भावप्रकाशसंहिता/उत्तरखण्डः/वाजीकरणाधिकारः

भावप्रकाशसंहिता/उत्तरखण्डः
वाजीकरणाधिकारः
श्रीभावमिश्रः
रसायनाधिकारः  →


अथ चिकित्साप्रकरणे उत्तरखण्डम्
अथ द्विसप्ततितमो वाजीकरणाधिकारः ७२
यद् द्र व्यं पुरुषं कुर्याद्वाजीव सुरतक्षमम्
तद्वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः १
क्लीबः स्यात्सुरताशक्तस्तद्भावः क्लैब्यमुच्यते
तच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यते २
तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते
ध्वजः पतत्यतो नॄणां क्लैब्यं समुपजायते
द्वेष्यस्त्रीसम्प्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम् ३
कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः
पित्ताच्छुक्रक्षयो दृष्टः क्लैब्यं तस्मात्प्रजायते ४
अतिव्यवायशीलो यो न च वाजीक्रियारतः
ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम् ५
महता मेढ्ररोगेण चतुर्थी क्लीबता भवेत्
वीर्यवाहिशिराच्छेदान्मेहनानुन्नतिर्भवेत् ६
बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः
षष्ठं क्लैब्यं स्मृतं तत्तु शुक्रस्तम्भनिमित्तकम् ७
जन्मप्रभृति यत्क्लैब्यं सहजं तद्धि सप्तमम् ८
असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत् ९
क्लैब्यानामिह साध्यानां कार्यो हेतुविपर्ययः
मुख्यं चिकित्सितं यस्मान्निदानपरिवर्जनम् १०
नरो वाजीकरान्योगान्सम्यक्छुद्धो निरामयः
सप्तत्यन्तं प्रकुर्वीत वर्षादूर्ध्वं तु षोडशात् ११
न च वै षोडाशादर्वाक्सप्तत्याः परतो न च
आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति १२
क्षयवृद्ध्युपदंशाद्या रोगाश्चातीव दुर्जयाः
अकालमरणञ्च स्याद्भजतः स्त्रियमन्यथा १३
विलासिनामर्थवतां रुपयौवनशालिनाम्
नराणां बहुभार्याणां विधिर्वाजीकरो हितः १४
स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम्
योषित्प्रसङ्गात्क्षीणानां क्लीबानामल्परेतसाम् १५
हिता वाजीकरा योगाः प्रीणयन्ति बलप्रदाः
एतेऽपि पुष्टदेहानां सेव्याः कालाद्यपेक्षया १६
भोजनानि विचित्राणि पानानि विविधानि च
गीतं श्रोत्राभिरामाश्च वाचः स्पर्शसुखस्तथा १७
यामिनी चन्द्र तिलका कामिनी नवयौवना
गीतं श्रोत्रमनोज्ञञ्च ताम्बूलं मदिरा स्रजः १८
गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च
मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम् १९
माक्षीकधातुमधुपारदलोहचूर्णपथ्याशिलाजतुविडङ्गघृतानि लिह्यात्
एकाग्रविंशतिदिनानि गदार्दितोऽपि साशीतिकोऽपि रमयेत्प्रमदां युवेव २०
सत्वं गुडूच्या गगनं सलोध्रमेलासितामागधिकासमेतम्
एतत्समेतं मधुनाऽवलीढं रामाशतं सेवयतीव षण्ढः २१
गवां विरूढवत्सानां सिद्धं पयसि पायसम्
गोधूमचूर्णञ्च तथा सितामधुघृतान्वितम्
भुक्त्वा हृष्यति जीर्णोऽपि दश दारान्व्रजत्यपि २२
दध्नोऽद्धाढकमीषदम्लमधुरं खण्डस्य चन्द्र द्युतेः
प्रस्थं क्षौद्र पलं पलञ्च हविषः शुण्ठ्याश्च माषाष्टकम्
तद्वन्माषचतुष्टयं मरिचतः कर्षं लवङ्गं तथा
धृत्वा शुक्लपटे शनैः करतलेनोत्थाप्य विस्रावयेत् २३
मृद्भाण्डे मृगनाभिचन्दनरसामृष्टेऽगुरूद्धूपिते
कर्पू रेण सुगन्धितं तदखिलं संलोड्य संस्थापयेत्
स्वस्यार्थं मकरेश्वरेण रचिता ह्येषा रसाला स्वयं
भोक्तुर्मन्मथदीपनी सुखकरी कान्तेव नित्यं प्रिया २४
रतिवर्द्धनयोगाः
गोक्षुरेक्षुरबीजानि वाजिगन्धा शतावरी
मुशली वानरीबीजं यष्टी नागबला बला २५
एषां चूर्णं दुग्धसिद्धं गव्येनाज्येन भर्जितम्
सितया मोदकं कृत्वा भक्ष्यं वाजीकरं परम् २६
चूर्णादष्टगुणं क्षीरं घृतं चूर्णसमं स्मृतम्
सर्वतो द्विगुणं खण्डं खादेदग्निबलं यथा २७
वाजीकराणि भूरीणि संगृह्य रचितो यतः
तस्माद्बहुषु योगेषु योगोऽय प्रवरो मतः २८
चत्वारो व्योमभागास्तदनु निगदितं भागयुग्मञ्च बङ्गं
भागैकं शम्भुबीजं त्रितयमपि मृतं तत्समा सिद्धमूली
चातुर्जातं सजातीफलमरिचकणा नागरं देवपुष्पं
जातीपत्रञ्च भागद्वितयमपि पृथक्सर्वमेकत्र चूर्ण्यम् २९
सर्वद्व्यंशा सिता स्याद् घृतमधुसहितं मोदकीकृत्य चैतत्
खादेदग्निं समीक्ष्य प्रसभमभिनवानन्दसम्वर्द्धनाय
योगो वाजीकराख्योऽयमिह निगदितो भैरवानन्दनाम्ना
निःशेषव्याधिहन्ता दलितबहुवधूद्दामकन्दर्पदर्पः ३०
पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते
कच्छपस्याथवा खादेत्तत्तु वाजीकरं भृशम् ३१
पूगं दक्षिणदेशजं दशपलोन्मानं भृशं कर्त्तये
त्तत्स्विन्नं जलयोगतो मृदुतरं सङ्कुट्य चूर्णीकृतम्
तच्चूर्णं पटशोधितं वसुगुणे गोशुद्धदुग्धे पचेद्
द्र व्याज्याञ्जलिसंयुतेऽतिनिबिडे दद्यात्तुलार्द्धां सिताम् ३२
पक्वं तज्ज्वलनात्क्षितिं प्रति नयेत्तस्मिन्पुनः प्रक्षिपेद्
यद्यत्तत्तदुदाहरामि बहुला दृष्ट्वाऽदरात्संहिताः
एला नागबला बला सचपला जातीफला लिङ्गका
जातीपत्रसुपत्रपत्रकयुतं तच्च त्वचा संयुतम् ३३
विश्वावीरणवारिवारिदवरा वांशी वरी वानरी
द्रा क्षा सेक्षुरगोक्षुराऽथ महती खर्जूरिका क्षीरिका
धान्याकं सकशेरुकं समधुकं शृङ्गाटकं जीरकं
पृथ्वीकाऽथ यवानिका वरटिका मांसी मिसी मेथिका ३४
कन्देष्वत्र विदारिकाऽथ मुशली गन्धर्वगन्धा तथा
कर्चूरं करिकेशरं समरिचं चारस्य बीजं नवम्
बीजं शाल्मलिसम्भवं करिकणाबीजञ्च राजीवजं
श्वेतं चन्दनमत्र रक्तमपि च श्रीसंज्ञपुष्पैः समम् ३५
सर्वञ्चेति पृथक्पृथक् पलमितं सञ्चूर्ण्य तत्र क्षिपेत्
सूतं बङ्गभुजङ्गलोहगगनं सम्मारितं स्वेच्छया
कस्तूरीघनसारचूर्णमपि च प्राप्तं यथा प्रक्षिपेत्
पश्चादस्य तु मोदकान्विरचयेद् बिल्वप्रमाणानथ ३६
तान्भुक्त्वाऽति सदा यथाऽनलबलं भुञ्जीत नाम्लं रसं
पूर्वस्मिन्नशिते गते परिणतिं प्राग्भोजनाद्भक्षयेत्
नित्यं स्त्रीरतिवल्लभाख्यकमिमं पूगस्य पाकं भजेत्
स स्याद्वीर्यविवृद्धिवृद्धमदनो वाजीव शक्तो रतौ ३७
दीप्ताग्निर्बलवान्वलीविरहितो हृष्टः स पुष्टः सदा
वृद्धो योऽपि युवेव सोऽपि रुचिरः पूर्णेन्दुवत्सुन्दरः ३८
एतस्मिन् रतिवल्लभे यदि पुनः सम्यक्खुराशाणिका
धत्तूरस्य च बीजमर्ककरभः पोथोऽब्धिशोषस्तथा
सन्माजूफलकं तथा खसफलत्वक्कार्षिकान् निक्षिपे
च्चूर्णार्द्धा विजया तदा स हि भवेत्कामेश्वरो मोदकः ३९
रक्तपित्ताधिकारोक्तः खण्डकूष्माण्डको महान्
रक्तपित्तादिरोगघ्नो महावाजीकरः स्मृतः ४०
पक्वाम्रस्य रसद्रो णे सितामाढकसम्मिताम्
घृतं प्रस्थमितं दद्यान्नागरस्य पलाष्टकम् ४१
मरिचं कुडवोन्मानं पिप्पली द्विपलोन्मिता
सलिलस्याढकं दत्वा सर्वमेकत्र कारयेत् ४२
विपचेन्मृण्मये पात्रे दारुदर्व्या प्रचालयेत्
चूर्णान्येषां क्षिपेत्तत्र घनीभूतेऽवतारिते ४३
धान्यकं जीरकं पथ्यां चित्रकं मुस्तकं त्वचम्
बृहज्जीरकमप्यत्र ग्रन्थिकं नागकेशरम् ४४
एलाबीजं लवङ्गञ्च पृथग्जाती पलम्पलम्
सिद्धं शीते प्रदद्याच्च मधुनः कुडवद्वयम् ४५
भक्षयेद्भोजनादर्वाक्पलमात्रमिदं नरः
अथवा नियता नात्र मात्रां खादेद्यथाऽनलम् ४६
मानवः सेवनादस्य वाजीव सुरते भवेत्
समर्थो बलवान्पुष्टो नित्यं स स्यान्निरामयः ४७
ग्रहणीं नाशयेदेष क्षयं श्वासमरोचकम्
अम्लपित्तं महाश्वासं रक्तपित्तञ्च पाण्डुताम् ४८
शमयति गोक्षुर चूर्णं छाग क्षीरेण साधितं समधु
भुक्तं क्षपयति षण्ढ्यं यज्जनितं कुप्रयोगेण ४९
द्र व्याणि चन्दनादेस्तु चन्दनं रक्तचन्दनम्
पत्तङ्गमथ कालीयागुरुकृष्णागुरूणि च ५०
देवद्रुमः ससरलः पद्मकं तूणिकोऽपि च
कर्पूरो मृगनाभिश्च लता कस्तूरिकाऽपि च ५१
सिह्लिकः कुङ्कमं नव्यं जातीफलकमेव च
जातीपत्रं लवङ्गञ्च सूक्ष्मैला महती च सा ५२
कङ्कोलफलकं त्वक्च पत्रकं नागकेशरम्
बालकञ्च तथोशीरं मांसी दारुसिताऽपि वा ५३
मुरा कर्पूरकश्चापि शैलेयं भद्र मुस्तकम्
रेणुका च प्रियङ्गुश्च श्रीवासो गुग्गुलुस्तथा ५४
लाक्षा नखश्च रालश्च धातकीकुसुमं तथा
ग्रन्थिपर्णञ्च मञ्जिष्ठा तगरं सिक्थकं तथा ५५
एतानि शाणमानानि कल्कीकृत्य शनैः पचेत्
तैलं प्रस्थमितं सम्यगेतत्पात्रे शुभे क्षिपेत् ५६
अनेनाभ्यक्तगात्रस्तु वृद्धोऽशीतिसमोऽपि सः
युवा भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः ५७
वन्ध्याऽपि लभते गर्भं वृद्धोऽपि तरुणायते
अपुत्रः पुत्रमाप्नोति जीवेच्च शरदां शतम् ५८
चन्दनादि महातैलं रक्तपित्तं क्षयं ज्वरम्
दाहं प्रस्वेददौर्गन्ध्यं कुष्ठं कण्डूं विनाशयेत् ५९
दशमूलं कणा वह्निः कपित्थञ्च विभीतकम्
कट्फलं मरिचं विश्वमूलं पिप्पलिसैन्धवम् ६०
रक्तरोहीतकं दन्ती द्रा क्षाजाजिनिशाद्बयम्
धात्रीजन्तुघ्नशिखरि शृङ्गीदारुपुनर्नवाः ६१
धान्याकं देवकुसुमं राजवृक्षस्त्रिकण्टकम्
वृद्धदारुकुबेराक्ष्यौ मूलं वीरणिकाभवम् ६२
एतेषां पलयुग्मन्तु भेषजानां पृथक्पृथक्
आढकञ्चापि पथ्यायास्तोये पञ्चाढके पचेत् ६३
स्विन्ना पथ्या भवेद्यावत्पश्चान्मधु विनिक्षिपेत्
गुरूपदेशाद्विधिवत्त्रिदिनञ्च ततः परम् ६४
पुनः क्षिपेत्पञ्चदिनं तथा च दशवासरम्
संसिद्धा चाभया पश्चाद् घृतभाण्डे निधापयेत् ६५
विमले सुदृढे क्षौद्र परिपूर्णेप्रयत्नतः
पश्चात्पूर्वोक्तकाण्डे तु क्षिपेद् बुद्धिपरायणः ६६
एषा हरीतकी चैव धन्वन्तरि कृता शुभा
भक्षयेद्यो नरो नित्यं रोगा नश्यन्ति सर्वशः ६७
श्वासं कासं क्षयं पाण्डु हिक्का छर्दिमदभ्रमान्
मुखरोगं तथा तृष्णामरुचिं वह्निमन्दताम् ६८
यकृत्प्लीहोदरञ्चैव वातरक्तं सुदारुणम्
शिरोऽक्षिकर्णजां पीडां तथा बद्धगुदोदरम् ६९
ग्रहणीं दुर्विकाराञ्च शेषं दोषत्रयोद्भवम्
मधुपक्वेति विख्याता हन्ति रोगाननेकशः ७०
बीजानि तु कपिकच्छ्वाः कुडवमितानि च स्वेदयेच्छनकैः
प्रस्थे गोभवदुग्धे तावद् यावद् भवेद् गाढम् ७१
त्वग्रहितानि च कृत्वा सूक्ष्मं सम्पेषयेत्तानि
पिष्टिकया लघुवटिकाः कृत्वा गव्ये पचेदाज्ये ६२
द्विगुणितशर्करया ता वटिकाः सम्पक्वया लेप्याः
वटिका माक्षिकमध्ये मज्जनयोग्येऽखिलाः स्थाप्याः ७३
पञ्चटङ्कमितास्तास्तु प्रातः सायञ्च भक्षयेत्
अनेन शीघ्रद्रा वी यो यश्च स्यात्पतितध्वजः ७४
सोऽपि प्रात्नोति सुरते सामर्थ्यमति वाजिवत्
नानेन सदृशं किञ्चिद् द्र व्यं वाजीकरं परम् ७५
आकारकरभः शुण्ठी लवङ्गं कुङ्कुमं कणा
जातीफलं जातिपुष्पं चन्दनं कार्षिकं पृथक् ७६
चूर्णयेदहिफेनन्तु तत्र दद्यात्पलोन्मितम्
सर्वमेकीकृतं माषमात्रं क्षौद्रे ण भक्षयेत् ७७
शुक्रस्तम्भकरं पुंसामिदमानन्दकारकम्
नारीणां प्रीतिजननं सेवेत निशि कामुकः ७८
इति द्विसप्ततितमो वाजीकरणाधिकारः समाप्तः ७२