भावप्रकाशसंहिता/मध्यखण्डः/तृतीयःभागः/गुल्माधिकारः

← उदावर्त्तानाहाधिकारः भावप्रकाशसंहिता/मध्यखण्डः/तृतीयःभागः
गुल्माधिकारः
श्रीभावमिश्रः
प्लीहयकृदधिकारः  →


अथ द्वात्रिंशो गुल्माधिकारः ३२
दुष्टा वातादयोऽत्यर्थ मिथ्याहारविहारतः
कुर्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम् १
पञ्चविधत्वं विवृणोति
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः
पुरुषाणां तथा स्त्रीणां रक्तजश्चोपजायते २
आर्त्तवादपिगुल्मः स्यात्स तुं स्त्रीणां प्रजायते
अन्यस्त्वसृग्भवः पुंसां तथा स्त्रीणां प्रजायते ३
तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिवस्तयः ४
हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः
वृत्तश्चयोपचयवान्स गुल्म इति कीर्त्तितः ५
उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि
आटोपमाध्मानमपक्तिशूलमासन्नगुल्मस्य वदन्ति चिह्नम् ६
अरुचिं कृच्छ्रविण्मूत्रवातत्वं चान्त्रकूजनम्
आनाहं चोर्ध्ववातञ्च सर्वगुल्मेषु लक्षयेत् ७
रुक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च
शोकाभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः ८
यः स्थानसंस्थानरुजाविकल्पं विड्वातसङ्गं गलवक्त्रशोषम्
श्यावारुणत्वं शिशिरज्वरञ्च हृत्कुक्षिपार्श्वाङ्गशिरोरुजञ्च ९
करोति जीर्णेऽत्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च
वातात्स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते १०
कट्वम्लतीक्ष्णेष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा
आमोऽभिघातो रुधिरञ्च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् ११
ज्वरः पिपासा सदनाङ्गरागौ शूलं महज्जीर्यति भोजने च
स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् १२
शीतं गुरु स्निग्धमचेष्टनञ्च सम्पूरण प्रस्वपनं दिवा च
गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दुष्टो निचयात्मकस्य १३
स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि
कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफकोपजाते १४
व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनाऽथम् १५
महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्
मनः शरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् १६
नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् १७
पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणञ्चाप्यपरं निबोध
यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात्सशूलः समगर्भलिङ्गः
स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः १८
सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः
कृतमूलः शिरानद्धोयदा कूर्म इवोन्नतः १९
दौर्बल्यारुचिहृल्लासकासच्छर्द्यरतिज्वरैः
तृष्णातन्द्रा प्रतिश्यायैर्युज्यते न स सिध्यति २०
गृहीत्वा सज्वरश्वासं छर्द्यतीसारपीडितम्
हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् २१
श्वासः शूलं पिपासाऽन्नविद्वेषो ग्रन्थिमूढता
जायते दुर्बलत्वञ्च गुल्मिनो मरणाय वै २२
वातारितैलेन पयोयुतेन पथ्यासमेतेन विरेचनं हि
संस्वेदनं स्निग्धमतिप्रशस्तं प्रभञ्जनक्रोधकृते च गुल्मे २३
स्वर्जिकाकुष्ठसहितः क्षारः केतकसम्भवः
पीतस्तैलेन शमयेद् गुल्मं पवनसम्भवम् २४
तित्तिरांश्च मयूरांश्च कुक्कुटान्क्रौञ्चवर्त्तकान्
सर्पिः शालि प्रसन्नाञ्च वातगुल्मे प्रयोजयेत् २५
पित्तगुल्मे त्रिवृच्चूर्णं पातव्यं त्रिफलाम्बुना
विरेकाय सितायुक्तं कम्पिल्लं वा समाक्षिकम् २६
अभयां द्रा क्षया खादेत्पित्तगुल्मी गुडेन वा
योगैश्च वातगुल्मोक्तैः श्लेष्मगुल्ममुपाचरेत् २७
हिङ्गुग्रन्थिकधान्यजीरकवचाचव्याग्निपाठाशटी
वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम्
पथ्यापौष्करवेतसाम्लहपुषाऽजाज्यस्तदेभिः कृतं
चूर्णं भावितमेतदार्द्र करसैः स्याद्बीजपूरद्र वैः
गुल्माध्मानगुदाङ्कुरान्ग्रहणिकोदावर्त्तसंज्ञंगदं प्रत्याध्मानगरोदराश्मरियुतांस्तूनीद्वयारोचकान् २८
ऊरुस्तंभमतिभ्रमं च मनसो बाधिर्यमष्ठीलिकां
प्रत्यष्ठीलकया सहापहरते प्राक्पीतमुष्णाम्बुना २९
हृत्कुक्षिवङ्क्षणकटीजठरान्तरेषु वस्तिस्तनांसफलकेषु च पार्श्वयोश्च
शूलानि नाशयति वातबलासजानि हिङ्ग्वाद्यमाद्यमिदमाश्विनसंहितोक्तम् ३०
धीमानुपाचरेद् गुल्मं प्रत्याख्याय त्रिदोषजम्
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः ३१
शरपुङ्खस्य लवणं पथ्याचूर्णं समं द्वयम्
शाणप्रमाणमश्नीयाच्चूर्णं गुल्मगदापहम् ३२
स्वर्जिका शाणमाना स्यात्तावदेव गुडं भवेत्
उभयोर्वटिकां खादेद् गुल्ममायविनाशिनीम् ३३
पलाशवज्रीशिखरिचिञ्चाऽकतिलनालजाः
यवजः स्वर्जिका चेति क्षारा ह्यष्टौ प्रकीर्त्तिताः
एते गुल्महराः क्षारा अजीर्णस्य च पाचकाः ३४
सामुद्रं सैन्धवं काचंयवक्षारं सुवर्चलम्
टङ्कणं स्वर्जिकाक्षारतुल्यं चूर्णं प्रकल्पयेत् ३५
वज्रीक्षीरैरविक्षीरैरातपे भावयेत् त्र्यहम्
वेष्टयेदर्कपत्रेण रुद्ध्वा भाण्डे पुटे पचेत् ३६
तत्क्षारं चूर्णयेत्पश्चात्त्र्यूषणं त्रिफला तथा
यवानी जीरको वह्निश्चूर्णमेषाञ्च कारयेत् ३७
सर्वचूर्णसमं क्षारं सर्वमेकत्र कारयेत्
तच्चूर्णं टङ्कयुगलं सलिलेन प्रयोजयेत् ३८
गुल्मे शूले तथाऽजीर्णे शोथे सर्वोदरेषु च
मन्दे वह्नावुदावर्त्ते प्लीह्नि चापि परं हितम् ३९
वातेऽधिके जलैः कोष्णैर्हितं पित्तेऽधिके घृतैः
गोमूत्रेण कफाधिक्ये काञ्जिकेन त्रिदोषजे ४०
वज्रक्षार इति ख्यातः प्रोक्तः पूर्वं स्वयम्भुवा
सेवितो हरतेऽजीर्णं तथाऽजीर्णभवान्गदान् ४१
सुवर्चिका टङ्कमिता तत्समानाऽद्रि काऽपि च
उभे भुञ्जीत युगपद् गुल्मामयनिवृत्तये ४२
शुक्तिचूर्णस्य गुटिकां टङ्कमात्रां सुवेष्टयेत्
गुडेन शाणामानेन तां लिहेद् गुल्मरोगवान् ४३
गुल्मी कुमारिकामांसं कर्षार्द्धगोघृतान्वितम्
गिलेद्व्योषाभयासिन्धुसूक्ष्मचूर्णावधूलितम् ४४
वल्लूरं मूलकं मत्स्यं शुष्कशाकानि वैदलम्
न खादेदालुकं गुल्मी मधुराणि फलानि च ४५
स्निग्धस्विन्नशरीरस्य योज्यं स्नेहविरेचनम्
शताह्वाचिरबिल्वत्वग्दारुभार्गीकणोद्भवः ४६
कल्कः पीतो जयेद् गुल्मं तिलक्वाथेन रक्तजम्
तिलक्वाथो गुडव्योषघृतभार्गीयुतो भवेत् ४७
योनिरक्तभवे गुल्मे नष्टपुष्पेषु योषिताम्
पीतो धात्रीरसो युक्तो मरिचैश्चास्रगुल्मनुत् ४८
गुण्डारोचनिकाचूर्णं शर्करामाक्षिकान्वितम्
विदधीताशु गुल्मिन्या मनलसञ्चङ्क्रमाय च ४९
विशेषमपरञ्चाशु शृणु रक्तप्रभेदनम्
पलाशक्षारतोयेन सर्पिः सिद्धं पिबेच्च सा ५०
सक्षारं त्र्यूषणं सर्पिः प्रपिबेदस्रगुल्मिनी ५१
यस्मिन्न च रसक्षीरतोयसाध्यरसादिषु
फेनोद्गारस्य निष्पत्तिर्नष्टदुग्धसमाकृतेः
स एव तस्य पाकस्य कालो नेतरलक्षणः ५२
इति द्वात्रिंशो गुल्माधिकारः समाप्तः ३२