवसभोजने
- सायन्तने भोजने च मुहुश्चापि तथा निशि २३८
- प्रायः पित्तकफोद्रे के विरेकवमनार्थयोः
- लेखनार्थे च भैषज्यं प्रभातेऽनन्नमाहरेत् २३९
- भैषज्यं विगुणेऽपाने भोजनाग्रे प्रशस्यते
- अरुचौ चित्रभोज्यैश्च मिश्रं रुचिरमाहरेत् २४०
- समानवाते विगुणे मन्देऽग्नावतिदीपनम्
- दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक् २४१
- व्यानकोपेतु भैषज्यं भोजनान्ते समाहरेत्
- हिक्काऽक्षेपककम्पेषु पूर्वमन्ते च भोजनात् २४२
- उदाने कुपिते वाते स्वरभङ्गादिकारिणि
- ग्रासग्रासान्तरे देयं भैषज्यं सान्ध्यभोजने २४३
- प्राणे प्रदुष्टे सान्ध्यस्य भुक्तस्यान्ते प्रदीयते
- औषधं प्रायशो धीरैः कालोऽय स्यात्तृतीयकः २४४
- मुहुर्मुहुश्च तृट्छर्दिहिक्काश्वासगरेषु च
- सायञ्च भेषजं दद्यादिति कालश्चतुर्थकः २४५
- ऊर्ध्वजत्रुविकारेषु लेखने बृंहणे तथा
- पाचने शमने देयमनन्नं भेषजं निशि २४६
- वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव
- तद्बालवृद्धयुवतीमृदुभिश्च पीतं ग्लानिं परां नयति चाशु बलक्षयञ्च २४७
- शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेति
- एतद्धितं स्थविरवालकृशाङ्गनाभ्यः प्राग्भोजनाद्यदशितं किल तच्च तद्वत् २४८
- औषधशेषे भुक्तं भोजनशेषे यदौषधं पीतम्
- न करोति गदोपशमम्प्रकोपयत्यन्यरोगांश्च २४९
- अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णासुमनस्कताः
- लघुत्वमिन्द्रि योद्गारशुद्धिर्जीर्णौषधाकृतिः २५०
- क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छाशिरोरुजाः
- अरतिर्बलहानिश्च सावशेषौषधाकृतिः २५१
- देवान्गुरूंस्तथा विप्रान्पूजयित्वा प्रणम्य च
- आशिषश्च समादाय श्रद्धया भैषजं भजेत् २५२
- रसायनमिवर्षीणां देवानाममृतं यथा
- सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते २५३
- ब्रह्मदक्षाश्विरुद्रे न्द्र भूचन्द्रा र्कानिलानलाः
- देवाश्च सौषधिग्रामा भूमिदेवाश्च पान्तु वः २५४
- औषधं हेमरजतमृद्भाजनपरिस्थितम्
- पिबेदाप्तजनस्याग्रे प्रसन्नवदनेक्षणः २५५
- प्रशान्तस्तूपविश्याथ पीत्वा पात्रमधोमुखम्
- निक्षिप्याचम्य सलिलं ताम्बूलाद्युपयोजयेत् २५६
- इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे षष्ठं धूमपानादिविधिप्रकरणं समाप्तम्
- अथ सप्तमं रोगिपरीक्षाप्रकरणम् ७
- दर्शनस्पर्शनप्रश्नैस्तं परीक्षेत रोगिणम्
- आयुरादि दृशा स्पर्शाच्छीतादि प्रश्नतः परम् १
- मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च
- तथा दुष्परिदृष्टाश्च मोहयेयुश्चिकित्सकान् २
- तत्र दर्शनं नेत्रजिह्वामूत्रादीनां कर्त्तव्यम्
- नेत्रं स्यात्पवनाद्रू क्षं धूम्रवर्णं तथाऽरुणम्
- कोटरान्तः प्रविष्टं च तथा स्तब्धविलोकनम् ३
- हरिद्रा खण्डवर्णं वा रक्तं वा हरितं तथा
- दीपद्वेषिसदाहञ्च नेत्रं स्यात्पित्तकोपतः ४
- चक्षुर्बलासबाहुल्यात्स्निग्धं स्यात्सलिलप्लुतम्
- तथा धवलवर्णञ्च ज्योतिर्हीनं बलान्वितम् ५
- नेत्रं द्विदोषबाहुल्यात्स्याद्दोषद्वयलक्षणम्
- त्रिदोषलिङ्गसङ्गेन तं मारयति रोगिणम् ६
- त्रिदोषदूषितं नेत्रमन्तर्मग्नं भृशं भवेत्
- त्रिलिङ्गं सलिलस्रावि प्रान्तेनोन्मीलयत्यपि ७
- शाकपत्रप्रभा रूक्षा स्फुटना रसनाऽनिलात्
- रक्ता श्यावा भवेत्पित्ताल्लिप्ताद्रा र्! धवला कफात् ८
- परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके
- सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा ९
- वातेन पाण्डुरं मूत्रं रक्तं नीलञ्च पित्ततः
- रक्तमेव भवेद्र क्ताद्धवलं फेनिलं कफात् १०
- अथ शरीरस्य शैत्योष्णत्वादिज्ञानार्थं स्पर्शनं कार्यम्
- पुंसो दक्षिणहस्तस्य स्त्रियो वामकरस्य तु
- अङ्गुष्ठमूलगां नाडीं परीक्षेत भिषग्वरः ११
- अङ्गुलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत्
- तच्चेष्टया सुखं दुःखं जानीयात्कुशलोऽखिलम् १२
- सद्यःस्नातस्य सुप्तस्य क्षुत्तृष्णाऽतपशीलिनः
- व्यायामश्रान्तदेहस्य सम्यङ् नाडी न बुध्यते १३
- वातेऽधिके भवेन्नाडी प्रव्यक्ता तर्जनीतले
- पित्ते व्यक्ता मध्यमायां तृतीयाङ्गुलिगा कफे १४
- तर्जनीमध्यमामध्ये वातपित्ताधिके स्फुटा
- अनामिकायां तर्जन्यां व्यक्ता वातकफे भवेत् १५
- मध्यमाऽनामिकामध्ये स्फुटा पित्तकफेऽधिके
- अङ्गुलित्रितयेऽपि स्यात्प्रव्यक्ता सन्निपाततः १६
- वाताद्वक्रगतिं धत्ते पित्तादुत्प्लुत्य गामिनी
- कफान्मन्दगतिर्ज्ञेया सन्निपातादतिद्रुता १७
- वक्रमुत्प्लुत्य चलति धमनी वातपित्ततः
- वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिकत्वतः १८
- उत्प्लुत्य मन्दं चलति नाडी पित्तकफेऽधिके
- कामात्क्रोधाद्वेगवहा क्षीणा चिन्ताभयप्लुता १९
- स्थित्वा स्थित्वा चलेद्या सा हन्ति स्थानच्युता तथा
- अतिक्षीणा च शीता च प्राणान्हन्ति न संशयः २०
- ज्वरकोपेन धमनी सोष्णावेगवती भवेत्
- मन्दाग्नेः क्षीणधातोश्च सैव मन्दतरा मता २१
- चपला क्षुधितस्य स्यात्तृप्तस्य भवति स्थिरा
- सुखिनोऽपि स्थिरा ज्ञेया तथा बलवती मता २२
- हेतुस्तदनु सम्प्राप्तिः पूर्वरूपञ्च लक्षणम्
- तथैवोपशयः पञ्च रोगविज्ञानहेतवः २३
- यत्तु न स्याद्विना येन तस्य तद्धेतुरुच्यते
- शास्त्रे संव्यवहाराय तत्पर्यायान्प्रचक्ष्महे २४
- निदानं कारणं हेतुर्निमित्तं च निबन्धनम्
- मूलमायतनं तत्र प्रत्ययोऽपि निगद्यते २५
- यथा दुष्टेन दोषेण यथा चानुविसर्पता
- उत्पत्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः २६
- संख्याविकल्पप्राधान्यबलकालविशेषतः
- साभिद्यते यथाऽत्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति २७
- दोषाणां समवेतानां विकल्पॐऽशाशकल्पना २८
- स्वातन्त्र्! यपारतन्त्र्! याभ्यां व्याधेः प्राधान्यमादिशेत् २९
- हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम् ३०
- नक्तंदिनर्त्तुभुक्तांशैर्व्याधिकालो यथामलम् ३१
- नक्तादेरंशेषु वातादिप्रकोप उक्तो वाग्भटेन
- ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः
- वयोऽहोरात्रभुक्तानामन्तमध्यादिगाः क्रमात् ३२
- इति ऋतुषु वातादिकोपो यथा
- वर्षासु शिशिरे वायुः पित्तं शरदि चोष्णके
- वसन्ते तु कफः कुप्येदेषा प्रकृतिरार्तवी ३३
- पूर्वरूपन्तु तद्येन विद्याद्भाविनमामयम्
- सामान्यं च विशिष्टञ्च द्विविधं तदुदाहृतम्
- सामान्यं तत्र दोषाणां विशेषैरनधिष्ठितम्
- विशिष्टमीषद्व्यक्तं स्याद्विशेषैश्च समन्वितम् ३४
- पूर्वरूपं विशिष्टं यद्व्यक्तं तल्लक्षणं स्मृतम्
- संस्थानं लिङ्गं चिह्नञ्च व्यञ्जनं रूपमाकृतिः ३५
- औषधान्नविहाराणामुपयोगं सुखावहम्
- नृणामुपशयं विद्यात्सहि सात्म्यमिति स्मृतः ३६
- मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रा गुरुरविकरवस्तिस्वेदसंमर्दनानि
- दधिघृततिलतैलाभ्यङ्गसन्तर्पणानिप्रकुपितपवमानं शान्तमेतानि कुर्य्युः ३७
- तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनं
- ज्योत्स्नाभूगृहयन्त्रवारिजलजं स्त्रीगात्रसंस्पर्शनम्
- सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं
- पानाहारविहारभेषजमिदं पित्तप्रशान्तिं नयेत् ३८
- रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
- धूमात्युष्णशिरोविरेकवमनस्वेदोपवासादिकम्
- तृड्वाताध्वनियुद्धजागरजलक्रीडाऽङ्गनासेवनं-
- पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं हरेत् ३९
- सर्वेषामेव रोगाणां निदानं कुपिता मलाः
- तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ४०
- नीवारस्त्रिपुटः सतीनचणकश्यामाकमुद्गाढकी
- निष्पावाश्च मकुष्ठकश्चवरटी मङ्गल्यकः कोद्र वः
- यद् द्र व्यं कटुकं सतिक्ततुवरं शीतञ्च रूक्षं लघु-
- स्वल्पाशो विषमाशनं निरशनं भुक्तेह्यजीर्णेऽशनम् ४१
- भुक्तं जीर्णतरं परिश्रमभरोगर्त्तादिकोष्णं ल्लिंइ! घनं-
- बाहुभ्यांतरणं तरोः प्रपतनं मार्गेऽतियानं पदा
- दण्डादिप्रहृतिस्तथोच्चपतनं धातुक्षयो जागरो-
- मार्गस्यावरणंव्यवायभृशता वातादिवेगाहतिः ४२
- अत्यर्थं वमनं विरेचनमतिस्रावोऽधिकश्चासृजो-
- रोगान्मांसविहीनताऽतिमदनश्चिन्ता च शोको भयम्
- वर्षा वै शिशिरो दिनस्य रजनेर्भागौ तृतीयौ घनाः
- प्राग्वातस्तुहिनं शरीरमरुतो दुष्टेरमी हेतवः ४३
- कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातप-
- स्त्रीसम्भोगतृषाक्षुधाऽभिहननव्यायाममद्यादिभिः
- भुक्ते जीर्यति भोजने च शरदि ग्रीष्मे तथा प्राणिनां
- मध्याह्ने च तथाऽधरात्रिसमये पित्तप्रकोपो भवेत् ४४
- विदाहिद्र व्यमुद्गारमम्लं कुर्यात्तथा तृषाम्
- हृद्विदाहञ्च जनयेत्पाकं गच्छति तच्चिरात् ४५
- माषैस्तिलैः कुलत्थैश्च मत्स्यैर्मेषामिषेण च
- गव्येन दधितक्रेण नृणां पित्तं प्रकुप्यति ४६
- गुरुपटुमधुराम्लस्निग्धमाषैस्तिलैश्च द्र वदधिदिननिद्रा शीतसर्पिः प्रपूरैः
- प्रथमदिवसभागे रात्रिभागेऽपि चाद्येभवति हि कफकोपो भुक्तमात्रे वसन्ते ४७
- निदानार्थकरो रोगो रोगस्याप्युपलक्ष्यते ४८
- कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति ४९
- न प्रशाम्यति चाप्यन्यो हेत्वर्थं कुरुतेऽपि च ५०
- अत्यन्तकुत्सितावेतौ सदा स्थूलकृशौ नरौ
- श्रेष्ठो मध्यशरीरस्तु स्थूलः क्षीणो न पूजितः
- कर्षयेद् बृंहयेच्चापि सदा स्थूलकृशौ नरौ
- रक्षणञ्चापि मध्यस्य कुर्वीत कुशलो भिषक् ५१
- क्षपयेद् बृंहयेच्चापि दोषधातुमलान्भिषक्
- नरो रोगान्वितो यावद्रो गेण रहितो भवेत् ५२
- अस्वस्थो येन विधिना स्वस्थो भवति मानवः
- तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम् ५३
- समदोषः समाग्निश्च समधातुमलक्रियः
- प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते ५४
- विण्मूत्राखिलदोषधातुसमता काङ्क्षाऽन्नपाने रुचि-
- र्भुक्तं जीर्यति पुष्टये परिणतिः स्वप्नावबोधौ सुखम्
- गृह्णीते विषयान्यथास्वमुचितान्वृत्तिं मनोवृत्तितः
- स्वस्थस्याभिहितं चतुर्दशविधं जन्तोरिदं लक्षणम् ५५
- तत्तद्वृद्धिकराहारविहारातिनिषेवणात्
- दोषधातुमलानां हि वृद्धिरुक्ता भिषग्वरैः ५६
- वाते वृद्धे भवेत्कार्श्यं पारुष्यं चोष्णकामिता
- गाढं मलं बलञ्चाल्पं गात्रस्फूर्त्तिर्विनिद्र ता
- विण्मूत्रनेत्रगात्राणां पीतत्वं क्षीणमिन्द्रि यम्
- शीतेच्छातापमूर्च्छाःस्युः पित्ते वृद्धेऽल्पमूत्रता ५७
- विडादिशौक्ल्यं शीतत्वं गौरवञ्चातिनिद्र ता
- सन्धिशैथिल्यमुत्क्लेदो मुखसेकः कफेऽधिके ५८
- रसे वृद्धेऽन्नविद्वेषो जायते गात्रगौरवम्
- लालाप्रसेकश्छर्दिश्च मूर्च्छा सादो भ्रमः कफः ५९
- प्रवृद्धं रुधिरं कुर्याद् गात्रमारक्तवर्णकम्
- लोचनञ्च तथा रुक्तं सिराः पूरयतेऽपि च ६०
- रक्तन्तु कुरुते वृद्धं विसर्पप्लीहविद्र धीन्
- कुष्ठं वातास्रकं गुल्मं सिरापूर्णत्वकामले ६१
- गात्राणां गौरवं निद्रा मदो दाहश्च जायते
- व्यङ्गाग्निसादसंमोहरक्तत्वङ्नेत्रमूत्रताः ६२
- गुदमेढ्रास्यपाकार्शःपिडकामशकास्तथा
- इन्द्र लुप्ताङ्गमर्दासृग्दरास्तापं कराङ्घ्रिषु ६३
- शमयेद्र क्तवृद्ध्य्त्थुआ!न् रक्तस्रुतिविरेचनैः
- मांसं वृद्धन्तु गण्डौष्ठस्फिगुपस्थोरुवाहुषु
- जङ्घयोः कुरुते वृद्धिं तथा गात्रस्य गौरवम् ६४
- उदरे पार्श्वयोर्वृद्धिः कासश्वासादयस्तथा
- दौर्गन्ध्यं स्निग्धता गात्रे मेदोवृद्धौ भवेदिति ६५
- प्रवृद्धं कुरुते मेदः श्रममल्पेऽपि चेष्टिते
- तृट्स्वेदगलगण्डौष्ठरोगमेहादिजन्म च ६६
- श्वासं स्फिग्जठरग्रीवास्तनानां लम्बनं तथा
- वृद्धान्यस्थीनि कुर्वन्ति अस्थीन्यन्यानि चास्थिषु ६७
- आचरन्ति तथा दन्तान्विकटान्महतस्तथा
- मज्जा वृद्धः समस्ताङ्गनेत्रगौरवमाचरेत् ६८
- शुक्राश्मरी शुक्रवृद्धौ शुक्रस्यातिप्रवर्त्तनम्
- मलप्रवृद्धावाटोपो जायते जठरे व्यथा ६९
- मूत्रे वृद्धे मुहुर्मूत्रमाध्मानं वस्तिवेदना
- स्वेदे वृद्धे तु दौर्गन्ध्यं त्वचि कण्डूश्च जायते ७०
- आर्त्तवातिप्रवृत्तिः स्याद्दौर्गन्ध्यं चार्त्तवे भवेत्
- अङ्गमर्दश्च जायेत लिङ्गं स्यादार्त्तवेऽधिके ७१
- स्तनयोरतिपीनत्वं क्षीरस्रावो मुहुर्मुहुः
- तोदश्च तत्र भवति स्तन्याधिक्यस्य लक्षणम् ७२
- उदरादिप्रवृद्धिस्तु वृद्धे गर्भेऽभिजायते
- स्वेदश्च गर्भवत्याः स्यात्प्रसवे व्यसनं महत् ७३
- तत्तद्ध्रासकराहारविहारपरिषेवणात्
- दोषधातुमलानां हि ह्रासो निगदितो नृणाम् ७४
- पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्द्धयेद्धि परस्परम्
- तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ७५
- असात्म्यान्नसदाक्रोधशोकचिन्ताभयश्रमै
- अतिव्यवायानशनात्यर्थसंशोधन्रपि ७६
- वेगानां धारणाच्चापि साहसादविघाततः
- दोषाणामथ धातूनां मलानाञ्च भवेत्क्षयः ७७
- वातक्षयेऽल्पचेष्टत्वं मन्दवाक्यं विसंज्ञता
- पित्तक्षयेऽधिकः श्लेष्मा वह्निमान्द्यं प्रभाक्षयः ७८
- सन्धयः शिथिला मूर्च्छा रौक्ष्यं दाहः कफक्षये
- हृत्पीडा कण्ठशोषौत्वक्शून्यातृट् च रसक्षये ७९
- सिराः श्लथा हिमाम्लेच्छा त्वक्पारुष्यं क्षयेऽसृजः
- गण्डौष्ठकन्धरास्कन्धवक्षोजठरसन्धिषु ८०
- उपस्थशोथपिण्डीषु शुष्कता गात्ररूक्षता
- तोदो धमन्यः शिथिला भवेयुर्मांससंक्षये ८१
- प्लीहाभिवृद्धिः सन्धीनां शून्यता तनुरूक्षता
- प्रार्थना स्निग्धमांसस्य लिङ्गं स्यान्मेदसः क्षये ८२
- अस्थिशूलं तनौ रौक्ष्यं नखदन्तत्रुटिस्तथा
- अस्थिक्षये लिङ्गमेतद्वैद्यैः सर्वैरुदाहृतम् ८३
- शुक्राल्पत्वं पर्वभेदस्तोदः शून्यत्वमस्थिनि
- लिङ्गान्येतानि जायन्ते नराणां मज्जसंक्षये ८४
- शुक्रक्षये रतेऽशक्तिर्व्यथा शेफसि मुष्कयोः
- चिरेण शुक्रसेकः स्यात्सेके रक्ताल्पशुक्रता ८५
- ओजः संक्षीयते कोपाच्चिन्ताशोकश्रमादिभिः
- रूक्षतीक्ष्णोष्णकटुकैः कर्षणैरपरैरपि ८६
- बिभेति दुर्बलोऽभीक्ष्णं चिन्तयेद्व्यथितेन्द्रि यः
- अभ्युत्थायोन्मना रूक्षः क्षामः स्यादोजसः क्षये ८७
- पुरीषस्य क्षये पार्श्वे हृदये च व्यथा भवेत्
- सशब्दस्यानिलस्योर्ध्वगमनं कुक्षिसंवृतिः ८८
- मूत्रक्षयेऽल्पमूत्रत्वं वस्तौ तोदश्च जायते
- स्वेदनाशस्त्वचो रौक्ष्यं चक्षुषोरपि रूक्षता ८९
- स्तब्धाश्च रोमकूपाः स्युर्लिङ्गं स्वेदक्षये भवेत्
- आर्त्तवस्य स्वकाले चाभावस्तस्याल्पताऽथ वा ९०
- जायते वेदना योनौ लिङ्गं स्यादार्त्तवक्षये
- अभावः स्वल्पता वा स्यात्स्तन्यस्य भवतस्तथा ९१
- ग्लानौ पयोधरावेतल्लक्षणं स्तन्यसंक्षये
- अनुन्नतो भवेत्कुक्षिर्गर्भस्यास्पन्दनं तथा
- इति गर्भक्षये प्राज्ञैर्लक्षणं समुदाहृतम् ९२
- तत्तत्संवर्द्धनाहारविहारातिनिषेवणात्
- तत्तत्प्राप्य नरः शीघ्रं तत्तत्क्षयमपोहति ९३
- ओजस्तु वर्द्धते नॄणां सुस्निग्धैः स्वादुभिस्तथा
- वृष्यैरन्यैर्विशेषात्तु क्षीरमांसरसादिभिः ९४
- दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः
- तत्तत्संवर्द्धनं यत्तदन्नपानं प्रकाङ्क्षति ९५
- यद्यदाहारजातन्तु क्षीणः प्रार्थयते नरः
- तस्य तस्य स लाभेन तत्तत्क्षयमपोहति ९६
- कषायकटुतिक्तानि रूक्षशीतलघूनि च
- यवमुद्गप्रियङ्गूंश्च वातक्षीणोऽभिकाङ्क्षति ९७
- तिलमाषकुलत्थादिपिष्टान्नविकृतिं तथा
- मस्तुशुक्ताम्लतक्राणि काञ्जिकञ्चतथा दधि ९८
- कट्वम्ललवणोष्णानि तीक्ष्णं क्रोधं विदाहि च
- समयं देशमुष्णञ्च पित्तक्षीणोऽभिकाङ्क्षति ९९
- मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
- दधि क्षीरं दिवास्वप्नं कफक्षीणोऽभिकाङ्क्षति १००
- रसक्षीणो नरः काङ्क्षत्यम्भोऽतिशिशिरं मुहुः
- रात्रिनिद्रा ं! हिमं चन्द्रं भोक्तुञ्च मधुरं रसम् १०१
- इक्षुं मांसरसं मन्थं मधु सर्पिर्गुडोदकम् १०२
- द्रा क्षादाडिमशुक्तानि सस्नेहलवणानि च
- रक्तसिद्धानि मांसानि रक्तक्षीणोऽभिकाङ्क्षति १०३
- अन्नानि दधिसिद्धानि षाडवांश्च बहूनपि
- स्थूलक्रव्यादमांसानि मांसक्षीणोऽभिकाङ्क्षति १०४
- मेदः सिद्धानि मांसानि ग्राम्यानूपौदकानि च
- सक्षाराणि विशेषेण मेदःक्षीणोऽभिकाङ्क्षति १०५
- अस्थिक्षीणस्तथा मांसं मज्जास्थिस्नेहसंयुतम्
- स्वाद्वम्लसंयुतं द्र व्यं मज्जाक्षीणोऽभिकाङ्क्षति १०६
- शिखिनः कुक्कुटस्याण्डं हंससारसयोस्तथा
- ग्राम्यानूपौदकानाञ्च शुक्रक्षीणोऽभिकाङ्क्षति १०७
- यवान्नं यवकान्नञ्च शाकानि विविधानि च
- मसूरमाषयूषञ्च मलक्षीणोऽभिकाङ्क्षति १०८
- पेयमिक्षुरसं क्षीरं सगुडं बदरोदकम्
- मूत्रक्षीणोऽभिलषति त्रपुसैर्वारुकाणि च १०९
- अभ्यङ्गोद्वर्त्तने मद्यं निवातशयनासने
- गुरु प्रावरणं चैव स्वेदक्षीणोऽभिकाङ्क्षति ११०
- कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च
- फलशाकानि पानानि स्त्री काङ्क्षत्यार्त्तवक्षये १११
- सुराशाल्यन्नमांसानि गोक्षीरं शर्करां तथा
- आसवं दधि हृद्यानि स्तन्यक्षीणाऽभिवाञ्छति ११२
- मृगाजाविवराहाणां गर्भान्वाञ्छति संस्कृतान्
- वसाशूल्यप्रकारादीन्भोक्तुं गर्भपरिक्षये ११३
- रसादिशुक्रपर्य्यन्तं धातुपुष्टिनिमित्तकम्
- चेष्टासु पाटवं यत्तु बलं तदभिधीयते ११४
- अभिघाताद्भयात्क्रोधाच्चिन्तया च परिश्रमात्
- धातूनां संक्षयाच्छोकाद्बलं संक्षीयते नृणाम् ११५
- गौरवं स्तब्धता गात्रे मुखम्लानिर्विवर्णता
- तन्द्रा निद्रा वातशोथो बलव्यापत्तिलक्षणम् ११६
- दोषसाम्यकरं यत्तु बह्निसाम्यकरं च यत्
- धातुपुष्टिकरं द्र व्यं बलं तदभिवर्द्धयेत् ११७
- कृशोऽपि बलवान्कश्चित् स्थूलोऽत्यल्पबलो यतः
- तस्माच्चेष्टापटुत्वेन बलवन्तं विदुर्बुधाः ११८
- इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते श्रीभावप्रकाशे पूर्वखण्डे परिभाषादिप्रकरणे सप्तमं रोगिपरीक्षाप्रकरणं समाप्तम् ७
- इति पूर्व खण्डं समाप्तम्