भावप्रकाशः/मध्यखण्डे चतुर्थो भागः
- अथैकोनपञ्चाशत्तमो नाडीव्रणाधिकारः ४९
- यः शोथमाममिति पक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः
- अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूयः
- तस्यातिमात्रगमनाद् गतिरिष्यते तु नाडीव यद्वहति तेन मता च नाडी १
- दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्च्छितैरपि च शल्यनिमित्ततोऽन्या २
- तत्रानिलात्परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपासु ३
- पित्तात्तु तृड्ज्वरकरी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसु चापि ४
- ज्ञेया कफाद् बहुघना सितपिच्छिलास्रां स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा ५
- दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि
- तामादिशेत्पवनपित्तकफप्रकोपाद् घोरां गतिं त्वसुहरामिव कालरात्रिम् ६
- नष्टं कथञ्चिदणुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति
- सा फेनिलं मथितमुष्णमसृग्विमिश्रं स्रावं करोति सहसा सरुजञ्च नित्यम् ७
- नाडी त्रिदोषप्रभवा न सिध्येदन्त्याश्चतस्रः खलु यत्नसाध्याः ८
- अथ नाडीव्रणचिकित्सा
- तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य
- तिलैरपामार्गफलैः सुपिष्टैः ससैन्धवैः सम्परिपूर्य बन्धेत्
- प्रक्षालने वाऽपि सदा व्रणस्य योज्यं महद्यत्खलु पञ्चमूलम् ९
- हिंस्रां हरिद्रा ं! कटुकां बलाञ्च गोजिह्विकाञ्चापि सबिल्वमूलाम्
- संहृत्य तैलं विपचेद् व्रणस्य संशोधनं पूरणरोपणञ्च १०
- पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः
- निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेच्च
- प्रक्षालने चापि ससोमनिम्बा निशा प्रयोज्या कुशलेन नित्यम् ११
- श्यामात्रिभण्डी त्रिफलासुसिद्धं हरिद्र या तिल्वकवृक्षकेण
- घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगताऽपि या स्यात् १२
- नाडीं कफोत्थामुपनाह्य पूर्वं कुलत्थसिद्धार्थकसक्तुकिण्वैः
- मृदूकृतामेष्यगतिं विदित्वा निपातयेच्छस्त्रमशेषकारि १३
- दद्याद् व्रणे निम्बतिलाग्निदन्तीसुराष्ट्रजाः सैन्धवसम्प्रयुक्ताः
- प्रक्षालने चापि करञ्जनिम्बजात्यर्कपीलुस्वरसाः प्रयोज्याः १४
- स्वर्जिकासिन्धुदन्त्यग्नियूथिका जलनीलिका
- खरमञ्जरिबीजेषु तैलं गोमूत्रसाधितम्
- दुष्टव्रणप्रशमनं कफनाडीव्रणापहम् १५
- सैन्धवार्कमरिचज्वलनाख्यैर्मार्कवेण रजनीद्वयसिद्धम्
- तैलमेतदचिरेण निहन्याद् दूरगामपि कफानिलनाडीम् १६
- नाडीं तु शल्यप्रभवां विदार्य निष्कास्य शल्यं प्रतिशोध्य मार्गम्
- बन्धेद् व्रणं क्षौद्र घृतप्रगाढैस्तिलैस्ततो रोपणमस्य कुर्यात् १७
- कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनाञ्च शलाटुवर्गे
- कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तं सरलां प्रियङ्गुम् १८
- सौगन्धिकं मोचरसाहिपुष्पं लोध्राणि दत्वा खलु धातकीञ्च
- एतेन शल्यप्रभवा हि नाडी रोहेद् व्रणो वा सुखमाशु चैव १९
- इति कुम्भीकाद्यतैलम्
- स्नुह्यर्कदुग्धदार्वीणां वर्त्तिं कृत्वा प्रपूरयेत्
- एष सर्वशरीरस्थां नाडीं हन्यात्प्रयोगराट् २०
- आरग्वधनिशाकाला चूर्णाज्यक्षौद्र संयुता
- सूत्रवर्त्तिव्रणे योज्या शोधनी गतिनाशिनी २१
- वर्त्तीकृतं माक्षिकसम्प्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा
- दुष्टव्रणे यद्विहितं तु तैलं तत्सेव्यमानं गतिमाशु हन्ति २२
- जात्यर्कसम्पाक करञ्जदन्ती सिन्धूत्थसौवर्चलयावशूकैः
- वर्त्तिः कृता हन्त्यचिरेण नाडीं स्नुक्क्षीरपिष्टा तु सचित्रकेण २३
- बिभीतकाम्रास्थि वटप्रवाल हरेणुकाशङ्खिनिबीजमिश्रा
- वाराहविट्सूक्ष्ममसी प्रदेया नाडीषु तैलेन च मिश्रयित्वा २४
- मेषरोममसीतुम्ब्या कटुतैलं विपाचितम्
- नाडीव्रणं चिरोद्भूतं जयेत्तु तूलसङ्गमात् २५
- कर्चूरकस्य स्वरसे कटुतैलं विपाचयेत्
- सिन्दूरकल्कितं नाडीदुष्टव्रणविसर्पनुत् २६
- कर्चूरकरसे तैलं पुरसिन्दूरकल्कितम्
- पामादुष्टव्रणं नाडीं हन्यात्सर्वव्रणान्तकृत् २७
- भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च
- स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च २८
- स्वर्जिका सैन्धवं दन्ती नीलीमूलं फलं तथा
- मूत्रे चतुर्गुणे सिद्धं तैलं नाडीव्रणापहम्
- सर्वो व्रणक्रमः कार्यः शोधनारोपणादिकः २९
- गुग्गुलुत्रिफलाव्योषैः समांशैराज्ययोजितैः
- अक्षप्रमाणां गुटिकां खादेदेकामतन्द्रि तः ३०
- नाडीं दुष्टव्रणं शूलमुदावर्त्तं भगन्दरम्
- गुल्मञ्च गुदजान्हन्यात्पक्षिराट् पन्नगानिव ३१
- या द्विव्रणीये विहितास्तु वत्तर्यस्ताः
- सर्वनाडीषु भिषग्विदध्यात् ३२
- कृशदुर्बलभीरूणां नाडीं मर्माश्रितामपि
- क्षारसूत्रेण तां छिन्द्यान्न शस्त्रेण कदाचन ३३
- एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम्
- सूचीं निदध्याद्गत्यन्ते प्रोन्नाम्याशु विनिर्हरेत् ३४
- सूत्रस्यान्तं समानीय गाढं बन्धनमाचरेत्
- ततः क्षारबलं वीक्ष्य सूत्रमन्यत्प्रवेशयेत् ३५
- क्षाराक्तं मतिमान्वैद्यो यावन्न च्छिद्यते गतिः
- भगन्दरेष्वेष विधिः कार्यो वैद्येन जानता ३६
- अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत्
- सूचीभिर्यववक्त्राभिराचितं वा समन्ततः
- मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद् व्रणम् ३७
- इत्येकोनपञ्चाशत्तमो नाडीव्रणाधिकारः समाप्तः ४९
- अथ पञ्चाशत्तमो भगन्दराधिकारः ५०
- कटीकपालनिस्तोददाह कण्डूरुजाऽदयः
- भवन्ति पूर्वरूपाणि भविष्यति भगन्दरे १
- गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽत्तिकृत्
- भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत् २
- भगन्दरशब्दस्य निरुक्तिमाह भोजः
- भगं परिसमन्ताच्च गुदं वस्तिं तथैव च
- भगवद् दारयेद्यस्मात्तस्मादेष भगन्दरः ३
- कषायरुक्षैरतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम्
- उपेक्षणात्पाकमुपैति दारुणं रुजा च भिन्नाऽरुणफेनवाहिनी
- तत्रागमो मूत्रपुरीषरेतसां व्रणैरनेकैः शतपोनकं वदेत् ४
- प्रकोपनैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम्
- तदाशुपाकाऽहिमपूतिवाहिनीं भगन्दरं चोष्ट्रशिरोधरं वदेत् ५
- कण्डूयनो घनस्रावी कठिनो मन्दवेदनः
- श्वेतावभासः कफजः परिस्रावी भगन्दरः ६
- बहुवर्णरुजास्रावा पिडका गोस्तनोपमा
- शम्बूकावर्त्तगतिकः शम्बूकावर्त्तको मतः ७
- क्षताद्गतिः पायुगता विवर्द्धते ह्यपेक्षणात्स्युः कृमयो विदार्य ते
- प्रकुर्वते मार्गमनेकधा मुखैर्व्रणैस्तमुन्मार्गिभगन्दरं वदेत् ८
- घोराः साधयितुं दुःखाः सर्व एव भगन्दराः
- तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्चविशेषतः ९
- वातमूत्रपुरीषाणि शुक्रञ्च कृमयस्तथा
- भगन्दरात्स्रवन्तस्तु नाशयन्ति तमातुरम् १०
- अथास्य पिडकामेव तथा यत्नादुपाचरेत्
- शुद्ध्य्स्रस्रुतिसेकाद्यैर्यथा पाकं न गच्छति ११
- वटपत्रेष्टका शुण्ठीसगुडूचीपुनर्नवाः
- सुपिष्टः पिडकाऽवस्थे लेपः शस्तो भगन्दरे १२
- पिडकानाम पक्वानामपतर्पणपूर्वकम्
- कर्म कुर्याद्विरेकान्तं भिन्नानां वक्ष्यते क्रिया १३
- एषणीपाटनक्षारवह्निदाहादिकं क्रमम्
- विधाय व्रणवत्कार्यं यथादोषं यथाक्रमम् १४
- पयः पिष्टैस्तिलारिष्टमधुकैश्च सुशीतलैः
- भगन्दरे प्रशस्तोऽय सरक्ते वेदनावति १५
- सुमना वटपत्राणि गुडूची विश्वभेषजम्
- ससैन्धवस्तक्रपिष्टो लेपो हन्ति भगन्दरम् १६
- त्रिवृत्तिला नागदन्ती मञ्जिष्ठा सह सर्पिषा
- उत्सादनं भवेदेतत्सैन्धवक्षौद्र संयुतम् १७
- खदिराम्बुरतो भूत्वा कषायं त्रैफलं पिबेत्
- महिषाक्षविडङ्गानां भगन्दरविनाशनम् १८
- शम्बूकमांसं भुञ्जीत प्रकारैर्व्यञ्जनादिभिः
- अजीर्णवर्जी मासेन मुच्यते तु भगन्दरात् १९
- न्यग्रोधादिर्गणो यस्तु हितः शोधनरोपणः
- तैलं घृतं वा तत् पक्वं भगन्दरविनाशनम् २०
- तिला ज्योतिष्मती कुष्ठं लाङ्गली गिरिकर्णिका
- शताह्वात्रिवृतादन्त्यः शोधनाश्च भगन्दरे २१
- तिलाभयालोध्रमरिष्टपत्रं निशे बला लोध्रमगारधूमम्
- भगन्दरे चाप्युपदंशजे च द्रुष्टव्रणे रोपणशोधनाय २२
- स्नुह्यर्कदुग्धदार्वीभिर्वर्त्तिं कृत्वा विचक्षणः
- भगन्दरगतिं ज्ञात्वा पूरयेत्तां प्रयत्नतः २३
- एषा सर्वशरीरस्थां नाडीं हन्यान्नसंशयः
- त्रिफलारससंयुक्तं विडालास्थिप्रलेपनम् २४
- भगन्दरं निहन्त्याशु दुष्टव्रणहरं परम्
- त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः २५
- ज्योतिष्मती लाङ्गलकी श्यामा दन्ती त्रिवृत्तिलाः
- कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका २६
- कासीसकाञ्चनक्षीर्यौ वर्गः शोधन इष्यते २७
- मधुतैलयुता विडङ्गसारत्रिफलामागधिकाकणाश्च लीढाः
- कृमिकुष्ठभगन्दरप्रमेहक्षयनाडीव्रणरोपणा भवन्ति २८
- चित्रकार्कौ त्रिवृत्पाठे मलयूहयमारकौ
- सुधां वचां लाङ्गलकीं हरितालं सुवर्चिकाम् २९
- ज्योतिष्मतीञ्च संहृत्य तैलं धीमान्विपाचयेत्
- एतद्विष्यन्दनं नाम तैलं दद्याद्भगन्दरे
- शोधनं रोपणञ्चैव सवर्णकरणं तथा ३०
- निशाऽकक्षीर सिन्धूत्थपुराश्वहरवत्सकैः
- सिद्धमभ्यञ्जनं तैलं भगन्दरहरं परम् ३१
- करवीरनिशा दन्तीलाङ्गलीलवणाग्निभिः
- मातुलुङ्गकवत्साह्वैः पचेत्तैलं भगन्दरे ३२
- त्रिफलापुरकृष्णानां त्रिपञ्चकांशयोजिता
- गुटिका शोथगुल्मार्शोभगन्दरवतां हिता ३३
- नाड्यन्तरे व्रणान्कुर्याद्भिषक् तु शतपोनके
- ततस्तेष्ववरूढेषु शेषा नाडीरुपाचरेत् ३४
- व्याधौ तत्र बहुच्छिद्रे भिषजा तु विजानता
- अर्द्धलाङ्गलकच्छेदः कार्यो लाङ्गलकोऽपि वा ३५
- सर्वतोभद्र को वाऽपि कार्यो गोतीर्थकोऽपि वा ३६
- द्वाभ्यां समाभ्यां पार्श्वाभ्यां छेदो लाङ्गलको मतः
- ह्रस्वमेकतरं यत्तु सोऽद्धलाङ्गलकः स्मृतः ३७
- सेवनीं वर्जयित्वा तु चतुर्द्धा दारिते गुदे
- सर्वतोभद्र कं छेदमाहुश्छेदविदो जनाः
- पार्श्वादागतशस्त्रेण च्छेदो गोतीर्थको मतः ३८
- सर्वानास्रावमार्गांस्तु दहेद्वैद्यस्तथाऽग्निना
- अथोष्ट्रग्रीवमेषिण्या छित्वा क्षारं निपातयेत् ३९
- उत्कृत्यास्रावमार्गन्तु परिस्राविणि बुद्धिमान्
- क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा ४०
- गतिमन्विष्य शस्त्रेण च्छिन्द्यात्खर्जूरपत्रकम् ४१
- चन्द्रा र्द्ध चन्द्र चक्रञ्च सूचीमुखमवाङ्मुखम्
- छित्वाऽग्निना दहेत्सम्यगेवं क्षारेण वा पुनः ४२
- एषां तु शस्त्र पतनाद्वेदना यत्र जायते
- तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते ४३
- आगन्तुजे भिषङ् नाडीं शस्त्रेणोत्कृत्य यत्नतः ४४
- जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया
- दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ४५
- व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि च
- संवत्सरं परिहरेदुपरूढव्रणो नरः ४६
- इति पञ्चाशत्तमो भगन्दराधिकारः समाप्तः ५०
- अथैकपञ्चाशत्तम उपदंशाधिकारः ५१
- हस्ताभिघातान्नख दन्तघातादधावनादत्युपसेवनाद्वा
- योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः १
- सतोदभेदस्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत्पवनोपदंशम्
- पीतैर्बहुक्लेदयुतैः सदाहैः पित्तेन रक्तैः पिशितावभासैः २
- स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम्
- सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन
- नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम् ३
- प्रशीर्णमांसं कृमिभिःप्रजग्धं मुष्कावशेषं परिवर्जनीयम् ४
- सञ्जातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः
- कालेन शोथकृमिदाहपाकैः प्रशीर्णशिश्नो म्रियते स तेन ५
- उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः
- मेढ्रमध्ये शिरां विध्यात्पातयेद्वा जलौकसः ६
- हरेदुभयतश्चापि दोषानत्यर्थमूर्च्छितान्
- सद्यो निर्हृतदोषस्य रुक्शोथावुपशाम्यतः ७
- यदि वा दुर्बलोजन्तुर्न वा प्राप्तविरेचनः
- निरूहेण हरेत्तस्य दोषानत्यर्थमूर्च्छितान्
- पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः ८
- प्रपौण्डरीकयष्ट्याह्वसरलागुरुदारुभिः
- सरास्नाकुष्ठपृथ्वीकैर्वातिके लेपसेचने ९
- निचुलैरण्डबीजानि यवगोधूमसक्तवः
- एतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत् १०
- गैरिकाञ्चनमञ्जिष्ठा मधुकोशीरपद्मकैः
- सचन्दनोत्पलैः स्निग्धः पैत्तिकं सम्प्रलेपयेत् ११
- पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः
- सर्पिः स्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् १२
- सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः
- अथवाऽपि सुशीतेन कषायेण वटादिना १३
- शालाजकर्णाश्वकर्णधवत्वग्भिः कफोत्थितम्
- सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् १४
- आरग्वधादिक्वाथेन परिषेकञ्च दापयेत् १५
- निम्बार्जुनाश्वत्थकदम्बशालजम्बूवटोदुम्बरवेतसैश्च
- प्रक्षालनालेपकृतानिकुर्याच्चूर्णं सपित्तास्रभवोपदंशे १६
- त्वचो दारुहरिद्रा याः शङ्खनाभी रसाञ्जनम्
- लाक्षागोमयनिर्यासस्तैलं क्षौद्रं घृतं पयः १७
- एभिस्तु पिष्टैस्तुल्यांशैरुपदंशं प्रलेपयेत्
- व्रणाश्च तेन शाम्यन्ति श्वयथुर्दाह एव च १८
- उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत्क्रियाम्
- तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् १९
- शस्त्रेणोल्लेखयेत्क्वापि पाकमागतमाशु वै
- तमपोह्य तिलैः सर्पिः क्षौद्र युक्तैः प्रलेपयेत् २०
- वटप्ररोहार्जुनजम्बुपथ्या लोध्रं हरिद्रा च हिताः प्रलेपे
- तथोपदंशेष्ववरोहणार्थं चूर्णञ्च कार्यं विमलाञ्जनेन २१
- त्रिफलायाः कषायेण भृङ्गराजरसेन वा
- व्रणप्रक्षालनं कार्यमुपदंशप्रशान्तये २२
- जयाजपाऽश्वमारार्कशम्पाकानां दलैः क्रमात्
- कृतं प्रक्षालनं क्वाथं मेढ्रपाके प्रयोजयेत् २३
- शम्पाकनिम्बत्रिफलाकिरातक्वाथं पिबेद्वा खदिरासनाभ्याम्
- सगुग्गुलुं वा त्रिफलायुतं वा सर्वोपदंशापहरःप्रयोगः २४
- नीलोत्पलानि कुमुदं पद्मसौगन्धिकानि च
- उपदंशेषु चूर्णानि प्रदेहोऽय प्रशस्यते २५
- बन्धूकदलचूर्णेन दाडिमत्वग्रजोऽथवा
- गुण्डनं वृषणे शस्तं लेपः पूगफलेन वा २६
- सौराष्ट्री गैरिकं तुत्थं पुष्पकासीससैन्धवम्
- लोध्रं रसाञ्जनञ्चापि हरितालं मनः शिला २७
- हरेणुकैले तु तथा समं संहृत्य चूर्णयेत्
- तच्चूर्णं क्षौद्र संयुक्तमुपदंशेषु पूजितम् २८
- पुटदग्धं कृतं भस्म हरितालं मनःशिला
- उपदंशविसर्पाणामेतद्धानिकरं परम् २९
- दहेत्कटाहे त्रिफलां तां मसीं मधुसैन्धवम्
- उपदंशे प्रलेपोऽय सद्यो रोपयति व्रणम् ३०
- तिरीटाञ्जनवज्राक्षकोविदारेभकेशरैः
- लेपनं पुरुषव्याधौ जलपिष्टैः प्रशस्यते ३१
- रसाञ्जनं शिरीषेण पथ्यया वा समन्वितम्
- सक्षौद्रं लेपनं योज्यं सर्वाङ्गगगदापहम् ३२
- भार्गीसम्भवशिखरिजमूलं भद्र श्रियं सुसम्पिष्टम्
- मनःशिला वै मधुना शमयत्युपदंशमचिरेण ३३
- शतधौतं प्रयत्नेन लिङ्गोत्थमवचूर्णयेत्
- रोगं कासीसचूर्णेन पुरुषः सुखमाप्नुयात् ३४
- करवीरस्य मूलेन परिपिष्टेन वारिणा
- असाध्याऽपि व्रजत्यस्तं लिङ्गोत्था रुक्प्रलेपनात् ३५
- वरानिम्बार्जुनाश्वत्थखदिरासनवासकैः
- चूर्णितैर्गुग्गुलुसमैर्वटका अक्षसंमिताः ३६
- कर्त्तव्या नाशयन्त्याशु सर्वांल्लिङ्गसमुत्थितान्
- उपदंशानसृग्दोषांस्तथा दुष्टव्रणानपि ३७
- करञ्जनिम्बार्जुनशालजम्बूवटादिभिः कल्ककषायसिद्धम्
- सर्पिर्निहन्यादुपदंशदोषं सदाहपाकस्रुतिरागयुक्तम् ३८
- भूनिम्बनिम्बत्रिफलापटोलकरञ्जधात्रीखदिरासनानाम्
- सतोयकल्कैर्घृतमाशु पक्वं सर्वोपदंशापहरं प्रदिष्टम् ३९
- घृतानि यानि वक्ष्यामि कुष्ठे नाडीव्रणे व्रणे
- उपदंशे प्रयोज्यानि सेकाभ्यञ्जनभोजनैः ४०
- आगारधूमो रजनी सुराकिट्टं च तैस्त्रिभिः
- यथोत्तरैः पचेत्तैलं कण्डूशोथरुजाऽपहम्
- शोधनं रोपणं चैव ह्युपदंशहरं परम् ४१
- गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम्
- एतत्सर्वोपदंशेषु तैलं रोपणमिष्यते ४२
- जम्बुवेतसपत्राणि धात्रीपत्रं तथैव च
- नक्तमालस्य पत्राणि तद्वत्पद्मोत्पलानि च ४३
- एला चातिविषाऽम्रास्थि मधुकञ्च प्रियङ्गवः
- लाक्षा कालीयकं लोध्रं चन्दनं त्रिवृताह्वया ४४
- एतान्येकीकृतान्येव बस्तमूत्रेण पेषयेत्
- अक्षमात्रैरिमैर्द्र व्यैस्तैलप्रस्थं विपाचयेत् ४५
- सर्वव्रणहरं तैलमेतत्सिद्धं न संशयः
- उपदंशहरं श्रेष्ठं मुनिभिः परिकीर्तितम् ४६
- यस्य लिङ्गस्य मांसं तु शीर्यते मुष्कशेषतः ४७
- तिक्तकोशातकीलाबुबीजं नागरसाधितम्
- तैलं हन्त्यविशेषेण व्रणं दुष्टमनेकधा ४८
- सेवेन्नित्यं यवान्नञ्च पानीयं कौपमेव च
- अर्शसां च्छिन्नदग्धानां क्रियां चात्र प्रयोजयेत् ४९
- इत्येकपञ्चाशत्तम उपदंशाधिकारः समाप्तः ५१
- अथ द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः ५२
- अङ्कुरैरिव सञ्जातैरुपर्युपरि संस्थितैः
- क्रमेण जायते वर्त्तिस्ताम्रचूडशिखोपमा १
- कोषस्याभ्यन्तरे सन्धौ पर्वसन्धिगतापि वा
- लिङ्गवर्त्तिरिति ख्याता लिङ्गार्श इति चापरे
- सवेदनापिच्छिला च दुश्चिकित्स्या त्रिदोषजा २
- क्षारेण प्रदहेच्छित्त्वा लिङ्गवर्त्तिमशेषतः
- व्रणवच्चाचरेत्सम्यक् समं चूर्णमुपद्र वान् ३
- स्वर्जिकातुत्थशैलेयमञ्जनं सरसाञ्जनम्
- मनःशिलाऽले च समं चूर्णं मांसाङ्कुरापहम् ४
- हरति घृतकुमारीपत्रमावेष्टेनेन ग्रथनविधिविशेषांश्चर्मकीलांस्तृतीये
- अहनि गुरुतरानप्यङ्गलब्धप्रतिष्ठान् विधिरिव विपरीतः पौरुषस्य प्रकारान् ५
- शुभे तु चारटीमूलं वृषमूत्रेण पेषयेत्
- चर्मकीलान्निहन्त्याशु प्रलेपात्साधनोद्भवान् ६
- इति द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः समाप्तः ५२
- अथ त्रिपञ्चाशत्तमः शूकदोषाधिकारः ५३
- अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः
- व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः १
- शूकदोषा दश चाष्टौ च भवन्ति
- गौरसर्षपसंस्थाना शूकदुर्भगहेतुका
- पिडिका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा २
- कठिना विषमैर्भुग्नैर्वायुनाष्ठीलिका भवेत् ३
- शूकैर्यत्पूरितं शश्वद् ग्रथितं नाम तत्कफात् ४
- कुम्भिका रक्तपित्तात्स्याज्जाम्बुवास्थिनिभा सिता ५
- अलजी स्यात्तथा यादृक्प्रमेहपिडका तथा
- सा च रक्तासिता स्फोटचिता च कथिता बुधैः ६
- मृदितं पीडितं यत्तु संरब्धं वातकोपतः ७
- पाणिभ्यां भृशसंमूढे संमूढ पिडिका भवेत् ८
- दीर्घा बह्व्यश्चपिडका दीर्यन्ते मध्यतस्तु याः
- सोवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् ९
- पिडिका पिडिकाव्याप्ता पित्तशोणितसम्भवा
- पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिकेति सा १०
- स्पर्शहानिन्तु जनयेच्छोणितं शूकदूषितम् ११
- मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा च या
- एषोत्तमाख्यपिडका शूकाजीर्णसमुद्भवा १२
- छिद्रै रणुमुखैलिङ्गं चिरं यस्य समन्ततः
- वातशोणितजो व्याधिर्विज्ञेयःशतपोनकः १३
- वातपित्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहकृत् १४
- कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम्
- लिङ्गं वास्तुरुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् १५
- मांसदुष्टं विजानीयादर्बुदं मांससम्भवम् १६
- शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः
- विद्यात् तं मांसपाकं तु सर्वदोषकृतं भिषक् १७
- विद्र धिं सन्निपातेन यथोक्तमभिनिर्दिशेत् १८
- कृष्णानि चित्राण्यथवा शुक्लानि सविषाणि तु
- पातितानि पचन्त्याशु मेढ्रं निरवशेषतः १८
- कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः
- सन्निपातसमुत्थांश्च तान्विद्यात्तिलकालकान् १९
- तत्र मांसार्बुदं यच्च मांसपाकश्च यःस्मृतः
- विद्र धिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः २०
- शूकदोषेषु सर्वेषु विषघ्नीं कारयेत्क्रियाम्
- जलौकाभिर्हरेद्र क्तं रेचनं लघु भोजयेत्
- गुग्गुलुं पाचयेच्चापि त्रिफलाक्वाथसंयुतम्
- क्षीरेण लेपसेकांश्च शीतेनैव हि कारयेत् २१
- दार्वीसुरसयष्ट्याह्वैर्गृहधूमनिशायुतैः
- सम्पक्वं तैलमभ्यङ्गान्मेढ्ररोगं हि नाशयेत् २२
- रसाञ्जनं साह्वयमेकमेव प्रलेपमात्रेण नयत्प्रशान्तिम्
- सपूतिपूयव्रणशोथकण्डूशूलान्वितं सर्वमनङ्गरोगम् २३
- इति त्रिपञ्चाशत्तमः शूकदोषाधिकारः समाप्तः ५३
- अथ चतुष्पञ्चाशत्तमः कुष्ठरोगाधिकारः ५४
- विरोधीन्यन्नपानानि द्र वस्निग्धगुरूणि च
- भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम् १
- व्यायाममग्नितापञ्चाप्यतिभुक्त्वा निषेविणाम्
- शीतोष्णलङ्घनाहारान्क्रमं मुक्त्वा निषेविणाम् २
- घर्मश्रमभयार्त्तानां द्रुतं शीताम्बुसेविनाम्
- अजीर्णाध्यशिनां चापि पञ्चकर्मापचारिणाम् ३
- नवान्नदधिमत्स्यादिलवणाम्लनिषेविणाम्
- माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् ४
- व्यवायं चाप्यजीर्णेऽन्ने दिवानिद्रा ं! निषेविणाम्
- विप्रान्गुरून्धर्षयतां पापं कर्म च कुर्वताम् ५
- वातादयस्त्रयो दोषास्त्वग्रक्तं मांसमम्बु च
- दूषयन्ति स कुष्ठानां सप्तको द्र व्यसङ्ग्रहः
- अतः कुष्ठानि जायन्ते सप्तधैकादशैव च ६
- पूर्वं त्रिकं तथा सिध्मं ततः काकणकं तथा
- पुण्डरीकर्क्षजिह्वके महाकुष्ठानि सप्त च ७
- एककुष्ठं स्मृतं पूर्वं गजचर्म ततः स्मृतम्
- ततश्चर्मदलं प्रोक्तं ततश्चापि विचर्चिका ८
- विपादिकाऽभिधा सैव पामा कच्छूस्ततः परम्
- दद्रुविस्फोटकिटिभालसकानि च वेष्टितम् ९
- क्षुद्र कुष्ठानि चैतानि कथितानि भिषग्वरैः १०
- कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः
- सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः ११
- अतिश्लक्ष्णः खरस्पर्शः स्वेदास्वेदविवर्णता
- दाहःकण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः क्लमः १२
- व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः
- रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोपनम्
- रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् १३
- दूषयन्ति श्लथीकृत्य निश्चलत्वादितस्ततः
- त्वचः कुर्वन्ति वैवर्ण्यं दोषाः कुष्ठमुशन्ति तम् १४
- वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात्
- मण्डलाख्यं विचर्ची च ॠक्षाख्यं वातपित्ततः १५
- चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः
- वातश्लेष्मोद्भवाः पित्तकफाद्दद्रुशतारुषी १६
- पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा
- सर्वैरेवोल्वणैर्दोषैराहुः काकणकं बुधाः १७
- कृष्णारुणकपालाभं यद्रू क्षं परुषं तनु
- कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् १८
- उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत्
- रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् १९
- श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्
- कृच्छ्रमन्योऽन्यसंसक्तं कुष्ठं मण्डलमुच्यते २०
- श्वेतताम्रञ्च तनु यद्र जो घृष्टं विमुञ्चति
- प्रायेणोरसि तत्सिध्ममलाबुकुसुमोपमम् २१
- यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम्
- त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति २२
- तच्छ्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्
- सरागञ्चैव सोत्सेधं पुण्डरीकं कफोल्वणम् २३
- कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्
- यदृक्षजिह्वासंस्थानमृक्षजिह्वं तदुच्यते २४
- अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्
- तदेककुष्ठं चर्माख्यं बहलं गजचर्मवत् २५
- रक्तं सशूलं कण्डूमत्सस्फोटं दलयत्यपि
- तच्चर्मदलमाख्यातं स्पर्शस्यासहनञ्च यत् २६
- सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका २७
- वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम् २८
- सूक्ष्मा बह्व्यः स्राववत्यः प्रदाहाः पामेत्युक्ताः पिडकाः कण्डुमत्यः २९
- सैव स्फोटस्तीव्रदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च ३०
- सकण्डूरागपिडकं दद्रुर्मण्डलमुद्गतम् ३१
- स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः ३२
- श्यामं किणखरस्पर्शं परुषं किटिभं स्मृतम् ३३
- कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम् ३४
- रक्तश्यावं सदाहार्त्ति शतारुःस्याद् बहुव्रणम् ३५
- त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते
- त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम् ३६
- कण्डूर्विपूयकश्चैव कुष्ठे शोणितसम्भवे ३७
- बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
- तोदः स्फोटः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते ३८
- कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम्
- मेदः स्थानगते लिङ्गं प्रागुक्तानि तथैव च ३९
- नासाभङ्गोऽक्षिरागश्च क्षतेषु कृमिसम्भवः
- स्वरोपघातः पीडा च भवेत्कुष्ठेऽस्थिमज्जगे ४०
- दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः
- यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ४१
- खरं श्यावारुणं रूक्षं वातकुष्ठं सवेदनम्
- पित्तात्प्रकुथितं दाहरागस्रावान्वितं मतम्
- कफोत्क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम्
- द्विलिङ्गं द्वन्द्वजं कुष्ठं त्रिलिङ्गं सान्निपातिकम् ४२
- साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत्
- मेदोगं द्वन्द्वजं याप्यं वर्ज्यं मज्जास्थिसंश्रितम्
- कृमिकृद् दाहमन्दाग्निसंयुक्तं यत् त्रिदोषजम् ४३
- प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम्
- पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ४४
- कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं भवेत्
- निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ४५
- वाताद्रू क्षारुणं पित्तात्ताम्रं कमलपत्रवत्
- सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु
- सकण्डूकं क्रमाद्र क्तमांसमेदःसु चादिशेत्
- वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ४६
- अशुक्लरोमाबहलमसंश्लिष्टमथो नवम्
- अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ४७
- गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्
- वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता ४८
- प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात्सहभोजनात्
- एकशय्याऽसनाच्चापिवस्त्रमाल्यानुलेपनात्
- कण्डूकुष्ठोपदंशाश्च भूतोन्मादव्रणज्वराः
- औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ४९
- म्रियते यदि कुष्ठेन पुनर्जातस्य तद्भवेत्
- अतो निन्दितरोगोऽय कुष्ठं कष्टं प्रकीर्त्तितम् ५०
- वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु
- पित्तोत्तरेषु लेपः सेको रक्तस्य मोचनं श्रेष्ठम् ५१
- पथ्याकरञ्जसिद्धार्थनिशाऽवल्गुजसैन्धवैः
- विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत् ५२
- सोमराजीभवं चूर्णं शृङ्गबेरसमन्वितम्
- उद्वर्त्तनमिदं हन्ति कुष्ठमुग्रं कृतास्पदम् ५३
- रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम्
- मार्कण्डेयप्रभृतिभिर्यत्प्रयुक्तं महर्षिभिः ५४
- पुष्पकाले तु पुष्पाणि फलकाले फलानि च
- संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि च ५५
- द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत्
- त्रिफला त्र्! यूषणं ब्राह्मी श्वदंष्ट्राऽरुष्कराग्नयः ५६
- विडङ्गसारवाराहीलोहचूर्णामृताः समाः
- निशाद्वयावल्गुजकं व्याधिघातः सशर्करः ५७
- कुष्ठमिन्द्र यवाः पाठाः चूर्णमेषां तु संयुतम्
- खादिरासननिम्बानां घनक्वाथेन भावयेत्
- सप्तधा पञ्चनिम्बं तु मार्कवस्यरसेन च
- स्निग्धः शुद्धतनुर्धीमान्योजयेत्तच्छुभे दिने ५८
- मधुना तिक्तहविषा खदिरासनवारिणा
- लेह्यमुष्णाम्भसा वाऽपि कालवृद्ध्या पलं भवेत्
- जीर्णे तस्मिन्समश्नीयात्स्निग्धं लघु हितञ्च यत् ५९
- विचर्चिकौदुम्बर पुण्डरीककापालदद्रू किटिभालसादि
- शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम् ६०
- भगन्दरश्लीपदवातरक्तजडान्ध नाडीव्रणशीर्षरोगान्
- सर्वान्प्रमेहान्प्रदरांश्च सर्वान्दंष्ट्राविषं मूलविषं निहन्ति ६१
- स्थूलोदरः सिंहकृशोदरः स्यात्सुश्लिष्टसन्धिर्मधुनोपयोगात्
- सदोपयोगादपि ये दशन्ति सर्पादयो यान्ति विनाशमाशु ६२
- जीवेच्चिरं व्याधिजराविमुक्तः शुभे रतश्चन्द्र समानकान्तिः ६३
- शशिलेखा पञ्चपलं तावद्गिरिजस्य गुग्गुलोस्तु दश
- ताप्यस्य पलत्रितयं द्वे लोहस्रावणीकयोश्च पले ६४
- त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः
- मुस्ताविडङ्गरजनीकुटजत्वङ्निम्बवह्निसंपाकाः ६५
- एतै रचितां वटिकां मधुसंमिश्रां गिलेत्प्रातः
- गोमूत्रेण च कुष्ठं नुदत्यसृग्वातमचिरेण ६६
- श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेहगुल्मांश्च
- नाशयति वलीपलितं योगः स्वायम्भुवो नाम्ना ६७
- चित्रकं त्रिफला व्योषमजाजी कारवी वचा
- सैन्धवातिविषाकुष्ठं चव्यैला च यवासकम् ६८
- विडङ्गान्यजमोदा च मुस्ता चामरदारु च
- यावन्त्येतानि सर्वाणि तावन्मानन्तु गुग्गुलोः ६९
- सङ्कुट्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक्
- प्रातर्भोजनकाले च खादेदग्निबलं यथा ७०
- हन्त्यष्टादश कुष्ठानि कृमिदुष्टव्रणानि च
- ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान् ७१
- गृध्रसीमथ भग्नञ्च गुल्मं चापि नियच्छति
- व्याधीन्कोष्ठगतांश्चापि जयेद्विष्णुरिवासुरान् ७२
- वातरक्ताधिकारोक्तः पुरः कैशोरकाभिधः
- कुष्ठानां वातरक्तानां नाशनं परमौषधम् ७३
- भल्लातकप्रस्थयुगं छित्वा द्रो णजले क्षिपेत्
- प्रस्थद्वयंगुडूच्याश्च क्षुण्णं तत्राम्भसि क्षिपेत्
- चतुर्थांशावशेषं तु कषायमवतारयेत्
- वस्त्रपूते कषाये तु वक्ष्यमाणं विनिक्षिपेत् ७५
- शरावमात्रकंसर्पिर्दुग्धं स्यादाढकं तथा
- सितां प्रस्थमितां दद्यात्प्रस्थार्द्धं माक्षिकं क्षिपेत् ७६
- सर्वाण्येकत्र भाण्डे तु पचेन्मृद्वग्निना शनैः
- सर्वद्र वे घनीभूते पावकादवतारयेत् ७७
- तत्र क्षेप्याणि चूर्णानि ब्रूमो बिल्वविषामृताः
- वाकुची चाथ दद्र घ्नुः पिचुमर्दो हरीतकी ७८
- अक्षो धात्री च मञ्जिष्ठा मरिचं नागरं कणा
- यवानी सैन्धवं मुस्तं त्वगेला नागकेशरम् ७९
- पर्पटं पत्रकं बालमुशीरं चन्दनं तथा
- गोक्षुरस्य च बीजानि कर्चूरो रक्तचन्दनम् ८०
- पृथक्पलार्द्धमानानां चूर्णमेषामिह क्षिपेत्
- पलमात्रमितं प्रातः समश्नीयाज्जलेन हि ८१
- नाशयेदवलेहोऽय पथ्यान्यन्नानि खादतः
- कुष्ठानि वातरक्तानि सर्वाण्यर्शांसि सेवितः ८२
- व्यायाममातपं वह्निमम्लं मांसं दधि स्त्रियम्
- तैलाभ्यङ्गं तथाध्वानं नरो भल्लातकी त्यजेत् ८३
- निम्बगोपारुणाः कट्वी त्रायन्ती त्रिफला घनम्
- पर्पटावल्गुजानन्तावचाखदिरचन्दनम् ८४
- पाठाशुण्ठीशटीभार्गीवासाभूनिम्बवत्सकम्
- श्यामेन्द्र वारुणीमूर्वाविडङ्गेन्द्र यवानलम् ८५
- हस्तिकर्णामृताद्रे कापटोलरजनीद्वयम्
- कणारग्वधसप्ताह्वत्रिवृद्वेत्रोच्चटाफलम् ८६
- मञ्जिष्ठा लाङ्गली रास्ना नक्तमालं पुनर्नवा
- दन्तीबीजकसारञ्च भृङ्गराजं कुरण्टकम् ८७
- अङ्कोटकञ्च शाखोटं द्विपलांशं पृथक्पृथक्
- गृह्णीयात्तानि सर्वाणि जलद्रो णे पचेच्छनैः ८८
- अष्टमांशावशेषन्तु कषायमवतारयेत्
- विधाय वाससा पूतं स्थापयेद्भाजने दृढे ८९
- भल्लातकसहस्राणि च्छित्वा तु त्र्! यर्मणाम्भसि
- पचेदष्टावशेषं तत्कषायमवतारयेत् ९०
- तच्च वस्त्रेण संशोध्य द्वौ कषायौ विमिश्रयेत्
- गुडं शतपलं दत्वा लेहवत्तत्पचेच्छनैः ९१
- त्रिकटु त्रिफला मुस्तं विडङ्गं चित्रकं तथा
- सैन्धवं चन्दनं कुष्ठं दीप्यकञ्च पलं पृथक्
- सौगन्ध्यार्थं क्षिपेत्तत्र चातुर्जातं पलं पलम् ९२
- महाभल्लातको ह्येष महादेवेन भाषितः
- प्राणिनां हितकामेन जयेच्छीघ्रं प्रयोजितः ९३
- श्वित्रमौदुम्बरं दद्रुमृक्षजिह्वन्तु काकणम्
- पुण्डरीकं सचर्माख्यं विस्फोटं रक्तमण्डलम् ९४
- कण्डूं कपालकं कुष्ठं पामानञ्च विपादिकाम्
- वातरक्तं षडर्शांसि पाण्डुरोगव्रणान्कृमीन् ९५
- रक्तपित्तमुदावर्त्तं कासं श्वासं भगन्दरम्
- सदाभ्यासेन पलितमामवातं सुदुस्तरम् ९६
- निर्यन्त्रणस्तु कथितो विहाराहारमैथुने
- कुरुते परमां कान्तिं प्रदीप्तं जठरानलम्९७
- अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा
- भोजने तु सदा त्याज्यमुष्णमम्लं विशेषतः ९८
- मञ्जिष्ठा त्रिफला तिक्ता वचादारुनिशाऽमयाः
- निम्बश्चैषां कृतः क्थाथः सर्वकुष्ठं विनाशयेत् ९९
- वातरक्तं तथा कण्डूं पामां वै रक्तमण्डलम्
- दद्रू ं! विसर्पं विस्फोटं पानाभ्यासेन नाशयेत् १००
- मञ्जिष्ठा वाकुची चक्रमर्दश्च पिचुमर्दकः
- हरीतकी हरिद्रा च धात्री वासा शतावरी १०१
- बला नागबला यष्टीमधुकं क्षुरकोपि च
- पटोलस्य लतोशीरं गुडूची रक्तचन्दनम् १०२
- मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः
- वातरक्तस्य संहर्त्ता कण्डूमण्डलनाशनः १०३
- मञ्जिष्ठाकुटजामृताघन वचामुण्डीहरिद्रा द्वयं
- क्षुद्रा रिष्टपटोलतिक्तकटु काभार्गीविडङ्गाग्निकम्
- मूर्वादारुकलिङ्गभृङ्गम गधात्रायान्तपाठावरी गायत्री त्रिफलाकिरातकमहानिम्बासनारग्वधाः १०४
- श्यामावल्गुजचन्दनं वरुणकं दन्तीकशाखोटकं-
- वासासर्पटसारिवा प्रतिविषानन्ताविशालाजलम्
- मञ्जिष्ठाप्रथमं कषायमिति यः संसेवते तस्य तु त्वग्दोषाः सुचिरेण यान्ति विलयं कुष्ठानि चाष्टादश १०५
- नाशं गच्छति वातरक्तमखिला नश्यन्ति रक्तामयाः
- वीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशाम्यन्ति च १०६
- मरिचं त्रिवृता मुस्तं हरितालं मनः शिला
- देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् १०७
- विशाला करवीरञ्च क्षीरमर्कसमुद्भवम्
- गोमयस्य रसं कुर्यात्प्रत्येकं कर्षसम्मितम्१०८
- विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु
- पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा १०९
- मरिचाद्यमिदं तैलमभ्यङ्गात्कुष्ठनाशनम्
- एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणाद्भवेत् ११०
- तैलमेतज्जयेत्कण्डूं पामां सिध्मविचर्चिकाम्
- पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम् १११
- मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्र सः
- देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ११२
- विशाला करवीरञ्च हरितालं मनःशिला
- चित्रकं लाङ्गली मुस्तं विडङ्गं चक्रमर्दकः ११३
- शिरीषःकुटजो निम्बः सप्तपर्णोऽमृता स्नुही
- श्यामाको नक्तमालश्च खदिरो वाकुची वचा ११४
- ज्योतिष्मती च पलिका विषं द्विपलिकं भवेत्
- आढकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम् ११५
- मृत्पात्रे लोहपात्रे च शनैर्मृद्वग्निना पचेत्
- मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम् ११६
- भिषगेतेन तैलेन म्रक्षयेत्कौष्ठिकान्व्रणान्
- पामाविचर्चिकादद्रू कण्डूविस्फोटकानि च ११७
- वलयः पलितं छाया नीलं व्यङ्गं तथैव च
- अभ्यङ्गेन प्रणश्यन्ति सौकुमार्यञ्च जायते ११८
- प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते
- तासामपि जरां प्राप्य न स्यातां स्खलितौ स्तनौ ११९
- बलीवर्दस्तुरङ्गो वा गजो वा वायुपीडितः
- त्रिभिरभ्यञ्जनैरस्य भवेन्मारुतविक्रमः १२०
- तालताप्यशिलासूतटङ्कणाः सिन्धुसंयुताः
- गन्धको द्विगुणः सूताच्छङ्खचूर्णञ्च तत्समम् १२१
- जम्बीराद्भिर्दिनं घृष्ट्वा त्रिंशदंशं विषं क्षिपेत्
- अस्य माषद्वयं खादेन्महिषीघृतसंयुतम् १२२
- मध्वाज्यैर्वाकुचीबीजकर्षं लिह्यात्ततः परम्
- तालकेश्वरनामाऽय सर्वकुष्ठहरो रसः १२३
- रसो वलिस्ताम्रमयः पुरोग्निः शिलाजतु स्याद्विषतिन्दुकश्च
- वरा च तुल्यं गगनञ्च सर्वैः करञ्जबीजं सचतुष्टयञ्च १२४
- सम्मर्द्य सर्वं मधुना घृतेन घृतस्य पात्रे निहितं प्रयत्नात्
- कर्षं भजेत्प्रत्यहमस्य पथ्यं शाल्योदनं दुग्धमधुत्रयञ्च १२५
- विशीर्णकर्णाङ्गुलिनासिकोऽपि भवेदनेन स्मरतुल्यमूर्त्तिः
- दारापरित्याग इह प्रदिष्टो जलौदनं तत्र निबद्धमूले १२६
- कुष्ठं मूलकबीजं प्रियङ्गवः सर्षपास्तथा रजनी
- एतत्केशरषष्ठं निहन्ति चिरकालजं सिध्मम् १२७
- शिखरीरसेन पिष्टं मूलकबीजं प्रलेपतः सिध्मम्
- क्षारेण वा कदल्या रजनीमिश्रेण नाशयति १२८
- दार्वीमूलकबीजानि तालकं सुरदारु च
- ताम्बूलपत्रं सर्वाणि कार्षिकाणि पृथक्पृथक् १२९
- शङ्खचूर्णन्तु शाणं स्यात्सर्वाण्येकत्र वारिणा
- प्रलेपयेत्प्रलेपोऽय सिध्मनाशन उत्तमः १३०
- सलिले चाम्रपेशी तु किञ्चित्सैन्धवसंयुता
- ताम्रपात्रे विनिर्घृष्टा लेपाच्चर्मदलापहा १३१
- सलिलेन तु शुष्काणि घृष्ट्वा धात्रीफलानि च
- कराभ्यां सुखमाप्नोति नरश्चर्मदलान्वितः १३२
- जीरकस्य पलं पिष्टं सिन्दूरार्द्धपलं तथा
- कटुतैलं पचेदाभ्यां सर्वपामाहरं परम् १३३
- मञ्जिष्ठात्रिफलालाक्षालाङ्गली रात्रिगन्धकैः
- चूर्णितैस्तैलमादित्यपाकं पामाहरं परम् १३४
- सैन्धवं चक्रमर्दश्च सर्षपाः पिप्पली तथा
- आरनालेन संपिष्टाः पामाकण्डूहराः पराः १३५
- अर्कपत्ररसे पक्वं हरिद्रा कल्कसंयुतम्
- नाशयेत्सार्षपं तैलं पामाकच्छूविचर्चिकाः १३६
- मनः शिलाऽल कासीसं गन्धाश्म सिन्धुजन्म च
- स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी १३७
- लाङ्गली करवीरञ्च दद्रुघ्नः कृमिहाऽनलः
- दन्ती निम्बदलं चैभिः पृथक्कर्षमितैर्भिषक् १३८
- कल्लीकृत्य पचेत्तैलं कटु प्रस्थद्वयोन्मितम्
- अर्कसेहुण्डदुग्धेन पृथक्पलमितेन च १३९
- गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत्
- अभ्यङ्गेन हरेदेतत्कच्छू दुःसाध्यतामपि १४०
- पामानञ्च तथा कण्डूं त्वग्व्याधिरुधिरामयान्
- कण्डूराक्षसनामेदं तैलं हारीतभाषितम् १४१
- कृतमालस्य पत्राणि नक्तमालदलानि च
- द्रो णपुष्पीपलाशानि सर्षपा राजिका निशा १४२
- कुटजो मधुकं मुस्तं नागरं रक्तचन्दनम्
- धांत्री यवानिका दारु कल्क एष प्रकल्पितः १४३
- उद्वर्त्तनादयं कल्कः कटुतैलसमन्वितः
- कच्छूं पामां हरत्येव शीतपित्तादिकान्गदान् १४४
- कुष्ठं कृमिघ्नो दद्रुघ्नो निशासैन्धवसर्षपाः
- अम्लपिष्टः प्रलेपोऽय दद्रुकुष्ठनिषूदनः १४५
- दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः
- त्रिभिः प्रलेपैरपि बद्धमूलां दद्रू ञ्च कुष्ठञ्च विनाशयन्ति १४६
- गण्डलिकाख्यं तृणमपि सिद्धार्थकश्च स्नुहीपत्रम्
- त्रयमपि समभागं स्यादेषां द्विगुणस्तु दद्र्रुघ्नः १४७
- अष्टगुणे गोतक्रे तानि प्रकृतानि सन्दध्यात्
- दिवसत्रितयादूर्ध्वं सम्यङ्निष्पेषयेत्तानि१४८
- वन्योपलेन घृष्ट्वा च दद्रुमालेपयेत्तेन
- सप्ताहाल्लेपोऽय दद्र्रूमचिराद्विनाशयति १४९
- बिभीतकत्वङ्मलयूजटानां क्वाथेन पीतं गुडसंयुतेन
- आवल्गुजं बीजमपाकरोति श्वित्राणि कृच्छ्राण्यपि पुण्डरीकम् १५०
- कुडवमवल्गुणबीजं हरितालचतुर्थभागसम्मिश्रम् १५१
- मनः शिलां तोलकार्द्धं गुञ्जाफलमग्निमूलञ्च
- मूत्रेण गवां पिष्टं सवर्णताकारकं श्वित्रे १५२
- श्वेतं कुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा
- गिरिकर्ण्यास्तु कृष्णाया मूलेन परिलेपितम् १५३
- क्वाथः सवाकुचीचूर्णो धात्रीखदिरसारयोः
- शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हरेत् १५४
- मथितेन पिबेच्चूर्णं काकोदुम्बर्यवल्गुजम्
- तैलाक्तो घर्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् १५५
- चतुष्पलं सोमराज्याः खदिरस्य पलं तथा
- पटोलमूलं त्रिफला त्रायमाणा दुरालभा १५६
- कल्कार्थं कटुकं चापि कार्षिकान्सूक्ष्मपेषितान्
- पलद्वयं कौशिकस्य शुद्धस्यात्र प्रदापयेत् १५७
- सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम्
- अष्टादशानां कुष्ठानां परमं चैतदौषधम् १५८
- सोमराजीघृतं नाम निर्मितं ब्रह्मणा पुरा
- लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् १५९
- इति चतुष्पञ्चाशत्तमः कुष्ठाधिकारः समाप्तः ५४
- अथ पञ्चपञ्चाशत्तमः शीतपित्तोदर्दकोठोत्कोठाधिकारः ५५
- शीतमारुतसम्पर्कात्प्रवृद्धौ कफमारुतौ
- पित्तेन सह सम्भूय बहिरन्तर्विसर्पतः १
- पिपासाऽरुचिहृल्लास देहसादाङ्गगौरवम्
- रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम् २
- वरटीदष्टसंस्थानः शोथः सञ्जायते बहिः
- सकण्डूतोदबहुलश्छर्दि ज्वरविदाहवान्
- वाताधिकतमं विद्याच्छीतपित्तमिमं भिषक् ३
- सोत्सङ्गैश्च सरागैश्च कण्डूमद्भिश्च मण्डलैः
- शैशिरः श्लेष्मबहुल उदर्दइति कीर्त्तितः ४
- असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः ५
- मण्डलानि सकण्डूनि रागवन्ति बहूनि च
- सानुबन्धस्तु स प्राज्ञैरुत्कोठ इति कथ्यते ६
- शीतपित्ते तु वमनं पटोलारिष्टवासकैः
- त्रिफलापुरकोष्णाभिर्विरेकश्च प्रशस्यते ७
- अभ्यङ्गः कटुतैलेन सेकश्चोष्णेन वारिणा
- त्रिफलां क्षौद्र्रसंयुक्तां खादेच्च नवकार्षिकम् ८
- त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजिता
- गुटिका शीतपित्तार्शोभगन्दरवतां हिता ९
- इति नव कार्षिकः
- सितां त्रिकटुसंयुक्तां गुडमामलकैः सह
- यवानीं खादयेच्चापि सव्योषक्षारसंयुताम् १०
- आर्द्र्रकस्य रसःपेयः पुराणगुडसंयुतः
- शीतपित्तापहः श्रेष्ठो वह्निमान्द्यविनाशनः ११
- सिद्धार्थरजनीकल्कैः प्रपुन्नाटतिलैः सह
- कटुतैलेन सम्मिश्रमेतदुद्वर्त्तनं हितम् १२
- सुगुडं दीप्यकं यस्तु खादेत्पथ्यान्नभुङ्नरः
- तस्य नश्यति सप्ताहादुदर्दःसर्वदेहजः १३
- घृतं पीत्वा महातिक्तं शोणितं मोक्षयेत्तथा
- स्निग्धस्विन्नस्य संशुद्धिमादौ कोठे समाचरेत्
- उत्कोठे शुद्धदेहस्य कुष्ठघ्नीं कारयेत्क्रियाम् १४
- निम्बस्य पत्राणि सदा घृतेन धात्रीविमिश्राणि नरः प्रयुञ्ज्यात्
- विस्फोटकण्डूकृमिशीतपित्तमुदर्दकोठौ च कफञ्च हन्यात् १५
- आर्द्र कं प्रस्थमेकं स्याद् गोघृतं कुडवद्वयम्
- गोदुग्धं प्रस्थयुगलं तदर्द्धं शर्करा मता १६
- पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम्
- चित्रकञ्च विडङ्गञ्च मुस्तकं नागकेशरम् १७
- त्वगेलापत्रकर्चूरं प्रत्येकं पलमात्रकम्
- विधाय पाकं विधिवत्खादेत्तत्पलसम्मितम् १८
- इदमार्द्र कखण्डं हि प्रातर्भुक्तं व्यपोहति
- शीतपित्तमुदर्दञ्च कोठमुत्कोठमेव च
- यक्ष्माणं रक्तपित्तञ्च कासं श्वासमरोचकम्
- वातगुल्ममुदावर्तं शोथं कण्डूं कृमीनपि २०
- दीपयेदुदरे वह्निं बलं वीर्यञ्च वर्द्धयेत्
- वपुः पुष्टं प्रकुरुते तस्मात्सेव्यमिदं सदा २१
- इति पञ्चपञ्चाशत्तमः शीतपित्तोदर्दकोठोत्कोठाधिकारः समाप्तः ५५
- अथ षट्पञ्चाशत्तमो विसर्पाधिकारः ५६
- लवणाम्ल कटूष्णादिसेवनाद्दोषकोपतः
- विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् १
- विसर्पस्य सप्तधात्वं विवृणोति
- वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः
- चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः २
- आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः
- यस्तु कर्दमको घोरः स पित्तकफसम्भवः ३
- रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः
- विसर्पाणां समुत्पत्तौ हेतवः सप्त धातवः ४
- तत्र वातात्परीसर्पो वातज्वरसमव्यथः
- शोफस्फुरणनिस्तोदभेदायामार्त्तिहर्षवान् ५
- पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ६
- कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक् ७
- सन्निपातसमुत्थश्च सर्वरूपसमन्वितः ८
- वातपित्ताज्ज्वरच्छर्दिमूर्च्छाऽतीसारतृड्भ्रमैः
- अस्थिभेदाग्निसदनतमकारोचकैर्युतः
- करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत्
- यं यं देशं विसर्पश्च विसर्पति भवेत्स सः ९
- शीताङ्गारासितो नीलो रक्तो वाऽशूपचीयते
- अग्निदग्ध इव स्फोटः शीघ्रगत्वाद् द्रुतञ्च सः १०
- मर्मानुसारी वीसर्पःस्याद्वातोऽतिबलस्ततः
- व्यथेताङ्गं हरेत्संज्ञां निद्रा ञ्च श्वासमीरयेत् ११
- हिध्माञ्च स गतोऽवस्थामीदृशीं लभते न ना
- क्वचिच्छर्मारतिग्रस्तो भूमिशय्याऽसनादिषु १२
- चेष्टमानस्ततः क्लिष्टो मनोदेहसमुद्भवाम्
- दुष्प्रबोधोऽश्नुते निद्रा ं! सोऽग्निवीसर्प उच्यते १३
- कफेन रुद्धः पवनो भित्वा तं बहुधा कफम्
- रक्तं वा वृद्धरक्तस्य त्वक्शिरास्नायुमांसगम् १४
- दूषयित्वा तु दीर्घाणां वृत्तस्थूलखरात्मनाम्
- ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् १५
- श्वासकासातिसारास्य शोषहिक्कावमिभ्रमैः
- मोहवैवर्ण्यमूर्च्छाऽङ्ग भङ्गाग्निसदनैर्युतः
- इत्ययं ग्रन्थिवीसर्पो वातश्लेष्मप्रकोपजः १६
- कफपित्ताज्ज्वरस्तम्भनिद्रा तन्द्रा शिरोरुजाः
- अङ्गावसादविक्षेपप्रलेपारोचकभ्रमाः १७
- मूर्च्छाऽग्निहानिर्भेदोऽस्थ्ना पिपासेन्द्रि यगौरवम्
- सामोपवेसनं लेपः स्रोतसां स च सर्पति १८
- प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक्
- पिडकैरवकीर्णोऽतिपीतलोहितपाण्डुरः १९
- स्निग्धोऽसितो मेचकाभो मलिनः शोफवान्गुरुः
- गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते २०
- पङ्कत्वक्शीर्णमांसश्च स्पष्टस्नायुशिरागणः
- शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् २१
- सन्निपातसमुत्थस्तु सर्वरूपसमन्वितः २२
- बाह्यहेतोः क्षतात्क्रुद्धः सरक्तं पित्तमीरयन्
- विसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम्
- स्फोटः शोथज्वररुजादाहाढ्यं श्यावशोणितम् २३
- ज्वरातिसारौ वमथुस्त्वङ्मांसदरणक्लमाः
- अरोचकाविपाकौ च विसर्पाणामुपद्र वाः २४
- सिद्ध्य्न्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति
- पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव २५
- विरेकवमनालेप सेचनास्रविमोक्षणैः
- उपाचरेद्यथादोषं विसर्पानविदाहिभिः २६
- रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला
- घृतक्षीरयुतो लेपो वातवीसर्पनाशनः २७
- कशेरुशृङ्गाटकपद्मगुन्द्र ः! सशैवलैः सोत्पलकर्दमैश्च
- वस्त्रान्तरैः पित्तकृते विसर्पे लेपो विधेयः सघृतः सुशीतः २८
- त्रिफलापद्मकोशीर समङ्गाकरवीरकम्
- नलमूलमनन्ता च लेपः श्लेष्मविसर्पके २९
- वातपित्तप्रशमनमग्निवीसर्पणे हितम्
- वातश्लेष्महरं कर्म ग्रन्थिविसर्पणे हितम् ३०
- पित्तश्लेष्मप्रशमनं हितं कर्दमसंज्ञके
- त्रिदोषजे क्रियां कुर्याद्विसर्पे त्रितयापहाम् ३१
- शिरीषयष्टीनतचन्दनैलामांसीहरिद्रा द्वयकुष्ठबालैः
- लेपो दशाङ्गः सघृतः प्रयोज्यो विसर्पकुष्ठज्वरशोथहारी ३२
- परिषेकाः प्रलेपाश्च शस्यन्ते पञ्चवल्कलैः
- पद्मकोशीरमधुकैश्चन्दनैर्वा विसर्पणे ३३
- भूनिम्बवासाकटुकापटोलीफलत्रयीचन्दननिम्बसिद्धः
- विसर्पदाहज्वरशोथकण्डूविस्फोटतृष्णावमिहृत्कषायः ३४
- कुष्ठेषु यानि सर्पींषि व्रणेषु विविधेषु च
- विसर्पे तानि योज्यानि सेकालेपनभोजनैः ३५
- करञ्जसप्तच्छदलाङ्गली कस्नुह्यर्कदुग्धानलभृङ्गराजैः
- तैलं निशामूत्रविषैर्विपक्वं विसर्पविस्फोटविचर्चिकाघ्नम् ३६
- कुष्ठामयस्फोटमसूरिकोक्तचिकित्सयाऽप्याशु हरेद्विसर्पान्
- सर्वान्विपक्वान्परिशोध्य धीमान्व्रणक्रमेणोपचरेद्यथोक्तम् ३७
- इति षट्पञ्चाशत्तमो विसर्पाधिकारः समाप्तः ५६
- अथ सप्तपञ्चाशत्तमो स्नायुरोगाधिकारः ५७
- शाखासु कुपितो दोषः शोथं कृत्वा विसर्पवत्
- भित्वैव तं क्षते तत्र सोष्म मांसं विशोष्य च १
- कुर्यात्तन्तुनिभं सूत्रं तत्पिण्डैस्तक्रशक्तुजैः
- शनैः शनैः क्षताद्याति च्छेदात्तत्कोपमावहेत् २
- तत्पाताच्छोथशान्तिः स्यात्पुनः स्थानान्तरे भवेत्
- स स्नायुरिति विख्यातः क्रियोक्ताऽत्र विसर्पवत् ३
- बाह्वोर्यदि प्रमादेन त्रुट्यते जङ्घयोरपि
- सङ्कोचं खञ्जतां चापि च्छिन्नो नूनं करोत्यसौ ४
- स्नेहस्वेदप्रलेपादि कर्म कुर्याद्यथोचितम्
- रामठं शीततोयेन पीतं स्नायुकरोगनुत् ५
- स्वेदात्स्नायुकमत्युग्रं भेकः काञ्जिकसाधितः
- तद्वद् बब्बूलजं बीजं पिष्टं हन्ति प्रलेपनात् ६
- गव्यं सर्पिस्त्र्! यहं पीत्वा निर्गुण्डीस्वरसं त्र्! यहम्
- पिबेत्स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः ७
- मूलं सुषव्या हिमवारिपिष्टं पानादिदं तन्तुकरोगमुग्रम्
- शान्तिं नयेत्सव्रणमाशु पुंसां गन्धर्वगन्धेन घृतेन पीत्वा ८
- अतिविषमुस्तकभर्गीविश्वौषधपिप्पलीबिभीतक्यः
- चूर्णमिदं तन्तुघ्नं पुंसामुष्णेन वारिणा पीतम् ९
- शिग्रुमूलदलैः पिष्टैः काञ्जिकेन ससैन्धवैः
- लेपनं स्नायुकव्याधेः शमनं परमं मतम् १०
- अहिंस्रकमूलकल्केन तोयपिष्टेन यत्नतः
- लेपसम्बन्धनात्तन्तुर्निःसरेन्नैव संशयः ११
- इति सप्तपञ्चाशत्तमः स्नायुरोगाधिकारः समाप्तः ५७
- अथाष्टपञ्चाशत्तमो विस्फोटकाधिकारः ५८
- कट्वम्लतीक्ष्णोष्णविदाहिरुक्षक्षारैरजीर्णाध्यशनातपैश्च
- तथर्त्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु १
- त्वचमाश्रित्य ते रक्तं मांसास्थीनि प्रदूष्य च
- घोरान्कुर्वन्ति विस्फोटान्सर्वाञ्ज्वरपुरःसरान् २
- अग्निदग्धा इव स्फोटाः सज्वरा रक्तपित्तजाः
- क्वचित्सर्वत्र वा देहे विफोटा इति ते स्मृताः ३
- शिरोरुक् शूलभूयिष्ठं ज्वरतृट्पर्वभेदनम्
- सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ४
- ज्वरदाहरुजापाकस्रावतृष्णासमन्वितम्
- पीतलोहितवर्णञ्च पित्तविस्फोटलक्षणम् ५
- छर्द्यरोचकजाड्यानिकण्डू काठिन्यपाण्डुताः
- यस्मिन्न रुक् चिरात्पाकः स विस्फोटः कफात्मकः ६
- कण्डूर्दाहो ज्वरश्छर्दिरेतैश्च कफपैत्तिकः ७
- वातपित्तकृतो यस्तु तत्र स्यात्तीव्रवेदना ८
- कण्डूस्तैमित्यगुरुभिर्जानीयात्कफवातिकम् ९
- मध्यनिम्नोन्नतान्तश्च कठिनः स्वल्पपाकवान्
- दाहरागतृषामोहच्छर्दिमूर्च्छारुजाज्वराः
- प्रलापो वेपथुस्तन्द्रा सोऽसाध्यश्च त्रिदोषजः १०
- वेदितव्याश्च रक्तेन पैत्तिकेन च हेतुना
- गुञ्जाफलसमा रक्ता रक्तस्रावा विदाहिनः
- न ते सिद्धिं समायान्ति सिद्धैर्योगशतैरपि ११
- एते चाष्टविधा बाह्या आन्तरोऽपि भवेदयम्
- तस्मिन्नन्तर्व्यथातीव्रा ज्वरयुक्ताऽभिजायते १२
- यस्मिन्बहिर्गते स्वास्थ्यं न वा तस्य बहिर्गतिः
- तत्र वातिकविस्फोटक्रिया कार्या विजानता १३
- तृट्श्वासमांससङ्कोथदाह हिक्कामदज्वराः
- विसर्पमर्मसंरोधास्तेषामुक्ता उपद्र वाः १४
- हिक्का श्वासोऽरुचिस्तृष्णा साङ्गमर्दा हृदि व्यथा
- विसर्पज्वरहृल्लासा विस्फोटानामुपद्र वाः १५
- एकदोषो स्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः
- सर्वरूपान्वितो घोरो ह्यसाध्यो भूर्युपद्र वः १६
- विस्फोटे लङ्घनं कार्यं वमनं पथ्यभोजनम्
- यथादोषबलं वीक्ष्य युक्तमुक्तं विरेचनम् १७
- जीर्णशालियवा मुद्गा मसूराश्चाढकी तथा
- एतान्यन्नानि विस्फोटे हितानि मुनयोऽब्रुवन् १८
- द्वे पञ्चमूल्यौ रास्ना च दार्व्युशीरं दुरालभा
- गुडूची धान्यकं मुस्तमेषां क्वाथं पिबेन्नरः
- विस्फोटान्नाशयन्त्याशु समीरणनिमित्तकान् १९
- द्रा क्षाकाश्मर्य खर्जूरपटोलारिष्टवासकैः
- कटुकालाजदुःस्पर्शैः सितायुक्तं तु पैत्तिके २०
- भूनिम्बसवचावासा त्रिफलेन्द्र जवत्सकैः
- पिचुमर्दपटोलाभ्यां कफजे मधुयुक्शृतम् २१
- किराततिक्तकारिष्टयष्ट्या ह्वाम्बुदवासकैः
- पटोलपर्पटोशीरत्रि फलाकौटजान्वितैः
- क्वथितैर्द्वादशाङ्गन्तु सर्वविस्फोटनाशनम् २२
- विस्फोटव्याधिनाशाय तण्डुलाम्बुप्रपेषितैः
- बीजैः कुटजवृक्षस्य लेपः कार्यो विजानता २३
- छिन्नापटोलभूनिम्ब वासकारिष्टपर्पटैः
- खदिराब्दयुतैः क्वाथो हन्ति विस्फोटकज्वरम् २४
- चन्दनं नागपुष्पञ्च सारिवा तण्डुलीयकम्
- शिरीषवल्कलं जातीलेपः स्याद्दाहनाशनः २५
- उत्पलं चन्दनं लोध्रमुशीरंसारिवाद्वयम्
- जलपिष्टेन लेपेन स्फोटदाहार्त्तिनाशनम् २६
- पुत्रजीवस्य मज्जानं जले पिष्ट्वा प्रलेपयेत्
- कालस्फोटं च विस्फोटं सद्यो हन्ति सवेदनम् २७
- कक्षग्रन्थिं गलग्रन्थिं कर्णग्रन्थिञ्च नाशयेत्
- हन्याच्च स्फोटकं ताम्रं पुत्रजीवो विनाशयेत् २८
- इत्यष्टपञ्चाशत्तमोविस्फोटकाधिकारः समाप्तः ५८
- अथैकोनषष्टितमः फिरङ्गरोगाधिकारः ५९
- फिरङ्गसंज्ञके देशे बाहुल्येनैव यद्भवेत्
- तस्मात्फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः १
- गन्धरोगः फिरङ्गोऽय जायते देहिनां ध्रुवम्
- फिरङ्गिणोऽङ्गसंसर्गात्फिरङ्गिण्याः प्रसङ्गतः २
- व्याधिरागन्तुजो ह्येष दोषाणामत्र सङ्क्रमः
- भवेत्तं लक्षयेत्तेषां लक्षणैर्भिषजां वरः ३
- फिरङ्गस्त्रिविधो ज्ञेयो बाह्य आभ्यन्तरस्तथा
- बहिरन्तर्भवश्चापि तेषां लिङ्गानि च ब्रुवे ४
- तत्र बाह्यः फिरङ्गः स्याद्विस्फोटसदृशोऽल्परुक्
- स्फुटितोव्रणवद्वेद्यः सुखसाध्योऽपि स स्मृतः ५
- सन्धिष्वाभ्यन्तरः स स्यादामवात इव व्यथाम्
- शोथञ्च जनयेदेष कष्टसाध्यो बुधैः स्मृतः ६
- कार्श्यं बलक्षयो नासाभङ्गो बह्नेश्च मन्दता
- अस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्र वा अमी ७
- बहिर्भवो भवेत्साध्यो नवीनो निरुपद्र वः
- आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः
- बहिरन्तर्भवो जीर्णः क्षीणस्योपद्र वैर्युतः
- व्याप्तो व्याधिरसाध्योऽयमित्याहुर्मुनयः पुरा ९
- अथ फिरङ्गरोगस्य चिकित्सा
- फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः
- अवश्यं नाशयेदेतदूचुः पूर्वाश्चिकित्सकाः १०
- लिख्यते रसकर्पूरप्राशने विधिरुत्तमः
- अनेन विधिना खादेन्मुखे शोथं न विन्दति ११
- गोधूमचूर्णं सन्नीय विदध्यात्सूक्ष्मकूपिकाम्
- तन्मध्ये निक्षिपेत्सूतं चतुर्गुञ्जामितं भिषक् १२
- ततस्तु गुटिकां कुर्याद्यथा न दृश्यते बहिः
- सूक्ष्मचूर्णे लवङ्गस्य तां वटीमवधूलयेत् १३
- दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत्
- ताम्बूलं भक्षयेत्पश्चाच्छाकाम्ललवणांस्त्यजेत्
- श्रममातपमध्वानं विशेषात्स्त्रीनिषेवणम् १४
- पारदष्टङ्कमानः स्यात्खदिरष्टङ्कसंमितः
- आकारकरभश्चापि ग्राह्यष्टङ्कद्वयोन्मितः १५
- टङ्कत्रयोन्मितं क्षौद्रं खल्वे सर्वं विनिक्षिपेत्
- संमर्द्य तस्य सर्वस्य कुर्यात्सप्तवटीर्भिषक् १६
- स रोगी भक्षयेत्प्रातरेकैकामम्बुना वटीम्
- वर्जयेदम्ललवणं फिरङ्गस्तस्य नश्यति १७
- पारदः कर्षमात्रः स्यात्तावानेव हि गन्धकः
- तण्डुलाश्चाक्षमात्राः स्युरेषां कुर्वीत कज्जलीम् १८
- तस्याःसप्त वटीः कुर्यात्ताभिर्धूमं प्रयोजयेत्
- दिनानि सप्त तेन स्यात्फिरङ्गान्तो न संशयः १९
- पीतपुष्पबलापत्ररसैष्टङ्कमितं रसम्
- हस्ताभ्यां मर्दयेत्तावद्यावत्सूतो न दृश्यते २०
- ततः संस्वेदयेद्धस्तावेवं वासरसप्तकम्
- त्यजेल्लवणमम्लञ्च फिरङ्गस्तस्य नश्यति २१
- चूर्णयेन्निम्बपत्राणि पथ्या निम्बाष्टमांशिका
- धात्री च तावती रात्रिर्निम्बषोडशभागिका २२
- शाणमानमिदं चूर्णमश्नीयादम्भसा सह
- फिरङ्गं नाशयत्येव बाह्यमाभ्यन्तरं तथा २३
- चोपचीनीभवं चूर्णं शाणमानं समाक्षिकम्
- फिरङ्गव्याधिनाशाय भक्षयेल्लंवणं त्यजेत् २४
- लवणं यदि वा त्यक्तुं न शक्नोति यदा जनः
- सैन्धवं स हि भुञ्जीत मधुरं परमं हितम् २५
- पारदः कर्षमात्रः स्यात्तावन्मात्रं तु गन्धकम्
- तावन्मात्रस्तु खदिरस्तेषां कुर्यात्तु कज्जलीम् २६
- रजनी केशरं त्रुट्यौ जीरयुग्मं यवानिका
- चन्दनद्वितयं कृष्णा वांशी मांसी च पत्रकम् २७
- अर्द्धकर्षमितं सर्वं चूर्णयित्वा च निक्षिपेत्
- तत्सर्वं मधुसर्पिर्भ्यां द्विपलाभ्यां पृथक्पृथक् २८
- मर्दयेदथ तत्खादेदर्द्धकर्षमितं नरः
- व्रणः फिरङ्गरोगोत्थस्तस्यावश्यं विनश्यति २९
- अन्योऽपि चिरजातोऽपि प्रशाम्यति महाव्रणः
- एतद्भक्षयतः शोथो मुखस्यान्तर्न जायते ३०
- वर्जयेदत्र लवणमेकविंशतिवासरान् ३१
- इत्येकोनषष्टितमः फिरङ्गरोगाधिकारः समाप्तः ५९
- अथ षष्टितमो मसूरिकाशीतलाऽधिकारः ६०
- कट्वम्ललवणक्षार विरुद्धाध्यशनाशनैः
- दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः १
- क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः
- जनयन्ति शरीरेऽस्मिन्दुष्टरक्तेन सङ्गताः
- मसूराकृतिसंस्थानाः पिडकास्ता मसूरिकाः २
- तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः
- त्वचि शोथः सवैवर्ण्यो नेत्ररागस्तथैव च ३
- स्फोटाः कृष्णारुणा रुक्षास्तीव्रवेदनयान्विताः
- कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः ४
- सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरतिर्भ्रमः
- शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता ५
- रक्ताः पीताः सिताः स्फोटाः सदाहस्तीव्रवेदनाः
- भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः ६
- विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा ७
- मुखपाकोऽक्षिपाकश्च ज्वरस्तीव्रः सुदारुणः
- रक्तजासु भवन्त्येते विकाराः पित्तलक्षणाः ८
- कफप्रसेकः स्तैमित्यं शिरोरुग्गात्रगौरवम्
- हृल्लासः सारुचिर्निद्रा तन्द्रा ऽलस्यसमन्विता ९
- श्वेताः स्निग्धा भृशं स्थूलाः कण्डूरा मन्दवेदनाः
- मसूरिकाः कफोद्भूताश्चिरपाकाः प्रकीर्त्तिताः १०
- नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः
- पूतिस्रावाश्चिरात्पाकाः प्रभूताः सर्वदोषजाः ११
- अथ सप्तधातुगतमसूरिकाणां पृथक् पृथक् लक्षणानि
- मसूरिकास्त्वचं प्राप्तास्तोयबुद्बुदसन्निभाः
- स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च १२
- रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः
- साध्या नात्यर्थदुष्टास्तु भिन्ना रक्तं स्रवन्ति च १३
- मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः
- गात्रशूलतृषाकण्डूज्वरारतिसमन्विताः १४
- मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः
- घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः
- सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् १५
- क्षुद्रा गात्रसमा रुक्षाश्चिपिटाः किञ्चिदुन्नताः
- मज्जोत्था भृशसम्मोहा वेदनाऽरतिसंयुताः १६
- भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः
- छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति च १७
- पक्वाभाः पिडकाः स्निग्धाः श्लक्ष्णाश्चात्यर्थवेदनाः
- स्तैमित्यारतिसंमोहदाहोन्मादसमन्विताः १८
- शुक्रजायां मसूर्यान्तु लक्षणानि भवन्ति हि
- निर्दिष्टं केवलं चिह्नं जीवनं न तु दृश्यते १९
- दोषमिश्रास्तु सप्तैता द्र ष्टव्या दोषलक्षणैः २०
- कण्ठरोधारुचिस्तम्भ प्रलापारतिसंयुताः
- दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसंज्ञिताः २१
- रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः
- कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः २२
- त्वग्गता रक्तगाश्चैव पित्तजाः श्लेष्मजास्तथा
- श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः
- एता विनाऽपि क्रियया प्रशाम्यन्ति शरीरिणाम् २३
- वातजा वातपित्तोत्था वातश्लेष्मकृताश्च याः
- कष्टसाध्यतमास्तस्माद् यत्नादेता उपाचरेत् २४
- असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम्
- प्रवालसदृशाः काश्चित्काश्चिज्जम्बूफलोपमाः २५
- लोहजालसमाः काश्चिदतसीफलसन्निभाः
- आसां बहुविधा वर्णा जायन्ते दोषभेदतः २६
- कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः
- प्रलापारतिमूर्च्छाश्च तृष्णा दाहोऽतिघूर्णता २७
- मुखेन प्रस्रवेद्र क्तं तथा घ्राणेन चक्षुषा
- कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थदारुणम् २८
- मसूरिकाऽभिभूतस्य यस्य तानि भिषग्वरैः
- लक्षणानीह दृश्यन्ते न देयं तस्य भेषजम् २९
- मसूरिकाऽभिभूतो यो भृशं घ्राणेन निःश्वसेत्
- स भृशंत्यजति प्राणांस्तृष्णावान्वायुदूषितः ३०
- मसूरिकिऽन्ते शोथः स्यात्कूर्परे मणिबन्धके
- तथांऽसफलके वाऽपि दुश्चिकित्स्यः सुदारुणः ३१
- काश्चिद्विनाऽपि यत्नेन सिध्यन्त्याशु मसूरिकाः ३२
- दृष्टाः कृच्छ्रतराः काश्चित्काश्चित्सिध्यन्ति वा न वा
- काश्चिन्नैव तु सिध्यन्ति साध्यपाकाः प्रयत्नतः ३३
- मसूरिकायां कुष्ठेषु लेपनादिक्रियाहिता
- पित्तश्लेष्मविसर्पोक्ता क्रिया चात्र प्रशस्यते ३४
- श्वेतचन्दनकल्कोत्थं हिलमोचीभवं द्र वम्
- पिबेन्मसूरिकाऽरम्भे नैव वा केवलं रसम् ३५
- द्वौ पञ्चमूल्यौ रास्ना च धात्र्! युशीरं दुरालभा
- सामृता धान्यकं मुस्तं जयेद्वातमसूरिकाम् ३६
- मञ्जिष्ठाबहुपात्प्लक्ष शिरीषोदुम्बरत्वचः
- वातजायां मसूर्यां स्यात्प्रलेपः सर्वतो हितः ३७
- गुडूची मधुकं द्रा क्षा मोरटं दाडिमैः सह
- पाककाले प्रदातव्यं भेषजं गुडसंयुतम्
- तेन कुप्यति नो वायुः पाकं यान्ति मसूरिकाः ३८
- मसूरिकासु भुञ्जीत शालीन्मुद्गमसूरकान् ३९
- रसं मधुरमेवाद्यात्सैन्धवं चाल्पमात्रकम्
- पटोलमूलं क्वथितं मोरटस्वरसं तथा
- आदावेव मसूर्यां तु पित्तजायां प्रयोजयेत् ४०
- निम्बः पर्पटकः पाठा पटोलश्चन्दनद्वयम् ४१
- उशीरं कटुका धात्री तथा वासा दुरालभा
- एषां पानं शृतं शीतमुत्तमं शर्कराऽन्वितम् ४२
- मसूर्यां पित्तजायान्तु प्रयोक्तव्यं विजानता
- दाहे ज्वरे विसर्पे च व्रणे पित्ताधिकेऽपि च ४३
- मसूर्यो रक्तजा नाशं यान्ति शोणितमोक्षणैः
- वासामुस्तकभूनिम्बत्रिफलेन्द्र यवासकम् ४४
- पटोलारिष्टकं चापि क्वाथयित्वा समाक्षिकम्
- पिबेत्तेन प्रशाम्यन्ति मसूर्यः कफसम्भवाः ४५
- शिरीषोदुम्बरत्वग्भ्यां खदिरारिष्टजैर्दलैः
- कफोत्थासु मसूरीषु लेपः पित्तोत्थितासु च ४६
- निम्बः पर्पटकः पाठा पटोलः कटुरोहिणी
- चन्दने द्वे उशीरञ्च धात्री वासा दुरालभा ४७
- एष निम्बादिकः क्वाथः पीतः शर्करयाऽन्वितः
- मसूरीं सर्वजां हन्ति विसर्पज्वरसंयुताम् ४८
- उत्थिता प्रविशेद्या च तां पुनर्बाह्यतो नयेत्
- काञ्चनारत्वचः क्वाथस्ताप्यचूर्णावचूर्णितः ४९
- धात्रीफलं समधुकं क्वथितं मधुसंयुतम्
- मुखे कण्ठे व्रणे जाते गण्डूषार्थं प्रशस्यते
- अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ५०
- मधुकं त्रिफला मूर्वा दार्वीत्वङ्नीलमुत्पलम्
- उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्च्योतने हिताः ५१
- नश्यन्त्यनेन दृग्जाता मसूर्यो न भवन्ति च
- प्रलेपं चक्षुषोर्दद्याद् बहुवारस्य वल्कलैः ५२
- पञ्चवल्कलचूर्णेन क्लेदिनीमवधूलयेत्
- भस्मनाकेचिदिच्छन्ति केचिद्गोमयरेणुना ५३
- सुषवीपत्रनिर्यासं हरिद्रा चूर्णसंयुतम्
- रोमान्तीज्वरवीसर्पव्रणानां शान्तये पिबेत् ५४
- इति मसूरिकाधिकारः समाप्तः
- अथ मसूरिकाभेदशीतलाऽधिकारः
- देव्या शीतलयाऽक्रान्ता मसूर्येव ही शीतला
- ज्वरयेच्च यथा भूताधिष्ठितो विषमज्वरः ५५
- सा च सप्तविधा ख्याता तासां भेदान्प्रचक्ष्महे
- ज्वरपूर्वा बृहत्स्फोटैः शीतला बृहती भवेत् ५६
- सप्ताहान्निःसरत्येव सप्ताहात्पूर्णतां व्रजेत्
- ततस्तृतीये सप्ताहे शुष्यति स्खलति स्वयम् ५७
- तासां मध्ये यदा काचित्पाकं गत्वा स्फुटेत्स्रवेत्
- तत्रावधूलनं कुर्याद्वनगोमयभस्मना ५८
- निम्बसत्पत्र शाखाभिर्मक्षिकामपसारयेत्
- जलञ्च शीतलं दद्याज्ज्वरेऽपि न तु तत्पचेत् ५९
- स्थापयेत्तं स्थले पूते रम्ये रहसि शीतले
- नाशुचिः संस्पृशेत्तन्तु नच तस्यान्तिकंव्रजेत् ६०
- बहवो भिषजो नात्र भेषजं योजयन्ति हि
- केचित्प्रयोजयन्त्येव मतं तेषामथ ब्रुवे ६१
- ये शीतलेन सलिलेन विपिष्य सम्यङ् निम्बाक्षबीजसहितां रजनीं पिबन्ति
- तेषां भवन्ति न कदाचिदपीह देहे पीडाकराजगति शीतलिकाविकाराः ६२
- मोचारसेन सहितं सितचन्दनेन वासारसेन मधुकं मधुकेन चाथ
- आदौ पिबन्ति सुमनास्वरसेन मिश्रं ते नाप्नुवन्ति भुवि शीतलिकाविकारान् ६३
- शीतलासु क्रिया कार्या शीतला रक्षया सह
- बध्नीयान्निम्बपत्राणि परितो भवनान्तरे ६४
- कदाचिदपि नो कार्यमुच्छिष्टस्य प्रवेशनम् ६५
- स्फोटेष्वपि सदाहेषु रक्षारेणूत्करो हितः
- तेन ते शोषमायान्ति प्रपाकं न भजन्ति च ६६
- चन्दनं वासको मुस्तं गुडूची द्रा क्षया सह
- एषां शीतकषायस्तु शीतलाज्वरनाशनः ६७
- जपहोमोपहारैश्च दानस्वस्त्ययनार्चनैः
- विप्रगोशम्भुगौरीणां पूजनैस्ताः शमं नयेत्
- स्तोत्रञ्च शीतलादेव्याः पठेच्छीतलिकाऽन्तिके
- ब्राह्मणः श्रद्धया युक्तस्तेन शाम्यन्ति शीतलाः ६८
- अस्य श्रीशीतलास्तोत्रस्य महादेवॠषिरनुष्टुपछन्दः
- शीतला देवता शीतलोपद्र व शान्त्यर्थं जपे विनियोगः ६९
- स्कन्द उवाच
- भगवन्देवदेवेश शीतलायाः स्तवं शुभम्
- वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ७०
- ईश्वर उवाच
- वन्देऽह शीतलां देवीं रासभस्थां दिगम्बराम्
- यामासाद्य निवर्त्तेत विस्फोटकभयं महत् ७१
- शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः
- विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ७२
- यस्त्वामुदकमध्ये तु ध्यात्वासम्पूजयेन्नरः
- विस्फोटकभयं घोरं कुले तस्य न जायते ७३
- शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च
- प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवितौषधम् ७४
- नमामि शीतलां देवीं रासभस्थां दिगम्बराम्
- मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ७५
- शीतले तनुजान्रोगान्नृणां हरसि दुस्तरान्
- विस्फोटकविशीर्णानां त्वमेकाऽमृतवर्षिणी ७६
- गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम्
- त्वदनुध्यानमात्रेण शीतले यान्ति ते क्षयम् ७७
- न मन्त्रो नौषधं किञ्चित्पापरोगस्य विद्यते
- त्वमेका शीतले धात्री नान्यां पश्यामि देवताम् ७८
- मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम्
- यस्त्वां सञ्चिन्तयेद्देवि तस्य मृत्युर्न जायते ७९
- अष्टकं शीतलादेव्या यःपठेन्मानवः सदा
- विस्फोटकभयं घोरं कुले तस्य न जायते ८०
- श्रोतव्यं पठिव्यञ्च नरैर्भक्तिसमन्वितैः
- उपसर्गविनाशाय परं स्वस्त्ययनं महत् ८१
- शीतलाऽष्टकमेतद्धि न देयं यस्य कस्यचित्
- किन्तु तस्मै प्रदातव्यं भक्तिश्रद्धाऽन्वितो हि यः ८२
- इति श्रीकाशीखण्डे शीतलाष्टकस्तोत्रं सम्पूर्णम्
- अथ शीतलाया भेदाः
- वातश्लेष्मसमुद्भूता कोद्र वा कोद्र वाकृतिः
- तां कश्चित्प्राह पक्वेति सातु पाकं न गच्छति ८३
- जलशूकवदङ्गानि सा विध्यति विशेषतः
- सप्ताहाद्वादशाहाद्वा शान्तिं याति विनौषधम् ८४
- यदि वा भेषजं दद्यात्खदिराष्टकनिर्मितम्
- कषायं हि तदा दद्यात्कोद्र वायाः प्रशान्तये ८५
- ऊष्मणा तूष्मजारूपा सकण्डूः स्पर्शनप्रिया
- नाम्ना पाणिसहा ख्याता सप्ताहाच्छुष्यति स्वयम् ८६
- चतुर्थी सर्षपाकारा पीतसर्षपवर्णिनी
- नाम्ना सर्षपिका ज्ञेयाऽभ्यङ्गमत्र विवर्जयेत् ८७
- किञ्चिदूष्मनिमित्तेन जायते राजिकाऽकृतिः
- एषा भवति बालानां सुखं शुष्यति च स्वयम् ८८
- कोठवज्जायते षष्ठी लोहितोन्नतमण्डला
- ज्वरपूर्वा व्यथायुक्ता ज्वरस्तिष्ठेद्दिनत्रयम्
- स्फोटानां मेलनादेषा बहुस्फोटाऽपि दृश्यते ८९
- एकस्फोटा च कृष्णा च बोद्धव्या चर्मजाऽभिधा ९०
- एताः सप्तापि बोद्धव्याः शीतलादेब्यधिष्ठिताः
- शीतलोचितमाचारमासु सर्वासु वा चरेत् ९१
- काश्चिद्विनाऽपि यत्नेन सुखं सिद्ध्य्न्ति शीतलाः
- दृष्टाः कष्टतराः काश्चित्काश्चित्सिध्यन्ति वा न वा
- काश्चिन्नैव तु सिद्ध्य्न्ति यत्नतोऽपि चिकित्सिताः ९२
- इति षष्टितमः शीतलामसूरिकाऽधिकारः समाप्तः ६०
- अथैकषष्टितमः क्षुद्र रोगाधिकारः ६१
- क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः
- पित्तञ्च केशान्पचति पलितं तेन जायते १
- लोहचूर्णस्य कर्षं तु दशार्द्धं चूतमज्जतः
- धात्रीपलद्वयं पथ्ये द्वे तथैकं बिभीतकम् २
- पिष्ट्वा लोहमये भाण्डे स्थापयेन्निशि वासयेत्
- लेपोऽयमचिराद्धन्ति पलितं नात्र संशयः ३
- काश्मर्या मूलमादौ सहचरकुसुमं केतकस्यापि मूलं
- लौहं चूर्ण सभृङ्गं त्रिफलपलयुतं तैलमेभिः पचेद्यः
- कृत्वा लौहस्य भाण्डे क्षितितलनिहितं स्थापयेन्मासमेकं
- केशाः काशप्रकाशा अपि मधुपनिभा अस्य योगाद्भवन्ति ४
- त्रिफला नीलिकापत्रं भृङ्गराजोऽयसो रजः
- अविमूत्रेण संपिष्टं लेपात्कृष्णीकरं परम् ५
- रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्
- प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ६
- रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः
- तदिन्द्र लुप्तं खालित्यं रुह्येति च विभावयेत् ७
- तिक्तपटोलीपत्रस्वरसैर्घृष्ट्वा शमं याति
- चिरकालजाऽपि रुह्या नियतं दिवसत्रयेणापि ८
- गोक्षुरस्तिलपुष्पाणि तुल्ये च मधुसर्पिषी
- शिरः प्रलेपितं तेन केशैः समुपचीयते ९
- हस्तिदन्तमसीं कृत्वा छागीदुग्धं रसाञ्जनम्
- लोमान्येतेन जायन्ते लेपात्पाणितलेष्वपि १०
- यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः
- इन्द्र लुप्तं शमं याति केशाः स्युश्च घना दृढाः ११
- जातीकरञ्जवरुण करवीराग्निपाचितम्
- तैलमभ्यञ्जनाद्धन्यादिन्द्र लुप्तं न संशयः १२
- स्नुहीपयः पयोऽकस्य लाङ्गली मार्कवो विषम्
- अजामूत्रं सगोमूत्रं रक्तिका सेन्द्र वारुणी १३
- सिद्धार्थकस्तीक्ष्णगन्धा सम्यगेभिर्विपाचितम्
- तैलं भवति नियमात्खालित्यव्याधिनाशनम् १४
- दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते
- मारुतश्लेष्मकोपेन विद्याद्दारुणकन्तु तत् १५
- कार्यो दारुणके मूर्ध्नि प्रलेपोमधुसंयुतः
- प्रियालबीजमधुककुष्ठमाषैः ससैन्धवैः १६
- आम्रबीजं तथा पथ्या द्वयं स्यान्मात्रया समम्
- दुग्धेन पिष्टं तल्लेपो दारुणं हन्ति दारुणम्
- दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं हरेत् १७
- गुञ्जाफलैः शृतं तैलम्भृङ्गराजरसेन च
- कण्डूदारुणहृत्कुष्ठकापालव्याधिनाशनम् १८
- अरुंषि बहुवक्त्राणि बहुक्लेदीनि मूर्द्धनि
- कफासृक्कृमिकोपेन तानि विद्यादरुंषिकाम् १९
- नीलोत्पलस्य किञ्जल्को धात्रीफलसमन्वितः
- यष्टीमधुकयुक्तश्च लेपाद्धन्यादरूषिकाम् २०
- त्रिफलाऽयोरजोयष्टीमार्कवोत्पलसारिवाः
- सैन्धवं पक्वमेतैस्तु तैलं हन्यादरुंषिकाम् २१
- पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्
- सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् २२
- पैत्तिकस्य विसर्पस्य याचिकित्सा प्रकीर्त्तिता
- तयैव भिषगेताञ्च चिकित्सेदिरिवेल्लकाम् २३
- कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम्
- स्थिरां पनसिकां तान्तु विद्याद्वातकफोत्थिताम् २४
- भिषक् पनसिकां पूर्वं स्वेदयेदथ लेपयेत् २५
- कल्कैर्मनः शिलाकुष्ठनिशातालकदारुभिः
- पक्वां विज्ञाय तां भित्त्वा व्रणवत्समुपाचरेत् २६
- वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः
- स्थिरो मन्दरुजः स्निग्धः ज्ञेयः पाषाणगर्दभः २७
- पाषाणगर्दभं पूर्वं स्वेदयेत्कुशलो भिषक्
- ततः पनसिकाप्रोक्तैः कल्कैरुष्णैः प्रलेपयेत् २८
- गतश्लैष्मिकशोथघ्नैः कल्कैरन्यैश्च लेपयेत्
- परिपाकगतं भित्वा व्रणवत्तमुपाचरेत् २९
- जलौकोभिर्हृते रक्ते स शाम्यति विनौषधम्
- एतत्स्थलेषु बहुषु प्रेक्षितं लिखितं ततः ३०
- शाल्मलीकण्टकप्रख्याः कफमारुतरक्तजाः
- जायन्ते पिडका यूनां ज्ञेयास्ता मुखदूषिकाः ३१
- अथ मुखदूषिकाचिकित्सा
- अङ्गुलस्य चतुर्थांशो मुखलेपो विधीयते
- मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत् ३२
- स्थितिकालोऽपि तस्योक्तो यावत्कल्को न शुष्यति
- शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् ३३
- लोध्रधान्यवचालेपस्तारुण्यपिडकाऽपहः
- तद्वद्ग्रोरोचनायुक्तं मरिचं मुखलेपितम् ३४
- सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम्
- वमनञ्च निहन्त्याशु पिडकां यौवनोद्भवाम् ३५
- केवलाः पयसा पिष्टास्तीक्ष्णाः शाल्मलिकण्टकाः
- आलिप्तं त्र्! यहमेतेन भवेत्पद्मोपमं मुखम् ३६
- क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः
- मुखमागत्य सहसा मण्डलं प्रसृजत्यतः
- नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ३७
- कृष्णमेवङ्गुणं वक्त्रे गात्रे वा नीलिकां विदुः ३८
- शिरोवेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत्
- व्यङ्गं च नीलिकां वाऽपि न्यच्छञ्च तिलकालकम् ३९
- वटङ्कुरा मसूराश्च प्रलेपाद्व्यङ्गनाशनम्
- व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ४०
- अथवा लेपनं शस्तं शशस्य रुधिरेण च
- व्यङ्गहृद्वरुणत्वक्स्यादजामूत्रेण पेषिता ४१
- जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम्
- अर्कक्षीरहरिद्रा भ्यां मर्दयित्वा प्रलेपनात्
- मुखकार्ष्ण्यं शमं याति चिरकालोद्भवं ध्रुवम् ४२
- मसूरैः क्षीरसम्पिष्टैर्लिप्तमास्यं घृतान्वितैः
- सप्तरात्राद्भवेत्सत्यं पुण्डरीकदलोपमम्
- वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् ४४
- कुष्ठं कालीयकं लोध्रमेभिर्लैपं प्रयोजयेत्
- युवानपिडकानां तु व्यङ्गानां तु विनाशनम्
- स्यादेतेन मुखञ्चापि वर्जितं नीलिकादिभिः ४५
- कुङ्कुमं चन्दनं लोघ्रं पतङ्गं रक्तचन्दनम्
- कालीयकमुशीरञ्च मञ्जिष्ठा मधुयष्टिका ४६
- पत्रकं पद्मकं पद्मं कुष्ठं गोरोचना निशा
- लाक्षा दारुहरिद्रा च गैरिकं नागकेशरम् ४७
- पलाशकुसुमञ्चापि प्रियङ्गुश्च वटाङ्कुराः
- मालती च मधूच्छिष्टं सर्षपः सुरभिर्वचा ४८
- चतुर्गुणपयः पिष्टैरेतैरक्षमितैः पृथक्
- पचेन्मन्दाग्नि वैद्यस्तैलं प्रस्थद्वयोन्मितम् ४९
- वदनाभ्यञ्जनादेतद्व्यङ्गं नीलिकया सह
- तिलकं माषकं न्यच्छं नाशयेन्मुखमदूषिकाम् ५०
- पद्मिनीकण्टकञ्चापि हरेज्जतुमणिं तथा
- विदध्याद्वदनं पूर्णचन्द्र मण्डलसुन्दरम् ५१
- ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः
- ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैवगतः प्रवृद्धिम् ५२
- मुखैरनेकैः स्रुतितोदवद्भिर्विसर्पवत्सर्पति चोन्नताग्रैः
- वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ५३
- पाणिपादोपरिष्टात्तु च्छिद्रै र्बहुभिरावृतम्
- वल्मीकं यत्सशोफं स्याद्वर्ज्यं तद्धि विजानता ५४
- शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत्
- विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् ५५
- वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम्
- तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् ५६
- कुलत्थकानां मूलैश्च गुडूच्या लवणेन च
- आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च ५७
- श्यामामूलैःसपललैः सक्तुमिश्रैः प्रलेपयेत्
- सुस्निग्धैश्च सुखोष्णैश्च भिषक्तमुपनाहयेत् ५८
- पक्वं तदा विजानीयाद्गतीः सर्वायथाक्रमम्
- अभिज्ञाय गतिं छित्वा प्रदिह्यान्मतिमान्भिषक् ५९
- संशोध्यदुष्टमांसानि क्षारेण प्रतिसारयेत्
- व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान्भिषक् ६०
- मनः शिलालभल्लातसूक्ष्मैलाऽगुरुचन्दनैः
- जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत् ६१
- वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम् ६२
- बाहुकक्षांऽसपार्श्वेषु कृष्णस्फोटां सवेदनाम्
- पित्तप्रकोपसम्भूतां कक्षां तामिति निर्दिशेत् ६३
- एकान्तु तादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम्
- त्वग्जातां पित्तकोपेन गन्धनिआ!म्नींइ! मालां प्रचक्षते ६४
- कक्षाञ्च गन्धनिआ!म्नीइ! मालाञ्च चिकित्सेच्च चिकित्सकः
- पैत्तिकस्य विसर्पस्य क्रियया पूर्वमुक्तया ६५
- कक्षाभागेषु विस्फोटा जायन्ते मांसदारणाः
- अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ६६
- सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्
- तामग्निरोहिणीं विद्यादसाध्यां सान्निपातिकीम् ६७
- पित्तवीसर्पविधिना साधयेदग्निरोहिणीम्
- रोहिण्यां लङ्घनं कुर्याद्र क्तमोक्षणरूक्षणम्
- शरीरस्य च संशुद्धिं तान्तु वृद्धां परित्यजेत् ६८
- विदारीकन्दवद् वृत्तां कक्षावङ्क्षणसन्धिषु
- रक्तां विदारिकां विद्यात्सर्वजां सर्वलक्षणाम् ६९
- विदारिकायां प्रथमं जलौकायोजनं हितम्
- पाटनञ्च विपक्वायां ततो व्रणविधिः स्मृतः ७०
- नखमांसमधिष्ठाय वातःपित्तञ्च देहिनाम्
- करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ७१
- अभिघातात्प्रदुष्टो यो नखो रूक्षःसितः खरः
- भवेत्तं कुनखं विद्यात्कुलीरं वाभिधानतः ७२
- चिप्पं रुधिरमोक्षेण शोधनेनाप्युपाचरेत्
- गतोष्माणमथैनन्तु सेचयेदुष्णवारिणा ७३
- शस्त्रेणापि यथायोग्यमुच्छिद्य स्रावयेत्ततः
- व्रणोक्तेन विधानेन रोपयेत्तं विचक्षणः ७४
- स्वरसेन हरिद्रा याः पात्रे कृत्वायसेऽभयाम्
- घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः ७५
- काश्मर्याः सप्तभिः पत्रैः कोमलैः परिवेष्टितः
- अङ्गुलीवेष्टकः पुंसां ध्रुवमाशु प्रशाम्यति ७६
- श्लेष्मविद्र धिकल्पेन कुनखं समुपाचरेत् ७७
- नखकोटिप्रविष्टेन टङ्कणेन न शाम्यति
- कुनखश्चेत्तदा शैलः सलिले प्लवतेऽपि च ७८
- मर्दनात्पीडनाद्वापि तथैवाप्यभिघाततः
- मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन् ७९
- तदा वातोपसृष्टन्तु तच्चर्म परिवर्त्तते
- सवेदनं सदाहं च पाकञ्च व्रजति क्वचित् ८०
- मणेरधस्तात्कोषस्तु ग्रन्थिरूपेण लम्बते
- सरुजां वातसम्भूतां विद्यात्तां परिवर्त्तिकाम्
- सकण्डूः कठिना चापि सैव श्लेष्मसमन्विता ८१
- परिवर्त्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत्
- त्रिरात्रं पञ्चरात्रञ्च वातघ्नैः शाल्वणादिभिः ८२
- ततोऽभ्यज्य शनैश्चर्म पाटयेत्पीडयेन्मणिम्
- प्रविष्टे चर्मणि मणौ स्वेदयेदुपनाहनैः ८३
- दद्याद्वातहरान्वस्तीन् स्निग्धान्यन्नानि भोजयेत् ८४
- अल्पीयःखां यदा हर्षाद् बलाद्गच्छेत्स्त्रियं नरः
- हस्ताभिघातादथवा चर्मण्युद्वर्त्तिते बलात् ८५
- मर्दनात्पीडनाद्वापि शुक्रवेगाभिघाततः
- यस्यावपाट्यते चर्म तं विद्यादवपाटिकाम् ८६
- वातेन कर्कशा रूक्षा सूक्ष्मा कृष्णा रुगन्विता
- पित्तेन पीता रक्ता वा दाहतृष्णासमन्विता
- श्लेष्मणा कठिना स्निग्धा कण्डूमत्स्वल्पवेदना ८७
- स्नेहस्वेदैरिमां वैद्यश्चिकित्सेदवपाटिकाम् ८८
- वातोपसृष्टे मेढ्रे तु चर्म संश्रयते मणिम्
- मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च
- निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम्
- मूत्रं प्रवर्त्तते जन्तोर्मणिर्विव्रियते न च ९०
- निरुद्धप्रकशं विद्यात्सरुजं वातसम्भवम् ९१
- निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम्
- दारवीं जतुकृतां वा घृताक्तां सम्प्रवेशयेत् ९२
- परिषिञ्चेद्वसां मज्जां शिशुमारवराहयोः
- चक्रतैलं तथा योज्यं वातघ्नद्र व्यसंयुतम् ९३
- त्र्! यहात्स्थूलतरां सम्यङ् नाडीं मार्गे प्रवेशयेत्
- स्रोतो विवर्द्धयेदेवं स्निग्धमन्नञ्च भोजयेत्
- भित्वा वा सेवनीं मुक्त्वा सद्यः क्षतवदाचरेत् ९४
- वेगसन्धारणाद्वायुर्विहतो गुदसंश्रितः
- निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ९५
- मार्गस्य सौक्ष्म्यात्कृच्छ्रेण पुरीषं तस्य गच्छति
- सन्निरुद्ध गुदं व्याधिमेतं विद्यात्सुदुस्तरम् ९६
- सन्निरुद्धगुदे तैलैः सेको वातहरैर्हितः
- तथा निरुद्धप्रकशक्रियाऽपि कथिताऽथवा ९७
- स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः
- प्रक्लिद्यते यदा स्वेदात्कण्डूं जनयते तदा ९८
- ततः कण्डूयनात्क्षिप्रं स्फोटः स्रावश्च जायते
- प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ९९
- सर्जाह्वकुष्ठसैन्धवसितसिद्धार्थैः प्रकल्पितो योगः
- उद्वर्त्तनेन नियतं शमयति वृषणस्य कण्डूतिम् १००
- भिषग्वृषणकच्छूं तु चिकित्सेत्पामरोगवत्
- अहिपूतननिर्दिष्टक्रिययाऽपि च तां हरेत् १०१
- शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
- स्विन्ने वाऽस्नाप्यमानस्य कण्डू रक्तकफोद्भवा १०२
- कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते
- एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् १०३
- तत्र संशोधनैः पूर्वं धात्रीस्तन्यं विशोधयेत्
- त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितम्
- शङ्खसौवीरयष्ट्याह्वैर्लेपः कार्योऽहिपूतने १०४
- प्रवाहिकाऽतिसाराभ्यां निर्गच्छति गुदं बहिः
- रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत् १०५
- गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत्
- प्रविष्टं रोधयेद्यत्नाद्गव्यसच्छिद्र चर्मणा १०६
- पद्मिन्याः कोमलं पत्रं यः खादेच्छर्कराऽन्वितम्
- एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः १०७
- मूषकाणां वसाभिर्वा गुदभ्रंशे प्रलेपनम्
- सुस्विन्नं मूषिकामांसेनाथवा स्वेदयेद् गुदम् १०८
- वृक्षाम्लानलचङ्गेरीबिल्वपाठायवाग्रजम्
- तक्रेण शीलयेत् पायुभ्रंशार्त्तोऽनलदीपनम् १०९
- मूषका दशमूलानि गृह्णीयादुभयं समम्
- तयोः क्वाथेन कल्केन पचेत्तैलं यथोदितम् ११०
- अभ्यङ्गात्तस्य तैलस्य गुदभ्रंशो विनश्यति
- विनश्यति तथाऽनेन गुदशूलं भगन्दरम् १११
- सदाहो रक्तपर्यन्तस्त्वपाकी तीव्रवेदनः
- कण्डूमाञ्ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ११२
- भृङ्गराजकमूलस्य रजन्या सहितस्य च
- चूर्णन्तु सहसा लेपाद्वाराहद्विजनाशनम् ११३
- राजीवमूलकल्कःपीते गव्येन सर्पिषा प्रातः
- शमयति शूकरदंष्ट्रं दंष्ट्रोद्भूतंज्वरं घोरम् ११४
- रजनी मार्कवं मूलं पिष्टं शीतेन वारिणा
- तल्लेपाद्धन्ति वीसर्पवाराहदशनाह्वयम् ११५
- गम्भीरामल्पशोथां च सवर्णामुपरिस्थिताम्
- पाकस्यानुशयीं तान्तु विद्यादन्तः प्रपाकिनीम् ११६
- हरेदनुशयीं वैद्यः क्रियया श्लेष्मविद्र धेः ११७
- क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहसमन्वितौ
- दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत् ११८
- पादौ सिक्त्वाऽरनालेन लेपनं त्वलसे हितम्
- पटोलकुनटीनिम्बरोचनामरिचैस्तिलैः ११९
- क्षुद्रा स्वरससिद्धेन कटुतैलेन लेपयेत्
- ततः कासीसकुनटीतिलचूर्णैर्विचूर्णयेत् १२०
- करञ्जबीजं रजनी कासीसं पद्मकं मधु
- रोचना हरितालञ्च लेपोऽयमलसे हितः १२१
- परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः
- पादयोः कुरुते दारीं सरुजां तलसंश्रिताम् १२२
- पाददार्यां शिरां प्राज्ञो मोचयेत्तलशोधिनीम्
- स्नेहस्वेदोपपन्नौ तु पादौ वा लेपयेन्मुहुः
- मधूच्छिष्ठवसामज्जाघृतैः क्षारविमिश्रितैः १२३
- सर्जाह्वसिन्धूद्भवयोश्चूर्णं घृतमधुप्लुतम्
- निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जने १२४
- मधुसिक्थकगैरिकवृतगुडमहिषाक्षशालनिर्यासैः
- गैरिकसहितैर्लेपः पाकस्फुटनापहः सिद्धः १२५
- उन्मत्तकस्य बीजेन मानकक्षारवारिणा
- विपक्वं कटुतैलन्तु हन्याद्दारीं न संशयः १२६
- शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
- ग्रन्थिः कोलवदुत्सन्नो जायते कदरस्तु सः १२७
- दहेत्कदरमुद्धृत्य तैलेन दहनेन वा १२८
- कृष्णानि तिलमात्राणि नीरुजानि तमानिच
- वातपित्तकफोद्रे कात्तान्विद्यात्तिलकालकान् १२९
- अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते
- माषवत्कृष्णमुत्सन्नमनिलान्मशकं दिशेत् १३०
- वित्वचस्तनवः स्फोटाः सूक्ष्माग्राः श्यावपिण्डिकाः
- भवन्ति कफपित्ताभ्यां क्षिप्रं नाशं प्रयान्ति च १३१
- सममुत्सन्नमरुजं मण्डलं कफरक्तजम्
- सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिश्च सः १३२
- कृष्णः स्निग्धो जतुमणिर्ज्ञेयः श्लेष्मोत्तरैस्त्रिभिः
- अरुजं त्वपरे रक्तं लक्ष्मेत्याहुर्भिषग्वराः १३३
- चर्मकीलं जतुमणिं मशकांस्तिकालकान्
- उत्कृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषतः १३४
- महद्वा यदि वा चाल्पं श्यावं वा यदि वाऽसितम्
- नीरुजं मण्डलं गात्रे न्यच्छं तदभिधीयते १३५
- शिरावेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत्
- न्यच्छं लिम्पेत्पयः पित्तैः कल्कैः क्षीरतरूद्भवैः १३६
- त्रिभुवनविजयापत्रं मूलं स्थविरस्य शिंशपा चैभिः
- उद्वर्त्तनं विरचितं न्यच्छव्यङ्गापहं सिद्धम् १३७
- कण्टकैराचितं वृत्तं कण्डूमत्पाण्डु मण्डलम्
- पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् १३८
- पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा
- तेनैव सिद्धं सक्षौद्रं सर्पिः पातुं प्रदापयेत् १३९
- निम्बारग्वधकल्कैर्वा मुहुरुद्वर्त्तनं हितम् १४०
- चतुर्गुणेन निम्बोत्थपत्रक्वाथेन गोघृतम्
- पचेत्ततस्तु निम्बस्य कृतमालस्य पत्रजैः १४१
- कल्कैर्भूयः पचेत्सिद्धं तत्पिबेत्पलसम्मितम्
- पद्मिनीकण्टकाद्रो गान्मुक्तो भवति नान्यथा १४२
- स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
- कफवातोत्थिता ज्ञेया बालानामजगल्लिका १४३
- तत्राजगल्लिकां सामां जलौकोभिरुपाचरेत्
- शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहुः
- कठिनां क्षारयोगेन द्रा वयेदजगल्लिकाम् १४४
- यवाकारा प्रकठिना ग्रथिता मांससंश्रया
- पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते १४५
- घनामवक्रां पिडकामुन्नतां परिमण्डलाम्
- अन्त्रालजीमल्पपूयां तां विद्यात्कफवातजाम् १४६
- अन्त्रालजीयवप्रख्ये पूर्वं स्वेदैरुपाचरेत्
- मनःशिलादेवदारुकुष्ठकल्कैः प्रलेपयेत्
- पक्वां व्रणविधानेन तथोक्तेन प्रसाधयेत् १४७
- विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम्
- विवृतामिति तां विद्यात्पित्तोत्थां परिमण्डलम् १८८
- पद्मकर्णिकवन्मध्ये पिडकां पिडकाचिताम्
- इन्द्र विद्धान्तु तां विद्याद्वातपित्तोत्थितां भिषक्
- मण्डलं वृतमुत्सन्नं सरक्तं पिडकाचितम्
- रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम्
- विसर्पवत्सर्पति यः शोथस्तनुरपाकवान्
- दाहज्वरकरः पित्तात्सज्ञेयो जालगर्दभः १५१
- विवृतामिन्द्र विद्धाञ्च गर्दभीं जालगर्दभम्
- पैत्तिकस्य विसर्पस्य क्रिययासाधयेद् भिषक्
- पाके तु रोपयेदाज्यैः पक्वैर्मधुरभेषजैः १५२
- ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपोन्नताः
- कफानिलाभ्यां पिडकाः सा स्मृता कच्छपी बुधैः १५३
- कच्छपीं स्वेदयेत्पूर्वं तत एव प्रलेपयेत् १५४
- कल्कीकृतैर्निशा कुष्टसितातालकदारुभिः
- तां पक्वां साधयेच्छीघ्रं भिषग्व्रणचिकित्सया १५५
- प्राप्य मांसशिरास्नायुमेदः श्लेष्मा तथाऽनिलः
- ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्वसानिभम् १५६
- स्रवति स्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः
- मांसं विशोष्य ग्रथितां शर्करां जनयत्यतः १५७
- दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः शिराः
- स्रवन्ति सहसा रक्तं तां विद्याच्छर्कराऽबुदम् १५८
- मेदोऽबुदविधानेन साधयेच्छर्कराऽबुदम् १५९
- शक्तस्य चाप्यनुत्साहः कर्मण्यालस्यमुच्यते
- अस्वास्थ्यं चिन्तयाऽत्यर्थमरतिः कथ्यते बुधैः १६०
- उत्क्लिश्यान्नं न निर्गच्छेत्प्रसेकः ष्ठीवनोरितम्
- हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् १६१
- वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः
- न चान्नं रोचते यस्मै ग्लानिं तस्य विनिर्दिशेत्
- ग्लानिरोजःक्षयाद् दुःखादजीर्णाच्च श्रमाद्भवेत् १६२
- उदानकोपादाहारसुस्थितत्वाच्च यद्भवेत्
- पवनस्योर्ध्वगमनं तमुद्गारं प्रचक्षते १६३
- आटोपो गुडगुडाशब्दः प्रोक्तो जठरसम्भवः
- तमःस्थस्येव यज्ज्ञानं तत्तमः कथ्यते बुधैः १६४
- इत्येक षष्टितमः क्षुद्र रोगाधिकारः समाप्तः ६१
- अथ द्विषष्टितमः शिरोरोगाधिकारः ६२
- शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः
- सन्निपातेन रक्तेन क्षयेण कृमिभिस्तथा १
- सूर्यावर्त्तानन्तवातशङ्ख कार्द्धावभेदकाः
- एकादशविधस्यास्य लक्षणानि प्रचक्षते २
- यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्
- बन्धोपतापैः प्रशमो भवेच्च शिरोऽभितापः स समीरणेन ३
- यस्योष्णमङ्गारचितं यथैव भवेच्छिरो दह्यति चाक्षिनासम्
- शीतेन रात्रौ च भवेच्छ्रमश्च शिरोऽभितापः स तु पित्तकोपात् ४
- शिरो भवेद् यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च
- शूनाक्षिनासावदनञ्च यस्य शिरोऽभितापः स कफप्रकोपात् ५
- शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति ६
- रक्तात्मकः पित्तसमावलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ७
- वसाबलासक्षतसम्भवानां शिरोगतानामतिसङ्क्षयेण
- क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम्
- संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति ८
- अङ्गं भ्रमति तुद्येत शिरो विभ्रान्तनेत्रता
- मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मके ९
- निस्तुद्यते यस्य शिरोऽतिमात्रं सम्भक्ष्यमाणं स्फुरतीव चान्तः
- घ्राणाच्च गच्छेद्रुधिरं सपूयं शिरोऽभितापः कृमिभिः स घोरः १०
- सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवौ रुक् समुपैति गाढम्
- विवर्द्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्त्तते च ११
- शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाद्वा
- सर्वात्मकं कष्टतमं विकारं सूर्यापवर्त्तं तमुदाहरन्ति १२
- दोषास्तु दुष्टास्त्रय एव मन्यां सम्पीड्य गाढं स्वरुजां सुतीव्राम्
- कुर्वन्ति योऽक्ष्णि भ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु १३
- गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजान्विकारान्
- अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् १४
- पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः
- तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् १५
- स शिरो विषवद्वेगान्निरुध्याशु गलं तथा
- त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः
- त्र्! यहं जीवति भैषज्यं प्रत्याख्यायास्य कारयेत् १६
- रूक्षाशनाद्यध्यशनप्राग्वातावश्यमैथुनैः
- वेगसन्धारणायासव्यायामैः कुपितोऽनिलः १७
- केवलः सकफो वाऽद्ध गृहीत्वा शिरसो बली
- मन्याभ्रूशङ्खकर्णाक्षिललाटार्द्धेषु वेदनाम् १८
- शस्त्राशनिनिभां कुर्यात्तीव्रां सोऽद्धावभेदकः
- नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत् १९
- वातजातशिरोरोगे स्नेहस्वेदं विघर्षणम्
- पानाहारोपनाहांश्च कुर्याद्वातामयापहान् २०
- कुष्ठमेरण्डमूलञ्च नागरं तक्रपेषितम्
- कदुष्णं शिरसः पीडां भाले लेपनतो हरेत् २१
- रसः श्वासकुठारो यस्तस्य नस्यं विशेषतः
- शिरः शूलं हरत्येव विधेयो नात्र संशयः २२
- आ शिरो व्यायतं चर्म षोडशाङ्गुलमुच्छ्रितम्
- तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत् २३
- निश्चलस्योपविष्टस्य तैलैः कोष्णैः प्रपूरयेत्
- धारयेदारुजः शान्तेर्यामंयामार्द्धमेव वा २४
- शिरोवस्तिर्हरत्येष शिरोरोगं मरुद्भवम्
- हनुमन्याऽक्षिकर्णार्त्तिमर्दितं मूर्द्धकम्पनम् २५
- विना भोजनमेवैष शिरोवस्तिः प्रयुज्यते
- दिनानि पञ्च वा सप्त रुचितोऽग्रे ततोऽपि च २६
- ततोऽपनीतस्नेहस्तु मोचयेद्वस्तिबन्धनम्
- शिरोललाटवदनं ग्रीवांऽसादीन्विमर्दयेत् २७
- सुखोष्णेनाम्भसा गात्रं प्रक्षाल्याश्नाति यद्धितम्
- आमिषं जाङ्गलं पथ्यं तत्र शाल्यादयोऽपि च २८
- मुद्गमाषान्कुलत्थांश्च खादेद्वा निशि केवलान्
- कटुकोष्णान्ससर्पिष्कानुष्णं क्षीरं पिबेत्तथा २९
- पित्तात्मके शिरोरोगे शीतानां चन्दनाम्भसा
- कुमुदोत्पलपद्मानां स्पर्शाः सेव्याश्च मारुताः ३०
- सर्पिषः शतधौतस्य शिरसा धारणं हितम्
- रसः श्वासकुठारोऽल्प कर्पूरः कुङ्कुमं नवम् ३१
- सिता छागीपयः सर्वं चन्दनेनानुघर्षयेत्
- तस्य नस्यं भिषग्दद्यात्पित्तजायां शिरोरुजि
- किन्तु मस्तकशूलेषु सर्वेष्वेवं हितं मतम् ३२
- गुडनागरकल्कस्य नस्यं मस्तकशूलनुत् ३३
- रक्तजे पित्तवत्सर्वं भोजनालेपसेचनम्
- शीतोष्णयोश्च विन्यस्य विशेषो रक्तमोक्षणम् ३४
- कफजे लङ्घनं स्वेदो रूक्षोष्णैः पावकात्मकैः
- सन्निपातभवे कार्या सन्निपातहरी क्रिया
- पुराणसर्पिषः पानं विशेषेण दिशन्ति हि ३५
- एरण्डमूलं तगरं शताह्वा जीवन्तिका रास्निकसैन्धवं च
- भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम् ३६
- अजापयस्तैलविमिश्रितञ्च चतुर्गुणं भृङ्गरसे विपक्वम्
- षड्बिन्दवो नासिकया प्रदेयाः सर्वान्निहन्युः शिरसो विकारान् ३७
- च्युतांश्च केशान्पलितांश्च दन्तान्निर्बन्धमूलान्सुदृढीकरोति
- सुपर्णगृध्रप्रतिमञ्च चक्षुः कुर्वन्ति बाह्वोरधिकं बलञ्च ३८
- क्षयजे क्षयनाशाय कर्त्तव्यो बृंहणो विधिः
- पाने नस्ये च सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम् ३९
- कृमिजे व्योषनक्ताह्वशिग्रुबीजैश्च नावनम्
- अजामूत्रयुतं नस्यं कर्त्तव्यं कृमिनुत्परम् ४०
- सूर्यावर्त्ते विधातव्यं नस्यकर्मादि भेषजम् ४१
- कुमार्याः स्वरसप्रस्थे धत्तूरस्य रसे तथा
- भृङ्गराजस्य च रसे प्रस्थद्वयसमायुते ४२
- चतुःप्रस्थमिते क्षीरे तैलप्रस्थं विपाचयेत्
- कल्कैर्मधुकह्रीबेरमञ्जिष्ठा भद्र मुस्तकैः ४३
- नखकर्पूरभृङ्गैलाजीवन्ती पद्मकुष्ठकैः
- मार्कवासकतालीस सर्जनिर्यासपत्रकैः ४४
- विडङ्गशतपुष्पाऽश्व गन्धागन्धर्वहस्तकैः
- शोथहृन्नारिकेलाभ्यां कर्षमानैर्विपाचिते ४५
- उत्तार्य वस्त्रपूतं तु शुभे भाण्डे सुधूपिते
- त्रिरात्रमथ गुप्तञ्च धारयेद्विधिवद्भिषक् ४६
- ततस्तु तैलमभ्यङ्गे मूर्ध्नि क्षेपे नियोजयेत्
- शमयेदर्दितं गाढं मन्यास्तम्भशिरोगदान् ४७
- तालुनासाऽक्षिजातन्तु शोषं मूर्च्छां हलीमकम्
- हनुग्रहगदार्त्तिं वा बाधिर्यं कर्णवेदनाम् ४८
- योजयेत्सगुडं सर्पिर्घृतपूरांश्च भक्षयेत्
- नावनं क्षीरसर्पिर्भ्यां पानञ्च क्षीरसर्पिषोः ४९
- क्षीरपिष्टैस्तिलैः स्वेदो जीवनीयैश्च शस्यते
- भृङ्गराजरसश्छागी क्षीरतुल्योऽकतापितः
- सूर्यावर्त्तं निहन्त्याशु नस्येनैव प्रयोगराट् ५०
- अर्द्धावभेदके पूर्वं स्नेहस्वेदौ हि भेषजम्
- विरेकः कायशुद्धिश्च धूपः स्निग्धोष्णभोजनम् ५१
- विडङ्गानि तिलान्कृष्णान्समान्पिष्टान्विलेपयेत्
- नस्यञ्चाप्याचरेत्तस्मादर्द्धभेदो व्यपोहति ५२
- पिबेत्सशर्करं क्षीरं नीरं वा नारिकेलजम्
- सुशीतं वाऽपि पानीयं सर्पिर्वा नस्यतस्तयोः ५३
- अनन्तवाते कर्त्तव्यः सूर्यावर्तहितो विधिः
- शिरावेधश्च कर्त्तव्योऽनन्तवातप्रशान्तये ५४
- आहारश्च प्रदातव्यो वातपित्तविनाशनः
- मधुमस्तकसंयावो घृतपूपो विशेषतः ५५
- पथ्याऽक्षधात्रीरजनीगुडूचीभूनिम्बनिम्बैःसगुडः कषायः
- भ्रूशङ्खकर्णाक्षिशिरोऽद्धशूलं निहन्ति नासानिहितः क्षणेन ५६
- दार्वीः हरिद्रा मञ्जिष्ठा सनिम्बोशीरपद्मकम्
- एतत्प्रलेपनं कुर्याच्छङ्खकस्य प्रशान्तये ५७
- शीततोयाभिषेकश्च शीतलक्षीरसेवनम्
- कल्पश्च क्षीरवृक्षाणां शङ्खके लेपनंहितम् ५८
- यष्टीमधुकमाषः स्यात्तुर्यांशं तु विषं भवेत्
- तयोश्चूर्णं सुसूक्ष्मं स्यात्तच्चूर्णं सर्षपोन्मितम् ५९
- नासिकाऽभ्यन्तरे न्यस्तं सर्वां शीर्षव्यथांहरेत्
- दृष्टप्रयोगो योगोऽयमनुभाविभिरादृतः ६०
- आद्र रं! यच्छुक्तिकाचूर्णं चूर्णितं नवसादरम्
- उभयं योजितं तस्य गन्धान्नश्यति शीर्षरुक् ६१
- इति द्विषष्टित्तमः शिरोरोगाधिकारः समाप्तः ६२
- अथ त्रिषष्टितमो नेत्ररोगाधिकारः ६३
- विद्याद्द्व्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम्
- द्व्यङ्गुलंसर्वतः सार्द्धं भिषङ् नयनमण्डलम् १
- पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु
- अनुपूर्वन्तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् २
- द्वादश व्याधयो दृष्टौ तत्रैवान्यौ गदावुभौ
- कृष्णमार्गे तु चत्वारो दशैकः शुक्लभागजाः ३
- वर्त्मन्येको विंशतिश्च पक्ष्मजौ द्वौ प्रकीर्त्तितौ
- नव सन्धिषु सर्वस्मिन्नेत्रे सप्तदशोदिताः
- एवं नेत्रे समस्ताः स्युरष्टसप्ततिरामयाः ४
- वाताद्दश तथा पित्तात्कफाच्चैव त्रयोदश ५
- रक्तात्षोडश विज्ञेयाः सर्वजाः पञ्चविशतिः
- बाह्यौ पुनर्द्वौ नयने रोगाः षट्सप्ततिः स्मृताः ६
- उष्णाभितप्तस्यजलप्रवेशाद् दूरेक्षणात्स्वप्नविपर्ययाच्च
- स्वेदाद्र जोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् ७
- शुक्तारनालाम्बुकुलत्थमाषाद्विण्मूत्रवातागमनिग्रहाच्च
- प्रसक्तसंरोदनशोकतापाच्छिरोऽभिघातादतिशीघ्रयानात् ८
- तथा ॠतूनाञ्च विपर्ययेण क्लेशाभितापादतिमैथुनाच्च
- बाष्पग्रहात्सूक्ष्मनिरीक्षणाच्च नेत्रे विकारं जनयति दोषाः ९
- शिराऽनुसारिभिर्दोषैर्विगुणैरूर्ध्वमाश्रितैः
- जायन्ते नेत्रभागेषु रोगाः परमदारुणाः १०
- मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्
- खद्योतविस्फुलिङ्गाभां सिद्धां तेजोभिरव्ययैः ११
- आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्
- शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः १२
- तेजोजलाश्रितं बाह्यं तेष्वन्यत्पिशिताश्रितम्
- मेदस्तृतीयं पटलमाश्रितं त्वस्थ्नि चापरम्
- पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते १३
- प्रथमे पटले यस्य दोषो दृष्टेर्व्यवस्थितः
- अव्यक्तानि स्वरूपाणि कदाचिदथ पश्यति १४
- दृष्टिर्भृशं विह्वलति द्वितीयं पटले गते
- मक्षिकामशकान् केशाञ्चालकानीव पश्यति १५
- मण्डलानि पताकाश्च मरीचीन्कुण्डलानि च
- परिप्लवांश्च विविधान्वर्षमभ्रं तमांसि च १६
- दूरस्थानि च रूपाणि मन्यते च समीपतः
- समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् १७
- यत्नवानपि चात्यर्थं सूचीच्छिद्रं न पश्यति १८
- ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते
- सुमहान्त्यपि रूपाणि च्छादितानीव चाम्बरैः १९
- कर्णनासाऽक्षिरूपाणि विकृतानि च पश्यति
- यथादोषञ्च रज्येत दृष्टिर्दोषे बलीयसि २०
- अधःस्थे तु समीपस्थं दूरस्थं चोपरिस्थिते
- पार्श्वस्थिते पुनर्दोषे पार्श्वस्थानि न पश्यति २१
- समन्ततः स्थिते दोषे संकुलानीव पश्यति
- दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति २२
- दोषे दृष्टिस्थिते तिर्यगेकं वा मन्यते द्विधा
- द्विधास्थिते द्विधा पश्येद्बहुधा चानवस्थिते २३
- तिमिराख्यः स यो दोषश्चतुर्थं पटलं गतः
- रुणद्धि सर्वतो दृष्टिं लिङ्गनाश इति क्वचित् २४
- अस्मिन्नपि तमोभूते नातिरूढे महागदे
- चन्द्रा दित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः २५
- निर्मलानि च तेजांसि भ्राजिष्णूनीव पश्यति
- स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः २६
- दृष्ट्याश्रयाः षट् च षडेव रोगाः षड् लिङ्गनाशा हि भवन्ति तत्र
- वातेन पित्तेन कफेन सर्वे रक्तात्परिम्लाय्यभिधश्च षष्ठः २७
- तथा नरः पित्तविदग्धदृष्टिः कफेन वाऽन्यस्त्वथ धूमदर्शी
- यो ह्रस्वजात्यो नकुलान्ध्यसंज्ञो गम्भीरसंज्ञश्च तथैव दृष्टिः २८
- वातेन खलु रूपाणि भ्रमन्तीव च पश्यति
- आविलान्यरुणाभानि व्याविद्धानीव मानवः २९
- पित्तेनादित्यखद्योत शक्रचापतडिद्गुणान्
- नृत्यतश्चैव शिखिनः सर्वं नीलञ्च पश्यति ३०
- गौरचामरगौराणि श्वेताभ्रप्रतिमानिच
- पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् ३१
- कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च
- सलिलप्लावितानीव जालकानीव मानवः ३२
- सन्निपातेन चित्राणि विप्लुतानि च पश्यति
- बहुधाऽपि द्विधा वाऽपि सर्वाण्येव समन्ततः
- हीनाधिकाङ्गान्यथ वा ज्योतींष्यपि च पश्यति ३३
- पश्ये द्र क्तेनरक्तानि तमांसि विविधानि च
- हरितान्यथ कृष्णानि पीतान्यपि च मानवः ३४
- रक्तेन मूर्च्छितं पित्तंपरिम्लायिनमाचरेत् ३५
- तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम्
- विकीर्यमाणान्खद्योतैर्वृक्षांस्तेजोभिरेव हि ३६
- वातादिजनितैर्नेत्रवर्णैरपि च षड्विधः
- लिङ्गनाशो निगदितो वर्णो वातादिजो यथा ३७
- रागोऽरुणो मारुतजः प्रदिष्टो म्लायी च नीलश्च तथैव पित्तात्
- कफात्सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः ३८
- अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा
- पित्ततो मण्डलं नीलं कांस्याभं वा सपीतकम् ३९
- श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ४०
- चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
- मृद्यमाने तु नयने मण्डलं तद्विसर्पति ४१
- मण्डलं तु भवेच्चित्रं लिङ्गनाशे त्रिदोषजे
- प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ४२
- रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम्
- परिम्लायिनि रोगे स्यान्म्लानं नीलमथापि वा
- दोषक्षयात्स्वयं तत्र कदाचित्स्यात्तु दर्शनम् ४३
- यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ४४
- पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः
- पीतानि रूपाणि च तेन पश्येत्स वै नरः पित्तविदग्धदृष्टिः ४५
- प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते सः
- रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावात्सकलानि पश्येत् ४६
- तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु
- त्रिषु स्थितोऽल्प पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
- दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफाल्पभावात् ४७
- शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः
- धूमांस्तु यःपश्यति सर्वभावात्स धूमदर्शीति नरः प्रदिष्टः ४८
- यो वासरे पश्यति कष्टतोऽथ रूपं महच्चापि निरीक्षतेऽल्पम्
- रात्रौ पुनर्यः प्रकृतानि पश्येत्स ह्रस्वजात्यो मुनिभिः प्रदिष्टः ४९
- विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्
- चित्राणि रूपाणि दिवा च पश्येत्स वै विकारो नकुलान्ध्यसंज्ञः ५०
- दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कोचमभ्यन्तरतः प्रयाति
- रुजाऽवगाढा च तमक्षिरोगे गम्भीरिकेति प्रवदन्ति धीराः ५१
- बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च
- निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैः सः ५२
- सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्करस्य
- हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः ५३
- तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः
- विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ५४
- इति दृष्टिगत रोगाः
- अथ कृष्णमण्डलजा रोगाः
- यत्सव्रणं शुक्लमथाव्रणञ्च पाकात्ययश्चाप्यजका तथैव
- चत्वार एते नयनामयास्तु कृष्णप्रदेशे नियता भवन्ति ५५
- निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै
- स्रावं स्रवेदुष्णमतीव चापि तत्सव्रणं शुक्लमुदाहरन्ति ५६
- दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्यत्
- अवेदनं यन्न च युग्मशुक्लं तत्सिद्धिमायाति कदाचिदेव ५७
- स्यन्दात्मकं कृष्णगतन्तु शुक्लं शङ्खेन्दुकुन्दप्रतिमावभासम्
- वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति ५८
- गम्भीरजातं बहलञ्च शुक्लं चिरोत्थितञ्चापि वदन्ति कृच्छ्रम् ५९
- विच्छिन्नमध्यं पिशितावृतञ्च चलं शिरासूतमदृष्टिकृच्च
- द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितञ्चापि विवर्जनीयम् ६०
- उष्णाश्रुपातः पिडका च कृष्णे यस्मिन्भवेन्मुद्गनिभञ्च शुक्लम्
- तदप्यसाध्यं प्रवदन्ति केचिदन्ये तु तत्तित्तिरिपक्षतुल्यम् ६१
- श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डले तु
- तमक्षिपाकात्ययमक्षिकोपं सर्वात्मकं वर्जयितव्यमाहुः ६२
- अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः
- विगृह्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् ६३
- इति कृष्णमण्डलजा रोगाः
- अथ नेत्रशुक्लभागजा रोगाः
- प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः
- स्याच्छुक्तिका चार्जुनपिष्टकौ च जालं शिराणां पिडकाश्च याः स्युः
- रोगा बलासग्रथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे ६४
- प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सितम् ६५
- सुश्वेतं मृदु शुक्लार्म शुक्ले तद् वर्द्धते चिरात् ६६
- पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते ६७
- पृथु मृद्वधिमांसार्म बहलञ्च यकृन्निभम् ६८
- स्थिरं प्रसारि मांसाढ्यं शुष्कं स्नाय्वर्म पञ्चमम् ६९
- श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये
- शुक्लाभाः सितनिचिताः स शुक्तिसञ्ज्ञः ७०
- एको यः शशरुधिरप्रभस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ७१
- श्लेष्ममारुतकोपेन शुक्ले मांसं समुन्नतम्
- पिष्टवत्पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ७२
- जालाभः कठिनशिरोऽरुणः शिराणां
- सन्तानो भवति शिराऽदिजालसञ्ज्ञः ७३
- शुक्लस्थाः सितपिडकाःशिरावृता यास्ता विद्यादसितसमीपजाः शिराजाः ७४
- कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो विज्ञेयो नयनसिते बलाससञ्ज्ञः ७५
- इति शुक्ल भागजा रोगा
- अथ वर्त्मजा रोगाः
- उत्सङ्गिन्यथ कुम्भीका पोथकी वर्त्मशर्करा
- तथाऽशोवर्त्म शुष्कार्शस्तथैवाञ्जनदूषिका ७६
- अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मसंश्रया
- सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ७७
- वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्रवन्ति च
- कुम्भीकाबीजसदृशाः कुम्भीकाः सन्निपातजाः ७८
- स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः
- रुजावत्यश्च पिडकाः पोथक्य इति कीर्त्तिताः ७९
- पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता
- पिडका या खरा स्थूला वर्त्मस्था वर्त्मशर्करा ८०
- एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
- श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीत्तर्यते ८१
- दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः
- व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः ८२
- दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा
- मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जनदूषिका ८३
- वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
- सवर्णाभिः स्थिराभिश्च विद्याद्वहलवर्त्म तत् ८४
- कण्डूरेणाल्पतोदेन वर्त्मशोफेन मानवः
- न समं छादयेदक्षि यत्रासौ वर्त्मबन्धकः ८५
- मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च
- अकस्माच्च भवेद्र क्तं क्लिष्टवर्त्मेति तद्विदुः ८६
- क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा
- तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ८७
- यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
- सकण्डूकं परिक्लेदि श्याववर्त्मेति तन्मतम् ८८
- अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि
- प्रक्लिन्नवर्त्म तद्विद्यात्क्लिन्नमत्यर्थमन्ततः ८९
- यस्य धौतान्यधौतानि सम्बध्यन्ते पुनः पुनः
- वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ९०
- विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
- एतद्वातहतं विद्यात्सरुजं यदि वारुजम् ९१
- वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
- आचक्षीतार्बुदमिति सरक्तमवलम्बि च ९२
- निमेषिणीः शिरा वायुः प्रविष्टो वर्त्मसंश्रयाः
- सञ्चालयति वर्त्मानि निमेषः स न सिध्यति ९३
- वर्त्मस्थो यो विवर्द्धेत लोहितो मृदुरङ्कुरः
- तद्र क्तजं शोणितार्शश्छिन्नं वाऽपि विवर्द्धते ९४
- अपाकी कठिनः स्थूलो ग्रन्थिवर्त्मभवोऽरुजः
- सकण्डूः पिच्छिलः कोलप्रमाणो लगणः स्मृतः ९५
- त्रयो दोषा बहिः शोथं कुर्युश्छिद्रा णि वर्त्मनोः
- प्रस्रवन्त्यन्तरुदकं बिसवद्बिसवर्त्म तत् ९६
- वाताद्या वर्त्मसंकोचं जनयन्ति मला यदा
- तदा द्र ष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः ९७
- इति वर्त्मजा रोगाः
- अथ पक्ष्मरोगाः
- पक्ष्मकोपः पक्ष्मशातो रोगौ द्वौ पक्ष्मसंश्रयौ ९८
- प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि
- घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च
- असिते सितभागे च मूलकोशात्पतन्त्यपि
- पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ९९
- यत्पक्ष्मदेहलद्यं मुक्त्वा वर्त्मनोऽन्त प्रजायते
- घर्षेत्पक्ष्मासिते श्वेते पक्ष्मकोपः च उच्यते १००
- वर्त्मपक्ष्माशयगतं पित्तं लोमानि शातयेत्
- कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत् १०१
- इति पक्ष्म रोगौ
- अथ सन्धिजा रोगाः
- पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्ल गतोऽपरः
- शुक्लकृष्ण गतश्चान्यः कृष्ण दृष्टिगतोऽपि च
- मतः कनीनक गतः षष्ठश्चापाङ्ग संश्रितः १०२
- पूयालसः सोपनाहः स्रावाश्चत्वार एव च
- पर्वणिकाऽलजी जन्तुग्रन्थिः सन्धौ नवामयाः १०३
- पक्वः शोथः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसाख्यः १०४
- ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजश्चोपनाहः १०५
- गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावांल्लक्षणैः स्वैरुपेतान्
- तं हि स्रावं नेत्रनाडीति चैके लिङ्गं तस्या कीर्त्तयिष्ये चतुर्द्धा १०६
- हारिद्रा भं पीतमुष्णं जलं वा पित्तस्रावः संस्रवेत्सन्धिमध्यात् १०७
- श्वेतं सान्द्रं पिच्छिलं यः स्रवेत्तु श्लेष्मस्रावोऽसौ विकारः प्रदिष्टः १०८
- शोथः सन्धौ संस्रवेद्यस्तु पक्वः पूयं स्रावः सर्वजः सम्मतः स्यात् १०९
- रक्तास्रावः शोणिताद्यो विकारो गच्छेदुष्णं तत्र रक्तं प्रभूतम् ११०
- ताम्रा तन्वी दाहपाकोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोका
- जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव व्याहृता पूर्वलिङ्गैः १११
- जन्तुग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युर्जन्तवः सन्धिजाताः
- नानारूपा वर्त्मशुक्लान्तसन्धौ गच्छन्त्यन्तर्लोचनं दूषयन्तः ११२
- इति सन्धिजा रोगाः
- अथ समस्तनेत्रजा रोगाः
- स्यन्दाश्चतुष्का इह सम्प्रदिष्टाश्चत्वार एवेह तथाऽधिमन्थाः
- पाकः सशोथः स च शोथहीनो हताधिमन्थोऽनिलपर्ययश्च ११३
- शुष्काक्षिपाकस्त्विह कीर्त्तितश्च तथाऽन्यतो वात उदीरितश्च
- दृष्टिस्तथाऽम्लाध्युषिता शिराणामुत्पातहर्षौ च समस्तनेत्रे ११४
- एवं समस्तनेत्रे स्युरामया दश सप्त च
- तेषामिह पृथग्वक्ष्ये यथावल्लक्षणान्यपि ११५
- वातात्पित्तात्कफाद्र क्ता दभिष्यन्दश्चतुर्विधः
- प्रायेण जायते घोरःसर्वनेत्रामयाकरः ११६
- निस्तोदनस्तम्भनरोमहर्षसंघर्षपारुष्यशिरोऽभितापाः
- विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ११७
- दाहः प्रपाकः शिशिराभिनन्दा धूमायनं वाष्पसमुद्भवश्च
- उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ११८
- उष्णाभिनन्दा गुरुताऽक्षिशोथः कण्डूपदेहावतिशीतता च
- स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ११९
- ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च
- पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति १२०
- वृद्धैरेतैरभिष्यन्दैर्नराणाम क्रियावताम्
- तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः १२१
- उत्पाट्यत इवात्यर्थं तथा निर्मथ्यतेऽपि च
- शिरसोऽद्ध तु तं विद्यादधिमन्थं स्वलक्षणैः १२२
- हन्याद् दृष्टिं श्लैष्मिकः सप्तरात्राद्योऽधीमन्थो रक्तजः पञ्चरात्रात्
- षड्रात्राद्वा वातिको वै निहन्यान्मिथ्याऽचारात्पैत्तिकः सद्य एव १२३
- कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः
- संरम्भी पच्यते यस्तु नेत्रपाकः सशोथकः
- शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे १२४
- उपेक्षणादक्षि यदाऽधिमन्थो वाताधिकः शोषयति प्रसह्य
- रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः १२५
- वारंवारञ्च पर्येति भ्रुवौ नेत्रे च मारुतः
- रुजाश्च विविधास्तीव्राः स ज्ञेयो वातपर्ययः १२६
- यत्कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाविलदर्शनं यत्
- सुदारुणं यत्प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि १२७
- यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
- कुर्याद्रुजोऽति भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति १२८
- श्यावं लोहितपर्यन्तं सर्वमक्षि प्रपच्यते
- सदाहशोथं सास्रावमम्लाध्युषितमम्लतः १२९
- अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
- मुहुर्विरज्यन्ति च याः समन्ताद् व्याधिः शिरोत्पात इति प्रदिष्टः १३०
- मोहाच्छिरोत्पात उपेक्षितस्तु जायेत रोगः स शिराप्रहर्षः
- ताम्राक्षिता स्रावयति प्रगाढं तथा न शक्नोत्यभिवीक्षितुञ्च १३१
- उदीर्णवेदनं नेत्रं रागशोथसमन्वितम्
- घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः १३२
- मन्दवेदनताकण्डू संरम्भाश्रुप्रशान्तताः
- प्रसन्नवर्णता चाक्ष्णोर्निरामेक्षणलक्षणम् १३३
- इति समस्तनेत्रजा रोगाः
- द्वे पादमध्ये पृथुसन्निवेशे शिरोगते ते बहुधा हि नेत्रे
- ताः प्रोक्षणोत्सादनलेपनादीन्पादप्रयुक्तान्नयनं नयन्ति १३४
- मलोष्मसंघट्टनपीडनाद्यैस्ता दूषयन्ते नयनानि दुष्टाः
- भजेत्सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि १३५
- चक्षुष्याः शालयो मुद्गा यवा मांसन्तु जाङ्गलम्
- पक्षिमांसं विशेषेण वास्तूकं तण्डूलीयकम्
- पटोलकर्कोटककारवेल्लफलानि सर्पिः परिपाचितानि
- तथैव वार्त्ताकफलं नवीनमक्ष्णोर्हितः स्वादुरथापि तिक्तः
- कट्वम्लगुरु तीक्ष्णोष्णमाषनिष्पावमैथुनम्
- मद्यवल्लूरपिण्याकमत्स्य शाकविरूढजम्
- विदाहीन्यन्नपानानि नहितान्यक्षिरोगिणे
- सेक आश्च्योतनं पिण्डी विडालस्तर्पणं तथा
- पुटपाकोऽञ्जनं चैभिः कल्कैर्नेत्रमुपाचरेत् १३६
- सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
- मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः १३७
- स चापि स्नेहनो वाते पित्ते रक्ते च रोपणः
- लेखनस्तु कफे कार्यस्तस्य मात्राऽभिधीयते १३८
- षड्भिर्वाचां शतैः स्नेहे चतुर्भिस्तैस्तु रोपणे
- तैस्त्रिभिर्लोचने कार्यः सेको नेत्रप्रसादने १३९
- निमेषोन्मेषणं पुंसामङ्गुल्या च्छोटिकाऽथवा
- गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः १४०
- सेकस्तु दिवसे कार्यो रात्रावत्यन्तिके गदे
- एरण्डदलमूलत्वक्छृतमाजं पयो हितम्
- सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १४१
- पथ्याऽक्षामलखाखसवल्कलकल्केन सूक्ष्मवस्त्रेण
- कृत्वा पोटलिकां तामहिफेनोत्थद्र वेण संयुक्ताम् १४२
- निदधीत लोचने स्यात्सर्वाभिष्यन्दसंक्षयः शीघ्रम्
- योगोऽयमृषिभिरुक्तो जगदुपकाराय कारुणिकैः १४३
- भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
- अचिरेणैव तद्वारि तिमिराणि व्यपोहति १४४
- स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम्
- आमलैः सततं स्नानं परं दृष्टिबलावहम् १४५
- त्रिफलायाः कषायस्तु धावनान्नेत्ररोगजित्
- कवलान्मुखरोगघ्नः पानतः कामलाऽपहः १४६
- क्वाथक्षीरद्र्रवस्नेहबिन्दूनां यत्तु पातनम्
- द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हि तत् १४७
- विन्दवोऽष्टौ लेखनेषु रोपणे दश विन्दवः
- स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः १४८
- उष्णे तु शीतरूपाः स्यु सर्वत्रैवैष निश्चयः
- वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम् १४९
- कफे तिक्तोष्णरूक्षं स्यात्क्रमादाश्च्योतनं हितम्
- आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्छतोन्मिता १५०
- बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुभिः
- क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः १५१
- त्रिफलाऽश्च्योतनं नेत्रे सर्वाभिष्यन्दनाशनम् १५२
- उक्तभेषजकल्कस्य पिण्डी च कोलमात्रया
- वस्त्रखण्डेन सम्बद्धाऽभिष्यन्दव्रणनाशिनी १५३
- स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता
- रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयम् १५४
- एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी
- धात्रीविरचिता पित्ते शिग्रुपत्रकृता कफे १५५
- निम्बपत्रकृतापिण्डी पित्तश्लेष्महरी भवेत्
- शुण्ठीनिम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा १५६
- धार्या नेत्रेऽनिलकफे शोथकण्डूव्यथाहरी
- त्रिफलापिण्डिका नेत्रे वातपित्तकफापहा १५७
- पथ्याऽक्षामलखाखसवल्कलकल्कोऽहिफेनजलयुक्तः
- तेन विरचिता पिण्डी शमयति सकलानभिष्यन्दान् १५८
- विडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जिते
- तस्य मात्रा परिज्ञेया मुखालेपविधानवत् १५९
- अङ्गुलस्य चतुर्थांशो मुखलेपः कनिष्ठकः
- मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत् १६०
- स्थितिकालेऽपि तस्योक्तो यावत्कल्को न शुष्यति
- शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् १६१
- यष्टिगैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकैः
- जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः १६२
- रसाञ्जनेन वा लेपः पथ्याबिल्वदलैरपि
- वचाहरिद्रा विश्वैर्वा तथा नागरगैरिकैः १६३
- वातातपरजोहीने वेश्मन्युत्तानशायिनः
- आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ १६४
- समौ दृढावसन्धानौ कर्त्तव्यौ नेत्रकोशयोः
- पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः १६५
- सर्पिषा शतधौतेन क्षीरजेन घृतेन वा
- निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि १६६
- पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः
- भिषग्भिरेष कथितः पुराणैस्तर्पणो विधिः १६७
- यद्रू क्षं परिशुष्कञ्च नेत्रं कुटिलमाविलम्
- शीर्णपक्ष्मशिरोत्पातकृच्छ्रोन्मीलनसंयुतम् १६८
- तिमिरार्जुन शुक्राद्यैरभिष्यन्दाधिमन्थकैः
- शुष्काक्षिपाकशोथाभ्यां युक्तं पवनपर्ययैः
- तन्नेत्रं तर्पयेत्सम्यङ् नेत्ररोगविशारदः १६९
- तर्पणं धारयेद्वर्त्मरोगे वाचां शतं बुधः १७०
- स्वस्थे कफे सन्धिरोगे वाचां पञ्चशतानि च
- षट्शतानि कफे कृष्णरोगे सप्तशतानि हि १७१
- दृष्टिगे च शतान्यष्टावधिमन्थे सहस्रकम्
- सहस्रं वातरोगेषु धार्यमेवं हि तर्पणम् १७२
- ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षिशोधयेत्
- स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः १७३
- यथास्वं धूमपानेन कफमस्य विरेचयेत्
- एकाहं वा त्र्! यहं वाऽपि पञ्चाहं वाऽपि तर्पयेत् १७४
- तर्पणे तृप्तिलिङ्गानि नेत्रस्यैतानि लक्षयेत् १७५
- सुखसुप्तावबोधत्वं वैशद्यं दृष्टिपाटवम्
- निर्वृतिर्व्याधिशान्तिश्च क्रियालाघवमेव च १७६
- गुर्वाविलमतिस्निग्धमश्रु कण्डूपदेहवत्
- घर्षतोदयुतं नेत्रमतितर्पितमादिशेत् १७७
- आस्रावशोफरोगाढ्यमसहं रूपदर्शने
- आविलं परुषं रूक्षं नेत्रं स्याद्धीनतर्पितम् १७८
- अनयोर्दोषबाहुल्यात् प्रयत्नेन चिकित्सिते
- रुक्षस्निग्धोपचाराभ्यामनयोःस्यात्प्रतिक्रिया १७९
- दुर्दिनात्युष्णशीतेषु चिन्तायां सम्भ्रमेषु च
- अशान्तोपद्र वे वाऽक्ष्णि तर्पणं न प्रशस्यते १८०
- द्वे बिल्वे स्निग्धमांसस्य परं द्र व्यपलं मतम्
- द्र व्यस्य कुडवोन्मानं सर्वमेकत्र पेषयेत् १८१
- तदेकत्र समालोड्य पत्रैः सुपरिवेष्टितम्
- पुटपाकविधानेन तत्पक्त्वा तद्र सं बुधः १८२
- तर्पणोक्तेन विधिना यथावद्विनियोजयेत्
- दृष्टिमध्ये निषेक्तव्यो नित्यमुत्तानशायिनः १८३
- तेजांस्यनिलमाकाशमातपं भास्करस्य च
- नेक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान् १८४
- अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
- अञ्जनं क्रियते येन तद् द्र व्यं चाञ्जनं मतम् १८५
- वटिकारसचूर्णानि त्रिविधान्यञ्जनानि हि
- कुर्याच्छलाकयाऽङगुल्या हीनानि स्युर्यथोत्तरम् १८६
- स्नेहनं रोपणं चापि लेखनं तत्त्रिधा पृथक्
- मधुरं स्नेहसम्पन्नमञ्जनं स्नेहनं मतम् १८७
- कषायतिक्तरसयुक्सस्नेहं रोपणं स्मृतम्
- अञ्जनं क्षारतिक्ताम्लरसैर्लेखनमुच्यते १८८
- हरेणुमात्रां कुर्वीत वटीं तीक्ष्णाञ्जने भिषक्
- प्रमाणं मध्यमे सार्द्धद्विगुणं तु मृदौ भवेत् १८९
- रसक्रिया तूत्तमा स्यात् त्रिविडङ्गमिता मता
- मध्यमा द्विविडङ्गा सा हीना त्वेकविडङ्गिका १९०
- शलाकाः स्नेहने चूर्णे चतस्रः प्राहुरञ्जने
- रोपणे तासु तिस्रः स्युस्ते उभे लेखने स्मृते १९१
- मुखयोः कुञ्चिता श्लक्ष्णां शलाकाऽष्टाङ्गुलोन्मिता
- अश्मजा धातुजा वा स्यात्कलायपरिमण्डला १९२
- सुवर्णरजतोद्भूता शलाका स्नेहने स्मृता
- तीव्रलोहाश्मसञ्जाता शलाका लेखने मता
- अङ्गुली तु मृदुत्वेन रोपणे कथिता बुधैः १९३
- त्रिफालाभृङ्गशुण्ठीनां रसैः शुद्धश्च सर्पिषा १९४
- गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः
- तच्छलाका हरत्येव सकलान्नेत्रजान्गदान् १९५
- कृष्णभागादधः कुर्याद्यावन्नयनमञ्जनम्
- हेमन्ते शिशिरे चापि मध्याह्नेऽञ्जनमिष्यते १९६
- पूर्वाह्णे वाऽपराह्णे वा ग्रीष्मे शरदि चेष्यते
- वर्षास्वदभ्रे नात्युष्णे वसन्ते तु सदैव हि १९७
- प्रातः सायन्तु तत्कुर्यान्न च कुर्यात्सदैव हि १९८
- श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे
- अजीर्णे वेगघाते च नाञ्जनं सम्प्रशस्यते १९९
- पथ्याऽक्षधात्रीबीजानि एकद्वित्रिगुणानि च
- पिष्ट्वाऽम्बुना वटीं कुर्यादञ्जनं द्विहरेणुकम्
- नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा २००
- रसाञ्जनं हरिद्रे द्वे मालतीनिम्बपल्लवाः
- गोशकृद्र ससंयुक्ता वटी नक्तान्ध्यनाशिनी
- एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्द्धं हरेणुका २०१
- शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
- पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् २०२
- छागीक्षीरेण संपिष्य वटीं कुर्याद्यवोन्मिताम्
- हरेणुमात्रं संघृष्य जलेनाञ्जनमाचरेत् २०३
- तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम्
- रात्र्! यन्ध्यं वार्षिकं पुष्पं वटी चन्द्रो दया जयेत् २०४
- पलाशपुष्पस्वरसैर्बहुशः परिभावितम्
- करञ्जबीजं तद्वर्त्तिर्दृष्टेः पुष्पं विनाशयेत् २०५
- कतकस्य फलं पिष्ट्वा मधुना नेत्रमञ्जयेत्
- ईषत्कर्पूरसहितं तत्स्यान्नेत्रप्रसादनम् २०६
- रसाञ्जनं सर्जरसो जातीपुष्पं मनःशिला
- समुद्र फेनं लवणं गैरिकं मरिचं तथा २०७
- एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि
- अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणाञ्च प्ररोहणम् २०८
- दुग्धेन कण्डूं क्षौद्रे ण नेत्रस्रावञ्च सर्पिषा
- पुष्प तैलेन तिमिरं काञ्जिकेन निशाऽन्धताम् २०९
- पुनर्नवा हरत्याशु भास्करस्तिमिरं यथा २१०
- बब्बूलदलनिक्वाथो लेहीभूतस्तदञ्जनात्
- नेत्रस्रावो व्रजेच्छोषं मधुयुक्तान्न संशयः २११
- वटक्षीरेण संयुक्तं मुख्यकर्पूरजं रजः
- क्षिप्रमञ्जनतो हन्ति कुसुमं तु द्विमासिकम् २१२
- क्षौद्रा श्वलालासंघृष्टैर्मरिचैर्नेत्रमञ्जयेत्
- अतिनिद्रा शमं याति तमः सूर्योदयादिव २१३
- अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
- सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विचूर्णितम् २१४
- अञ्जयेत्तेन नयने प्रत्यहं चक्षुषो हितम्
- सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः २१५
- शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
- गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् २१६
- शुष्कञ्च तज्जलं सर्व पर्पटीसन्निभं भवेत्
- विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः २१७
- कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
- अञ्जयन्नेयने तेन नेत्राखिलगदच्छिदा २१८
- दक्षाण्डत्वक्छिलाकाचशङ्खचन्दनसैन्धवैः
- चूर्णितैरञ्जनं प्रोक्तं पुष्पादीनां निकृन्तनम् २१९
- मुक्ताकर्पूरकाचागुरुमरिचकणासैन्धवं सैलवालं
- शुण्ठीकक्लोलकांस्यत्रपुरजनिशिलाशङ्खनाभ्यभ्रतुत्थम्
- दक्षाण्डत्वक्च साक्षं क्षतजमथ शिवा क्लीतकं राजवर्त्त
- जातीपुष्पं तुलस्याः कुसुममभिनवं बीजकं स्यात्तथैव २२०
- पूतीकनिम्बार्जुनभद्र मुस्तं सताम्रसारं रसगर्भयुक्तम्
- प्रत्येकमेषां खलु माषकैकं यत्नेन पिष्येन्मधुनाऽतिसूक्ष्मम् २२१
- भवन्ति रोगा नयनाश्रिता ये नितान्तमात्रोपचिताश्च तेषाम्
- विधीयते शान्तिरवश्यमेव मुक्ताऽदिनाऽनेन महाञ्जनेन २२२
- कणा सलवणोषणा सहरसाञ्जना साञ्जना
- सरित्पतिकफः सिता सितपुनर्नवासम्भवा
- रजन्यरुणचन्दनं मधुकतुत्थपथ्याशिला
- ह्यरिष्टदलशावरस्फटिकशङ्खनाभीन्दवः २२३
- इमानि तु विचूर्णयेन्निबिडवाससा शोधयेत्
- तथाऽयसि विमर्दयेत्समधु ताम्रखण्डेन तत्
- इदं मुनिभिरीरितं नयनशोणनामाञ्जनं
- करोति तिमिरक्षयं पटलपुष्पनाशं बलात् २२४
- हरीतकी वचा कुष्ठं पिप्पली मरिचानि च
- बिभीतकस्य मज्जा च शङ्खनाभिर्मनः शिला २२५
- सर्वमेतत्समं कृत्वा गव्यक्षीरेण पेषयेत्
- नाशयेत्तिमिरं कण्डूपटलान्यर्बुदानि च २२६
- अपि त्रिवार्षिकं शुक्लं मासेनैकेन नाशयेत्
- अधिकानि च मांसानि रात्रावन्धत्वमेव च २२७
- रजनी निम्बपत्राणि पिप्पली मरिचानि च
- विडङ्गं भद्र मुस्तं च सप्तमीत्वभया स्मृता २२८
- अजामूत्रेण सम्पिष्य च्छायायां शोषयेद्वटीम्
- वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टकम् २२९
- मधुना पटलं हन्ति नारीक्षीरेण पुष्पकम्
- एषा चन्द्र प्रभा वर्त्तिः स्वयं रुद्रे ण निर्मिता २३०
- कणा च्छागयकृन्मध्ये पक्त्वा तद्र सपेषिता
- अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्र मूषणम् २३१
- त्रिफलाया रसं प्रस्थं प्रस्थं भृङ्गरजस्य च
- वृषस्य च रसं प्रस्थं शतावर्याश्च तत्समम् २३२
- गुडूच्या आमलक्याश्च रसं छागीपयस्तथा
- प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत् २३३
- कल्कः कणा सिता द्रा क्षा त्रिफला नीलमुत्पलम्
- मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका २३४
- तत्साधु सिद्धं विज्ञाय शुभे भाण्डे निधापयेत्
- ऊर्द्ध्वं पानमधःपानं मध्ये पानं च शस्यते २३५
- यावन्तो नेत्ररोगाः स्युस्तान्पानादपकर्षति
- सरक्ते रक्तदुष्टे च रक्ते वा विस्रुते तथा २३६
- नक्तान्ध्ये तिमिरे काचे नीलिकापटलार्बुदे
- अभिष्यन्देऽधिमन्थे च पक्ष्मकोषे सुदारुणे २३७
- नेत्ररोगेषु सर्वेषु दोषत्रयकृतेष्वपि
- परं हितमिदं प्रोक्तं त्रिफलाऽद्य महाघृतम् २३८
- शतमेकं हरीतक्या द्विगुणञ्च बिभीतकम्
- चतुर्गुणं त्वामलकं वृषमार्कवयोः समम् २३९
- चतुर्गुणोदकं दत्वा शनैर्मृद्वग्निना पचेत्
- भागं चतुर्थं संरक्ष्य क्वाथं तमवतारयेत् २४०
- शर्करा मधुकं द्रा क्षा मधुयष्टी निदिग्धिका
- काकोली क्षीरकाकोली त्रिफला नागकेशरम् २४१
- पिप्पली नन्दनं मुस्तं त्रायमाणा तथोत्पलम्
- घृतप्रस्थं समं क्षीरं कल्कैरेतैः शनैः पचेत् २४२
- हन्यात्सतिमिरं काचं नक्तान्ध्यं शुल्कमेव च
- तथा स्रावं च कण्डूञ्च श्वयथुं च कषायताम् २४३
- कलुषत्वं च नेत्रस्य बिन्द्वर्मपटलानि च
- बहुनाऽत्र किमुक्तेन सर्वान्नेत्रामयान्हरेत् २४४
- यस्य चोपहता दृष्टिः सूर्याग्निभ्यां प्रपश्यतः
- तस्यैतद् भेषजं प्रोक्तं मुनिभिः परमं हितम् २४५
- मार्जितं दर्पणं यद्वत्परां निर्मलतां व्रजेत्
- तद्वदेतेन पीतेन नेत्रं निर्मलतामियात्
- वारिद्रो णद्वयं चात्र बृषमार्कवयोस्तुले २४६
- वासविश्वाऽमृतादार्वीरक्तचन्दनचित्रकैः
- भूनिम्बनिम्बकटुकापटोलत्रिफलाऽम्बुदैः २४७
- निशाकलिङ्गकुटजः क्वाथः सर्वाक्षिरोगहा
- वैस्वर्यं पीनसं श्वासं कासं नाशयति ध्रुवम् २४७
- इति त्रिषष्टितमो नेत्ररोगाधिकारः समाप्तः ६३
- अथ चतुःषष्टितमः कर्णरोगाधिकारः ६४
- कर्णशूलः कर्णनादो बाधिर्यं क्ष्वेड एव च
- कर्ण स्रावकर्णकण्डूः कर्णगूथस्तथैव च १
- प्रतिनाहो जन्तुकर्णो विद्र धिर्द्विविधस्तथा
- कर्णपाकःपूतिकर्णस्तथैवार्शश्चतुर्विधः २
- तथाऽबुदं सप्तविधं शोफश्चापि चतुर्विधः
- एते कर्णगता रोगा अष्टाविंशतिरीरिताः ३
- समीरणः श्रोत्रगतोऽन्यथा चरन्समन्ततः शूलमतीव कर्णयोः
- करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ४
- मूर्च्छा दाहो ज्वरः कासः श्वासोऽथ वमथुस्तथा
- उपद्र वाः कर्णशूले भवन्त्येते मरिष्यतः ५
- कर्णश्रोत्रस्थिते वाते शृणोति विविधान्स्वनान्
- भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते ६
- यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति
- शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्य तेन जायते ७
- बाधिर्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्जयेत् ८
- वायुः पित्तादिभिर्युक्तो वेणुघोषसमं स्वनम्
- करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ९
- शिरोऽभिघातादथ वा निमज्जतो जले प्रपातादथ वाऽपि विद्र धेः
- स्रवेद्धि पूयं श्रवणोऽनिलार्दितः स कर्णसंस्राव इति प्रकीर्त्तितः १०
- मारुतः कफसंयुक्तः कर्णे कण्डूं करोति हि ११
- पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम् १२
- स कर्णगूथो द्र वतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते
- तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसाऽद्धभेदकृत् १३
- यदा तु मूर्च्छन्त्यथवा तु जन्तवः सृजन्त्यपत्त्यान्यथवाऽपि मक्षिकाः
- तदञ्जनत्वाच्छ्रवणे निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः १४
- पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि
- अरतिं व्याकुलत्वञ्च भृशं कुर्वन्ति वेदनाम्
- कर्णो निस्तुद्यते तस्य तथा च फर्फरायते
- कीटे चरति रुक्तीव्रा निस्पन्दे मन्दवेदना १५
- क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
- स रक्तपीतारुणमस्रमास्रवेत्प्रतोदधूमायनदाहचोषवान् १६
- कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत् १७
- कर्णविद्र धपाकेन कर्णे वा वारिपूरणात्
- पूयं स्रवति यः पूति स ज्ञेयः पूतिकर्णकः १८
- कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणैः १९
- नादोऽतिरुक्कर्णमलस्य शोथः स्रावस्तनुश्चावणञ्च वातात् २०
- शोथः सरागो दरणं विदाहः सपूतिपीतस्रवणञ्च पित्तात् २१
- वैश्रुत्यकण्डूस्थिरशोथशुक्ल स्निग्धा स्रुतिः स्वल्परुजा कफाच्च २२
- सर्वाणि रूपाणि च सन्निपातात्स्रावश्च तत्राधिकदोषवर्णः २३
- अथ कर्णपालीरोगाः
- सौकुमार्याच्चिरोत्सृष्टे सहसैवातिवर्धिते
- कर्णे शोथो भवेत्पाल्यां सरुजः परिपोटवान्
- कृष्णारुणनिभः स्तब्धः स वातात्परिपोटकः २४
- गुर्वाभरण संयोगात्ताडनाद्घर्षणादपि
- शोथः पाल्यां भवेच्छ्यावो दाहपाकरुजाऽन्वितः
- रक्तो वा रक्तपित्ताभ्यामुत्पातः सगदः स्मृतः २५
- कर्णं बलाद्वर्द्धयतः पाल्यां वायुः प्रकुप्यति
- कफं संगृह्य कुरुते शोथं स्तब्धमवेदनम्
- उन्मन्थकः सकण्डूको विकारः कफवातजः २६
- संवर्ध्यमाने दुर्विद्धे कण्डूदाहरुजाऽन्वितः
- शोथो भवति पाकश्च त्रिदोषो दुःखवर्द्धनः २७
- कफासृक्कृमयः क्रुद्धाः सर्षपाभा विसारिणः
- कुर्वन्ति पिडकां पाल्यां कण्डूदाहसमन्विताम्
- कफासृक्कृमिसम्भूतः स विसर्पन्नितस्ततः
- लिह्यात्सशष्कुलद्यं पालद्यं परिलेही च स स्मृतः २८
- कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च
- चतुर्ष्वपि च रोगेषु सामान्यं भेषजं स्मृतम्
- शृङ्गवेरं सहमधु सैन्धवं तैलमेव च
- कदुष्णं कर्णयोर्धार्यमेतत्स्याद् वेदनाऽपहम् २९
- लशुनार्द्र कशिग्रूणां वारुण्या मूलकस्य च
- कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ३०
- अर्काङ्कुरानम्लपिष्टान्स तैललवणान्वितान्
- सन्निदध्यात्सुधाकाण्डे कोरिते मृत्स्नयाऽवृते ३१
- पुटपाकक्रमात्स्विन्नं पीडयेदारसागमात्
- सुखोष्णं तद्र सं कर्णे प्रक्षिपेच्छूलशान्तये ३२
- अर्कस्य पत्रं परिणामपीतमाज्येन लिप्तं शिखियोगतप्तम्
- आपीड्य तस्याम्बु सुखोष्णमेव कर्णे निषिक्तं हरते हि शूलम् ३३
- तीव्रशूलातुरे कर्णे सशब्दे क्लेदवाहिनि
- छागमूत्रं प्रशंसन्ति कोष्णं सैन्धवसंयुतम् ३४
- तैलं श्वेतार्कमूलेन मन्देऽग्नौ विधिना कृतम्
- हरेदाशु त्रिदोषोत्थं कर्णशूलप्रपूरणात् ३५
- हिङ्गुसैन्धवशुण्ठीभिस्तैलं सर्षपसम्भवम्
- विपक्वं हरतेऽवश्यं कर्णशूलं प्रपूरणात् ३६
- कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च
- पूरणं कटुतैलेन हितं वातघ्नमौषधम् ३७
- शिखरिक्षारजवारि तत्कृतकल्केन साधितं तैलम्
- अपहरति कर्णनादं बाधिर्यं चापि पूरणतः ३८
- गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत्
- सजलञ्च सदुग्धञ्च तद्बाधिर्यहरं परम्
- इति बिल्व तैलम्
- कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके
- सामान्यं कर्म कुर्वीत योगान्वैशेषिकानपि ४०
- स्वर्जिकाचूर्णसंयुक्तं बीजपूररसं क्षिपेत्
- कर्णस्रावरुजो दाहास्ते नश्यन्ति न संशयः ४१
- आम्रजम्बूप्रवालानि मधुकस्य वटस्य च
- एभिस्तु साधितं तैलं पूतिकर्णगदं हरेत् ४२
- जातीपत्ररसैस्तैलं विपक्वं पूतिकर्णजित्
- पिष्टं रसाञ्जनं नार्याः क्षीरेण क्षौद्र संयुतम्
- प्रशस्यते चिरोत्थे तत्स्रावके पूतिकर्णके ४३
- कुष्ठहिङ्गुबचा दारुशताह्वाविश्वसैन्धवैः
- पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम् ४४
- शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत्
- तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ४५
- चूर्णेन गन्धकशिलारजनीभवेन मुष्ट्यंशकेन कटुतैलपलाष्टकन्तु
- धत्तूरपत्ररसतुल्यमिदं विपक्वं नाडीं जयेच्चिरभवामपि कर्णजाताम् ४६
- कृमिकर्णविनाशाय कृमिघ्नीं कारयेत्क्रियाम्
- वार्त्ताकुधूमश्च हितःसार्षपः स्नेह एव च ४७
- पूरणं हरितालेन गव्यमूत्रयुतेन च
- धूपने कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ४८
- चिकित्सा कर्णशोथानां तथा कर्णार्शसामपि
- कर्णार्बुदानां कुर्वीत शोथार्शोऽबुदवद्भिषक् ४९
- पालीसंशोषणे कुर्याद्वातकर्णरुजः क्रियाः
- स्वेदयेद्यत्नतस्तां च स्विन्नां संवर्धयेत्तिलैः ५०
- शतावरीवाजिगन्धापय स्यैरण्डबीजकैः
- तैलं विपक्वं सक्षीरं पालद्यं संवर्द्धयेत्सुखम् ५१
- जीवनीयस्य कल्केन तैलं दुग्धेन पाचयेत्
- चिकित्सेत्तेन तैलेन हृतास्रं परिपोटकम् ५२
- शीतलेपैर्जलौकोभिरुत्पातं समुपाचरेत्
- हलिनीसुरसाभ्यां च गोधाकङ्कवसाऽन्वितम् ५३
- तैलञ्च पक्वमभ्यङ्गादुन्मन्थं नाशयेद् ध्रुवम्
- दुःखवर्द्धनकं सिक्त्वा जम्ब्वाम्रबिल्वपत्रजैः ५४
- क्वाथैस्तैलेन सुस्निग्धं तच्चूर्णैश्चावधूलयेत्
- बहुशो गोमयैस्तप्तैः स्वेदितं परिलेहितम्
- घनसारैः समालिम्पेदजामूत्रेण कल्कितैः ५५
- इति चतुःषष्टितमः कर्णरोगाधिकारः समाप्तः ६४
- अथ पञ्चषष्टितमो नासारोगाधिकारः ६५
- आदौ च पीनसः प्रोक्तः पूतिनस्यस्ततः परम्
- नासापाकोऽत्र गणितः पूयशोणितमेव च १
- क्षवथुर्भ्रंशथुर्दीप्तिः प्रतीनाहः परिस्रवः
- नासाशोषः प्रतिश्यायाः पञ्च सप्तार्बुदानि च २
- चत्वार्यर्शांसि चत्वारः शोथाश्चत्वारि तानि च
- रक्तपित्तानि नासायां चतुस्त्रिंशद्गदाः स्मृताः ३
- आनह्यते शुष्यति यस्य नासा प्रक्लेदमायाति तु धूप्यते च
- न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येदिह पीनसेन ४
- तं चानिलश्लेष्मभवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम् ५
- दोषैर्विदग्धैर्गलतालुमूले सन्दूषितो यस्य समीरणस्तु
- निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् ६
- घ्राणाश्रितं पित्तमरूषि कुर्याद्यस्मिन्विकारे बलवांश्च पाकः
- तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावथवाऽपि यत्र ७
- दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तैः
- नासा स्रवेत्पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ८
- घ्राणाश्रिते मर्मणि सम्प्रदुष्टो यस्यानिलो नासिकया निरेति
- कफानुयातो बहुशोऽतिशब्दस्तं रोगमाहुः क्षवथुं गदज्ञाः ९
- तीक्ष्णोपयोगादतिजिघ्रतो वा भावान्कटूनर्कनिरीक्षणाद्वा
- सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घर्षतेऽन्य क्षवथुर्निरेति १०
- प्रभ्रश्यते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु
- प्राक्सञ्चितो मूर्धनि पित्ततप्ते तं भ्रंशथुं व्याधिमुदाहारन्ति ११
- घ्राणे भृशं दाहसमन्विते तु विनिःसरेद् धूम इवेह वायुः
- नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिन्तु तं दीप्तिमुदाहरन्ति १२
- उच्छ्वासमार्गन्तु कफः सवातो रुन्ध्यात्प्रतीनाहमुदाहरेत्तम् १३
- घ्राणाद्घनः पीतसितस्तनुर्वा दोषः स्रवेत्स्रावमुदाहरेत्तम् १४
- घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च
- कृच्छ्राच्छ्वसित्यूर्ध्वमधश्च जन्तुर्यस्मिन्स नासापरिशोष उक्तः १५
- सन्धारणाजीर्णरसोऽतिभाष्यक्रोधर्त्तुवैषम्यशिरोऽभितापैः
- सञ्जागरातिस्वपनाम्बुशीतावश्यायकैर्मैथुनवाष्पसेकैः
- संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु १६
- चयं गता मूर्द्धनि मारुतादयः पृथक्समस्ताश्च तथैव शोणितम्
- प्रकुप्यमाणा विविधैः प्रकोपणैस्ततः प्रतिश्यायकरा भवन्ति हि १७
- क्षवप्रवृत्तिः शिरसोऽभिपूर्णता स्तम्भोऽङ्गमर्दः परिहृष्टरोमता
- उपद्र वाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः १८
- आनद्धाऽपिहिता नासा तनुस्रावप्रसेकिनी
- गलताल्वोष्टशोषश्च निस्तोदः शंङ्खयोस्तथा
- क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरस्यमेव च
- भवेत्स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके १९
- उष्णः सपीतकः स्रावो घ्राणात्स्रवति पैत्तिके
- कृशोऽतिपाण्डुः सन्तप्तो भवेदुष्णाभिपीडितः २०
- घ्राणात्कफकृते श्वेतः कफः शीतः स्रवेद् बहुः २१
- शुक्लावभासः शूनाक्षो भवेद् गुरुशिरा नरः
- गलताल्वोष्ठशिरसां कण्डूभिरतिपीडितः २२
- भूत्वा भूत्वा प्रतिश्यायो योऽकस्मात्सन्निवर्त्तते
- सम्पक्वो वाऽप्यपक्वो वा स च सर्वभवः स्मृतः २३
- प्रक्लिद्यते मुहुर्नासा पुनश्च परिशुष्यति
- पुनरानह्यते वाऽपि पुनर्विव्रियते तथा २४
- निश्वासो वाऽपि दुर्गन्धो नरो गन्धान्न वेत्ति च
- एवं दुष्टं प्रतिश्यायं जानीयात्कृच्छ्रसाधनम् २५
- रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्त्तते
- पित्तप्रतिश्यायकृतैर्लिङ्गैश्चापि समन्वितः २६
- ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः
- दुर्गन्धोच्छ्वासवक्त्रश्च गन्धानपि न वेत्ति सः २७
- सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः
- दुष्टतां यान्ति कालेन तदाऽसाध्या भवन्ति च २८
- मूर्च्छन्ति कृमयश्चात्र श्वेताः स्निग्धास्तथाऽणवः
- कृमिजन्यशिरोरोगैस्तुल्यं तेनात्र लक्षणम् २९
- बाधिर्यमान्ध्यमघ्रत्वं घोरांश्च नयनामयान्
- शोषाग्निमान्द्यकासांश्च वृद्धाः कुर्वन्ति पीनसाः ३०
- अर्बुदं सप्तधा शोथाश्चत्वारोऽशश्चतुर्विधम्
- चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः ३१
- शिरोगुरुत्वमरुचिर्नासास्रावस्तनुः स्वरः
- क्षामःष्ठीवति चाभीक्ष्णमामपीनसलक्षणम् ३२
- आमालिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति
- स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम् ३३
- सर्वेषु सर्वकालं पीनसरोगेषु जातमात्रेषु
- मरिचं गुडेन दध्ना भुञ्जीत नरः सुखं लभते ३४
- कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी
- एषांचूर्णं कषायं वा दद्यादार्द्र कजैः रसैः ३५
- पीनसे स्वरभेदे च तमके च हलीमके
- सन्निपाते कफे कासे ज्वरे श्वासे च शस्यते ३६
- कलिङ्गहिङ्गुमरिचलाक्षासुरसकट्फलैः
- कुष्ठोग्राशिग्रुजन्तुघ्नैरवपीडः प्रशस्यते ३७
- व्योषचित्रकतालीसतिन्तिडीकाम्लवेतसम्
- सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ३८
- व्योषादिकमिदं चूर्णं पुराणगुडमिश्रितम्
- पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ३९
- व्याघ्रीदन्तीवचाशिग्रुसुरसाव्योषसिन्धुजैः
- सिद्धं तैलं नासि क्षिप्तं पूतिनासागदापहम् ४०
- शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः
- बिल्वपत्ररसैः सिद्धं तैलं स्यात्पूतिनस्यनुत् ४१
- घृतगुग्गुलुमिश्रस्य सिक्थकस्य प्रयत्नतः
- धूमं क्षवथुरोगघ्नं भ्रंशथुघ्नञ्च निर्दिशेत् ४२
- शुण्ठीकुष्ठकणाबिल्वद्रा क्षाकल्ककषायवत्
- तैलं पक्वमथाज्यं वा नस्यात्क्षवथुनाशनम् ४३
- नस्यं हितं निम्बरसाञ्जनाभ्यां दीप्ते शिरः स्वेदनमल्पशस्तु
- नस्ये कृते क्षीरजलावसेकाञ्छ्वसन्ति भुञ्जीत च मुद्गयूषैः ४४
- नासास्रावे घ्राणयोश्चूर्णमुक्तं नाड्या देयं येऽवपीडाश्च पथ्याः
- तीक्ष्णान्धूमान्देवदार्वग्निकाभ्यां मांसं त्वाजं पथ्यमत्रादिशन्ति ४५
- प्रतिश्यायेषु सर्वेषु गृहं वातविवर्जितम्
- वस्त्रेण गुरुणा तेन शिरसो वेष्टनं हितम् ४६
- विडङ्गं सैन्धवं हिङ्गु गुग्गुलुः समनःशिलः
- बचैतच्चूर्णमाघ्रातं प्रतिश्यायं विनाशयेत् ४७
- घृततैलसमायुक्तं शक्तुधूमं पिबेन्नरः
- सधूमः त्यात्प्रतिश्यायकासहिक्काहरः परः ४८
- प्रतिश्याये पिबेद्धूमं सर्वगन्धसमायुतम्
- चातुर्जातकचूर्णं वा घ्रेयं वा कृष्णजीरकम् ४९
- पुटपक्वं जयापत्रं तैलंसैन्धवसंयुतम्
- प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम् ५०
- पिप्पल्यः शिग्रुबीजानि विडङ्गमरिचानि च
- अवपीडः प्रशस्तोऽय प्रतिश्यायनिवारणे ५१
- शिरसोऽभ्यञ्जनैः स्वेदैर्नस्यैर्मन्दोष्णभोजनैः
- वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत् ५२
- कृमिघ्ना ये क्रमाः प्रोक्तास्तान्वै कृमिषु योजयेत्
- नावनानि कृमिघ्नानि भेषजानि च बुद्धिमान् ५३
- रक्तपित्तानि शोथांश्च तथाऽशास्यर्बुदानि च
- नासिकायां स्युरेतेषां स्वं स्वं कुर्याच्चिकित्सितम् ५४
- गृहधूमकणा दारुक्षारनक्ताह्वसैन्धवैः
- सिद्धं शिखरिबीजैश्च तैलं नासाऽशसां हितम् ५५
- इति पञ्चषष्टितमो नासारोगाधिकारः समाप्तः ६५
- अथ षट्षष्टितमो मुखरोगाधिकारः ६६
- ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च
- गलो मुखादि सकलं सप्ताङ्गं मुखमुच्यते १
- स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा
- दन्तेष्वष्टौ च जिह्वायां पञ्च स्युर्नव तालुनि २
- कण्ठे त्वष्टादश प्रोक्तास्त्रयः सर्वेषु च स्मृताः
- एवं मुखामयाः सर्वे सप्तषष्टिर्मता बुधैः ३
- आनूपपिशितक्षार दधिमाषादिसेवनात्
- मुखमध्ये गदान्कुर्युः क्रुद्धा दोषाः कफोत्तराः ४
- पृथग्दोषैः समस्तैश्च रक्तजो मांसजस्तथा
- मेदोजश्चाभिघातोत्थ एवमष्टौष्ठजा गदाः ५
- कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ
- दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ६
- चीयते पिडकाभिस्तु सरुजाभिः समन्ततः
- सदाहपाकपिडकौ पीताभासौ च पित्ततः ७
- सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ
- कण्डूमन्तौ कफाच्छ्वेतौ पिच्छिलौ शीतलौ गुरु ८
- सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च
- सन्निपातेन विज्ञेयावनेकपिडकाऽन्वितौ ९
- खर्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ
- रक्तोपसृष्टौ रुधिरं स्रवन्तौ शोणितप्रभौ १०
- मांसदुष्टौ गुरु स्थूलौ मांसपिण्डवदुद्गतौ
- जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ११
- सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ मृदू
- स्वच्छस्फटिकसंकाशमास्रावं स्रवतो भृशम् १२
- क्षतजाभौ विदीर्येते पीड्येते चाभिघाततः
- मथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ १३
- गलदन्तमूलदशनच्छदेषु रोगाः कफास्रभूयिष्ठाः
- तस्मादेतेष्वसकृद्रुधिरं विस्रावयेदुष्णम् १४
- चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च
- वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदञ्च बुद्धिमान् १५
- वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनञ्च
- शीताः प्रदेहाः परिषेचनञ्च पित्तोपसृष्टेष्वधरेषु कुर्यात् १६
- शिरोविरेचनं धूमः स्वेदः कवल एव च
- हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके
- मेदोजे शोधिते स्विन्ने स्वेदिते कवलो हितः
- प्रियङ्गुत्रिफलालोघ्रं सक्षौद्रं प्रतिसारणम् १८
- दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहकः
- शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् १९
- ओष्ठरोगेष्वशेषेषु दृष्ट्वा दोषमुपाचरेत्
- तेषु व्रणत्वं जातेषु व्रणवत्समुपाचरेत् २०
- शीतादो गदितः पूर्वं दन्तपुप्पुटकस्तथा
- दन्तवेष्टः सौषिरश्च महासौषिर एव च २१
- ततः परिदरः प्रोक्तस्ततस्तूपकुशः स्मृतः
- वैदर्भश्च ततः प्रोक्तः खल्लीवर्द्धन एव च २२
- अधिमांसकनामा च दन्तनाड्यश्च पञ्च च
- दन्तविद्र धिरप्यत्र दन्तवेष्टेषु षोडश २३
- शोणितं दन्तवेष्टेभ्यो यस्याकस्मात्प्रवर्त्तते
- दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च २४
- दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्
- शीतादो नाम स व्याधिः कफशोणितसम्भवः २५
- दन्तयोस्त्रिषु वाऽप्यत्र श्वयथुर्जायते महान्
- दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः २६
- स्रवन्ति पूयं रुधिरं चला दन्ता भवन्ति च
- दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः २७
- श्वयथुर्दन्तमूलेषु रुजावान्कफवातजः
- लालास्रावी च कण्डूरः स ज्ञेयः सौषिरो गदः २८
- दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते
- दन्तमांसानि पच्यन्ते मुखञ्च परिपच्यते
- यस्मिन्स सर्वजो व्याधिर्महासौषिरसंज्ञकः २९
- दन्तमांसानि शीर्यन्ते यस्मिन्ष्ठीवति चाप्यसृक्
- पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ३०
- वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च
- आघटिट्ताः प्रस्रवन्ति शोणितं मन्दवेदनम्
- आध्मायन्तेऽस्रुते रक्ते मुखं पूति च जायते
- यस्मिन्नुपकुशः स स्यात्पित्तरक्तसमुद्भवः ३२
- घृष्टेषु दन्तमूलेषु संरम्भो जायते महान्
- चलन्ति च रदा यस्मिन्स वैदर्भोऽभिघातजः ३३
- मारुतेनाधिको दन्तो जायते तीव्रवेदनः
- खल्लीवर्द्धनसंज्ञोऽसौ सञ्जाते रुक्प्रशाम्यति ३४
- हानव्ये पश्चिमे दन्ते महाशोथो महारुजः
- लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ३५
- दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ३६
- दन्तमांसमलैः सास्रैर्बाह्यान्तः श्वयथुर्महान्
- सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्र धिः ३७
- शीतादे हृतरक्ते तु तोये नागरसर्षपान्
- निष्क्वाथ्य त्रिफलाञ्चापि कुर्याद्गण्डूषधारणम् ३८
- कासीसलोध्रकृष्णा मनःशिला प्रियङ्गु तेजोह्वाः
- एषां चूर्णं मधुयुक्छीतादे पूतिमांसहरम् ३९
- तैलं घृतं वा वातघ्नं शीतादे सम्प्रशस्यते
- दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् ४०
- सपञ्चलवणक्षारः सक्षौद्र ः! प्रतिसारणम्
- शिरोविरेकश्च हितो नस्यं स्निग्धञ्च भोजनम् ४१
- विस्राविते दन्तवेष्टे व्रणन्तु प्रतिसारयेत्
- लोध्रपत्तङ्गमधुक लाक्षाचूर्णैर्मधुप्लुतैः ४२
- गण्डूषे क्षीरिणो योज्याः सक्षौद्र घृतशर्कराः
- चलदन्तस्थिरकरं कार्यं बकुलचर्वणम् ४३
- भद्र मुस्ताऽभयाव्योषविडङ्गारिष्टपल्लवैः
- गोमूत्रपिष्टैर्गुटिकां छायाशुष्कां प्रकल्पयेत् ४४
- तां निधाय मुखे स्वप्याच्चलदन्तातुरो नरः
- नातः परतरं किञ्चिच्चलदन्तस्य भेषजम् ४५
- तुलावृतं नीलसहाचरन्तु द्रो णाम्भसा संश्रपयेद्यथावत्
- ततश्चतुर्भागरसे तु तैलं पचेच्छनैरर्द्धपलप्रमाणैः ४६
- कल्कैरनन्ताखदिरेरिमेदजम्ब्वाम्रयष्टीमधुकोत्पलानाम्
- तत्तैलमाज्यञ्च धृतं मुखेन स्थैर्यं द्विजानां विदधाति सद्यः ४७
- सौषिरे हृतरक्ते तु लोध्रमुस्तारसाञ्जनैः
- सक्षौद्रै ः! शस्यते लेपो गण्डूषे क्षीरिणो हिताः ४८
- क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः
- संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा ४९
- काष्ठोदुम्बरिकापत्रैर्व्रणं विस्रावयेद्भिषक्
- लवणैः क्षौद्र युक्तैश्च सव्योषैः प्रतिसारयेत् ५०
- शास्त्रेणोद्धृत्य वैदर्भे दन्तमूलानि शोधयेत्
- ततः क्षीरं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ५१
- उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत्
- कृमिदन्तकवच्चात्र विधिः कार्या विजानता ५२
- छित्वाऽधिमांसं सक्षौद्रै रेतैश्चूर्णैरुपाचरेत्
- वचातेजोवतीपाठास्वर्जिकायावशूकजैः ५३
- क्षौद्र द्वितीयाः पिप्पल्यः कवले चात्र कीर्त्तिताः
- पटोलनिम्बत्रिफलाकषायश्चात्र धावने ५४
- नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत्
- यद्दन्तमध्ये जायेत नाडीदन्तं तदुद्धरेत् ५५
- छित्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत्
- उद्धृत्य च दहेच्चापि क्षारेण ज्वलनेन वा ५६
- भिनत्त्युपेक्षिते दन्ते हनुमस्थिगतिर्ध्रुवम्
- समूलं दशनं तस्मादुद्धरेद्भग्नमस्थि च ५७
- उद्धृते तूत्तरे दन्ते शोणितं प्रस्रवेदति
- रक्ताभिषेकात्पूर्वोक्ता घोरा रोगा भवन्ति हि ५८
- काणः सञ्जायते जन्तुरर्दितं तस्य जायते
- चलमप्युत्तरं दन्तमतो नैवोद्धरेद्भिषक्
- धावनं जातिमदनस्वादुकण्टकखादिरैः ५९
- कषायैर्जातिमदनकण्टकीस्वादुकण्टकैः ६०
- मञ्जिष्ठालोध्रखदिरयष्ट्याह्वैश्चापि यत्कृतम्
- तैलं यत्साधितं तत्तु हन्याद् दन्तगतां गतिम् ६१
- विद्र ध्युक्तं विधिं युक्तं विदध्याद् दन्तविद्र धौ
- शस्त्रकर्म नरस्तत्र कुशलो नैव कारयेत् ६२
- दालनः कथितः पूर्वं कृमिदन्तक एव च
- प्रोक्तो भञ्जनको दन्तहर्षो वै दन्तशर्करा ६३
- कपालिकाऽत्र कथिता श्यावदन्तक एव च
- करालसंज्ञ इत्यष्टौ दन्तरोगाः प्रकीर्त्तिताः ६४
- दीर्यमाणेष्विव रुजा यत्र दन्तेषु जायते
- दालनो नाम स व्याधिः सदागतिनिमित्तजः ६५
- कृष्णच्छिद्र श्चलः स्रावी ससंरम्भो महारुजः
- अनिमित्तरुजो वातात्स ज्ञेयः कृमिदन्तकः ६६
- वक्त्रं वक्रं भवेद्यत्र दन्तभङ्गश्च जायते
- कफवातकृतो व्याधिः स भञ्जनकसंज्ञकः ६७
- शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः
- तत्र स्युर्वातपित्ताभ्यां दन्तहर्षः स कीर्त्तितः ६८
- मलो दन्तगतो यस्तु कफश्चानिलशोषितः
- शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ६९
- कपालेष्विव दीर्यत्सु दन्तेषु समलेषु च
- कपालिकेति विज्ञेया दन्तच्छिद् दन्तशर्करा ७०
- योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः
- श्यावतां नीलतां वापि गतः स श्यावदन्तकः ७१
- शनैः शनैः प्रकुरुते यत्र दन्ताश्रितोऽनिलः
- करालान्विकटान्दन्तान्स करालो न सिद्ध्य्ति ७२
- अथ दन्तरोगचिकित्सा
- तैलं लाक्षारसं क्षारं पृथक्प्रस्थमितं पचेत्
- द्र व्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गुणैः ७३
- लोध्रकट्फल मञ्जिष्ठापद्मकेशरपद्मकैः
- चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम् ७४
- दालनं दन्तचालं च दन्तमोक्षं कपालिकाम्
- शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम् ७५
- हन्यादाशु गदानेतान्कुर्याद् दन्तानपि स्थिरान्
- लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम् ७६
- जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्
- तथाऽवपीडवातघ्नः स्नेहगण्डूषधारणैः ७७
- भद्र दार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः
- कृमिदन्तापहं कोष्णं हिङ्गु दन्तान्तरे स्थितम् ७८
- बृहतीभूमिकदम्बपञ्चाङ्गुलकण्टकारिकाक्वाथः
- गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमनः ७९
- नीलीवायसजङ्घाकटुतुम्बीमूलमेकैकम्
- सञ्चूर्ण्य दशनविधृतं दशनकृमिनाशनं प्राहुः ८०
- स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य च
- निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ८१
- स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव च
- पेया रसा यवाग्वश्च क्षीरसन्तानिकाघृतम्
- शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ८२
- अच्छिन्दन्दन्तमूलानि शर्करामुद्धरेद्भिषक्
- लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत्
- दन्तहर्षक्रियां चात्र कुर्यान्निरवशेषतः
- कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया मता ८४
- फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्
- तथाऽतिकठिनं भक्ष्यं दन्तरोगी न भक्षयेत् ८५
- वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः
- उपजिह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः ८६
- जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा ८७
- पित्तात्सदाहैरुपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च ८८
- कफेन गुर्वी बहुला चिता च मांसोच्छ्रयैः शाल्मलिकण्टकाभैः ८९
- जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्त्तिः
- जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ९०
- जिह्वाऽग्ररूपः श्वयथुर्हि जिह्वामन्नुम्य जातः कफरक्तयोनिः
- प्रसेककण्डूपरिदाहयुक्तः प्रकथ्यतेऽसावुपजिह्विकेति ९१
- जिह्वागतविकाराणां शस्तं शोणितमोक्षणम्
- गुडूचीपिप्पलीनिम्बकवलः कटुभिः सुखः ९२
- ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्चिकित्सितम्
- कण्टकेष्वनिलोत्थेषु तत्कार्यं भिषजा खलु ९२
- पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते
- प्रतिसारणगण्डूषनस्यञ्च मधुरं हितम् ९३
- कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये
- पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ९४
- उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्
- शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ९५
- व्योषक्षाराभयावह्नि चूर्णमेतत्प्रघर्षणम्
- उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत् ९६
- गलशुण्ठी तुण्डिकेर्यभ्रूषः कच्छप एव च
- ताल्वर्बुदश्च कथितो मांससङ्घात एव च ९७
- तालुपुप्पुटनामा च तालुशोषस्तथैव च
- तालुपाकश्च कथितास्तालुरोगा अमी नव ९८
- श्लेष्मासृग्भ्यांतालुमूलात्प्रवृद्धो दीर्घः शोथो ध्मातवस्तिप्रकाशः
- तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्याः कण्ठशुण्डीति नाम्ना ९९
- शोथः स्थूलस्तोददाहप्रपाकी श्लेष्मासृग्भ्यां कीर्त्तिता तुण्डिकेरी १००
- शोथः स्तब्धो लोहितः शोणितोत्थो ज्ञेयोऽभ्रूषः सज्वरस्तीव्ररुक्च १०१
- कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणः स्यात् १०२
- पद्माकारं तालुमध्ये तु शोथं विद्याद्र क्तादर्बुदं पित्तलिङ्गम् १०३
- दुष्टं मांसश्लेष्मणा नीरुजञ्च ताल्वन्तःस्थं मांससंघातमाहुः १०४
- नीरुक्स्थायी कोलमात्रः कफात्स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे १०५
- शोषोऽत्यर्थं दीर्यते वाऽपि तालु श्वासश्चोग्रस्तालुशोषोऽनिलाच्च १०६
- पित्तं कुर्यात्पाकमत्यर्थघोरं तालुन्येवं तालुपाकं वदन्ति १०७
- कुष्ठोषणवचासिन्धुकणापाठाप्लवैः सह
- सक्षौद्रै र्भिषजा कार्यं गलशुण्डीप्रघर्षणम् १०८
- अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम्
- छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् १०९
- अत्यादानात्स्रवेद्र क्तं ततः स म्रियते नरः
- हीनच्छेदाद्भवेच्छोथो लालास्रावो भ्रमस्तथा
- तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः
- गलशुण्डीं तु संच्छिद्य कुर्यात्प्राप्तमिमं क्रमम्
- पिप्पल्यतिविषाकुष्ठवचामरिचनागरैः
- क्षौद्र युक्तैः सलवणैस्ततस्तां प्रतिसारयेत्
- वचामतिविषापाठारास्नाकटुकरोहिणीः
- निक्वाथ्य पिचुमर्दञ्च कवलं तत्र कारयेत्
- तुण्डिकेर्यभ्रुषे कूर्मे सङ्घाते तालुपुप्पुटे
- एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ११०
- तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम्
- स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः १११
- रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव च
- अधिजिह्वश्च वलयो बलासश्चैकवृन्दकः ११२
- ततो वृन्दः शतघ्नी च गिलायुः कण्ठविद्र धिः
- गलौघश्च स्वरघ्नश्च मांसतानस्तथैव च ११३
- विदारी कण्ठदेशे तु रोगा अष्टादश स्मृताः ११४
- गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसञ्च तथैव शोणितम्
- गलोपसंरोधकरैस्तथाङ्कुरैर्निहन्त्यसून्व्याधिरयं च रोहिणी ११५
- जिह्वासमन्ताद् भृशवेदनास्तु मांसाङ्कुराः कण्ठनिरोधनाः स्युः
- सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्र वगाढजुष्टा ११६
- क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजाता ११७
- स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा तु ११८
- गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रिभवा भवेत्सा ११९
- स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु १२०
- सद्यस्त्रिदोषजा हन्ति त्र्! यहात्कफसमुद्भवा
- पञ्चाहात्पित्तसम्भूता सप्ताहात्पवनोत्थिता १२१
- कोलास्थिगात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः
- खरः स्थिरः शस्त्रनिपातसाध्यस्तत्कण्ठशालूकमिति ब्रुवन्ति १२२
- जिह्वाऽग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादसृजैव मिश्रात्
- ज्ञेयोऽधिजिह्वः खलु रोग एव विवर्जयेदागतपाकमेनम् १२३
- बलास एवागतमुन्नतञ्च शोथं करोत्यन्नगतिं निवार्य
- तं सर्वथैवाप्रतिवार्यमेव विवर्जनीयं वलयं वदन्ति १२४
- गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्
- मर्मच्छिदं दुस्तरमेनमाहुर्बलाससंज्ञं भिषजो विकारम् १२५
- वृत्तोन्नतोऽन्त श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च
- नाम्नैकवृन्दः परिकीर्त्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः १२६
- समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति
- तं चापि पित्तक्षतजप्रकोपाद्विद्यात्सतोदं पवनात्मकं तु १२७
- वर्त्तिर्घना कण्ठनिरोधिनी तु चिताऽतिमात्रं पिशितप्ररोहैः
- अनेकरुक्प्राणहरी त्रिदोषाज्ज्ञेया शतघ्नीसदृशी शतघ्नी १२८
- ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक्स्यात्कफरक्तमूर्त्तिः
- संलक्ष्यते सक्तमिवाशितञ्च स शस्त्रसाध्यस्तु गिलायुसंज्ञः १२९
- सर्वं गलं व्याप्य समुत्थितो यः शोथो रुजः सन्ति च यत्र सर्वाः
- स सर्वदोषैर्गलविद्र धिस्तु तस्यैव तुल्यः खलु सर्वजस्य १३०
- शोथो महान्यस्तु गलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता
- कफेन जातो रुधिरान्वितेन गले गलौधः परिकीर्त्तितोऽसौ १३१
- यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः
- कफोपदुष्टेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात्स्वरघ्नः १३२
- प्रतानवान्यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण
- स मांसतानः कथितोऽवलम्बी प्राणप्रणुत्सर्वकृतो विकारः १३३
- सदाहतोदं श्वयथुं सताम्रमन्तर्गले पूतिविशीर्णमांसम्
- पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात्स तु येन शेते १३४
- रोहिणीनान्तु साध्यानां हितं शोणितमोचनम्
- वमनं धूमपानञ्च गण्डूषो नस्यकर्म च
- वातजान्तु हृते रक्ते लवणैः प्रतिसारयेत्
- सुखोष्णान्स्नेहगण्डूषान्धारयेच्चाप्यभीक्ष्णशः
- विस्राव्य पित्तसम्भूतां सिताक्षौद्र प्रियङ्गुभिः
- घर्षयेत्कवलो द्रा क्षापरुषैः क्वथितो हितः
- आगारधूमकटुकैः कफजां प्रतिसारयेत् १३५
- श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्
- नस्यकर्मणि दातव्यं कवलञ्च कफोच्छ्रये १३६
- पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम्
- विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् १३७
- एककालं यवान्नञ्च भुञ्जीत स्निग्धमल्पशः
- उपजिह्वकवच्चापि साधयेदधिजिह्वकम् १३८
- एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत्
- एकवृन्दमिव प्रायो वृन्दञ्च समुपाचरेत् १३९
- गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत्
- अमर्मस्थं सुसम्पक्वं छेदयेद्गलविद्र धिम् १४०
- कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्मभिः
- चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत् १४१
- क्वाथं दद्याच्च दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम्
- हरीतकीकषायो वा हितो माक्षिकसंयुतः १४२
- कटुकाऽतिविषादारुपाठामुस्तकलिङ्गकाः
- गोमूत्रक्वथिताः पीता कण्ठरोगविनाशनाः १४३
- मृद्वीका कटुका व्योषं दार्वीत्वक् त्रिफला घनम्
- पाठा रसाञ्जनं दूर्वा तेजोह्वेति सुचूर्णितम् १४४
- क्षौद्र युक्तं विधातव्यं गलरोगे महौषधम्
- योगाश्चैते त्रयः प्रोक्ता वातपित्तकफापहाः १४५
- यवाग्रजं तेजवताञ्च पाठां रसाञ्जनं दारुनिशां सकृष्णाम्
- क्षौद्रे ण कुर्याद् गुटिकां मुखेन तां धारयेत्सर्वगलामयेषु १४६
- पृथगदोषैस्त्रयो रोगाः समस्तमुखजाः स्मृताः १४७
- स्फोटैः सतोदैर्वदनं समन्ताद्यत्राचितं सर्वसरः स वातात् १४८
- रक्तैः सदाहैः पिडकैः सपीतैर्यत्राचितं चापि स पित्तकोपात् १४९
- अवेदनैः कण्डुयुतैः सवणैर्यत्राचितं चापि स वै कफेन १५०
- ओष्ठप्रकोपे वर्ज्यास्तु मांसरक्तत्रिदोषजाः
- दन्तवेष्टेषु वर्ज्यौ तु त्रिलिङ्गगति सौषिरौ १५१
- दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः
- जिह्वारोगेष्वलासस्तु तालुजेष्वर्बुदं तथा
- स्वरघ्नो वलयो बृन्दो बलासः स हि दारुणः च विदारिका
- गलौघो मांसतानश्च शतघ्नी रोहिणी गले
- असाध्याः कीर्त्तिता ह्येते रोगा दश नवोत्तराः
- तेषु वाऽपि क्रियां वैद्यः प्रत्याख्याय समाचरेत् १५२
- वातात्सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत्
- तैलं वातहरैः सिद्धं हितं कवलनस्ययोः १५३
- पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः
- सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः १५४
- प्रतिसारणगण्डूषधूमसंशोधनानि च
- कफात्मके सर्वसरे क्रमं कुर्यात्कफापहम् १५५
- मुखपाके शिरावेधः शिरसश्च विरेचनम्
- मधुमूत्रघृतक्षीरैः शीतैश्च कवलग्रहः १५६
- जातीपत्रामृताद्रा क्षायासदार्वीफलत्रिकैः
- क्वाथः क्षौद्र युतः शीतो गण्डूषो मुखपाकनुत् १५७
- कार्यञ्च बहुधा नित्यं जातीपत्रस्य चर्वणम्
- कृष्णजीरककुष्ठेन्द्र यवचर्वणतस्त्र्! यहात् १५८
- मुखपाकव्रणक्लेद दौर्गन्ध्यमुपशाम्यति
- पटोलनिम्बजम्ब्वाम्र मालतीनवपल्लवैः १५९
- पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने
- पञ्चवल्कलजः क्वाथस्त्रिफलासम्भवोऽथ वा १६०
- मुखपाके प्रयोक्तव्यः सक्षौद्रो मुखधावने
- स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया
- सक्षौद्रा मुखरोगा सृग्दोषनाडीव्रणापहा १६१
- सप्तच्छदोशीरपटोलमुस्तहरीतकीतिक्तकरोहिणीभिः
- यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य १६२
- तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च
- क्षौद्रा ढ्या दग्धवक्त्रस्य गण्डूषो मुखपाकनुत् १६३
- आस्वादिता सकृदपि मुखगन्धं सकलमपनयति
- त्वग्बीजपूरफलजा पवनमपाच्यं वारयति १६४
- हरिद्रा निम्बपत्राणि मधुकं नीलमुत्पलम्
- तैलमेभिर्विपक्तव्यं मुखपाकहरं परम् १६५
- यष्टीमधु पलमेकं त्रिंशन्नीलोत्पलस्य तैलस्य
- प्रस्थं तद् द्विगुणपयोविधिनापक्वं तु नस्येन १६६
- निशि वदनस्य स्रावं क्षपयति गात्रस्य दोषसंघातम्
- कचघर्षत्वमवश्यं क्रमतोऽभ्यङ्गेन जन्तूनाम् १६७
- इति षट्षष्टितमो मुख रोगाधिकारः समाप्तः ६६
- अथ सप्तषष्टितमो विषाधिकारः ६७
- स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते
- दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् १
- मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सारमेव च
- निर्यासो धातवः कन्दः स्थावरस्याश्रया दश २
- दृष्टिनिश्वासदंष्ट्राश्च नखमूलमलानि च
- शुक्रं लालाऽत्तवस्पर्शसंदंशाश्चावमर्दितम्
- गुदास्थिपित्तशूकानि दश षड् जङ्गमाश्रयाः ३
- अथ स्थावरविषाणां सामान्यकार्याणि
- उद्वेष्टनं मूलविषैर्मोहः प्रलपनं तथा ४
- जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत् ५
- मुष्कशोथः फलविषैर्दाहो द्वेषश्च भोजने ६
- भवेत्पुष्पविषैश्छर्दिराध्मानं मूर्च्छनं तथा ७
- त्वक्सारनिर्यासविषैरुपभुक्तैर्भवन्ति हि
- आस्यदौर्गन्ध्य पारुष्यशिरोरुक्कफसंस्रवाः ८
- फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता ९
- हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि
- प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् १०
- कन्दजान्युग्रवीर्याणि यान्युक्तानि त्रयोदश
- सर्वाण्येतानि कुशलैर्ज्ञेयानि दशभिर्गुणैः ११
- स्थावरं जङ्गमं वाऽपि कृत्रिमं चापि यद्विषम्
- सद्यो निहन्ति तत्सर्वं गुणैश्च दशभिर्युतम् १२
- रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च
- विकाशि विशदञ्चैव लघुपाकि च ते दश १३
- तद्रौ क्ष्यात्कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम्
- तैक्ष्ण्यान्मतिं मोहयति मर्मबन्धाञ्छिनत्ति हि
- शरीरावयवान्सौक्ष्म्यात्प्रविशेद्विकरोति च
- आशुत्वादाशु तत्प्रोक्तं व्यवायात्प्रकृतिं हरेत् १४
- विकाशित्वात्क्षपयति दोषान्धातून्मलानपि
- अतिरिच्यते वैशद्याद् दुश्चिकित्स्यं च लाघवात्
- दुर्जरं चाविपाकित्वात्तस्मात्क्लेशयते चिरम् १५
- सद्यः क्षतं पच्यते यस्य जन्तोः स्रवेद्र क्तं पच्यते चाप्यभीक्ष्णम्
- कृष्णीभूतं क्लिन्नमत्यर्थपूति क्षतान्मांसं शीर्यते यस्य वाऽपि १६
- तृष्णातापौ दाहमूर्च्छे च यस्य दिग्धं विद्धं तं मनुष्यं व्यवस्येत्
- लिङ्गान्येतान्येव कुर्यादमित्रैर्दत्तः क्ष्वेडो वा व्रणे यस्य चापि १७
- इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः
- जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् १८
- न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च
- अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् १९
- अङ्गुलद्यः स्फोटयेदुर्वीं विलिखेत्प्रहसेदपि
- वेपथुश्चास्य भवति त्रस्तश्चैककमीक्षते २०
- विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्ति च
- आलभेतासकृद्दीनः करेण च शिरोरुहान्
- निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः
- वर्त्तते विपरीतं च विषदाता विचेतनः २२
- निद्रा ं! तन्द्रा ं! क्लमं दाहं सम्पाकं लोमहर्षणम्
- शोथं चैवातिसारं च कुरुते जङ्गमं विषम् २३
- वातपित्तकफात्मानो भोगिमण्डलिराजिलाः
- यथाक्रमं समाख्याता द्व्यन्तराद्वन्द्वरूपिणः २४
- फणिनो भोगिनो ज्ञेयाः संख्यातास्तेऽत्र विंशतिः
- मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः २५
- षट् ते मण्डलिनो ज्ञेया ज्वलनार्कविषाः स्मृताः २६
- स्निग्धा विविधवर्णाभिस्तिर्यगूर्ध्वञ्च राजिभिः
- विचित्रा इव ये भान्ति राजिलास्ते हि तेऽपि षट् २७
- दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत्
- पीतो मण्डलिनः शोथो मृदुः पित्तविकारवान् २८
- राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः
- पाण्डुः स्निग्धोऽतिसान्द्रा सृक्सर्वश्लेष्मविकारवान् २९
- अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु
- याम्ये च पित्र्! ये परिवर्जनीयाः ॠक्षे नरा मर्मसु ये च दष्टाः ३०
- दर्वीकराणां विषमाशु हन्ति मेघानिलोष्णे द्विगुणीभवन्ति ३१
- रथाङ्गलाङ्गलच्छत्रस्वस्ति काङ्कुशधारिणः
- ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः ३२
- अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु
- क्षीणे क्षते मेहिनि कुष्ठजुष्टे रूक्षेऽबले गर्भवतीषु चापि ३३
- शस्त्रक्षते यस्य न रक्तमस्ति राज्यो लताभिश्च न सम्भवन्ति
- शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम्
- जिह्मं मुखं यस्य च केशशातो नासाऽवसादश्च सकण्ठभङ्गः
- कृष्णश्च रक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वञ्च विवर्जनीयः ३४
- वान्तिर्घना यस्य निरेति वक्त्राद्र क्तं स्रवेदूर्ध्वमधश्च यस्य
- दंष्ट्रानिपातांश्चतुरश्च पश्येद्यस्यापि वैद्यैः परिवर्जनीयः ३५
- उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम्
- सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्र न कर्म कुर्यात् ३६
- जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा
- स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ३७
- वीर्याल्पभावान्न निपातयेत्तत्कफान्वितं वर्षगणानुबन्धि
- तेनार्दितो भिन्नपुरीषवर्णो विगन्धिवैरस्ययुतः पिपासी
- मूर्च्छा भ्रमं गद्गदवाग्वमिञ्च विचेष्टमानोऽरतिमाप्नुयाद्वा ३८
- आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी
- भवेत्समुद्धस्तशिरोऽङ्गरुट्को विलूनपक्षश्च यथा विहङ्गः ३९
- स्थितं रसादिष्वथ तद्यथोक्तान्करोति धातुप्रभवान्विकारान् ४०
- कोपं पु शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम् ४१
- निद्रा गुरुत्वञ्च विजृम्भवच्च विश्लेषहर्षावथवाऽङ्गमर्दः ४२
- ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्म
- मासक्षयं पाणिपदे प्रशोथं मूर्च्छां तथा छर्दिमथातिसारम्
- दूषीविषं श्वासतृषाज्वरांश्च कुर्यात्प्रवृद्धिं जठरस्य चापि ४३
- उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत्क्षपयेच्च शुक्रम्
- गाद्गद्यमन्मज्जनयेच्च कुष्ठं तांस्तान्विकारांश्च बहुप्रकारान् ४४
- दूषितं देश कालान्नदिवास्वप्नैरभीक्ष्णशः
- यस्मात्सन्दूषयेद्धातूंस्तस्माद् दूषीविषं स्मृतम् ४५
- साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम्
- दूषीविषमसाध्यं स्यात्क्षीणस्याहितसेविनः ४६
- सौभाग्यार्थं स्त्रियः स्वेदं रजो नानाऽङ्गजान्मलान्
- शत्रुप्रयुक्तांश्च गरान्प्रयच्छन्त्यन्नमिश्रितान् ४७
- तैः स्यात्पाण्डुः कृशोऽल्पाग्निर्गरैश्चास्योपजायते
- मर्मप्रधमनाध्मानं हस्तयोः शोथसम्भवः ४८
- जठरं ग्रहणीदोषो यक्ष्मगुल्मक्षयज्वराः
- एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् ४९
- यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः
- तेभ्यो जातास्तथा लूता इति ख्यातास्तु षोडश ५०
- विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम्
- वसिष्ठं कोपयामास गत्वाऽश्रमपदं किल ५१
- कुपितस्य मुनेस्तस्य ललाटात्स्वेदबिन्दवः
- अपतन्दर्शनादेव ह्यधस्तात्तीव्रवर्चसः ५२
- लूने तृणे महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च
- ततो जातास्त्विमे घोरा नानारूपा महाविषाः
- तासामष्टौ कष्टसाध्या वर्ज्यास्तावत्य एव हि ५४
- ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च
- ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ५५
- पिडका विविधाकारा मण्डलानि महान्ति च
- शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा
- सामान्यं सर्वलूतानामेतद् दंशस्य लक्षणम् ५६
- दंशमध्ये तु यत्कृष्णं श्यावं वा जालकावृतम्
- दग्धाकृति भृशं पाकक्लेदशोथज्वरान्वितम्
- दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्दिशेत् ५७
- शोथः श्वेताः सिता रक्ताः पीता वा पिडका ज्वरः
- प्राणान्तकाश्च जायन्ते दाहहिक्काशिरोग्रहाः ५८
- आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः
- लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते ५९
- मूर्च्छाऽङ्गशोथवैवर्ण्यं क्लेदो मन्दश्रुतिर्ज्वरः
- शिरोगुरुत्वं लालाऽसृक्छर्दिश्चासाध्यमूषकात् ६०
- शोथस्य कार्ष्ण्यमथवा नानावर्णत्वमेव च
- मोहोऽथ वर्चसो भेदो दष्टस्य कृकलासकैः ६१
- दहत्यग्निरिवादौ तु भिनत्तीवोर्द्ध्वमाशु च
- वृश्चिकस्य विषं याति पश्चाद् दंशेऽवतिष्ठते ६२
- दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः
- मांसैः पतद्भिरत्यर्थ वेदनाऽत्तो जहात्यसून् ६३
- विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि वा
- लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते ६४
- कृष्णलोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्त्तिमान्
- दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ६५
- एकदंष्ट्राऽदितः शूनःसरुजः पीतकः सतृट्
- सनिद्र श्छर्दिमान्दष्टो मण्डूकैः सविषैर्भवेत् ६६
- मत्स्यास्तु सविषाः कुर्युर्दाहं शोथं रुजं तथा ६७
- कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः ६८
- विदाहश्वयथुं तोदं प्रस्वेदं गृहगोधिकाः ६९
- दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम् ७०
- कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः ७१
- असाध्यकीटसदृशमसाध्यं मशकक्षतम् ७२
- सद्यः संस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता
- पिडका मक्षिकादंशे तासान्तु स्थगिकाऽसुहृत् ७३
- चतुष्पाद्भिर्द्विपाद्भिर्वा नखैर्दन्तैश्च यत्कृतम्
- शूयते पच्यते तत्तु स्रवति ज्वरयत्यपि ७४
- प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकामं सममूत्रविट्कम्
- प्रसन्नवर्णेन्द्रि यचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ७५
- स्थावरेण विषेणार्त्तं नरं यत्नेन वामयेत्
- वमनेन समं नास्ति यतस्तस्य चिकित्सितम्
- विषमत्यर्थमुष्णञ्च तीक्ष्णं च कथितं यतः
- अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः
- औष्ण्यात्तैक्ष्ण्याद्विशेषेण विषं पित्तं प्रकोपयेत्
- वमितं सेचयेत्तस्माच्छीतलेन जलेन च
- पाययेन्मधुसर्पिर्भ्यां विषघ्नं भेषजं द्रुतम्
- भोक्तुमम्लं रसं दद्याद्घर्षयेन्मरिचानि च ७६
- यस्य यस्य च दोषस्य पश्येल्लिङ्गानि भूरिशः
- तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम् ७७
- शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः
- भोजनार्थं विषार्त्तानामूर्ध्वञ्चाधश्च शोधनम् ७८
- मूलत्वक्पत्रपुष्पाणि बीजं चेति शिरीषतः
- गवां मूत्रेण सम्पिष्टंलेपाद्विषहरं परम् ७९
- दूषीविषार्त्तं सुस्निग्धमूर्ध्वञ्चाधश्च शोधनम्
- पाययेदगदं मुख्यमिदं दूषीविषापहम् ८०
- पिप्पली ध्यामकं मांसी लोध्रमेला सुवर्चिका
- मरिचं बालकञ्चैला तथा कनकगैरिकम्
- क्षौद्र युक्तः कषायोऽय दूषीविषमपोहति ८१
- अभयां रोचनां कुष्ठमर्कपत्रं तथोत्पलम्
- नलवेतसमूलानि गरलं सुरसां तथा ८२
- सकलिङ्गां समञ्जिष्ठामनन्ताञ्च शतावरीम्
- शृङ्गाटकं समङ्गां च पद्मकेशरमित्यपि ८३
- कल्कीकृत्य पचेत्सर्पिः पयो दद्याच्चतुर्गुणम्
- सम्यक्पक्वेऽवतीर्णे च शीते तस्मिन्विनिक्षिपेत् ८४
- सर्पिस्तुल्यं भिषक्क्षौद्रं कृतरक्षं निधापयेत्
- विषाणि हन्ति दुर्गाणि गरदोषकृतानि च ८५
- स्पर्शाद्धन्ति विषं सर्वं गरैरुपहतां त्वचम्
- योगजं तमकं कण्डूं मांसपादं विसंज्ञताम् ८६
- नाशयत्यञ्जनाभ्यङ्गपानबस्तिषु योजितम्
- सर्पकीटाखुलूताऽदिदष्टानां विषहृत्परम् ८७
- धत्तरूस्य शिफा पेया क्षीरेण परिपेषिता
- अङ्कोटवंशजा चापि श्वविषघ्नी प्रयत्नतः ८८
- रजनीयुग्मपत्तङ्ग मञ्जिष्ठानागकेशरैः
- शीताम्बुपिष्टैरालेपः सद्यो लूतां विनाशयेत् ८९
- जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः
- सुखोष्णो मधुना लेपो वृश्चिकस्य विषं हरेत् ९०
- गन्धमाघ्राय मृदितं सूर्यावर्त्तदलस्य तु
- वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्विषः ९१
- इति सप्तषष्टितमो विषाधिकारः समाप्तः ६७
- अथ स्त्रीरोगाणामधिकाराः ६८
- विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च
- यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च १
- तं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकारं प्रदरं वदन्ति २
- असृग्दरं भवेत्सर्वं साङ्गमर्दं सवेदनम् ३
- आमं सपिच्छाप्रतिमं सपाण्डुं पुलाकतोयप्रतिमं कफात्तु ४
- सपीतनीलासितरक्तमुष्णं पित्तार्त्तियुक्तं भृशवेगि पित्तात् ५
- रूक्षारुणं फेनिलमल्पमल्पं वातात्सतोदं पिशितोदकाभम् ६
- सक्षौद्र सर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषम्
- तच्चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषक्चिकित्साम् ७
- तस्यातिवृत्तौ दौर्बल्यं श्रमो मूर्च्छा मदस्तृषा
- दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ८
- शश्वत्स्त्रवन्तीमास्रावं तृष्णादाहज्वरान्विताम्
- दुर्बलां क्षीणरक्ताञ्च तामसाध्यां विवर्जयेत् ९
- मासान्निष्पिच्छदाहार्त्ति पञ्चरात्रानुबन्धि च
- नैवातिबहु नात्यल्पमार्त्तवं शुद्धमादिशेत् १०
- दध्ना सौवर्चलं जाजी मधुकं नीलमुत्पलम्
- पिबेत्क्षौद्र युतं नारी वातासृग्दरशान्तये ११
- मधुकं कर्षमेकं तु कर्षकाञ्च सितां तथा
- तण्डुलोदकसम्पिष्टां लोहित प्रदरे पिबेत्
- बलां कङ्कतिकाऽख्या या तस्या मूलं सुचूर्णितम्
- लोहितप्रदरे खादेच्छर्करामधुसंयुतम्
- शुचिस्थाने व्याघ्रनख्या मूलमुत्तरदिग्भवम्
- नीतमुत्तरफल्गुन्यां कटिबद्धं हरेदसृक् १२
- रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रा न्वितं तण्डुलतोयपीतम्
- असृग्दरं सर्वभवं निहन्ति श्वासञ्च भार्गी सह नागरेण १३
- अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम्
- यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनम् १४
- कुशमूलं समुद्धृत्य पेषयेत्तडुलाम्बुना
- एतत्पीत्वा त्र्! यहं नारी प्रदरात्परिमुच्यते १५
- क्षौद्र युक्तं फलरसमौदुम्बरभवं पिबेत्
- असृग्दरविनाशाय सशर्करपयोऽन्नभुक् १६
- अलाबुफलचूर्णस्य शर्करासहितस्य च
- मधुना मोदकं कृत्वा खादेत्प्रदरशान्तये १७
- दार्वीरसाञ्जनकिरातवृषाब्दबिल्वसक्षौद्र चन्दनदिनेशभवप्रसूनैः
- क्वाथः कृतो मधुयुतो विधिना निपीतो रक्तं सितञ्च सरुजं प्रदरं निहन्ति
- रक्तपित्ताधिकारोक्तं हितं कूष्माण्डखण्डकम् १८
- इत्यष्टषष्टितमः प्रदराधिकारः समाप्तः ६८
- अथैकोनसप्ततितमः सोमरोगाधिकारः ६९
- स्त्रीणामतिप्रसङ्गेन शोकाच्चापि श्रमादपि
- आभिचारिकयोगाद्वा गरयोगात्तथैव च १
- आपः सर्वशरीरस्थाः क्षुभ्यन्ति प्रस्रवन्ति च
- तस्यास्ताः प्रच्युताः स्थानान्मूत्रमार्ग व्रजन्ति हि २
- प्रसन्ना विमलाः शीता निर्गन्धा नीरुजाः सिताः
- स्रवन्ति चातिमात्रं ताः सा न शक्नोति दुर्बला ३
- वेगं धारयितुं तासां न विन्दति सुखं क्वचित्
- शिरः शिथिलता तस्य मुखं तालु च शुष्यति ४
- मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतः
- भक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदा ५
- सन्धारणाच्छरीरस्य ता आपः सोमसंज्ञिताः
- ततः सोमक्षयात्स्त्रीणां सोमरोग इति स्मृताः ६
- कदलीनां फलं पक्वं धात्रीफलरसं मधु
- शर्करासहितं खादेत् सोमधारणमुत्तमम् ७
- माषचूर्णं समधुकं विदारीं मधुशर्कराम्
- पयसा पाययेत्प्रातः सोमधारणमुत्तमम् ८
- स एव सरुजः सोमः स्रवेन्मूत्रेण चेन्मुहुः
- तत्रैलापत्रचूर्णेन पाययेद्वारुणीं सुराम् ९
- जलेनामलकी बीजकल्कं समधुशर्करम्
- पिबेद्दिनत्रयेणैव श्वेतप्रदरनाशनम् १०
- तक्रौदनाहाररता सम्पिबेन्नागकेशरम्
- त्र्! यहं तक्रेण सम्पिष्टं श्वेतप्रदरशान्तये ११
- सोमरोगे चिरं जाते यदा मूत्रमतिस्रवेत्
- मूत्रातिसारं तं प्राहुर्बलविध्वंसनं परम् १२
- इत्यैकोनसप्ततितमः सोमरोगाधिकारः समाप्तः ६९
- अथ सप्ततितमो योनिरोगाधिकारः ७०
- मिथ्याऽहारविहाराभ्यां दुष्टैर्दोषैः प्रदूषिताम्
- आर्त्तवाद्बीजतश्चापि दैवाद्वा स्युर्भगे गदाः १
- उदावर्त्ता तथा वन्ध्या विप्लुता च परिप्लुता
- वातला योनिजो रोगो वातदोषेण पञ्चधा २
- पञ्चधा पित्तदोषेण तत्रादौ लोहितक्षरा
- प्रस्रंसिनी वामनी च पुत्रघ्नी पित्तला तथा ३
- अत्यानन्दा कर्णिनी च चरणानन्दपूर्विका
- अतिपूर्वाऽपि सा ज्ञेया श्लेष्मला च कफादिमाः ४
- षण्ढ्यण्डिनी च महती सूचीवक्त्रा त्रिदोषिणी
- पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः ५
- सफेनिलमुदावर्त्ता रजः कृच्छ्रेण मुञ्चति
- बन्ध्या निरार्त्तवा ज्ञेया विप्लुता नित्यवेदना ६
- परिप्लुतायां भवति ग्राम्यधर्मरुजा भृशम्
- वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
- चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ७
- सदाहं क्षरते रक्तं यस्याः सा लोहितक्षरा
- प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी ८
- सवातमुद्गिरद्बीजं वामनी रजसा युतम्
- स्थितं हि पातयेद्गर्भं पुत्रघ्नी रक्तसंस्रवात् ९
- अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
- चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् १०
- अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण विन्दति
- कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते ११
- मैथुने चरणा पूर्वं पुरुषादतिरिच्यते
- बहुशश्चातिचरणा तयोर्बीजं न तिष्ठति १२
- श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला
- चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् १३
- अनार्त्तवाऽस्तनी षण्ढी खरस्पर्शा च मैथुने
- महामेढ्रगृहीतायाबालायास्त्वण्डिनी भवेत् १४
- विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता १५
- सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा
- चतसृष्वपि चाद्यासु सर्वलिङ्गनिदर्शनम् ६६
- पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः १७
- दिवास्वप्नादतिक्रोधाद् व्यायामादतिमैथुनात्
- क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यथा १८
- पूयशोणितसङ्काशं लकुचाकृतिसन्निभम्
- जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः १९
- रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत्
- दाहरागज्वरयुतं विद्यात्पित्तात्मकं तु तम् २०
- तिलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम्
- सर्वलिङ्गसमायुक्तं सन्निपातात्मकं वदेत् २१
- आर्त्तवादर्शने नारी मत्स्यान्सेवेत नित्यशः
- काञ्जिकं च तिलान्माषानुदश्विच्च तथा दधि २२
- इक्ष्वाकुबीजदन्तीचपलागुडमदनकिण्वयवशूकैः
- सस्नुक्क्षीरैर्वर्त्तिर्योनिगता कुसुमसञ्जननी २३
- पीतं ज्योतिष्मतीपत्रं स्वर्जिकोग्रासनं त्र्! यहम्
- शीतेन पयसा पिष्टं कुसुमं जनयेद् ध्रुवम् २४
- बला सिता सातिबला मधूकं वटस्य शुङ्गं गजकेशरं च
- एतन्मधुक्षीरघृतैर्निपीतं वन्ध्या सुपुत्रं नियतं प्रसूते २५
- अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम्
- ॠतुस्नाताऽङ्गना प्रातः पीत्वा गर्भं दधाति हि २६
- पुष्योद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया
- पिष्टं पीत्वा ॠतुस्नाता गर्भं धत्ते न संशयः २७
- कुरण्टमूलं धातक्याः कुसुमानि वटाङ्कुराः
- नीलोत्पलं पयोयुक्तमेतद् गर्भप्रदं ध्रुवम् २८
- याऽबला पिबति पार्श्वपिप्पलं जीरकेण सहितं हिताशिनी
- श्वेतया विशिखपुङ्खया युतं सा सुतं जनयतीह नान्यथा २९
- पत्रमेकं पलाशस्य पिष्ट्वा दुग्धेन गर्भिणी
- पीत्वा पुत्रमवाप्नोति वीर्यवन्तं न संशयः ३०
- शूकरशिम्बीमूलं मध्यं वा दधिफलस्य सपयस्कम्
- पीत्वाऽथो भवलिङ्गीबीजं कन्यां न सूते स्त्री ३१
- पुत्रकमञ्जरिमूलं विष्णुक्रान्तेशलिङ्गिनी सहिता
- एतद्गर्भेऽष्टदिनं पीत्वा कन्यां न सर्वथा सूते ३२
- पिप्पलिविडङ्गटङ्कणसमचूर्णं या पिबेत्पयसा
- ॠतुसमये न हि तस्या गर्भः सञ्जायते क्वापि ३३
- आरनालपरिपेषितं त्र्! यहं या जपाकुसुममत्ति पुष्पिणी
- सत्पुराणगुडमुष्टिसेविनी सन्दधाति न हि गर्भमङ्गना ३४
- तासु योनिषु चाद्यासु स्नेहादिक्रम इष्यते
- वस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ३५
- नतवार्त्ताकिनी कुष्ठसैन्धवामरदारुभिः
- तिलतैलं पचेन्नारी पिचुमस्य विधारयेत्
- विप्लुतायां सदा योनौ व्यथा तेन प्रशाम्यति ३६
- वातलां कर्कशां स्तब्धामल्पस्पर्शां तथैव च
- कुम्भीस्वेदैरुपचरेदन्तर्वेश्मनि संवृते
- धारयेद्वा पिचुं योनौ तिलतैलस्य सा सदा ३७
- पित्तलानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः
- शीताः पित्तहराः कार्याःस्नेहनार्थं घृतानि च ३८
- प्रस्रसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत्
- पिधाय वेशवारेण ततो बन्धं समाचरेत् ३९
- शुण्ठीमरिचकृष्णा भिर्धान्यकाजाजिदाडिमैः
- पिप्पलीमूलसंयुक्तैर्वेशवारः स्मृतो बुधैः ४०
- धात्रीरसं सितायुक्तं योनिदाहे पिबेत्सदा
- सूर्यकान्ता भवं मूलं पिबेद्वा तण्डुलाम्बुना ४१
- योन्यां तु पूयस्राविण्यां शोधनद्र व्यनिर्मितैः
- सगोमूत्रैः सलवणैः पिण्डैः सम्पूरणं हितम् ४२
- दुर्गन्धां पिच्छिलां वाऽपि चूर्णैः पञ्चकषायजैः
- पूरयेद्धारयेद्रा जवृक्षादिक्वथिताम्बुना ४३
- पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः
- वर्त्तिस्तुल्या प्रदेशिन्या योनौ श्लेष्मविशोधिनी ४४
- कर्णिन्यां वर्त्तयो देयाः शोधनद्र व्यनिर्मिताः ४५
- गुडूची त्रिफलादन्तीक्वथितोदकधारया
- योनिं प्रक्षालयेत्तेन तत्र कण्डूः प्रशाम्यति ४६
- मुद्गयूषं सखदिरं पथ्यां जातीफलं तथा
- निम्बं पूगञ्च सञ्चूर्ण्य वस्त्रपूतं क्षिपेद्भगे ४७
- योनिर्भवति सङ्कीर्णा न स्रवेच्च जलं ततः
- कपिकच्छूभवं मूलं क्वाथयेद्विधिना भिषक्
- योनिः सङ्कीर्णतां याति क्वाथेनानेन धावने ४८
- जीरकद्वितयं कृष्णं सुषवी सुरभिर्वचा
- वासकः सैन्धवश्चापि यवक्षारो यवानिका ४९
- एषां चूर्णं घृते किञ्चिद्भृष्ट्वा खण्डेन मोदकम्
- कृत्वा खादेद्यथावह्नि योनिरोगाद्विमुच्यते ५०
- मूषकक्वाथसंसिद्धतिलतैलकृतः पिचुः
- नाशयेद् योनिरोगांस्तान्धृतो योनौ न संशयः ५१
- त्रिफलां द्वौ सहचरौ गुडूचीं सपुनर्नवाम्
- शुकनासां हरिद्रे द्वे रास्नां मेदां शतावरीम् ५२
- कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरे चतुर्गुणे
- तत्सिद्धं पाययेन्नारी योनिरोगप्रशान्तये ५३
- मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला
- मेदे पयस्याकाकोल्यौ मूलं चैवाश्वगन्धजम् ५४
- अजमोदा हरिद्रे द्वे प्रियङ्गुः कटुरोहिणी
- उत्पलं कुमुदं द्रा क्षा काकोल्यौ चन्दनद्वयम् ५५
- एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्
- शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम् ५६
- सर्पि रेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते
- पुत्राञ्जनयते वीरान्मेधाऽढ्यान्प्रियदर्शनान् ५७
- या चैवास्थिरगर्भा स्यात्पुत्रं वा जनयेन्मृतम्
- अल्पायुषं वा जनयेद्या च कन्यां प्रसूयते ५८
- योनिरोगे रजोदोषे परिस्रावे च शस्यते
- प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम् ५९
- नाम्ना फलघृतं ह्येतदश्विभ्यां परिकीर्त्तितम्
- अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ६०
- जीवद्वत्सैकवर्णाया घृतं तत्र प्रयुज्यते
- आरण्यगोमयेनैव वह्निज्वाला च दीयते ६१
- गैरिकाम्रास्थिजन्तुघ्नरजन्यञ्जनकट्फलाः
- पूरयेद्योनिमेतेषां चूर्णैः क्षौद्र्रसमन्वितैः ६२
- त्रिफलायाः कषायेण सक्षौद्रे ण च सेचयेत्
- प्रमदा योनिकन्देन व्याधिना परिमुच्यते ६३
- तत्र चलितगर्भस्थापने ह्रीवेरादिक्वाथः
- ह्रीवेरातिविषामुस्तमोचशक्रैश्शृतं जलम्
- दद्याद् गर्भे प्रचलिते प्रदरे कुक्षिरुज्यपि ६४
- मधुकं चन्दनो शीरसारिवापद्मपत्रकैः
- शर्करामधुसंयुक्तैः कषायो गर्भिणीज्वरे ६५
- चन्दनं सारिवालोध्रमृद्वीकाशर्कराऽन्वितम्
- क्वाथं कृत्वा प्रदद्याच्च गर्भिणीज्वरशान्तये
- पीतं विश्वमजाक्षीरैर्नाशयेद्विषमज्वरम् ६६
- आम्रजम्बूत्वचः क्वाथैर्लेहयेल्लाजशक्तुकम्
- अनेनालीढमात्रेण गर्भिणी ग्रहणीं जयेत् ६७
- ह्रीबेरारलुरक्तचन्दनबलाधान्याकवत्सादनी
- मुस्तोशीरयवासपर्पटविषाक्वाथं पिबेद् गर्भिणी
- नानाव्याधिरुजाऽतिसारगदके रक्तस्रुतौ वा ज्वरे
- योगोऽय मुनिभिः पुरा निगदितः सूत्यामयेऽप्युत्तमः ६८
- ग्राम्यधर्माध्व गमनयानायासप्रपीडनैः
- ज्वरोपवासोत्पतन प्रहाराजीर्णधावनैः ६९
- वमनाच्च विरेकाच्च कुन्थनाद् गर्भपातनात्
- तीक्ष्णक्षारोष्णकटुकतिक्तरूक्षनिषेवणात् ७०
- वेगाभिघाताद्विषमादासनाच्छयनाद्भयात्
- गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ७१
- आ चतुर्थात्ततो मासात्प्रस्रवेद् गर्भविद्र वः
- ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ७२
- गर्भोऽभिघात विषमासनपीडनाद्यैः
- पक्वं द्रुमादिव फलं पतति क्षणेन ७३
- गुर्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः
- तन्निरोधाय सा दुग्धमुत्पलादिशृतं पिबेत् ७४
- उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा
- श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः ७५
- संशीलितो हरत्येव दाहं तृष्णां हृदामयम्
- रक्तपित्तञ्च मूर्च्छां च तथा छर्दिमरोचकम् ७६
- प्रस्रंसमाने गर्भे स्याद्दाहः शूलञ्च पार्श्वयोः
- पृष्ठरुक्प्रदरानाहौ मूत्रसङ्गश्च जायते ७७
- स्थानात्स्थानान्तरं तस्मिन्प्रयात्यपि च जायते
- आमपक्वाशयादौ तु क्षोभः पूर्वेऽप्युपद्र वाः ७८
- स्निग्धशीतक्रियास्तेषु दाहादिषु समाचरेत्
- कुशकाशोरुबूकाणां मूलैर्गोक्षुरकस्य च ७९
- शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत्परम्
- श्वदंष्ट्रामधुकक्षुद्रा ऽम्लानैः सिद्धं पयः पिबेत्
- शर्करामधुसंयुक्तं गर्भिणीवेदनापहम् ८०
- मृत्कोष्ठागारिकागेहसम्भवा नवमल्लिका
- समङ्गा धातकीपुष्पं गैरिकं च रसाञ्जनम् ८१
- तथा सर्जरसश्चैतान्यथालाभं विचूर्णयेत्
- तच्चूर्णं मधुना लिह्याद् गर्भपातप्रशान्तये ८२
- कशेरूत्पलशृङ्गाटकल्कं वा पयसा पिबेत्
- पक्वं वचारसोनाभ्यां हिङ्गुसौवर्चलान्वितम्
- आनाहे तु पिबेद् दुग्धं गुर्विणी सुखिनी भवेत् ८३
- तृणपञ्चकमूलानां कल्केन विपचेत्पयः
- तत्पयो गर्भिणी पीत्वा मूत्रसङ्गाद्विमुच्यते ८४
- शालीक्षुकुशकाशैः स्याच्छरेण तृणपञ्चकम्
- एषां मूलं तृषादाहपित्तासृङ्मूत्रसङ्गहृत् ८५
- मधुकं शाकबीजं च पयस्या सुरदारु च
- अश्मन्तकस्तिलाः कृष्णस्ताम्रवल्ली शतावरी ८६
- वृक्षादनी पयस्या च प्रियङ्गूत्पलसारिवाः
- अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ८७
- बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम्
- पृश्निपर्णी वचा शिग्रुः श्वदंष्ट्रा मधुपर्णिका ८८
- शृङ्गाटकं विषं द्रा क्षा कशेरु मधुकं सिता
- वत्सैते सप्त योगाः स्युरर्द्धश्लोकसमापनाः ८९
- यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुता
- एवं गर्भो न पतति गर्भशूलञ्च शाम्यति ९०
- कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिकाः
- मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे ९१
- नवमे मधुकानन्तापयस्यासारिवा पिबेत् ९२
- क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम्
- सक्षीरं वा हिता शुण्ठी मधुकं सुरदारु च ९३
- क्षीरिकामुत्पलं दुग्धं समङ्गामूलकं शिवाम्
- पिबेदेकादशे मासि गर्भिणीशूलशान्तये ९४
- सिता विदारी काकोली क्षीरी चैव मृणालिका
- गर्भिणी द्वादशे मासि पिबेच्छूलघ्नमौषधम् ९५
- एवमाप्यायते गर्भस्तीव्रा रूक् चोपशाम्यति ९६
- गर्भो वातेन संशुष्को नोदरं पूरयेद्यदि
- सा बृंहणीयैः संसिद्धं दुग्धं मांसरसं पिबेत् ९७
- शुष्कार्त्तवमजाताङ्गं संशुष्कं मरुताऽदितम्
- त्यक्तं जीवेन तत्तस्मात्कठिनं चावतिष्ठते ९८
- शुक्रार्त्तवार्दको वायुरुदराध्मानकृद् भवेत्
- कदाचिच्चेत्तदाऽध्मानं स्वयमेव प्रशाम्यति ९९
- नैगमेयेन गर्भोऽय हृतो लोकध्वनिस्तदा
- स एवाल्पप्रवृत्त्या चेल्लघुर्भूत्वाऽवतिष्ठते १००
- नवमे दशमे मासि नारी गर्भं प्रसूयते
- एकादशे द्वादशे वा ततोऽन्यत्र विकारतः १०२
- वातेन गर्भसङ्कोचात्प्रसूतिसमयेऽपि या
- गर्भं न जनयेन्नारी तस्याः शृणु चिकित्सितम् १०३
- कुट्टयेन्मुशलेनैषा कृत्वा धान्यमुलूखले
- विषमं चासनं यानं सेवेत प्रसवार्थिनी १०४
- प्रसवस्य विलम्बे तु धूपयेदभितो भगम्
- कृष्णसर्पस्य निर्मोकैस्तथा पिण्डीतकेन वा १०५
- तन्तुना लाङ्गलीमूलं बध्नीयाद्धस्तपादयोः
- सुवर्चलां विशल्यां वा धारयेदाशु सूयते १०६
- करङ्कीभूतगोमूर्द्धा सूतिकाभवनोपरि
- स्थापितस्तत्क्षणान्नार्याः सुखं प्रसवकारकः १०७
- पोतकामूलकल्केन तिलतैलयुतेन च
- योनेरभ्यन्तरं लिप्त्वा सुखं नारी प्रसूयते १०८
- कृष्णा वचा चापि जलेन पिष्टा सैरण्डतैला खलु नाभिलेपात्
- सुखं प्रसूतिं कुरुतेऽङ्गनानां निपीडितानां बहुभिः प्रमादैः १०९
- मातुलुङ्गस्य मूलं तु मधुकेन युतं तथा
- घृतेन सहितं पीत्वा सुखं नारी प्रसूयते ११०
- इक्षोरुत्तरमूलं निजतनुमानेन तन्तुना बद्ध्वा
- कटिविषये गर्भवती सुखेन सूतेऽविलम्बेन १११
- तालस्य चोत्तरं मूलं स्वप्रमाणेन तन्तुना
- बद्ध्वा कट्यान्तु नियतं सुखं नारी प्रसूयते ११२
- मूढः करोति पवनः खलु मूढगर्भशूलञ्च योनिजठरादिषु मूत्रसङ्गम्
- भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम् ११३
- संकीलकः प्रतिखुरः परिघोऽथ बीजस्तेषूर्ध्वबाहुचरणैः शिरसा च योनौ
- सङ्गी च यो भवति कीलकवत्स कीलो
- दृश्यैः खुरैः प्रतिखुरः स हि कायसङ्गी ११४
- द्वारं निरुद्ध्य् शिरसा जठरेण कश्चित् कश्चिच्छरीरपरिवर्त्तितकुब्जकायः
- एकेन कश्चिदपरस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्य
- पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा भवति गर्भगतिः प्रसूतौ ११५
- अपविद्धशिरा या तु शीताङ्गी निरपत्रपा
- नीलोद्गतशिरा हन्ति सा गर्भं स च तां तथा ११६
- गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता
- भवेदुच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशो ११७
- मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः
- गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ११८
- योनिसंवरणं सङ्गः कुक्षौ मक्कल्ल एव च
- हन्युः स्त्रियं मूढगर्भो यथोक्ताश्चाप्युपद्र वाः ११९
- याभिः सङ्कटकालेऽपि बह्व्यो नार्यः प्रसाविताः
- सम्यग्लब्धं यशस्तास्तु नार्यः कुर्युरिमां क्रियाम् १२०
- गर्भे जीवति मूढे तु गर्भं यत्नेन निर्हरेत्
- हस्तेन सर्पिषाऽक्तेन योनेरन्तर्गतेन सा १२१
- मृते तु गर्भे गर्भिण्या योनौ शस्त्रं प्रवेशयेत्
- शस्त्रशास्त्रार्थविदुषी लघुहस्ता भयोज्झिता १२२
- सचेतनं तु शस्त्रेण न कथञ्चन दारयेत्
- स दीर्यमाणो जननीमात्मानं चापि मारयेत् १२३
- नोपेक्षेत मृतं गर्भं मुहूर्त्तमपि पण्डितः
- तदाशु जननीं हन्ति प्रभूतान्नं यथा पशुम् १२४
- यद्यदङ्गं हि गर्भस्य योनौ सक्तं तु तद्भिषक्
- सम्यग्विनिर्हरेच्छित्वा रक्षेन्नारीं प्रयत्नतः १२५
- एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
- ततोऽभ्यक्तशरीरायां योनौ स्नेहं विधारयेत् १२६
- एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति १२७
- तुम्बीपत्रं तथा लोध्रं समभागं सुपेषयेत्
- तेन लेपो भगे कार्यः शीघ्रंस्याद्योनिरक्षता १२८
- पलाशोदुम्बरफलं तिलतैलसमन्वितम्
- योनौ विलिप्तं मधुना गाढीकरणमुत्तमम् १२९
- प्रसूता वनिता वृद्धकुक्षिह्रासाय सम्पिबेत्
- प्रातर्मथितसंमिश्रां त्रिसप्ताहात्कणाजटाम् १३०
- प्रसूताया न पतिता जठरादपरा यदि
- तदा सा कुरुते शूलमाध्मानं वह्निमन्दताम् १३१
- केशवेष्टितयाऽङ्गुल्या तस्याः कण्ठं प्रघर्षयेत्
- निर्मोककटुकाऽलाबू कृतबन्धनसर्षपः
- चूर्णितैः कटुतैलाक्तैर्धूपयेदभितो भगम् १३२
- लाङ्गलीमूलकल्केन पाणिपादतलानि हि १३३
- प्रलिम्पेत्सूतिका योषिदपरापातनाय वै
- हस्तं छिन्ननखं स्निग्धं सूतायोनौ शनैः क्षिपेत् १३४
- अपरां तेन हस्तेन जनयित्री विनिर्हरेत्
- एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
- ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत् १३५
- वनितायाः प्रसूताया वातो रूक्षेण वर्द्धितः
- तीक्ष्णोष्णशोषितं रक्तं रुद्ध्वा ग्रन्थिं करोति हि १३६
- नाभ्यधः पार्श्वयोर्वस्तौ वस्तिमूर्द्धनि चापि वा
- ततश्च नाभौ वस्तौ च भवेच्छूलं तथोदरे १३७
- भवेत्पक्वाशयाध्मानं मूत्रसङ्गश्च जायते
- एतद्भिषग्भिरुदितं मक्कल्लामयलक्षणम् १३८
- सुचूर्णितं यवक्षारं पिबेत्कोष्णेन वारिणा
- सर्पिषा वा पिबेन्नारी मक्कल्लस्य निवृत्तये १३९
- पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
- नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः १४०
- सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
- महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम् १४१
- पिप्पल्यादिर्गणो ह्येष कफमारुतनाशनः
- क्वाथमेषां पिबेन्नारी लवणेन समन्वितम् १४२
- गुल्मशूलज्वरहरं दीपनञ्चामपाचनम्
- मक्कल्लशूलगुल्मघ्नं कफानिलहरं परम् १४३
- त्रिकटुकचातुर्जातककुस्तुम्बुरुचूर्णसंयुक्तम्
- खादेद् गुडं पुराणं नित्यं मक्कल्लदलनाय १४४
- प्रसूता युक्तमाहारं विहारं च समाचरेत्
- व्यायामं मैथुनं क्रोधं शीतसेवाञ्च वर्जयेत् १४५
- मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते
- स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत् १४६
- मिथ्योपचारात्संक्लेशाद्विषमाजीर्णभोजनात्
- सूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते १४७
- अङ्गमर्दो ज्वरः कासः पिपासा गुरुगात्रता
- शोथः शूलातिसारौ च सूतिकारोगलक्षणम् १४८
- ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः
- तन्द्रा ऽरुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः १५९
- कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताः
- ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्र वाः १५०
- सूतिकारोगशान्त्यर्थं कुर्याद्वातहरीं क्रियाम्
- दशमूलकृतं क्वाथं कोष्णं दद्याद् घृतान्वितम् १५१
- अमृतानागरसहचरभद्रो त्कटपञ्चमूलकं जलदम्
- शृतशीतं मधुयुक्तं शमयत्यचिरेण सूतिकाऽतङ्कम् १५२
- देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम्
- भूनिम्बः कट्फलं मुस्तं तिक्ता धान्यहरीतकी १५३
- गजकृष्णा सदुःस्पर्शा गोक्षुरुर्धन्वयासकः
- बृहत्यतिविषा छिन्ना कर्कटः कृष्णजीरकः १५४
- समभागान्वितैरेतैः सिन्धुरामठसंयुतम्
- क्वाथमष्टावशेषं तु प्रसूतां पाययेत् स्त्रियम् १५५
- शूलकासज्वरश्वासमूर्च्छाकम्पशिरोऽत्तिभिः
- युक्तं प्रलापतृड्दाहतन्द्रा ऽतीसारवान्तिभिः १५६
- निहन्ति सूतिकारोगं वातपित्तकफोद्भवम्
- कषायो देवदार्वादिः सूतायाः परमौषधम् १५७
- जीरकं स्थूलजीरश्च शतपुष्पाद्वयं तथा
- यवानी चाजमोदा च धान्यकं मेथिकाऽपि च १५८
- शुण्ठी कृष्णा कणामूलं चित्रकं हपुषाऽपि च
- बदरी गजचूर्णञ्च कुष्ठं कम्पिल्लकं तथा १५९
- एतानि पलमात्राणि गुडं पलशतं मतम्
- क्षीरप्रस्थद्वयं दद्यात्सर्पिषः कुडवं तथा १६०
- पञ्चजीरकपाकोऽय प्रसूतानां प्रशान्तये
- युज्यते सूतिकारोगे योनिरोगे ज्वरे क्षये १६१
- कासे श्वासे पाण्डुरोगे कार्श्ये वातामयेषु च १६२
- आज्यं स्यात्पलयुग्ममत्र पयसः प्रस्थद्वयं खण्डतः
- पञ्चाशत्पलमत्र चूर्णितमथो प्रक्षिप्यते नागरम्
- प्रस्थार्धं गुडवद्विपाच्य विधिना मुष्टित्रयं धान्यका
- न्मिश्याः पञ्चपलं पलं कृमिरिपोः साजाजिजीरादपि १६३
- व्योषाम्भोददलोरगेन्द्र सुमनस्त्वग्द्रा विडीनां पलं
- पक्वं नागरखण्डसंज्ञकमिदं तत्सूतिकारोगहृत्
- तृटछर्दिज्वरदाहशोषशमनं सश्वासकासापहं
- प्लीहव्याधिविनाशनं कृमिहरं मन्दाग्निसन्दीपनम् १६४
- सर्वशः परिशुद्धा स्यात्स्निग्धपथ्याल्पभोजना
- स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता १६५
- सक्षीरौ वाऽप्यदुग्धौ वा दोषः प्राप्य स्तनौ स्त्रियाः
- रक्तं मांसञ्च संदूष्य स्तनरोगाय कल्पते
- धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः
- दोषाविसरणास्तासां न भवन्ति स्तनामयाः १६९
- तासामेव प्रसूतानां गर्भिणीनाञ्च ताः पुनः
- स्वभावादेव विवृता जायन्ते संस्रवन्त्यतः १७०
- पञ्चानामपि तेषां तु हित्वा शोणितविद्र धिम्
- लक्षणानि समानानि ब्राह्यविद्र धिलक्षणैः १७१
- शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्यद्विद्र धावभिहितं बहुधा विधानम्
- आमे विदाहिनि तथैव च तस्य पाके
- यस्याः स्तनौ सततमेव च निग्रहात् तौ १७२
- पित्तघ्नानि तु शीतानि द्र व्याण्यत्र प्रयोजयेत्
- जलौकोभिर्हरेद्र क्तं न स्तनावुपनाहयेत् १७३
- लेपो विशालामूलेन हन्ति पीडां स्तनोत्थिताम्
- निशाकनककल्काभ्यां लेपः प्रोक्तः स्तनार्त्तिहा १७४
- लेपो निहन्ति मूलं वन्ध्याकर्कोटिकाभवं शीघ्रम् १७५
- इति सप्ततितमो योनिरोगाधिकारः समाप्तः ७०
- इति स्त्रीणां रोगाधिकाराः समाप्तः
- अथैकसप्ततितमो बालरोगाधिकारः ७१
- बालग्रहा अनाचारात्पीडयन्ति शिशुं यतः
- तस्मात्तदुपसर्गेभ्यो रक्षेद्बालं प्रयत्नतः १
- स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च
- शकुनी रेवती चैव पूतना चान्धपूतना २
- पूतना शीतपूर्वा च तथैव मुखमण्डिका
- नवमो नैगमेयश्च प्रोक्ता बालग्रहा अमी ३
- नव स्कन्दादयः प्रोक्ता बालानां ये ग्रहा अमी
- श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ४
- एते स्कन्दस्य रक्षाऽथ कृत्तिकोमाऽग्निशूलिभिः
- सृष्टाः शरवणस्थस्य रक्षितस्य स्वतेजसा ५
- स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा
- बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः ६
- स्कन्दापस्मारसंज्ञो यः सोऽग्निना तत्समद्युतिः
- स च स्कन्दसखो नाम्ना विशाख इति चोच्यते ७
- ग्रहाः स्त्रीविग्रहा एते नानारूपाः प्रकीर्त्तिताः
- गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः ८
- नैगमेयस्तु पार्वत्या सृष्टो मेषाननो ग्रहः
- कुमारधारी देवस्य गुहस्यात्मसमोऽस्ति वै ९
- ततो भगवता स्कन्दे सुरसेनापतौ कृते
- उपतस्थुर्ग्रहा एते दीप्तशक्तिधरं गुहम् १०
- ऊचुः प्राञ्जलयश्चैनं वत्तिर्नो दीयतामिति
- तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् ११
- ततो ग्रहांस्तानुवाच भगवान्भगनेत्रहृत्
- तैर्यग्योनिं मानुषं च दैवञ्च त्रितयं जगत् १२
- परस्परोपकारेण वर्त्तते धार्यते तथा
- देवा नरान्प्रीणयन्ति तैर्यग्योनींस्तथैव च १३
- यथाकालं प्रवृत्तैस्तु ऊष्मवर्षहिमानिलैः
- इज्याऽञ्जलिनमस्कारैर्जपहोमैस्तथैव च १४
- सम्यक्प्रयुक्तैश्च नराः प्रीणयन्त्यपि देवताः
- भागधेयविभक्तञ्च शेषं किञ्चिन्न विद्यते १५
- तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति १६
- कुलेषु येषु नेज्यन्ते देवाः पितर एव च
- ब्राह्मणः साधवो वाऽपि गुरवोऽतिथयस्तथा १७
- निवृत्तशौचाचारेषु तथा कुत्सितवृत्तिषु
- निवृत्तभिक्षाबलिषु भग्नकांस्यगृहेषु वा १८
- ते वै बालांश्च तांस्तान् हि ग्रहा हिंसन्त्यशङ्किताः
- तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति १९
- एवं ग्रहाः समुत्पन्ना बालान् हिंसन्ति चाप्यतः
- ग्रहोपसृष्टा बालाः स्युर्दुश्चिकित्स्यतमास्ततः २०
- क्षणादुद्विजते बालः क्षणात् त्रस्यति रोदिति
- नखैर्दन्तैर्दारयति धात्रीमात्मानमेव च २१
- ऊर्ध्वं निरीक्षते दन्तान्खादेत्कूजति जृम्भते
- भ्रुवौ क्षिपति दष्टौष्ठः फेनं वमति चासकृत् २२
- क्षामोऽति निशि जागर्त्ति शूनाङ्गो भिन्नविट्स्वरः
- मत्स्यशोणितगन्धश्च न चाश्नाति यथा पुरा २३
- दुर्बलो मलिनाङ्गश्च नष्टसंज्ञः प्रजायते
- सामान्यग्रहजुष्टस्य लक्षणं समुदाहृतम् २४
- स्रस्ताङ्गः क्षतजसगन्धिकस्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः
- उद्विग्नः ससलिलचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिवर्चाः २५
- निःसंज्ञो भवति पुनर्लभेत संज्ञां संस्तब्धः करचरणैश्च नृत्यतीव
- विण्मूत्रे सृजति चिरेण जृम्भमाणः फेनं वा सृजति च तत्सखाभिजुष्टः २६
- स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः सास्रवव्रणपरिपीडितः समन्तात्
- स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या २७
- रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा मुखकरपाकवेदनाऽत्त
- गृह्णाति व्यथिततनुश्च कर्णनासं रेवत्या भृशमभिपीडितः कुमारः २८
- विट्स्रावी स्वपिति न वासरे न रात्रौ विड्भिन्नं विसृजति काकतुल्यगन्धः
- छर्द्यार्त्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः २९
- योद्वेष्टि स्तनमतिसारकासहिक्काछर्दीभिर्ज्वरसहिताभिरर्द्यमानः
- दुर्वर्णः सततमथापि योऽस्रगन्धिस्तं ब्रूयाद्भिषगथ चान्धपूतनाऽत्तम् ३०
- आक्रन्दत्यभिचकितं सुवेपमानः संलीनो भवति व्यथाऽन्त्रकूजयुक्तः
- स्रस्ताङ्गो भृशमतिशीर्यते च शीतात् तं ब्रूयाद्भिषगथ शीतपूतनाऽत्तम् ३१
- म्लानाङ्गः सरुधिरपाणिपादवक्त्रो बह्वाशी कलुषशिरावृतोदरो यः
- सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरथ वक्त्रमण्डिकाऽत्त ३२
- यः फेनं वमति विनम्यते च मध्ये सोद्वेगो विहसति चोर्ध्वमीक्षमाणः
- कूजेच्च प्रततमथो वसासगन्धिर्निःसंज्ञो भवति स नैगमेयजुष्टः ३३
- सहामुण्डितिकोदीच्यक्वाथस्नानं ग्रहापहम् ३४
- सप्तच्छदामय निशाचन्दनैश्चानुलेपनम्
- सर्पत्वग्लशुनं मूर्वा सर्षपारिष्टपल्लवाः ३५
- विडालविडजालोम मेषशृङ्गी वचा मधु
- धूपः शिशोर्ज्वरघ्नोऽयमशेषग्रहनाशनः
- बालशान्तीष्टकर्माणि कार्याणि ग्रहशान्तये ३६
- वचा कुष्ठं तथा ब्राह्मी सिद्धार्थकमथापिच
- सारिवा सैन्धवं चैव पिप्पली घृतमष्टमम्
- सिद्धं घृतमिदं मेध्यं पिबेत्प्रातर्दिने दिने
- दृढस्मृतिः क्षिप्रमेधाः कुमारो बुद्धिमान्भवेत् ३७
- न पिशाचा न रक्षांसि न भूता न च मातरः
- न भवन्ति कुमाराणां पिबतामष्टमङ्गलम् ३८
- विशिष्टग्रहजुष्टबालकचिकित्सा
- स्कन्दग्रहोपसृष्टस्य कुमारस्य प्रशान्तये
- वातघ्नद्रुमपत्राणां क्वाथेन परिषेचनम् ३९
- देवदारुणि रास्नायां मधुरेषु गणेषु च
- सिद्धं सर्पिश्च सक्षीरं पातुमस्मै प्रदापयेत् ४०
- सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम्
- उष्ट्राजाविगवां चापि रोमाण्युद्धूपनं भवेत् ४१
- सोमवल्लीमिन्द्र वृक्षं वन्दाकं बिल्वजं शमीम्
- मृगादन्याश्च मूलानि ग्रथितानि विधारयेत् ४२
- रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धान् विविधांश्च भक्ष्यान्
- घण्टां च देवाय बलि निवेद्य सकुक्कुटं स्कन्दगृहे हिताय ४३
- स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात्परं शालियवैर्नवैस्तु अं
- गायत्रिपूताभिरथाद्भिरग्निं प्रज्वालयेदाहुतिभिश्च धीमान् ४४
- रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम्
- अहन्यहनि कर्त्तव्या या भिषग्भिरतन्द्रि तैः ४५
- तपसां तेजसां चैव यशसां वपुषां तथा
- निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ४६
- ग्रहः सेनापतिर्देवो देवसेनापतिर्विभुः
- देवसेनारिपुहरः पातु त्वां भगवान्गुहः ४७
- देवदेवस्य महतः पावकस्य च यः सुतः
- गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु ४८
- रक्तमाल्याम्बरधरो रक्तचन्दनभूषितः
- रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ४९
- बिल्वः शिरीषो गोलोमी सुरसाऽदिश्च यो गणः
- परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ५०
- सुरसा श्वेतसुरसा पाठा फज्जी फणिज्जकः
- सौगन्धिकं भूस्तृणको राजिका श्वेतबर्बरी ५१
- कट्फलं खरपुष्पा च कासमर्दश्च शल्लकी
- विडङ्गमथ निर्गुण्डी कर्णिकार उदुम्बरः ५२
- बला च काकमाची च तथा च विषमुष्टिका
- कफकृमिहरः ख्यातः सुरसाऽदिरयं गणः ५३
- अष्टमूत्रविपक्वं च तैलमभ्यञ्जने हितम् ५४
- गोऽजाविमहिषाश्वानां खरोष्ट्रकरिणां तथा
- मूत्राष्टकमिदं ख्यातं सर्वशास्त्रेषु सम्मतम् ५५
- क्षीरवृक्षकषायेण काकोल्यादिगणेन च
- विपक्तव्यं घृतं पश्चाद्दातव्यं पयसा सह ५६
- काकोली क्षीरकाकोली जीवकर्षभकौ तथा
- ॠद्धिर्वृद्धिस्तथा मेदा महामेदा गुडूचिका ५७
- मुद्गपणी माषपर्णी पद्मकं वंशलोचना
- शृङ्गी प्रपौण्डरीकञ्च जीवन्ती मधुयष्टिका ५८
- द्रा क्षा चेति गणो नाम्ना काकोल्यादिरुदीरितः
- स्तन्यकृद् बृंहणो वृष्यः पित्तरक्तमलापहः ५९
- उत्सादनं वचा हिङ्गुयुक्तमत्र प्रकीर्त्तितम्
- गृध्रोलूकपुरीषाणि केशा हस्तिनखो घृतम् ६०
- वृषभस्य च रोमाणि योज्यान्युद्धूपने सदा
- अनन्तां कुक्कुटीं बिम्बीं मर्कटीञ्चापि धारयेत् ६१
- पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः
- मुद्गौदनं निवेद्याथ स्कन्दापस्मारिणे वटे ६२
- चतुष्पथे कारयेच्च स्नानं तेन ततः पठेत् ६३
- स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा
- विशाखः स शिशोरस्य शिवायास्तु शुभाननः ६४
- शकुनिग्रहजुष्टस्य कार्यं वैद्येन जानता
- वेतसाम्रकपित्थानां क्वाथेन परिषेचनम् ६५
- ह्रीवेरमधुकोशीरसारिवोत्पलपद्मकैः
- लोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् ६६
- स्कन्दग्रहोक्ता धूपाश्च हिता अत्र भवन्ति हि
- स्कन्दापस्मारशमनं घृतमत्रापि पूजितम् ६७
- शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाम्
- लक्ष्मणां सहदेवीं च बृहतीं चापि धारयेत् ६८
- तिलतण्डुलकं माल्यं हरितालं मनः शिला
- बलिरेष करञ्जेतु निवेद्यो नियतात्मना ६९
- निकुञ्जे च प्रयोक्तव्यं स्नानमस्य यथाविधि
- श्वेताशिरीषगन्धाश्मधवगुग्गुलुसर्षपैः ७०
- सिद्धमभ्यञ्जने तैलं धारणं पूर्वमेव तु
- शुकुनिग्रहशान्त्यर्थं प्रदेहं कारयेद्धितम् ७१
- कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः
- निकुम्भोक्तेन विधिना स्नापयेत्तं ततः पठेत् ७२
- अन्तरिक्षचरा देवी सर्वालङ्कारभूषिता
- अधोमुखी सूक्ष्मतुण्डा शकुनी ते प्रसीदतु ७३
- दुर्दर्शना महामाया पिङ्गाङ्गी भैरवस्वरा
- लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ७४
- अश्वगन्धाऽजशृङ्गी च सारिवाऽथ पुनर्नवा
- सहा विदारी ह्येतासां क्वाथेन परिषेचनम् ७५
- तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसे तथा
- पलङ्कषायां नलदे तथा गौरकदम्बके ७६
- धवाश्वकर्णककुभशल्लकीतिन्दुकेषु च
- काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबेच्छिशुः ७७
- कुलत्थं शङ्खचूर्णञ्च प्रदेहः साश्वगन्धिकः
- गृध्रोलूकपुरीषाणि यवान् यवफलो घृतम्
- सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः ७८
- शुक्लाः सुमनसो लाजाः पयः शाल्योदनं दधि
- बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ७९
- स्नानं धात्रीकुमाराभ्यां सङ्गमे कारयेद्भिषक्
- नानाशस्त्रधरा देवी चित्रमाल्यानुलेपना ८०
- चॄलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु
- उपासते यां सततं देव्यो विविधभूषणाः ८१
- लम्बा कराला विनता तथैव बहुपुत्रिका
- रेवती शुष्कनासा च तुभ्यं देवी प्रसीदतु ८२
- कपोतवङ्का श्योनाको वरुणः पारिभद्र कः
- आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ८३
- नवा पयस्या गोलोमी हरितालं मनः शिला
- कुष्ठं सर्जरसश्चैव तैलार्थे कल्क इष्यते ८४
- हितं घृतं तुगाक्षीर्या संसिद्धं मधुकेन च
- कुष्ठंतालीसखदिराः स्पन्दनोऽजुन एव च ८५
- पनसः ककुभश्चापि मज्जानो बदरस्य च
- कुंक्कुटास्थि घृतं चापि धूपनं सह सर्षपैः ८६
- काकादनीं चित्रफलां बिम्बीं गुञ्जाञ्च धारयेत् ८७
- मत्स्यौदनं बलि दद्यात्कृशरां पललं तथा
- शरावसम्पुटे कृत्वा तस्य शून्ये गृहे भिषक् ८८
- उत्सृष्टान्नाभिषिक्तस्य शिशोः स्नपनमिष्यते
- कुष्ठतालीसखदिरं चन्दनं स्पन्दनं तथा ८९
- देवदारु वचा हिङ्गु कुष्ठं गिरिकदम्बकम्
- एला हरेणवश्चापि योज्या उद्धूपने सदा ९०
- मलिनाम्बरसंवीता मलिना रूक्षमूर्द्धजा
- शून्यागारस्थिता देवी दारकं पातु पूतना ९१
- तिक्तद्रुमाणां पत्रेषु क्वाथः कार्योऽभिषेचने ९२
- निम्बः पटोलः क्षुद्रा च गुडूची वासकस्तथा
- विसर्पकुष्ठनुत्ख्यातो गणोऽय पञ्चतिक्तकः ९३
- पिप्पली पिप्प्पलीमूलं चित्रको मधुको मधु
- शालिपर्णी बृहत्यौ च घृतार्थं च समाहरेत्
- सर्वगन्धः प्रदेहश्च गात्रे चाक्ष्णोश्च शीतलैः ९४
- पुरीषं कौक्कुटं केशाश्चर्म सर्पभवं तथा
- जीर्णं चाभीक्ष्णशो वासो धूपनायोपकल्पयेत् ९५
- कुक्कुटीं मर्कटीं बिम्बीमनन्तां चापि धारयेत्
- मांसं सामं तथा पक्वं शोणितं च चतुष्पथे ९६
- निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः
- शिशोश्च स्नपनं कुर्यात्सर्वगन्धोदकैः शुभः
- कराला पिङ्गला मुण्डा कषायाम्बरसंवृता
- देवी बालमिमं प्रीता रक्ष त्वं गन्धपूतने ९७
- गोमूत्रं चाश्वमूत्रञ्च मुस्तां चामरदारु च
- कुष्ठञ्च सर्वगन्धांश्च तैलार्थमवधारयेत् ९८
- रोहिणीनिम्बखदिरपलाशककुभत्वचः
- निक्वाथ्य तस्मिन्निक्वाथे सक्षीरे विपचेद् घृतम् ९९
- गृध्रोलूकपुरीषाणि बस्तगन्धामहित्वचम्
- निम्बपत्राणि च तथा धूपनार्थं समाहरेत् १००
- धारयेदपि गुञ्जां च बलां काकादनीं तथा
- नद्यां मुद्गौदनैश्चापि तर्पयेच्छीतपूतनाम् १०१
- जलाशयान्ते बालस्य स्नपनं चोपदिश्यते १०२
- देव्यै देयश्चोपहारो वारुणी रुधिरं तथा
- मुद्गौदनाशिनी देवी सुराशोणितपायिनी
- जलाशयरता नित्यं पातु त्वां शीतपूतना १०३
- कपित्थं बिल्वतर्कारीवासा गन्धर्वहस्तकः
- कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने १०४
- स्वरसैर्भृङ्गवृक्षाणां तथैव हयगन्धया
- तैलं वसां च संयोज्य पचेदभ्यञ्जनं शिशोः १०५
- बचा सर्जरसं कुष्ठं सर्पिश्चोद्धूपने हितम्
- वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा १०६
- मनः शिलां चोपहरेद् गोष्ठमध्ये बलि ततः १०७
- पायसं सपुरोडाशं तद्वल्यर्थमुपाहरेत्
- मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् १०८
- अलङ्कृता कामवती सुभगा कामरूपिणी
- गोष्ठमध्यालया या तु पातु त्वां मुखमण्डिका १०९
- बिल्वाग्निमन्थपूतीकैः कार्यं स्यात्परिषेचितम् ११०
- प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः
- पचेत्तैलं सगोमूत्रं दधिमस्त्वम्लकाञ्जिकैः १११
- वचां वयस्यां जटिलां गोलोमीञ्चापि धारयेत् ११२
- उत्सादनं हितञ्चात्र स्कन्दापस्मारनाशनम्
- मर्कटोलूकगृध्राणां पुरीषाणि प्रधूपनम्
- धूमः सुप्तजने कार्यो बालस्य हितमिच्छता
- तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि
- कौमारभृत्ये मेषाय प्लक्षमूले निवेदयेत् ११३
- अधस्तात्क्षीरवृक्षस्य स्नपनञ्चोपदिश्यते ११४
- अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः
- बालपालयिता देवो नैगमेयोऽभिरक्षतु ११५
- धात्र्! यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा
- दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ११६
- मिथ्याऽहारविहारिण्या दुष्टा वातादयस्त्रयः
- दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ११७
- वातदुष्टं शिशुः स्तन्यं पिबन्वातगदातुरः
- क्षामस्वरः कृशाङ्गः स्याद् बद्धविण्मूत्रमारुतः ११८
- स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान्
- तृष्णालुरुष्णसर्वाङ्गः पित्तदुष्टं पयः पिबन् ११९
- श्लेष्मदुष्टं पिबन्क्षीरं लालालुः श्लेष्मरोगवान्
- निद्रा ऽदितो जडः शूनो रक्ताक्षश्छर्दनः शिशुः १२०
- द्वन्द्वजे द्वन्द्वजं रूपं सर्वजे सर्वलक्षणम् १२१
- ज्वराद्या व्याधयः सर्वे महतां ये पुरेरिताः
- बालानामपि ते तद्वत् बोद्धव्या भिषगुत्तमैः १२२
- बालानामेव ये रोगा भवन्ति महतां न च
- तालुकण्टकमुख्यांस्तानवधारय यत्नतः १२३
- तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम्
- तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते १२४
- तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्र वम्
- तृडक्षिकण्ठास्यरुजा ग्रीवादुर्बलता वमिः १२५
- वीसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः
- पद्मवर्णो महापद्मरोगो दोषत्रयोद्भवः
- शङ्खाभ्यां हृदयं याति हृदयाच्च गुदं व्रजेत् १२६
- कुकूणकं क्षीरदोषाच्छिशूनामेव वर्त्मनि
- जायते सरुजं नेत्रं कण्डूरं प्रस्रवेद् बहु १२७
- शिशुः कुर्याल्ललाटाक्षिकूटनासाप्रघर्षणम्
- शक्तो नार्कप्रभां द्र ष्टुं न चाक्ष्युन्मीलनक्षमः १२८
- वातेनाध्मापिता नाभिः सरुजा तुण्डिरुच्यते
- बालस्य गुदपाकाख्यो ब्याधिः पित्तेन जायते १२९
- शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
- स्विन्ने वास्नाप्यमानस्य कण्डू रक्तकफोद्भवा १३०
- कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते
- एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् १३१
- स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
- कफवातोत्थिता ज्ञेया बालानामजगल्लिका १३२
- मातुः कुमारो गर्भिण्याःस्तन्यं प्रायः पिबन्नपि
- कासाग्निसादवमथुतन्द्रा कार्श्यारुचिभ्रमैः १३३
- युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम्
- रोगं परिभवाख्यं च तत्र युञ्जीत दीपनम् १३४
- दन्तोद्भेदः शिशोः सर्वरोगाणां कारणं स्मृतम्
- विशेषाज्वरविड्भेदकासच्छर्दिशिरोरुजाम् १३५
- अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते १३६
- भैषज्यं पूर्वमुद्दिष्टं महतां यज्ज्वरादिषु
- तदेव कार्यं बालानां किन्तु दाहादिकं विना १३७
- त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते
- अतस्तदेव भैषज्यं मात्रा तत्र कनीयसी १३८
- बालस्य कनीयसी मात्रामाह विश्वामित्रः
- विडङ्गफलमात्रं तु जातमात्रस्य भेषजम्
- अनेनैव प्रमाणेन मासि मासि प्रवर्द्धयेत् १३९
- प्रथमे मासि बालाय देया भैषज्यरक्तिका
- अवलेह्या तु कर्त्तव्या मधुक्षीरसिताघृतैः १४०
- एकैकां वर्द्धयेत्तावद्यावत्संवत्सरो भवेत्
- तदूर्ध्वं माषवृद्धिः स्याद्यावत्षोडश वत्सराः १४१
- ततः स्थिरा भवेत्तावद्यावद्वर्षाणि सप्ततिः
- ततो बालकवन्मात्रा ह्रासनीया शनैः शनैः १४२
- चूर्णकल्कावलेहानामियं मात्रा प्रकीर्त्तिता
- कषायस्य पुनः सैव विज्ञातव्या चतुर्गुणा १४३
- क्षीरपस्य शिशोर्देयमौषधं क्षीरसर्पिषा
- धात्र्! यास्तु केवलं देयं न क्षीरेणापि सर्पिषा १४४
- येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः
- तेषु तत्कल्पसंलिप्तौ पाययेत्तं शिशुं स्तनौ १४५
- अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते
- मुहुर्मुहुः स्पृशति तं स्पृश्यमानेन रोदिति १४६
- निमीलिताक्षो मूर्द्धस्थे रोगे नो धारयेच्छिरः
- वस्तिस्थे मूत्रसङ्गार्त्तः क्षुधा तृडपि गच्छति १४७
- विण्मूत्रसङ्गवैकल्याच्छर्द्याध्मानान्त्रकूजनैः
- कोष्ठे व्याधीन्विजानीयात्सर्वत्रस्थांश्च रोदनैः १४८
- सर्वं निवार्यते बाले स्तन्यं नैव निवार्यते
- मात्रया लङ्घयेद्धात्रीं शिशोरेतद्धि लङ्घनम् १४९
- भद्र मुस्ताऽभयानिम्बपटोलमधुकैः कृतः
- क्वाथः कोष्णः शिशोरेष निःशेषज्वरनाशनः १५०
- वनकृष्णाऽरुणाशृङ्गीचूर्णं क्षौद्रे ण संयुतम्
- शिशोर्ज्वरातिसारघ्नं कासं श्वासं वमिं हरेत् १५१
- बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पलद्यं च
- क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु
- समङ्गाधातकीलोध्रसारिवाभिः शृतं जलम्
- दुर्धरेऽपि शिशोर्देयमतीसारे समाक्षिकम् १५३
- विडङ्गान्यजमोदा च पिप्पलीतण्डुलानि च
- एषामालोड्य चूर्णानि सुखं तप्तेन वारिणा
- आमे प्रवृत्तेऽतीसारे कुमारं पाययेद्भिषक् १५४
- मोचारसः समङ्गा च धातकी पद्मकेशरम्
- पिष्टैरेतैर्यवागूः स्याद्र क्तातीसारनाशिनी १५५
- नागरातिविषामुस्तबालकेन्द्र यवैः शृतम्
- कुमारं पाययेत्प्रातः सर्वातीसारनाशनम् १५६
- लाजा सयष्टी मधुका शर्करा क्षौद्र मेव च
- तण्डुलोदकयोगेन क्षिप्रं हन्ति प्रवाहिकाम् १५७
- रजनी सरलो दारु बृहती गजपिप्पली
- पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा १५८
- दीपनं ग्रहणी हन्ति मारुतार्त्तिं सकामलाम्
- ज्वरातीसारपाण्डघ्नुं बालानां सर्वरोगनुत् १५९
- मुस्तकातिविषावासाकणाशृङ्गीरसं लिहेत्
- मधुना मुच्यते बालः कासैः पञ्चभिरुत्थितैः १६०
- व्याघ्रीसुमनसं जातीकेशरैरवलेहिका
- मधुना चिरसञ्जाताञ्छिशोः कासान्व्यपोहति १६१
- धान्यं च शर्करायुक्तं तण्डुलोदकसंयुतम्
- पानमेतत्प्रदातव्यं कासश्वासापहं शिशोः १६२
- द्रा क्षावासाऽभयाकृष्णाचूर्णं क्षौद्रे ण सर्पिषा
- लीढं श्वासं निहन्त्याशु कासञ्च तमकं तथा १६३
- चूर्णं कटुकरोहिण्या मधुनासह योजयेत्
- हिक्कां प्रशमयेत्क्षिप्रं छर्दिं चापि चिरोत्थिताम् १६४
- आम्रास्थिलाजसिन्धूत्थं सक्षौद्रं छर्दिनुद्भवेत् १६५
- छर्द्यां पीतं तु मेध्यन्तु स्तन्येन मधुसर्पिषा
- द्विवार्त्ताकीफलरसं पञ्चकोलञ्च लेहयेत् १६६
- पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् १६७
- घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजो लिहन्
- आनाहं वातिकं शूलं हन्यात्तोयेन वा शिशुः १६८
- कणोषणासिताक्षौद्र सूक्ष्मैलासैन्धवैः कृतः
- मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः १६९
- यदा तु दुर्बलो बालः खादन्नपि च वह्निमान्
- विदारीकन्दगोधूमयवचूर्णं घृतप्लुतम्
- खादयेत्तदनु क्षीरं शृतं समधुशर्करम् १७०
- मुस्तं कूष्माण्डबीजानि भद्र दारुकलिङ्गकान्
- पिष्ट्वा तोयेन संलिप्तं लेपोऽय शोथहृच्छिशोः १७१
- पटोलत्रिफलाऽरिष्टहरिद्रा क्वथितं पिबेत्
- क्षतवीसर्पविस्फोटज्वराणां शान्तये शिशुः १७२
- सारिवातिललोध्राणां कषायो मधुकस्य च
- संस्राविणि मुखे शस्तो धावनार्थं शिशोः सदा १७३
- अश्वत्थत्वग्दलक्षौद्रै र्मुखपाके प्रलेपनम् १७४
- पिप्पलीत्रिफलाचूर्णं घृतक्षौद्र परिप्लुतम्
- बालो रोदिति यस्तस्मै लीढं दद्यात्सुखावहम् १७५
- हरीतकी वचा कुष्ठं कल्कं माक्षिकसंयुतम्
- पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् १७६
- फलत्रिकं लोध्रपुनर्नवे च सशृङ्गबेरं बृहतीद्वयं च
- आलेपनं श्लेष्महरं सुखोष्णं कुकूणके कार्यमुदाहरन्ति १७७
- मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा
- स्वेदयेदुत्थितां नाभिं शोथस्तेनोपशाम्यति १७८
- नाभिपाके निशालोध्रप्रियंगुमधुकैः शृतम्
- तैलमभ्यञ्जने शस्तमेभिश्चाप्यवधूलनम् १७९
- दग्धेन छागशकृता नाभिपाकेऽवचूर्णनम्
- त्वक्चूर्णैः क्षीरिणा वाऽपि कुर्याच्चन्दनरेणुना १८०
- गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्
- रसाञ्जनं विशेषेण पानालेपनयोर्हितम्
- शङ्खयष्ट्यञ्जनैश्चूर्णं शिशूनां गुदपाकनुत् १८१
- शङ्खसौवीरयष्ट्याह्वैर्लेपो देयोऽहिपूतने १८२
- पारिगर्भिकरोगे तु युज्यते वह्निदीपनम् १८३
- दन्तपालद्यं तु मधुना चूर्णेन प्रतिसारयेत्
- धातकीपुष्पपिप्पल्योर्धात्रीफलरसेन वा १८४
- दन्तोत्थानभवा रोगाः पीडयन्ति न बालकम्
- जाते दन्ते हि शाम्यन्ति यतस्तद्धेतुका गदाः १८५
- सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा
- मत्स्याक्षकं शङ्खपुष्पी मधु सर्पिः सकाञ्चनम्
- अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा
- सहेमचूर्णं कैटर्यं श्वेता दूर्वा घृतं मधु १८६
- चत्वारोऽभिहिताः प्राशा अर्द्धश्लोकसमापनाः
- कुमाराणां वपुर्मेधाबलपुष्टिकराः स्मृताः १८७
- लाक्षारसे समे तैलं मस्तुन्यथ चतुर्गुणे
- रास्नाचन्दनकुष्टाह्वावाजिगन्धानिशायुतैः १८८
- शताह्वादारुयष्ट्याह्व मूर्वातिक्ताहरेणुभिः
- संसिद्धं ज्वररक्षोघ्नं बलवर्णकरं शिशोः १८९
- बालरोगाधिकारः समाप्तः
- समाप्तञ्चेदं मध्यखण्डम्