भावप्रकाशिका/प्रथमोऽध्यायः/प्रथमः पादः

{{header
 | title = भावप्रकाशिका
 | author =
 | translator =
 | section = प्रथमः पादः
 | previous =
 | next = [../द्वितीयः पादः|द्वितीयः पादः]]
 | notes =
}}
<poem>

1.1.1

अतसीगुच्छसच्छायमञ्चितोरःस्थलं श्रिया । अञ्जनाचलृङ्गारमञ्जलिमर्म गाहताम् ।।

प्रारिप्सितस्य ग्रन्थस्य अविघ्नपरिसमाप्त्यर्थं प्रचयगमनार्थञ्च स्वाचार्यस्य वरदगुरोरिष्टदेवतारूपं हस्तिगिरीश्वरं भगवन्तं वरद-प्रणातार्तिहरनामभ्यां प्रख्यापितेष्टप्राप्त्यनिष्टपरिहारलक्षणपुरुषार्थदातृभावम् अत एव शरण्यं शरणमुपगच्छति वरदं द्विरदाद्रीशमिति । द्विरदाद्रीशमित्यनेन सौलभ्यमुक्तम् ;

दिङ्नागैरर्चितस्तत्र पुरा विष्णुः सनातनः । ततो हस्तिगिरिर्नाम ख्यातिरासीन्महागिरेः ।।

इति पुराणवचनेन दिङ्नागानां तिरश्चामप्यर्चनीयोऽभूत् तत्रेति प्रतीतेः । श्रीनिधिंकरुणानिधिमिति पदद्वयेन शरण्यत्वोपयुक्ते साम-थ्र्यकारुणिकत्वे अभिहिते । श्रीनिधेर्हि देयद्रव्येषु न दुर्लभं किञ्चिद्वस्त्वस्तीति नेष्टप्रापणे देयद्रव्याभावकृतमसामथ्र्यमस्ति । "अप्र- मेयं हि तत्तेजो यस्य सा जनकात्मजा' इति श्रीनिधेरप्रमेयतेजोनिधित्वेन अनिष्टनिरसनेपि तेजोविरहलक्षणमसामथ्र्यं न संभवति । हरिमित्यनेन आश्रितानां दुरितं हरतीत्यर्थसिद्धिः । ।एवं परदेवतां प्रणम्य स्वाभीष्टां स्वस्य एतत्प्रबन्धनिर्माणौपयिकज्ञानशक्तयादि-गुणप्रदायिनीं सदर्शनाख्यामपि देवतां प्रणमति बहिरिति । उपबृंहितवेदाय व्याख्यातवेदाय। । अन्तज्र्वरम् उ "बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति' इति न्यायेन विपरीतार्थप्रतिपादनसमुद्भूतं व्याकुलत्वम् । अशीशमत् शमयति स्मेत्यर्थः । शमेण्र्यन्तात् कर्तरि लुङि चङि (च) रूपम् । यथा योगी स्वशक्तिवैभवेन परेषां ज्वरं निवर्तयति, एवमयमपि स्वशक्तिवैभवेन श्रुत्यादीनामन्तज्र्वरं शमयति स्मेति सूच्यते । प्रपद्ये प्रणवाकारमिति । प्रणवाकारं प्रणवसदृशं रङ्गमिव च स्थितमित्यर्थः । पूर्वाधिप्रतिपादितं भाष्यस्य रङ्गप्रणवाभ्यां सादृश्यमुत्तरार्धेन उपपादयति । परस्येति ।

"अकारार्थो विष्णुर्जगदुदयरक्षाप्रळयकृत् मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम् ।

उकारोऽनन्यार्हं नियमयति सम्बन्धमनयोः त्रयीसारः त्र्यात्मा प्रणव इममर्थं समदिशत् ।।'

इत्युक्तरीत्या प्रणवस्य शेषित्वप्रकाशकत्वम् । भाष्यस्य परमशेषित्वप्रकाशकत्वं स्पष्टमेव । श्रीरङ्गस्यापि परब्राहृशेषशायित्वप्रकाश-कत्वेन शेषित्वप्रकाशकत्वम् । यद्यपि श्रीरङ्गस्य शेषशायित्वलक्षणशेषित्वप्रकाशकत्वम्; भाष्यप्रणवयोस्तु स्वामित्वलक्षणशेषि-त्वप्रकाशकत्वमिति नैकः साधारणो धर्मः-तथापि, "सकलकलं पुरमेतत् संप्रति जातं सुधांशुबिम्बमिव' इत्यत्रेव श्लेषभित्तिका-भेदाध्यवसायमूलया भेदे अभेदः इत्येवंरूपया अतिशयोक्तयैव साधारणधर्मैक्यलाभः । श्रुत्यन्तेष्विति ।श्रवणमननयोरुमयोरपि श्रुत्यन्तादिसंबन्धाविशेषेऽपि प्राधान्यात् प्रणवे ? (श्रवणे ?) श्रुत्यन्तरस्य प्रतिपादकत्वेन प्रतिपत्तिस्थानतया, मनने भाष्यस्य च व्यपदेशः । यथा "श्रोतव्यः श्रतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः' इति । दृष्टं विशदध्यानविषयीकृतम् । न तु स्वमते ध्यानदर्शनयो-र्भेदोऽस्ति । "रङ्गधामनि यो मुक्तिकालीन (नः ?) श्रवणमनननिदिध्यासनफलीभूतः सः' इत्यपि वदन्ति । अत्र श्रुत्यन्तह्मदम्बु-जरङ्गधामतुल्यतया भगवदभिव्यक्तिस्थानत्वं भाष्यस्य व्यज्यते । प्रमाणञ्च प्रमेयञ्चेति । प्रमाणं वेदः प्रमेयं तत्प्रतिपाद्योऽर्थः । अथ चिकीर्षितौपयिकतया प्रकृतं व्याख्येयतात्पर्यज्ञानमाशास्ति-अविस्तृता इति । गिरः । दीपादिसङ्ग्रहार्थं सामान्येन ग्रहणम् । अत एव तदैककण्ठ¬ेन भाष्यं व्याख्यायते । अखिलं पदगतं वाक्यगतं पबन्धगतञ्च । दृढं कुतर्कानपनोद्यम् ।

एवं मङ्गलमनुष्ठाय चिकीर्षितं प्रतिजानीते श्रीरङ्गेति । प्रथमविशेषणेन स्वस्य धीविशेषः, द्वितीयेन सत्वोत्तरत्वञ्च आप्त्यर्थं प्रदर्शितम् । अचूचुदत् । श्रुतप्रकाशिकायामिति शेषः । अत्र भाष्यं मया व्या---(ख्यायत इ)ति (प्रति) ज्ञातं भवति । तत्र विन्या-सविशेषात् भगवत्कैङ्कर्यबुध्यैव स्वस्य प्रवृत्तिः; न तु पाण्डित्यख्यापनायेति व्यज्यते । अथ तत्प्रीणनार्थमपि ग्रन्थकरणम्, "बोधयन्तः परस्पर'मिति वचनानुसारेण परप्रत्यायनाथर्तयैवार्थवत् । ननु शिष्याः स्वयमेव जानन्ति, किं त्वया यत्नः क्रियते इत्याशङ्कयाऽऽह गुरुभ्य इति । सौकर्यायेति प्रकृतचोद्यपरिहारः । अथापि संप्रदायविरहाद्भ्रमसंभवे कथं परानुग्रहः स्यात् ? तत्राऽऽह गुरुभ्य इति । एवमपि शब्दरचनायामन्यथा प्रतिपादनसंभवेन भ्रमसंभव इत्यत उक्तं तत्प्रयुक्तैः इति । एवं तर्हि ते यत्नः किमर्थ इत्यत्राऽऽह सङ्क-लय्येति । वरदगुरुभिरुपन्यस्तेष्वर्थेषु यावदपेक्षितम्, तथा सङ्कलनमस्मत्कृतमित्यभिसन्धिः । अथापि कृत्स्नोपदेशाभावात् स्वग्रन्थ-स्यानुपादेयतामाशङ्कयाऽऽह क इति । इदं चोद्यं न्यायसुदर्शनादिष्वपि समानमित्यर्थः । अथापि तैः पूर्वकृतैरेवालम् । किं भवद्यत्नेन कतिपयार्थग्राहिणेति चोद्यं परिहरति श्रुतांशेति । भाष्यवित्तमैः सुदर्शन-विवरणादिभिः भाष्यार्थं प्रतिपद्यमानैरपि इयं कृतिः श्रुतप्रकाशिका नोपेक्ष्या; किन्तु उपादेया । किमर्थं ? मया आचार्यसकाशात् श्रुतानामर्थानां श्रुतप्रकाशिकया प्रतिपाद्यमानानां सुद-र्शनादिष्वनुक्तानां भाष्यार्थांशानां

स्थितये । अत्र दृष्टान्तः आढ¬ैरिति । "पन्त्रे तद्देवतायाञ्च', "यस्य देवे परा भक्तिः यथा देवे तथा गुरौ' इत्यादिप्रमाणानुसारेण भाष्यार्थाधिगमस्य भाष्य-तत्कर्तृतत्प्रतिपाद्यभगवत्प्रसादलभ्यत्वम्-कृत्स्नभाष्यार्थवेदितुः भाष्यकारस्य तत्प्रतिपाद्यस्य भगवतो वा, "अस्य वाक्यस्यायमर्थः' इत्येवंरूपात् वचनात् भाष्यार्थः सुबोधो भविष्यति इत्याशङ्कयाऽऽह भाष्य-ञ्चेद्व्यवृणोदित्यादिना । ननु व्यवृणोदित्यत्र "हेतुहेतुमतोर्लिङ्' इति लिङो भविष्यद्विषयत्वात् लिङ् मा भून्नाम । मा च भूत्, "लिङ्निमित्ते लृङ् क्रियातिपत्तौ' इति लृङ् । तस्यापि भविष्यद्विषयकत्वात् । "भूते च' इत्यनेन भेते काले, "लिङ्निमित्ते लृङ् क्रियातिपत्तौ' इति विधीयमानो लृङ् कस्मान्न भवतीति चेत्-अत्राहुः । सत्या अपि क्रियातिपत्तेरविवक्षितत्वाद्वा, सतोऽपि हेतु-हेतुमद्भावस्याविवक्षितत्वाद्वा लृङ् न भवति । सतोऽप्यविवक्षा दृश्यते, यथा "अनुदरा कन्ये'ति । केचित्तु "गाम्भीर्यादनवस्थिति' रिति गाम्भीर्यहेतुकत्वोक्तेः अनवस्थाने विवरणं न हेतुरिति वर्णयन्ति । केचित्तु-ननु स्वयमेव भाष्यकारैः भाष्यस्य व्याख्यातत्वा-त्किमिति भवता यत्नः क्रियते इति चोद्यं परिहर्तुमनुवदति भाष्यञ्चेदिति । अत्र चेच्छब्दः न यद्यर्थे, किंतु असन्दिग्धे सन्दिग्ध- वद्वचने, वेदाश्चेदितिवत् । भाष्यञ्चेदिदम्, स्वयं व्यवृणोदेव । भाष्य---भाष्यं स्वयमेव स्वव्याख्यानं भवति । तथा हि भाष्यलक्षणं कुर्वन्ति, "स्वपदानि च वण्र्यन्ते' इति । परिहरति व्याख्यानेति । तथा; अत्र अपिरध्याहार्यः । तथापि व्याख्यानवाचां भाष्या-न्तर्गतानां गाम्भीर्यादनवस्थितिः उ तात्पर्यं परिनिष्ठा न लब्धुं शक्येत्यर्थः । अथा कैरिव ? (अन्यथा कैयट ?) वार्तिकादेरनारं-भापत्तेरिति भावः । अनवस्थितिमुपपादयति मितमतिरित्यादि । नर (नारद) नारायणन्यायेन भगवानेव अर्चारूपी (?) भाष्य-परिज्ञानार्थिभिरुपसर्पणीयः इति किं युष्मत्कृत्या ? नेत्याह प्रष्टव्य इति । अर्चारूपी ईश्वरः कथं प्रष्टव्यः ? कुत इत्यत आह - स हि इति । स हि नारायणादिरूप ईश्वरः नः इदानीन्तनानामस्माकं प्रत्यक्षरूपो न । इदानीमर्चारूपेणावस्थानात् नारदादिवत् नास्मा-कमुपदेष्टेत्यर्थः-इति व्याचक्षते । तदेवं श्रीरङ्गेशाज्ञयेत्यारभ्य श्रुतप्रकाशिकारम्भप्रतिज्ञा । तस्याः भाष्यं विषयः; सङ्कलय्य तदर्थज्ञापनं प्रयोजनम्; तच्च न पूर्वव्याख्यानैरन्यथासिद्धम्; न वा भ्रमप्रमादादिदोषमिश्रम्; तदर्थिनश्चात्र अधिकारिणः इति स्वग्रन्थे प्रेक्षावत्प्र-वृत्त्यौपयिकं अनुबन्धचतुष्टयं प्रदर्शितं भवति ।

अष्टादशविद्यास्थानेषु शारीरकशास्त्रे भगवतो भाष्यकारस्य व्याचिख्यासायां निमित्तमाह सर्वेषामित्यादिना । स्वत एव भग-वत्साक्षात्कारसमर्थानां मुक्तानां वेदस्या लौकिकपुरुषार्थप्रतिपत्त्यर्थमनादरणीयत्वादाह - प्रमाणाधीनप्रमेयनिश्चयानामिति । भ्रान्तात् प्रति वेदस्यानादरणीयत्वादाह उपादित्सितेति । उपादित्सितजिहासितालौकि (तलौकि) केष्टानिष्टतत्साधनानामित्यर्थः । अलौकिकपुरुषार्थतत्साधनप्रत्यायकत्वाविशेषेण सांख्याद्यागमवैलक्षण्ये वेदस्य निमित्तमाह - तत्राप्यपुरुषेति । पूर्वभागे कुतो न व्याचिख्यासेति शङ्कामपाकरोति- तत्र चेत्यादिना । पूर्वभागे अर्वाचीनफलतत्साधनपरे अवगते इति योजना । असन्दिग्धतया-ऽवगतेत्यर्थः । पूर्वभागेऽनुपप्लुत इति यावत् । अत्र अर्वाचीनेति विशेषणेन वेदान्तभागप्रतिपाद्यार्थविप्लवे महाफलहानिवत् तदंशे

तन्नास्तीत्यपि सूचितम् । तदुज्जिजीवयिषया व्याचिख्यासितमित्यन्वयः । निष्कण्ठकीकृत्य कृतार्थयितुं भवभयाभितप्तेत्यन्वयः । तेन उज्जिजीवयिषाया, कृतार्थयितुमित्यनयोः न पौनरुक्तयमिति वदन्ति । केचित्तु उज्जिजीवयिषायाः सदसद्विवेचनचतुरपूर्वाचार्य-विरचितमित्यनेनान्वय इति उज्जिजीवयिषां पूर्वाचार्यगतामाहुः । अपरे तु उज्जीवनकृतार्थीकरणयोः द्वारद्वारिभावेन भेदमाहुः । कुपथ-प्रवृत्तिनीति । कुत्सितः पथः कुपथः । पथशब्देन समासः । न पथिन्शब्देन । तेन "कापथ्यक्षयोः' इति न भवति । पठितश्च त्रिका-ण्डशेषे "पथः पन्थाश्च मार्गः स्यात्' इति पथिन्शब्दसमानार्थः पथशब्दोऽकारान्तः ।

शङ्करादिकृतानां शारीरकव्याख्यानानामनादरणीयत्वे हेतुमाह परमर्षिप्रणीतानीति । यत्तदोर्नित्यसम्बन्धात् अत्र यानीति शेषः । यानि परमर्षिप्रणीतानि शास्त्राणि, तेषां महर्षिप्रणीतानि व्याख्यानानि सन्ति चेदित्यर्थः । व्याख्येयानीति गहनार्थत्वसूचकम् । सन्त्यपि तान्यनादृत्य व्याख्येयान्तराणि इत्यत्र व्याख्येयान्तरकथनं दृष्टान्तार्थम् । यथा व्याख्येयान्तराणां शारीरकविरुद्धानाम-प्रामाणिकत्वम्, तथा बोधायनव्याख्यानविरुद्धानां शङ्करादिकृतव्याख्यानानामप्रामाणिकत्वमित्यर्थः । यद्वा तेषाञ्च महर्षिप्रणी-तानीत्यत्र चशब्दो भिन्नक्रमः । परमर्षिप्रणीतानि व्याख्येयानि, तेषां महर्षिप्रणीतानि व्याख्यानानि च सन्ति चेत्, तान्येव व्या-ख्येयानि, व्याख्यानानि च अनुरोद्धव्यानीत्यर्थः । बाधकानुपलम्भादिति । "सर्वत्र प्रसिद्धोपदेशा'दित्यत्र व्याख्यानान्तरवर्णनं पर-मतानुसारेण कृतम् । अनन्तरमेव वृत्तिकारोक्तार्थवर्णनात् । अतो न तद्विरोधः । पूर्वभागार्थानां शिक्षणीयत्वमिति । अरुणाधि-करणादिष्विति भावः ।

अखिलेतिश्लोकार्थविचारः

इष्टदेवतोपासनरूपं मङ्गलमिति । उपासनाशीरूपं भङ्गलमित्यर्थः । अत एव वक्ष्यति, "वस्तुनिर्देशः, भवत्वित्याशीर्वादश्च कृतौ भवतः' इति । केचित्तु भक्तिप्रार्थनमपि भक्तिरूपमिति मन्यन्ते । यद्वा उपासनस्य स्वतोऽनुकूलत्वमवगम्य तत् प्रार्थयमानेन तस्या-प्यनुष्ठितत्वसम्भवादेवमुक्तमिति द्रष्टव्यम् । मङ्गलाचारयुक्तानामिति । न च इदं वचनं जपहोमादितुल्यतया आदर्शदर्शनादिमङ्गला-चारस्य विनिपातनिवृत्तिहेतुत्वावगमकम्; न त्वारम्भकाले मङ्गलकर्तव्यतायां प्रमाणम् । अत एव मङ्गलानुष्ठाने आचारमेव प्रमा-णयन्ति इति वाच्यम्-समाप्तिप्रतिबन्धकविघ्नस्यापि विनिपातशब्दार्थत्वेन मङ्गलाचरणस्य विघ्ननिवारकत्वावगमकत्वेन प्रामाण्य-सम्भवात् । यथा चोदनासूत्रे इति । । "चोदनालक्षणोऽर्थो धर्मः' (पू.मी 1-1-2) इति सूत्रे यश्चोदनालक्षणः स धर्म इति धर्म-स्वरूपे कथिते, यथा चोदनैव प्रमाणमिति अर्थादुक्तं भवति-तथेत्यर्थः । प्रह्वीभावावगमात् प्रणतिरपि फलितेति । प्रणतिरप्यनुष्ठिता भवतीत्यर्थः । ननु विनतेत्युक्तिमात्रेण कथं प्रणतिरनुष्ठितेत्यवसीयते । तथासति, उपासकानां भगवान् मोक्षप्रदः इत्युक्तिमात्रेण तद्वाक्यप्रयोक्तॄणां सर्वेषामपि अनुष्ठितोपासनकत्वप्रसङ्गेन मोक्षप्रसङ्गः इति चेन्न-अतिसुकरस्य प्रणामस्य रक्षादीक्षारूपेष्टसाधन-त्वमवगम्य तत् अन्येषामप्युपदिशता भाष्यकृता साप्यनुष्ठितेत्युक्ते विरोधाऽभावात् । णमु प्रह्वत्वे इति हि धातुरिति । ननु भक्ति-विनतशब्दयोः प्रह्वोभावावगमकत्वमुपन्यस्य भक्तिशब्दस्य प्रह्वीभावाऽवगमकत्वोपपादकानुपन्यासेन नमेः तदुपन्यासोऽसंगतः । नच भक्तिशब्दे प्रह्वीभावावगमकत्वस्योपपादकनिरपेक्षतया तदनुपन्यास इति वक्तुं शक्यम् । प्रत्युत भक्तिशब्दस्यैव प्रह्वोभावार्थकत्वस्य अप्रसिद्धत्वेन तदुपपादकसापेक्षतया तदुपन्यास एव (हि) युक्त इति चेत्-मैवम्-भक्ति-विनतशब्दयोरैकाथ्र्यमवश्यं वक्तव्यम् । इतरथा रक्षाहेतुत्वं विनतेरुपन्यस्य तदतिरिक्तायाः भक्तेः पार्थने किं केन सङ्गत स्यात् । अतो भक्तिविनतशब्दयोरैकाथ्र्यात् प्रक्रमस्थविनतशब्दस्य, "णमु प्रह्वत्वे' इति स्मृत्यनुसारेण अर्थे कथिते भाक्तशब्दस्याप्यर्थः कथितः । यथा,

"विदितः स हि धर्मज्ञः शरणागतवत्सलः ।तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ।।' (श्रीमद्रामा-)

इत्यत्र मैत्र्याः शरणागतिरूपत्वसिद्धिः इति मत्वा, "णमु प्रह्वत्वे इति हि धातुरित्युक्तम् । न च नमेः प्रह्वीभावार्थकत्वे विनतशब्दस्य न्यासोपासनाख्यविद्याविशेषनिष्ठपरत्वं न स्यादिति वाच्यम्-उपसर्गवशेन ज्ञानविशेषविशिष्टप्रह्वीभाववाचकत्वसम्भवेन विद्याविशे-षवाचित्वसम्भवात् ।

विषयविषयिरूपेति । विषयो ब्राहृ; उपासनफले विषयिणी । न च उपासनस्य तृतीयाध्यायप्रतिपाद्यस्य विषयित्वेऽपि कथं फलस्य चतुर्थाध्यायप्रतिपाद्यस्य विषयित्वमिति वाच्यम्-फलभूतायाः मुक्तेरपि भगवदनुभवरूपतया विषयित्वेन क्रोडीकारसंभवेनादोषात् । भवतीति भुवनमिति । यद्यपि भुवनशब्दः, "भू सू धू भृस् जिभ्यश्छन्दसि' इति छन्दसि क्युन्नन्तो व्युत्पादितः । तथापि "वा भुवन' मित्यत्र "बहुलस्मरणात् भाषाविषयत्वमप्यस्ती'ति वैयाकरणोक्तेरदोषः । रूढिशक्तया कुलालादिव्यावृत्तिरिति । यद्यपि योगो -ऽतिप्रसक्तः -तथापि रूढ¬ा तन्निरास इति भावः । यद्यपि रूढ¬नभ्भुपगमेऽपि अखिलशब्देनैव कुलालादिव्यावृत्तिसिद्धिः; तस्याखिलकार्यहेतुत्वाभावात् । किञ्च लीलापदेनापि व्यावृत्तिसिद्धि । प्रयोज्यरूपघटगतजन्मादिव्यापारस्य कुलाललीलात्वा- भावात् -तथापि इतरपदनिरपेक्षस्यापि केवल भुवनशब्दस्य कुलालादिव्यावर्तकत्वसिद्धिरित्यभिप्रेत्य तथोक्तमिति द्रष्टव्यम् । अण्डजातानीति । अण्डान्तर्वर्तीनि भुवनानि विक्षितानीत्यर्थः; न त्वण्डसमूहाः इति । भुवनशब्दस्याण्डवाचित्वाप्रसिद्धेः । किञ्च ब्राहृणोऽण्डोत्पादकत्वगन्धाभावेन तद्य्वावृत्यर्थं साकल्यस्याप्यविवक्षणीयत्वापातात् । केचित्तु अण्डजातानि अण्डसमूहा अपीत्यर्थः । तेषामपि विपुलतरकार्यविशेषरूपत्वेन भुवनशब्दवाच्यत्वसम्भवात् । न चैवं ब्राहृणोऽण्डानुत्पादकत्वेन तत एव तद्य्वावृत्तिसिद्धि- रिति वाच्यम् - अखिलपदाभावे भूलोकादिलक्षणयत्किञ्चिद्भुवनजनकत्वस्य चतुर्मुखादावपि सम्भवेन तद्य्वावृत्त्यर्थत्वेन अखिल-पदस्यार्थवत्त्वात् । निषेध्यवशात् शुभत्वाशुभत्वे इति । ननु यद्यत्र भुवनवैकल्यस्य निषेध्यस्याशुभत्वात् तन्निषेधस्य शुभत्वम्, तर्हि अखिलहेयप्रत्यनीकेत्यत्र अखिलशब्दस्य भगवच्छरणागतिवाक्योपक्रमगतस्य हेयवैकल्यनिषेधवाचिनः शुभत्वं न स्यात्, निषेध्यस्य हेयवैकल्यस्य शुभत्वादिति चेन्न-तत्रापि अखिलहेयप्रत्यनीकेत्यत्र निवर्तकवाचिप्रत्यनीकशब्देन निवृत्तिक्रियाव्यापाराविषयत्वं हेयगतं हि निषिध्यते; हेयगतं च निवृत्तिक्रियाव्यापाराविषयत्वमशुभमेवेति तन्निषेधस्यापि शुभत्वात् । चिदचिद्भेदोऽप्यभिप्रेत इति । अखिलशब्दस्य सर्वशब्दपर्यायतया सर्वत्वस्य बुहुष्वेव वृत्तेः, "पृथक्तवनिवेशात् संख्यया कर्मभेदः स्यात्' (पूर्वमी-2-2-21) इति न्यायेन बहुत्वस्य भेदगर्भतया भुवनानां भेदः सिद्धो भवति । भुवनशब्दश्चिदचित्संवलनात्मकविपुलतरकार्यविशेषवाचीति चिद-चिद्भेदश्च सिद्धो भवति । न च सर्वशब्दस्य बहुत्वसापेक्षत्वमसंप्रतिपन्नमिति वाच्यम्; "विश्वजित् सर्वपृष्ठः' इत्यत्र सर्वपृष्ठशब्दस्य चोदकप्राप्तज्यौतिष्टोमिकपृष्ठानुवादित्वं न संभवति, ज्योतिष्टोमे द्वयोरेव पृष्ठयोः सत्त्वेन तत्र बहुत्वसापेक्षस्य सर्वशब्दस्याप्रवृत्तेः; अपितु षाडहिकानां बृहद्रथन्तरवैरूपवैराजशाक्वररैवतानां विधिरिति सप्तमे (पू.मी. 7-3-3) स्थितत्वात् । स्थेमा स्थितिरिति । न स्चिर-त्वमित्यर्थः । अयमाशयः-यद्यपि स्थिरशब्दात् इमनिच् न संभवति, पृथ्वादिष्वस्य पाठाभावात्; अत एवोक्तं वृत्तौ प्रियस्थिरेति सूत्रे, "स्थिरशब्दस्य पृथ्वाद्यपाठादिमनिच् नोदाह्नियते' इति-तथापि तिष्ठतेरौणादिक इमनिच्प्रत्ययो बहुलवचनात् अनिमवेमादिवद् द्रष्टव्यः । प्रसिद्धश्चायं शब्दः शिष्टप्रयोगेषु, "द्राघीयांसः संहताः स्थेमभाजः' इत्यादिषु । निखिलजगदुदयविभवविलयेत्यत्र विभव-पदेन स्थितिरुच्यते । ननु मोक्षस्य पृथङ्निर्देशं सिद्धवत्कृत्य खलु तस्य भङ्गादिशब्दार्थयोरनन्तर्भाव उक्तः; स न युक्तः, पृथक्की-र्तनस्यास्मिन् श्लोके अदर्शनात्, रक्षापदस्य स्वर्गादिफलप्रदत्वप्रतिपादकत्वादित्याशङ्कय रक्षापदस्य (पृथक्) स्वर्गादिफलप्रदत्व-प्रतिपादनानौचित्यं दर्शयति-विनतेत्यादिपेनेति । अध्यासपरिणामपक्षयोरिति । अध्यासपक्षः शांकरः, परिणामपक्षो यादव-भास्करीय इति द्रष्टव्यम् । तस्यार्थत्वाभावेनेति । अभेदे अन्तःप्रवेशाद्यसिद्धेः स्वमत एवान्तः प्रवेशनियमनश्रुतिस्वारस्यसंभवात् स्वमते अध्यासपरिणामपक्षवैलक्षण्यसिध्द्यर्थमन्तः- प्रवेशनियमनसंभवस्य पृथग्वक्तव्यत्वादित्यर्थः । विस्तरेणोक्तस्येति । "जगदुद्भव-स्थितिसंहारान्तःप्रवेशनियमनादिलीलम्' इति ग्रन्थकृतैवान्यत्र विस्तरेणोक्तस्य, आदिपदेन संक्षेपेणोक्तौ विवक्षितत्वोपपत्तेरित्यर्थः । प्रयोजकव्यापारो हि लीलेति । ननु स्वतन्त्रकर्तृप्रयोजकराजव्यापाररूपप्रेषणादेः लीलात्वादर्शनात् बाललीलाप्रयोजकतत्पितृ-व्यापारभूतप्रार्थनादेर्लीलात्वाभावाच्च प्रत्युत प्रयोज्यभूतबालव्यापारस्यैव लीलात्वदर्शनाच्च कथमेतदिति चेत्-न; तद्य्वापारस्तस्य लीला, नान्यव्यापारः इत्यत्र तात्पर्यात् । न चैवं नटविटविदूषकादिव्यापारस्य परिहासादेः राजलीलात्वं न स्यादिति वाच्यम्; इष्टापत्तेः । तत्र लीलारसनिष्पादकत्वेन लीलापदस्य औपचारिकत्वात् । न च, "लोकवत्तु लीलाकैवल्यम्' इति सूत्रे भगवता भाष्यकृता जग-ज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति जन्मादेर्लीलाप्रयोजनकत्वोक्तया लीलात्वाभावस्य सूचितत्वात् इह जन्मादिषु प्रयुज्यमानो लीलाशब्द औपचारिक एव स्यादिति वाच्यम्-परिपूर्णानन्यप्रेयस्र्वच्छन्दपुरुषकार्यचेष्टाविशेषे लीलाशब्दस्य प्रचुरप्रयोगसत्त्वेन जन्म-स्थित्यादेरपि मुख्यलीलात्वस्य सिद्धान्त्यभिमतत्वात्; "लोकवत्तु लीलाकैवल्यम्' इति सूत्रभाष्यस्यापि जगज्जन्मादेर्लीलात्वपरतया व्याख्यास्यमानत्वाच्च । भङ्गस्य लीलात्वे युक्तेऽपीति । न च भङ्गस्य नाशरूपत्वात् नाशस्य च जन्मस्थित्यादिवत् प्रयोज्यगतत्वा-विशेषात् कथमर्धवैशसेन भङ्गस्य लीलात्वाभ्युपगम इति वाच्यम्; घटो विनश्यतीतिवत् घटो भनक्तीति प्रयोगाभावेन तयोर्भिन्नत्वात् । अत एव घटो जायते, घठस्तिष्ठतीतिवत् घटो भनक्तीति प्रयोगाभावः । तथाच घटकर्तृकव्यापारौ जन्मस्थिती, भङ्गस्तु न तद्य्वापार इति विवेकः । लीलात्वकथनेनोपादानत्वं फलितमिति । जगज्जन्मस्थित्योः परमात्मलीलात्वकथनेन परमात्मसमवेतव्यापारत्वोक्तया परमात्मन एव भाव्यवस्थावत्त्वेन उपादानत्वलाभादिति भावः ।

ननु भूतशब्दस्य लब्धसत्ताकार्थकत्वे लब्धसत्ताकानां तेषां परमात्मसाध्या रक्षा कीदृशीत्याशङ्कयाह-लब्धस्वरूपाणां चेति । ननु

लब्धस्वरूपाणां स्वरूपाप्रच्युतेर्भगवद्भरत्ववत् अलब्धस्वरूपाणां स्वरूपलाभरूपरक्षाया अपि भगवद्भरत्वात् कथं "लब्धस्वरूपाणां रक्षैकदीक्ष' इति पृथ्क्कृत्योयत इति चेत्, आनुकूल्यावस्थायां तद्रक्षाया निमित्तान्तरनैरपेक्ष्येण तत्र विशिष्योक्तयुपपत्तेः । षष्ठयाः संमन्धमात्रविषयत्वादिति । ननु यद्यपि संबन्धवाचिनी षष्ठी, तथापि यस्य विशेषस्याभिव्यञ्जकमस्ति, तत्रैव पर्यवस्यति; यथा देवदत्तस्येत्यभेदेन प्रवृत्ता षष्ठी पुत्रः, पाणिः, कम्बल इति प्रतिसंबन्धिवशेन पितृत्वावयवित्वस्वामित्वरूपविशेषेषु पर्यवस्यति; न हि देवदत्तस्य पुत्र इत्युक्ते देवदत्तस्वामिकमन्यपितृकं पुत्रं प्रतियन्ति । ततश्च भूतव्रात इत्युक्ते भूतव्रातयोरेव समुदायसमुदायिभावलक्षणः संबन्धः प्रतीयते । ततश्च भूताभूतव्राते भूतव्रातशब्दस्य, सापेक्षमसमर्थमिति न्यायेन अग्नीषोमीये आग्नेयशब्दवदसामथ्र्यादप्रवृत्तिः, अथवा छत्रिन्यायेन लक्षणा वा समाश्रयणीया स्यात् । राजपरिषदित्यादौ तु परिषत्सेनादिशब्दानां समुदायिविशेषविशिष्टसमुदाय-वाचिनां नैकान्ततः समुदाय्यपेक्षा; यथा वनघटादिशब्दानां तरुगजादिसमूहवाचिनामन्तर्भावितसमुदायिकतया न समुदाय्यपेक्षा, यथा वा पुत्रीयतिजीवतीत्यादीनामन्तर्भावितेषिधारणकर्मकाणां न कर्मापेक्षा । ततश्च परिषदादिशब्देषु स्वाम्याकाङ्क्षामात्रम्, "किंस्वामिका परिषत्' इति । ततश्च राजपरिषदित्यत्र राज्ञः स्वामित्वेनान्वयः, राजस्वामिका परिषदिति । ततश्च तत्राप्यराज्ञां स्वामित्वमेव वार्यते । न च परिषच्छब्दतुल्य एवायं व्रातशब्दः, न समूहादिशब्दवदिति वाच्यम्-तर्हि तथैव वक्तव्यत्वेन संबन्ध- मात्रस्य षष्ठयर्थत्वप्रसाधनवैफल्यादिति चेत्-सत्यम्; समूहशब्दपर्याय एवायं व्रातशब्दः, "समूहनिकरव्रात' इति कोशपाठात्-तथापि तस्यानर्थक्यप्रसङ्गात् विवक्षितविशेषसिद्धिरित्यत्र तात्पर्यात् । इतरथा विनतविविधभूतेत्यनेनैव विवक्षितार्थसिद्धौ व्रातपदेनाति-रिक्तार्थालाभात् व्रातशब्दवैयथ्र्यप्रसङ्गात् । अत एव वक्ष्यति- "एवं च व्रातशब्द (पद) प्रयोगस्यार्थवत्त्वं स्यात्' इति । ब्राहृजिज्ञासेति सूत्रे संबन्धसामान्यषष्ठीपरिग्रहे ब्राहृसंबन्धिनामपि जिज्ञास्यत्वं सिध्यतीति सर्वैरपि भाष्यकृद्भिव्र्यवह्मतत्वाच्च । अत्र व्रातशब्दस्य "पशुर्मनुष्यः पक्षी वा' इत्यादिप्रमाणानुसारेणानियतवृत्त्युत्सेधजीविवाचित्वं केचिन्मन्यन्ते; उक्तं च काशिकायां वृत्तौ "व्रातच्फञोर-स्त्रियाम्' इत्यत्र "व्राता अनियतवृत्तय उत्सेधजीविनः' इति; उत्सेधजीविनःउशरीरप्रयासजीविन इत्यर्थः । "काममात्मानम्' इत्यादि-स्मृतेर्भगवदाज्ञारूपायाः संसारिचेतनमात्रविषयत्वात् कथमनया स्मृत्या भगवतोऽपि संश्रितरक्षणानुष्ठानस्याभिमतत्वसिद्धिरित्यत आह - ईदृशीति ।

परत्वसौलभ्ये च संश्रयणीयतानिमित्ततयेति । ननु अखिलेत्यादिप्रथमपादप्रतिपाद्यस्य जगत्कारणत्वस्य परत्वपर्यवदितत्वेऽपि विनतविविधेति द्वितीयपादप्रतिपाद्यस्य मोक्षप्रदत्वस्य कथं सौलभ्यपर्यवसितत्वम् ? न हि पुरुषार्थप्रदत्वमात्रेण सौलभ्यं सिध्यति; तथा सति कल्पवृक्षकनकाचलादेरपि सौलभ्यपसङ्ग इति चेत्-मैवम्; दातृत्वस्यापि सौलभ्यपर्यवसितत्वात् । उक्तं हि अभिगम्यत्व-मोक्षप्रदत्वलक्षणं सौलभ्यमिति । वक्ष्यति न ग्रन्थकारः, "अन्तस्तद्धर्मोपदेशात्' इत्यत्र (कारुण्यसौशील्यादीत्यत्र)"कारुण्यसैशी-ळ्यवात्सल्यौदार्याणि सौलभ्योपयुक्तानि' इति । ततश्च नानुपपत्तिः । य एनं विदुरमृतास्ते भवन्ति इति । मोक्षप्रदत्वलक्षणं सौलभ्य-मित्यर्थः । सं बाहुभ्यां नमतीत्यादि । पतत्रैःउकर्मभिः द्यावापृथिवीसंजनयन् परमात्मा स्वाश्रितविषये बाहुभ्यां संनमति सम्यक् प्रह्वीभवति; "प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन्' इत्यादिस्मृतेरित्यर्थः ।

विदीप्त इत्यत्र दीप्तिमात्रव्यावर्तकत्वस्य स्वरसतः प्रतीयमानत्वात् पूर्वभागप्रतिपाद्यत्वरूपविशेषणविशिष्टतया दीप्तमित्यस्यार्थस्य स्वरसतोऽप्रतीतेराह - यद्वा क्षुद्रसुखेति । केचित्तु द्वितीयपक्षे दीप्तिविदीप्त्योर्भिन्नविषयतया अस्वारस्यं मन्यमानाः प्रथममेव पक्षं रोचयन्ते । ते च तद्वाक्यमेवं योजयन्ति - अग्न्यादिरूपतया पूर्वभागेऽपि ब्राहृणः प्रतिपाद्यत्वमस्त्येव; "तदेवाग्निस्तद्वायुः' इति उप-निषद्वाक्येन तथैव ज्ञायमानत्वात् । वेदान्तभागे तु विशेषेण दीप्तमिति । विशेषेणउअद्वारकतयेत्यर्थः । व्युत्पत्तिलक्षणसौष्ठवाभाव इति । व्युत्पत्तिसमथर्नं प्रथमाधिकरणे; लक्षणसौष्ठवसमर्थनं जन्माद्यधिकरणे । रूढिशक्तयेति । श्रीनिवासशब्दस्य नारायणे रूढत्वात् श्रीनिवासे ब्राहृणीत्यनेन नारायणस्यैव ब्राहृत्वाविष्करणादिति भावः । ब्राहृणस्तदुत्तीर्णत्वं चेति । भेदाभेदवादिपक्ष इत्यर्थः । वक्ष्यति हि श्रीनिवासशब्दं प्रस्तुत्य- "अनेनैवैश्वरोत्तीर्णब्राहृवादिनो भेदाभेदवादिनो व्युदस्ताः' इति । परस्मिन्नित्यनेन "ब्राहृविदाप्नोति परम्' इति श्रुतिगतपरशब्दार्थसूचनमुखेन, "परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः' इत्यधिकरर्णार्थस्य प्राप्यान्तरव्युदासस्य, परशब्द-प्रत्यभिज्ञया, "न स्थानतोऽपि परस्य' इत्यधिकरणार्थस्य उभयलिङ्गत्वस्य वा स्मरणं संभवतीत्यभिप्रयन्नाह - परस्मिन्नित्यादि । वस्तुतोऽर्थद्वयसूचनमपि संभवतीति ध्येयम् । अविशेषेण भक्तिरूपेत्युक्तत्वादिति । न च "अत्रापि, "छागो वा मन्त्रवर्णात्' इति न्यायोऽभिप्रेतः' इति पूर्ववाक्येन च, "शेमुषी भक्तिरूपेति भक्तिरूपज्ञानस्योपायत्वं प्रागुक्तम्; कथमिदानीं प्रीतिरूपध्रुवानुस्मृते-रुपायत्वं प्रातिपाद्यत इत्यत्राह - एवंरूपेति; एवंरूपा साक्षात्कारप्रीतिरूपत्वपर्यन्ता ध्रुवानुस्मृतिरेव भक्तिशब्दवाच्येत्यर्थः' इति लघुसिद्धान्तग्रन्थेन च विरोधः शङ्कनीयः; एतस्य मतान्तरत्वेनादोषात् । रक्षैकदीक्षे परस्मिन्नित्यन्तैरिति । अत्र रक्षैकदीक्ष इत्य- स्मात् परम् "इति' शब्दोऽध्याहर्तव्यः; ततश्चेत्थं योजना - परस्मिन्नित्यन्तैः प्रतिपादित उपेयभूत एव रक्षैकदीक्ष इति सिद्धोपाय उक्त इति । ततश्च रक्षैकदीक्ष इति पदोपादानवैयथ्र्यं न चोदनीयमिति द्रष्टव्यम् । भाट्टप्राभाकरा व्यावर्तिता इति । भुवनशब्दस्य विपुलतरकार्यविशेषवाचितया तत्सर्गस्य, "न कदाचिदनीदृशं जगत्' इति वदद्भिरनभ्युपगतत्वादिति भावः ।

(पाराशर्येत्यादिश्लोकार्थ विचारः )

अथ द्वितीयेन श्लोकेन स्वप्रबन्धस्यावान्तरविषय इति । पाराशर्यवचोरूपसूत्रसमुदाय इत्यर्थः । इत्यादिभिराचार्योपसत्तेरिति आदिशब्देन, "विष्णोः कटाक्षमद्वेष आभिमुख्यं च सात्त्विकैः । संभाषणं षङेतानि ह्राचार्यप्राप्तिहेतवः ।' इत्यादिर्विवक्षितः । भग-वत्कटाक्षहेतुकत्वावगमादिति । उपदेशकटाक्षादिभिर्भगवत आचार्यलम्भकत्वेन प्राथमिकोपकारकत्वावगमादित्यर्थः । ततश्च "तद्विद्धि' इत्यादीनां भगवत्कटाक्षहेतुकत्वावगमकत्वं नास्तीति चोद्यस्य नावकाशः । यस्य देवे परा भक्तिरिति । भक्तिर्हि उप-कारकत्वकृतः स्नेहविशेषः । तत्र भगवद्भक्तेरुपमानकोटौ तिवेशादाधिक्यं व्यज्यते । तदाधिक्यं च उपकारकत्वाधिक्याधीनम् । अतः भगवतः आचार्यापेक्षयोपकाराधिक्यलाभ इति भावः । पाराशर्यशब्देन जन्मोत्कर्ष इति । ननु गोत्राधिकारे, "गर्गादिभ्यो यञ्' इति यञो विधानादनन्तरापत्ये कथं यञ्प्रत्ययः ? उच्यते-गोत्रत्वोपचारात् "जामदग्न्यो रामः' इतिवत् । ननु शारीरकसूत्रकारो बादरायण इति हि प्रसिद्धिः; कथं तत् पाराशर्यस्योच्यत इत्याशङ्कयाह - तस्यैव बादरायण-संज्ञत्वं च विवक्षितमिति ।

वचःशब्दस्यार्थे तात्पर्यमिति । यद्यपि वचस एव सुधात्वं सुनिरूपितम् । तथाहि-उपनिषत्पर्यालोचननिष्पन्नत्वलक्षणमुपनिषद्दुग्धा-ब्धिमध्योद्धृतत्वमर्थस्येव शब्दस्यापि सुवचम् । संसाराग्निविदीपनव्यपगतप्राणात्मसंजीवनत्वमपि तादृशज्ञानविषयतयार्थस्येव शब्दस्यापि तादृशसंजीवनज्ञानजनकत्वेन सुवचम् । पूर्वाचार्य सुरक्षितत्वमपि अर्थस्य अन्यथाप्रतीतिलक्षण पीडापरिहारमुखेन शब्दस्यापि सुवचम् । दूरस्थितत्वानीतत्वे अप्यनभिव्यक्ताभिव्यक्तार्थकत्वरूपे शब्देऽपि संभवतः । उपक्रमगतवचस्सुधात्वानुसारेणोपसंहारगतं चास्वारस्यं सोढव्यम्-तथापि रक्षितत्वानीतत्वादिकमर्थद्वारा शब्द इत्यौपसंहारिकबह्व-स्वारस्यापेक्षया भूयोनुग्रहन्यायेनोपक्रमगतवचश्शब्दस्यैकस्यैवार्थलक्षकत्वं न्याय्यमिति भावः । वेदादिशब्दनामिति । ननु "वेदवित्' इत्यादौ विच्छब्दस्यैवार्थतो ज्ञानपरत्वमाश्रित्य वेदशब्दस्यार्थपरत्वाभावोऽपि वक्तुं सुशकः; यथा, "यः सर्वज्ञः सर्ववित्' इत्यत्र सर्वं प्रकारतो वेतीत्यर्थाश्रयणम्; न हि तत्र सर्वपदस्य लक्षणा-तथा "वेदं वेत्ति' इत्युक्ते वेत्तीति शब्दात् न वेदस्य स्वरूपेण ज्ञानमात्रं प्रतीयते, अपितु तत्तदर्थविशेषप्रतिपादकत्वप्रकारेणापि वेत्तीति ह्रर्थः प्रतीयते । अत एव "तदधीते तद्वेद' इति सूत्रे, "यस्तु सामपाठं पठति नासौ वेदेत्युच्यते' इति, "अर्थाभिज्ञ एव वेदेत्युच्यते' इति चोक्तं महाभाष्य इति चेत्-न; "सोऽहं भगवो मन्त्रविदेवास्मि, नात्मवित्' इत्यादौ विच्छब्दस्यार्थप्रतीतिपरत्वाभावेन विच्छब्दादर्थप्रतीत्यदशर्नात् । किंच यदि (द्यत्र) "वेदवित्' इत्यादावसंप्रति-पत्तिः, तदा "नोदाहरणमादर्तव्यम्' इति न्यायेन "मन्त्रसाक्षात्कारवानयम्' इत्यादिकं संप्रतिपन्नमुदाहरणान्तरं भविष्यतीत्यदोषः । न ह्रत्र मन्त्रशब्दस्य मन्त्रार्थपरत्वे विप्रतिपत्तिरस्ति ।

लक्षणाभीजभूतं वचश्शब्दमुख्यार्थभूतवाक्यस्य लक्ष्यमाणाथर्संबन्धमुपपादयति - अर्थाभिधायकं हि वाक्यमिति । सुधाशब्द-लक्षणाभयाच्चेति । सुधासदृशार्थे लक्षणाया अभ्युपगन्तव्यत्वादिति भावः । ननु रूपकपक्षेऽपि वचश्शब्दस्यार्थे लक्षणा आवश्यकीति तुल्यमिति चेत्--सत्यम्; त्वन्मते सुधाशब्दे लक्षणा, वचसः सुधा वचःसुधेति वचश्शब्दस्य षष्ठयर्थलक्षणाप्यभ्युपगन्तव्या; अस्मन्मते तु वचःशब्दमात्रे लक्षणेति भावः । ननु स्वाभिमते, "उपमितं व्याघ्रादिभिः', "मयूरव्यंसकादयश्च' इति वा सूत्रानुशिष्टरूपकसमासेऽपि सुधाशब्दलक्षणाऽविशिष्टा; सुधाशब्दस्य तत्सदृशपरत्वात्; "विशेषणं विशेष्येण' इत्यनियमे प्राप्ते आरभ्यमाणस्यास्य सूत्रस्य विशेष-णविशेष्यत्वनियमार्थत्वात् (ष्यविषयत्वात्); भिन्नाथर्र्योर्वचःसुधाशब्दयोर्विशेषणविशेष्यभावस्य सुधाशब्दे सदृशलक्षणामन्तरेणा-योगात्; आपादपरिसमाप्तेः, "समानाधिकरणेन' इत्यधिकाराभ्युपगमाच्च; सुधाशब्देन भोग्यत्वमभिप्रेतमिति वक्ष्यमाणत्वाच्चेति चेत्-

सत्यम्; अस्त्येव स्वपक्षेऽपि लक्षणा; तथापि सा, "उपमितं व्याघ्रादिभिः' इति सूत्रानुशिष्टा । षष्ठीसमासपक्षे तु सुधाशब्दस्यार्थे लक्षणा न शास्त्रीया; अपि त्वैच्छिकी । अत एव, "इन्द्रपीतस्य' इति भक्षमन्त्रे बहुव्रीहौ लक्षणाद्वयसद्भावेऽप्यैच्छिकलक्षणाद्वययुक्त-तत्पुरुषपरित्यागेन शास्त्रानुशिष्टलक्षणाद्वययुक्तबहुव्रीहिपक्ष एवाश्रितः । इन्द्रेण पीत इति तत्पुरुषाश्रयणे पूर्वपद एका लक्षणा; तथा पीतपदे पीतावयलक्षणा । वक्ष्यति चाचार्यः "अन्तस्तद्धर्मोपदेशात्' इत्यत्र, "ह्मदयपुण्डरीकमिति प्रयोगस्तु "उपमितं व्याघ्रादिभिः' इति सूत्रविहितसमासत्वात् मुख्य एव' इति ।

केचित्तु रूपकसमासे शक्यतावच्छेदकप्रकारकस्याहार्यारोपस्यैवोत्पत्तेस्तत्र मुख्यत्वमेव । अतएव अन्नमयादावात्मशब्दस्य मुख्य-त्वमिति, "अन्वयादिति चेत् स्यादवधारणात्' इत्यादौ क्रियासमभिहारेण ग्रन्थकृद्य्ववहार इति वदन्ति ।

ननु "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति सामान्यधर्माप्रयोग एव समासविधानात् पूर्वाचार्यसुरक्षितत्वादेश्च सामान्यधर्मस्य प्रयुज्यमानत्वात् कथं समास इत्याशङ्कय, "पुरुषव्याघ्रोऽभिरूपः' इत्यादिषु व्याघ्रशब्दविवक्षित शूरत्वरूप सामान्यधर्माप्रयोगेण अभिरूपशब्दप्रयोगेपि समासवत् सुधाशब्दविवहितभोग्यत्वरूपधर्माप्रयोगात् समास उपपद्यत इत्यभिप्रयन्नाह - सुधाशब्देन भोग्यत्वमभिप्रेतमिति । आनन्त्यादीति आदिशब्देन गाम्भीर्याद्युच्यते । आध्यात्मिकादीति आदिशब्देनाधिदैविकाधिभौतिकयोग्र्रहणम् ।

समिति कैवल्यव्यावृत्तिरिति । नन्वेतद्वाक्यपर्यालोचनायां कैवल्यस्यापि संसारोन्मोचनकोटावनुप्रवेश एवाचार्याणामभिमत इति प्रतीयत इति चेत्-मैवम्; समिति कैवल्यव्यावृत्तिरिति वदद्भिः कैवल्यस्य समीचीनसंसारनिवृत्तित्वाभावकथनेन संसारानुवृत्तेरेवाभ्यु-पेतत्वात् । प्राणशब्दस्य परमात्मपरत्वसमर्थनपूर्वकं परमात्मालाभे संसारस्य हेतुत्वं कथयतामाचार्याणां कैवल्ये संसाराभावस्याभि-मतत्वे, "निमित्तापाये नैमित्तिकस्याप्यपायः' इति न्यायात् कैवल्ये संसाराभावेन परमात्मलाभस्यैवाभ्युपगन्तव्यत्वप्रसङ्गात् । वस्तुतस्तु व्यपगतप्राणात्मसंजीवनीमित्युक्ते व्यपगतप्राणानां संजीवनीं प्राणधारिकामित्येवार्थः प्रतीयते; जीवनशब्दस्य प्राणधारणार्थत्वात् । ततश्च यः प्राणो व्यपगत, तत्प्राणलम्भिकामित्यर्थः पर्यवस्यति । ततश्च व्यपगतपरमात्मरूपप्राणलम्भकत्वं कैवल्यस्याप्रसक्तमेव । कथं तर्हि, समिति कैवल्य व्यावृत्तिरित्युच्यत इति चेत्; इत्थम्-प्राणशब्दो जीवपरमात्मोभयपरः; भूमविद्यायां प्राणशब्दस्य जीवेऽपि प्रयोगात् । ततश्च संसाराग्निविदीपनेन व्यपगतप्राणानां जीवपरमात्मानुभवशून्यानां जीवनीमित्युक्ते कैवल्यस्यापि तदन्यतरजीवरूप-प्राणलम्भकत्वमस्तीति तद्य्वावृत्त्यर्थं समित्युपसर्गः । ततश्च व्यपगतयावत्प्राणलम्भकत्वं समित्युपसर्गसिद्धमिति ग्रन्थाभिप्रायो द्रष्टव्यः ।

निषादस्थपत्यधिकरणन्यायेन कर्मधारयमभिप्रेत्याह - बह्वयो मतय इति । एककर्तृकमतिभेदस्य परस्परव्याहत्यसंभवात् कर्तृभे-दोऽवश्यं वाच्य इत्यभिप्रायेणाह - बहूनां मतयो वेति । गायत्र्यवयवभूतैरिति । "कद्रूश्च वै सुपर्णी च' इत्यनुवाके, "तृतीयस्यामितो दिवि सोम आसीत्' इति मन्त्रे च गायत्र्या अमृताहरणस्य प्रसिद्धेरिति भावः । पिबन्त्वित्यनेन रस्यतायाः स्वरसतः प्रतीतेः अन्वह-मित्यस्य तदतिशयद्योतकत्वं युक्तमिति मत्वाऽऽह - रस्यतातिशयादिति । ग्रन्थस्य तृप्तिकरत्वप्रतिपादनस्य मन्दफलत्वादाह - यद्वा गभीरत्वादिति ।

पूर्वाचार्यशब्दोऽपीति । पूर्वाचार्यसुरक्षितामिति श्लोकस्थपूर्वाचार्यशब्दोऽपीत्यर्थः । विस्तीर्णां संचिक्षिपुरित्यनेनेति । भवदीयस्य शारीरकव्याख्यानस्य कथं सांप्रदायिकत्वम् ? मूलानुपलम्भात्; न च टङ्कद्रमिडादिभाष्यग्रन्थ एव मूलमिति वाच्यम्, तस्यापि सांप्र-दायिकत्वे प्रमाणाभावादित्याशङ्कापरिहारोऽप्यर्थात् सूच्यत इति भावः । भाष्यव्याख्याने प्रवृत्तस्य (भवतः?) भगवत आचार्यस्य भाष्यानन्तर्गतश्लोकव्याख्यानमनुचितमित्यभिप्रायेणाशङ्कते - ननु सूत्रार्थ इत्यादिना । मङ्गलाचरणमिति; अखिलेत्यादि श्लोकद्वय-मित्यर्थः । अविघ्नपरिसमाप्त्याद्यर्थतयेति । आदिशब्देन विषयप्रयोजनाधिकारिणः कथ्यन्ते । तदन्तर्भाव्येवेति । महाभाष्ये पस्पशा-ह्निकवदिति भावः ।

प्रस्तोतव्यत्वमुच्यत इति चेदिति । यथा "त्वामस्मि (हं) वच्मि विदुषां समवायोऽत्र तिष्ठति' इत्यत्र वच्मीत्युक्तया उच्यमान-स्यार्थस्य उपदेश्यत्वमवसीयते, एवमारभ्यत इत्यर्थेन अथेत्यनेनारम्भयोग्यत्वमुच्यत इत्यर्थः स्यादिति शङ्काभिप्रायः । उपदेशार्थ-ज्ञापनपरत्वाभावादिति । प्रस्तोतव्यत्वमित्यत्र तव्यप्रत्ययस्य, "प्रैषातिसर्ग' इति सूत्रविहितप्रैषार्थककृत्यप्रत्ययत्वासंभवात्, "अर्हे कृत्यतृचश्च' इत्यर्हार्थविहितकृत्यप्रत्ययत्वं वाच्यमित्यर्थः । योग्यत्वमशाब्दमिति । ननु प्रस्तोतव्यत्वस्य वाच्यत्वमभ्युपगम्य कथं योग्यत्वस्य शाब्दत्वं प्रत्याख्यायते ? "अर्हे कृत्यतृतश्च' इत्यनुशासनेन प्रस्तावार्हत्वस्यापि प्रस्तोतव्यशब्दार्थत्वात् । न च प्रस्तोत-व्यत्वस्यापि वाच्यत्वं नाभ्युपगतमिति वाच्यम्-तदानीमपीत्यपिशब्देन तदभ्युपेत्यैव प्रवृत्तेरिति चेत्-न-तदानीमपीत्यपिशब्देन न वाच्यत्वमभ्युपेतम्, अपि तु तत्पदप्रयोज्यप्रतीतिविषयत्वमात्रं प्रस्तोतव्यत्वस्याभ्युपेतम् । ततश्च, यथा धूमे बोधिते स्वयमेवासौ वह्निमनुमास्यतीति बुद्धया प्रयुक्ते "धूमोऽस्ति' इति वाक्ये वह्नयस्तित्वं न शाब्दम्, मुख्यार्थानुपपत्त्यभावेन वह्नौ लक्षणाया धूमशब्दे (व्दस्य) अभावात्-तद्वत् प्रारम्भयोग्यत्वस्य कथंचिदथपदप्रयोज्यप्रतीतिविषयत्वे सत्यपि न शाब्दत्वमिति भावः । ननु वह्नि- तात्पर्यके "धूमोऽस्ति' इति वाक्ये वह्नयस्तित्वस्य शाब्दत्वमपि संभवत्येव, तात्पर्यस्यापि लक्षणाबीजत्वात् । "अव्भक्षः' इत्यादौ यथाश्रुतार्थप्रतिपादनमात्रेण प्रयोजनानवाप्तेस्तन्मात्रभक्षणस्य शाब्दत्वाङ्गीकारात् । नद्यां सिष्णासुं प्रति प्रयुक्ते, नद्यां ग्राहाः सन्ति'

इति वाक्ये, "तत्र मा स्नासीः' इत्यादिवाक्यार्थलक्षकत्वस्य तान्त्रिकैरभ्युपेतत्वादिति चेत् - न । आरम्भयोग्यत्वस्य व्यङ्गयार्थतया शक्तिलक्षणान्यतरमूलकत्वाभावेन शाब्दत्वाभावात्; प्रसिद्धानन्तर्यार्थप्रतिपादनमुखेन वक्ष्यमाणप्रयोजनसंभवे अप्रसिद्धमन्दप्रयो-जनकप्रारम्भार्थकत्वस्यायुक्तत्वाच्च । अथवा, अशाब्दम् अवाच्यम् अशक्यमित्यर्थः । योग्यत्वस्य कथंचिदमुख्यया वृत्त्या प्रतिपाद्य-त्वसंभवेऽपि मुख्यत्वासंभवात् मुख्यार्थग्रहणे संभवति तत्त्यागस्यानुचितत्वादिति भावः । एवमथयोग्येत्युक्ते इति । यद्यपि, "अथातो ब्राहृजिज्ञासा योग्या' इत्यध्याहारे अथेत्यस्याधिक्रियत इत्यर्थः, ततश्च "अधिक्रियते ब्राहृजिज्ञासा योग्या' इत्यर्थः स्यात् । योग्यत्वं च संनिधानात् अधिकार एव लभ्यते । यथा, "योग्या ब्रााहृणा आनीयन्ताम्' इत्युक्ते आनयनयोग्या इत्येव प्रतीयते । ततश्च "प्रारभ्यते योग्या ब्राहृजिज्ञासा' इत्युक्ते प्रारम्भयोग्येति प्रतीतिः सिध्यति-तथापि अधिक्रियते योग्येति न शाब्दप्रतीतिः स्यादिति भावः । अत एव वक्ष्यति- "अधिकृतमित्यपि फलितार्थकथनम्; न वाचनिकोक्तिः' इति । चादीनां द्योतकत्वादिति । निपातानां द्योतकत्वस्य वाक्यपदीये निर्णीतत्वादिति भावः । नन्विदमानन्तर्यार्थकत्वपक्षेऽपि समानमित्याशङ्कय सप्रयोजनत्वाप्रयोजनत्वाभ्यां वैषम्यमित्याह - अत्र त्वित्यादिना ।

माङ्गलिकावुभाविति । प्रयोजनार्थे ठक्प्रत्यय इति भावः । यद्यपि भूवादिसूत्रे अन्वयप्रतियोग्यनुपस्थापकस्यापि वाकारस्य मङ्ग-लार्थवत् सप्रयोजनत्वं संभवति - तथाप्यन्वयप्रतियोग्युपस्थापकत्वेन वाक्यार्थान्वयित्वसंभवे गत्यभावस्वीकार्यमङ्गलमात्रप्रयोज-नकत्वस्यायुक्तत्वमिति भावः । प्रकृतादथादर्थान्तरपरत्वमित्यत्र प्रकृतादिति पञ्चमी ल्यब्लोपे । न तु "अन्यारादितर' इत्यन्यार्थे इत्याह - तद्धि प्रकृतमपेक्ष्येति । अथशब्देन वक्ष्यमाणस्य कल्पान्तरस्य प्रकृतविषयत्वं हि ज्ञाप्यते । "किं ब्राहृ सगुणमथ निर्गुणम्' इत्युक्ते प्रकृतं ब्राहृापेक्ष्यैव निर्गुणत्वरूपकल्पान्तरमुपन्यस्त इति प्रतीयते; न तु तदतिरिक्तं जीवं जडं वापेक्ष्येति । यथा वा, "अथा-ध्यात्मम्' इत्यादि । ततश्च प्रकृतापेक्षत्वमथशब्दार्थः । अत एवोत्तरत्रापि, "न ह्रमङ्गलत्वप्रकृतानपेक्षत्वाकार्त्स्न्#ै#ः पूर्वपक्षोत्थानम्' इति वक्ष्यति ।

हेतोः साध्याविशिष्टत्वं स्यादिति । नन्वानन्तर्यार्थत्वपक्षेऽपि न अथशब्दोपस्थापितमानन्तर्यं हेतूकर्तुं शक्यम् । न ह्रानन्तर्यात् ब्राहृजिज्ञासा कर्तव्येति वक्तुं शक्यते-अपि तु ब्राहृजिज्ञासाक्षिप्तः कर्मविचार एव अतश्शब्देन हेतुतया परामृश्यते ।स एवाथशब्द-निर्दिष्टानन्तर्यप्रतियोगितयाप्यन्वेतीति वाच्यम् । तद्वदिहापि ब्राहृजिज्ञासाक्षिप्तकर्मविचार एवातःशब्देन हेतुतया परामृश्यताम्, न त्वथशब्दोपस्थापितमधिकृतत्वमिति चेत्-न; "उत्तरार्धादिशब्दानां सापेक्षार्थाभिधायिनाम् । नापेक्षणीयसंबन्धात् प्रागर्थोऽध्यव- सीयते ।' इति न्यायेनाथशब्दस्य केवलानन्तर्याप्रतिपादकत्वेन पूर्ववृत्तकर्मविचारविशिष्टानन्तर्यप्रतिपादकतया कर्मविचारस्याप्यथ-शब्दोपस्थापितत्वेनानन्तर्यार्थत्वपक्षे अथशब्दोपस्थापितस्य कर्मविचारस्य अत शब्देन हेतुतया परामर्शः संभवेत् । अधिकारार्थत्वपक्षे तु न तथेति वैषम्यादिति भावः । ननु "मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्#ेष्वथो अथ' इत्यानन्तर्यादिवत् मङ्गलस्यापि सहपाठात् वाच्य-त्वमेव स्यादित्यस्वरसादाह - वाच्यत्वाभ्युपगमेऽपीति । पूर्वपक्षयुक्तिप्रत्यनीकत्वाभावादिति । आनन्तयर्पक्षे तु कर्मणामल्पा-स्थिरफलत्वप्रतीतिसहितानन्रस्थिरफलापातप्रतीतिरूपाधिकारिविशेषणासंभवरूपपूर्वपक्षयुक्तौ कर्मविचारहेतुत्वोपन्यासस्य प्रत्य-नीकत्वादिति भावः । न ह्रमङ्गलत्वप्रकृतानपेक्षत्वाकार्त्स्न्#ै#ः पूर्वपक्षोत्थानमिति । यद्यप्यमङ्गलत्वादिना पूर्वपक्षे न मङ्गलत्वादीनां हेतुतया परामर्शः संभवति । मङ्गत्वादेस्तत्पूर्वपक्षिभिरनभ्युपेतत्वात् । उभयसंप्रतिपन्नस्यैव हेतूकरणीयत्वात् तथापि क्षित्यादिषु सकर्तृकत्वसाधने सावयवत्वसाधितस्य कार्यत्वस्य प्रसाध्याङ्गकस्य हेतुत्ववत् प्रसाध्याङ्गकानां मङ्गलत्वादीनां हेतुत्वं संभवतीति भावः ।

प्रश्नवाक्यगतप्रश्नस्त्विति । नन्वथशब्दोपस्थापितत्वेन प्रश्नस्यातःशब्दपरामर्शयोग्यत्वात् कुतो नातःशब्देन परामर्श ? न च तस्यासिद्धत्वात् न हेतुतया परामर्श इति वाच्यम् । न हि हेतुतया परामशर्दशायां हेतुतया पराम्रष्टव्यस्य तादात्विकसिद्धत्वम- पेक्षितम्, "भाविनो वर्षात् फलम्' इत्यादिप्रयोगदर्शनात्, "प्रश्नेनार्थो ज्ञायते किम् ?' इति प्रश्नवाक्य एव प्रश्नस्य तृतीयया हेतुत्व-दर्शनात् । अन्यत्र (अत्रत्य) प्रश्नशब्दस्य प्रश्नसामान्यपरतया क्रियमाणप्रश्नादन्य एव प्रश्नस्तृतीयया हेतुत्वेन परामृश्यत इति वक्तुं (क्तुम) शक्यत्वादिति चेत्-न-अथकिंशब्दादौ प्रश्नस्य प्रयोक्तृधर्मत्वेन सूचने सत्यपि वाक्यार्थान्वयित्वाभावात्; "हा, हन्त' इत्यादौ विषादवत् । न तु प्रश्नादिशब्दवत् प्रश्नस्य वाच्यत्वमित्यत्र तात्पर्यात् । भवतीति पदेनेति । केचित्तु अथशब्द इत्यनेनैव स्वस्वारस्यं सूच्यत इति वदन्ति । इत्यादिसूत्रान्तरेति । "अथशब्दानुशासनम्' इत्यादौ सूत्रत्वोक्तिरौपचारिकीति द्रष्टव्यम् ।

अथशब्दस्यानन्तर्ये स्वारस्यं हीति । अस्मिन् प्रयोगे तदर्थकत्वस्य सापेक्षत्वेऽपि स्वारस्यमात्रस्य न सापेक्षत्वमिति भावः । यथा

गुरुभार्गवावित्यादिषु परस्परसाहचर्यात् ग्रहयोरेव प्रतीतिः; नाचार्यपरशुरामयोः । यथा च रामकृष्णाविति बलकेशवयोरेव प्रतीतिः; न तु दाशरथ्र्यर्जुनयोः-एवमिहापीतरेतरसाहचर्यादर्थनिर्णायकत्वेऽपि न दोष इति परिहारान्तरं द्रष्टव्यम् । इमे चाभ्युच्चययुक्ती इति । इमे अथातःशब्दस्वारस्ये । अत्रपदाभिप्रेतेति । ब्राहृजिज्ञासापदाक्षिप्तपूर्ववृत्तसापेक्षत्वादिति भावः ।

(अथातःपदद्वयकृत्यविचारः )

ननु, "अथातःशब्दयोरन्यतरेणाल'मित्यस्य कोऽभिप्रायः ? किमेकाकारप्रतीतिजनकत्वादिति, उत "भूतले घटः', "घटवत् भूतलम्' इतिवत् प्रयोजनैक्यादिति वेति विकल्पं ह्मदि निधाय जिज्ञासाविशेष्यकोत्तरकालकर्तव्यताप्रकारकज्ञानजनकस्य अथ-शब्दस्य, पूर्ववृत्तविशेष्यकहेतुत्वप्रकारकज्ञानजनकस्य चातःशब्दस्य नैकाकारप्रतीतिजनकत्वमिति प्रथमपक्षं दूषयति- अथशब्द-स्यानन्तरकालमुपस्थापयत इत्यादिना । द्वितीयं दूषयति - प्रतिज्ञाहेतुरुपेणेति । न कर्तव्यतामात्रं साध्यधर्म इति । ब्राहृजिज्ञासा विचारितकर्मभिः पुरुषैरनुष्ठेया, कर्मणामल्पास्थिरफलत्वप्रतीतिसहितानन्तस्थिरफलप्रतीतेर्विचारितकर्मसु पुरुषेषु संभवादिति प्रदर्शनं ह्रुचितम् । ततश्च विचारितकर्मत्वरूपपुरुषविशेषणप्रतिपत्त्यर्थमथशब्दोऽपेक्षितः । तÏस्मश्च सति उक्तार्थो लभ्यत इति भावः । शास्त्रान्तरश्रवणेन विना संपादयितुमशक्य्वादिति । नित्यानित्यवस्तुविवेकादीनामिति शेषः । अथशब्दाक्षिप्तेति । अथशब्दाक्षि-प्तकर्मविचारहेतुत्वाक्षिप्तस्य विशिष्टहेतोरसिद्धि शङ्कापरिहारार्थत्वादित्यर्थः ।

(अधीतसाङ्गेतिभाष्यविषयः)

अधिगताल्पास्थिरफलकेवलकर्मज्ञानतयेति भाष्यस्यायमर्थः-अधिगतम्उप्राप्तम् अल्पास्थिरफलं केवलकर्मेति ज्ञानं यस्य सृ#ोधिग-ताल्पास्थिरफलकेवलकमज्र्ञानः, तत्त्वेनेति । उपनीय तु यश्शिष्यमिति । ननु श्रोत्रियोपाध्यायगुर्वादिनामविधानवत् तत्प्रकरणस्थमिदं वाक्यमुपनीयाध्यापयितुराचार्यनामविधानपरमिति ग्रन्थकृतैव वक्ष्यमाणत्वात् कथमस्य वाक्यस्य साङ्गसशिरस्कवेदाध्ययनकर्तव्यतायां प्रमाणतयोपन्यास इति चेत्-मैवम् । "कायर्कालं संज्ञापरिभाषम्' इति न्यायेनास्य वाक्यस्य, "आचायर्वान् भवेत्' इति विधिवा-क्यैकवाक्यतया तद्वाक्यैकदेशस्यास्य तदेकवाक्यतया प्रामाण्यसंभवात् । ततश्च कंचिद्गुरुमुपेत्य तस्य सकाशात् सकल्पं सरहस्यं च वेदं स्वीकुर्वीतेति हि तस्य वाक्यस्यार्थ इति भावः । गुरुमताभिप्रायेण वा बोध्यम् । गुरुमते हि, "सकल्पं सरहस्यं वेदमध्यापयेदाचार्यक-कामः' इति श्रुत्युन्नायकत्वादस्य वाक्यस्याध्यापनविधिप्रयुक्तवेदाध्ययनवत् कल्परहस्याध्ययनस्यापि सिद्धत्वोपपत्तेः । आगमोत्थेति । विचारसहकृतवाक्यजन्यमागमोत्थम् । विवेकविमोकादिजन्यं तु ध्यानादिरूपम् । कर्मविचारस्य हेतुतयोक्तत्वात् इत्यनन्तरं "सिद्धः' इति शेषः । सिद्धिप्रकारः कथमित्याशङ्कय, कारणतया कार्यतया च (अङ्ग) सिद्धिरित्याह - कमर्विचारस्येत्यादिना । आवृत्ति-विधानादिभिरिति । यदि चातुर्मास्यादीनामक्षयफलत्वम्, तदा पुनस्तदनुष्ठानवैयथ्र्यात् प्रत्यब्दं चातुर्मास्याद्यावृत्तिविधानं व्यर्थं स्यादिति भावः ।

ननु-आवृत्तिविधानस्य न कर्मणामल्पास्थिरफलत्वावगमहेतुत्वम्; "आवृत्तिरसकृदुपदेशात्' इत्यधिकरणे, "आ प्रयाणात्तत्रापि हि दृष्टम्' इत्यधिकरणे च ज्ञानस्याप्यावृत्तिप्रतिपादनेन तत्फलस्य मोक्षस्याप्यनित्यत्वप्रसङ्गात् । यद्याप्रयाणमहरहरावृत्तिविशिष्टस्यैव ज्ञानस्य मोक्षः फलम्, तदा अत्रापि तथास्तु । यदि "प्रतिवसन्तं सोमयागस्य; पञ्चाब्धपयन्र्तं वा पञ्चदशाब्दपर्यन्तं वा प्रत्यब्दं वा चातुर्मास्यानाम्' इति विहितावृत्तिवैशिष्टयेन फलजनकत्वाभ्युपगमे तत्तदावृत्तितारतम्यात् फलतारतम्यं स्यादित्युच्येत, तदा ज्ञाना-वृत्तेरप्याप्रयाणमनुवर्तनीयायाः प्रयाणकालस्याव्यवस्थितत्वात् तारतम्येन फलतारतम्यं स्यादिति तुल्यम् । न च "कमण्र्यारम्भ-भाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः' इत्येकादशाध्यायाधिकरणे (11-1-3) कर्मणां कृषिन्यायेन प्रत्यारम्भं फलभेद-व्युत्पादनादनित्यफलत्वमिति वाच्यम्-आवृत्तिवैशिष्टयेन येषां कर्मणां फलजनकत्वम्, तदतिरिक्तविषयत्वात् तस्य । अवश्यं च तथाभ्युपगन्तव्यम् । इतरथा दाक्षायणयज्ञे फलभेदः स्यात् । न च, "फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतो विशेषः स्यात्' इत्यर्थवादाधिकरणसूत्रे (1-2-17) बह्वल्पाङ्गकर्मगुरुलघुभावानुसारेण फलतारतम्यस्योक्तत्वात्, "हिरण्यदा अमृतत्वं भजन्ते', "अपाम सोमममृता अभूम', "अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्' इत्यादिना अमृतत्वसाधनतयोक्तनां हिरण्यदानसोमया-गचातुर्मास्यानामतुल्यत्वावगत्या अल्पास्थिरफलत्वं सिध्येदिति शङ्कनीयम्-"विकल्पोऽविशिष्टफलत्वात्' इत्यधिकरणे बह्वल्प-गुणविद्यानां प्रपत्तेश्च गुरुलघुभावे सत्यप्येकरूपमुक्तिफलताया वक्ष्यमाणत्वात् तद्वदेव कर्मण्युपपत्तेः । ननु उपासनानामाप्रयाण-मावृत्तिविशिष्टतया फलसाधनत्वम्, बह्वल्पगुणकोपासनानां प्रपत्तेश्च विकल्पेन साधनत्वं च तृतीये वक्ष्यत इत्येतत् सत्यम्-तथापि

ब्राहृविचाराम्भदशायां वक्ष्यमाणन्यायापरिज्ञानादावृत्तिविधानादिमात्रेण कर्मणामल्पास्थिरफलत्वं ज्ञायत इति चेत्-सत्यमनेन ज्ञायते । तथापि वक्ष्यमाणविरोधादावृत्तिविधानादियुक्तेराभासत्वात् तन्मूला कर्मफलानित्यत्वबुद्धिरप्याभासीभवेत् । किंच, आर-म्भदशायामपि वक्ष्यमाणार्थानां श्रुतशास्त्रेभ्योऽवगतिसंभवात् तादृशवक्ष्यमाणन्यायावगतिमतां पुरुषाणां कर्मणामल्पास्थिरफलत्वाव-गत्यभावेन ब्राहृविचारे प्रवृत्त्यभावप्रसङ्गात् । किंच, अवहननवत् विचारस्य दृष्टार्थत्वेन यावत्फलोदयमावर्तनीयतया पुनर्विचारा-रम्भदशायाम् "विकल्पोऽविशिष्टफलत्वात्' इति तृतीयाध्यायसूत्र न्यायावगति संभवात् । एतेन ज्योतिष्टोमेन स्वर्गकामो यजेतेति स्वर्गार्थत्वेन विहितस्य सोमयागस्योत्तरवेद्या विकल्पितमग्न्याधारस्थण्डिल-रूपाग्निमाश्रित्य, "श्येनचितं चिन्वीत स्वर्गकामः' इति स्वर्गार्थश्येनाकृतिरूपगुणविधानसामथ्र्येन तद्गुणयुक्तसोमयागजन्यस्वर्गात् केवलतज्जन्यस्वर्गस्य न्यूनतावश्यम्भावात् अल्पास्थिरफलत्वावगमः सिध्यतीत्यपि शङ्का परास्ता । "ए (एकै ?) कस्मै वा अन्ये यज्ञक्रतवः कामायाह्नियन्ते, सर्वेभ्यो ज्योतिष्टोमः' इति सर्वफलार्थतया विहितस्य सोमयागस्य "यो वृष्टिकामो योऽन्नाद्यकामो यः स्र्वगकामः स सौभरेण स्तुवीत' इति फलत्रयसाधनतया विहितस्य सौभरस्य तत्तत्फलविशेषार्थप्रयोगे, "हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामाय' इति निधनविशेषव्यवस्थावत् स्वर्गार्थसोमयागप्रयोगे गुणविशेषव्यवस्थेत्युपपत्तेः । न च, "अपाम सोमममृता अभूम', "अक्षय्यं ह वै' इत्यादिमन्त्रार्थवादवर्णितानां फलत्वाभावनियमः, सूक्तवाकमन्त्राम्नातानामायु-रादीनां रात्रिसत्रार्थवादामनातायाः प्रतिष्ठायाश्च फलत्वदर्शनात् । न च सोमयागस्य विध्युद्देशे फलश्रवणात् मन्त्रोक्तफलं न ग्राह्रमिति वाच्यम्-विध्युद्देशश्रुत एव स्वर्गे नित्यत्वरूपविशेषणस्य, "सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि' इति मन्त्रेण लोकविशेषभोग्यत्वस्येव समर्पणोपपत्तेः । "दिवि ज्योतिरजरमारभेताम्' इत्यैष्टिक एव मन्त्रान्तरे पत्नीयजमानाभ्यां प्राप्यस्य फलस्य नित्यत्वोक्तेश्च । "फलवत्तां (च) दशर्यति' इति पन्यधिकरणसूत्रे (पू.मी.6-1-21) विशिष्यास्य मन्त्रस्य फलसमर्पकतायाः प्रदर्शि-तत्वात्-इति चेत् ।

उच्यते-यत्तावदुक्तं ज्ञानस्याप्यावृत्तिश्रवणादिति । तन्न, ज्ञानस्यासाधनत्वात् ध्यानस्यैव साधनत्वात् । तस्य चावृत्तिविशिष्टत्वात् । यद्यपि "आप्रयाणात्' इत्यत्र ध्यानस्याप्यावृत्तिरुक्ता, तथापि "प्रायणान्तमोंकारमभिध्यायीत' इति प्रायणान्तमनुष्ठितस्यैव ध्यानस्य मोक्षसाधनत्वात् । कर्मणि, तादृशावृत्तिविशिष्टस्य कर्मणो मुक्तिसाधनत्वप्रतिपादकवाक्यादर्शनात् । "स खल्वेवं वर्तयन् यावदायुषम्' इत्यस्य ध्यानविषयत्वात् । कर्मसु तु पञ्चाब्दपञ्चदशाब्दाद्यावृत्तितारतम्यात् फलभेदस्यावश्यम्भावात् । न हि ध्यानादावीदृशमावृत्ति-तारतम्यमस्ति, प्रायणान्तावृत्तस्यैव साधनत्वात् । न हि प्रायणान्तावृत्तं (त्ति) साधनं कस्यचित् शीघ्रमासीदित्येतावता फललाघवं कल्पयितुमुचितम् । तथा हि सति कस्यचिद् दृढाङ्गस्य सहकारिपौष्कल्यवतः किंचित् कर्म शीघ्रं निर्वृत्तमिति तत्र फललाघवं कल्प्येत । न हि सेतुदर्शनं कस्यचित् रोग (चोर) पीडादिकमन्तरेण निष्पन्नमित्येतादृशापेक्षया फलवैषम्यं कल्प्यते । उपसंहार्यगुणाल्पभूयस्त्वा-दिकमपि न फलवैषम्यकल्पकम्; यथाकथंचिदाप्रयाणं निरन्तरकतव्र्यत्वाविशेषेणानुष्ठाने सौकर्यदौष्कर्यासंभवात् । तस्मादावृत्तितार-तम्येन फलतारतम्यस्यावश्याभ्युपेयत्वात् मुक्तौ च तदभावात् मुक्तेरन्यदेव कर्मणः फलं वाच्यम् । किंच अनेकजन्मानुष्ठितनित्यनैमि-त्तिककर्मनिर्मलीकृतान्तःकरणसंपाद्यायाः शान्त्याद्यङ्गिकाया भक्तेः सर्वतो गरीयस्त्वेन तत्साध्यमुक्तेः कर्मसाध्यत्वे गुरुतरभक्तिरूप-साधनविधेमर्हाविश्वासानुबद्धप्रपत्तिविधेश्चाननुष्ठानलक्षणाप्रामाण्यप्रसङ्गात् न कर्मणां भक्तिप्रपत्तिसाध्यमोक्षफलकत्वमिति कर्मफला-नित्यत्वनिश्चयः कृतकर्मविचाराणां सुलभ इति आवृत्तिविधानादिभिरित्यस्य ग्रन्थस्याभिप्रायः ।

कर्मणः फलद्वारा हानायेति । फलद्वारा हानम्उफलस्यानित्यत्वज्ञानमिति यावत् । ज्ञातव्यत्वम् विचार्यत्वमित्यर्थः । कर्म-विचारस्य कर्मफलानित्यत्वज्ञानफलकत्वं कण्ठोक्तमित्यर्थः । स्वरूपेणोपादानायेति । तृतीयाध्यायकरिष्यमाणविचारापेक्षित-कर्मस्वरूपपरिज्ञानायेत्यर्थः । एतेन-कर्मविचारस्य ब्राहृविचारोपयोगदशायां कर्मज्ञानस्य हानोपादानोपयोगसमर्थनमसंगतम् । न हि हानोपादानयोर्विचारोपयोगोऽस्ति, येन तद्द्वारा कर्मविचारो ब्राहृविचारोपयुक्तः स्यात् । उपादेयस्य नित्यनैमित्तिककर्मणो ध्या-नाङ्गत्वेन विचाराङ्गत्वाभावात् । न च विचारे प्रवर्तमानस्यापि चित्तशुद्धयर्थं कर्मानुष्ठानमपेक्षितम्, काम्यानां च कर्मणां त्यागो-ऽपेक्षित इति वाच्यम् । तर्हि कर्मविचारानन्तरं किंचित्कालं कर्मानुष्ठाय विशुद्धचित्तो विचारे प्रवर्तत इत्यव्यवधानेन प्रवृत्तिर्न स्यात्- इति शङ्का परास्ता । हानोपादानशब्दयोरनित्यत्वनित्यत्वद्वारा हेयत्वोपादेयत्वज्ञापनपरत्वात् । अत एव हि वक्ष्यति - स्वरूपेणो-पादेयत्वप्रतीते-(ति ?) रनन्तस्थिरफलापातप्रतीत्यन्तर्भावादिति (भूतेति?) । ननु कर्मविचारात् कमर्णामल्पास्थिरफलत्वनि-श्चयसद्भावेऽपि न हेयत्वनिश्चयः । उत्तरभागे अनन्तस्थिरफलनिश्चयाभावेन सर्वत्राप्यल्पास्थिरफलत्वसंभावनावतः पूर्वभागप्रतिपन्ने कर्मणि हेयत्वनिश्चयानिष्पत्तेरिति चेत्-न; उत्कटकोटिकहेयत्वज्ञाननि#ेष्पत्तिसंभवेनादोषात् । ग्रन्थाविरोध इति । "अपेक्षितकर्म-

स्वरूपज्ञ न केवलकर्मणामल्पास्थिरफलत्वज्ञानं च' इति प्रयोजनद्वयसूचकग्रन्थेन कर्मफलानित्यत्वज्ञानरूपैकप्रयोजनदर्शकस्यास्य न विरोध इत्यर्थः । कर्मानुष्ठात्रभावप्रसङ्ग इति । अकृतकर्मविचाराणां त्वनुष्ठानौपययिकार्थनिश्चयाभावेनानुष्ठानाप्रसक्तेः अनु-ष्ठानस्य कृतकर्मविचारपुरुषविषयतया तेषां च बहृविचारप्रवृत्तत्वादनुष्ठात्रभावप्रसङ्ग इत्याक्षेपाभिप्रायः । श्रुत्वापि ये स्वर्गार्थिन इति । ननु कृतकमर्विचाराणां सर्वेषां ब्राहृविचारे प्रवृत्ततया वैराग्यपादश्रवणेन स्वर्गार्थित्वमेव न स्यादित्याक्षिपन्तं प्रति नेदमुत्तरमिति चेत् न; श्रुत्वापि ये स्वर्गार्थिनो दृश्यन्ते, तेषामिति तदर्थत्वात् । ब्राहृविचारसामग्रीति । कृतेऽपि ब्राहृविचारे अदृष्टवैगुण्येनाशु-द्धचित्ततया स्वर्गार्थकर्मानुष्ठानसंभवादित्यपि द्रष्टव्यम् ।

(षष्ठयर्थविचारः)

कर्मत्वकरणत्वादिसंबन्धविशेषेष्विति । नन्वेतद्वाक्यपर्यालोचनायां षष्ठयर्थभूतसंबन्धसामान्यावान्तरविशेषरूपत्वं कर्मत्व-करणत्वादेः प्रतीयते । न च तद् युज्यते वक्तुम्; "षष्ठी शेषे' इति कर्माद्यतिरिक्ते प्रातिपदिकार्थव्यतिरिक्ते षष्ठया अनुशिष्टत्वेन, द्वितीयातृतीयाथर्योः सामान्यविशेषभावाभाववत् द्वितीयार्थस्य षष्ठयर्थस्य च सामान्यविशेषभावाभावात् ।

"संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः ।

श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते ।।'

इति हरिणोक्तत्वेन, "नटस्य #ृणोति', "माषाणामश्नीयात्', "अनुकरोति भगवतो नारायणस्य', इत्यादावपि कर्मत्वाद्यतिरिक्तस्य क्रियाकारकसंबन्धपूर्वकस्य शेषशेषिभावादिलक्षणस्य संबन्धस्यसत्त्वादिति चेत्-न; "माषाणामश्नीयात्' इत्यादौ कर्मत्वाद्यति-रिक्तकल्पने प्रमाणाभावात्, द्वितीयादीनां षष्ठयपवादतया विधानाभ्युपगमेन सामान्यविशेषभावनियमोपपत्तेः । इतरा विभक्तयः- विहिता इति । यद्यपि "कर्तृकर्मणोः कृति' इति षष्ठयपि विहिता-तथापि कर्मादिषु संबन्धविशेषेष्वेवेतरविभक्तयो विहिताः; षष्ठी तु संबन्धसामान्ये, विशेषेऽपि विहितेत्येवकारम्, अपिशब्दं चाध्याह्मत्य योजना कार्या । परिणा ब्राहृानुबन्धिनामिति । ननु "संब-न्धसामान्यपरिग्रहे' इति पठ¬ते । तत्र परिणा संबन्धसामान्यपरितःस्थितीनां तदनुबन्धिनामेव ग्रहणं स्यात् । न तु ब्राहृानुबन्धिनाम् । न हि "ब्राहृपरिग्रहे' इति पठ¬ते, येन ब्राहृानुसंबन्धिनःपरिणा प्रतीयेरन् । अत एवोत्तरत्र "षष्ठी कृह्रते' इत्युक्तम्, न तु परीत्यपि । "कर्मणि षष्ठी परिगृह्रते' इत्युक्त्#ेऽपि न ब्राहृानुबन्धिनां ग्रहणं सिध्येत् । अपि तु षष्ठयनुबन्धिनामेवेति चेत्-न-ब्राहृानुबन्धिनामपि परंपरया संबन्धसामान्यानुबन्धित्वस्य कथंचित्संभवादित्यभिप्रायात् । प्रधानसंबन्धादिति । यथा "राजाऽसौ निर्गतः' इत्युक्ते स परिवारस्य निर्गमनं प्रतीयते, तद्वदिति भावः । समासनिषेधस्य सावकाशत्वमिति । "कृद्योगलक्षणा च षष्ठी समस्यते' इति प्रतिप्रसवानवरुद्धोऽवकाश इत्यर्थः । ननु "कर्मणि च' इति समासनिषेधः कस्मान्न भवतीति चेत्-न; तस्य, "उभयप्राप्तौ कर्मणि' इति सूत्रविहितषष्ठीविषयत्वात् । यथा, "आश्चर्यो गवां दोहोऽशिक्षितेन गोपालेन' इति । एतदभिप्रेत्योक्तं भगवता भाष्यकृता- "कर्तृकर्मणोः कृति' इति । यद्यपि ज्ञानपदं कृदन्तमिति । ततश्च प्रतिप्रसवावरुद्धत्वान्नावकाश इति भावः । सर्पिपो जानीत इति तिङन्तपदान्वयार्हत्वादिति । तिङन्तयोग इवेयमपि शेषलक्षणा षष्ठीत्यर्थः । न च शेषषष्ठीत्वे, "ज्ञोऽविदर्थस्य' इति विधानवैयथ्र्यं शङ्कनीयम्; समासनिषेधार्थत्वात् पुनर्विधानस्य -षष्ठी श्रूयत एव; न लुप्यत इति । लोपश्च समासे । उक्तं च हरिणा -

"साधनैव्र्यपदिष्टे च श्रूयमाणक्रिये पुनः ।

प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ।।' इति ।

धातोर्विभक्तेश्च प्रवृत्तितत्करणार्थत्वादिति । ततश्च सर्पिषः कर्तृकर्मान्यतरत्वभावात् न कृद्योगलक्षणा षष्ठीति भावः । यद्यपि "ज्ञोऽविदर्थस्य करणे' इति षष्ठयाः शेषषष्ठीत्वेन न करणत्वमर्थः-तथापि करणस्य शेषतया विवक्षितस्यार्थत्वात् कर्तृकर्मान्य-तरार्थत्वाभावान्न कृद्योगलक्षणषष्ठीसंभव इत्यत्र तात्पर्यम् । ननु धातोः प्रवृत्त्यर्थकत्वकथनमनुपयुक्तमिति चेत्-न; ज्ञाधातोज्र्ञा- नार्थत्वे सकर्मकत्वात् कर्मसंभावनाप्यस्ति, प्रवृत्त्यर्थत्वे तुसापि नास्तीति प्रदर्शनार्थत्वात् ।

ननु नेयं षष्ठीति । ननु सूत्रकृता प्रयुक्तत्वाभावेऽपि स्वप्रयुक्तत्वात् स्वप्रयुक्तव्याख्यानस्य च भाष्यलक्षणत्वान्न तद्य्वाख्याने दोषः । इतरग्रन्थेष्वपि "शक्तिः सामथ्र्यं कारणत्वमिति यावत्' इति पर्यायतया स्वप्रयुक्तमपि शब्दं यावत्परप्रतीति व्याकुर्वाणा दृश्यन्त इति सर्वजनीनमेतत् । अतः समासव्याख्यानाय स्वप्रयुक्तविग्रहवाक्यगतायाः षष्ठयाः संदिग्धार्थाया व्याकरणकोशादिना अर्थे कथनीये विभक्तिविषये कोशादेरभावात् व्याकरणेनैव व्याख्यानं युक्तमिति चेत् मैवम्-समासपद व्याख्यानं विग्रर्हणैव कर्तव्यमिति नियमाभावेन "ब्राहृजिज्ञासाउब्राहृकर्मजिज्ञासा कर्तव्या ।

ब्राहृशब्दो ब्राहृकर्मकपर' इत्येव व्याख्ययताम्; किमिति संदिग्धार्थकव्याख्यानसापेक्षविग्रहवाक्योपन्यासेनेति तात्पर्यात् । विभ-क्तयर्थस्य प्रातिपदिकेन लक्षणा हि समास इति । इदं तु कर्मधारयभिन्नलुप्तविभक्तिकतत्पुरुषाव्ययीभावविशेषविषयं द्रष्टव्यम् । लक्ष्यार्थविशेषनिर्णयायेति । "अस्या विभक्तेरयमर्थोऽनेन प्रातिपदिकेन लक्ष्यते' इति प्रतिपादनयेत्यर्थः ।

ननु "नानुशासनेन' इत्यस्याः शङ्कायाः कथमुत्थानम् ? विभक्तेव्र्याख्येयत्वे सिद्धे कोशादीनां तद्विषय उदासीनत्वादनुशासनेन व्याख्यानमुचितम् । ततश्चास्या विभक्तेरयमर्थ इति निर्णये सति योग्यतावशेन कर्मत्वरूपोऽर्थो लक्ष्यत इति निर्णयाय युक्तमेव विभ-क्तयर्थकथनम् । अत एव हि, "न गज्ञ्गायां घोषः' इत्युत्तरवाक्यमपि न युक्तम् । न ह्रत्र लक्षकपदस्य लक्ष्येऽनुशासनमुपन्यस्यते; किंतु योग्यतादिवशेन लक्षणीयस्य कर्मत्वस्य विभक्तयर्थत्वकथनायानुशासनमुपन्यस्यते । अत एव, "स तु नियमः प्रातिपदिकेन प्रातिपदि-कान्तरार्थलक्षणायामेव' इति परिहारग्रन्थोऽपि न युक्तः, ब्राहृणः कर्मत्वकर्तृत्वादीनां मध्ये कर्मत्वस्यैव लक्षणीयत्वाय योग्यतादि-प्रतिसंधानस्येहाप्यपेक्षितत्वादिति चेत्-न-अनभिज्ञो भवान् वाक्यार्थस्य । न ह्रत्र "कर्तृकर्मणोः कृति' इत्यनुशासनबलेन षष्ठीव्या-ख्यानमसंगतमिति चोद्यते; येनायमुपालम्भः स्यात् । किन्तु "कृद्योगलक्षणा षष्ठी समस्यते' इत्यनेन कृद्योगलक्षणषष्ठयन्तपदस्य लुप्तायां विभक्तौ तदर्थे लक्षणायाः साधुत्वान्वाख्यानपरेण व्याख्यानं किमर्थं क्रियते ? न हि गङ्गापदस्य तीरे लक्षणाया प्रयोगे साधुत्वमस्तीत्यत्रानुशासनमपेक्षितमित्याक्षेपस्य, क्वचिदर्थविशेषे लक्षणया प्रयोगस्य साधुत्वमनुशासनसापेक्षमिति परिहारस्य च संभवेनादोषात् ।

ननु लुप्तविभक्तयर्थस्य लुप्तविभक्तिकशब्दमुख्यार्थत्वे निषादस्थपत्यधिकरणविरोधः, षष्ठीतत्पुरुषौ लक्षणाया अप्रसक्तेरित्य-रुचेराह - अमुख्यत्वे वा का नः क्षतिरिति । ननु पदान्तरयोगविहितविभक्तेरर्थसद्भावे, "नमस्करोति देवान्' इत्यत्र नमःशब्दयोग-निमित्तचतुथ्र्यपेक्षया कर्मणि द्वितीयायाः प्राबल्यं न स्यादित्याशङ्कयाह - कारकविभक्तेरिति । पदान्तरयोगविहितत्वरूपम-स्त्येवेति । ननु "कर्तृकर्मणोः' इति विहितस्य कृदन्तपदयोगनिमित्तत्वेऽपि न कारकविभक्तित्वक्षतिः, तत्र शाब्दिकानां कारक-षष्ठीत्वस्य व्यवहारात् । अत एव, "गतिकारकोपपदात् कृत' इति कारकस्वरो भवति । इतरथा स न प्राप्नुयादिति चेत्-सत्यम्; अस्त्येव कारकविभक्तित्वम् । उपपदयोगनिमित्ततयोपपदविभक्तित्वमप्यस्ति । तस्याश्चोपपदयोगनिरपेक्षकारकविभक्तयपेक्षया । दौर्बल्यमप्यनुभवसिद्धम् । "घटं करोति' इत्यत्रेव "घटस्य कृतिः' इत्यत्र कर्मत्वस्य शीघ्रप्रतीत्यभावात् । न चैवम्, "कर्तृकमर्णोः कृति' इति षष्ठया उपपदविभक्तित्वे षष्ठीं बाधित्वा द्वितीयाप्राप्नोतीति वाच्यम्-तद्विषया एवारभ्यमाणत्वेन तदपवादत्वात् । न चैवम्, "कन्याया अलंकर्ता' इत्यादौ कृद्योगषष्ठया अप्युपपदविभक्तित्वाविशेषात् । अलंयोगनिमित्तचतुर्थीबाधकत्वं न स्यादिति वाच्यम्- परत्वेन बाधकत्वोपपत्तेः । कर्मणि षष्ठया अपि कारकविशेषविहितत्वेन कारकविभक्तित्वस्याप्यभ्युपेतत्वेन अलंपदयोगनिमित्तविभक्तेः केवलोपपदविभक्तित्वेन तद्बाधकत्वोपपत्तेश्च । पदान्तरपरामर्शसापेक्षत्वेनेति । उक्तं च- "सूक्तवाके च कालविधिः परार्थत्वात्' (3-2-5) इत्यत्र तृतीये, "सूक्तवाकेन प्रस्तरं प्रहरति' इत्यत्र सूक्तवाकेनेति तृतीया इत्थंभूतलक्षणे भविष्यतीति पूर्वपक्षे, "सर्वत्र क्रिया-कारकसंबन्धस्यान्तरङ्गत्वात् सूक्तवाकस्य प्रस्तरप्रहरणक्रियायां कारकत्वेनैव संबन्धो वक्तुमुचितः । इत्थंभूतलक्षणाश्रयणे तु न कारकत्वेन संबन्धःसिध्येत् । न च लक्षणक्रियायां करणत्वेनान्वयो युक्तः; सूक्तवाक्येन लक्षितं प्रस्तरमिति लक्षणक्रियाया वाचक-पदाभावेन तद्वाचकपदान्तरसापेक्षत्वात् । तस्मान्नेत्थंभूतलक्षणे तृतीया । अपि तु करणे तृतीयैवे'ति -उक्तरीत्या उपपदविभक्तेः कारकविभक्तयपेक्षया दुर्बलत्वादिति । अमुख्यत्वं तु परिह्मतमिति । "का नः क्षति'रिति परिह्मतमित्यर्थः ।

(ब्राहृशब्दार्थविचारः)

पुरुषोत्तमशब्दस्य रूढ¬ेति । यद्यपि यौगिकार्थस्यातिप्रसक्तौ समुदायशक्तिलक्षणरूढ¬भ्युपगमः; न तु (हि) शचीपतिवाक्पति (पार्वतीपति) श्रीवत्सवक्षः प्रभृतिषु प्रोद्गात्रहीनधार्यादिशब्देष्विव रूढिरभ्युपगन्तव्या तथापि पुरुषोत्तमशब्दस्य नारायणपर्यायतया पाठात् समानप्रवृत्तिनिमित्तत्वमभ्युपगम्योक्तं द्रष्टव्यम् । चेतनवैलक्षण्यमुक्तमिति । यद्यप्युत्तमशब्दस्योद्गतार्थवाच्युपसर्गात् समा-धनक्रियावचनात् तमप्प्रत्यये निष्पन्नस्य न वैलक्षण्यमात्रमर्थः । अव्युत्पत्तिपक्षेऽपि न वैलक्षण्यमर्थः; वैलक्षण्यमात्रेणोत्तमशब्दप्र-योगाभावात् । अत एव, "स्वेतरवैलक्षण्यं तृणादेरप्यस्ति' इति ग्रन्थोऽपि न युक्तः-तथापि "अक्षरादपि चोत्तमः' इति प्रमाणानुसारेण पञ्चमीसमासस्य वा, "सप्तमी' इति योगविभागात् सप्तमीसमासस्य वा आश्रयणीयतया, "यतश्च निर्धारणम्', "पचमी विभक्ते' इति सूत्राभ्यामेव पञ्चमीसप्तम्योर्विधेयत्वेन निर्धारणस्यावश्यकत्वान्निर्धारणस्य च वैलक्षण्यापरपर्यायपृथक्करणवाचित्वाद्वैलक्षण्यमर्थ

इत्येतदभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । प्रतिपादनोपयोगितयेति । पुरुषोत्तमस्य निर्दोषत्वकल्पयाणगुणाकरत्वाश्रयतया निरतिशय-बृहत्त्वरूपप्रवृत्तिनिमित्तं संभवतीति प्रतिपादनार्थमित्यर्थः । न तु प्रवृत्तिनिमित्ततयेति । ततश्च ब्राहृशब्दस्य बृहत्त्वव्यतिरिक्तं स्वभावतो निरस्तदोषत्वमपि प्रवृत्तिनिमित्तान्तरमिति न भ्रमितव्यमिति भावः । अर्थसामथ्र्यमाह - मुमुक्षोरशेषदोषेति । वाङ्मनसागोच-रतयानवधिकत्वमुक्तमिति । ननु ब्राहृगुणानां सर्वातिशायितया अतिशयस्य सर्वावधिकत्वेन कथमनवधिकत्वम् ? इन्द्राद्यानन्दा-तिशयो हि मनुष्यानन्दावधिकः । ब्राहृानन्दातिशयो हि मनुष्यादिप्रजापत्यन्तसर्वानन्दावधिकः । अत एव सर्वेषामवधित्वात् सर्वेभ्योऽतिशयित इत्यवध्यर्थपञ्चमीति चेत्-न; अवधिशब्दस्येयत्तार्थकत्वात् । ततश्च ब्राहृानन्दातिशयोऽपरिच्छिन्न इत्यर्थः । यद्वा स्वसमानाधिकरणापकर्षावधिशून्यत्वमेवानवधिकत्वम् । स्वशब्देनोत्कर्षः परामृश्यते । इन्द्रानन्दादिगतस्य देवाद्यनन्दापेक्षयाति-शयस्य बृहस्पत्यानन्दावधिकापकषर्समानाधिकरणतया स्वसमानाधिकरणापकर्षावधिमत्त्वम्; ईश्वरगुणनिष्टोत्कर्षस्य तु स्वसमा-नाधिकरणापकर्षाभावेन तादृशावधिशून्यत्वमिति विशेषात् । अथवा इतरेषामतिशयस्य देवमनुष्याद्यवधिसापेक्ष (निरूप्य)त्वेन सावधिकत्वम्; ईश्वरविषये तु उपपदादि निरपेक्षतया अतिशयित इति प्रत्यय प्रयोगयोर्दर्शनात् तद्गतातिशयस्य अवधिप्रतीत्यधीन प्रतीतिकत्वाभावेन निरवधिकत्वम् । अत एव अयोध्येश्वरः मिथिलेश्वर इति इतरत्र ऐश्वर्यस्य निर्देशः । ईश्वरविषये तु मर्यादोपन्यासमन्तरेण "ईश्वरः' इत्येव प्रतीतिप्रयागौ । अत एव, "शब्दादेव प्रमितः' इत्यत्र ईशा-नपदस्यैव निरपेक्षस्य परमात्मप्रतिपादकत्वम्; न तु प्रतिसंबन्धिसापेक्षस्येति श्रुतित्वमुपपादितम् ।

"मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ।

इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।।' इत्यभियुक्तोक्तेश्च ।

अन्तर्भावाभिप्रायो गणशब्द इति । एकैकस्यैव सत्यसंकल्पत्वादेर्गुणगणत्वे सत्येव तस्य वक्ष्यमाणरीत्या तद्विशेषणभूतम-संख्येयत्वमुपपद्यते । इतरथा सर्वेषां गुणानां गण एक एव स्यादित्यसंख्येयत्वविशेषणमनन्वितं स्यात् । इदं च, "नन्वनवधि-कातिशयशब्दस्य गणविशेषणत्वे' इत्यादिग्रन्थेनाक्षेपसमाधानाभ्यां व्यवस्थाप्यमानमनवधिकातिशयत्वस्यासंख्येयत्वस्य च कल्याणगुणगणविशेषणत्वं सिद्धवत्कृत्योक्तमिति द्रष्टव्यम् । सामानाधिकरण्याभावाद्बहुव्रीहिनर् स्यादिति । अनवधिकाति-शयासंख्येयकल्याणगुणानां गणो यस्येति विग्रहे समस्यमानपदसामानाधिकरण्याभावात् बहुव्रीहिर्न स्यात्, "समानाधिकरणानां बहुव्रीहिरिष्यते' इत्यनुशासनादिति भावः । तदन्तर्गतानामेवेति । अत्र दृष्टान्तदाष्टाÐन्तकयोरयं विशेषः दृष्टान्ते श्रुतशीलादिकं समुहिगतमेव; दाष्टाÐन्तके त्वनधिकातिशयत्वं श्रुत्यर्थाभ्यामुभयान्वितं प्रतीयत इति । ततो निर्गतानामिति । इदमुपलक्षणम् । श्रुतशीलादेः समूहान्वयित्वे तदन्तर्गतानां समूहिनां श्रुताद्यभावप्रसङ्ग इत्यपि द्रष्टव्यम् । श्रुताद्यभावप्रसङ्गादिति । श्रुताद्यन्वय- प्रतीतिर्न स्यादित्यर्थः । भगवद्गुणापेक्षया सातिशयत्वादिति । भगवद्गुणापेक्षया निकृष्टत्वादित्यर्थः । प्रतिज्ञातमर्थं शब्दसा-मथ्र्यादिति । बृहतिधातोर्निष्पन्नस्य ब्राहृशब्दस्य बृहत्त्वगुणयोगनिमित्तकतया प्रवृत्तिनिमित्तपौष्कल्यं यत्र, तत्रैव मुख्यवृत्तत्वम्; इतरत्र तु अमुख्यवृत्तत्वमित्युपपादयतीति भावः । व्याख्यान्तरमाह - तत्रार्थान्तरेष्विति । ब्राहृशब्दप्रयोगविषयेषु सर्वेष्विति । पुरुषोत्तमव्यतिरिक्तेष्विति शेषः । बृहत्त्वगुणयोगोऽस्तीत्यर्थ इति । अतस्तत्र गौण इत्येतावत्पर्यन्तो वाक्यार्थः । अत एव, "पुरुषो-त्तमे गौणत्वम्, अन्यत्र मुख्यत्वं च किं न स्यात्' इत्याक्षेपग्रन्थसामञ्जस्यम्; अन्यथा "सर्वत्र बृहत्त्वगुणयोगेन हि' इति वाक्येनैव पुरुषोत्तमे मुख्यत्वप्रतिपादनस्यान्यत्र गौणत्वप्रतिपादनस्य च पर्यवसिततया, पुरुषोत्तमे गौणत्वमित्याक्षेपग्रन्थासामञ्जस्यात् "ततः किम् ?' इत्येवोत्तरग्रन्थस्यावतरणीयत्वात् । अस्मिन् पक्षे "सर्वत्र बृहत्त्वगुणयोगेन हि ब्राहृशब्दः' इति भाष्यस्य पूर्वग्रन्थशेषत्वम्; पूर्वÏस्मस्तु पक्षे उत्तरग्रन्थशेषत्वम् । अत एव, "सर्वत्रेत्यादिना' इत्यादिशब्देनोपादानं कृतम् । यद्वा, ततः किमित्येवावतारिका । "ततः किम् ?' इत्यस्य हि "तावता कथं तव पुरुषोत्तमः एव मुख्यवृत्त्याभिधीयत इति प्रतिज्ञातार्थसिद्धिः ? विपरीतं किं न स्यात् ?' इति ह्रभिप्रेतोऽर्थः । स एवार्थः पुरुषोत्तमे गौणत्वमित्यादिग्रन्थेनोच्यत इति न दोषः; नापि व्याख्याद्वयाश्रयणमिति द्रष्टव्यम् ।

ब्राहृगुणादेरपीति । ननु "बृहत्त्वाद्बृंहरत्वाच्च' इति प्रमाणानुसारेण द्वयमपि प्रवृत्तिनिमित्तत्यभ्युपगमेन ब्राहृगुणादौ नातिप्रसङ्गः । अवश्यं च तथाभ्युपगन्तव्यम् । इतरथा ब्राहृगुणादावतिप्रसङ्गस्य तादवस्थ्यात् । प्रवृत्तिनिमित्तस्य सत्त्वात् । न हि-लाक्षादिरञ्जक-द्रव्येण रक्तस्य स्वतश्च रक्तत्वाश्रयस्य जपाकुसुमादेरेवासंकोचात् रक्तपदवाच्यत्वम्, न तु केवलजपाकुसुमादेरित्यस्ति । न वा-पर्वताश्रयस्यैव पर्वतस्य पर्वतशब्दवाच्यत्वम्, न तु पर्वतानाधारपर्वतस्य, तस्य स्वरूपतः पर्वतत्वाश्रयत्वेऽपि धर्मतः पर्वतत्वाना-श्रयत्वादित्यस्तीति चेत्-न; "कस्मादुच्यते ब्राहृ' इति, "बृहन्तो ह्रस्मिन् गुणाः' इति प्रमाणानुसारात् बृहद्गुणकत्वमेव प्रवृत्ति-निमित्तम् । स्वरूपबृहत्त्वबृंहणत्वे अपि तत्रैवान्तर्गते इत्यत्रैव तात्पर्यात् । यद्वा, "गुणतो बृहत्त्व'मित्यस्य न गुणगतबृहत्त्वमित्यर्थः, किं तु बृहद्गुणकत्वकृतःस्वरूपनिष्ठ एव बाहात्म्यविशेषो ज्यायस्त्वरूपः । अतः सर्वतो ज्यायस्त्वं बृहत्त्वम् । तदेव ब्राहृशब्द-

प्रवृत्तिनिमित्तमिति भावः । शब्दशक्तेरसंकोचस्येति । ननु द्वयोरपि प्रवृत्तिनिमित्तत्वाभ्युपगम एव ब्राहृशब्दशक्तेः संकोचः, गुणतो बृहत्त्वस्य ब्राहृगुणादिव्यावर्तकत्वादिति चेत् न । न ह्रत्र (त्य) शब्दशक्तेरित्यस्य ब्राहृशब्दशक्तेरित्यर्थः । अपि तु "बृहन्तो ह्रस्मिन् गुणाः' इति ब्राहृशब्दप्रवृत्तिनिमित्तप्रतिपादकवाक्यगतगुणशब्दशक्तेरित्यर्थः । यद्वा ब्राहृवत् प्रवृत्तिनिमित्तस्यापि शक्यत्वात् तत्र बृहत्त्वविशेषरूपप्रवृत्तिनिमित्तस्यैव शक्यत्वमित्युक्तेः संकोचप्रसङ्ग इत्यर्थः । न च द्वयोरपि शक्यत्वे शक्यव्यक्तिसंकोचप्रसङ्गः, प्रयोगाभावेन व्यक्तिसंकोचस्य प्रागेव सिद्धत्वेनैतदधीनत्वाभावात् ।

तस्मात् ब्राहृण इति । ननु तस्मादित्यस्य सर्वेश्वरादित्यर्थो वक्तुमुचितः, "ब्राहृशब्दस्तत्रैव मुख्यवृत्तः' इति पूर्ववाक्ये तत्रैवेतितच्छब्देन सर्वेश्वरस्यैव निर्दिष्टत्वात् । तत्र ब्राहृणः परामर्शे अप्रसक्तप्रतिषेधापत्तेः । न हि ब्राहृशब्दस्याब्राहृणि मुख्यवृत्तत्वं प्रसक्तम्, येन तन्निषेधः सफलः स्यादिति चेत् उच्यते-तस्मादित्यस्य ब्राहृण इति नार्थकथनम्, अपि तु शेषपूरणम् । अयमभिप्रायः स्वरूपेण गुणैश्चानवधिकातिशयशालिनः सर्वेश्वरस्य ब्राहृत्वं सिद्धम् । इतः परं तस्मादपि ब्राहृणोऽन्योऽपि ब्राहृशब्दमुख्यार्थ इति स्वीकारे अनेकार्थत्वं स्यादिति । केचित्तु-ब्राहृणः निरवधिकबृहत्त्वशालिन इत्यर्थः । पूर्ववाक्ये "तत्रैव' इत्यत्र तच्छब्देनापि निर-तिशयबृहत्त्वशाल्येव परामृश्यते; न तु सर्वेश्वरः । तथा "तद्गुणलेशयोगात्' इत्युत्तरत्रापि बृहत्त्वगुणलेशयोगातदित्येवार्थ इत्याहुः । अस्मिन् पक्षे, "स च सर्वेश्वर एव । अतो ब्राहृशब्दस्तत्रैव मुख्यवृतः' इत्ययमंशो व्यर्थः । नन्वितरत्र प्रयोगस्यौपचारिकत्वे स प्रयोगः सार्वत्रिकः किं न स्यादित्याशङ्कय औपचारिकस्यापर्यनुयोज्यत्वान्न सार्वत्रिक इत्याह - औपचारिकस्त्विति । ननु -

"एकदेशेऽपि यो दृष्टः शब्दो जातिनिबन्धनः ।

तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता ।।'

इति बर्हिराज्याधिकरणन्यायेनाव्यभिचारात् बृहत्त्वस्यैव प्रवृत्तिनिमित्तत्वे नानेकशक्तिकल्पनागौणत्वादिदोषः । त्र्यणुकादिषु ब्राहृ-शब्दाप्रयोगस्य बृहच्छब्दाप्रयोगवत्, असंस्कृततृणादिष्वार्याणां बर्हिरादिशब्दाप्रयोगवच्चोपपत्तेः । "परं जैमिनिर्मुख्यत्वात्', "स्या-च्चैकस्य ब्राहृशब्दवत्' इत्यादौ ब्राहृशब्दस्य परमात्मनि मुख्यात्वव्यवहारास्तु ब्राहृगतबृहत्त्वस्यावधिप्रतीत्यधीनप्रतीत्यकत्वाभावेना-वधिप्रतीत्यधीनप्रतीतिकेतरबृहत्त्वापेक्षया शीघ्रधीस्थत्वात्, "मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः' इति न्यायेनोपपद्यते । न हि नरेश्वरशब्दः स्वभार्यापुत्रादिस्वामिनि प्रयुज्यते; न वा केवलेश्वरशब्दः पृथिवीश्वरादावपि प्रयुज्यत इत्येतावता स्वामित्वं प्रवृत्तिनि-मित्तमपहाय निरङ्कुशेश्वरत्वमेव तस्य प्रवृत्तिनिमित्तमिति शक्यते वक्तुमिति चेत्-मैवम्; तथाहि सति गोशब्दस्यापि "गच्छति' इति व्युत्पत्त्या "गमेर्डोः' इति व्युत्पन्नतया गन्तृत्वमेव प्रवृत्तिनिमित्तम्; इतरत्राप्रयोगास्तु बर्हिराज्यादिशब्देष्विवोपपन्नो न तस्य गन्तृ-विशेषे रूढिं कल्पयतीति स्यात् । यदि च नियमेनेतरत्राप्रयोगेण विशिष्य सांस्नादिमति रूढिं कल्पयित्वा इतरस्यावाच्यत्वं कल्प्यते, तत् प्रकृतेऽपि समानमिति दिक् । केचित्तु-बृहत्त्वस्य प्रवृत्तिनिमित्तत्वमभ्युपगम्य तत्पौष्कल्यस्यैव भगवति समर्थनात् बृहत्त्वमेव प्रवृत्तिनिमित्तम् । न हि प्रवृत्तिनिमित्तपौष्कल्यं प्रवृत्तिनिमित्तम् । ततश्च नावयवार्थव्यतिरिक्तरूढ¬र्थस्वीकारः सिद्धान्तिसंमत इति वदन्ति ।

औपचारिकभगवच्छब्दप्रयोगयोग्येष्विति । ननु "स वाच्यो भगवानिति' इति वाच्यत्वेनोक्तानां वसिष्ठादीनां कथमौपचा-रिकभगवच्छब्दप्रयोगयोग्यत्वकथनमिति चेत्-न-त्वद्रीत्या औपचारिकभगवच्छब्दप्रयोगयोग्यानामित्यर्थः । ननु खाण्डिक्यादिषु सार्वत्रिकभगवच्छब्दप्रयोगाभावो न स्वध्यवसान इत्यस्वरसादाह - किं च प्रत्यक्षमूलेति । आगममूलव्युत्पत्त्येति । ननु, "उत्पतिं्त प्रलयं च' इत्ययमपि आगमो भवत्येवेति तन्मूलया व्युत्पत्त्या वसिष्ठादिष्वपि मुख्यत्वं किं न स्यात् ? "ज्ञानशक्तिबलैश्वर्य' इति श्लोकेऽपि, "अशेषतः' इति सर्वेषामपि प्रवृत्तिनिमित्तत्वं उच्यते । नतु मिलितानाम् । तथाहि सति वाच्यानि इति बहुवचनं न स्यात् । अत एव ज्ञानादिषु षट्सु प्रवृत्तिनिमित्तेषु कथितेषु, "अत्यल्पमिदमुच्यते' इति पर्यालोच्य "विना हेयैर्गुणादिभिः' इति ज्ञानादिभिन्नानामपि हेयव्यतिरिक्तानां शुभानां गुणानां सर्वेषां प्रवृत्तिनिमित्तत्वमुच्यते, "यद्यद्विभूदिमत् सत्त्वं श्रीमदूर्जितमेव वा' इतिवदिति चेत्-न- "भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ।' इत्याद्युपबृंहणानुगुण्यात्; केवलस्य भगवच्छब्दस्यान्यत्राप्रयोगाच्चेति भावः । अत एव हि पुरुषोत्तमोऽभिधीयत इत्यु-क्तमिति । यद्यपि, "तमेवं विद्वान्' इति वाक्ये पूवत्र्र, "वेदाहमेतं पुरुषम्' इति महान् पुरुष एव प्रस्तुतः; न पुरुषोत्तमः-तथापि तयोरेकार्थपर्यवसानमभिप्रेत्योक्तमिति द्रष्टव्यम् । "अतः सर्वेश्वर एव जिज्ञासाकर्मभूतं ब्राहृ' इति वाक्यगतस्यातःशब्दस्य ताप-त्रयातुरजिज्ञास्यत्वरूपार्थसामथ्र्यमात्रे संकोचकल्पने प्रमाणाभावादाह - यद्वा अत इति । "अतः' इति व्याख्येयं पदम् । अव्यु- त्पन्नो व्युत्पन्नो वा भगवति मुख्य इति । गृहीतसंगतिक इत्यर्थः; मुख्यया वृत्त्या भगवत्प्रतिपादक इत्यर्थः । बुद्धिपूर्विकेति ।

बुद्धिपूविर्का व्युत्पत्तिः, मातापित्रादिभिरङ्गुलिनिर्देशपूर्वकमम्बातातमातुलादिषु यत्र व्युत्पत्तिग्र्राह्रते, तत्र; यादृच्छिकव्युत्पत्तिस्तु, "घटमानय' इति वाक्यश्रवणात् प्रयोज्यप्रवृत्तिमुपलभ्य यत्र व्युत्पत्तिर्गृह्रते, तत्रेति द्रष्टव्यम् । इदं चाधिकरणनिरूपणे स्पष्टं भवि- ष्यति । यूपाहवनीत्येत्यत्र कपालशब्दः संपातायातः; तस्य लौकिकत्वात् ।

(जिज्ञासाशब्दार्थविचारः)

कर्मणश्च क्रिया शेषभूतेति । ननु प्रधानस्य विधेयत्वे, "व्रीहीन् प्रोक्षति' इत्यादौ व्रीह्रादीनां विधेयत्वप्रसङ्गात्, प्रत्युत प्रधान-त्वस्यानुवाद्यत्वानुबन्धिनो विधेयत्वविरोधाच्च, "व्रीहिभिर्यजेत', "अरुणया क्रीणाति' इत्यादौ गुणस्यैव विधेयत्वदर्शनाच्च कथ-मेतदिति चेत्-उच्यते-इच्छाया विषयसौन्दर्याधीनत्वेन पुरुषेच्छाधीनकृतिसाध्यत्वाभावेऽपीष्यमाणज्ञानस्येच्छाधीनकृतिसाध्यतया पुरुषतन्त्रत्वेन विधेयत्वसंभवादिति तदर्थात् । केचित्तु-"प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्' इति न्यायस्यौपगवादौ सामान्यतो दृष्टत्वेऽपि "अश्वेन जिगमिषति' "असिना जिघांसति' इत्यादौ सन्वाच्येच्छापेक्षया प्रकृत्यर्थस्यैव स्वतन्त्रोपस्थितत्व-लक्षणस्य शब्दतःप्राधान्यस्य समभिव्याह्मतपदार्थान्तरान्वयस्य च दर्शनात्, #ःब्राहृ जिज्ञासा' इत्यत्र प्रकृत्यर्थज्ञानस्यैवाध्याह्मत-कर्तव्यपदान्वयसंभव इति भाष्याभिप्रायं वर्णयन्ति । प्रतीतिरूपं ज्ञानमिति । अत्र, उद्दिश्येति शेषः । तथाचायमत्रान्वयः- प्रमि- तिरूपं ज्ञानमुद्दिश्य आक्षिप्तं तर्करूपं ज्ञानं मनोव्यापारविशेषरूपं विधेयमिति परैरुक्तमिति । यद्वा, विधेयं शाब्दमित्यर्थः; उत्तरत्र तर्करूपं ज्ञानमार्थमित्युक्तेः । आर्थिके च विचारेऽध्याह्मतकर्तव्यत्वान्वयः । "श्रौतस्तु मुमुक्षानन्तरं ब्राहृज्ञानेच्छा भवितुं युक्तेत्येष एव' इति कल्पतरूक्तेः । प्रागुक्तपक्षः साधीयानिति । प्रकृतिप्रत्ययार्थाक्षिप्तस्य विधेयत्वापेक्षया प्रकृत्यर्थविधेयत्वस्य युक्तत्वादिति भावः ।

(यादवप्रकाशीयसूत्रार्थनिरासः)

प्रधानादिनिरासनिरपेक्षत्वादिति । प्रधानादिनिरासमुखेन प्रधानादिजिज्ञास्यत्वनिरासनिरपेक्षत्वादित्यर्थः । ततश्च विचारा-नपेक्षितं प्रधानादिनिरासनमुखेन जिज्ञास्यत्वनिरसनं विफलमिति भावः ।

(वृत्तिकारोक्तवर्णनम्)

भाष्ये-वृत्तात् कर्मज्ञानादनन्तरमिति । अनन्तरशब्दस्य पश्चाच्छब्दपर्यायतया दिक्शब्दत्वमङ्गीकृत्य पञ्चमीनिर्देश इति द्रष्टव्यम् । तद्विषयं शास्त्रं शारीरकमित्युच्यत इति । शारीरं कायतीति शारीरकम् । के शब्दे । "अतोऽनुपसर्गे कः' इति के रूपम् । मीमांसाया एकप्रबन्धत्वमिति । यद्येवं वेदोपकाररूपैकप्रयोजनसमर्थत्वेनार्थैक्यात् व्याकरणज्योतिषादीनां तत्प्रयोजने निष्पाद्ये परस्पराकाङ्क्षाया अपि सत्त्वादेकाङ्गत्वप्रसङ्गः । न च तेषामङ्गत्वेनैक्यामिष्टमिति वाच्यम्-तर्हीहापि मीमांसात्वेनैक्यं स्यात्, न तु शास्त्रैक्यमिति चेत्-न; तथा सतीदृशप्रतिबन्द्या पूर्वोत्तरषट्कयोरपि शास्त्रभेदप्रसङ्गात् । न च तत्र विषयप्रयोजनाधिकारिणामेकत्वात्, "अथातो धर्मजिज्ञासा' इति प्रतिज्ञायाः साधारण्याच्चैकत्वमिति वाच्यम्-अत्रापि वेदार्थरूपविषयस्य, तज्ज्ञानरूपप्रयोजनस्य, तत्कामस्य चाधिकारिण एकत्वात् । विचारद्वयानुगतसाधारणप्रतिज्ञाया उपपादयिष्यमाणत्वाच्च । ननु "अथातो ब्राहमजिज्ञासा' इति साधारणप्रतिज्ञेत्ययुक्तम्; तथा सति अथशब्दस्य कर्मविचारानन्तर्यार्थकत्वं न स्यादिति "वृद्धिमिच्छतो मूलहान्यापत्तिः' इति न्यायाः पातात् । न हि कर्म-विचारानन्तर्यं विंशतिलक्षण्या मीमांसायाः संभवति । अपि तु चतुर्लक्षण्या एवेत्यस्वरसादाह - एवं वेति । प्रतिधर्मसमोभयानु-यायिनीति । साधम्र्यसमवैधम्र्यसमरूपोभयजात्यनुयायिनी प्रतिधर्मसमजातिप्रतिज्ञा अर्थसिद्धेत्यर्थः । प्रतिधर्मसमाजातिर्द्वि(वि)धा साधम्र्यसमा वैधम्र्यसमा चेति । तत्र, "साधम्र्यवैधम्र्योत्कर्षापकर्षवण्र्यावण्यर्विकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसं-शयप्रकरणहेत्वार्थापत्त्यविशेषोपपत्त्यनुपलब्धिनित्यानित्यकायर्समाः' इति जातीनां विभागोद्देशसूत्रेण विशेषयोरेवोद्देशः कृतः, अनन्तरम् "साधम्र्यवैधम्र्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधम्र्यवैधम्र्यसमौ' इति लक्षणसूत्रं च विशेषयोरेवेति भावः । ननु वेदाध्ययनानन्तरमर्थविचारो न कर्तव्यः, अविवक्षितार्थकत्वादिति सर्ववेदार्थानुगतपूवर्पक्षनिरासाय "अथातो वेदार्थजिज्ञासा' इति सूत्रे कर्तव्ये मन्दप्रयोजना विशेषप्रतिज्ञा अयुक्ता । साधम्र्यवैधम्र्यसमजातिस्थले तु सामान्यप्रतिज्ञायाः शिष्यबुद्धिसमाधानमात्रार्थत्वेन निरसनीयपूर्वपक्षाभावेन आर्थत्वेऽप्यदोष इत्यस्वरसादाह - अथवा अथातो धर्मजिज्ञासेत्येवेति । अलौकिकश्रेयःसाधनमिति । वेदैकगम्यश्रेयःसाधनताकमित्यर्थः । नन्वेवं श्येनादेरपि धर्मत्वप्रसङ्गः । न च बलवदनिष्टाजनकत्वेन तद्विशेषात् तद्य्वावृत्तिरिति वाच्यम्, तथा सति परमात्मनः सर्वकारणत्वेनाधर्मत्वप्रसङ्गादिति चेत्-मैवम् । तथाहि सति ज्योतिष्टोमादेर्धर्मत्वं न स्यात्,"सर्वेभ्यो

ज्योतिष्टोमः' इति तस्य सर्वफलसाधनत्वेन वैरिविपतिसाधनतया तद्द्वारा बलवदनिष्टजनकत्वात् । वैरिविपत्तिफलकप्रयोगे तस्य धर्मत्वाभाव इष्ट एव । वैरिविपत्त्यादिफलकप्रयोगानवच्छिन्नस्यैव ज्योतिष्टोमस्य धर्मत्वमिति चेत्-तथा सति ब्राहृणोऽननुष्ठेय-पदार्थतया बलवदनिष्टानुबन्धिप्रयोगानवच्छिन्नत्वे सति अलौकिकश्रेयःसाधनत्वस्यैव ब्राहृण्यपि संभवात् "धर्मजिज्ञासा' इत्येव साधारणप्रतिज्ञेति भावः । नन्विन्द्रियगम्यानां तेषां कथं धर्मत्वमित्याशङ्कयाह - तेषामैन्द्रियकत्वेऽपीति । ताद्रूप्येणेति । ऐन्द्रियकत्वरूपेणेत्यर्थः । ननु धर्मशब्दस्य साधारण्यमभ्युपेत्य धर्मद्वयविचारः प्रतिज्ञायत इति वदता नैकस्य बुद्धिस्थत्वं वक्तुं शक्यम् । अतश्चोदनासूत्रे साध्यधर्मस्यैव लक्षणकथने नैतन्नियामकमित्यस्वरसादाह - पूर्वभागप्रतिपन्नत्वेनेति । विशेषप्रतिज्ञाया अप्यावश्यकत्वमभिप्रेत्याह - तन्त्रेण वार्थतो वेति । शब्दा बोध्यत्वशङ्कापरिजिहीर्षयेति । सिद्धव्युत्पत्तिसमर्थनानार्थमिति भावः । तस्य परमात्माराधनरूपत्वानवगमादिति । न च राजपुरुषस्य राजपुरुषपदाद्राजप्रेष्यत्वरूपपारतन्त्र्यप्रतीतावपि यथा न शाब्द-प्राधान्यविरोधः, पुरुषस्य विशेष्यतया प्रतीतेः, एवं परमात्माराधनरूपत्वप्रतीतावपि कर्मणो विशेष्यतया भानान्न शाब्दप्राधान्यविरोध इति वाच्यम् । अत्र शाब्दप्राधान्यमित्यस्यान्योपसर्जनतया अप्रतीयमानत्वमित्यर्थात् । न च राजपुरुषे तन्नास्तीति शङ्कनीयम्, वस्तुगत्या राजपुरुषस्य पुरुषपदात् प्रतीतिदशायां तदुपपत्तेः । केचित्तु, "युक्तयन्तरमाह -परमात्माराधनरूपत्वानवगमादिति' इति वदन्ति ।

ननु "कृष्णं धर्मं सनातनम्' इत्यादौ धर्मशब्दप्रयोगस्य, "प्रणम्रेषु महीषेषु प्रसादो मूर्तिमानयम् ' इत्यस्य मुर्तिमत्त्वरूपप्रसिद्धप्र-सादवैलक्षण्यविशिष्टप्रसादत्वारोप इव, "रामो विग्रहवान् धर्मः' इत्यस्य विग्रहवत्त्वरूपप्रसिद्धधर्मवैलक्षण्यविशिष्टधर्मत्वारोप इव च सनातनत्वरूपप्रसिद्धधर्मवैलक्षण्यविशिष्टधर्मत्वारोपे तात्पर्येणोपपन्नस्य, पौराणिकस्य, "यमिन्द्रमाहुर्वरुणं यमाहुः' इत्यादि-वाक्यतुल्यस्य वचनस्य, "चोदनालक्षणोऽर्थो धर्मः' इति विचार्यधर्मशब्दार्थनिर्णयैकप्रयोजनकसूत्रवत् शब्दशक्तिनियकत्वाभावः । अस्तु वा ब्राहृसाधारण्यम्-तथापि जैमिनिनोभयविधधर्मविचारस्य प्रतिज्ञातत्वे ब्राहृसूत्राण्यपि तेनैव प्रणेतव्यानि स्युः । न हि महर्षेर्विघ्नशङ्कोत्प्रेक्षितुं शक्यते । स्वाचार्यस्य बादरायणस्य ब्राहृसूत्रप्रणिनीषां दृष्ट्वोदासामासेति कल्पना तु न; प्रमाणाभावात्, तादृशजनवादानुपलम्भाच्चेत्यस्वरसादाह - यद्यपीति । अश्रुतवेदान्तानामिति । वाय्वादिदेवताप्रीत्यर्थं कर्मणोऽनुष्ठाने वाय्वादीनां नश्वरतया कर्मभिः प्रीतस्य वाय्वादेः फलप्रदानात् प्रागपि नाशसंभवेन निष्फलत्वबुध्द्या अश्रुतवेदान्तानां कर्मण्यश्रद्धा जायेत । श्रुतवेदान्तानां तु तत्तत्कर्माराध्यस्य तत्तद्देवतान्तर्यामिणः कर्मानुरूपफलप्रदस्य सकलकल्पानुयायित्वेन न तच्छङ्केति भावः । यद्वा-अश्रुतवेदान्तानाम् । अपीति शेषः । अविरक्तानामपि कर्मण्यश्रद्धा स्यादित्यर्थः । अत एव वक्ष्यति-"वीतरागव्यतिरिक्तानामग्नि-होत्रादिषु' इत्यादि । ननु महता यत्नेन देवताविग्रहादिकं निराकुर्वाणस्य तत्र तात्पर्याभावे देवताविग्रहं साधयतो बादराययणस्यापि, "नहिनिन्दा' न्यायः कुतो नावतरेदित्यस्वरसादाह - यद्वा वेदप्रामाण्यकर्मावश्यकर्तव्यतातात्पर्यातिशयादिति । देवताविग्रहसत्त्वे, "विरोधः कर्मणीति चेत्' इत्यादिदेवताधिकरणोक्तरीत्या वेदस्याप्रामाण्यं प्रसज्यते । कर्मणश्च देवताप्रीत्यर्थतया देवतां प्रति गुणत्वे कर्मणः फलजनकत्वाभावेन कर्मण आवश्यकत्वं किंजिद्धि#ीयेतापि । अतो वेदप्रामाण्यकर्मावश्यकत्योर्बद्धादरातिशयेन जैमिनिना देवताविग्रहनिराकरणेऽल्पीयान् कटाक्षः पातितश्चेत्, का क्षतिरिति भावः । तदुक्तरात्रिसत्रेति । "ज्योतिर्गौरायुः' इत्युत्पन्नस्य रात्रिसत्रस्य फलाकाङ्क्षायाम्, "प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति' इत्यर्थवादसमर्पितप्रतिष्ठाया विपरिणामेन फलत्वमा-त्रकल्पनमेव ज्यायः; न तु विश्वजिन्न्यायेन स्वर्गस्वरूपमपि कल्पयित्वा तस्य फलत्वकल्पनमपि' इति चतुर्थे स्थितम् । ततश्च तेनैव न्यायेनार्थवादिकदेवताविग्रहादिष्वपि तात्पर्यमस्तीति भावः । तÏस्मस्तद्धर्मोऽतिदेष्टव्य इति स्थितमिति । "यस्य लिङ्गमर्थसंयो-गादभिधानवत्' (8-1-2) इत्यष्टमाध्यायद्वितीयाधिकरण इति शेषः । नात्र द्रव्यदेवतयोरिति । ननु "विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात्' (8-1-32) सति सूत्रे, "यस्य यत्र द्रव्यदेवतासाम्ययोर्विप्रतिपत्तिरस्ति, यथा ऐन्द्रपुरोडाशे देवतासाम्यात् सान्नाय्यविध्यन्तः, द्रव्यसाम्यात् पुरोडाशविध्यन्तश्च, तत्र द्रव्यसादृश्यमाश्रित्यैव नियमः प्रवर्तते । कुतः ? कर्मणो हविष्युपल-भ्यमानत्वात्उयागाख्यस्य कर्मणस्त्यागरूपस्य हविष्युपलभ्यमानत्वात् । हविर्हि त्यज्यमानं दृश्यते इत्येवं द्रव्यस्यान्तरङ्गतया तत्सादृश्यमपेक्षितम् । शब्दार्थगतचोदनासादृश्यगवेषणायामन्तरङ्गसादृश्यस्यैवापेक्षितत्वात् ऐन्द्रपुरोडाशे आग्नेयविध्यन्त एव प्रवर्तते; न त्वैन्द्रसान्नाटयविध्यन्तः' इति स्थितम् । न तु द्रव्यदेवतयोः प्रत्यक्षत्वाप्रत्यक्षत्वाभ्यामिति चेत्-अस्त्वेवम् । तस्याप्य-र्थस्योक्तार्थाविरुद्धत्वेन ग्राह्रत्वात् । विपक्षनिरासार्थस्येति । वेदाप्रामाण्यादिनिरासार्थस्येत्यर्थः ।

(कर्मब्राहृमीमांसयोः क्रमनियामकम् )

द्वितीयाध्यायात्पूर्वं ब्राहृविचारः किं न स्यादिति । ननु प्रथमलक्षणार्थप्रामाण्यस्योपजीव्यत्वमिव भेदादिलक्षणोक्तस्य शब्दा-न्तरादेः श्रुतिलिङ्गादेश्चोपजीव्यत्वमविशिष्टमिति कथमयमाक्षेपः ? नन्वस्मिन् शास्त्रे सर्ववेदान्तानां ब्राहृणि समन्वयार्थमुपक्रमादीन्येव ज्ञातव्यानि, न श्रुतिलिङ्गादीनीति चेत्-उपक्रमोन्मेषार्थं श्रुतिलिङ्गादीनामपेक्ष्यत्वात् । न हि ब्राहृाभिधानश्रुत्यादिकमनुपलभ्य "उपक्रमो ब्राहृविषयः' इति निश्चेतुं शक्यम् । न चैतावता श्रुतिलिङ्गादिकमेव समन्वयोपयोगि, नोपक्रमादिकमिति वक्तुं शक्यम् । श्रुत्यादिष्वपि प्रकरणस्योपक्रमादितात्पर्यलिङ्गाधीनात्मज्ञानत्वात् । साकाङ्क्षप्रधानवचनं हि प्रकरणम् । प्राधान्यनिर्णयश्च तात्पर्य-लिङ्गावसेयः । किं च येषु वाक्येषु ब्राहृाब्राहृसमावेशः, तत्र ब्राहृलिङ्गबलवत्त्वस्य तात्पर्यलिङ्गोपक्रमाद्यवसेयत्वात् श्रुतिलिङ्गादिक-मुपक्रमादिकं चापेक्षितम् । न चोपक्रमादीनां श्रुतिलिङ्गादीनां चान्योन्याश्रयः । उपक्रमादीनां स्वरूपलाभार्थं श्रुतिलिङ्गाद्यपेक्षणम्, बलाबलावधारणार्थमुपकमाद्यपेक्षणमिति विषयभेदेन परस्परापेक्षाया अदोषत्वात् । तस्मात् श्रुतिलिङ्गादिकमुपजीव्यमेवेति तदर्थं तृतीयाध्यायापेक्षया अपि सत्त्वात् द्वितीयाध्यायात्पूर्वमिति शङ्कायास्तत्परिहारस्य चानुत्थानमेव ।

ननु श्रुत्यादीनामुक्तरीत्योपजीव्यत्वेऽपि न तत्परिज्ञानार्थं पूर्वतन्त्रापेक्षा, इहैव, "द्युभ्वाद्यायतनं स्वशब्दात्', "आकाशस्त-ल्लिङ्गात्', "तथाचैकवाक्योपबन्धात्', "प्रकरणात्' इत्यादिसूत्रैः श्रुत्यादिस्वरूपावगमस्य, #ःश्रुत्यादिबलीयस्त्वाच्च न बाधः' इत्यादिसूत्रे श्रुत्यादीनां पूर्वबलीयस्त्वावगमस्य च संभवात् । न हि तत्र श्रुत्यादीनां लक्षणमुक्तमस्ति । क्वचिद्वाक्यैक्यमात्रस्य लक्षणमुक्तम् "अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्' इति । यानि तु तद्य्वाख्यातृभिरुक्तानि लक्षणानि, तानि नोप- युज्यन्ते । तथा हि -

"निरपेक्षो रवः श्रुतिः' इति श्रुतिलक्षणमुक्तम् । तत् सर्वत्राप्यसिद्धम्, शक्तिस्मरणादिसापेक्षत्वात् । पदान्तरसमभिव्याहारनि-रपेक्षत्वं विवक्षितमिति चेत्-न; धूमवति पर्वते प्रयुक्तस्य "सः' इति पदस्यानुमानव्यवधानसापेक्षत्वेऽपि पदान्तरसमभिव्याहार-निरपेक्षत्वेन लिङ्गसमर्पकस्यापि शब्दस्य लिङ्गिनि श्रुतित्वप्रसङ्गात् । "शब्दादेव प्रमितः' इत्यधिकरणे विषयवाक्ये, "अङ्गुष्ठमात्रः पुरुषः' इत्यत्र ईशानश्रुतेरङ्गुष्ठप्रमितः परमात्मेति बोधने अङ्गुष्ठमात्रपदसमभिव्याहारसापेक्षत्वेन श्रुतित्वाभावप्रसङ्गाच्च । ननु पर-मात्मवाचिन ईशानशब्दस्याङ्गुष्ठमात्रपदसामानाधिकरण्यात् वस्तुतोऽङ्गुष्ठमात्रप्रमितपरत्वेन पर्यवस्यतो धर्मिमात्रज्ञापने नैरपेक्ष्यमस्ति, "व्रीहीन् प्रोक्षति' इत्यत्र क्रियेप्सिततमवाचिन्या द्वितीयाविभक्तेः प्रोक्षतिपदसामानाधिकरण्यात् प्रोक्षणत्वेन पर्यवस्यतः क्रिया- मात्रस्य ज्ञापन इवेति चेत्-तर्हि, "आकाशस्तल्लिङ्गात्' इत्यधिकरणविषयवाक्ये, "आकाशो ह्रेवैभ्यो ज्यायान्' इत्यत्र ज्यायः-शब्दस्याकाशपदसमभिव्याहाराद्वस्तुत आकाशपरत्वेन पर्यवसितस्य धर्मिमात्रज्ञापने नैरपेक्ष्यमस्तीति तस्याप्याकाशस्य परमात्मत्वे साध्ये श्रुतित्वप्रसङ्गात् ।

तथा वस्तुसामथ्र्यरूपलिङ्गलक्षणमपि नोपयुज्यते; "आनन्दमयोऽभ्यासात्' इति वण्र्यमानानां निरतिशयानन्दादिब्राहृासा-धारणधर्मलिङ्गानां वस्तुसामाथ्र्यरूपलिङ्गत्वाभावात् । "इतिकर्तव्यताकाङ्क्षा प्रकरणम्' इति पूर्वतन्त्रोक्तं प्रकरणं न ब्राहृविचारोपयोगि, सिद्धरूपस्य ब्राहृण इतिकर्तव्यताकाङ्क्षाविरहादिति स्पष्टमेव । स्थानस्य तु संनिधियथासंख्यलक्षणस्य संग्राहकमेकमनुगतं लक्षणं पूर्वतन्त्रोक्तं न दृश्यते । "समाख्या यौगिकी संज्ञा' इत्येतदपि न युक्तम्, पूर्वतन्त्रे होतृचमसादिसंज्ञायाः, इह शास्त्रे, "स ब्राहृविद्यां सर्वविद्याप्रतिष्ठाम्' इत्यादिषु श्रुताया ब्राहृविद्यादिसंज्ञायाश्च समाख्यात्वसंभवेऽपि आध्वयर्वौद्गात्रादिसंज्ञायाः प्रकृतिप्रत्ययस-मुदायरूपत्वेन तदभिमतैकपदश्रुतिरूपतया समाख्यात्वासंभवात् ।

तस्मात् तत्रत्यानां श्रुतिलिङ्गादीनामिहानपेक्षितत्वात् न प्रमाणलक्षणातिरिक्तमपेक्षितमिति चेत् -

तर्हि "अत एव च नित्यत्वम्' इति वेदप्रामाण्यस्य, "तदुपर्यपि बादरायणः संभवात्' इति सूत्रेण मन्त्रार्थवादैः देवतानां विग्रवत्वस्य सिध्या विद्याधिकार हेतुसामथ्र्य संभव साधकेन मन्त्रार्थवादप्रामाण्यस्य, "शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्' इति सूत्रेण स्मृत्यादिषु श्रुत्यनुमापकत्वप्रवृत्तिनिमित्तकानुमानशब्दप्रयोगवता स्मृत्यादिषु प्रामाण्यस्य च सिद्धेः प्रमाणलक्षणमपि नोपजीव्यं स्यात् । ननु पूर्वतन्त्रे पूर्वपक्षसिद्धान्ताभ्यां स्फुष्टं वेदादिप्रामाण्यसमर्थनमस्ति । इह तु न स्फुटप्रतिपत्तिरिति चेत्, व्याख्यानतो विशेषप्रतिपत्तिसंभवात् । उक्तं हि- "व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्' इति, इति चेत्-सत्यम् । उक्तरीत्या श्रुतिलिङ्गादिषु तत्रत्येषु च वैषम्यसद्भावेऽपि प्रामाण्ये वैषम्याभावेन तत्र कण्ठरवेण समर्थित-प्रामाण्योपजीवनेऽपि श्रुत्यादेर्वैषम्यसद्भावेन द्वितीयात् पूर्वं ब्राहृविचारः किं न स्यादित्याक्षेपः संभवतीति नानुपपत्तिरिति भावः ।

(अध्ययनविधिनिरूपणम् )

आत्मज्ञानस्य व्रीह्रादिद्वारेति । नन्वात्मनः कर्मशेषत्वे सत्येवात्मज्ञानस्यात्मद्वारा शेषत्वं स्यादिति वक्तुमुचितम्, न तु व्यत्यासेन ज्ञानस्यात्मद्वारा शेषत्वे सत्यात्मनः शेषत्वं स्यादितीति चेत्-न; "कर्मशेषत्वे' इति निमित्तसप्तमी, "चर्मर्णि द्वीपिनं हन्ति' इतिवत् । सतीत्यस्य सामीचीन्यमर्थः । समीचीने आत्मद्वारा कर्मशेषत्वे आत्मनः कर्मशेषत्वमुपयुक्तं स्यादिति । शेषत्वस्य सामीचीन्यं नाम संनिपातित्वम् । ततश्चात्मज्ञानस्य कर्मशेषत्वे व्रीहिद्वारा प्रोक्षणस्येवात्मद्वारा संनिपातित्वलक्षणं समीचीनं शेषत्वं सिध्येदिति भावः । आत्मनो द्वारभावे संभवतीति । संस्कार्यतया द्वारभावसंभव इत्यर्थः । फलप्रदतयो शेषत्वमस्त्विति चेदिति । न चैवं देवतायाः कर्मवत् फलप्रदत्वेन कर्मतुल्यकक्ष्यतया समप्राधान्यप्रसङ्ग इति वाच्यम्-भोक्तृत्वार्थानामपि श्मश्रुवपनादीनां यागतुल्यकक्ष्यत्वा- भावेन यागाङ्गत्ववदुपपत्तेः । "फलप्रदतया शेषित्वमस्तु' इति पाठेऽपि यागशेषिभूतभोक्तृत्वार्थानां श्मश्रुवपनादीनां यागार्थत्ववत् यागशेषिभूतपरमात्मार्थानामपि यागाङ्गत्वमविरुद्धमेवेति द्रष्टव्यम् । न तु पुस्तकनिरीक्षणादिनेति । अर्थज्ञानेऽध्ययननियमो भाट्टैरुक्तः । स त्वर्थज्ञानकामनाखण्डनेन प्रत्याख्यातो गुरुणा । अस्मदभिमते त्वक्षरग्रहणार्थाध्ययननियमे स्वाधीनोच्चारणक्षमत्व-लक्षणाक्षरग्रहणकामनासंभवादुपायान्तरसत्त्वेन व्यावत्र्यसंभवाच्च नियमविधित्वमपक्रम्प्यमिति भावः । उपनयनद्वाराऽध्ययनशेषत्वे सतीति । न च प्रथमशब्दाभिप्रेतस्याष्टमवर्षस्याध्ययनं प्रत्यप्याधारतया नोपनयनद्वारा शेषत्वमिति वाच्यम्-"श्रावण्यां प्रौष्ठवद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ।' इत्यष्टमवर्षान्तर्गतिनियमशून्यकालविशेषे विहितस्य, "द्वादशवर्षाण्येकवेदे ब्राहृचर्यं चरेत्; प्रतिद्वादश वा सर्वेषु' इत्यनेकसंवत्सरसाध्यस्याध्ययनस्याष्टमवर्षाङ्गकत्वासंभवेनोपनयनस्यै-वाष्टमवर्षाङ्गकत्वं वक्तव्यमिति सिद्धम् । ततश्चोपनयनाङ्गभूतकालमध्ययनाङ्गतयोपचारतो निर्दिशन् भाष्यकारो ज्ञापयति, उपन-यनाध्ययनयोरङ्गाङ्गिभावोऽस्तीति । उपनयनद्वाराऽध्ययनशेषत्वात् कालस्येति । अष्टमवर्षाङ्गकोपनयनाङ्गकस्याध्ययनस्य प्राथम्यं सिध्यतीति भावः । अकत्र्रभिप्रायसूत्रविद्दितत्वाच्चेति । आत्मनेपदस्येति शेषः । अकत्र्रभिप्रायसूत्रम्, "संमानन' इति सूत्रम् । अध्ययनाङ्गविधिरिति । ननु उपनयनस्य दृष्टद्वारसभवेऽदृष्टकल्पनाया अन्याय्यत्वादध्ययनं गुरूच्चारणानूच्चारणमेव, न स्वतन्त्र-मित्यध्यापयितृपूर्वकत्वमाक्षेपसिद्धमिति, अध्यापयितृपूर्वकत्वसिद्धयर्थमध्यापयितृपूर्वकत्वमध्ययनाङ्गं नानेन वाक्येन विधेयमस्तीति कथमध्ययनाङ्गविधिरिति चेत्-न; "अष्टवर्षं ब्रााहृणमुपनयीत; तमध्यापयेत्' इत्यत्राध्यापनस्य रागप्राप्तत्वात्, "याजयेत्' इत्यत्र यजनस्येवाध्ययनस्यैवानेन विधिना विधाने उपनयनस्य तत्समभिव्याहारात्तदङ्गत्वं सिध्येत् । तदभावे तु, "उपनयीत' इत्यनेना-ध्ययनाङ्गतयोपनयनं विधीयत इत्यस्यापरिज्ञानाददृष्टार्थमुपनयनं विधीयत इति स्यात् । ततश्च स्वतन्त्रमप्यध्ययनं प्राप्नुयात् । ततश्च "अध्यापयेत्' इत्येतदपेक्षितमिति भावः । यद्वा "ऐन्द्रवायवं गृह्णाति' इतिवाक्याक्षेपलभ्ययागविधायकस्य, "सोमेन यजेत' इत्यस्य विधित्ववत् उपनयनविध्याक्षेपलभ्याध्यापयितृपूर्वकत्वविधायकस्य "अध्यापयेत्' इत्यस्य विधित्वसंभवादिति भावः । यद्यपि "अध्यापयीत' इत्येव मीमांसकग्रन्थेषु लिख्यते, अत्र तु "अध्यापयेत्' इति श्रुतिर्लिख्यते-तथापि "बुधयुधनशजनेङ्' इति सूत्रा-नुकूलत्वेनास्यैव पाठस्य सामीचीन्यम् । क्तवाश्रुत्योपनयनस्येति । "वाजपेयेपेष्ट्वा बृहस्पतिसवेन यजेत' इतिवत् क्तवाश्रुत्या कत्र्रैक्यावगमात् तेन च प्रयोगैक्यावगमादङ्गाङ्गिभावः सिध्यतीति भावः । अन्तरङ्गत्वं हि प्रत्यक्षश्रुतिसिद्धमिति । उपनयनसंस्कारे माणवकगतत्वस्य प्रत्यक्षद्वितीयासिद्धत्वादध्ययनस्य तन्निष्ठित्वाच्च तत्संस्कायर्निष्ठत्वमन्तरङ्गत्वं प्रत्यक्षश्रुतिसिद्धमिति भावः । नाध्यापनाङ्गत्वं युक्तमिति । अध्यापनाङ्गत्वे क्रियाफलस्य कर्तृगतत्वात्, "स्वरितञितः' इत्येवात्मनेपदं सिद्धमितीदं व्यर्थं स्यादिति भावः । तदवधारणनिषेधार्थमिति । कर्तव्येवेति नियमेनाकर्तृगामिनि फले आत्मनेपदाप्राप्तौ तन्निवृत्तिः क्रियते । आत्मनेपदं प्राप्यत इत्यर्थः ।

ऋत्विजो वृणीत इत्यत्रेति । अत्र केनचित्-"वृणीते' इति रूपं "वृङ् संभक्तौ' इत्यत एव; नान्यस्मात्, ञितः श्नाविकरण-पाठाभावात् । तेन "स्वरित' इति सूत्राप्रवृत्तिरिष्टप्रसञ्जनमेवेत्युक्तम् । तदसत् । (वृङ्वरणे इत्यस्यापि श्नाविकरणे पाठात् ) यद्यपि क्य्रादौ "वृञ् वरणे' इति धातुर्धातुवृत्तौ न पठितः, तथापि "वृ ग्न वृञ् वृतौ' इति कल्पद्रुमे पठितः । तस्यैवात्र विवक्षितत्वात् । "वृञ् वरणे' इति क्य्रादौ (स्वादौ) दीर्घान्तस्य पाठात् तत एव तस्य रूपस्य संभवाच्च । नन्वत्र "वृङ् संभक्तौ' इति धातुर्युज्यते । संभक्तिर्हि प्रार्थना । अत एव हि "अवद्यपण्यवर्याः', "एतिस्तुशास्वृ', "ईडवन्दवृशंसदुहां ण्यतः' इत्यादिषु वृत्तिकारादिभिरुदा-हरणेषु ऋत्विग्विषये "वृङ् संभक्तौ' इत्येवोदाह्मतम् । अतः, "स्वरितञितः' इतिसूत्राप्रसञ्जनमिष्टप्रसञ्जनमेवेति चेत्-सत्यम्-संभ-क्तितात्पर्यमन्तरेण वरणतात्पर्येण प्रयुक्ते लौकिके प्रयागे आत्मनेपदाभावप्रसङ्गस्यापादयितुं शक्यत्वात् । ततः ऋत्विक्ष्वपि वरणेन

निरोधनरूपफलसंभवादिति भावः ।

अग्निसंस्कारव्यवहितस्येति । अव्यवहितस्याग्निसंस्कारस्य कर्तृगतत्वाभावादात्मनेपदं न स्यादित्यर्थः । आधानकर्तरि न व्यवहितफलान्वय इति । ततश्चाव्यवहितफलस्य कर्तृगामित्व एव, "स्वरित' इत्यादिसूत्रप्रवृत्तिः । अत्र चाव्यवहितं संस्कारविशि-ष्टाग्निरूपं फलमाधानकर्तृगतमेवेति, "स्वरित' इत्यादिनात्मनेपदमुपपद्यत इति भावः । असाधारणफलान्वयविषयत्वादिति । क्रियायाः फलं प्रधानभूतं चेत् कर्तृगामि भवति-यदर्थं क्रिया आरभ्यते तच्चेत् फलं कर्तृर्लकारवाच्यस्य भवति, तदा आत्मनेपदमित्यर्थः। अत एव "यजन्ति याजकाः', "पचन्ति पाचकाः' इत्यत्र न भवति । यद्यप्यत्र दक्षिणाभृतिश्च कर्तुः फलमस्ति-तथापि न तदर्थः क्रियारम्भ इत्यदोषः । यथा व्रीहीनवहन्तीत्यत्रेति । "क्रियाणामर्थशेषत्वात प्रत्यक्षे त (क्षोतस्त) न्निर्वृत्त्यापवर्गः स्यात्' (11-1-27) इत्येकादाशाध्यायाधिकरणे तथैव व्यवस्थापितत्वादिति भावः ।

सक्तुहोमो यथा पुरुषसंस्कार इति । यथा भूतभाव्युपयोगविधुराणां सक्तूनां होमसंस्कार्यत्वाभावेन सक्तुहोमस्य गुणकर्मत्वा-भावेन प्रधानकर्मत्वम्, तद्वदिति भावः । एतदभिप्रायेण पुरुषसंस्कारत्वोक्तिरिति द्रष्टव्यम् । स्वाध्यायस्य हि कर्मत्वावगमो न पुरुषस्येति । यद्यप्यध्ययनस्य प्राभाकराभिमतमर्थकर्मत्वमेव निरसनीयम्; न तु पुरुषसंस्कारत्वम्, तस्य परानुक्तत्वात् । न चाध्य-यनस्य स्वाध्यायसंस्कारत्वाभावे पुरुषसंस्कारत्वमापतेदेव, कोटिद्वयविनिर्मुक्ताकाराभावादिति वाच्यम्-गुणकर्मत्वशून्यानां काम्यानां प्रयाजादीनां च पुरुषसंकारत्वस्याभावात् तथापि प्रधानकर्मत्वनिरासे तात्पर्यम् । प्राप्यत्वमात्रपर्यवसानं चायुक्तमिति । न चैवं वैदिके, "पयो दोग्धि' इत्यत्रापि पयसः संस्कार्यत्वप्रसङ्गः, तत्रापि प्रापण(प्रपूरण?) नियमजन्यादृष्टस्याभ्युपेतत्वेन संस्कार्यत्व-स्येष्टत्वात् । ततश्चाध्ययनेन वेदानां या प्राप्तिः स्वाध्यायोच्चारणेच्छायां सत्यामस्खलिततदुच्चारणोपयोगितालुमूर्धादिवर्णस्थानव-शित्वसहिताविच्छिन्नस्मृतिसंततिचनकवर्णपदवाक्याबलीविषयसंस्कारदाढर्¬जनकाक्षरराशिग्रहणरूपा, तन्नियमजन्यादृष्टस्य स्वा-ध्यायनिष्ठस्याभ्युपेयत्वमिति भावः । सुवर्णं भार्यमित्यत्रेति । तृतीये सुवर्णभरणस्य पुरुषार्थत्वस्य व्यवस्थापितत्वादिति भावः । प्रतियोग्यभ्युपगम इति, प्रतिबाद्यभ्युपगम इत्यर्थः । सकतून् जुहोतीत्यादिषु प्रत्ययस्वारस्यावगतमपीति । ननु "मैत्रावरुणाय दण्डं प्रयच्छति' इत्यत्रेव "तथायुक्तं चानीप्सितम्' इत्यनीप्सिते । कर्मणि द्वितीया भविष्यतीति कुतो व्यत्ययाश्रयणमिति चेत्-न । तत्र हि दानकर्मभूतेन दण्डेन मैत्रावरुणस्य संस्कारः; न तु दण्डसाधनकेन दानेन । इह तु सक्तुसाधनकेन होमेनापूर्वम्, न होमकर्मभिः सक्तुभिरिति वैषम्यात् । नन्वध्ययनस्यार्थज्ञानार्थत्वपक्षेऽपि न कर्मत्वभङ्गः, अर्थसिद्धस्याध्ययनसंस्कार्यत्वस्य, चरुमुपदधातीत्यत्रेव द्वितीयया अनुवादोपपत्तेः । अग्निप्रकरणाम्मातेन "चरुमुपदधाति' इति विधिना चरूपधाने स्थण्डिलस्याङ्गतया विनियुज्यमाने, तस्य साक्षात्स्थण्डिलनिर्वर्तकत्वायोगादुपहितेन चरुणा तन्निर्वृत्तिदर्श-नेच्चोपधानस्य स्थण्डिलाङ्गत्वं चरुसंस्कारद्वारकमिति अर्थसिद्धमेव हि चरोरुपधानसंस्कार्यत्वं द्वितीययाऽनूद्यते । एवमिहाप्यध्ययनस्य तत्समाप्त्यनन्तरारम्भणीयमीमांसापरिचयोत्तरकालभाविनि अर्थज्ञाने साक्षात् करणत्वायोगात् अध्ययनगृहीतस्वाध्यायेन कालान्तरे स्मृतिसमारूढेन द्वारेणार्थज्ञानदर्शनाच्चार्थसिद्धं स्वाध्यायस्याध्ययनसंस्कार्यत्वं तव्यप्रत्ययेनानूद्यत इत्युपपत्तेरिति चेत्-न । "अध्य-यनगृहीतस्वाध्यायेनार्थज्ञानं भावयेत्' इत्यर्थाश्रयणेन भट्टमते दोषाभावेऽपि, अध्ययनस्य स्वाध्यायसंस्कारत्वानभ्युपगन्तृगुरुमते, "स्वाध्यायसाधनकाध्ययनकाध्ययनेनार्थज्ञानं भावयेत्' इत्यर्थाश्रयणेन तव्यप्रत्ययार्थत्यागः सिद्ध इति भावः । अर्थावबोधनस्य सप्र-योजनकत्वप्रदर्शनार्थमाह - अनुष्ठानौपयिकेति । चशब्देन समुच्चीयत इति । यद्यपीदं पक्षद्वर्यपि समानम् । तथापि पूर्वपक्षे अपिहि विरोधसूचकः । द्वितीयपक्षे तु जपादेः स्वरूपस्य च समुच्चयपर इति विवेकः । मन्त्राणां स्वाध्यायान्तर्गतानां पृथङ्#िनर्देशः किं निबन्धन इत्याशङ्कयाह - मन्त्रवदिति पृथङ् निर्देश इति । उपकारकमन्त्रवत्त्वप्रतिपादनस्य प्रकृतेऽत्यन्तानुप्रयोगात् वतिप्रत्ययान्तत्वमाश्रित्याह - यद्वा यथा बालस्येति । सनियमकोच्चारणमिति । यद्यपि नियमोऽङ्गविधायकवाक्यान्तरप्राप्यः, नाध्ययनशरीरान्तःपाती, तथाप्यर्थज्ञानस्य तच्छरीरानन्तःपातित्वे तात्पर्यम् । अपि तु स्वशाखामात्रवाचीति । अध्यायशब्दो वेदपरः, स्वशब्दः पितृपितामहपरंपरागतस्वीत्ववाची । न च, "स्वाध्यायशब्दवाच्यवेदाख्यक्षरराशेः' इति भाष्येण विरोध इति वाच्यम्-तस्यापि "स्ववेदाख्याक्षरराशेः' इत्यत्र तात्पर्यात् । न च सिद्धान्ते स्वाध्यायस्याध्ययनोद्देश्यतया उद्देश्यगतविशेषणस्य ग्रहैकत्ववदविवक्षितत्वात् स्वीयास्वीयसाधारण्येनाध्ययनं प्राप्नोतीति वाच्यम्-वेदानामानन्त्येन सर्वाध्ययनस्याशक्यत्वेन संकोचेऽपेक्षिते स्वीयत्वस्योद्देश्यगतस्य विवक्षितत्वोपपत्तेः । मात्रचेति । ननु "क्षीरमात्रं पिब' इत्यादावुत्तरपदत्वनियतं मात्रपदं प्रातिपदिकम् । न तु, "प्रमाणे द्वसच्दघ्नञ्मा-त्रचः' इति विहितो मात्रच्प्रत्ययः, तस्य प्रमाणार्थं एव विधानादिति चेत्-न । "ऊरुमात्रम्' इत्यादावपि प्रमाणार्थप्रत्यय इतरव्यव-च्छेदप्रतीतेर्मात्रच्प्रत्ययव्यतिरेकेणोत्तरपदत्वनियतप्रातिपदिकाभ्युपगमे प्रमाणाभावादित्यत्र तात्पर्यात् । यथा अग्नीनादधीतेति वाक्यमिति । एतच्च, "तत्प्रकृत्यर्थं यथान्येऽनारभ्यवादाः' (3-6-14) इति तार्तीयाधिकरणे स्थितम् । तत्र हि, आधानविधेः पणर्तादिवत् क्रतुपर्यन्तत्वं पूर्वपक्षीकृत्य अलौकिकस्याहवनीयाद्यग्नेरेव फलाकाङ्क्षाशामकत्वसंभवात् तन्मात्रविश्रान्त एवाधानविधिः,

न क्रतुपर्यन्त इति स्थापितम् । आधानमात्रपरमिति । अग्निसिद्धयर्थाधानमात्र (विधि)परमित्यर्थः । ग्रहणशेषतयाविनियुक्तस्येति । ननु सिद्धान्ते न स्वाध्यायस्य ग्रहणशेषतया विनियोगः, स्वाध्यायस्य शेषित्वावगमादिति चेत्-मैवम् । ग्रहणशेषतया अविनियु-क्तम्येति छेदः । ग्रहणशब्दश्चाथग्र्रहणपरः; अर्थज्ञानशेषतया अविनियुक्तस्य स्वाध्यायस्याथर्परत्वे प्रमाणाभावादित्यर्थः ।अयं भावः-अर्थावबोधमुद्दिश्य शब्दोच्चारणेन हि लोके वाक्यानां तात्पर्यमवगम्य तन्निर्वाहार्थं मुख्यासंभवे लक्षणादिकं परिकल्प्यते; न तूच्चारणमात्रेण । अत एव "गौरश्वः पुरुषो हस्ती' इति पदानामुच्चारणमात्रेण लक्षणया न कल्प्यते । यदा विशिष्टार्थबोधमुद्दिश्य तेषामुच्चारणमिति तात्पर्यमवगम्यते, तदैव तन्निर्वाहारार्थम्, "अयं गौर्बलीवर्दः, अश्वो वेगवान्, पुरुषो नियतचेष्टः, हस्ती महाबलः' इति गवादिपदानामध्याहारलक्षणादि कल्प्यते । एवं च वेदवाक्यानामर्थावबोधमुद्दिश्योच्चारणाभावे तात्पर्यासिद्धया तन्निर्वाहा-र्थलक्षणागौणवृत्त्यनुषङ्गाध्याहारव्यवधारणकल्पनोच्छेदप्रसङ्गादवश्यं वेदेऽप्यर्थावबोधमुद्दिश्योच्चारणस्य वक्तव्यत्वात् वेदे च लोक इव तमुद्दिश्य रागप्रयुक्तोच्चारणाभावाद्विधिप्रयुक्तमेव तदाश्रयणीयमिति, विधिश्चाध्ययनविधेरन्यो न दृश्यत इति, तेनैवार्थावबो-धमुद्दिश्य गुरुमुखोच्चारणानूच्चारणरूपमध्ययनं विधीयत इत्यकामेनापि स्वीकतव्र्यम् । एवं च दृष्टफलेऽप्यर्थावबोधे विधिरन्य-तोऽसिध्यतस्तात्पर्यस्य सिद्धयर्थ इति ।

(विचारे रागतः प्रवृत्तिसमर्थनम् )

शब्दस्य बोधकत्वशक्तिस्वाभाव्यादित्यर्थ इति । लोकव्युत्पत्तिसिद्धस्य शब्दानामर्थपरत्वस्यौत्सर्गिकस्य क्वचित्क्वचिल्लौकि-कवाक्ये वक्तृदोषादपवादेऽपि अपौरुषेये तदभावात्; निरपवादस्य स्वत एव समर्थस्यार्थज्ञानोद्देश्यकशब्दोच्चारणस्य विधिनिरपे-क्षत्वाच्च । ननु-शब्दानामर्थपरत्वमात्रं व्युत्पत्तिसिद्धम् । न त्वग्निहोत्रादिवाक्यं तत्तदर्थविशेषपरमित्यपि । तत्तु तत्तदर्थविशेषमुद्दि-श्योच्चारणमपेक्षत इति तदर्थोऽध्ययनविधिः स्यादिति चेत्-न; अध्ययनविधिनापि तदलाभात् । न ह्रध्ययनविधिः प्रतिवाक्यं तत्त-दर्थज्ञानविशेषमुद्दिश्य तत्तद्वाक्योच्चारणे व्याप्रियते । "स्वाध्यायाध्ययनेन यद्भावयितुं शक्यम्, तदनेन भावयेत्' इति विधाने सति अग्निहोत्रादिवाक्याध्याध्ययनेन न्यायलभ्यतत्तदर्थविशेषज्ञानमेव भावयितुं शक्यमिति तत्तदर्थविशेषं तात्पर्यमर्थतः सिध्येदिति चेत्- तर्हि अग्निहोत्रादिवाक्यानामौत्सर्गिकमर्थपरत्वमेव न्यायपर्यालोचनेन तत्तदर्थविशेषतात्पर्यतया पर्यवस्यतीत्येवास्तु; किमुच्चारण-विधिना ? यदि च लोके दृष्टमित्येतावता वेदेप्यर्थावबोधमुद्दिश्योच्चारणमाद्रियेत, तदा स्वतन्त्रवकतृविवक्षितेतरार्थावबोधमुद्दिश्य श्रोतृभिरुच्चारणे कृतेऽपि तस्य वाक्यस्य तत्र तात्पर्यं न दृष्टम् । किंतु स्वतन्त्रकर्तुर्यदर्थावबोधमुद्दिश्योच्चारणम्, तत्रैव तात्पर्यं दृष्टमिति वेदस्य तात्पयर्सिद्धयर्थं पौरुषेयत्वमपि कल्प्येत । वस्तुतस्तु लोकेऽपि नोच्चारणाधीनं तात्पर्यम्, मौनिना लिखित्वा दत्ते परेणापि लिखितं दृष्ट्वा मनसानुसंहिते श्लोकादावुच्चारणाभावात् । किंतु "अस्माद्वाक्यादेतदर्थप्रतीतिर्भवतु' इति वकतृविवक्षाधीनं तदिति । तस्मात् तात्पर्यसिद्धयर्थमध्ययनविधेरर्थावबोधफलकल्पनायाः कथंचिदपि नावकाशः; लोके व्युत्पत्तिसिद्धमर्थपरत्वं वकतृविवक्षिते विशेषे पर्यवस्यति; वेदे तु न्यायलभ्ये विशेषे । तदनुसारेण च लक्षणादिकल्पनमित्येवाभ्युपगन्तव्यम् । अत एव वेदस्य तात्पर्यवत्त्व-सिद्धिमेवाध्ययनविधिफलं मन्वानेनापि न्यायतोऽध्ययनविधिरर्थावबोधमपि फलत्वेन गृह्णातीति तात्पर्यं निश्चित्य तद्बलेन स्वाध्या-यावाप्तेरेव फलतापत्यायकस्य तव्यप्रत्ययस्य स्वारस्यमुल्लङ्घितम् । न ह्रध्ययनविधेरुक्तार्थतात्पर्यनिश्चयोऽयमर्थावबोधमुद्दिश्योच्चार-णविध्यधीनः, तथाभूतविध्यन्तराभावात् । अस्यैव विधेरपेक्षायामात्माश्रयापत्तेः #ः किंतु केवलन्यायाधीन एव वक्तव्यः । तस्मात् तात्पर्यसिद्धयर्थमध्ययनविधेरर्थावबोधफलकत्वकल्पनमित्येतत् तावदयुक्तमिति भावः ।

अन्यत्र विनियोगस्त्विति । अध्ययनस्यार्थज्ञानादन्यस्मिन् स्वाध्याये विनियोग इत्यर्थः । गृहीतात्उगृहीतमात्रात् अध्ययन-गृहीतस्येत्युक्तेरिति । ननु "अध्ययनगृहीतस्य' इति भाष्यस्य कथमध्ययनगृहीतमात्रत्वमर्थः ? येन "गृहीतमात्रात्' इत्यंशे तत् उपपादकं स्यादिति चेत्-उच्यते- "अध्ययनगृहीतस्य स्वाध्यायस्य' इति पूर्वभाष्ये "अध्ययनगृहीतस्यार्थावबोधित्वदर्शनात्' इत्येवं प्रमिति-जनकत्वस्वभावस्योपपादितत्वात् तस्यैवापातप्रतीतिजनकत्वस्य विरुद्धत्वात् पूर्ववाक्यं मीमांसापरिकरयुक्तपरम् । अतस्तदविरोधायेदं वाक्यमध्यनगृहीतमात्रपरमिति भावः । केचित्तु मीमांसापरिकरयुक्तस्येत्यनुक्तेः, "सर्वं वाक्यं सावधारणम्' इति न्यायात् सिध्यती-त्याहुः । आपाततोऽवगम्यमानान् दृष्ट्वेत्यन्वय इति । केचित्तु अवगम्यमानानर्थान् प्रयोजनवतो दृ#ेष्ट्वेत्यपि योजयन्ति । अङ्गत्वा-न्यथानुपपत्त्यैवेति । न च "वैदाङ्गानि च सर्वाणि' इति द्वितीयाश्रुत्या अङ्गानां कर्मत्वावगमात् स्वाध्यायस्येवाङ्गानां प्राप्यत्वं किं न स्यादिति वाच्यम्-तथा सति अङ्गाध्ययनस्याक्षरग्रहणमात्रपर्यन्तत्वेऽङ्गानां वेदानुपकारकतया अङ्गत्वभङ्गप्रसङ्गेन मुख्यप्रातिपदिकानुरोधेन "सक्तून् जुहोति' इत्यत्रेव विभक्तिविपरिणामेन कर्मत्व परित्यागेन करणत्वस्याश्र-यणीयत्वात् । "पाठकर्मभूतैरङ्गैरर्थज्ञानं भावयेत्' इत्यपि संभवेन प्राप्तपाठकर्मत्वानुवादेनापि दोषाभावाच्च । यथा "चरुमुपदधाति' इत्यत्र "उपहितेन चरुणा स्थण्डिलं निर्वर्तयेत्' इत्येवं प्राप्तमुपधानकर्मत्वं द्वितीययानूद्यते, तद्वदिति भावः ।

(समावर्तनस्मृतिविरोधपरिहारः)

किमभिप्रेत्यैतदुक्तमिति । किमभिप्रेत्य श्रुतिस्मृत्योर्बाध्यबाधकत्वमुक्तमित्यर्थः । ननु "अधीत्य स्नायात्' इत्यादौ "अध्यय-नकर्मिकां भावनां परिसमाप्य' इत्यर्थः । न तु "अध्ययनकरणिकामर्थज्ञानकर्मिकाम्' इति । "वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत', "उच्चैः प्रवग्र्येण चरन्ति', "अप्स्ववभृथेन चरन्ति' इत्यादाविव तृतीयानिर्देशाभावेन तत्करणिकाया भावनाया असंप्रतिपत्तेः । ननु "अग्निचित् वर्षति न धावेत्' इत्यत्र चयनकरणकभावनाया एव भूताया निमित्तत्वम्, न धात्वर्थमात्रस्य भूतस्य निमित्तत्वम् । ततश्च क्रत्वन्त एवाग्निचिद्व्रितानि प्रवर्तन्त इति पञ्चमे स्थितम् । तद्वदिह किं न स्यादिति चेत्-न-अत्र (तत्र?) "अग्नौ चेः' इत्यग्नौ कर्मणि चिनोतेः क्विब्विधानात् अग्निकर्मिकायाश्चयनकरणिकाया भूताया एव भावनाया निमित्तत्वम् । इह तु, "वेदमधीत्य स्नायात्' इति वेदकर्मिकाया भूताया एव भावनायाः पूर्वकालत्वं क्तवाप्रत्ययेन प्रतीयते; न त्वर्थज्ञानफलकर्मिकायाः । ततश्चाध्ययनविधेरर्थज्ञान-फलकत्वपक्षे विरोधः स्यादेवेत्यरुचेराह - किंच विरोधे सत्यपीति । गुरोः कर्मातिशेषेणउगुरुशुश्रूषानवरुद्धकालेनेत्यर्थः । यद्वा अतिशेषेण निःशेषमित्यर्थः । निवेशे हि वृत्ते नैयमिकानीति । निवेशःउविवाहः । ननु "ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यवि-शेषेण स्वर्गकाममात्रप्रवृत्तत्वात् शूद्रस्यापि स्वर्गकामत्वाविशेषादनुष्ठानप्रसङ्गो दुर्वारः, "न शूद्राय मतिं दद्यात्' इत्यादिनिषेधस्मृतेः शुश्रूषारहितशूद्रविषयत्वस्य संभवादित्यरुचेराह - किंच यजमानेनेति । अध्ययनलभ्यत्वादिति । अध्ययनसंस्कृतस्वाध्यायस्य प्रयोजनसाकाङ्क्षस्य स्वाध्यायसाध्यसकलकर्मसु विनियोगो भवतीति भावः । "यो ह वा अविदितार्पेयेति । "यो ह वा अविदितार्षेयच्छन्दोदैवताब्रााहृणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्छति गर्तं वा पतति' इति प्रसि-द्धश्रुतिपाठः । अस्यायमर्थः-आर्षेयः ऋषिः; गायत्र्यादि; दैवतम् अग्न्यादिकम्; ब्रााहृणं विनियोजकवाक्यम् । आर्षेयादिकमजानानो याजकोऽध्यापको वा स्थावरतां प्राप्नोति, गर्ते वा पतति, म्रियेत वा । अस्य छन्दांसि निर्विर्याणि भवन्ति । जानानस्य तु तद्विपर्ययो भवति । तस्मादेतानि मन्त्रे मन्त्रे विद्यादिति । प्रतिग्रहर्तुसंवेशनादेरिवेति । न चैतत् रागप्राप्तस्य विधातुमशक्यत्वाच्च इत्युत्तर-ग्रन्थविरुद्धमिति वाच्यम् । रागप्राप्तस्य पाक्षिक्यामप्राप्तौ सतां विधेयत्वदर्शनात् रागप्राप्तत्वविधेयत्वयोर्नात्यन्तविरोध इत्येतत्तात्प-र्योऽयं ग्रन्थः । उत्तरग्रन्थस्तु रागतो नित्यप्राप्तविषय इत्यवविरोधोपपत्तेः । ननु-एतद्धट्टपर्यालोचनायामर्थज्ञानस्याध्ययनविधि-विधेयत्वरागप्राप्तत्वविचार इव प्रतीयते । न चैष युज्यते । अर्थज्ञानस्याध्ययनविधिविधेयत्वस्य मीमांसकैरप्यनभ्युपेतत्वात् । अर्थज्ञानस्याध्ययनविधिफलत्वमेव हि तैः स्वीकृतम्; न तु विधेयत्वम् । फलस्याविधेयत्वात् । चतुर्थे लिप्सा सूत्रे (4-1-2), "फलं चाकर्मसंनिधौ' इति द्वैतीयीकाधिकरणे "कर्मणस्त्वप्रवृत्तत्वात्' इत्याष्टमिकाधिकरणे (8-1-13)ऽपि फलाविधेयत्वस्य प्रतिपादितत्वात् । एकादशाद्ये च फलाविधेयत्वस्य प्रतिपादितत्वाच्चेति चेत्-न-अत्रार्थज्ञानपदेन विचारस्यैव विवक्षितत्वात् । विचारवैधत्वस्य मीमांसकैरभ्युपेततया तस्य रागप्राप्तत्वेन प्रतिक्षेप्यत्वोपपत्तेः । किंचानेनैव वाक्येनेति । "यो ह वा अविदितार्षेय' इत्यादिवाक्यविहितार्थज्ञानाक्षिप्ततया विचारस्य प्राप्तेर्ना-ध्ययनविध्याक्षेप्यत्वं विचारस्य युज्यते । यथा स्वस्वविधिविहितानां क्रतूनां ज्योतिष्टोमदर्शपूर्णमासादीनामाधानविधिसिद्धैराह-वनीयादिभिः स्वसाफल्यसिद्धयर्थं नानुष्ठाप्यत्वं तथेत्यर्थः ।

ननु न हि कर्मणामल्पास्थिरफलत्वमनन्तस्थिरफलत्वं चेत्यत्र पूर्वपक्षसिद्धान्तरूपेण इत्यस्य व्युत्प्रमेणान्वयो द्रष्टव्यः । "स्वरूपे निरूपिते' इत्युक्ते "स्वरूपमात्रे निरूपितेऽपि कर्मणामल्पास्थिरफलत्वमावृत्तिविधानादिभिज्र्ञात्वा' इत्यस्यार्थस्याध्याहारसापेक्षतया विलम्बितप्रतीतिकतया अन्यथा व्याचष्टे- यद्वा कर्मविधिस्वरूपं निरूपितमिति । अस्मिन् पक्षेऽस्य भाष्यस्येत्थमवतारिका-ननु परमात्माराधनकर्मसु, "स्वकर्मणा तमभ्यच्र्य सिदिं्ध विन्दति मानवः' इत्यनन्तस्थिरफलतयावगतेषु कथमल्पास्थिरफलत्वावगति-रित्याशङ्कयाह - कर्मविधिस्वरूपे निरूपित इति । अस्मिन्नपि पक्षे "कर्मविधिस्वरूपे' इत्यस्य परमात्माराधनत्वविनिर्मुक्तस्वरूप-मात्रेऽवगते अल्पास्थिरफलत्वावगतिप्रतिबन्धकपरमात्माराधनरूपत्वप्रतीत्यभावेन अल्पास्थिरफलत्वमवगम्येत्यस्याप्यर्थस्य विलम्बितप्रतीतिकत्वमविशिष्टमित्यस्वरसो बोध्यः । केचिदेवं व्याचक्षते - तत्र कर्मविधिस्वरूपे निरूपित इति । विधिश्च स्वरूपं च विधिस्वरूपम् । कमर्विधौ कर्मस्वरूपे च निरूपित इत्यर्थः । प्रत्यब्दं चातुर्मास्याद्यावृत्तिविधौ निरूपिते चातुर्मास्यानां क्षय्यफलत्व-

निश्चयो भवति । यदि चातुर्मास्यानामक्षय्यफलत्वम्, तदा पुनस्तदनुष्ठानवैयथ्र्यप्रसङ्गादित्यवगतेः स्वत एवोत्पत्तेः । तथा चातु-र्मास्यादिस्वरूपं सहरुासंवत्सरसाध्यविश्वसृजामयनादिस्वरूपं च निरूपयता चातुर्मास्यादिष्वल्पवित्तव्ययायाससाध्येषु, "फलस्य कर्मनिष्पत्तेः तेषां लोकवत् परिणामतो विशेषः स्यात्' (पू-मी.1-2-17) इति न्यायालोचनसनाथचेतसा नित्यनैमित्तिकक-र्माराधितपरमपुरुषानुग्रहलब्धचित्तनैर्मल्येन पुंसा चातुर्मास्यादिकर्मणामनित्यफलत्वस्य सुज्ञानत्वादिति भावः ।

येनेति निर्देशो विज्ञानाभिप्राय इति । ततश्च, "प्रोवाच तां तत्त्वतो ब्राहृविद्याम्' इति प्रतिनिर्दिश्यमानाया एव ब्राहृविद्याया यच्छब्देन पराम्रष्टव्यतया ययेति स्त्रीलिङ्गनिर्देशो न प्रसञ्जनीय इति भावः । अतो निरूप्य संपाद्यैस्तैरिति । ननु, "शमदमाद्युपेतः स्यात्' इत्यत्र न शमादिस्वरूपं निरूप्यते, अपि तु शमादेरुपासनाङ्गत्वम् । तच्च श्रुतिबलप्राप्तस्य श्रवणं प्रति अङ्गभावस्य नोप-जीव्यमिति चेत्-न-तत्राविहितविषयव्यापारोपरमः शम इत्यस्यार्थस्य तदधिकरणे व्युत्पाद्यत्वादिति भावः । "ब्राहृविदाप्नोति' इत्यस्यानन्तस्थिरफलब्राहृप्राप्तिपर्यन्तप्रामाण्यसंभवे अनन्तस्थिरफलत्वमात्रप्रतिपादनपरत्वमयुक्तमित्यस्वरसादाह - यद्वा विद्यया अनन्तस्थिरेति । विषयस्य दर्शितत्वादिति । ब्राहृस्वरूपस्येत्यर्थः । ततश्च "पश्यः' इति ब्राहृदर्शनमेव पर्यवस्यतीति भावः । समुच्चयो युक्त इति । अत्र केचित्-"ननुच' इति निपातसमुदायोऽयं नन्वर्थक एव, ततोऽतिरिक्तार्थाप्रतीतेः । ननुशब्दस्य प्रयोक्तृ-धर्मभूतशङ्काद्योतकत्वेन "ननु च' इत्यस्य "शङ्का च' इति शब्दतुल्यार्थत्वाभावात् । अतोऽत्र चशब्दस्य समुच्चयार्थत्वप्रसाधने नातीवाभिनिवेष्टव्यमिति मन्यन्ते । ननु कर्मविचारनैरपेक्ष्यसिद्धयर्थं कर्मणां वाक्यजन्यं क्षयिफलत्वज्ञानमेव वक्तव्यम् । न तु ब्राहृो-पासनस्याक्षयफलत्वज्ञानमित्यत्राह - ब्राहृोपासनस्येत्यादिग्रन्थ इति ।

(लघुपूर्वपक्षघट्ट #ः)

विवक्षितेतरगामित्वव्युदासार्थः प्रथम एवकार इति । विवक्षितं साधनचतुष्टयम्, तदितरः कर्मविचारः । अत्र केचित्-यच्छ-ब्दान्वित एवकारः तावत्खल्वादिशब्दवत् वाक्यालङ्कारार्थ एव । न हि "ब्राहृजिज्ञासा यन्नियमेनापेक्षते तदेव पूर्ववृत्तं वक्तव्यम्' इत्यस्मादधिकस्याथस्र्य एवकारसहिताद्वाक्यात् प्रतिपत्तिरस्ति । अस्य वाक्यस्य नियमेनानपेक्षितकर्मविचारपूर्वववृत्तत्वव्युदासमा-त्रपरत्वेन कर्मविचारे नियमेनापेक्षितत्वव्युदासपरत्वाभावादिति वदन्ति । तदेतदेवकारार्थानभिज्ञानविजृम्भितम् । विशेष्यसंगतो ह्रेवकारो विशेषणस्य तदितरयोगव्यवच्छेदार्थः । "पार्थ एव धनुर्धरः' इत्युक्ते हि धनुर्धरत्वरूपविशेषणस्य पार्थेतरगामित्वं व्यव-च्छिनत्त्येवकारः । "पार्थ एव धनुधर्रः' इति वाक्यस्य "पार्थादन्यो धनुर्धरो न' इत्यर्थः । अत एव, "षड्#िवंशतिरित्येव ब्राूयात्' इत्यत्र एवकारोपबन्धात् षड्#िवंशतिमन्त्रो न विधीयते । अपि तु तदितरमन्त्रो निषिध्यत इति पूर्वतन्त्रे निर्णीतम् । ततश्च "यदेव नियमेना-पेक्षते' इति वाक्यस्यायमर्थः - "यद्य्वतिरिक्तं नियमेन नापेक्षितम्, तद्य्वतिरिक्तं न पूर्ववृत्तमिति । ततश्च प्रथम एवकारो नियमेना-पेक्षितत्वस्य यच्छब्दार्थातिरिक्तगामित्वव्यवच्छेदार्थकः, द्वितीयस्तु यच्छब्दनिर्दिष्टात् तच्छब्दार्थादतिरिक्तस्य पूर्ववृत्तत्वव्युदासकः । इयांस्तु विशेषः-प्रथम एवकारोऽनुवादी । द्वितीयस्तु पुरोवादीति । वेदान्तमात्राध्ययनस्याशास्त्रीयत्वादाह - यद्वा अधीतकृत्स्नवे-दस्यापीति । न त्वन्ययोगव्यवच्छेदपरमिति । पूर्वभागाध्ययनव्यवच्छेदपरं नेत्यर्थः । ननु, "साम्ना स्तुवीत' इति साम्न एव स्तोत्र- द्वारा कर्माङ्गत्वम्, नोद्गीथादेरिति शङ्कामुद्गीथादिस्वरूपप्रकाशनेन निराकुर्वन्नादिपदग्राह्रं चाह - एकस्य साम्न इत्यादिना । ननु कथं साम्नः पञ्चभागात्मकत्वम् ? हिंकारः, प्रस्तावः, आदिः, उद्गीथः प्रतिहारः, उपद्रवः, निधनम्, इति सप्तविधित्वं दृश्यते । अत एव हि, "सप्तविधं सामोपासीत' इति विधिरित्याशङ्कय हिंकारस्य प्रस्तावेऽन्तर्भावात्, आदिशब्दितस्य ओंकारस्य चोद्गीथेऽन्तर्भावात् पाञ्चविध्ये नानुपपत्तिरित्यभिप्रयन्नाह - प्रस्तावो हिंकारपूर्वं गीयत इति । एकैकोपासनं विधीयत इति । "सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते । सैषा देवता प्रस्तावमन्वायत्ता', "सैषा देवतोद्गीथमन्वायत्ता' इत्यादिष्विति शेषः । क्वचिच्चावयवावयवभृतप्रणवाद्युपासनं विधीयते, ओमित्येतदक्षरमुद्गीथमुपासीतेति इति पाठः समीचीनः । मध्ये "तत्रोद्गीथावयव-भूतप्रणवोपासनं विधीयते' इति क्वचित् पठ¬ते । न तस्य समीचीन्यं पश्यामः । "ओमित्येतदक्षरमुद्गीथमुपासीत' इति वाक्यस्योद्गी-थावयवप्रणवोपासनविधिपरत्वं च, "व्याप्तेश्च समञ्जनम्' इत्यत्र स्पष्टीभविष्यति । केचित्तु कर्माङ्गाश्रयेति भाष्यस्यायमर्थः- कर्मा-ङ्गाश्रयो (यमु ?) द्गीथस्यादिरुद्गीथादिः प्रणवः, तस्योपासनमिति । अत एवैतदभिप्रायेण "तत्रोद्गीथावयवभूतप्रणवोपासनं विधीयते' इत्युक्तमिति वदन्ति । "स्वायत्ते शब्दप्रयोगे' इति न्यायेन "कर्माङ्गोद्गीथादिविषयाण्युपासनानि' इति वक्तव्ये "कर्माङ्गाश्रयाण्युद्गी-थाद्युपासनानि' इति भाष्ये वचनव्यक्तिः किमर्थमाश्रितेत्याशङ्कयाह - कर्माङ्गोद्गीथाद्याश्रयाण्युपासनानीत्युक्त इति । उपासन-

मात्रस्य च पक्षीकारः प्रतीयेतेति । ननु कर्माङ्गाश्रयत्वस्य हेतूकरणादेव यावति हेतुर्विश्राम्यति तावत एव ग्रहणं तथेति भविष्यति, "यथा पर्वतो धूमवत्त्वाद्वह्निमान्' इत्यत्र धूमवतः पर्वतस्य ग्रहणं तथेति चेत्-सत्यम्-तादृशन्यायप्रतिसंधानाभावदशायामुपासनमा-त्रपक्षीकारप्रतीतिर्जायेत । अत एव "प्रतीयेत' इति प्रतीतिमात्रमापादितम् । भाष्ये-अनभिज्ञो भवान् शारीरकशास्त्रविज्ञानस्येति । शास्त्रप्रतिपाद्यं विज्ञानं शास्त्रविज्ञानम् । मध्यमपदेलोपी समासः । तदेतदाचष्टे - शास्त्रे प्रधानतया प्रतिपाद्यमित्यादिना । प्रति-पाद्यशब्द उत्पाद्यपरः । "आत्मैकत्वविद्याप्रतिपत्तये' इति परव्यवहारानुसारादुत्पत्तिः प्रतिपत्तिशब्देन व्यवह्मता । वक्ष्यति च -"प्रतिपादकानि निष्पादनक्षमाणि' इति । अतो लाक्षणिकपयोगो न दोषायेति द्रष्टव्यम् । मिथ्याज्ञानं भ्रान्तिज्ञानमिति । मिथ्या-विषयं ज्ञानं मिथ्याज्ञानमिति मध्यमपदलोपी समास इति भावः । मूलाज्ञाननिवृत्तेरेव प्रयोजनत्वमभिप्रयन्नाह - यद्वा मिथ्याभूत-मज्ञानमिति । तुशब्दद्वयं शङ्काद्वयव्यावृत्त्यर्थ(वर्तक)मिति । उपनिषत्स्वधीतत्वात् ब्राहृमीमांसायां निरूप्यमाणत्वाच्चोद्गीथा-द्युपासनं ब्राहृविद्यापेक्षितमित्येका शङ्का । "ततः किम्' इत्यनेनाभिप्रेतासंगतत्वशङ्का द्वितीया । एतच्छङ्काद्वयस्य यथाक्रमं व्यावृ-त्त्यर्थमित्यर्थः । अत्र भास्करीयाः प्रत्यवतिष्ठन्त इति । अत्र च हेतुरुत्तरत्र स्पष्टः । न समसमुच्चयपर इति । तन्मते, "तमेतं वेदा-नुवचनेन' इत्यत्र "सहयुक्तेऽप्रधाने' इति तृतीयया वेदानुवचनादीनां "विविदिषन्ति' इति निर्दिष्टवेदनापेक्षया अप्राधान्याभ्युपगमेन कर्मणां विद्यायाः फलोपकार्यङ्गत्वमात्रस्याभ्युपगतत्वेन तैरपि समसमुच्चयस्यानभ्युपगमादिति भावः । समुच्चित्योपदेशादित्यत्र समु-च्चित्यशब्दवदिति । इदं हि वाक्यम्, "अन्तर उपपत्तेः' इत्यधिकरणभाष्यस्थमग्निविद्यात्मविद्याविषयम् । तयोः समुच्चयानभ्युपग-मादिति भावः । विशेषणविशेष्यभावेन निर्दिष्टमिति । न च समुच्चितशब्दो वैषम्यं न सहत इति वाच्यम्, अङ्गाङ्गिसमुच्चयेऽपि समुच्चयशब्दप्रयोगदर्शनात् । न ह्रत्र समसमुच्चयः श्रूयत इति भावः । चः प्रतिपादकसमुच्चय इति । श्रुतिसूत्रयोः प्रतिपादकयोः समु- च्चय इत्यर्थः । तज्ज्ञानस्य कथं पूर्वभावित्वमिति । ब्राहृविचारपूर्वभावित्वमित्यर्थः । निरूपयिष्यमाणत्वमभिप्रेत्योक्तमिति । "अन्तरा चापि तु तद्दृष्टेः', "सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इत्यादावधिकारिविशेषे ब्राहृविद्यायाः कर्मविशेषैः समुच्चयतदभावयोः प्रतिपादयिष्यमाणत्वादिति भावः । अधिकारिविशेषनिष्ठब्राहृविद्याया अनिर्दिष्टत्वात्समुच्चयतदभावयोः सामान्येन विद्याविषयत्व-मेवोचितमिति मत्वाह - यद्वा नित्यनैमित्तिकयोरिति । विद्यायाश्चेति शेषः । नित्यनैमित्तिकाभ्यां समुच्चयः, न काम्यनिषिद्धा-भ्यामित्यर्थः । पदार्थज्ञानपूर्वकत्वादिति । यद्यपि यज्ञादिपदार्थावगमाय न मीमांसापेक्षा, व्याकरणकोशाप्तवाक्यादिभिव्र्युत्पत्ति-संभवात् । मीमांसाया अपि लोकप्रसिद्धपदार्थव्यवहारितया पदार्थावगतिप्रयोजनकत्वाभावाच्च -तथापि ग्राह्राग्राह्रकर्मविभागो मीमांसाधीन इति भावः । यद्वा पूर्वमीमांसायामपि, "यजतिचोदना द्रव्यदेवताक्रियं समुदाये' (4-2-27) इत्यादिदर्शनात्, व्या-पन्नादिपदार्थनिणर्यदर्शनाच्च पदार्थनिर्णायकत्वमपि संभवतीत्यपि द्रष्टव्यम् । आशयमजानानश्चोदयति - ननु गामानयेति वाक्या-दिति । वाक्यार्थं पूर्वं प्रतिपद्येति । प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य गवानयने प्रवृत्तिमुपलभ्य "इयं च गवानयने प्रवृत्तिर्गवानयनकार्यताज्ञानसाध्या गवानयनप्रवृत्तित्वात् संप्रतिपन्नगवानयनप्रवृत्तिवत्' इति तस्याः प्रवृत्तेर्गवानयनकार्यताज्ञान-साध्यतां निश्चित्य, "तच्च ज्ञानं वाक्यात्पूर्वमजातत्वात् वाक्यानन्तरं जातत्वाच्च वाक्यजन्यम् । तस्मात् गवानयनं वाक्यार्थः' इति प्रतिपद्येत्यर्थः । ततश्च "अस्य वाक्यस्यायमर्थः' इति वाक्यार्थत्वज्ञानपूर्वकमेव "अस्य पदस्यायमर्थः' इति ज्ञानम्, न तु "अस्य पद-स्यायमर्थः' इति पदार्थत्वज्ञानपूर्वकम् "अस्य वाक्यस्यायमर्थः' इति वाक्यार्थत्वज्ञानमुत्पद्यत इत्यर्थः । शाब्दज्ञानत्वावच्छिन्ने वृत्त्या पदजन्यपदार्थोपस्थितेर्हेतुत्वमित्येतदेव हि वाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वम् । न तु वाक्यार्थत्वज्ञानस्य पदार्थत्वज्ञानपूर्वकत्वम्, येनास्याक्षेपस्यावकाशः स्यादिति स्वाशयमाविष्करोति - उच्यते - व्युत्पन्नात् शब्दादिति । व्युत्पत्तावपि न वाक्यार्थधिय इति । यद्यपि शाब्दज्ञानत्वावच्छिन्ने पदजन्यपदार्थोपस्थितेर्हेतुत्वकथनेनैव प्रकृतोपयोगसिद्धेव्र्युत्पत्तिदशायां वाक्यार्थत्वज्ञानस्य पूर्वभाव-प्रत्ययाख्यानं न प्रकृत उपयुज्यते -तथापि पराभिमानखण्डनार्थतयोपन्यस्तमिति द्रष्टव्यम् । याज्यापुरोनुवाक्यामन्त्रानुसारेणेति । सरस्वतीदेवत्ययाज्यापुरोनुवाक्ययोः प्राक् पठितत्वादिति भावः । तेनैव क्रमेणानुष्ठानं निर्णीतमिति । श्रुत्यर्थपाठादिक्रमनियाम-काभावादनियम इति प्राप्ते प्रधानप्रत्यासत्तिसिद्धयै मुख्यक्रमात् स्त्रीदेवत्यस्य यागस्य निर्वापादयश्चोदकप्राप्ता धर्माः प्रागनुष्ठेया इति निर्णीतं पञ्चमे "मुख्यक्रमेण वाऽङ्गानां तदथत्र्वात्' (5-1-14) इत्यत्र । क्रमनियामक (निश्चायक) हेतुवैषम्यमेवेति । दृष्टान्ते याज्यापुरोनुवाक्याक्रमः शेषिक्रमनियामकः; दाष्र्टान्तिके तु कार्यकारणभाव इति हेतुवैषम्यमिति भावः । उपासनस्यैव विचारं प्रति शेषित्वादिति । उपासनस्य स्वविचारं प्रत्येव शेषित्वात् शेषिक्रमादापतन् शेषयोः क्रमः शारीरकतृतीयाध्यायकर्मविचारविषय एव स्यात्; न तु कृत्स्नशारीरककर्ममीमांसाविषय इत्यर्थः । तदपेक्षितत्वेनेति । उपासनापेक्षितत्वेनेत्यर्थः । कृत्स्नाया अपि ब्राहृमीमां-सायाः इत्यस्यानन्तरम् "उपासनशेषत्वेन' इत्यध्याहर्तव्यम् । यादवपक्षं चोपजीव्येति । समसमुच्चयाङ्गाङ्गिभावयोस्तदभिमतयोरपि प्रतीतेरिति भावः । पाश्वस्र्थश्चोदयतीति । यादवानभिमतकर्मविचारपूर्ववृत्तत्वोपन्यासात्, सिद्धान्तिग्रन्थत्वे साधनसाध्यद्वित्व-निरासकपरिहारग्रन्थासामञ्जस्यप्रसङ्गाच्चेति भावः । चशब्दः प्रतिपाद्यसमुच्चय इति । द्वितीयान्तेनाध्याह्मताङ्गभावशब्देन चशब्द-स्यान्वय इति भावः । ननु यदा, बाढम् इत्यादिग्रन्थो भास्करसिद्धान्त्यन्यतरचोद्यपरः, तदा साध्यसाधनद्वित्वनिरासकभाष्य-ग्रन्थस्याप्रसक्तप्रतिषेधकत्वं स्यादित्याशङ्कां प्रतिक्षिपति - यदा बाढमित्यादीति । व्यावृत्त्यन्वयरूपा विशेषा इति । भावाभावरूपा इत्यर्थः । सकलविशेषप्रत्यनीकमित्यत्र विशेषशब्देन स्वगतधर्मस्यापि ग्रहणे तत एव ज्ञातृत्वज्ञेयत्वव्यावृत्तेरपि सिद्धत्वात् मात्रचा ज्ञातृत्वज्ञेयत्वव्यावृत्तिकथनमस्वरसमित्यस्वरसादाह - यद्वा सकलविशेषप्रत्यनीकशब्देनेति । अज्ञाननिवृत्त्यन्तर्गतेत्यर्थ इति । मूले सकलभेददर्शननिवृत्तीति कार्यकारणयोरभेदोपचारादविद्यानिवृत्तेर्भेददर्शननिवृत्तिरूपत्वोक्तिरिति भावः ।

एकस्मादनेकवाक्यानामिति । "विद्यां चाविद्यां च' इति वाक्यमेकमिति भावः । अस्फुटार्थात् स्फुटार्थानामिति । "प्राबल्यं विवक्षितम्' इत्यनुषङ्गः । ननु कर्मणोऽन्तवत्त्वे श्रूयमाणे कथं तत्फलस्यान्तवत्त्वमुच्यते इत्याशङ्कयाह - अनेन वाक्येनेत्यादिना । फलद्वारकत्वमुक्तमिति कर्मणः स्वत एवान्तवत्त्वेन तस्यानुपदेष्टव्यत्वात्, "तद्यथा' इत्यादिश्रुतिवशाच्च फलस्यैवान्तवत्त्वम् "अन्तवदेवास्य तद्भवति' इत्या-दिवाक्यप्रतिपाद्यमित्यर्थः । समुच्चयपरवाक्यस्य श्रुत्यन्तरानुगुण्येनेति । यद्यपि "यदपि चोक्तम्' इत्यत्र "साध्यसाधनद्वित्ववत् कर्मापेक्षितत्वमपि यदुक्तम्' इत्युक्तिक्रियायामेव समुच्चयः प्रतीयते, न निर्वाहक्रियायाम्-तथाप्येतत् फलितार्थकथनमिति द्रष्टव्यम् । "यदपि चेदमुक्तं यज्ञादिकर्मापेक्षा विद्येति' इत्यत्र "यज्ञादिकर्मापेक्षा विद्येति यदुक्तम्' इत्युक्ते "यद् विद्यायां कर्मसापेक्षत्वमुक्तम्' इति सापेक्षत्वस्यैव यच्छब्दनिर्दिष्टतया स्वरसतः प्रतीयमानत्वात् तस्योत्तरवाक्ये विविदिषोपयोगप्रतिपादनमनुचितमित्याशङ्कय, "यज्ञादिकर्मापेक्षा विद्या' इत्यनया वचनव्यक्तया अर्थाद्विद्यापेक्षितत्वेन यÏत्कचित्कर्मोक्तमिति कर्मण एव यच्छब्दनिर्दिष्टत्वात् तस्य विविदिषोपयोगप्रतिपादनमविरुद्धमित्यभिप्रायेणाह - अनया वचनव्यक्तयेति । निर्देशस्वारस्यमस्तीति । फलपदस्वारस्यमात्रं नास्तीत्यर्थः । यादवमतप्रतिक्षेपकतया प्रथमव्याख्यानम् । अस्मिन् पक्षे फलपदस्वारस्यमस्ति; "यज्ञादिकर्मापेक्षा विद्या' इति निर्देशस्याङ्गाङ्गिभावसूत्रस्मारकस्य न स्वारस्यम् । सिद्धान्तिमतप्रतिक्षेपके द्वितीयव्याख्याने "यज्ञादिकर्मापेक्षा विद्या' इति निर्दे-शस्वारस्यमस्ति; फलपदस्वारस्यं नास्ति । अत उभयपदस्वारस्यसिद्धयर्थं भास्करपक्षप्रतिक्षेपपरतया व्याचष्टे - अथवा यज्ञादीति । प्रयाजादिवदिति । ननु भास्करेण यज्ञादिवाक्यस्य वेदनं प्रति फलोपकार्यङ्गत्वमात्रप्रतिपादकत्वाभ्युपगमेऽपि फलार्थत्वानभ्युप-गमान्मोक्षार्थप्रतिपादनपरत्वनिषेधेऽप्रसक्तप्रतिषेधः स्यादिति चेत्-न-प्रयाजादीनां करणानुग्राहकाणां करणानुग्रहद्वारा फलपर्यन्त-त्वसंभवादित्यभिप्रायान्नात्यन्ताप्रसक्तप्रतिषेध इति ध्येयम् । असिना जिघांसतीति । असेर्हनने करणत्वं प्रतीयते; न जिघांसायाम्; एवं "विविदिषन्ति' इति वाक्येन वेदानुवचनशब्दितस्य ब्राहृयज्ञस्य, यज्ञस्य, दानस्य, कामानशनरूपस्य तपसश्च वेदनहेतुत्वं प्रतीयत इति भावः । वाक्यद्वयेनेति । "विविदिषायां जातायाम्' इत्येकं वाक्यम् । "तदेवं जन्मान्तरशत' इत्यपरम् । अन्तरङ्गत्वं स्पष्टमिति । विद्यासंयोगश्रवणादिति भावः ।उक्तं च शांकरभाष्ये सर्वापेक्षाधिकरणे - "विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि । विविदिषासंयोगात् बाह्रतराणि यज्ञादीनि' इति । विविदिषायाः पूर्वं हि कर्मोपयोग इति ।

"प्रत्यक्प्रवणतां बुद्धेः कर्माण्यापाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ।।

इति तदुक्तेः । प्राग् बीजावापात् कर्षणम्, तदनन्तरमकषर्णमिति कर्षणाकर्षणाभ्यामङ्कुरादिनिष्पादनवत्,

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ।।' (गी.6-3)

इत्यादिवचनानुसारेण चेतसः शुद्धया विविदिषारूपप्रत्यक्प्रावण्यपर्यन्तं कर्मानुष्ठानम्; ततः सन्यास इति कर्मतत्सन्यासाभ्यां विद्या-निष्पत्त्युपगमादिति भावः । इदानीमप्यनुष्ठानायेति । अत्र । केचित्-अनुत्पन्नविविदिषस्य पुंसो यावद्विविदिषोत्पत्ति अस्मिन्नपि जन्मनि कर्मानुष्ठानस्येष्टत्वान्नैतच्छङ्काव्यावर्तको जन्मान्तरशब्दः । अपितु अन्तःकरणशुद्धिरनेकजन्मानुष्ठितनित्यनैमित्तिककर्म-साध्येति दर्शयितुमेवेति वदन्ति । अनेकजन्मसंसिद्ध इति । जन्मान्तरशब्दस्वारस्यादव्यवहितजन्मन एव ग्रहणं स्यात् । तत्र चाने-कजन्मत्वासंभवादस्यापि जन्मनो ग्रहणं भविष्यतीत्यभिप्रायः । शोधकवाक्यमिति । कारणत्वशङ्कितदोषव्युदासकं वाक्यमित्यर्थः । न कर्मेत्यर्थ इति । यज्ञादिकं कर्म न करणमित्यर्थः । निष्पादनक्षमाणीति । आत्मैकत्वपराणीत्यर्थः । भाष्ये-न्याययुक्तार्थग्रहण-मिति । तात्पर्यनिर्णायकोपक्रमादिन्यायानुसंधानपूर्वकं सर्वाण्यपि वेदान्तवाक्यान्यात्मैकत्वतात्पर्यकारणीत्येवं तात्पर्यरूपार्थग्र-हणमित्यर्थः । न तु वाक्यार्थग्रहणम्, तस्य तन्मते श्रवणफलत्वात् । पूर्वप्रकृतादेवेत्येवकाराभिप्राय इति । यद्यपि ज्ञानकर्मार्थ -स्वभावः प्राक्प्रस्तुतः, न तु शमाद्यर्थस्वभावः, व्यक्तिभेदात्-तथाप्यर्थस्वभावत्वेनैक्यमाश्रित्य एवकारः प्रयुक्त इति द्रष्टव्यम् । जिज्ञा-सानुपपत्त्युपपादकतया "अर्थस्वभावादेव' इत्युत्तरग्रन्थं व्याख्याय, अधुना "कर्म च पूर्ववृत्तमस्तु' इति शङ्कापरिहारपरतया व्याचष्टे- यद्वा अनेन विना जिज्ञासानुपपत्तेरिति । "अनेन विना जिज्ञासानुपपत्तेः' इत्यंशस्य फलितमर्थमाह - शमाद्यर्थस्वभावादित्यर्थ इति । प्रथमस्यैवकारस्य भाव इति । अर्थस्वभावातिरिकतस्य हेतुत्वप्रतिक्षेपक इत्यर्थः । शमाद्यर्थस्वभाव उक्त इति । इदमुपलक्ष- णम् । तयोरपि स्वभाव इत्यर्थः । तत्र ज्ञानकर्मार्थस्वभावद्वयस्यात्यन्ताप्रकृतत्वमभिप्रेत्याभिप्रेतत्वोक्तिः; न त्वथस्र्वभावशब्दानु-क्तत्वात् । अत एवार्थस्वभावशब्दितस्येतरनिरपेक्षस्य साधनचतुष्टयस्य पूर्ववृत्तत्वायोगान्ययोगव्यवच्छेदहेतुत्वं वक्ष्यमाणमुपपद्यत इति द्रष्टव्यम् । इदंशब्दो हि साधनचतुष्टयपूव्रवृत्तत्वपर इति । "इदमेव पूर्ववृत्तम्' इतीदंशब्दो हीत्यर्थः । तस्मादिति । शमाद्यर्थ-स्वभावादित्यर्थः । भाष्ये ब्राहृस्वरूपाच्छादिकाविद्यामूलमिति । आच्छादिका च सा अविद्या चेति न कर्मधारयः, येन पुंवद्भावात् "आच्छादकाविद्या' इति स्यात्, किंतु "धात्वर्थे ण्वुल्' इति भावे ण्वुलि कारिकाशायिकादिवदाच्छादिका । ततस्तादथ्र्यचतुर्थी-समासः । आच्छादनकारिण्यविद्येत्यर्थ इति एवं । निर्वाहान्तरमपि द्रष्टव्यम् । यद्वा अपारमार्थिकं भेददर्शनमेवेति । बन्धमूलभेद-दशर्नमपारमार्थिकमेवेत्यभिप्रायः । "एषोऽणुरात्मा चेतसा वेदितव्यः', "दृश्यते त्वग्रयया बुद्धया' इत्यादिप्रमाणानुसाराद्वाक्यार्थ-भावनापरिपाकसहितमन्तःकरणं त्वंपदार्थस्यापरोक्षतत्पदार्थतामाविर्भावयति' इति वाचस्पतिवचनानुसारेण मनस एव ब्राहृसा-क्षात्कारकारणत्वमिति मन्यमानमप्यनुगृह्णन्नाह - निवर्तक बोधः प्रमाणजन्य इति यावदिति । दूरस्थान्तिकस्थविशेषणवि- शिष्टेति । "सोऽयं देवदत्तः' इत्यादिवन्न वैयथ्र्यमित्यर्थः । अभिप्रेत्यशब्देन शङ्कापरिहार इति । अनुक्तशङ्गापरिहार इत्यर्थः । "धर्मेण पापमनुवदति', "कषायपक्तिः कर्माणि' इत्यादिप्रमाणान्यभिप्रयन्नाह - परंपरयोपयोगमिति ।

(लघुसिद्धान्तघट्टः)

पूर्वपक्षोक्तेष्वर्थेष्वविरुद्धांशाभ्युपगमेन प्रतिवदतीति ।

"मिथ्यासंप्रतिपत्त्या वा प्रत्यवस्कन्दनेन वा । प्राङ्न्यायविधिसिद्धया वा (?) उत्तरं स्याच्चचुर्विधम् ।।'

इति संप्रतिपत्तिशब्दितस्याभ्युपगमस्यांप्युत्तरत्वं संभवतीति भावः । पराभिमतसदसदनिर्वचनीयाविद्यानिवृत्तेरभ्युपगमानर्हत्वादाह - प्रतिबन्ध(क)निवृत्तिरिति । कर्मसाध्य उक्त इति । साध्यद्वित्ववादिनेति शेषः । मार्गसमीकरणतत्प्रापणे इति । मार्गे प्रतिबन्ध-काभावसंपादनलक्षणसमीकरणमात्रेणाश्मनो विशिष्टदेशप्राप्त्यभावात् तत्प्रापणार्थं तत्र पृथग्यत्नोऽपेक्षित इति भावः । ननु, प्रति-बन्धकनिवृत्तिरेव ज्ञानसाध्या; ब्राहृप्राप्तिस्तु स्वत एवेत्ययुक्तम्-"बहृविदाप्नोति परम्' इति ब्राहृ स्वरूपप्राप्तेरपि ज्ञानसाध्यत्वाव-गमादित्याशङ्कय प्रतिबन्धकनिवृत्तिब्राहृप्राप्त्योरैक्याश्रयणेन परिहरति - यद्वा भावान्तरस्येति । परमतं स्वमतं चानुवदतीति । ननु वाक्यजन्यं ज्ञानमविद्यानिवृत्तये वेदान्तैर्विधित्सितमिति न परमतम् । ज्ञानस्याज्ञाननिवर्तकत्वस्य लोकसिद्धत्वेन विध्यनपेक्षणात् । ज्ञानस्य प्रमाणपरतन्त्रतया पुरुषतन्त्रत्वाभावात् "द्रष्टव्यः' इत्यनुवाद इत्यभ्युपगमाच्च । अत एव, "तस्य विधानमन्तरेणापि वाक्यादेव सिद्धेः' इति भाष्यग्रन्थो न युक्तः । विधानस्यानभ्युपगमेन सिद्धवत्कृत्य व्यवहारस्यायुक्तत्वादिति चेत्-सत्यमेतत् । तथापि "द्रष्टव्यः', "आत्मानं पश्येत्' इति विधिप्रत्ययश्रवणात् तन्मतेऽपि विधेयत्वं बलादभ्युपगमनीयमित्यभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । ननु वाक्या-र्थज्ञानस्य प्रमाणपरतन्त्रत्वेन विधेयत्वसंभवेऽपि तदनुकूलश्रवणरूपव्यापारस्य विधेयत्वं भविष्यतीत्याशङ्कयाह - तच्छ्रवणे पुरुष-स्येति । अध्ययनविधिरेवेति । वाचस्पतिमते अध्ययनविधेरर्थज्ञानपर्यन्तत्वाभ्युपगमादधीतेन स्वाध्यायेनार्थज्ञानसंपादनस्य विचा-रमन्तरेणासंभवात् प्राप्नोत्येव विचारः । उक्तं च मीमांसकैः,

"धर्मे प्रमीयमाणे तु वेदेन करणात्मना ।इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ।।'

इति । ततश्च पूर्वभागविचारवत् उत्तरभागविचारोऽप्यध्ययनविधिवशादेव सिध्यति । यद्यप्यध्ययनविधिरक्षरराशिग्रहणमात्रफलः, तथापि पूर्वभागतुल्यशीलवादुत्तरभागविचारोऽपि सिध्यत्येवेति विधिवैयथ्र्यमिति भावः । न च प्रमाणज्ञानस्य श्रेयः साधनत्वमलौ-किकमिति । विदेवनादेः रागप्राप्तस्यापि, "अक्षैर्दीव्यति' इति क्रत्वपूर्वार्थतया विधानवदिति भावः । यावन्न विमोक्ष्येऽथ संपत्स्य इति । "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये' इति हि श्रुतिः । तस्यउब्राहृविदः । तावदेव चिरम्उतावानेव विलम्बः । यावन्न विमोक्ष्येउयावत् शरीरारम्भकप्रारब्धकर्मणा न विमोक्ष्यत इत्यर्थः । अथ संपत्स्येउअथ संपत्स्यत इत्यर्थः । पुरुषव्यत्यय-श्छान्दसः । यद्वा तस्य । "मे' इत्यध्याहारः अतो न पुरुषव्यत्ययः । नैरर्थक्यं प्रसजेदि (ज्येते)ति । वाक्यजन्यज्ञानस्यैव निरपे- क्षतया अविद्यानिवर्तकत्वादित्यर्थः । विधिवाक्यविशेषकीर्तनं विना, "विधानमन्तरेणापि सिद्धेः' इति सामान्योपदेशस्य प्रयोजनमाह-अनेकश्रुतिविरोधस्य प्रदर्शनार्थमिति । विप्रतिषेधोऽधिकबलेन प्रतिषेध इति । विशब्दो हि विशिष्टवाची । विशिष्टप्रतिषेधो विप्रति-षेधः । तस्य च विशिष्टत्वमधिकबलनिरूपितत्वम् । यद्यपि, "विप्रतिषेधे परं कार्यम्' इत्यत्र विप्रतिषेधशब्दस्य परस्परविरोध एव लोकप्रसिद्धोऽर्थ इति भाष्यकैयटयोः स्पष्टीकृतम् - तथापि प्रकृते विप्रतिषेधशब्दस्य परस्परविरोधरूपप्रसिद्धार्थाश्रयणे शास्त्रैरिति तृतीयानुपपत्तिरिति भावः ।

ननु सर्वस्य पुंसोऽज्ञाननिवृत्तेः कः प्रसङ्ग इत्यत आह - अविद्याया एकत्वादिति । अनिवर्तकत्वं दोषाय न भवतीति । "ज्ञानस्य' इति शेषः । ननु-एकैवाविद्या, एकमुक्तौ सर्वमुक्तिः, अथापि कस्यचित् ज्ञानमप्युत्पन्नम्, अथापीदानीं वतर्मानः सर्वस्य पुंसः प्रपञ्चप्रतिभासो दग्धपटन्यायेनानुवर्तत इति केनापि नाभ्युपगतमिति चेत् - सत्यम् । सर्वस्य पुंसः इत्यत्र सर्वशब्दः कायव्यू-हस्थलीयैकाविद्योपाधिकैकजीवसंबन्धिनानान्तःकरणोपाधिकप्रदेशभेदाभिप्राय इत्यदोषात् । केचित्तु सर्वस्य इति पदं न सर्वपुरुषपरम्, अपितु उत्पन्नज्ञानपुरुषमात्परमिति व्याचक्षते । छिन्नाविद्याख्यमूलत्वेनेति । न च कथं मूलनिवृत्तौ मूल्यनुवृत्तिरिति वाच्यम्-अवि-द्यासंस्कारादपि तदनुवृत्त्युपपत्तेः । न च क्रियाज्ञानयोरेव स इति वाच्यम्-निःसारितपुप्पायां संपुटिकायां पुष्पवासनानुवृत्तिदर्शनात् संस्कारनाशव्यतिरिक्तनाशमात्रस्य संस्कारव्याप्ततया अविद्यानाशस्यापि संस्कारव्याप्ततया अविद्यानाशस्थलेऽपि संस्कारावश्यम्भावेन तद्वशेन भेदप्रतिभासोपपत्तेरित्यर्थः । परैर्हि जीवन्मुक्तौ त्रयः प्रकारा वर्णिताः अविद्या सर्वात्मना नष्टा, संस्काररूपा तद्वासना अनुवर्तते, तन्मूलोऽयं देहादिप्रतिभासः कुलालचक्रवत् इत्येकः । आवरण विक्षेप शक्तिमत्या मूलविद्यायाः प्रारब्धकर्मणा वतर्मान देहाद्यनुवृत्ति प्रयोजको विक्षेपशक्तयंशोऽविद्या लौश रूपोऽनुवर्तते तन्मूलोयऽयं प्रतिभास इत्यपरः । दग्धपट न्यायेन मूलाऽविधैव अनुवर्तते तन्मूलोयं प्रतिभास इत्यपरः । एतत् सर्वं "छिन्नमूलत्वेन' इति भाष्ये "छिन्नाविद्याख्यमूलत्वेन' इति टीकायांच विवक्षितम्

आप्तोपदेशादीनां क्रमेणोदाहरणान्याह - क्वचिद्देशे सपर् इति वाक्यादित्यादिना । भ्रमित इति ण्यन्तात् कर्मणि क्तः । न च कथं वाक्यस्य चिरतरानुवृत्तभ्रमहेतुत्वमिति वाच्यम् - वाक्यार्थस्मृतिपरंपरासंभवेन चिरानुवृत्तभ्रमहेतुत्वसंभवादिति भावः । अत्र साक्षा-त्कारिभ्रमस्य साक्षात्कारिविशेषदर्शननिवत्र्यत्वेनाप्तोपदेशनिवत्र्यत्वाभावात्, "सर्प इति वाक्याच्चिरभ्रमितः' इत्युक्तम् । निवर्तका-न्तरमपि ज्ञानत्वाविशेषादिति । न चेष्टापत्तिः, त्वया वासनाया अप्यावृत्तात्मसाक्षात्कारनिवत्र्यत्वाभ्युपगमादिति भावः । स्वेनैव स्वविनाशकरणं विवक्षितं चेदिति । पूर्वपक्षे एवकारेण बाधकज्ञानमात्रस्यैव व्यवच्छेद्यत्वम् । इह तु स्वव्यतिरिक्तं सर्वं व्यवच्छेद्यमिति विवेकः । व्याघात इति । प्रतियोगिव्यतिरिक्तनिरपेक्षत्वे वासनायाः स्थिरत्वव्याघातः, स्वस्य स्वनाशे निरपेक्षकारणत्वे अपेक्षणी-यान्तराभावात् क्षणिकत्वमेव स्यादिति । केचित्तु स्वस्यैव स्वनाश्यत्वनाशकत्वयोरभ्युपगमे कर्मकर्तृव्याघात इत्यर्थ इति वदन्ति । फलोपान्त्येति । अपूर्वादिकं फलनाश्यम् । उपान्त्यनाश्यः शब्दः, "सुन्दोपसुन्दन्यायेनान्त्योपान्त्यनाश' इत्यभ्युपगमात् । आश्रय-नाशजन्यरूपादिनाशस्थले कारणनाशनाश्यत्वमिति द्रष्टव्यम् । विनाशविषयभ्रमः पुनस्तिष्ठतीति । मिथ्यात्वस्य प्रतीतिव्याप्त-त्वादिति भावः । छिन्नवासनाख्यमूलमिति । यद्यपि "छिन्नमूलत्वेन न बन्धाय भवति' इति भाष्ये "छिन्नाविद्याख्यमूलत्वेन' इत्यर्थ उक्तः, स एवेह दूषयितुमुचितः-तथापि वासनाकायत्वकथनात् वासनाया एव मूलत्वं वक्तव्यमिति तथोक्तमिति द्रष्टव्यम् । व्यावहा-रिकतयापि परेणाभ्युपगन्तव्यमिति । यद्यपीदं व्यावहारिकत्वं दाष्र्टान्तिके वासनादावप्यस्त्येव, तथापि ब्राहृात्मैकत्वविज्ञानस्य विश्वबाधकत्ववत् चन्द्रैकत्वविज्ञानस्य तिमिरादिदोषाधिष्ठानयाथात्म्यानवगाहिनस्तिमिरादिदोषनिवर्तकत्वं नास्तीत्यत्र तात्पर्यम् । द्विचन्द्रज्ञानस्य विस्मयादिजनकस्य भयाद्यजनकत्वमभिप्रयन्नाह - रज्जुसर्पादिभ्रान्तिमत्पुरुपापेक्षयेति । द्विचन्द्रस्यौत्पातिकतया भयहेतुत्वेऽपि न दोष इत्यपि द्रष्टव्यम् । आप्तोपदेशस्यापरोक्षविषयासत्यत्वनिश्चयाधायकत्वे, "शास्त्रप्रत्यक्षयोर्विरोधे प्रत्यक्षप्राबल्यम्' इति सिद्धान्तो व्याकुप्येदित्यस्वरसादाह - यद्वा यथावदर्थस्वरूपेति । आप्तोपदेशेन संदिहानः सावधाननिरीक्षणे प्रवर्तते; निरीक्ष-णेनैव तादृशस्थले भ्रमनिवृत्तिरिति भावः । दृष्टद्वारा हि भेदनिरासा इति । अदृष्टद्वारत्वे ह्रल्पस्यापि निदिध्यासनस्य भूयोवासना-निर्वर्तकत्वं न संभवतीत्यर्थः । ततश्च "नायं सर्पः' इत्यस्य साक्षान्निवर्तकत्वात् दृष्टद्वारत्वं नास्तीति शङ्का पराकृता, अदृष्टद्वारकत्व-मात्रस्यैव दृष्टद्वारत्यनेन विवक्षितत्वात् । नन्वदृष्टद्वारा निवत्र्यत्वे किं व्यवहारदशायां बाधाभाव आपाद्यते, उत सर्वदा ? नाद्यः, इष्टापत्तेः । न द्वितीयः, दृष्टान्तासंप्रतिपत्तेः ।

"तत्त्वमस्यादिवाक्योत्थसम्भग्धीजन्मात्रतः ।

अविद्या सह कार्येण नासीदस्ति भविष्यति ।।'

इत्युक्तरीत्या ध्याननिवृत्तसर्पस्यापि चरमज्ञानेन बाधादिति शङ्कते - नन्वदृष्टद्वारेति । न कदाचिदपि बाध्यत्वं सिद्धमिति । यद्वि-षयकज्ञानेन यत् अदृष्टद्वारा निवत्र्यम्, न तत् तज्ज्ञानबाध्यमिति हि व्याप्तिः । ततश्च दृष्टद्वारा गरुडज्ञाननिवत्र्यसर्पस्य तत्त्वमस्यादि-वाक्यजन्यचरमज्ञाननिवत्र्यत्वेऽपि न गरुडज्ञानबाध्यत्वम् । बाधो हि मूलभूताज्ञानेन सह निवृत्तिः न गरुडज्ञानात् सर्पमूलज्ञाननिवृत्तिः, येन बाधः स्यात् । ततश्च भेदवासनाया अदृष्टद्वारा ध्यानरूपब्राहृज्ञाननिवत्र्यत्वे चरमवृत्तिरूपब्राहृज्ञानबाध्यत्वं न स्यात् । इष्यते च त्वया तज्ज्ञानबाध्यत्वमिति भावः । यद्वा भेदवासनाया अदृष्टद्वारा ध्यानरूपब्राहृज्ञाननिवत्र्यत्वे सत्यत्वमात्रमापद्यते, उत अदृष्टाद्वा-रकज्ञाननिवत्यत्र्वलक्षणमिथ्यात्वाभावो वा । नाद्यः, इष्टत्वात् । न द्वितीयः, निवृत्ताया अपि भेदवासनाया अदृष्टाद्वारकचरमवृत्ति-निवत्र्यत्वेन ध्याननिवत्र्यसर्पवत् मिथ्यात्वसंभवादित्याशङ्कते - नन्वदृष्टद्वारेति । अदृष्टद्वारा पूर्वनिवृत्तसर्पस्य चरमवृत्तिनिवत्यत्र्व-वाचोऽसंगतत्वात् नष्टस्य नाशनासंभवात् भेदवासनाया अदृष्टाद्वारकचरमवृत्तिनिवत्र्यत्वासंभवेन मिथ्यात्वं न स्यात् । न च मुद्गर-प्रहरादिविनष्टघटस्यापि सत्यत्वप्रसक्तया ध्याननिवत्र्यसर्पमात्रदृष्टान्तीकरणमसंगतमिति वाच्यम्, तद्दृष्टान्तस्यापीष्टत्वात् । ततश्च मुद्गरादिनिवत्र्यघटवत् ध्याननिवत्र्यसर्पवच्च सत्यत्वं स्यादित्यभिप्रेत्य परिहरति - नेति । ज्योतिष्टोमवाक्यवदिति । इतरथा भाव-नासहकृतज्योतिष्टोमवाक्यस्यापि ज्योतिष्टोमादिधर्मप्रत्यक्षजनकत्वप्रसङ्ग इति भावः ।

भा व प्र का शि का

(भक्तेरुपायत्वम् )

"चायृ दर्शने' इति हि धातुरिति । "चायृ पूजानिशामनयोः' इति पठितत्वादिति भावः । सन् रहितज्ञानविशेषवाचि वाक्यान्तरं विवक्षितमिति । "ओमित्यात्मानं ध्यायथे'त्यादि वाक्यं विवक्षितमिति भावः । सर्वशाखाप्रत्ययन्यायादिति । ननु नानाशाखाप-ठितानामग्निहोत्रज्योतिष्टोमादीनां संभवत्यैक्यम्, संयोगरूपचोदनाख्याविशेषात् । इह चोदनाया अविशेषाभावादाख्यैक्याभावाच्च कथमेतन्न्यायप्रवृत्तिः ? इतरथा "श्रोतव्यः' इत्यनेनैकाथ्र्यं किं न स्यादिति चेत्-न । सर्वशाखाप्रत्ययन्यायस्य प्रत्यभिज्ञापकसद्भावो हि मूलयुक्तिः । अस्ति चेहापि मोक्षरूपफलसंयोगसाम्यं ब्राहृविषयत्वलक्षणरूपसाम्यं च । तथा "मन्तव्यो निदिध्यासितव्यः', "विज्ञाय प्रज्ञां कुर्वीत' इति निदिध्यासनप्रज्ञाशब्दयोः स्थानसाम्यम् । अतस्तदेव प्रत्यभिज्ञायते । अत एवेक्षत्यधिकरणे, "सदेव सोम्येदमग्र आसीत्' इति सच्छब्दशब्दितं ब्राहृैव, गतिसामान्यात्उसर्ववेदान्तेषु "आत्मावाइदमग्र आसीत्', "ब्राहृ वा सदमग्र आसीत्' इत्यव-गतिसामान्यादिति वर्णितम् । तदेव गतिसामान्यं सर्वशाखाप्रत्ययन्यायः । किंच प्रज्ञाशब्दितज्ञानसामान्यस्य बहृप्राप्तिसाधनत्वे ध्या-नलक्षणगुरूपासनार्थक्यप्रसङ्गश्च । तस्मात्तत्र पर्यवसानं वक्तव्यमित्यैकाथ्र्यं संभवतीति भावः । स ह्रनुक्ताकाङ्क्षितस्वीकारफल इति । न तूक्तपरित्यागफलः । एवं च "निदिध्यासितव्यः' इत्यत्र ज्ञानमात्रविधावुक्तपरित्याग एव सिध्येत् । अतो ज्ञानसामान्यवाचिनापि शब्देन विशेष एव विधेय इति भावः । ननु सामान्यवाचिशब्देन विशेषाभिधाने लक्षणा स्यादित्याशङ्कय, सामान्यस्य प्रतिव्यक्ति पर्यवसितत्वात् सामान्येन विशेषाभिधानं न दोषायेति, छागोवा मन्त्रवर्णात् इत्यत्र निर्णीतं इत्यभिप्रयन्नाह - तत्र छागोवा मन्त्रवर्णादिति । "छागो वा मन्त्रवर्णात्' इत्यत्र विधिवाक्यस्थसामान्यशब्दानां मन्त्रवर्णप्र-तिपाद्यविशेषे पर्यवसानमात्रं विषयः । अतः कथं विधिवाक्यस्थसामान्यशब्दानां विधिवाक्यस्थविशेषे पर्यवसानमित्याशङ्कय, "न्या-यस्य न केवलं विधिमन्त्रमात्रविषयत्वम्, अपि तु सर्वसामान्यविषयत्वम्' इति दर्शयितुं स्मृतिष्वपि सामान्यशब्दानां विशेषपर्यवसानं दृष्टमित्याह - एवं स्मृतिष्वपीति ।

विलेखनपठनादेरप्रतिषिद्धत्वादिति । अप्रतिषेध्यत्वादित्यर्थः। एतद्वाक्यबोध्यनियमेनव्यावत्र्यत्वादिति यावत् । यद्वा अप्रति-षिद्धत्वात् । अनुमतत्वादित्यर्थः । अत्र लेखनोपन्यासो दृष्टान्तार्थः । ननु गुरुमुखानधीनविचारव्यावृत्त्यर्थः श्रवणविधिर्भविष्यतीत्या-शङ्कयाह - गुरूपसत्ताविति । ननु श्रवणशब्दस्य गुरूपसत्त्यर्थकत्वाभावेऽपि श्रवणस्य गुरूपसदनाङ्गकत्वादङ्गविध्युपेतश्रवणविधि-बलादेव गुरुमुखानधीनविचारव्यावृत्तिः सिध्यतीत्यरुचेराह - तस्याश्चात्राविहितत्वेऽपीति । न चाङ्गिविध्यभावे कथं तदनुवादेनो-पसदनविधिरिति वाच्यम्-"स्नात्वा भुञ्जीत' इत्यत्र रागप्राप्तभोजनानुवादेन स्नानविधानवदुपपत्तेरिति भावः । "सहकार्यन्तरविधिः' इत्यत्र विधेयत्वेन समर्थयिष्यमाणयोः पाण्डित्यमौनयोः, "श्रोतव्यो मन्तव्यः' इत्याभ्यां विधिरस्त्वित्याक्षिप्य परिहरति - न्यायोपेतेत्यादिना सति गत्यन्तरे विशिष्टविधानाश्रयणस्यान्याय्यत्वाच्चेति । ननु श्रवणमननयोः पाण्डित्यमौनरूपयोः परस्परविशेषणत्वं न सिद्धम्;येन विशिष्टविधिः स्यात् । यदि हि "श्रुत्वा मन्तव्यः' इत्याकारा वचनव्यक्तिः स्यात्, स्यात् तदा विशिष्टविधिशङ्का । इतरथा, "विष्णु-रुपांशु यष्टव्यः' "प्रजापतिरुपांशु यष्टव्यः' "अग्नीषोमावुपांशु यष्टव्यौ' इत्यादावपि यागद्वयविशिष्टतृतीययागविधिसंभवात् वाक्यभेदेन सिद्धान्तोऽनुपपन्नः स्यात् । "समिधो यजति' इत्यादावपि समिदादिचतुष्टयविशिष्टस्योत्तमप्रयाजस्य विधिरित्यापाद्येतेति चेत्-अत्र केचित् -"आर्पेयं वृणीते त्रीन् वृणीते' इत्यत्राऽऽख्यातभेदसत्त्वेऽपि त्रित्वविशिष्टार्षेयवरणविधानवत्, "श्रोतव्यो मन्तव्यः' इत्यत्रापि श्रवणविशिष्टमननविधिशङ्काया उत्थितिसंभवादिति वदन्ति । यादवमिश्रोक्तनिर्वाह इति । श्रवणमनेन अदृष्टार्थतया विधीयेते इति निर्वाह इत्यर्थः । स तु, "नानाशब्दादिभेदात्' इत्यत्र स्पष्टीभविष्यति । व्याख्यास्यत इति । अधुना भाष्ये तदव्याख्यानं न दोष इति भावः । द्रष्टव्य इति तव्थतेति । यद्यपि तव्येनापि रूपं सिध्यति, अथापि स्वरविशेषमभिप्रेत्याचार्यैस्तव्यत्प्रत्यय उपात्तः । केचित्तु - बृहदारण्यकवाक्ये स्वरासंप्रतिपत्तेतव्यतेति तित्त्वमविवक्षितम्; तव्यत्तव्ययोरन्यतरस्मिन् प्रत्यय उपादातव्ये तव्यतः प्रथमोपदि-ष्टत्वात्तदुपादानमिति मन्यन्ते ।

आवृत्तिद्वयत्रयव्यावृत्त्यर्थमसकृदिति सौत्रं पदमिति । यद्यप्यसकृच्छब्दोऽनेकत्वमात्रपरः । अनेकत्वं च द्वित्रादिसाधारणम्-तथापि बहुतरेष्वेव प्रसिद्धिप्राचुर्यादेवमुक्तमिति द्रष्टव्यम् । अत्र, "सूत्रमुपादत्ते - आवृत्तिरिति । आवृत्तिद्वयत्रयव्यावृत्त्यर्थमसकृदिति सौत्रं पदम् । उपासनशब्दाश्रवणात् सूत्रस्य तत्परत्वमस्फुटमिति तस्यार्थमाह - तदिदमिति' इति पाठः समीचीनः । केचित्तु सिंहाबलो-कितकेनाह - आवृत्तिद्वयत्रयेती'ति वदन्ति । रात्रीरुपेयादितिवदिति । यद्यपीदं वाक्यं नास्त्येव । "ज्योतिर्गौरायुः' इत्येव रात्रिस-त्रोत्पत्तिवाक्यम् । तत्रापि सत्रविषये उपेयादित्येकवचनं च न संभवति; उपेयुरित्येवं बहुवचनान्ततयैव वाक्यस्य कल्पनीयत्वात्-तथापि नोदाहरणमादरणीयमिति न्यायेन, "वैश्वानरं द्वादशकपालं निर्वपेत्', "यस्मिन् जान एतामिÏष्ट निर्वपति' इति वाक्यद्वयं दृष्टान्ततयो-दाहर्तव्यम् ।

एतद्वाक्यपूर्वकत्वादिति । "अथ योऽन्यां देवतामुपास्ते' "अन्योऽसावन्योऽहमस्मि' इति, न स वेद । अकृत्स्नो ह्रेषः । आत्मे-त्येवोपासीत' इति हि श्रुतिः । सिंहावलोकितकेनाव्याख्यातच्छान्दोग्यवावयांशं व्याचष्टे - यस्तद्वेदेत्यादिना । "यथा कृताय विजि-तायादरेऽयाः संयन्त्येवमेनं सर्वं तदभिसमेति यÏत्कच प्रजाः साधु कुर्वन्ति यस्तद्वेद स मयैतदुक्तः' इति हि श्रुतिवाक्यम् । इदं च, "यो नु कथं सयुग्वा रैक्वः?' सति हंसेन रैक्वस्वरूपं पृष्टस्य हंसान्तरस्य प्रतिवचनम् । यथा कृतायविजिताय । कृतो नाम अयो द्यूतसमये प्रसिद्धः । स यदा जयति, तदा इतरे त्रिव्द्येकाङ्काः अधरे अयाः संयन्ति-संगच्छन्तेउअन्तर्भवन्ति । चतुरङ्के अये कृते त्रिव्द्येकाङ्कानां तत्र विद्यमानत्वात् तस्मिन्नन्तर्भवन्तीत्यर्थः । एवमेनं रैक्वं कृतायस्थानीयं सर्वं तदभिसमेतिउसंगच्छते, यÏत्कच लोके सर्वाः प्रजाः साधु शोभनं कर्म कुर्वन्तिउधर्मजातं कुवÐन्त, तत् सर्वमेतस्य धर्मेऽन्तर्भवति । तस्य फले सर्वप्राणिफलमन्तर्भवतीत्यर्थः । यस्तद्वेदेत्यादि । अत्रायमन्वयः-यत्स वेद । स रैक्वो यद्वेद्यं वेद, तद्वेद्यं योऽन्योऽपि वेद, एनमपि रैक्वमिव सर्वशुभधर्मजातफलमप्यभिसमेतीत्यनुषङ्गः । स मयैतदुक्तः । स रेक्वः मया एतत् इत्थमुक्त इत्यर्थः इति रैक्ववेद्यब्राहृवेदितृमाहात्म्यकथनाद्रैक्वस्य ब्राहृणश्च माहात्म्यं कथितं भवती-त्यभिप्रायेणाचार्यैः, "रैक्वस्तद्वेद्यं ब्राहृ चोभयं मयोक्तमित्यर्थ' इत्युक्तम् । न तु स मयैतदुक्त सति शब्दार्थतयेति द्रष्टव्यम् ।

असकृदावृत्तेव्र्यवहितत्वशङ्कानिरासार्थमिति । "मासस्य द्विरधीते' इति न्यायेन विच्छिद्य कृतस्मृतेर्न ध्यानत्वमिति भावः । रागादीनां जीवर्धमत्वेनान्तःकरणर्धमत्वाभावादित्यस्वरसादाह - यद्वा मञ्चाः क्रोशन्तीतिवदिति । "स वा एष आत्मा ह्मदि । तस्यैतदेव निरुक्तं ह्मद्ययमिति । तस्माद्धृदयम्' इति वाक्यमभिप्रयन्नाह - ह्मत्थानमयतीति । ह्मदयग्रन्थिशब्दे कर्मधारयमभिप्रयन्नाह - ह्मदयशब्दोपलक्षितमिति । ननु "तस्मिन् दृष्टे परावरे' इत्येतत् उपायदशायां ज्ञानस्य दर्शनरूपतां कथं गमयेत् ? तत्रत्यदर्शनशब्दस्य "शास्त्रार्थदशी' इत्यादाविव ज्ञानसामान्यपरतयाप्युपपत्तेरित्यत्राह - दर्शनशब्दस्य ज्ञानसामान्यपरत्वसंभवेऽपीति । श्रवणादीनां पृथगुक्तत्वादिति । ततश्च सामान्यवाचिपदस्य वैयथ्र्यप्रसङ्ग इति भावः । न चैवं निदिध्यासनदर्शनयोरपि, "न वायुक्रिये पृतगुपदेशात्' इति न्यायेन पार्थक्यापत्तिः; परमात्मनो दर्शनायोग्यत्वात् दर्शनशब्दस्य चाक्षुषज्ञान एव मुख्यत्वात् गौणत्वस्याश्रयणीयत्वादिति भावः। दृष्टशब्दश्च तत्तुल्यार्थ इति । "तस्मिन् दृष्टे परावरे' इत्यत्र दृष्टशब्दश्च तत्तुल्यार्थः साक्षात्कारार्थः, तत्प्रत्यभिज्ञानात् । न च "तस्मिन् दृष्टे', "द्रष्टव्यः' इत्यनयोरर्थनिर्णये परस्परसापेक्षत्वेनान्योन्याश्रय इति वाच्यम्- "तस्मिन् दृष्टे' इत्यत्र दृष्टशब्दस्य न ज्ञानसामान्यपरत्वमित्यत्र द्रष्टव्यादिपदसापेक्षत्वम्, द्रष्टव्यादिशब्दस्योपायदशापन्नवृत्तित्वमित्यत्र "तस्मिन् दृष्टे' इति वाक्यसापे-क्षत्वमिति द्वारभेदेनान्योन्याश्रयस्यादोषत्वात् । पूर्वापरवाक्येषु फलस्य निर्दिष्टत्वादिति । "आत्मा वारे द्रष्टव्यः' इत्यस्य पूर्वापर-वाक्येष्वमृतत्वस्यैव फलस्य निर्दिष्टतया न साक्षात्कार एव फलमित्यर्थः । तस्याष्टदोषदुष्टत्वमिति । विकल्पस्येत्यर्थः । व्रीहियवयो-रेकेनानुष्ठात्रा प्रयोगभेदेनोपादनसंभवात् युक्तमष्टदोषदुष्टत्वम्; एकेन विद्याद्वयोपादानायोगात् कथमत्राष्टदोषदुष्टत्वमित्याशङ्कयाह - इहापि यथासंभवं दोषप्राप्तिरिति । अनुष्ठातृभेदेन एकैकस्मिन् दोषद्वयप्राप्त्या चतुष्टयसंभवादिति भावः । दर्शनोपायभूतस्य व्या-पारस्येति । यद्यपि दर्शनस्यैव विधेयत्वसंभवात् दर्शनध्यानयोः समुच्चयः संभवतीत्याक्षेप एवोचितः । न च दर्शनस्य विधानयोग्यत्वम्; "पन्त्यवेक्षितमाज्यम्' इत्यादाविव (त्यादौ ?) ज्ञानविधेरभ्युपेतत्वात् । तथापि पररीतिमनुसृत्य व्यापारविधेयत्वमाक्षिप्तमिति द्रष्टव्यम् । अतो न मानान्तरेण तयोः साध्यसाधनभावेति । मानान्तरसत्त्वे तत एव साध्यसाधनभावप्रतीतेस्तत्सापेक्षमिदं व्यर्थमित्यत्र तात्पर्यम् । यदि साक्षात्कारं प्रति ध्यायेन सहेति । साक्षात्कारमित्युपलक्षणम् । साक्षात्कारं मोक्षं प्रति वा ध्यायेन सह समुच्चित्य दर्शनसमानाकारज्ञानान्तरम्, "दृष्टव्य' इत्यनेन विधेयमिति यद्युच्येतेत्यर्थः । तस्य च ध्यानस्य च द्वारद्वारिभावानापन्नतया एकत्र किंचित्कारान्वयः संभवतीति समुच्चयसंभवः । न च दर्शनसमानाकारज्ञानस्य ध्यानसाध्यतया द्वारद्वारिभावापन्नत्वादेकत्र किंचित्कारान्वयः कथं सिध्येदिति वाच्यम्-तन्नास्तीत्यभिमानवतः शङ्केयमिति संभवादिति (वदन्ति) । चतुष्र्वंशेषु तात्पर्यकल्प-नादपीति । औपदेशिकार्थाधिगमारम्भणसंशीलनदर्शनसमानाकारत्वध्यानरूपेष्वित्यर्थः । ननु "द्रष्टव्यः' इति दर्शनसमानाकार-ध्यानविधाने "निदिध्यासितव्यः' इत्यत्रापि निदिध्यासनसमानाकारं मननं विधीयत इति किं न स्यात् ? "स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः' इतिवत्, "मत्वा धीरो न शोचति' इति मननानन्तरमेव मोक्षप्रतिपादनात् । यदि मनननिदिध्यासनशब्दयोर्भिन्नार्थत्वा-देकस्य गौणत्वे प्रमाणाभावान्न निदिध्यासनशब्दस्य गौणत्वमाश्रयणीयमिति, तर्हि (तुल्यं प्रकृतेऽपि ?) "निचाय्य तं मृत्युमुखात् प्रमुच्यते', "तं दृष्ट्वा भुच्यते योगी', "तस्मिन् दृष्टे परावरे', "ततस्तु तं पश्यते निष्कलं ध्यायमानः' इत्यादिश्रुत्यनुग्रहाय विशुद्ध-मनोजन्यसाक्षात्कारस्यापि विधेयत्वसंभवात् । "विधिस्तु धारणेऽपूर्वत्वात्' इति न्यायेन विधेः स्वीकर्तव्यत्वात् । प्रकृते विस्पष्ट-विधिश्रवणाच्चेति चेत्-न-मानससाक्षात्कारे चाक्षुषज्ञानवाचिनो दृशेर्गौणत्वस्य तथाप्यविशेषात् । मानससाक्षात्कारस्य मोक्षकाल-साक्षात्कारसदृशस्य फलरूपत्वेनाविधेयत्वाच्च ध्यानं दर्शनसमानाकारं विधीयत इत्येव युक्तमिति भावः । जगत्कारणविषयं चेत् दर्शनसमानाकारनिदिध्यासनरूपमित्यवगम्यत इति । ननु कथमनेन वाक्येनास्यार्थस्य प्रतीतिः ? आत्ममननश्रवणादिकमेव सर्वविषयम्, उपादानोपादेययोरभेदादित्यर्थः परमनेन प्रतीयते, न तु जगत्कारणविषयं सर्वं दर्शनसमानाकारमितीति चेत्-न-आत्मनि दृष्टे विज्ञाते दर्शनसमानाकारध्यानविषये सत्येव सर्वं विदितं भवति, सार्वज्ञ्यं भवति, मोक्षो भवतीत्यस्यार्थस्य प्रतीयमानतया तथो-क्तयुपपत्तेः । एतदस्वरसादेवाह - किं च नानाविद्यानामिति । सामथ्र्यस्य प्रकरणाद् बलीयस्तया चेति । अत एव सत्यत्वज्ञान-त्वादीनां विद्याविशेषप्रकरणपठितानामपि, "आनन्दादयः प्रधानस्य' "अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्याम्' इत्यधिकरणेषु सर्वविद्यासाधारण्यं वक्ष्यति । दर्शपूर्णमासशब्दयोर्लक्षणयेत्यादि । कालविशेषवाचिनो दर्शपूर्णमासशब्दयोः कर्मलक्षकत्वदर्शनात् । तथा, "श्येनेनाभिचरन् यजेत' इत्यादौ श्येनादिशब्दानां "यथा वै श्येनो निपत्यादत्ते' इति वाक्यशेषेण निपत्यादानरूपगुणयोगेन कर्मणि श्येनशब्दो गौण इत्यभ्युपेतत्वाच्चेत्यर्थः । मध्यदेशलक्षणाया अङ्गीकृतत्वाच्चेति । "अर्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदि' इत्यत्रान्तर्वेदीति वेद्येकदेशो यूपाङ्गत्वेन चोद्यते, उत बहिर्वेसहितो यूपमानदेशं लक्ष्यतीति विशये, वेद्येकदेशो यूपाङ्गत्वेन विधीयते, लक्षणाया अन्याय्यत्वात्; "अर्धं बहिर्वेदि' इति चार्थसिद्धानुवाद इति पूर्वपक्षं कृत्वा, "अर्धमन्तर्वेदि' इत्येकस्य यूपार्धस्यान्तर्वेदिमाने यूपार्धान्तरस्यान्तर्वेदि बहिर्वेदि वा मानमिति शास्त्रस्याभावेनार्धान्तरमपि कदाचित्पुरुषेच्छावशादन्तर्वेद्यपि प्राप्नोति । न चेष्टापत्तिः, "अर्धं बहिर्वेदि' इत्यस्य पाक्षिकानुवादत्वप्रसङ्गात् । तस्यापि विधाने वाक्यभेदः । अतो यस्मिन् देशे मीयमाने अन्तर्वेदि अर्धं भवति बहिर्वेदि अर्धं च, तादृशे देशे मिनुयात् । "डुमिञ् प्रक्षेपणे' इति हि धातुः; प्रक्षिपेदित्यर्थ इति देशविशेषलक्षणेति पूर्वतन्त्रे शेषलक्षणे (3-7-6) स्थितमिति भावः । वाक्यचतुष्टयेनेति । "वेदनमुपासनं स्यात् तद्विषये श्रवणात्', सकृत्प्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात् प्रयाजादिवत्', "सिद्धं तूपासनशब्दात्', "उपासनं स्याद् ध्रुवानुस्मृतिर्दशर्नान्निर्वचनाच्च' इति वाक्यचतुष्टयं द्रष्टव्यम् । न केवलं छान्दोग्य इत्यर्थ इति । "ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः' इति छान्दोग्ये भूमविद्यायां श्रूयते; संवर्गविद्यायाम्, "यां देवतामुपास्से' इति श्रूयते । तेन तत्रैव तदिति न मन्तव्यमित्यर्थः ।

स्वयमुपस्थितस्य स्वीकार एवेति । अप्रियत्वे स्वयमुपस्थितमपि परित्यज्यते; प्रियत्वे स्वयमुपस्थितं गृह्रते । प्रियतमत्वे तु प्रार्थ-नीयत्वरूपं वरणीयत्वमिति भावः । ननु पत्रपुष्पादीनां भगवति प्रीतिरहितानामपि प्रीतिविषयत्ववरणीयत्वयोर्दर्शनात् कथं "यस्य' इत्यादि भाष्यमुपपद्यत इत्याशङ्कयाह - चेतनत्वे सति भगवता वरणीयत्वमिति । चेनत्वे सति भगवत्प्रियतमत्वमित्यर्थः । तस्यैव तस्मिन् वाक्ये प्रस्तुतत्वात् । यद्वा प्रियतमत्वपूर्वकं वरणीयत्वमित्यर्थः । स्वतः प्रियत्वं स्वस्मिन् प्रीतिमत एवेति । यस्य च स्वतः प्रियत्वम् तस्यैव स्वतो वरणीयत्वमिति भावः । आशंसायां भूतवच्चेति कर्तरि क्त इति । "गत्यार्थाकर्मक' इत्यकर्मकत्वविवक्षायां यः क्तो विहितः, सः आशंसायां भूतवच्चेत्यनेन आशंसायां मविष्यतीति भावः । ननु "आशंसायां भूतवच्च' इति प्रयोक्त्#ाशंसायामेव दृष्टम् । यथा-"देवश्चेद् वृष्टः, संपन्नाः शालयः', "उपाध्यायश्चेदागतः, अधीतं व्याकरणम्' इति । यथा, "आशिषि लिङ्लोटौ' इति लिङ्लोटौ प्रयोक्त्रशंसाविषयावेव-तद्वदिति चेत्-न; प्रयोक्त्#ाशंसाया-मेवेति ग्रन्थकृतां व्यवहारादर्शनात् उदाहरणमात्रप्रदर्शनेन तद्विषयत्वस्य निश्चेतुमशक्यत्वात् । लिङ्लोङ्विषये तु प्रयोक्त्#ा#ंशसायामेव प्रयोगात् तथात्वमुचितमिति भावः । अनुभूयमानोऽनुभव इतिवदिति । प्रियशब्दस्य प्रीतिविषयत्वमेवार्थ इति प्रथमतृतीयपक्षयोः समानम् । प्रथमपक्षे प्रीतावेव प्रीतिविषयत्व निश्चयः औपचारिकः । तृतीये आगामि प्रीतिरूपज्ञानस्यापि प्रीत्यन्तरविषयत्वसंभवान् मुख्य इति विवेकः । द्वितीयपक्षे तु प्रियेत्यस्यानुकूलत्वमेवार्थः, न प्रीतिविषयत्व-मेवार्थ इति भिदा । यद्यपि प्रियशब्दः, "इगुपधज्ञाप्रीकिरः कः' इति कत्र्रर्थकप्रत्ययान्तः, "कर्तरि कृत्' इति विधानात्-तथापि "देवदत्ताय रोचते मोदकः' इतिवत् विषयत्वपर्यवसित एवेति विषयत्वार्थकत्वे नानुपपत्तिरिति द्रष्टव्यम् । इदं त्ववशिष्यते-प्रीतिरू-पत्वस्यैव समर्थनीयतया "स्वायत्ते शब्दप्रयोगे' इति न्यायेन "स्वयमपि प्रीतिरूपा' इत्येव निर्देष्टव्ये, भाष्ये "प्रिया' इति निर्देशो न युक्तः । अतः "प्रिया' इति निर्देशस्यानुकूलत्वमेवार्थ इति द्वितीयपक्ष एव युक्त इति प्रतिभाति । यद्वा ध्रुवानुस्मृतिः स्वयमत्यन्ता-नुकूलत्वादिति । "प्रीतिरूपा' इति शेषः । ततश्च अत एव हि या प्रीतिरित्यादिना सा प्राथ्र्यते इति युज्यते । "प्रीतिरूपा' इति शेषाभावे "सा प्राथ्र्यते' सत्युक्ते ध्रुवानुस्मृतिः प्राथ्र्यत इति प्रतीयेत । न च तद्युक्तम्, "या प्रीतिः' इति श्लोके प्रीतेरेव प्राथ्र्यत्वदशर्नेन ध्रुवानुस्मृतेः प्राथ्र्यत्वादर्शनादिति द्रष्टव्यम् । ननु "या प्रीतिः' इति श्लोके प्रीतिरूपापन्नध्रुवानुस्मृतेः प्राथ्र्यत्वं न प्रतीयत इति चेत्-न-"त्वामनुस्मरतः सा मे' इति स्मृतिसमभिव्याहारात् प्रीतिरूपस्मृतिः पाथ्र्यत इत्यर्थलाभसंभवात् । प्रीतिरूपध्रुवानुस्मृतेरिति । न च "स्वयमत्यर्थप्रिया' इत्यत्र भाष्यस्थप्रियशब्दस्य प्रीतिविषयाथर्कत्वपक्षे प्रीतिरूपत्वस्य ध्रुवानुस्मृतावलाभात् कथं, "प्रीतिरूपा ध्रुवा-नुस्मृति'रित्युच्यत इति शङ्कयम्-प्रीतिविषयत्वप्रतिपादनस्यापि प्रीतिरूपत्वप्रतिपादनफलकत्वेन प्रीतिरूपत्वोक्तौ विरोधाभावात् । ननु नैघण्टुकोक्तया पर्यायत्वमेवावगतं स्यात्; न त्वेकार्थपर्यवसानमात्रमित्यत्राह- एकार्थवृत्तित्वं चेति । चः एवार्थः; एकार्थवृत्ति-त्वमेवावगम्यते; न तु पर्यायत्वमपि; तथाहि सति सेवाया अपि पर्यायत्वे, "भूयसी सेवा भक्तिशब्दवाच्या' इत्यभियुक्तव्यवहारविरो-धादिति भावः । वचनबलप्रतिक्षिप्त इति ।

"भक्तया त्वनन्यया वापि प्रपत्त्या वा महामते ।

प्राप्योऽहं नान्यथा प्राप्यः - - - - - - - - ।।'

इति वचनबलेन, "सकृदेव हि शास्त्रार्थः' इति वचनबलेन च प्रतिक्षिप्तः । शक्ताशक्तभेदेन च व्यवस्था कृतेति भावः । इदानीं तु श्रुति-स्मृत्योरेकाथ्र्येनेति । उपायान्तरनिषेधकश्रुतिस्मृत्योरविरोधसिद्धयर्थमित्यर्थः । इदं चोपबृंहणोपबृंहणीययोरित्युत्तरत्र स्पष्टम् । पुरुष-सूक्तैकाथ्र्यं दर्शयितुमिति । पुरुषसूक्तैकाथ्र्यमुपजीव्यावगतपरमपुरुषतात्पर्या श्वेताश्वतरोपनिषदिति दर्शयितुमित्यर्थः । नाहं वेदैरिति वचनमुपात्तमिति । "नाहं वेदैः', "भवत्या त्वनन्यया' इति श्लोकद्वयमुपात्तम्; तत्तुल्यार्थत्वमभिप्रेत्य, "पुरुषः स परः' इति श्लोकोऽप्युपात्तः।

नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवं विधो ज्ञातुं दृष्टवानसि मां यथा ।।

भवत्या त्वनन्यया शक्य अहमेवविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।।'

"पुरुषः स परः पार्थ भक्तया लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ।।'

इति त्रयः श्लोकाः । तदनन्तरमित्यनेन पौनरुक्तयप्रसङ्गादिति ।

"भक्तया मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ।।'

इति श्लोके "ततः' इत्यनेन ज्ञानस्य परामर्शे "तदनन्तरम्' इत्यनेन पौनरुक्तयमित्यर्थः । ननु "तदनन्तरम्' इत्यत्र तच्छब्दो ज्ञानपरः; "ततः' इति तच्छब्दो ज्ञानहेतुभूतभक्तिपरः; "ततः भक्तया मां तत्त्वतो ज्ञात्वा ज्ञानानन्तरं मां विशते' इत्युक्तौ न पौनरुक्तयमिति चेत्- न भक्तेज्र्ञानहेतुत्वस्य "भक्तया मामभिजानति' इत्यनेनैव सिद्धतया पुनरुक्तिप्रसङ्गात् "ततो विशते' इत्यन्यस्यैव वक्तव्यत्वादिति भावः। न च "भक्तया मामभिजानानि' इति पूर्वनिर्दिष्टभक्तेः प्राप्तिहेतुत्वाभावात् कथं "ततः' इत्यनेन तस्या भक्तेः परामर्श इति वाच्यम्,

"ततः' इत्यस्य तद्य्वक्तिपरामर्शित्वासंभवादेव तज्जातीयव्यक्तिपरामर्शित्वमित्यदोषः ।

अन्योन्याश्रयणं वेति । वाशब्दः समुच्चये; अन्योन्याश्रयणे आत्मश्रयस्यापि सिद्धत्वात् । अज्ञातसुकृतवशादिति । स्ववृत्त्यर्थं व्याधकृतव्याघ्रमरणेन संपादितं गोरक्षणादिकमज्ञातसुकृतमित्युच्यते । यज्ञेन विविदिषन्तीति वाक्यस्य ह्रर्थश्चिन्त्यत इति । न तु स्वल्पायाससाध्यकर्मविधायकवाक्यार्थ इति भावः । आत्माश्रयादिदोषः स्यादेवेति । नन्वन्नद्वेषेण काश्र्यं प्राप्तस्य तत्परिहाराय अन्नविषयौन्मुख्यलक्षणेच्छायां सत्यामप्युत्कटाजीर्णादिप्रयुक्तधातुवैषम्यदोषात् तत्र प्रवृत्तिपर्यन्ता रुचिर्न जायत इति तद्रोचकौ- षधवत्, "निरतिशयानन्दं बहृ; तत्प्राप्तौ विद्या साधनम्' इत्यस्मिन्नर्थे प्राचीनानन्तजन्मशतानुष्ठितानभिसंहितफलनित्यनैमित्तिक-कर्मोपसंजातचित्तप्रसादमहिम्ना संपन्नविश्वासस्य पुरुषस्य ब्राहृावाप्तौ तद्विद्यायां चौन्मुख्यलक्षणेच्छायां सत्यामप्यनादिभवसंचिता-नेकदुरितदोषेण विषयप्रावण्यं संपादयता प्रतिबन्धात् विद्यासाधने श्रवणादौ प्रवृत्तिपर्यन्ता रुचिर्न जायत इति प्रतिबन्धकनिरास-पूर्वकतादृशरुचिसंपत्त्यर्थं कर्मसु प्रवृत्तिरुपपद्यत एव । इतरथा "या प्रीतिरविवेकानाम्' इत्यादिष्वगतेरिति चेत्-न-यद्यनन्यथासिद्धं विविदिषासाधनत्वग्राहि प्रमाणमुपलभ्येत, स्यात्तदा यथा कथंचिन्निर्वाहः । न त्वेतदस्ति । "प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यम्' इति सामान्यन्यायापेक्षया "सन्प्रत्ययाभिहिताच्छाविषयस्य प्राधान्यम्' इति विशेषन्यायस्य, "अश्वेन जिगमिषति' इत्यादौ दृष्टस्य प्रबलत्वादिति भावः । अभिधानमात्रस्य प्रागपि कृतत्वात् तन्मात्रं अप्रयोजकं इत्यभिप्रेत्याह - उपपादयिष्याम इत्यर्थ इति । तच्छब्दो विविदिषापर इति । नच ध्यानोपक्रमात्प्रागेव विविदिषायाः सिद्वत्वात् पुनः तदनुष्ठानं व्यर्थमिति शङ्कयम् । प्रत्यहं अनुष्ठायोपासनायाः हेतुभूत विविदिषाया अपि प्रत्यहं अनुवृत्त्यर्थं कर्मणां अपेक्षितत्वात् इति भावः । यावज्जीवं कर्मणोऽपेक्षितत्वे चेति । साक्षाद्वा परंपरया वा कर्मणस्तदपेक्षितत्व इत्यर्थः । (ततश्च विविदिषार्थ-त्वपक्षेऽप्यपेक्षितत्वमात्रसत्त्वात्) प्रमाणजिज्ञासायां श्रुतिवाक्ये प्रदर्शनीये तदुपेक्ष्य सूत्रसंदर्शनस्य प्रयोजनमाह - सूत्रसंदर्शनेनेति । आश्रमशेषत्वेऽपि विद्याङ्गत्वमपीति; विद्यापेक्षितत्वमित्यर्थः । ततश्च विविदिषार्थत्वपक्षेऽप्यपेक्षितत्वमात्रसत्त्वान्नानुपपत्तिरिति भावः।

(साधनसप्तकम्)

वाक्यकारनिर्देश इति । इतरेतरद्वन्द्वस्य साहित्यरूपसमुच्चयावगमकत्वात् । अत एवैकादशाद्ये "दर्शपूर्णमासाभ्याम्' इति द्वन्द्वावगतं साहित्यं मा बाधीति समुच्चितानामेव षण्णां यागानां फलसाधनत्वमिति समर्थितमिति भावः । समुच्चयोऽर्थान्तरमिति । यद्यपि समुच्चान्वाचयेतरेतरयोगसमाहाराश्चत्वारोऽपि चार्थाः वाशब्दार्थभूतविकल्पप्रतिद्वन्द्विसमुच्चयरूपा एव । न हि "गामश्वं चानय' इति समुच्चये वा, "भिक्षामट, गां चानय' इत्यन्वाचये वा, "देवदत्तयज्ञदत्तौ कुरुतः' इतीतरेतरयोगे वा, "छत्रापानहमानय' इति समाहारे वा वाशब्दार्थभूतविकल्पप्रतीतिरिति -तथापि वाशब्दवत् समुच्चयशब्दोऽन्चाचयसैपठिते समुच्चयावान्तरविशेषे विकल्प-प्रतिद्वन्द्विसमुच्चयसामान्ये च वर्तत इति भावः । "जात्याश्रय' इत्यत्र "कायशुद्धिर्विवेकः' इति सामानाधिकरण्यं कथमित्याशङ्कय, "जात्याश्रवनिमित्तादुष्टादन्नात्' इति वाक्ये दुष्टेभ्यो विविक्तादन्नात् कायशुद्धेः साध्यत्वावगमात् कारणवाचिना विवेकशब्देन कार्यभूता शुद्धिर्लक्ष्यत इत्याह - आहारविषयेत्यादिना । जातिदुष्टाः कलञ्जगृञ्जनादय इति ।

लशुनं गृञ्जनं चैव पलाण्डुं कव (त) कानि च । वार्ताकनालिकालाबून् जानीयाज्जातिदूषितान् ।।'

इत्यादि द्रष्टव्यम् । मुख्ये संमवत्युपचारस्यान्याय्यत्वादाह - यद्वेति । देहविवेचनं विवेकोऽस्तु; सामानाधिकरण्यं कथमित्यत्राह - अशुद्धेभ्य इति । मामनुस्मरेत्येवमन्तमिति ।

"यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ।।

तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।'

इति हि श्लोकक्रमः । सत्यं भूतहितमिति ।

सत्यं भूतहितं प्रोक्तमार्जवं समचित्तता । दया भूतहितैषित्वं क्षमा द्वन्द्वसहिष्णुता ।।'

इत्यादि प्रमाणं द्रष्टव्यम् । आर्जवादिप्रतिपादकवाक्यजातं क्रोडीकृतमिति;

दानं यज्ञः सतां पूजा वेदधारणमार्जवम् ।एष धर्मः परो ज्ञेयः फलवान् प्रेत्य चेह च ।।'

इति वचनजातमिति भावः । भावान्तरमेवाभाव इत्यभिप्रेत्याह - अभास्वरत्वमिति । दैन्यशब्दविवरणमिति । भास्वरत्वाभावो दैन्याद्भिद्यत इति मतमालम्व्याह - भास्वरत्वविरोधीति । चशब्दो भिन्नक्रम इति; "तज्जं च' इत्ययं भिन्नक्रम इत्यर्थः । देश-कालवैगुण्यात् शोकवस्त्वाद्यनुस्मृतेर्दैन्यम्, तज्जं चेत्यर्थः । दैन्यशब्दस्य तज्जशब्दात् प्राक् प्रयोगाभावे तच्छब्दस्य दैन्यपरामर्शा-भावप्रसङ्ग इति द्रष्टव्यम् । यद्वा भिन्नवाक्यतयेति । अस्मिन् पक्षे, "तज्जं दैन्यम्' इत्यस्य वाक्यस्य भेदः, तस्य च पश्चात् प्रयोगः, "तच्च तज्जं दैन्यम्' इति तच्चेत्यस्याध्याहारदोष इत्याद्यस्वरसो बोध्यः ।

(विद्याञ्चेति श्रुत्यर्थः)

अस्य वाक्यस्यार्थमुपजीव्येति । "कषायपक्तिः कर्माणि' इति वाक्यस्यार्थमित्यर्थः उभयोरपि निरासकं स्यादिति तद्य्वावृ-त्त्यर्थमिति । उभयोरपि निरासकं दृष्टम्; तद्वत् कर्मापि स्वप्राचीनं कर्मेव स्वोत्तराधमपि निरस्यत्विति शङ्काव्यावृत्त्यर्थमित्यर्थः । केचित्तु - "प्राचीनम्' इत्येतत् न कर्मापेक्षया प्रचीनपरम्; अनेकजन्मशतानुष्ठीयमानकर्मजातमनुद्भूतावयवभेदम् "अविद्यया' इति परामृश्यते; तत्र च यदि प्राचीनपदं तत्प्राचीनपरामर्शि, तदा तादृशस्यैव कर्मणो विनाशे तदनन्तरभाविनां विनाशो नास्तीत्युप- पादितं स्यात् । न चेतदिष्टम् । न चाविद्याशब्दोऽन्त्यकमर्मात्रपरामर्शीति शक्यं वक्तुम्; "कषाये कर्मभिः पक्वे' इत्यादिविरोधात् । तैस्तैः कर्मभिस्तत्तत्पूर्वभाविनां विनाश इत्येतत्परमपि न वाक्यम्; तथा हि सति आद्येनैव कमर्णा तत्पूर्वभाविनां विनाशप्रसङ्गात्; "तीत्र्वा' इत्युक्ते उत्तराश्लेषशङ्काया अप्यभावेन तच्छङ्काया अप्यव्यावत्र्यत्वात्; तदुत्तरक्षण एव ज्ञानोत्पत्तिप्रसङ्गाच्च । अतो भाष्ये प्राचीनपदमनेकजन्मार्जितमपि सर्वं ज्ञानप्राचीनं कर्म व्यपोह्रेति साकल्यसूचनार्थमेव । न तु कर्मप्राचीनपरतया केषांचिन्मृत्युशब्दितानां निवत्र्यत्वपरम्; तस्यानुपयुक्तत्वादिति मन्यन्ते । प्राप्य स्थित इति हि तद्योजनेति । तन्मते तरदिः प्राप्तिवचन इति भावः । इति वा शंकराभिमतयोजना स्यादिति । संभावनायां लिङ् । संभवार्थिके (संभाविते ?)त्यर्थः । ततश्च विद्याम् अन्तःकरणवृत्तिम्, अविद्यां तत्कारणं च कायर्कारणरूपेण सहिते यो वेद, सः अविद्योपादानकत्वेन तन्मय्या अन्तःकरणवृत्त्या तदुपादानं मृत्युमविद्यां तीत्र्वां विद्यया स्वरूपभूतज्ञानेनोपलक्षितममृतत्वमश्नुत इति परैर्योऽर्थो वर्णितः, सोऽनुवादस्याप्यनर्ह इति सूच्यते । अङ्गिज्ञातव्यत्वोक्ता-वङ्गज्ञातव्यत्वस्यानुक्तसिद्धत्वात् तत्समुच्चये प्रयोजनमान्द्यादन्यथा व्याचष्टे - यद्वा धर्मेचेति । समुच्चेतव्ययोः विरोधिनोः कोशगम्यत्वात् उक्तार्थ समुच्चयपरतया व्याचष्टे यद्वा प्रतिपदद्योतकाविति । "धर्मे चार्थे च' इति श्लोके चशब्दस्य विरोधिसमुच्चयपरत्वमुक्तसमुच्चयपरत्वं च व्याख्यातृभिव्र्याख्यातमिति तस्य दृष्टान्ततयोभयत्राप्युपादानं युक्तमिति द्रष्टव्यम् । पुण्यपापे उभे अपीति । "ज्ञानविरोधि च कर्म पुण्यपापरूपम्' इति भाष्यावतारिकानुसारात् "ब्राहृज्ञानोत्पत्तिविरोधित्वेन' इत्युत्तर-भाष्यस्य, ततः किमित्यत्राहेत्यवतारिका देयेति मन्यते(न्ते) । न तन्मात्रपापान्तरविषयः पाप्मशब्द इति । "सर्वे पाप्मानः' इत्यत्र पाप्मशब्दस्य दुष्कृतशब्दानुक्तपापमात्रविषयत्वसंभवेऽपि पापशब्दस्य तन्मात्रविषयत्वासंभवात्, "अपहतपाप्मा ह्रेष' इति सकल-हेयनिवृत्तिसंवादिसमनन्तरवाक्ये सुकृतविषयत्वावश्यंभावात् तावताप्यस्माकं समीहितसिद्धेरिति भावः । केचित्तु-"सर्वे पाप्मानः' इत्यत्र पाप्मशब्दो न दुष्कृतशब्दानुक्तपापान्तरवाचीत्येवार्थः, शब्दस्वारस्यात् । न चैवं समनन्तरवाक्यस्थपाप्मशब्दस्य सर्वपरत्वं पूर्ववाक्यस्थपाप्मशब्दस्य सर्वपरत्वे कथं हेतुः स्यादिति वाच्यम्, एकप्रकरणस्थयोः शब्दयोर्वैरूप्यस्यासति बाधकेऽयुक्तत्वादिति वर्णयन्ति । ननु "अपहतपाप्मा ह्रेषः' इति वाक्येऽपि (अपहत?) पाप्मशब्दस्यानुक्तकतिपयपापनिवृत्तिरित्यर्थोऽस्त्वित्याशङ्कयाह - न ह्रनुक्तकतिपयपापनिवृत्त्युक्ताविति । शोकादिषु पाप्मशब्दस्यामुख्यत्वेऽपीति । "अपहतपाप्मा विजरो विमृत्युर्विशोकः' इति वाक्ये शोकादीनां पाप्मशब्दापेक्षया पृथक्कीर्तनादनुगतप्रवृत्तिनिमित्ताभावाच्च शोकादिषु पाप्मशब्दस्य गौणत्वसंभवेऽपि सुकृतेऽनु-गतप्रवृत्तिनिमित्तसत्त्वेन गौणत्वासंभवात् । न च छत्रिन्यायेन लक्षणास्वीकारे वृत्तिद्वयविरोधान्न कस्यापि मुख्यत्वमिति वाच्यम्-तथापि "सृष्टीरुपदधाति' इत्यादाविव भूम्ना लक्षणासंभवे, "प्राणभृत उपदधाति' इत्यादिवत् लिङ्गसमवायमात्रेण गौण्या वृत्त्याः अनाश्रयणीयत्वादिति भावः । केचित्तु-वृत्तिद्वयविरोधो न दूषणमित्यभिप्रेत्यैतदुक्तमिति वदन्ति । अन्ये तु, "कालजरामृत्युशोकादयः संख्यातत्वात्' इति वाक्यकारवचनानुसारात् शोकादिष्वपि पापशब्दस्य मुख्यत्वमेव । अमुख्यत्वेऽपि न क्षतिः; तावता पाप्म-शब्दप्रयोगविषयत्वसाधारण्यस्य हेतुत्वाभावेऽपि प्रवृत्तिनिमित्तसाधारण्यात् "धर्मेण पापम्' इत्यत्र मुख्यत्वमेवेत्यर्थ इति वदन्ति ।

(उन्निनीषावाक्यार्थः)

यद्वृत्तद्वयमिति । "यमुन्निनीषति', "यमधो निनीषति' इति यच्छब्दद्वयमित्यर्थः । ज्ञानप्रदानद्वारककारयितृत्वविषयमवसीयत इति । यद्वृत्तद्वयाभिप्रेतस्य पुण्यपापाख्यस्य कर्मणः स्वर्गनरकहेतुभूतकर्मकारयितृत्वप्रयोजकोन्निनीषाधोनिनीषाहेतुत्वमस्माद्वाक्यात् प्रतीयत इत्यर्थः । ततश्च कर्मणां कर्मप्रयोजकत्वं ज्ञानद्वारकमिति सिध्यतीत्यर्थः । नन्वेतावता पापशब्दितस्यासाधुकर्मकर्तव्यता-

ज्ञानद्वारा नरकहेतुभूतकर्मानुष्ठानहेतुत्वसिद्धावपि न सम्यग्ज्ञानोत्पत्तिप्रतिबन्धकत्वं सिध्येदिति चेत्, निषिद्धे कमर्णि बलवदनि-ष्टजनकत्वलक्षणसम्यग्ज्ञानप्रतिबन्धकत्वाभावे तत्र प्रवृत्तेरेवानुदयप्रसङ्गेनावश्यं सम्यग्ज्ञानप्रतिबन्धकत्वस्य वक्तव्यत्वात् ब्राहृज्ञान-प्रतिबन्धकत्वमपि सिध्यति । इतरथा दुरितकर्मप्रवृत्तेरेवासंभवात् । सर्वकर्मदेवतासामान्यविषयमिति । "बुद्धया संयोजयन्ति तम्' इति बुद्धेर्वेद्यरूपकर्मविशेषानुपादानात् सर्वविषयकज्ञानप्रतिबन्धकत्वमेव सिध्येत्, न तु भगवद्विषयमोक्षहेतुज्ञानप्रतिबन्धकत्वम् । तथा, "न देवा यष्टिमादाय' इति देवतासामान्योपादानात्, "एष ह्रेव' इति विवक्षितस्य भगवत एव कारयितृत्वस्य न लाभ इत्यर्थः । सम्यग्ज्ञानसामान्याबहिर्भावादिति । इदमुपलक्षणम्-भगवतोऽपि देवतासामान्याबहिर्भावादित्यपि द्रष्टव्यम् ।

(धर्मेण पापमित्येतदर्थः)

फूर्वमेव शिक्षित इति । अत इदानीममुक्तिर्न दोषायेति भावः । अत्र श्रूयमाणत्वादिति । "धर्मेण पापमपनुदति' इति प्रकरणे "तस्माद्यज्ञं परमं वदन्ति', "तस्मात् सत्यं परमं वदन्ति' इत्यादिवाक्येषु श्रूयमाणत्वादित्यर्थः । अपनुदं दिति ह्रर्थः स्यादिति । ननु पापशब्दस्य तादात्विकानिष्टसाधनत्वरूपार्थाश्रयणे स्वर्गार्थेन कर्मणा कस्यचित् पुंसस्तन्कालविशेषेऽनिष्टपुत्रपश्चादिसाधन-कमर्णामपि विनाशप्रसङ्ग इति चेत्-न-योगसिद्धयधिकरणोक्तन्यायेन (मी.4-3-12) फलान्तरार्थमनुष्ठितस्य कर्मणस्तस्मिन्नेव प्रयोगेऽनिष्टपश्वादिसाधनपापनिवर्तकत्वासंभवात् । प्रकृते च "यज्ञेन' इत्यादिवाक्येन विनियुक्तानां यज्ञादीनां द्वारविशेषाकाङ्क्षायां "धर्मेण पापमपनुदति' इत्यस्य द्वारविशेषसमर्पकतया विद्यार्थमनुष्ठितेनापि पापनिवृत्त्युपपत्तेः । पापशब्दवाच्यान्तर्भावाच्चेति । ननु धर्मत्वेन प्रसिद्धानां ज्योतिष्टोमादीनां मुमुक्षुं प्रत्यनिष्टसाधनत्वेन तं प्रति पापत्वे, यस्य पुंसो यदा यदनिष्टम्, तं प्रति तदा तस्याधर्म-त्वप्रसङ्गेन व्यवस्था न स्यादिति चेत्-न । इष्टापत्तेः । पुरुषविशेषं प्रत्येव धर्माधर्मव्यवहारात् । तत् इत्यस्य तस्मादित्यर्थकत्वमभि- प्रेत्य व्याचष्टे -श्रुतिस्मृतीति । एवम् इति व्याख्येयं पदम् । उपायत्रतिबन्धकनिरासार्थमिति छेदः । अतः ब्राहृज्ञानस्य फलाभिसं-धिरहिताश्रमकमर्सापेक्षत्वादिति । नन्वेतावता ब्राहृोपासनस्य कर्मसाध्यस्य तद्विचारसापेक्षत्वेऽपि न ब्राहृविचारस्य तदपेक्षेति चेत्-न-कर्मोपासनयोः शेषिणोरनुष्ठानक्रमेणैव शेषभूतयोस्तद्विचारयोरपि क्रम इत्याशयात् । ब्राहृविचारापेक्षिताधिकारिविशेषणीभूत-कर्मास्थिरफलत्वज्ञानादिनिष्पादकत्वमप्यस्तीत्याहेत्याह - ज्ञानं हीत्यादिना ।

(साधनचतुष्टयपूर्ववृत्तत्वनिरासः)

साधनसप्तकं चेति । विवेकविमोकादीत्यर्थः । इत्यारभ्येति । "नित्यानित्ययोव्रसन्तीति नित्यानित्यवस्तूनि, तद्धर्माः । नित्या-नित्ययोधÐर्मणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः । एतदुक्तं भवति-माभूत् "इदमृतं नित्यम्, इदमनृतमनित्यम्' इति धर्मिविशेषविषयो विवेकः । धर्मिमात्रयोनित्र्यानित्ययोस्तद्धर्मयोश्च विवेकं निश्चिनोत्येव । नित्यत्वं सत्यत्वम्; तत् यस्यास्ति, तन्नित्यं सत्यम् । तथा चास्थागोचरः । अनित्यत्वमसत्यत्वम्; तद्यस्यास्ति तदनित्यमनृतम् । तथा चानास्थागोचरः । तदेतेष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं सत्यं सुखं व्यवस्थास्यते तत् आस्थागोचरो भविष्यति । यत्त्वनित्यमनृतं भविष्यति, तत् तापत्रयपरीतं त्यक्ष्यत इति । सोऽयं नित्यानित्यवस्तुविवेकः प्राग्भवीयाद्वा, ऐहिकाद्वा कमर्णो विशुद्धसत्त्वस्य भवत्यनुभवोपपत्तिभ्याम्' इत्यन्तेन ग्रन्थेनेति शेषः । "इदं नित्यम्, इदमनित्यम्' इति विशेषनिश्चयाभावेऽपि नित्यत्वानित्यत्व-योर्धर्मिभ्यां भवितव्यमित्येवं योऽयं सामान्यनिश्चयः, स एव नित्यानित्यवस्तुविवेकशब्दार्थ इति भावः । "नित्यस्य धर्मिणो नित्यत्वं सत्यत्वम्' इति पाठः कोशेषु दृश्यते । तत्र "नित्यस्य इत्येतत् स्वरूपकथनपरम् । यस्य धर्मिणो नित्यत्वं सत्यत्वं च तस्योपादेयत्वम्, यस्य धर्मिणोऽनित्यत्वमसत्यत्वम्, तस्य हेयत्वमित्येवं विवेक इति पर्यवसितार्थः । "यस्य धर्मिणः' इति पाठस्तु सुगम एव । निरू-पकस्य तु हेयमिति चेदिति; अनित्यमिति शेषः । आद्यन्तयोरिति । साधानानुष्ठानफलानुभवदशयोरित्यर्थः । तस्यैतन्नैरपेक्ष्याच्च पूर्ववृत्तत्वानुपपत्तिरिति । तस्यागमान्तरस्य ब्राहृविचारनैराकाङ्क्ष्#ापादकत्वादित्यर्थः । अत एवोपसंहारेऽपि तथैव वक्ष्यति- "शास्त्रान्तराणां ब्राहृविचारनैराकाङ्क्ष्#ापादकत्वात्' इति । स्वार्थोपयोगित्वादिति । आरम्भोपयोगित्वादित्यर्थः । तत्रत्यन्यायाधीन इति । आवृत्तिविधानाद्यधीन इत्यर्थः । किंचाद्यसूत्रादेवेति । यद्यपि सूत्रस्य विषयप्रयोजनाधिकारिप्रतिपादनपरत्वेऽपीदृशान्योन्या-श्रयस्य सुवचनत्वात् शास्त्रारम्भोपयोगवर्णनसूत्रमात्रस्योच्छेदप्रसङ्गः तथाप्याद्यसूत्रस्य शास्त्रान्तराप्रामाण्यादिप्रतिपादनपरत्वेन परै-रव्याख्यातत्वादित्यत्र तात्पर्यात् । अत एव "किंच अनित्यफल' इति दूषणान्तरोपन्यासेन स्वर्गादिफलानित्यत्वावगतौ शास्त्रान्त-स्वोत्प्रेक्षिततर्कयोरेवोत्थापनम्, न तु शास्त्रारम्भसूत्रस्येति द्रष्टव्यम् । शास्त्रान्तरदौर्बल्यमेव वा स्वशास्त्रप्राबल्यमेव वेति । स्वशास्त्र-प्राबल्यविनाकृतशास्त्रान्तरदौर्बल्यं वा, शास्त्रान्तरदौर्बल्यविनाकृतस्वशास्त्रप्राबल्यं वेत्यर्थः । समुच्चितमुभयं वेति । शास्त्रान्तराणां दौर्बल्यं स्वशास्त्रप्राबल्यं चेत्यर्थः । स्वशास्त्रस्य दौबल्र्य इति । स्वशास्त्रप्राबल्याभावे शास्त्रान्तरसमानयोगक्षेमत्वादित्यर्थः ।

अत एव दुःखत्रयाभिघातज्ञानस्येति । न च "तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः' इति भाषणात् तद् विरुध्येतेति शङ्कयम्, तस्यापि कर्मविचारजन्यकर्माल्पास्थिरफलत्वज्ञानाभिप्रायत्वेनादोषात् । ननु कर्मविचारजन्यायाः कर्मणामल्पास्थिरफलत्वादिप्र-तीतेरनन्तस्थिरफलाभिलाषस्य च पराभिमतसाधनचतुष्टयसंपत्तिरूपत्वसंभवान्न विरोध इति चेत्, सत्यमविरोधः-तथापि, "अथातः शेषलक्षणम्' इत्यादिवत् पूर्वपूर्वाध्यायविचारस्य पूर्ववृत्तत्वं युक्तमित्यत्र भाष्यकृतः संरम्भात् ।

व्याक्येयस्वभावात् क्रमनियम उक्तः । व्याख्यानस्वभावादपि तत्सिद्धिरिदानीमुच्यत इति । वेदद्वारा व्याख्येययोः कर्मोपा-सनरूपशेषिणोकार्यकारणभावेन पौर्वापर्यात् तच्छेषभूतविचारयोरपि पौर्वापर्यमुक्तम् । अधुना कर्मकाण्डोक्तन्यायोपजीवित्वादस्य शास्त्रस्य पौर्वापर्यमुच्यत इत्यर्थः । इदं प्रदर्शनार्थमुक्तमिति । अयमभिप्रायः-"एषां साधनत्वं च विनियोगावसेयम्' इति भाष्य-पर्यालोचनायां तृतीयाध्यायव्युत्पाद्यश्रुतिलिङ्गादिनिर्णेतव्यसाधनताकत्वात् साधन चतुष्टयस्य तत्पूर्ववृत्तत्वमिति प्रतीयते । न च तद्युक्तम्; तर्कशास्त्रव्युत्पादितप्रत्यक्षप्रमाणतदितिकर्तव्यताभूततर्कादिग्राह्रकारणताकत्वात् कर्मविचारस्य तर्कशास्त्रस्यापि तत्पूर्व-वृत्तत्वप्रसङ्ग इति वाचाटवचसोऽप्यवकाशप्रसङ्ग इ(ङ्गादि?)ति न शङ्कयम्- अत्र व्युत्पाद्यानां बहूनां प्रायेण तन्निर्णयसापेक्षत्वात् तदुपजीवित्वमित्यत्र भाष्यस्य तात्पर्यादिति ।

(पूर्वमीमांसार्थसंग्रहः)

प्रमाणलक्षणं वृत्तमिति । विध्यर्थवादमन्त्रनामधेयस्मृत्याचारवाक्यशेषसामथ्र्यात्मकप्रमाणस्वरूपं वृत्तमित्यर्थः । शास्त्रभेदो वेति । इदं तु गुरुमते द्रष्टव्यम् । भेदहेतव इति । यजति, जुहोति, ददाति इति चोदनासु यजत्यादिधातुभेदरूपेण शब्दान्तरेण यागदानहोमानां भेदः; "समिधो यजति' "तनूनपातं यजति' इत्यादिविधिषु "यजति' इति पञ्चकृत्वोऽभ्यासेनाविशेषपुनःश्रुतिरूपेण प्रयाजानां भेदः "सप्तदश प्राजापत्यान् पशूनालभते' इत्यत्र देवतासंबन्धभेदिन्या सप्तदशसंख्यया तदनुमेययागानां भेदः; "अथैष ज्योतिः' इत्यादि-वाक्येषु ज्योतिरादिनामधेयैस्तन्नामकयागानां प्रकृतज्योतिष्टोमाद्भेदः; "तप्ते पयसि दध्यानयति; सा वैश्वदेव्यामिक्षा । वाजिभ्यो वाजिनम्' इत्यत्रामिक्षारूपगुणान्तरावरुद्धे यागे निवेशमलभमानेन वाजिनगुणेन वाजिनयागस्यामिक्षायागात् भेदः; प्रकरणान्तरेण नित्याग्निहोत्रात् मासाग्निहोत्रस्य भेद इत्येवं शब्दान्तरादिभिर्भेदः प्रतिपाद्यत इत्यर्थः ।

श्रुति लिङ्गेति । निरपेक्षशब्दः श्रुतिः । सा त्रिधा-विधात्री, अभिधात्री,विनियोक्त्#ी चेति । लिङ्गादिश्रुतिर्विधात्री । इन्द्रादिश्रुति-रभिधात्री । विनियोक्त्#ी त्वेकप्रत्ययरूपा, एकपदरूपा, विभक्तिरूपा चेति त्रिधा । तत्राऽऽद्या-"पशुना यजेत' इत्यत्र तृतीया । सा हि स्वोक्तकरणकारकं प्रति स्वोक्तैकत्वरूपसंख्यायाः शेषत्वमर्पयति । द्वितीया, "यजेत' इति पदम् । तेन प्रत्ययोक्तभावानां प्रति प्रकृत्यु-क्तयागस्य शेषतोपनीयते । तृतीया शेषित्वबोधिका शेषत्वबोधिका चेति द्विधा । "व्रीहीन् प्रोक्षति' इत्यादिषु द्वितीया व्रीह्रादीनां प्रोक्षणादिक्रियां प्रतीप्सिततमत्वरूपशेषित्वबोधिका । "क्रीते सोमे भैत्रावरुणाय दण्डं प्रयच्छति' इत्यत्र चतुर्थीश्रुतिः मैत्रावरुणस्य प्रदानक्रियेप्सिततमेन कर्मणाभिप्रेयमाणत्वरूपशेषित्वबोधिका । "अरुणया क्रीणाति' इत्यत्र क्रयभावनां प्रत्यारुण्यस्य, चात्वाला-न्मृदमाहरति' इत्यत्र मृदाहरणक्रियां प्रति चात्वालस्य, "वेद्यां हवींष्यासादयति' इत्यत्र हविरासादनक्रियां प्रति वेद्याश्च तृतीयाप-ञ्चमीसप्तम्यः शेषत्वबोधिकाः । षष्ठी तु क्वचित्, "दध्नेन्द्रियकामस्य जुहुयात्' इत्यत्र शेषित्वबोधिका, "यजमानस्य याज्या' इत्यादौ शेषत्वबोधिका च । संबन्धमात्रऽनुशिष्टायाः षष्ठया योग्यताद्यनुसारेणोभयथापि पर्यवसानसंभवात् । वस्तुसामथ्र्यं लिङ्गम् । तद् द्विविधम्-शब्दसामथ्र्यमर्थसामथ्र्यं चेति । तत्र "बर्हिर्देवसदनं दामि' इति मन्त्रस्य लवनप्रकाशनसामथ्र्यरूपाल्लिङ्गाल्लवनशेषता । "स्वधितिनाऽवद्यति' "रुाुवेणावद्यति' "हस्तेनावद्यति' इत्यवदानसामान्ये साधनत्वेन श्रुतानां स्वधित्यादीनां तत्तत्सामथ्र्यरूपा-ल्लिङ्गात् विशिष्य मांसद्रवद्रव्यपुरोडाशाद्यवदानेषु शेषता । शेषत्वस्य शेषित्वस्य वा बोधिकया श्रुत्या रहितपदसमभिव्याहारो वाक्यम् । यथा "अग्निहोत्रं जुहुयात् स्वर्गकामः' इति; यथा वा "मैत्रावरुणः प्रेष्यति चान्वाह च' इति । न हि होमभावनां प्रति स्वर्गस्य भाव्यत्वेन शेषित्वबोधिका द्वितीयादिश्रुतिः, प्रैषानुवचनं वा प्रति मैत्रावरुणस्य कर्तृत्वेन शेषत्वबोधिका तृतीयादिश्रुतिर्वास्ति । प्रथमा तु प्रातिपदिकार्थमात्रऽनुशिष्टा । अतः पदसमभिव्याहाररूपेण वाक्येन शेषशेषिभावबोधः । विधिवाक्येन कर्तव्यतयावगतस्य "केन प्रकारेण कर्तव्यम् ?' इति विशिष्याज्ञायमानस्येतिकर्तव्यताकाङ्क्षा प्रकरणम् । तद् द्विविधम्-महाप्रकरणमवान्तरप्रकरणं चेति । तत्राद्येन दर्शपूर्णमासादिकं प्रति प्रयाजादीनाम्, द्वितीयेन प्रयाजादिकं प्रत्यभिक्रमणादीनां च तत्तत्संनिधिसमाम्नातानां शेषता । स्थानं द्विविधम्-यथासंख्यं संनिधिश्चेति । तत्राद्येन "दव्धिरस्यदव्धो भूयासम्' इति मन्त्रस्योग्नेयाग्नीषोमीयमन्त्रद्वयमध्याम्नातस्य आग्नेयाग्नीषोमीययागद्वयमध्यानुष्ठेयोपांशुयाजशेषता । संनिधिस्तु आम्नानसंनिधिः, अनुष्ठानसंनिधिश्चेति द्विविधः । आद्येन, "शुन्धध्वं दैव्याय कर्मणे देवयज्यायै' इति मन्त्रस्य महाप्रकरणावान्तरप्रकरणरहितसांनाय्यपात्रप्रोक्षण शेषता । द्वितीयेन पशुधर्माणामग्नी-षोमीयपशुशेषता । समाख्या यौगिकी संज्ञा । सा लौकिकी वैदिकी चेति द्विविधा । "होतृचमसः' इति वैदिकसमाख्यया होतुश्चम-सभक्षणं प्रति, "आध्वर्यम्' इति याज्ञिकप्रसिद्धलौकिकसमाख्यया अध्वर्योरवघातादिकं प्रति च कर्तृत्वेन शेषतेत्येवं सापवादः शेष-शोषिभावस्तृतीयाध्याये प्रपञ्चित इत्यर्थः ।

पुरुषार्थैः क्रत्वर्थानामिति । पुरुषार्थैः क्रतुभिः क्रत्वर्थानामित्यर्थः । शेषिभिः शेषाणां प्रयुक्तिरिति यावत् । शेष्येव विधेयं प्रयुङ्क्त्#ेउस्वसिध्ध्यर्थमनुष्ठापयति, न वनुनिष्पाद्यपि । नापि शेषः शेषिणं प्रयुङ्क्त्#े । अनेकशेषसद्भावेऽपि यत्रान्यप्रयुक्तस्यैवान्यत्र विनियोगः, तत्र यत्प्रयुक्तस्यान्यत्र विनियोगः स एव शेषं प्रयुङ्क्त्#े, न तु शेष्यपि सन्नन्योऽपि । एवं च, "तप्ते पयसि दध्यानयति' इति वाक्ये विधीयमानस्य दध्यानयनस्य द्विकर्मकस्य कर्मान्तराकाङ्क्षायां समभिव्याह्मतं पयः कर्मान्तरत्वेनान्वीयमानं सप्तम्या अधिक-रणत्वेन निर्देशात् प्रधानकर्मतया पर्यवस्यतीति प्रकृतप्रधानभूतपयः परामर्शिना तत्पदेन सामानाधिकरण्येन निर्दिष्टतया पयोरूप-त्वेनावगता आमिक्षैव शेषित्वात् शेषभूतं दध्यानयनमनुष्ठापयति; न तु तदनुनिष्पादि वाजिनमपीत्यामिक्षापचार एव पयोन्तरे दध्यानयनस्य प्रयुक्तिः; न वाजिनापचारे । "कृष्णविषाणया कण्डूयते', "चात्वाले कृष्णविषाणां प्रास्यति' इति कृष्णविषाणायाः कण्डूयनप्रासनरूपक्रियाद्वयान्वये सत्यपि कृष्णविषाणा तृतीयया कण्डूयनं प्रति शेषः; प्रासनं प्रति तु द्वितीयया शेषिणीति निवृत्त-कण्डूयनप्रयोजननिकायास्तस्याः प्रासनात् प्राक् अपचारे प्रासनार्थं न पुनः कृष्णविषाणान्तरोपादानप्रयुक्तिः । "पुरोडाशकपालेन तुषान् उपवपति' इत्यत्र पुरोडाशप्रयुक्तस्यैव कपालस्य तुषोपवापं प्रति शेषत्वेन विनियोगात्, यत्र पुरोडाशो नास्ति न तत्र तुपोप-वापार्थं कपालप्रयुक्तिरित्येवं सापवादा अनुष्ठानशक्तिरूपा प्रयुक्तिर्निरूपितेत्यर्थः ।

श्रुत्यर्थेति । "अध्वर्युर्गृहपतिं दीक्षयित्वा ब्राहृाणं दीक्षयति' इत्यादौ क्तवाश्रुत्या दीक्षयोः क्रमः । "अग्निहोत्रं जुहोति', "यवागूं पचति' इत्यत्र होमपाकयोः प्रयोजनवशात् क्रमः । "समिधो यजति', "तनूनपातं यजति' इत्यादौ पाठक्रमात् क्रमः । "सप्तदश प्राजापत्यान् पशूनालभते' इति विहितप्राजापत्ययागाङ्गभूतेषूपाकरणनियोजनादिषु प्रथमप्रवृत्तोपाकरणक्रमानुरोधेनैव पशुषु नियो-जनादीनां पाश्चात्यानां क्रमः । साद्यस्के सवनीयस्थाने, "सह पशूनालभते' इति सहालभ्यमानेष्वग्नीषोमीयसवनीयानुबन्ध्यपशुषु सवनीयस्थानानुरोधात् सवनीयस्य प्राथम्यम् । "सारस्वतौ (होमौ) भवतः' इति विहितस्त्रीपुंसदेवत्ययोः कर्मणोर्याज्यानुवाक्यावशात् स्त्रीदेवत्यस्य प्राथम्ये स्थिते तदङ्गभूतानामपि प्रधानक्रमेणैव क्रम इत्येवमादि क्रमलक्षणे निरूपितमित्यर्थः ।

अधिकारिनिरूपणमिति । अधिकारः फलस्वाम्यम् । सामान्यातिदेश इति । "तद्वदिदं कर्तव्यम्' इत्यतिदेशः । स च त्रिविधः; यथा-"समानमितरच्छ्येनेन' इति प्रत्यक्षवचनेन श्येनवैशेषिकाङ्गानामिषुनामके एकाहक्रतावतिदेशः । कुण्डपायिनामयनाग्निहोत्रे नाम्ना नैयमिकाग्निहोत्रधर्माणामतिदेशः क्रियते "मासमग्निहोत्रं जुहोति' इति । सौर्यादिषु विकृतिषु "प्रकृतिवदङ्गानि कर्तव्यानि' इत्या-नुमानिकवचनेन सामान्यतोऽतिदेशः सप्तमे निरूपित इत्यर्थः । विशेषातिदेश इति । "अस्य कर्मण इदं कर्म प्रकृतिः' इति प्रकृति-विकृतिविशेषचिन्ता अष्टमे कृतेत्यर्थः । ऊह इति । प्राकृतपदार्थकार्यापन्नवैकृतपदार्थसंबन्धेन मन्त्रसामसंस्काराणामन्यथाभावात्मक ऊहो नवमे चिन्तित इत्यर्थः । बाध इति । कार्यमुखेन विकृतिं प्राप्तानां प्राकृताङ्गानां द्वारलोपप्रत्याम्नानप्रतिषेधपर्युदासैर्निवृत्तिः । यथा कृष्णलेष्ववघातस्य तुषविमोकरूपाद्वारलोपान्निवृत्तिः; कुशैः शराणां प्रत्याम्नानान्निवृत्तिः; "न तौ पशौ करोति' इति प्रतिषेधेनाज्य-भागयोः पशौ निवृत्तिः; महापितृयज्ञे "नार्षेयं वृणीते' इति पर्युदासेनार्षेयवरणनिवृत्तिः इत्येवं बाधो दशमे निरूपित इत्यर्थः । तन्त्र-प्रसङ्गाविति । अनेकप्रधानोद्देश्यकसकृतङ्गानुष्ठानं तन्त्रम् । यथा-दर्शादित्रिकद्वयोद्देशेनानुष्ठीयमानानां देशकालकत्र्राद्यैक्यादगृह्र-माणविशेषताऽङ्गानां तन्त्रेणानुष्ठानम् । अन्योद्देशेनानुष्ठितेनान्यस्योपकारसिद्धिः प्रसङ्गः । यथा पश्वर्थानुष्ठितैरङ्गैः पशुतन्त्रमध्यपाति-पुरोडाशस्योपकारसिद्धिरित्येवमेकादशद्वदशयोस्तन्त्रप्रसङ्गौ चिन्तितावित्यर्थः ।

संकर्षसापेक्षत्वं चेति । "प्रधानवदेव तदयुक्तम्' इत्यत्र "नाना वा देवतापृथक्तवात्' इति न्यायसापेक्षत्वस्याविष्करिष्यमाण-त्वादिति भावः ।

अभ्युच्चययुक्तिरुच्यत इति । अप्रधानार्थस्यापि साक्षात्संगतत्वेन तदपेक्षितत्वात् कर्मविचारस्य पूर्ववृत्तत्वाश्रयणे, अस्मिन् शारीरकशास्त्रे ब्राहृकारणत्वविरोधिशास्त्रान्तरप्रतिक्षेपस्यापि तत्पादे करिष्यमाणस्योपयुक्ततया सकलशास्त्रार्थविचारस्यापि पूर्व-वृत्तत्वप्रसङ्गादभ्यूच्चययुक्तिरित्युक्तम् । "कर्मसमृद्धयर्थत्वे तत्प्रयोजनं तन्निर्वचनात्' इत्येतावद्वाक्यकारवचनं द्रष्टव्यम् । ब्राहृदृष्टि-रूपत्वात् ब्राहृज्ञानसापेक्षणीत्यर्थ इति । यद्यपि न सर्वेषामुद्गीथाद्युपासनानां ब्राहृदृष्टिरूपत्वम्, "लोकेषु पञ्चविधं सामोपासीत', "वृष्टौ पञ्चविधं सामोपासीत' इत्यादौ तदभावात्-तथापि ब्राहृदृष्टिरूपोद्गीथाद्युपासनविशेषाणां ब्राहृदृष्टिरूपत्वात् ब्राहृज्ञानापे- क्षेत्यर्थः । यद्यप्युद्गीथाद्युपासनविशेषा भवन्तु ब्राहृदृष्टिरूपा ब्राहृज्ञानसापेक्षाः । नैतावता "तन्निर्धारणानियमस्तद्दृष्टेः', "अङ्गेषु यथाश्रयभावः' इत्यादिषु क्रियमाणस्योद्गीथाद्युपासने क्रत्वर्थपुरुषार्थत्वविचारस्य ब्राहृज्ञानसापेक्षत्वमस्ति; अपि तु प्रसङ्गान्निरूपणम्-तथापि "ब्राहृदृष्टिरुत्कर्षात्' इत्यादिषु ब्राहृदृष्टित्वपुरस्कारेण प्रवृत्तेषूद्गीथाद्युपासनविचारेषु ब्राहृज्ञानसापेक्षत्वमस्तीत्यभिप्रायः । ननु "ब्राहृदृष्टिरुत्कर्षात्' इति विचारस्य "मनो ब्राहृेत्यूपासीत' इति मनआदिसाधारण्यात् मनआदिस्वरूपशोधकसांख्याद्यागमस्या-प्युपजीव्यत्वप्रसङ्गेन पूर्ववृत्तत्वप्रसङ्ग इति चेत्-न; एतस्याभ्युच्चययुक्तितयैतादृशातिप्रसङ्गस्यादोषत्वात् । ब्राहृविद्यां शीघ्रं संपाद-यन्तीत्यर्थ इति । नच ब्राहृज्ञान सापेक्षाणामेषां ब्राहृविद्योत्पादकत्वं विरुद्धमिति वाच्यम् । आगमोत्थ ब्राहृज्ञान सापेक्षस्य उद्गीर्थापासनस्य न च ब्राहृज्ञानसापेक्षस्योद्गीथोपासनस्य विवेकादिजन्योपासनाङ्गत्वेऽविरोधात् । ततश्च ब्राहृविद्योत्पादकशमद-मादिचिन्तनवदेतच्चिन्तनमप्यत्र संगतमित्यर्थः । अन्यतरापेक्षयोभयापेक्षया वेति । अयं भावः-"ब्राहृजिज्ञासा' इति सूत्रे ब्राहृानु-बन्धिनां सर्वेषां विचार्यत्वं प्रतिज्ञातम् । अतस्तदुपासनतत्फलतदनुबन्धिविचारस्य सर्वस्य प्रतिज्ञाततया तत्संगतिः साक्षात्संगतिः । ततश्चोपासनापेक्षिततयोपासनानुबन्धित्वमप्यस्ति; ब्राहृदृष्टिरूपत्वात् ब्राहृानुबन्धित्वमप्यस्ति । अतः केवलोपासनमात्रानुबन्धि-शमाद्यपेक्षयाप्यभ्यर्हितत्वमिति । कर्माङ्गाश्रयत्वं पूर्वभागविचारसंगतेरिति । अन्ततो गत्वा इदमपि केवलकर्मविद्याङ्गकर्मसाधा-8रणत्वात् साधारणमित्यभिप्रायः । प्रागुक्तसंगतिविशेषविशिष्टत्वात्तयोरिति । ननु कर्मब्राहृविचारयोः पौर्वापर्यविचारदशायां कथं तत्सिद्धवत्कारेण, "न हि कर्मविचारात् पूर्वं ब्राहृविचार उपपद्यते, संगतिविशेषविशिष्टत्वात् तयोः' इत्युक्तिरिति चेत्-न;क्रमवि-शेषनियामकसंगतिविशेषविशिष्टाविरुद्धावान्ततरवाक्यार्थैकप्रयोजनत्वरूपशास्त्रैक्यस्यैव कर्मविचारपूर्ववृत्तत्वे प्रधानयुक्तितया अन्य-स्याभ्युच्चययुक्तित्वेन, सिद्धवत्कृत्य कथने दोषाभावात् । वैषम्यत्रयविशेषिताया इति । उभयापेक्षायाः साम्येऽपि कर्मविचारे कर्तु-मशक्यत्वादुपनिषद्भागविहितत्वाच्च सूत्रकृतेह शास्त्रे विचारितमिति ब्राहृमीमांसाविचारितत्वमेव फलतया वक्तुमुचितम्, न तु ब्राहृ-मीमांसाविचारितत्वमपि हेतूकर्तुमुचितमिति चेत्-न; वैषम्यद्वय एव तात्पर्यादिति केचित् । अन्ये तु सूत्रकाराणां स्वतन्त्रेच्छत्वात् जैमिनिना न कृतम्, बादरायणेन कृतमित्यपि युक्तयन्तरप्रदर्शकं तदिति वदन्ति । नियमेनापेक्षितत्वरूपः प्रधानहेतुरिति । ननु यागस्य देवतोद्देशेन द्रव्यत्यागरूपत्वात् देवताविचार एव सर्वापेक्षया पूर्वभावी किं न स्यात् ? किंच अथशब्दस्य देवताविचारा-नन्तर्यमवश्याश्रयणीयम्, न तु व्यवहितकर्मविचारानन्तयर्मिति चेत्-उच्यते - संकर्षकाण्डोऽप्यविचारितकर्मविशेषविषय एव । जैमिनिर्हि द्वादशलक्षणीं प्रणीय तत्राविचारितांशमालोच्य पुनरपि चतुर्लक्षणीं प्रणिनायेति प्रसिद्धिः । अत एव हि "संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेन' इति वृत्तिग्रन्थोऽपि संगतः । अत एव "प्रदानवदेव' इत्यधिकरणे भाष्ये यत् संवादयोपात्तम् "नाना वा देवता पृथक्तवात्' इति तज्जैमिनीय एव दृश्यते, न तु देवताकाण्डे काशकृत्स्नीये । अतोऽपि संकर्षः कर्मविषय एव । तत्रैव केषांचि-द्देवताकाण्डत्वव्यवहारोऽप्यस्तीति । भाष्ये-सर्वसंमतेति । सर्वेषां संमता सर्वसंमतेति शेषलक्षणषष्ठयाः समासः "क्तस्य च वर्तमाने' इति षष्ठयास्तु, "क्तेन च पूजायाम्' इति निषेधादिति द्रष्टव्यम् । वक्ष्यमाणवस्तुसामथ्र्यान्तर्भूत इति । ततश्च तत्परिहार एवास्यापि परिहार इति भावः ।

अपिनोपपादयिष्यमाणस्येति । अपिर्हि "अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु' इति समुच्चयार्थकत्वेनान्वाचयार्थक-त्वाभावात् पाधान्यार्थक एवेति भावः । यद्वा निपातानामनेकार्थत्वात् प्राधान्यद्योतकत्वमिति भावः । वक्ष्यमाणज्ञात्रादय इति । विशेषपदविवरणरूपास्त इति भावः । विजातीयादिनिवृत्तिपरस्य "सदेव' इत्यादिवाक्यस्य प्रतिज्ञातार्थप्रमाणतयोदाहरिष्यमाणत्वात् विशेषपदस्य विजातीयादिपरत्वमेवोचितमित्यभिप्रायेणाह - विजातीयसजातीयस्वगता वेति । अन्वयिनो व्यावृत्तिरूपाश्चेति । भावरूपा अभावरूपाश्चेत्यर्थः । विशेषसहिष्णोः ब्राहृणः कथं तत्प्रत्यनीकत्वमित्याशङ्कयाह - स्वज्ञानेन निवर्तकमिति । तुच्छता (शून्यता)स्यादिति । सर्वप्रमाणानां सविशेषविषयत्वादिति भावः । ज्ञेयत्वस्याप्यशेषशब्देन क्रोडीकृतत्वान्मात्रचा तद्य्ववच्छेदो व्यर्थ इत्यन्यथा व्याचष्टे - यद्वा प्रत्यनीकेति । "प्रत्यनीकम्' इति निर्देशात् प्रत्यनीकत्वरूपो धर्मोऽनुवर्तत इत्याशङ्काया निवर्तनीयत्वादिति भावः । इदमप्यशेषपदसामथ्र्यात् सिध्यतीत्यन्यथा व्याचष्टे - यद्वा मात्रचा वस्तुतः समस्तेति । न चाशेषविशेषप्रत्यनीकमित्यनेन सिद्धत्वात् पौनरुक्तयं शङ्कयम्, अशेषविशेषप्रत्यनीकमित्यस्याशेषविशेषनिवर्तकज्ञानविषयत्वमित्यर्थः । इह तु सर्वदा तच्छून्यत्व-मुच्यत इति भेदात् । एवकारेण सगुणाब्राहृव्यावृत्ति#ि#ीति । इदमुपलक्षणम् - निर्गुणस्यैव ब्राहृणः पारमार्थिकत्वकथनात् तद्य्वतिरिक्त-सगुणब्राहृादेः प्रपञ्चस्य पारमार्थिकत्वं व्यावत्र्यत इत्यर्थः । उत्तरत्रैवकारस्य तदतिरेकीत्यादिग्रन्थेन तथा विवरणादिति द्रष्टव्यम् । निषेध्यनानात्वं सिध्यतीति दर्शितमिति । नानाशब्दस्य ब्राहृवतिरिक्तनिषेध्येऽपि संभवद्वृत्तिकत्वेन ब्राहृणोऽपि परामर्शस्यानपेक्षि-तत्वादिति भावः । (भाष्ये ?) ज्ञातृज्ञेयतत्कृतज्ञानभेदेति । अत्र ज्ञाता च ज्ञेयं च तत्कृतज्ञानं च ज्ञातृज्ञेयतत्कृतज्ञानानि, तेषां भेदाः; भेदशब्दः प्रत्येकमभिसंबध्यते; अत एवैकैककोटिष्ववान्तरभेदा इति वक्ष्यति । न चैवं भेदशब्दस्य ज्ञानमात्रान्वितत्वप्रदर्शकोत्तर-ग्रन्थविरोध इति वाच्यम्-तेनाप्यन्वयसंभवेन तथा निर्देशोपपत्तेतिरि द्रष्टव्यम् । अनेन वृत्तिस्फुरितेति । अनेनउतत्कृतेति विशेष-णेनेत्यर्थः । तदभावे ज्ञानशब्देन वृत्तिस्फुरितचेतन्यस्यैव ग्रहणं स्यात्, मृषावादि

1.1.1

परमतश्रुत्यर्थः

सदेवेति विजातीयभेदो व्यावत्र्यते; एकमेवेति सजातीयभेदः; अद्वितीयमिति स्वगतभेद इति । यद्यपि "एकमेवाद्वितीयम्' इति वाक्ये एकशब्देन स्वगतभेदनिरासः, एवकारेण सजातीयभेदव्युदासः, अद्वितीयपदेन विजातीयभेदव्युदास इत्येवं परैव्र्याक्या- तम् । उक्तं च -

"वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादितः

वृक्षान्तरात् सजातीयः, विजातीयः शिलादितः ।।

सदसद्वस्तुनोभेर्ददत्रयं प्राप्तं निषिध्यते ।

ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ।।

इति-तथाष्यस्यापि प्रकारस्य तत्र तत्र व्याख्यातत्वादित्थमुपन्यस्तम् । अत एव शंकरभाष्ये कल्पतरौ च, "सदेवेति सृष्टेः प्राक् नामरूपादि व्यावत्र्यते; एकमेवेत्यनेन महदादिकं स्वकार्यपतितं नास्तीति निषिध्यते; अद्वितीयमिति निमित्तान्तरं निषिध्यते' इत्युक्तम्; नाधिकम् । (ननु ) "वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादितः' इति स्वगतभेदस्य पत्रपुष्पादिप्रतियोगिकत्वप्रतीत्या पत्रपुष्पादिलक्षणो भेद इति न प्रतीयते; अपितु तत्प्रतियोगिकभेद एव प्रतीयते । अत्र ग्रन्थे तु सजातीयरूपो विजातीयरूपो भेद इत्युच्यते । कथमनयो रैकाथ्र्यमिति न चोदनीयम् (?)-तथापि परव्यवहारदर्शनाददोष इति द्रष्टव्यम् । तस्यैव प्रपञ्चनादिति । "यथोर्णनाभिः' इत्यादिना भूतयोनित्वस्यैव प्रपञ्चनादित्यर्थः । यस्येति । यस्य ब्राहृ अमतम्उअविष्य इति निश्चयः, तस्य तद्व्रहृ मतम्उसम्यक् ज्ञातम्; यस्य तु विषयतया ब्राहृ मतम्, न स ब्राहृ वेद; अविज्ञातम्उविज्ञानतां विषयत्वेनाविज्ञातम्; यथावदविजा-नतां विषयत्वेन विज्ञातमित्यर्थः ।

ज्ञातृत्वनिषेधपरमिति । यद्यपि "न दृष्टेः' इत्यस्य दृष्टेःउचक्षुर्जन्याया अन्तःखरणवृत्तेः द्रष्टारम्उस्वरूपभूतचैतन्येन व्याप्तारं तस्या अपि भासकं तद्भास्यया चक्षुर्जन्यया अन्तःकरणवृत्त्या न पश्येः । प्रत्यगात्मा तद्गोचरो न भवतीति ज्ञेयत्वं प्रतिषिध्यत इत्येव परैरर्थोऽभिहितः-तथापि ज्ञेयत्वप्रतिषेधे ज्ञातृत्वनिषेधस्यापि सिद्धिमभिप्रेत्योक्तं ज्ञातृत्वनिषेधपरं वाक्यमाहेति । केचित्तु-मृषावाद्येकदेशिभिस्तथा व्याख्यातम्; तदनुसारेणैतदुक्तम्; योजनानन्तरं तु सिद्धान्ते, "किं दृष्टेरिति पञ्चमी षष्ठी वे' ति विकल्प- मुखेन स्पष्टीकरिष्यतीति न तदनुपपादनं दोष इति मन्यन्ते ।

सामानाधिकरण्येनेति छेदः । सामानाधिकरण्यं हि बाधार्थं दृष्टमिति । सामानाधिकरण्यं हि चतुर्धा-अध्यासे सामानाधि- करण्यम् । अपवादे सामानाधिकरण्यम् । विशेषणविशेष्यभावे सामानाधिकरण्यम्; ऐक्ये सामानाधिकरण्यं चेति । अध्यासे सामानाधिकरण्यम् "नाम ब्राहृेत्युपासीत' इत्यादौ । अपवादे सामानाधिकरण्यं नाम्, "यद्रजतमभात् सा शुक्तिः' इति; पूर्वोत्पन्नरजतप्रतीत्यपवादार्थत्वात् सामानाधिकरण्यस्य । इदमेव हि बाधार्थसामानाधिकरण्यमित्युच्यते । विशेषणविशेष्यभावे सामानाधिकरण्यं नीलमुत्पलमित्यादौ । ऐक्ये सामानाधिकरण्यं कोकिलः पिक इत्यादौ ।

विकारो घटादिसंस्थानं नामधेयं चेति । अत्र चः एवार्थः; स्वार्थे च धेयप्रत्ययः; नामधेयं च नाममात्रमेव हीत्यर्थः । एवं हि शरीरकशांकरभाष्यम्-"वाचारम्भणं विकारो नामधेयम् । वाचा केवलमस्तीत्यारभ्यते विकारः, घटः शराव उदञ्चनं चेति । न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्रेतदनृतम्; मृत्तिकेत्येव सत्यम्' इति । अतोऽयमपि ग्रन्थस्तदनुवादत्वात् तदनुगुण एव नेतव्यः । ननु, "अथ तस्य भयं भवति' इति वाक्यस्य, (स्यापि), "मृत्योः स मृत्युमाप्नोति' इति वाक्यानन्तरमुपा- दानं युक्तम्, अनर्थप्रतिपादकत्वसाधारण्यादित्यत्राह - यदा ह्रेवेत्यादेरिति । एकन्यायपरिहार्यत्वादिति । अब्राहृात्मकनाना-त्वनिषेधपरत्वेन परिहार्यत्वादित्यर्थः । अभयलिङ्गत्वं साकारत्वं निराकारत्वं चेति पाठः । "न स्थानतोऽपि' इत्यधिकरणे श्रुति- बलात् सविशेषत्वनिर्विशेषत्वरूपलिङ्गद्वयसमुच्चय इति पूर्वपक्षस्य निरस्तत्वादिति द्रष्टव्यम् । केचित्तु-उभयलिङ्गत्वं साकारनिरा-कारत्वं साकारत्वं चेत्यन्वयः । तस्मिन्नधिकरणे उभयलिङ्गत्वरूपस्य साकारनिराकारत्वस्यान्यतरलिङ्गत्वसमाश्रय (त्वत्वानाश्रय?) णेऽपि केवलसाकारत्वपक्षस्य (साकारनिराकारत्वपक्षस्य) च प्रतिक्षिप्तत्वात् तथोक्तम्; न तूभयलिङ्गशब्दार्थतयेति वदन्ति । दुर्निरूप (स्वरूप ) त्वात् बाधितत्वादित्यर्थ इति । बाधितदेशकालनिमित्तकत्वादित्यर्थः । न तावत् स्वाव्पापवरकनिद्राणपुरुष-

दृश्यमानैककोणविश्रान्तगिरिनदीसमुद्रादीनां मुहूर्तमात्रशयितपुरुषानुभूयमानविवाहपुत्रोत्पादनतदुपलालनादीनामुचितो देशः कालो वा संभवति । न वा तदुत्पत्तौ ज्ञप्तौ वोचितं निमित्तमस्ति । अतो देशकालनिमित्तानां दुर्निरूपत्वेन बाधेतत्वान्मिथ्यात्व-मित्यर्थः । स्वाप्नार्थमिथ्यात्वप्रदर्शकसूत्रोपन्यासस्य प्रपञ्चमिथ्यात्वप्रसाधनदशायामसंगतिमाशङ्कयाह - स्वाप्नार्थमिथ्यात्व- मिति ।

परमतपुराणार्थः

"प्रत्यस्तमितभेदम्' इत्ययं श्लोकः षष्ठांशे सप्तमेऽध्याये योगप्रकरणे केशिध्वजवचनम् । "ज्ञानस्वरूपम्' इति श्लोकस्तु प्रथमां-शद्वितीयाध्याये नमस्कारश्लोकः । "परमार्थस्त्वमेवैकः' इतीयं चतुःश्लोकी प्रथमांशे चतुर्थेऽध्याये रोमान्तरस्थानां मुनीनामादि-वराहस्तुतौ । "तस्यात्मपरदेहेषु' इति श्लोकः "वेणुरन्ध्रविभेदेन' इति श्लोकश्च द्वितीयांशे चतुर्दशाध्याये आदिभरतश्लोकौ । "यद्यन्योऽस्ति' इति श्लोकस्तत्रैवांशे त्रयोदशाध्याये आदिभरतश्लोकः । "सोऽहं स च त्वम्' इति श्लोकस्तत्रैवांशे षोडशायाये आदिभरतोपदेशान्ते श्लोकः । "विभेदजनके' इति श्लोकः षष्ठांशे सप्तमाध्याये केशिद्वजस्य योगप्रकरणान्तरे वचनम् । "ज्ञानस्व- रूपः' इत्यादिश्लोको द्वितीयांशे द्वादशाध्याये पठितः ।

मिथ्यात्वलक्षरम्

शक्तिमदीश्वरादिसंकल्परूपज्ञाननिवत्र्ये इति । शक्तिमान् य ईश्वरः, तत्संकल्परूपज्ञाननिवत्र्य इत्यर्थः । शक्तिसहकृतज्ञाननिवत्र्य इति यावत् । ज्ञानमात्रनिवत्र्यत्वस्य विवक्षितत्वादिति । अत एव छत्रपादुकादिवैधुर्यरूपनियमसहकृतसेतुदर्शननिवत्र्यपापादौ नातिव्याप्तिः । प्रबलभ्रान्तिज्ञाननिवत्र्येति । निवृविर्हि स्वाभावः; स च कल्पिताकल्पितसाधारणः । ततश्च भ्रान्तिज्ञानेन प्रबलेन "शुक्तिः (सजतं?) नास्ति' इति कल्पना भवत्येवेति कल्पितोऽभावस्तज्जन्य इति तन्निवत्र्यत्वं सत्यरजतस्योपपद्यते । यद्वा "नास्ति' इति प्रतीयमानत्वमेव निवृत्तिः; सा च सत्यरजतस्यापि संभवतीति भावः । न तु निवृत्तत्वमितीति । यद्यपि निवृत्त-त्वमित्युक्ते निवर्तिष्यमाणमिथ्यापदार्थाव्याप्तिः, तथापि ज्ञानजन्यनिवृत्तिप्रतियोगित्वमिति नोक्तमित्यत्र तात्पर्यात् । प्रतीयमान-त्वयतावस्थितज्ञाननिवत्र्यत्वखण्डद्वयेन ख्यातिबाधपर्यवसितेन तत्साध्यमसद्विलक्षणत्वे सति सद्विलक्षणत्वं लक्ष्यते; अतस्तदेव हि लक्षणं विवक्षितमिति स्वसिद्धान्तमाविष्करोति - अनेन लक्षणेन सदसद्वैलक्षण्यं फलितमित्यादिना ।

सर्वज्ञत्वादिगुणकत्वेन प्रतीते ब्राहृणि कथं वाऽध्यास इति । ननु सर्वज्ञस्याध्यासद्रष्टृत्वेन परं विरोधः, न त्वध्यासाधिष्ठानत्वेन; न च सर्वज्ञत्वादिगुणकत्वेन प्रतिपन्नत्वं किंचिज्ज्ञत्वाध्यासाधिष्ठानत्वविरुद्धमिति वाच्यम्-अधायासदशायां तथा प्रतीत्यभावात् । ततश्च कथमयमाक्षेपः? कथं वा सर्वज्ञत्वगुणानन्वयेन परिहार इति चेत्-न; सर्वज्ञत्वादिगुणकत्वस्य कल्पितत्वेन कथमध्यासाधि-ष्ठानत्वमिति चोद्याभिप्रायसंभावात् ।

अविद्यारूपदोषनिरूपणम्

एकस्या एवावस्थाद्वयमिति । अंशद्वयमित्यर्थः । नात्र बहुवचने तात्पर्यमिति । येन तद्वहुत्वं प्रामाणिकं स्यादिति भावः । अदितिः पाशानिति । अग्नीषोमीयपशौ, "अदितिः पाशान् प्रमुमोक्तु' इति बहुवचनान्तपाशशब्दयुक्तमन्त्रः श्रूयते । स किं पशु-गणेषूत्कूष्यते, उत प्रकृतावेव निवि#ात इति विशये, एकस्मिन् पाशे बहुवचनस्यान्याय्यत्वात् बहुपाशवत्सु पशुगणेषूत्कृष्यत इति प्राप्ते-"प्रकृत्यर्थस्य पाशस्य विभकत्यर्थस्य कमर्णश्चाग्नीषोमीय एव संभावादप्रदानभूतसंख्यानुरोधेनोत्कर्षासंभावात्, पाशसंख्या अविवक्षिता; अतो निर्देशमात्रार्थं बहुवचनमिति, "विप्रतिपत्तौ विकल्पः स्यात् समत्वात् गुणे त्वन्याय्यकल्पनैकदेशत्वात्' इति नवमे (पू.मी.9-3-15) व्यवस्थापितमित्यर्थः । प्रकृतिरुच्यत इति शङ्कायामिति । सांख्यमतप्रत्यभिज्ञानादिति भावः । मायां तु प्रकृतिं विद्यादिति । मायां सदसद्विलक्षणामविद्यां प्रकृतिम्उउपादानं विद्यादित्यर्थः । "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादौ प्रकृतिशब्दस्योपादनार्तत्वदर्शनात् परैरपि तथा व्याख्यातत्वाच्चेति द्रष्टव्यम् । केचित्तु प्रकृतिं मायां मिथ्याभूतां विद्यादित्यर्थ इत्यप्युद्देश्योपादेयभावं वर्णयन्ति । दोषप्रतिपादनतत्पराणामिति । निर्विशेषस्यापि ब्राहृणः प्रपञ्चाधिष्ठानत्वं दोषवशादिति वक्तुं प्रवृत्तानाम्, "इन्द्रो मायाभिः' इत्यादीनां न भेदप्रतिपादनेऽपि तत्परत्वं संभवतीति भावः । सहपठितस्वगतनानात्वमिति । तथा हि सति सजातीयविजातीययोः संग्रहो न स्यादिति भावः । उपपाद्यप्रमेयाधिक्याभावादिति । जगदुपलब्धिरूपमिथ्यात्वोपपाद-कप्रकारभेदे सत्यष्युपपादनीयांशभेदाभावादित्यर्थः ।

अविद्याया ऐक्यज्ञाननिवत्र्यत्वम्

अभयम्उअभयार्थमिति ।अथोभावे "अव्ययम्' इति समासः । ततश्चतुथ्र्याः "नाव्ययीभावात्' इत्यम्भावे रूपम् । यथोपासनं हीति । यद्यपि मृषावादिमते ब्राहृज्ञानं नोपासनात्मकम्, तथापि तुल्यन्यायतया यथाज्ञानं फलमित्येवम्परं तदिति द्रष्टव्यम् । तद्धेतुभूताविद्येति । मोहहेतुभूतयथावदप्रतिपत्तिलक्षणानवदानरूपेत्यर्थः । ऐक्यविषयतां ज्ञापयितुमिति । पारमार्यिकैक्यविष- यतां दर्शयितुमित्यर्थः । ततश्च, आत्मेत्येवोपासीत' इत्युपासनविधिवाक्यनिर्दिष्टमैवयं स्वरूपोपदेशपरवाक्यप्रमितत्वात् पारमार्थि-कमिति भावः । उपदेशानुगुणमुपासको देवतां प्रत्याहेति । "तत्त्वमसि' इति छान्दोग्यवाक्यगतस्यैवयप्रतिपादनपरत्वादेव, "त्वं वा अहमस्ति भगवो देवते' इति जाबालवाक्यं "तद्योऽहं सौऽसौ' इत्यैतरेयवाक्यमपि तदनुगुणं दृश्यत इति भावः । न तु "तत्त्व- मसि' इत्युपदेशानन्तरम्, "त्वं वा अहमस्मि' इति देवतां प्रति प्रतिवचनमिति मन्तव्यम्, उभयोरपि भिन्नप्रकरणस्थत्वात् । आत्म-त्युपासीतेति । आत्मेति प्रतिपद्येतेत्यर्थः । अत एव हि शांकरभाष्ये, "आमेति प्रतिपत्तव्यः' इत्युक्तम्, तस्य सूत्रस्य मृषावादिमते वास्तवात्मत्वसमर्थनपरत्वेन, "आत्मेत्युपासीत्' इत्यात्मत्वेनोपासनसमर्थनपरत्वाभावात् । केचित्तु-वस्तुत आत्मानमेव आत्मे-त्युपासीतेत्यर्थः ; ततश्च वास्तवात्मत्वसमर्थनद्वारा आत्मीपासनस्य प्रतीकोपासनत्वव्यवच्छेदश्च सिध्यति । तस्य सूत्रस्य वास्त-वात्मत्वसमर्थनद्वारा प्रतीकोपासनत्वव्यवच्छेदपरत्वादित्याहुः ।

प्रत्यक्षविरोधे शास्त्रप्राबल्यम्

"ननु च सकलभेदनिवृत्तिः प्रत्यक्षविरुद्धा' इति भाष्यस्यायमर्थः-सकलभेदाभावः प्रत्यक्षविरुद्धः शास्त्रजन्यज्ञानेन कथं विषयी- क्रियते? कथं शास्त्रपतिपाद्यः स्यादिति । एवमुत्तरत्रापि द्रष्टव्यम् । दुष्टकारणजन्यत्यतद भावौ बाध्यबाधकभावे प्रयोजकाविति शङ्कायामिति । अयमर्थः-क्कचिन्मूलमूलिभावः, क्कचित् परोक्षत्वादिः, क्कचिद्विपरीतप्राबल्य(दौर्बल्य)हेतुराहित्यलक्षणतुल्यत्वे सति दुष्टकारणजन्यत्वतदभावाविति । उत्तरत्र सर्वेषां प्रयोजकानां निरसिष्यमाणत्वात् । तुल्यत्वे सति दुष्टकारणजन्यत्वतद-भावयोर्बाध्यबाधकभावप्रयोजकत्वे शङ्किते तुल्यत्वस्य प्रयोजकत्वनिराकरणमनुचितमित्याशङ्कय व्याचष्टे-तुल्यत्वे सति दुष्टकारणेत्यादि । तुल्यशब्दः प्रयुक्त इति । तुल्यत्वशब्दः प्रयुक्त इत्यर्थः । तुल्यशब्देनैकदेशोपादानमिति । तुल्यत्वस्यापि हेतुत्वप्रसत्तिसद्भावेन तन्निषेधार्थं तुल्यत्वशब्देन विशेषणांशोपादानं युज्यत इत्यर्थः । तुल्यत्वे सतीत्यस्य विवरणं विपतीतप्रा-बल्यदौर्बल्यदौर्बल्यकारणाभावे सतीति । तुल्यत्वशब्देन विशेषणमाचिना विशिष्टोपस्थानं क्लिष्टमित्यस्वरसादाह - यद्वा अप्रयोजकत्वेनेति । तुल्यत्वं दृष्टान्ततयानूदितमिति । केवलतुल्यत्वमित्यर्थः । तर्हि प्राधान्येन शङ्कितस्य तुल्यत्वे सति दुष्ट-कारणजन्यत्वदभावरूपप्रयोजक्स्यात्रानुपादानात् तस्याप्रयोजकत्वं न प्रतिपादितं स्यादित्याशङ्कय, आदिशब्देन तदुपादानमि- त्याह - वैषम्यान्तराभावे सतीति । विविधविकल्पशब्दः प्रपञ्चविशेषणं भेदविशेषणं वेति । षष्ठीसामासपक्षे प्रपञ्चविशेषणम्; कर्मधारये तु भेदविशेषणमिति भावः । कार्याविद्येति । उक्तं हि वाचस्पतिना आद्यपादे-"अनिर्वाच्याविद्याद्वितयसचिवस्य' इति । तद्वयख्याने च, "एकाऽनादिर्भावरूपा देवताधिकरणे वक्ष्यते; अन्या च पूर्वपूर्वविभ्रमसंस्कारः' इति । शंकरभाष्ये च "एवमविरुद्धः प्रत्यगात्मन्यनात्माध्यासः । तमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते' इति भेददर्शनस्याविद्यात्वमावि- ष्कृतम् । अन्यपरमिति परस्याभिप्राय इति । अन्यपरम्, अतो न प्रत्यक्षबाधकमिति परस्याभिप्राय इत्यर्थः ।

अभेदश्रुतिप्राबल्यम्

ननु भेदाबलम्बिनो बाध्यत्वं प्रसज्येतेत्यापादनं न संभवति, तस्येष्टापादनत्वादित्याशङ्कय, तस्यापि बाद्यत्वे तत्प्रयोजकं दुष्ट-कारणजन्यत्वमपि स्यादित्यनिष्टापादनमाहेत्याह - थन्निर्दोषमुक्तमिति । दुष्टकारणजन्यत्वेऽनङ्गीकार इति । ननु-बध्यत्वं वक्तव्यम्; दुष्टकरणजन्यत्वं च न संभवति; अतः कथं निर्वाह इति चोदिते, सत्यमित्युक्तेर्बाव्यत्वमङ्गीक्रियत एव; दुष्टकारणज- न्यत्वं नास्तीति यदुक्तं तदप्यङ्गीक्रियते; यदुक्तं "कथं निर्वाहः' इति तन्नङ्गीक्रियत इत्येव वक्तव्यम्; कथं दुष्टकारणजन्यत्वेऽनङ्गी- कार इत्युक्तिरिति चेत्-न; "कथं निर्वाहः' इत्यस्य दुष्टकारणजन्यत्वमपि स्यादित्यत्र पर्यवसानमिति प्रगुपपादितत्वेनादोषात् । वस्तुततस्तु ज्योतिष्टोमादिवाक्ये भेदेवासनारूपदोषस्य वा तात्पर्यभ्रमरूपपुरुषापराधदोषस्य वा सत्त्वेन दुष्टकारणजन्यत्वमस्ती- त्यत्र तात्पर्यम्; दोषाभावेऽप्यप्रमोत्पत्तावप्रमायस्य स्वतस्त्वप्रसङ्गादिति बोध्यम् । केचित्तु-भेदवासनारूपदोपजन्यतया भेदप्रत्य- क्षस्य बाध्यत्वे ज्योतिष्टोमादिवाक्यजन्यभेदज्ञानस्यापि भेदवासनारूपदोषजन्यतया बाध्यत्वं स्यात्; न चेष्टापत्तिः, अपौरुषेयत्वेन निर्दोषत्वस्य त्वयैव प्रतिपादितत्वादित्याशयेन शङ्कत इत्येवं "ननु च' इत्यादिभाष्यावतारिकामाहुः । अस्मिन् पक्षे, "भेदावल-

म्बिनः' इत्यादिभाष्यस्वारस्यमस्ति । ग्रन्थस्यानिर्धारितान्यतरबाध्यत्वपरत्वे तत् पीड¬ेतेत्यादि द्रष्टव्यम् । प्रमित्युत्पत्तिक्रमा- दिति । एतस्य प्रयोगशास्त्रतया प्रतिप्रयोगमावृत्त्यैव बोधकत्वात् प्रयोगभेदानयप्रमितिनिबन्धनं परैर्वापर्यं सुवचमिति भावः । एक- स्मिन् प्रयोगे यौगपद्येनापच्छेदे सतीति । यदोद्गातृप्रतिहत्र्रोर्युगपदपच्छेदो भावति, तदा किं प्रायश्चितं वर्तव्यं न वेति शंशयः । तत्रोभाभ्यां क्रियमाणोऽपच्छेदो नैकेन व्यपदेषुं शक्यते । तस्माद्यौगपद्ये निमित्तविधातात् प्रायश्चितं न कर्तव्यमिति पूर्वपक्षे प्राप्ते,

"स्यादेवम्, यदि सापेक्षं कर्तृत्वमुभयोर्भवेत् ।

एकैकस्य तु यत्वेन निरपेक्षेण ज्ञायते ।।

विच्छेदस्तेन कर्तृत्वं द्वयोः प्रत्येकमस्ति नः ।' (शास्त्रदी)

कालमात्रं परमेकम् । अतः प्रायश्चित्तं कर्तव्यमिति ("कालमात्रं तु तत्रैकं प्रायश्चित्तमतो भवेत्' इति? ) व्यवस्थापितं षष्ठे (6-5-49) "विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते' सत्यत्रेति भावः । ननु "तन्न विप्रतिषेधात् विकल्पः स्यात्' इति विकल्पस्यैव सिद्धान्तितत्वाद्विरोध इत्यरुचेराह - विकल्पेनानुष्ठानं वेति । पूर्वशास्त्रमुत्तरोत्पत्तिप्रतिबन्धकं किं न स्यादिति । असंजात-प्रतिपक्षतया प्रक्रमस्य प्राबल्यमित्युपक्रमाधिकरणन्यायादित्यर्थः । निमित्तस्योत्पन्नत्वादिति । निमित्ते हि सति तन्निमिवमपि शास्त्रं दुर्वारप्रवृविकमेव, तस्यैव तत्सामग्रोत्वात् । तत्र विरोधिनि जाते सति यदुत्तरं विरोध्यवश्यं जायते तत् पूर्वोपमर्दकतयैवोदे- तीति स्वभावसिद्धम् । अतो वस्तुस्वभावादुत्तरं शास्त्रं पूर्वधीस्थोपमर्दनादेव स्वार्थधीकारणम् । पूर्वं तु जायमानं कस्यचिद्विरोधि- नो न बाध्यतया नापि बाधकतया जायते; किंतु स्वरूपेणैव । तत्रैकस्मिन् प्रयोगे द्वयोः शास्त्रार्थयोरशक्तेर्यस्योपमर्दरतस्य बाध्य- त्वम्, यस्योपमर्दकत्वम्, तस्यावाधकत्वमेव युक्तमिति भावः । पूर्वसिद्धार्थस्योत्तरशास्त्रेणान्यथाकरणं न संभवतीति श्रद्धालुं प्रति नैमित्तिकशास्त्रप्रतिबन्दीमाह - किंच यथोदितेति । पूर्वसिद्धार्थान्यथाकरणप्रकरणत्वादिति । प्रकरणं प्रक्रिया; प्रकार इति यावत् । नित्यपूर्वसिद्धानत्यप्रयोगान्यथाकारिपूर्वनैमित्तकशास्त्रतुल्यशीलत्वादिति भावः । यदि तूत्तरशास्त्रं पूर्वशास्त्रं न बाधेन, नैमित्तिकशास्त्रमपि नित्यशास्त्रं न बाधेतेत्यर्थः । पाठक्रमस्य स्पष्टतया अनुपपादनीयत्वादर्थक्रममुपपादयति - त्रिवर्गफलत्वेनेति । तत्त्वपरस्य हि मुमुक्षेति । निमित्तपौर्बापर्यान्नैमित्तिकशस्त्रपौर्वापर्यवदधिकारिपरैर्वापर्यात् परैर्वापर्यमिति भावः । मुमुक्षानन्तर-भाविविचारितवेदान्तवाक्यजन्यज्ञानस्यानादिप्रवृत्तकर्मकाण्डादिजन्यनिखिलभेदज्ञानोपमर्दरूपप्रयोजनाय प्रवृत्तत्वाद्वेदान्त-वायानामित्यत्र तात्पर्यम् । अतश्च मृषावादिमते कर्मविचारस्य प्राक् प्रवृत्तिनियमाभावात् तद्भेदोपमर्दो न स्यादिति दूषणम- लग्नकं वेदितव्यम् । नन्वपच्छेदन्यायो नावतरतीति वदन्तं प्रति तत्फलस्य दर्शनादित्युक्तिरसङ्गता; न हि तत्फलभूतनिर्गुणत्व-प्रतीतिदशर्नं परसंप्रतिपन्नमित्यत आह - जक्षत् क्रीडन् रममाण इत्यादि इति । निरूपको हि निर्गुणपरब्राहृवेदनाधिकारिति ।

"निर्विशेषं परं ब्राहृ साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकस्ष्यन्ते सविशेषनिरूपणैः ।।

वशीकृते मनस्येषां सगुणब्राहृशीलनात् ।

तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् ।।'

सत्युक्तेरिति भावः । यद्वा यः सर्वज्ञ इत्यादिवाक्यानामपीति । अस्यां योजनायाम्, "सगुणब्राहृोपासनपराणाम्', "ब्राहृस्वरूप-प्रतिपादनपराणाम्' इति वाक्ये वैलक्षण्येन निर्देशस्यास्वारस्यम् । किं च "उपासनपराणाम्' इत्यस्य सर्वेषामुपासनपरत्वादित्य-भिप्रायाश्रयणं च क्लिष्टमिति द्रष्टव्यम् ।

सत्यज्ञानादि समानाधिकरणवाक्यार्थः

अन्यथा व्द्येकेष्विति हि वक्तव्यमिति । द्वयोरेकस्य च बहुत्वोपजनकत्वादिति भावः । "एकस्मिन्नर्थे वृत्तिः' इत्यत्रैकशब्दस्यैक-त्वसंख्या-प्रधानत्वान्यत्वादिवाचित्वसंभवाल्लक्षणस्य न सम्यक्त्वमित्याशङ्कय समानपदव्याख्यानत्वादेकशब्दस्य विवक्षितार्थ- लाभः संभवतीत्यभिप्रायेण समानाधिकरणशब्दयोरर्थमाह - समानमेकमधिकरणमिति । ततश्च, "भिन्नप्रवृत्तिनिमित्तानाम्' इति सामानाधिकरण्यनिरुक्तिव्याख्यानसमये, "एकस्मिन्नर्थे' इत्यस्मिन्नंशे व्याख्यातव्ये समानाधिकरणशब्दव्याख्यानं न संगतिमिति शङ्का पराकृता । समानशब्दसामथ्र्यादेकशब्दः साधारणपर इति । न चैवमन्योन्याश्रय इति वाच्यम्; परस्परसाहचर्यस्य "गुरु-भार्गवौ' इत्यादावर्थविशेषप्रतिपादकत्वदशर्नादिति भावः । न चैकशब्दस्यैकसंख्यापरत्वे कानुपपसिंख्यापरत्वे कानुपपत्तिः? नीलोत्पलशब्दयोरेकत्वसंख्याश्रयाथर्वृत्तित्वसंभवादिति वाच्यम्; "बहून्युत्पलानि' इति शब्दयोरेकत्वसंख्याश्रयभूतार्थवअत्तित्वा-

संभवेन सामानाधिकरण्याभावप्रसङ्गत् । अत एव, "समानकर्तृकयोः पूर्वकाले' इत्यत्रापि सामानशब्दार्थभूतमेकत्वमपि साधा-रणत्वमेव; न तु संख्याविशेषरूपम्; "पक्त्वा भुक्ते' इत्यादौ कर्तुरेककत्वसंख्याश्रयत्वाभावादिति द्रष्टव्यम् । इदं च शङ्कापरि-हारव्याजेत; "ननु नीलान्युत्पलानि' इत्यत्र स्पष्टयिष्यते । पूर्वोक्तार्थः साधीयानिति । विवक्षितार्थविशेषाणां शाब्दत्वसिद्धेरिति भावः । तत्स्था समानविभक्तिर्विशेष्यैक्यपरेति । नन्वेवं विशेषणविभक्तेरैक्यार्थकत्वे निषाधस्थपत्यधिकरणविरोधः; षष्ठी- तत्पुरुषे लुप्तविभक्तयर्थे प्रातिपदिकलक्षणावत् विशेषणविभक्तयर्थे ऐक्ये निपादपदलक्षणाया अङ्गीकर्तव्यत्वात् । तस्माद्विशेषण-विभक्तेः साधुत्वार्थकत्वमेव; न त्वैक्यार्तकत्वमिति चेत्-न; ऐवयस्य विभत्तयर्थकत्वेऽपि तत्र प्रातिपदिकलक्षणायां प्रमाणाभा- वात् । विग्रहसमासयोः समानार्थत्वनियमाभावात् । षष्ठीतत्पुरुषे संबन्धस्य शाब्दबोधे प्रकारतया भानस्यानुभवसिद्धत्वेन तदर्थं लक्षणाश्रयणेऽपि कर्मवारर्यऽभेदस्य संसर्गमर्यादया भानस्यैवानुभवसिद्धत्वेन न तत्र लक्षणेत्याशयात् । केचितु-"एकस्मिन्नर्थे वृत्तिः' इत्यस्यैकार्थवृत्तिमद्विभक्तिद्वयवत्वमित्यर्थः । ततश्च विशेषणविभक्तेर्विशेष्यविभक्तयार्थैवयात् विशेष्यविभक्तयर्थानुवा- दितया साधुत्वमात्रार्थत्वमेव । "विभक्तयैक्यबोधनं वृत्तिशब्देन विवक्षित' मित्यस्यापि तत्रैव तात्पर्यम् । अत एव "घटस्य स्व- रूपम्' इत्यादावपि नातिप्रसङ्गः; तत्र विभक्तयोर्मिन्नार्थत्वात् । नन्वेवं "देवदत्तः पचति' इत्यत्र सुप्तिङोः सामानाधिकरण्यं न स्यात्, तिङो यत्रादिरूपातिरिक्तार्थाभिधायित्वादिति चेत्-नः तत्र सामानाधिकरण्यव्यवहारस्यामुख्यत्वादिति वदन्ति ।

एकशब्दस्य साधारणार्थत्वमुक्तं विस्मृस्य चोदयति - ननु नीलान्युत्पलानीति । समभिव्पाह्मतपदान्तरेति । समनिव्पाह्मतपदा-न्तरोपस्थोपिताकारान्तराधिकरणवृवित्वमेवैकाथवृत्तित्वम्; न तु व्यक्तिद्वयावृत्तित्वमित्यर्थः । नीलत्वानधिकरणेषूत्पलत्वं वर्तत इति 1 नीलावानविकरणेष्वेवोत्पलत्वं वतर्त इत्यर्थः । खलेकपोतिकान्यायेन युगपदुपस्थितानामन्वय इति पक्षे आह - संभवेऽपि विशेषणानामिति । प्रवृत्तिनिमित्तभेदाभावेन सामानाधिकरण्यलक्षणहानिश्चेति । अत्र केचित्-"प्रवृत्तिनिमित्तभेदाभावेन' इत्येतत् पर्यायत्वे, पदान्तरवैयथ्र्येऽपि हेतुः; अतः काकाक्षिन्यायेन पूर्वत्राष्यन्वयो वक्तव्यः; एवमुत्तरत्रापि । न च सत्यत्वज्ञान- त्वादीनां प्रवृत्तिनिमित्तानां भेदस्य सत्त्वात् कथं पर्यायत्वमिति वाच्यम्, सत्यत्वादीनां शुद्धादन्यत्राभावेन सत्यादिवाक्यानां लक्ष- णया स्वरूपमात्रपरत्वेन शुद्धेऽपि तदसिद्धया प्रवृविनिमित्तभेदाभावेन पर्यायत्वं स्यादिति वदन्ति । अन्ये तु पर्यायत्वमन्यूनान-तिरिक्तार्थत्वम्; विशेषणतो विशेष्यतश्चानतिरिक्तार्थकत्वम् । तत्र प्रवृत्तिनिमित्तभेदाभावमात्रं न हेतुः; भिन्नविशेष्याभिप्रायेण प्रयुक्तयोर्घटकुम्भशब्दयोः प्रवृत्तिनिमिवभेदाभावेऽप्युक्तपर्यायत्वाभावात्; अतः सामानाधिकरण्यलक्षणहानावेन हेतुरिति वदन्ति ।

अत एव जगत्कारणत्वेति । यत एव सत्यज्ञानादिशब्दानामनृतजडपरिच्छिन्नविरोधिस्वरूपोपस्थापकत्वम्, अत एव सत्यज्ञा-नादिपदैः कारणत्वशङ्कितानृतजडादिभ्रान्तिव्युदासः क्रियत इत्यर्थः । व्यापत्र्यभेदेन यथा न पर्ययत्वमिति । काष्ण्यर्रक्तिमादीनां भिन्नतया तत्तदवच्छिन्नव्यावृत्तीनां (प्रवृत्तिनिमित्तानां) भेदात् यथा अपर्यायत्वमर्थवत्वं चेत्यर्थः । न चानृतजडपरिच्छिन्नव्या-वृत्तीनामपर्यायत्वसिद्धयर्थं भेदस्याभ्युपेतत्वे कथमेकार्थत्वं चेत्यर्थः । न चानृतजडपरिच्छिन्नव्यावृत्तीनामपर्यायत्वसिद्धयर्थं भेद-स्याभ्युपेतत्वे कथमेकाथत्र्वं सिध्येदिति वाच्यम्, पदार्थोपस्थितिदशायां व्यावृत्तीनां भानेऽपि वाक्यार्थप्रतीतिदशायां तत्तद्वया-वृत्त्युपलक्षितस्वरूपमात्रस्यैव प्रतीयमानतयैकार्थत्वाविरोधात् । न च वाक्यार्थप्रतीतिदशायामपि व्यावृत्तिवैशिष्टयं भासतामिति वाच्यम्-शौवल्यस्वयूपमात्रवुभुत्सायामेव काष्ण्र्यादिव्यावृत्तमित्त्युत्तरस्यावतीर्णतया अस्य वाक्यस्य स्वरूपातिरिक्ताथप्र्रतिपाद-कत्वासंभवात् । अत एव सत्यज्ञानादिवाक्यानां ब्राहृस्वरूपमात्रप्रश्नोत्तरतया व्यावृत्तिवैशिष्टयाबोधकत्वम् । अत एव संसर्गागो-चरप्रमाजनकत्वलक्षणमख्ण्डार्थत्वं युज्यत इति भावः । केचित्तु-अनृत जडपरिच्छिन्नव्यावृत्तिवैशिष्टयं सत्यज्ञादिवाक्ये भासत एव । न चैवं संसर्गागोचरप्रमाजनकत्वलक्षणमखण्डार्थत्वं भज्येतेति वाच्यम् - अभिन्नविशेषणविशेष्यार्थत्वरूपाखण्डार्थत्वस्य वैशिष्टयगोचरत्वेऽप्यविरोधात् । सत्यपदजन्यप्रतीतिविषययोरेव विशेषणविशेष्ययोर्वस्तुतो भेदरहितयोव्र्यावृत्तिब्राहृस्वरूपयोरेव ज्ञानपदजन्यप्रतीतिविषयविशेष्यविषषणत्वात् । ब्राहृस्वरूपाया अनृतव्यावृत्तेर्जडव्यावृत्तिरूपत्वे विशेषणयोव्र्यावृत्त्योर्भेदाभावात् । न चैवमेकप्रवृत्तिनिमित्तकतयो पर्यायत्वं स्यादिति वाच्यम्, अन्यूनानतिरिक्ताथर्कत्वस्यैव पर्यायशब्दार्थतया व्यावृत्तिरूपविशेष-णविशेषणभूतानां भिन्नमिन्नानां प्रतियोगिनां भानेन पर्यायत्वस्याप्रसक्तेरिति वदन्ति ।

ननु शक्तया पदजन्यपदार्थोपस्थिते; शक्यतावच्छेदप्रकारकत्वावश्यंभावात् शक्तया पदजन्यब्राहृस्वरूपोपस्थितेरपि शक्यता-वच्छेदकीभूतसत्यत्वादिप्रकारकत्वप्रसङ्गेन कक्यस्याखण्डार्थत्वभङ्गप्रसङ्गः; अतोऽनृतजडपरिच्छिन्नव्यावृत्तब्राहृस्वरूपोपस्थि- तिरपि लक्षणयैवेतेयभ्युपगन्तव्यमित्यरुचेत्याह - लक्षणाभ्युपगमेऽपीति । समानविभक्तिवलादैक्यतात्पर्यनिश्चय इति । इदमु-

पलक्षणम् । लक्षणवाक्यत्वात् ब्राहृस्वरूपमात्रप्रश्नोपेत्तरत्वाच्चेत्यपि द्रष्टव्यम् । सर्वपदानां लक्षणा न दोष इति । सर्वप्रातिपदिक-#ानामित्यर्थः । विभक्तेरैक्यार्थाया लक्षकत्वाभावात् । यद्वा विभक्तयर्तस्यैकत्वस्य संसर्गप्रतीतौ वाक्यस्याखण्डार्थत्वभङ्गात्तस्य सत्यत्वादितुल्यशीलत्वात् । न चैवं समानविभक्तिबलादैक्यतात्पर्यनिश्चय इति पूर्वग्रन्थविरोध इति वाच्यम्-प्रातिपदिकार्थमात्र-प्रश्नोत्तरावेन ब्राहृस्वरूपमात्रे तात्पर्यावगमादिति तदभिमायादिति वर्णयन्ति । "सत्यज्ञानादगुणाः प्रतीयन्ते' इति परिचोदिते सति, "नेत्युच्यते' इति वदतः प्रतीत्यपलापदोषः स्यादित्याशङ्कयाह - नेत्युच्यत इति वदतोऽयं भाव इति । सर्वपदानामेका-भिधयपर्यवसानमिति । एकस्य पदस्याभिधेयम् (एकाभिधेयम् । तत्र पर्यवसानम्?) एकप्रातिपदिकार्थमात्रनिष्ठत्वमित्यर्थः । न तु वाक्यस्येत्यर्थ इति । न त्वेकवाक्यार्तपर्यवसायित्वमेव पदानामखण्डार्थत्वमित्यर्थः । तथा सति सर्ववाक्यमप्यखण्डार्थं स्यादिति भावः । पदानामेवैकार्थपर्यपसायित्वमिति । एककारो भिन्नक्रमः । पदानामेकप्रातिपदिकार्थपर्यवसायित्वमेवाखण्डा-र्थत्मव्; न त्वेकप्रधानार्थपर्यवसायित्वमात्रमित्यर्थः । ततश्च पदानामेकार्यपर्यवसायित्वे वाक्यस्यापि तदम्त्येव; वाक्यस्यैकार्थपयर्-वसायित्वे पदानामपि तदस्त्येव; पदव्यतिरेकेण वाक्यस्याभावादिति शङ्का प्रत्युक्ता । कृत्स्नवाक्येनेति । "विशेषणभेदेन अर्त-भेद'इत्यंशेन विशेषणमात्रपरत्वे दूषणमिति भावः । विशेषण भेदेनेति व्याख्येयं पदम् । युगपदभिधानपक्षे दूषणमुक्तं भवतीति । इदमुपलक्षणम्, क्रमेणाभिधानपक्षे विशेषणान्तरान्वयो बोध्यत इति द्वितीयविकल्पेऽन्योन्यसमवायरूपदूषणमुक्तमिति द्रष्टव्यम् । सामानाधिकरण्यलक्षणासिद्धिरित्यर्थ इति । एकवस्तुमात्रपरत्वरूपसामानाधिकरण्यलक्षणासिद्धिरित्यर्थः । चोद्यद्वयमभिप्रेत- मिति । अत्र केचित्-पदान्तरवैयथ्र्यमात्रस्य पर्यायत्वस्य चैकवस्तुमात्रपरत्वरूपसामानाधिकरण्येऽवश्यंभावमाशङ्कय एक-वस्तुमात्रपरत्वेऽप्यपर्यायत्वं पदान्तरावैयथ्र्यं च संभवतीति पदान्तरवैयथ्र्यपर्यायत्वरूपदूषणद्वयप्रसङ्गस्यैव परिहरिष्यमाणतया दूषणद्वय एव तात्पर्यम् । ततश्चैकवस्तुमात्रपरत्वे पर्यायत्वं पदान्तरैवयथ्र्यं च स्यात् । तस्य कथंचित्परिहारे एकवस्तुमात्रनिष्ठत्व-रूपसामानाधिकरण्यभङ्गप्रसङ्ग इत्येवं परतया टीकाग्रन्थोऽपि योजनीय इति वदन्ति । व्युदासस्तु फलित इति । अयं भावः- यद्यपि सत्यपदोपस्थापितस्वयूपव्यतिरिक्तं न पदान्तरेण प्रतिपाद्यते, अथापि सत्यपदेनैवानृतभ्रान्तिव्युदासः; ज्ञानपदेनैव जड-भ्रान्तिव्युदासः; अनन्तपदेनैव च परिच्छिन्नभ्रन्तिव्युदासः; अनृतजडपरिच्छिन्नव्यावृत्त्युपस्थितेस्ततत्पादाधीनत्वात्; तत्तद्वया-वृत्तिपूर्वकस्वरूपोपस्थितेरेवानृतजडपरिच्छिन्नभ्रान्तिव्युदासकत्वात् । यथा अभिज्ञाभ्यामवगतस्वरूपस्यैव प्रत्यभिज्ञाविषय- त्वेन विषयकृतविशेषाभावेऽपि कालद्वयप्रतिसंधानादिलक्षणकारणकृत्रोभिज्ञाद्वयानिवत्र्यभेदभ्रमनिवर्तक्रत्वलक्षणो विशेषः प्रत्यभिज्ञायां दृश्यते,एवं सत्यपदजन्योपस्थितेरनृतप्रतिसंदानपूर्विकाया एवानृतभ्रन्तिनिवर्तकत्वम्; जडप्रतिसंधानपूर्विकाया एव ज्ञानपदजन्योपस्थितेर्जडभ्रान्तिनिवर्तकत्वमित्येवमनृतजडपरिच्छिन्नव्युदासः फलित इति भावः । प्रयोजकरूपेणेति अनेकपदार्थसंग्राहकानृतत्वाद्याकारेणेत्यर्थः ।

(एतस्य कारणत्वानुवादेन) लक्षणपरत्वादिति । लक्षणत्वविधिपरत्वादित्यर्थः । उपलक्षणं नाम चन्द्रस्येति । मायाशवलस-गुणब्राहृगतं कारणत्यवं तदनुगतस्य लिलक्षयिषिताखण्डचैतन्यस्य तटस्थतयोपलक्षणम्, शाखाग्रमिवातन्निष्ठं चन्द्रमसः । तस्य प्रकृष्टप्रकाशत्वमिव सत्यज्ञानानन्दरूपं स्वरूपलक्षणम् । न चावश्यमपेक्षितेन सत्यज्ञानानन्दत्वरूपस्वरूपलक्षणेनैवेतरव्या-वृविसिद्धेर्जगत्कारणत्वरूपतटस्थलक्षणं व्यर्थर्म्; चन्द्रादौ तु "प्रकृष्टप्रकाशः' इत्यनेनैव स्वरूपे प्रतिपन्नेऽपि तद्दिदृक्षया चन्द्र-बुभुत्सोर्गगते सर्वतश्चक्षुर्विक्षेपे क्लेशः स्यात्, स मा भूदिति देशविशेषे चक्षुर्नियमानार्थतया तटस्थलक्षणमुपयुज्यत इति वक्तुं शक्त-#्यमिति वाच्यम् प्रकरणोपपदादिसंकोचकभावेन त्रिविधपरिच्छेदपरिपन्थिनिरतिशयबृहत्त्ववाचिब्राहृशब्दार्थस्य निष्प्रपञ्चस्य लिल-क्षयिषितस्य ब्राहृणः "यद्रजतमभात् सा शुक्तिः' इतिवदध्यारोपापवादन्यायेन "यत्प्रपञ्चविवर्तोपादानं तद्व्रहृ' इति निष्प्रपञ्चत्व- सिध्यर्थं जगदुपादानत्वस्य ब्राहृणि वक्तव्यत्वेन तटस्थलक्षणसाफल्यात्; स्वररूपविशेषप्रतिपत्त्यर्थतयो स्वरूपलक्षणस्याष्याव-श्यकत्वमिति हि मृषावादिनां मतनिति भावः ।

मुख्यार्थत्वमुत्तरत्राभिधास्यत इति । आनन्दमयाधिकरण इति शेषः । सा चात्र लक्षणावृत्तिर्विवक्षितेति । इदं तु "तात्पर्यादा- गता' इति पक्षे बोध्यम्, लक्षरावीजस्य तात्पर्यस्यैव लक्षणशत्वासंभवत् । अन्यैश्च संमतमित्यर्थ इति । "क्तेन च पूजायाम्' इति षष्ठीसमासनिषेधात् भूतक्तान्तेन, "कर्तृकरणे कअता बहुलम्' इति तृतीयासमास इति भावः । तात्पर्याविरुद्धेति । यत्र क्कचि- दिति शेषः । न हि तात्पर्याविरुद्धस्थले मुख्यार्थः स्वीकृत इत्येतावता तात्पर्यविरुद्धस्थलेऽपि मुख्यार्थ एव स्वीकर्त- व्य इति निर्बन्धोऽस्तीति भावः । अभ्युपगमहेतुसद्भावादभ्युपगमः फलित इति । वस्तुगत्याभ्युपगमाभावेऽष्यकामेनाप्यभ्युप-

गन्तव्यमिति भावः ।

सर्वलाक्षणिकत्वे प्राभाकरोदाहरणम्

भाष्ये-अपूवर्कार्य एव लिङादेर्मुख्यवृत्तत्वाल्लिङादिभिः क्रियाकार्यं लक्षणया प्रतिपाद्यत इति । "स्वर्गकामो यजेत' इत्यादौ हि स्वर्गकामरूपनियोज्यं प्रति क्रिया लिङ्शब्देन कायर्तया बोधयितुमशक्या । कामी हि काम्यादन्यात् काम्याव्यवहितसाधनमेव कार्यतया अवैति; न तु व्यवहितसाधनम् । क्रियारूपसाधनं तु अस्थायित्वेन काम्याव्यवहितसाधनत्वाभावान्न कामिनियोज्या-न्वययोग्यम् । तस्मात् फलपयन्र्तस्थाय्यपूर्वमेव लिङो वाच्यमिति सिद्धे, लोके क्रियारूपे कार्ये प्रयुज्यमाना लिङ् लाक्षणिक्येव, नानार्थत्वस्यान्याय्यत्वादिति हि प्राभाकरैरभ्युपगम्यत इति भावः । तदन्विताभिधायिनामिति । निमीलनपदलाक्षणिकार्थान्वि-ताभिधायिनामित्यर्थः । तत्कार्यसमर्पकपदलाक्षणिकत्व इति । लाक्षणिकत्वे प्राप्नुवति तद्धेतुनान्येषामपि लाक्षणिकत्वमित्यर्थः; न तु हेतु । हेतुमद्भाव इति भ्रमितव्यम्, तस्याप्रसक्तेः । न हि पदान्तरलाक्षणिकत्वं पदान्तरलाक्षरिकत्वे प्रयोजकम्; अपितु मुख्या-र्थासंभव एव । ततश्च क्रियातिरिक्तकार्यरूपमुख्यार्थासंभवेन क्रियातिरिक्तकार्यप्रतिपादकलिङः क्रियाकार्यप्रतिपादने लक्षणावदितर-पदानामपि क्रियातिरिक्तकार्यान्वितरूपमुख्यार्थासंभवेन तदर्थप्रतिपादकानां क्रियान्वितार्थप्रतिपादने लक्षणावश्यंभाव इति भावः । अत एव वक्ष्यति - विशिष्टस्थायिकार्यैकदेशपरत्वप्रहाणस्येयाद । किं लिङादिः कार्यमात्रपरः स्यादिति । ननु लोके कार्य-त्वाश्रयस्य क्रियास्वरूपस्य प्रकृत्युपात्तत्वात् कार्यत्वमात्र एव लिङादेः शक्तिः; यथा एकवचनादीनामेकत्वादिसंख्यामात्रवा#ि#ाच- त्वम्; न तु तदाश्रयवाचित्वम्, तस्य प्रकृत्युपात्तत्वात् । ततश्च लिङादेः कार्यत्वमेवार्थः । ततश्च प्रकृत्युपात्तक्रियायाः प्रत्ययोपात्त-कार्यत्वस्य च धर्मधर्मिभावेनान्वय इति लौकिकवाक्यमर्यादा । वेदे तु कार्यत्वाश्रयस्यापूर्वस्यान्यतो लाभासंभवात् कार्यत्वविशि-ष्टकार्यस्वरूपाभिधायित्वं वक्तव्यम् । ततश्च यदि विशिष्टाभिधायी लिङादिः, ततोऽपूर्वमेवाभिदध्यात्, न क्रियाम् । अथ विशेष-णाभिधायी, ततः क्रियागतमेवाभिदध्यात्, नापूर्वगतम् । अतो लोकवेदसाधारणस्यार्थस्यैकस्यालाभा (भावा) दुभयत्रापि शक्ति-कल्पने गौरवाल्लौकिकपदानुपारेण वैदिकपदस्यामुख्यार्थत्वस्यान्याय्यत्वात् कार्यमेव मुख्योऽर्थः; लोके तु लक्षणया कायत्र्वं प्रति-पाद्यत इत्येवं लिङादेर्लक्षणाया आवश्यकत्वेऽपीतरेषां लौकिकपदानां लक्षणायां हेत्वभावात् । न हि वैदिकस्य लिङादेर्लौकि-कलिङादिगतव्युत्पत्तिविरुद्धव्युत्पत्त्यन्तरकल्पनवत् तदतिरिक्तवैदिकपदेषु लौकिकपदगतव्युत्पत्तिवि#ुद्धव्युत्पत्त्यन्तरमस्ति; कार्या-न्विताभिधायित्वस्य लिङादिव्यतिरिक्तलौकिकपदेष्विव लिङादिव्यतिरिक्तवैदिकपदेष्वष्यविशिष्टत्वात् । इयांस्तु विशेषः-लोके क्रियारूपं कार्यम्; वेदे तु तदतिरिक्तम् । कार्यान्विताभिधायित्वं तु सर्वसाधारणम् । यदि व्यक्तिभेदमात्रेण व्युत्पत्त्यन्तरम्, तदा "गामानय', "गां बाधान' इत्यादीनामपि प्राथमिकव्युत्पतिविरुद्धव्युत्पत्त्यन्तरं, कल्पनीयं स्यादिति चेत्-सत्यम्, सर्वत्र कार्या-भिधाय्येवायं लिङादिशब्दोऽस्तु । स यदा क्रियापरो भवति, तदा तत्स्वरूपस्य प्रकृतित एव प्राप्तत्वाद्विशेषणपरो भवति । तद्यथा-"दण्डी प्रैषानन्वाह' इति विशिष्टाभिधाय्यपि दण्डिशब्दो विशेषणपरो भवति; नापि लक्षणा । ततश्च कार्यवचनः शब्दो यदा क्रियायां प्रयुज्यते, तदा कार्यत्वरूपविशेषणपरत्वं श्रुतिवृत्त एव सन् प्रतिपद्यते । नैतावता लक्षणा भवतीत्युभयत्रापि मुख्यत्वमेव । यस्तु वदति-नन्वेवं सति कार्यसामान्यवाचित्वे कामाविकारेऽपि समानपदोपात्तो धात्वर्थं एव कार्यतया अभिधेयः स्यादित्यपूर्वा-भिधानमुत्सादेत्; तेन यदैव कामिनियोज्यसंबन्धादपूर्वामिधायित्वमवगतम्, तदैव तन्निवार्हार्थं क्रियालाक्षणिकत्वमध्यवसित- मिति-स एवमनुशासितव्यः-हन्त तर्हि किं नाश्रौषीः, "यो हि पाषाणान् भक्षयति,ईषत्का(का)रास्तस्य मुद्गशष्कुलाः' इति; यो हि नियोज्यसंबन्धो लिङ्शब्दं कार्यत्ववाचिनमवगतमपि तत उद्धृव्यापूर्वं नयति, स कथं कार्यसामान्यवाचितमपूर्वं नेतुं न क्षमते । तस्मात् कर्तव्यतासामान्यवाची सन्नपि यत्र फलकामस्य नियोज्यत्वं तत्र तद्वलेनापूर्वमभिधत्ते; अन्यत्र समानपदोपादा- नात् क्रियाम् । अतः कार्यसामान्यवाचित्वाल्लिङ्शब्दस्यापूर्वक्रिययोः साधारणत्वान्न क्कापि लक्षणा समाश्रयणीया स्यात् । एव- मपि लौकिकवाक्ये लक्षणां लिङादेरभ्युपगच्छता तदितरपदानां कुतो लक्षणा नाभ्युपगम्येति सर्वपदलक्षरावादिनां मृषावदिना- माशयः ।

उक्तैरुपपत्तिसहितैः श्रुतिवाक्यैरिति । अत केचित् -अत इत्यस्य "उक्तेभ्यो हेतुभ्यः' इत्युसंहाररूपत्वमेव । अन्यथा "उपपत्ति-सहितवाक्यैरिदमेवार्तजातं प्रतिपादयन्तो वेदान्ताः' इत्यन्वयस्य क्लिष्टत्वं स्यात्, वाक्यानां वेदान्तानां च भेदामापादिति वदन्ति ।

प्रत्यक्षस्य सन्मात्रप्रहित्वम्

अव्यवहितं वृत्तं परित्यज्य व्यवहितवृत्तकीर्तनमनुचितमित्याशङ्कयाह - शास्त्रप्रत्यक्षविरोध इति । संगतिप्रदर्शनार्थं व्यवहितकीर्तन-

मिति भावः । विरोधाभ्युपगमेऽपीत्यर्थ इति । न च चशब्दस्याष्यर्थत्वे पूर्वोक्तसमुच्छयार्थत्वविरोध इति वाच्यम्, अपेरपि समुच्छ-यार्तत्वसंभवेन विरोधाभावात् । ननु "विरोध एव न दृश्यते' इत्ययुक्तम्, विरोधप्रतिपत्तेर्दुरपह्नवत्वात् हेतुवैयथ्र्याच्चेत्याशङ्कयाह - अविरोधं प्रतिजातीत इति । "निर्विशेषसन्मात्रग्राहित्वात्' इत्यस्य व्यधिकरणतया अहेतुत्वशङ्कां निवर्तयति - हेतुमाहेति । प्रत्यक्षं न शास्त्रविरुद्धं निर्विशेषसन्मात्रग्राहित्वादिति भाष्याभिप्राय इति भावः । प्रतीतेभ्रान्तिरूपत्वसंभवादिति । सन्मात्रग्राहि-प्रत्यक्षे विलक्षणविषयविषयक्रत्वप्रतीतेरित्यर्थः । न तु भेदप्रतीतेरित्यर्थः; तथा हि सति सन्मात्रग्राहिप्रत्यक्षवादविरोधापत्तेः; तच्छङ्काया विलक्षणेत्यादिभाष्यग्रन्थानिवृत्तेश्च; भ्रन्तेरपि विलक्षणव्यवहारहेतुत्वात् । "तयोभ्रिन्नकालज्ञानफलत्वात् प्रत्यक्ष- ज्ञानस्य चैकक्षणवृत्तित्वात्' इति भाष्यस्यायमर्थः-प्रत्यक्षज्ञानं किं युगपदेव व्यवहारद्वयमुत्पादयति, उत क्रमेण? नाद्य इत्याह - तयोरिति । भिन्नकालं यत् ज्ञानं प्रतियोगिस्मरणादिरूपं तत्फलत्वादित्यर्थः । एकस्मिन् काले प्रतियोगिज्ञानसापेक्षनिरपेक्षयो-द्र्वयोव्र्यवहारयोरुत्पव्यसंभवादित्यर्थः । द्वितीयं दूषयति - प्रत्यक्षज्ञानस्य चेति । न च पश्चादुत्पन्नप्रत्यक्षज्ञानान्तरेण भेदव्य-वहारोऽस्त्विति वाच्यम्, पश्चादुत्पन्नस्य प्रत्यक्षत्वे प्रमाणाभावादिति भावः । किं युगपदुभयग्राहीति । युगपद्वयवहारद्वयो-त्पादकमित्यर्थः; भाष्यानुरोधात्, "यगपद्वा क्रमेण वा मूलं स्यात्' इत्युत्तरग्रन्थानुगुण्याच्चेति द्रष्टव्यम् । असाधारणव्यपहारेऽपि घटस्य पटाद्वयावृत्ततया प्रतीतौ अपेक्षितायामिति शेषः । प्रत्यक्षस्य स्वरूपमात्रविषयत्वे कथं भेदव्यवहारसंभव इति । स्व-रूपमात्रविषयत्वे घटादिस्वरूपाविषयत्वे कथं घटादिरूपभेदव्यवहारसंभव इत्यर्थः ।

भेददूषणम्

ननु घटादिस्वरूपमात्रग्रहणस्य प्रतियोगिज्ञानादिसापेक्षत्वाभावात् घटदिस्वरूपस्य प्रत्यक्षविषयत्वे काऽनुपपत्तिरिति चेत्, उच्यते-इन्द्रियव्यापारानन्तरं प्रतीयमानो घटादिः सर्वतो भिन्न एव प्रतीयते तत्र तदितरभेदे संशयविषर्ययादर्शनात् । तत्र च भेद- स्य प्रतियोगिसहोपलम्भनियमवतो न प्रत्यक्षेण ग्रहणसंभवः, देशकाल दिव्यवधानेनासंनिकृष्टानामपि प्रतियोगितां संभवात् । तस्मात् प्रत्यक्षायोग्यस्य प्रतियोगिनः प्रतिभासो भ्रान्तिरूप इति तदेकवित्तिवेद्यस्य भेदस्य भेदैकवित्तिवेद्यस्य घटादेश्च भ्रमैकविषय-त्वात् प्रत्यक्षं निर्विशेषसन्मात्रग्राह्रेव; न घटादिस्वरूपग्राहीति मृषावादिनामाशयात् ।

सर्वस्माद्भेदव्यवहारप्रसक्तिर्नानिष्टा स्वरूपभेदवादिनः, स्वरूपग्रहणानन्तरं प्रतियोगिनः स्मरणे सति व्यवहारस्येष्टत्वादित्या- शङ्कय व्याचष्टे - प्रतियोगिनिरपेक्षभेदव्यवहारप्रसक्तेरिति । स्वरूपग्रहणस्य शब्दच्युत्पत्तीति । अतिरिक्तभेदपक्षेऽपि भेद-स्वरूपग्रहणस्येत्यर्थः । तथा प्रतियोगिग्रहण(स्मरण)मपीति । स्वरूपानतिरिक्तभेदपक्षेऽपीति शेषः । अतिरिक्तभेदवादिनैया-यिकादिपक्षे व्युत्पन्नशब्दस्मरणादिर्भेदव्यवहार एव कारणम्, न तु भेदज्ञाने; तथास्मन्मते प्रतियोगिग्रहणादिकमपि भेदव्यवहार एवेति भावः । स्वरूपभूतं भेदान्तरमिति । न च स्वरूपभूतत्वभेदान्तरत्वयोर्विरोध इति शङ्कनीयम्, काल्पनिकभेदमादाय भेदा-न्तरत्वधर्मधर्मिभावोपपत्तेरिति भावः । ननु व्यक्तयन्तरानभ्युपगमान्नानवस्थेत्यरुचेराह - किं च शब्दान्तरेण धर्म इत्युक्तमिति । कल्पितभादमादाय धर्मवर्मिभावोपपादने घटस्यापि घटाश्रयत्वप्रसङ्गः । अत कल्पितभेदमादाय धर्मधर्मिभाव उपपद्यत इति वदता स्वरूपपक्षं परित्यज्यधर्मपक्ष एवावलम्बितः स्यादित्यर्थः । घटस्य भेदव्यवहारे कृत इति । अनुगतस्य भेदाख्यधर्मस्याभावात् भेद-शब्दो यस्यां व्यक्तौ गृहीतसंगतिकस्तत्रैव प्रयुज्येत, नान्यत्रेत्यनुगतव्यवहारोच्छेदप्रसङ्ग इत्यर्थः । धर्मश्चेत् पूर्वदोष इति । व्यावृत्त-धर्मत्वेऽनुगतव्यवहारोच्छेद इत्यर्थः । सन्मात्रमङ्गीकृतं स्यादिति । तस्यैवानुवृत्तस्वरूपत्वादित्याशयः । धर्मपक्षे पूर्वपदिति । न च प्रमेयत्वे प्रमेयत्ववत् अनुवृवभेदरूपधर्मस्य स्वपरनिर्वाहकत्वान्नानवस्थादोष इति वाच्यम्, तस्याष्यसंप्रतिपत्तेरिति भावः । तत्ख-ण्डस्यापि तथा स्यादिति । द्विधाभूतस्यापि द्विधाभावः स्वादिति भावः । भाष्ये - तस्यापि भेदस्तद्वर्मस्तस्यापीति । "भेदस्त- द्धर्मः' इति शेषः । ततश्च तस्यापि भेदस्तद्धर्मः. तस्यापि भेदस्तद्धर्म सत्यनवस्तेत्यर्थः । भाष्ये - भेदं च तस्यापि भेदस्तद्धर्म इत्यत्र षष्ठयन्ततच्छब्देन "भेदे च' इत्यव्यवहितपूर्वनिर्दिष्टस्य भेदरूपधर्मनिष्ठस्य स्वरूपप्रतियोगिकस्य द्वितीयभेदस्य ग्रहणसंभवे व्यवहितस्य प्रतमभेदस्य ग्रहणमन्याथ्यम्, तथाहि सति "भेदस्तद्धर्मः' इत्युक्तेरेवोचितत्वेन "तस्य भेदः' इति निर्देशस्य व्यर्थत्वा-च्चत्यपरितोषादाह - यद्वा धर्मस्य स्वरूपाद्यो भेद इति । प्रथमपक्षे "तस्यापि भेदस्तद्धर्मः' इति वाक्यखण्डेन भेदधर्मिकभेदान्त-रसिद्धिमात्रम्; द्वितीयपक्षे "तस्यापि भेदस्तद्धर्मः' इति वाक्यखण्डेन भेदधर्मिकभेदान्तरसिद्धिमात्रम्; द्वितीयपक्षे "तस्यापि भेदस्तद्धर्म' इत्यनेन भेदधर्मिकभेदेऽपि भेद्धसिद्धिरिति विशेषः । जात्यादिधर्मविशिष्टवस्तुग्रहणे सतीत्यत्र भाष्ये आदिशब्देन धर्मित्वप्रतियोगित्वधर्मवर्मित्वानां ग्रहणमित्याह - त्रिधा च तदित्यादिना । घटस्य पटात् भेदज्ञाने हि त्रीणि कारणानि - घट-

पटरूपधर्मिप्रतियोगिज्ञानमेकम्; भेदतदाश्रयरूपधर्मधर्मिज्ञानं द्वितीयम् । विशिष्टज्ञाने विशेषणविशेष्यज्ञानस्य हेतुत्वात् घटस्य पटव्यावृत्त(त्व)घटत्वाश्रयत्वज्ञानं तृतीयमिति पर्यवसितोऽर्थः । न च धर्मिप्रतियोगिज्ञानस्याभावज्ञानहेतुत्वऽपि धर्मित्वप्रति-योगित्वप्रकारकज्ञानस्याहेतुत्वात् कथमन्योन्याश्रयः? धर्मित्वप्रतियोगित्वप्रकारकज्ञाने परं भेदज्ञानापेक्षा, न धर्मिप्रतियोगिज्ञान इति वाच्यम्, भेदज्ञानात् प्राक् प्रतियोगित्वत्वादिविशिष्टप्रतियोगित्वादिप्रकरकज्ञानाभावे प्रतियोगित्वादिविशिष्टप्रतियोगिवि-शेषणकभेदप्रत्ययाभावेन प्रतियोगित्वप्रकारकज्ञानस्य हेतुत्वात् । अत एव भोदतदाश्रययोरपि धर्मवर्मिणोर्धर्मवर्मित्वेन ज्ञानाभवे विपरीतधर्मधर्मिभावप्रतीतिप्रसङ्गेन तेन रूपेण धमिज्र्ञानमपेक्षितमित्यत्र तात्पर्यात् ।

अथ बाधकप्रमाणमुपन्यस्यतीति । न केवलं साधकाभावः; बावकमष्यस्तीति किं चशब्दार्थ इत्यर्थः । न च "भेदः स्वरूपं धर्मो वा' इत्यादिबाधकं प्रागष्युपन्यस्तमिति वाच्यम्, तस्य तर्करूपत्वेन प्रमाणत्वाभावादित्यत्र तात्पर्यात् । विपरीतोपाधिसद्भापा- च्चेति । साध्यविपर्ययरूपसत्यत्वप्रयोजकाबाधितत्वसत्त्वादित्यर्थः । किं संवादफलभूता, उत बाधफलभूतेति । पटसत्त्वग्राहि प्रमाणं संवादः; तदसत्त्वग्राहि प्रमाणं बाधः । भावग्राहि प्रमाणं संवादः; अभावग्राहि प्रमाणं बाधः । फलत्वं च विषयत्वमेव । घटादौ दृष्टा पटव्यावृत्तिः पटसत्त्वग्राहिप्रमाणरूपसंवादफलभूता, उत पटाभावप्रतीतिलक्षरबावफलभूता वेति भवन्त एव विमृश-न्त्वित्यर्थः ।"पटव्यावृत्तेः पटसत्तारूपत्वे हि संवादफलत्वशङ्कापि स्यात्; अभावरूपत्वेच बाधितत्वमकामेनापि (अकामेऽपि?) सिध्यतीति भावः । ननु "घटोऽस्ति' इति पटाभावसिद्धिमात्रेण पटादीनां कथं बाधितत्वसिद्धिरित्याशङ्कय बाधफलूताभाव्या-वव्यतिरेकेण बाधित्वस्याभावात् बाधफलभूतोऽभाव एव बाधितत्वमित्यभिप्रायेणाह - यज्जौ भूदलनादीनामभाप इति ।

सदनुभूत्योरैक्यम्

भेदस्य भ्रान्तिसिद्धत्वमपिना समुच्चीयत इति । न प्रमाणपदवीमनुसरति उभ्रन्तिसिद्धः इति हि तस्यार्थो वर्णितः । ततश्च विषय-विषयिभावो भेदश्च भ्रान्तिसिद्ध इत्यर्थ इति भावः । यद्यष्यपिना भेदः समुच्चीयत इति विवक्षितार्थसिद्धः, तथापि फलितमादाय तथो-क्तमिति द्रष्टव्यम् । भाष्ये-तस्मात् सदनुभूतिरेवेति । ननु घटादिकमपि सदनुभूतिभ्यामभिन्नमेव स्यात्, भेदस्य दुर्निरूपत्वादिति चेत्-न, एतस्याभ्युच्चयमात्रत्वेनैतदतिप्रसङ्गस्यादोषत्वात् ।

अनूभूतेः स्वयम्प्रकाशत्वम्

किंचशब्दसमुच्चितापन्यस्येति । यदि प्रत्यनुमाननिरासः किं चशब्देन समुच्चीयते, तदा "अनुभवापेक्षा च' इति चशब्देनानुमाना- न्तरं समुच्चीयते । यदि चानुमानान्तरं किंचशब्देन समुच्चीयते, तदा अनेन चशब्देन प्रत्यनुमाननिरासः समुच्चीयत इत्यर्थः ।

क एवं नियामक इत्यत्राहेति । ज्ञानस्य सत्तया प्रकाशककोटिनिवेशः कुत इति शङ्कानिवारकं प्रागुक्तोपसंहारपरं तस्मादिति पदमिति भावः । अस्मदुक्तहेत्योः सोपाधिकत्वनिरासाच्चेति; ज्ञानं परप्रकाश्यं, वस्तुत्वात् भासमानत्वाद्वेति हेत्वोः स्वसत्तया प्रकाश-मानत्वाभावस्य परोद्भावितोपाधेर्निरासादित्यर्थः । स्वरूपै भासत्वादिति । या मातता यत्पुरुषवेद्या सा तदीयज्ञानजन्येति व्या- प्त्या स्वीयमेव ज्ञानमनुमीयते, नान्यदीयमिति भावः ।।

असाधारण्यप्रतिक्षेपः फलित इति । पुरुषविशेषासाधारण्येत्यर्थः । अयमर्थः,"अनुभूतिव्यतिरेकी विषयधर्मः' इत्युत्तरग्रन्थे स्पष्टः । ये पुनर्द्वित्वादिकं नाभ्युपगच्छन्तीति । यादृशादपेक्षाबुद्धिविषयाद्द्वित्वाद्युत्पत्तिः, तादृशापेक्षाबुद्धिविषयवस्तुविशेषोपलम्भ एव द्वित्वादिव्यवहारं जनयति, न द्वित्वादिरूपं किंचितस्तीति सिद्धान्तिमते प्रतिबन्दी न संभवत्येवेत्यर्थः । आत्ममनःसंयोगे व्य-भिचारः स्यादिति । क्षणिके आत्ममनः संयोगविशेष इत्यर्थः । दृष्टान्तश्च साधनविकल इति । सुखदुःखदीनामन्तःकरणर्ममत्वा- दिति भावः । तदबुभुत्सितग्राह्रं दृष्टमिति । अबुभुत्सितग्राह्रम् उ "इदमहं न बुध्येयम्' इति विपरीतेच्छायां सत्यामपि भ्राह्र-मित्यर्थः । तस्याष्बुभुत्सितग्राह्रत्वान्मानसप्रत्यक्षवेद्यत्वं स्यादिति । तस्यापि मानसप्रत्यक्षवेद्यत्वेनाबुभुत्सितग्राह्रत्वान्मान-सज्ञानान्तरविषयत्वमवश्यंभावात्यर्थः । ज्ञाते सतीच्छेति । ज्ञाने सति बुभुत्सेत्यर्थः । सामान्यतो विदिते विशेषतश्चाविदिति एव बुभुत्साया उदयादिति भावः । अबुभुत्सितग्राह्रत्वपक्षेऽनुव्यवसायधाराप्रसङ्गमुकत्वा बुभुत्सितग्रहृत्वपक्षपि बुभुत्सान्तरितज्ञान-परंपरामाह - किं च मान सेति । ज्ञानं बुभुत्सितग्राह्रं सुखादि तु नेति चेदिति । ततश्च सुखादिषु प्रतीतिव्याप्तिसंभवेऽपि ज्ञानस्य न प्रतीतिव्याप्तत्वम्; बुभ #ुत्साभावे तत्प्रतीतेरनुत्पत्तेः । न च बुभुत्साया अन्योन्याश्रयग्रस्ततया न हेतुत्वमिति वाच्यम्, नानाशब्दसंकीणर्वीणाशब्दश्रवणादौ बुभुत्साहेतुत्वस्य दर्शनादिति भावः । यदा प्रत्यक्षेण गृह्रत इति । प्रत्यक्षाग्राह्रत्वं हेतुविशे-षणमिति भावः । पक्षो हेतुश्चेति । प्रत्यक्षग्राह्रं ज्ञानं मानसग्राह्रम्, प्रत्यक्षग्राह्रत्वे सति क्षणिकात्मविशेषगुणत्वादिति वक्तव्यम्

स्यात् । न च तथोक्तम् । अत इयं विवक्षा न संमतेति भावः ।

स्वयम्प्रकाशत्वप्रयोगशिक्षणम्

तद्वयवहारहेतुत्वादिति । स चासौ व्यवहारस्तद्वयाहारः; न तु तस्य व्यवहार इति भ्रमितव्यम् । तथा हि सति द्वितीयहेतौ कृत्स्न-स्यापि प्रविष्टत्वाद्विभागो न स्यात् । न च धर्मश्च व्यवहारश्च धर्मव्यवहारौ, तौ च तौ धर्मव्यवहारौ च तद्धर्मव्यवहारावित्युक्तावेव विभागात्, द्वितीयहेतौ न कृत्स्नानुप्रवेश इति वाच्यम्-तत्पदस्यैव धर्मपदस्थानीयत्वात् । अनुभूतिसामग्रीव्यतिरिक्तेति । न चानुभूतित्वस्यानुभूतिव्यतिरिक्ततत्सामग्रीसापेक्षत्वेनान्याधीनत्वं स्यादिति वाच्यम् -अनुभूतिसामग्रयैवानुभूतित्वस्याष्युत्पत्तावनु-भूतित्वस्यानुभूत्यन्याधीनत्वाभावात् । सत्यामष्यनुभूतावितरव्यतिरेकेणानुभूतित्वव्यतिरेके ह्रनुभूतित्वस्येतराधीनत्वम् । अनुभूति-सामग्रीमात्रेणैवानूभूतित्वस्यापि सिद्धावितराधीनत्वाभावात् । अत एव ज्ञानसामग्रीमात्रजन्यस्य प्रामाण्यस्य स्वतस्त्वमिति भावः । यद्वा अनुभूतिसामग्रीव्यतिरिक्तेत्यस्य सजातीयान्तरानपेक्षत्वमित्यर्थः ।

अत्रेत्थं ह्रनुमानं प्रयोक्तव्यम्-अनुभूतिः स्ववश्यंभाविप्रकाष्टयजनने सजातीयापेक्षानियमशून्या, स्वसंबन्धादर्थान्तरे प्राकटयहेतु-त्वात्; यः स्वसंबन्धादर्थान्तरे प्राकट¬हेतुत्वात्; यः स्वसंबन्धादर्थान्तरे यद्धर्महेतुः स स्वस्मिन्नवश्यंभावितद्धर्म जनने सजातीया-पेक्षानियमशून्यः । एवं द्वितीयमप्यनुमानम् । यथा-तद्गेहं तदा मैत्राभाववत्, तदा मैत्रवत्तयानुपलभ्यमानत्वात्; यत् यदा यद्वत्तया नोपलभ्यते, तत् तदा तदभाववदिति सामान्यव्याप्तिवत्(प्तिः?) । ननु परत्र स्वोत्पाद्यधर्मस्य स्वधर्मत्वे कथमनूभूतेस्तद्वत्त्वं स्यत्? अनुभूतौ स्वोत्पाद्यपरगतधर्माभावादित्याशङ्कयाह - स्वसाध्यधर्मात्यन्तसजातीयेत्यर्थ इति । धमर्शब्दस्य परत्र स्वोत्पाद्यवर्म- परत्वे प्रमाणं दर्शयति- अर्थान्तरे तद्धर्महेतुत्वादिति हेतूक्तेरिति । अर्थान्तर इति हेतौ दर्शनात् साध्येऽपि परत्रेति वक्तव्यम् । धर्महेतुत्वादित्युक्तेऽनुभूतिहेतुकधर्म एवी ग्राह्रः । ततश्च यो धर्मो हेतौ निर्दिष्टः, स एव साध्यधर्मशब्देन ग्राह्रः; तस्यैव धर्मस्ये-हासंभवात् तत्सजातीयधर्मवत्त्वं साध्यमिति भावः । स्वस्मिन्नवश्यं भावीति । ननु प्राकट¬स्य नावश्यंभावित्वमनुभूतौ परप्रका-शवादिनां परेणाभ्युपेतम्, अभ्युपगमे त्वनवस्थ भीत्या स्वप्रकाशत्वस्यैवाभ्युपगन्तव्यत्वप्रसङ्गादिति चेत्-न; उत्पन्ने ज्ञाने संशया-द्यदर्शनेन प्राकट¬ं स्वावश्यंभावी यभि(नु)मानेनदृशप्रयोगोपपत्तेः । परज्ञानस्यानुमेयत्वदर्शनाद्वाधप्रसङ्गादिति । इतरानपेक्षप्राक-ट¬पद्भावेऽपि परत्र स्वोत्पाद्यधर्मसजातीयेषु सर्वेष्यपीतरापेक्षाभावस्यभावाद्वाधः स्यादिति भावः । नन्वीदृशानुमानवादिनो मते ज्ञानस्यानुमेयत्वानभ्युपगमात् कथमनूमेयत्वमादाय बाध धत्याशङ्कयाह - न हि ज्ञानान्तगगोचरत्वमिति । सजातीयानपेक्षो हेतुरनूभूतिरितीति । अनुभूतिरनन्याधीनव्यवहारेत्युक्ते हेतुहेतुमद्भावलक्षणसंबन्धेनानन्याधीनघटादिव्यवहारवत्त्वमनूभूतावस्तीति सिद्धसाधनमिति भावः । अनैकान्त्यं स्यादिति । हेतौ तच्छब्दाभावे स्वोत्पाद्यसजातीयधर्मस्यैवानन्याधीन्त्वमित्यर्थस्य साध्ये-ऽप्यलाभेन चाक्षुषत्वहातोः रूपस्य स्वावश्यंभाविद्वित्वादिजनने स्वात्यन्तसजातीयेरसापेक्षत्वात् व्यभिचार इत्यर्थः ।

ननु स्वसंबन्धः स्वनिरूप्य(षित)संबन्धः; ततश्च योऽग्निसंबन्धः न स स्वनिरूपितः । यद्यपि संबन्ध एकः, अथाष्यग्निनिरूपितः संबन्धो घटे,घटनिरूपितः संबन्धोऽग्नाविति व्यवहारानुसारेण स्वप्रतियोगिकत्ववेषेण स्वस्मिन् स्वसंबन्धस्य वृत्त्यभावात् । अत एव हि "न हि स्वयं स्वसंयुक्तः' इति व्यवहरन्ति । किं च रूपान्तरोत्पत्तावग्निसापेक्षत्व्रेपि स्वसजातीयघटानपेक्षणान्न व्यभिचार इत्यरुचेराह - किंचार्थान्तरशब्द इति । निर्दिष्टजातीयाद्विजातीयपर इति । आंवश्यक इति शेषः । न हि घटः स्वसंयुक्तत्वादा- विति । न च पटादौ घटसंयुतत्वमापादयतो घटस्य स्वस्य घटसंयुक्तत्वे घटान्तरापेक्षणात् पुनरपि व्यभिचार इति वाच्यम्, स्वाव-श्यंभाविपदेनैव तद्वारणात् । न हि घटजातीयस्य घटसंयुक्तत्वमवश्यंभावि । ननु-स्वसंबन्धादचेतने चेतनसंयुक्तत्वमापादयतश्चेत- नस्य स्वावश्यंभाविचेतनसंयुक्तत्वे सजातीयसापेक्षत्वदर्शनाद्वयविचारः तदवस्थ एव; तता चेतननियाम्यत्वमचेतने आपादयतः चेतनस्य स्वनियाम्यत्वे चेतनान्तरापेक्षणात् व्यभिचारश्च । न चावश्यंभाविपदेनैव तन्निरास इति वाच्यम्, परमात्मनोऽपि भक्त-नियाम्यत्वात् । तथा स्वसंबन्धेन क्षत्रिये शिष्यत्वमापादयति ब्रााहृणे स्वस्मिन् शिष्यत्वस्य ब्रााहृणान्तरसापेक्षत्वेन व्यभिचारः । न च ब्रााहृणानां शिष्यत्वं नावश्यंभावि, उपनयनात् प्रागपि मरणसंभवादिति वाच्यम्-दृष्टान्ते रूपादावपि चाक्षुषत्वं नावश्यंभा- वीति वक्तुं शक्यत्वात् । अनुभूतेरपि प्राकट¬ं नावश्यंभावीति वक्तुं शक्यत्वाच्च । तस्मादप्रतिष्ठितमिदमनुमानमिति चेत् ।-

अत्र केचित्-यत् स्वव्यतिरिक्ते सर्वस्मिन् यद्वयवहारे प्रवृत्तिनिमिवम्, तत स्वस्मिन् तद्वयवहारे नेतरापेक्षमिति पर्यवसितोऽर्थः । ततश्चानुभूतिव्यतिरिक्ते सर्वत्र "अनुभूयते, प्रकाशते' इत्यादिव्यवहारे प्रवृविनिमित्तभूतानुभूतिः स्वस्याम् (स्मिन्?) "अनुभूयते, प्रकाशते' इत्यादिव्यवहारे नेतरापेक्षा सत्तावदिति सत्तास्थानीयानुभूतिरेकेत्यभि-मानवतामीदृशनुमानमित्याहुः ।

पुत्रे पुत्रत्वतद्वयवहारहेताविति । न च पुत्रस्यापि पितृत्वेनार्थान्तरपदेनैव तद्वारणमिति वाच्यम्-षण्डपुत्रस्य पितृत्वानधिकरण- स्यापि संभवादिति भावः । स्वसंबन्धतुल्यकालेति । स्वंसंबन्धतुल्यत्वं स्वसंबन्धानवारकालावृत्तित्वम् । ततश्च ज्ञानसंबन्धानन्त-रोत्पन्नप्राकट्य्रेपि तदस्तीति बोध्यम् । न हि पित्रादिप्रवासनिधनयोरिति । ननु प्रवासनिधनयोरपि जन्यजनकभावः संबन्धो- ऽस्त्येव, तपायेऽपि पितृषुत्रत्वयोरनपायात् । प्रोषिते प्रेते च संयोगः परं नास्ति । तादृशसंयोगाभाव एकग्रामगतेऽप्यस्त्येवेति प्रवा-सनिधनोपन्यासो व्यर्थ एवेति चेत्-न; पञ्चाग्निविद्योक्तप्रकारेण चरमधात्वादिरूपस्य पुत्रस्य पितुश्च यः संबन्धः स पुत्रत्वोत्पादकः ।"रेतःसिभ्योगोऽथ' इति सूत्रोक्तस्तु नातिचिरस्थायी । अत एव, "पितुरुत्पादनक्रिया उत्पत्तिक्षण एवोत्पाद्यसंबन्धकरी, नान्यदा' इत्युक्तं नयविवेक इति भावः ।

उक्तमर्थं संकलय्य दर्शयति-एतदुक्तं भवतीति ।अनुभूतिः स्वजन्यपरगतधर्मात्यन्तसजातीयधर्मभाक्तवे स्वात्यन्तसजाती-पापेक्षानियमरहितेति । अनुभूतिरपेक्षारहितेत्युक्ते स्वरूपस्य करणसापेक्षत्वेन बाधः स्यात्; तत्परिहारार्थं धर्मभक्तव इत्युक्तम् । तथात्वे रूपस्य चक्षुषत्वे चक्षुराद्यपेक्षत्वेन साध्यविकलता स्यात्; तत्परिहारार्थं सजातीयापेक्षारहितेत्युक्तम् । तथापि चक्षुरादीनां सत्ताजात्या सजातीयत्वेन साध्यवैकल्यं तदवस्थमित्यत उक्तम् अत्यन्तसजातीयेति । तथापि परज्ञानस्य ज्ञानान्तरसापेक्षव्यव-हारानुगुण्यतया अंशे बाधः स्यादित्यत उक्तम् अपेक्षानियमरहितेति । तथाष्यनुभूतित्वस्यानुभूत्यन्तरानपेक्षतया तेन सिद्धासा- ध्यता स्यादिति तत्परिहारार्थं परगतेत्युक्तम् । परगतधर्मस्यानुभूतिनिष्ठत्वाभावाद् बाधः स्यादिति परगतधर्मसजातीयेत्युक्तम् । परगतधर्मसजातीयधर्मभाक्तवेऽयन्तसजातीयानपेक्षत्वेन सिद्धसाध्यता स्यात्; तत्परिहाराय स्वजन्येति विशेषणम् । स्वविजातीये स्वावश्यं भाविधर्मसजातीयस्वसंबन्धतुल्यकालधर्महेतुत्वादिति । धर्महेतुवादित्युक्ते घटादिभिरनैकान्त्यं स्यात्, तेषां स्व-पाकजरूपहेतुत्वात् । परेत्यि#ुक्तेऽपि द्रव्यान्तरे संयुक्तत्वजनके, स्वस्य संयुक्तत्वे द्रव्यान्तरसापेक्षे द्रव्ये व्यभिचारः स्यादित्यत उक्तं स्वविजातीयेति । तथापि सिद्धान्तिमते विजातीये शरीरे शरीरत्वमापादयति स्वस्य शरीरत्वे स्वसजातीयपरमात्मसापेक्षे चेतने व्यभिचारः स्यात्; तत्परिहाराय स्वाश्यंभावीति । अनेन स्वसजातीयव्यापकत्वमभिप्रेतम् । तथापि पुत्रगतपुत्रत्वहेतौ स्वस्य पुत्र- त्वे पित्रन्तरसापी#े पितरि, काष्ठद्वैधीभावहेतौ स्वस्य द्वैधीभावे परश्वन्तरसापेक्षे परशौ व्यभिचारः स्यात्; अतः स्वसंबन्धतुल्य- कालेति च विशेषणम् । अनुमानान्तरे चैवमेव पदप्रयोजनं द्रष्टव्यम् । "अनुभूतिरिति व्यवहारे चेत्यर्थः ' इत्ययं ग्रन्थः लेख-कस्खलनकृतः, परत्र "प्रकाशते' इति व्यवहारस्यैवोत्पाद्यत्वेन अनुभूतिः' इति व्यवहारस्यानुत्पद्यत्वादिति द्रष्टव्यम् । सोपाधि-कमिति । संबन्धविशेष एवोपाधिरित्यर्थः । निरासको हीति । दीपस्य हि स्वप्रकाशत्वं स्वीयतमोनिरासकत्वं वा स्यात्, स्व-विषयज्ञानात्पादकत्वरूपं वा स्यात् । ज्ञानस्य स्वप्रकाशत्वं च स्वविषयव्यवहारोत्पादकत्वमेव । अत्र न क्कापि विरोधं पश्याम इति भावः । यदि हि स्वस्यैव कार्यत्वं कर्तृत्वं च स्यात्, तदा हि परं विरोधः । स्वविषयव्यवहारो वा, स्वविषयज्ञानं वा, स्व-संबन्धितमोनिरासो वोत्पाद्यः, स्वयं च कर्तेत्युक्तौ हि को विरोधः? तत्र चाकारान्तरेण चेदिति । तत्राष्याकारान्तरं चेत्, अवि- रोध एव । तथा(?) "तदात्मानं स्वयमकुरुत' इत्यादौ स्थूलचिदचिद्विशिष्टरूपेण कर्मत्वं सूक्ष्मचिदाचिद्विशिष्टवेषेण कर्तृत्व-मित्यस्यार्थस्य दर्शनादिति भावः । अज्ञातस्यैव ज्ञानस्येति । अनवभासमानस्यैवेत्यर्थः । "तस्मादवभासमानस्यैव' इत्युप-संहारग्रन्थानुसारादिति द्रष्टव्यम् । ज्ञानकर्मतापूवर्कत्वविरहः प्रसज्यते चेदिति । ज्ञानं प्रति कर्मकारकत्वपूर्वत्वनियमाभङ्ग इष्ट इति भावः । न च तद्वयवहारस्तत्कर्मकज्ञानपूर्वक इति निय आवश्यकः, अन्यथा अन्यज्ञानादन्यस्य व्यवहारप्रसङ्ग इति वाच्यम्-व्यवहारो ज्ञानपूर्वक इत्येव सामान्यव्याप्तिः; जडस्थलेऽतिप्रसङ्गभङ्गाय तद्विषयज्ञानस्य तद्विषयव्यवहारहेतुत्वमिति नियामकान्तरमपि कल्प्यते; न ज्ञानस्थलेऽपीति भावः ।

सेयं स्वयंप्रकाशानुभूतिरित्यत्र तच्छब्देन सैव सतीत्युक्तं, सदैक्यं परामृश्यते, इदंशब्देन प्राकट¬ानुमाननिराकरणसिद्धं प्रमौ-णान्तराविषयत्वं परामृश्यत इति व्याचष्टे-सेयमिति । सदैक्यपरामर्शस्य वक्ष्यमाणानुपयुक्तत्वादन्यथा व्याचष्टे-यद्वा स्वयं प्रका-शत्वेति । द्वितीयः कल्पो ग्राह्राभावाद्दूषित इति । अनुमित्यादौ ग्राह्रस्यावारणत्वेन तदभावेन दूषणासंभवादिति भावः । अतो भावरूपविकारेति । नाशस्तु न भावरूपो विकारः तस्याभावरूपत्वादिति भावः । ननु भावरूपविकारराहित्वे साध्ये अनुभूतेर्नाशराहित्यं न सिध्यतीत्यस्वरसादाह - यद्वा भावस्य विकार इतीति । भावत्वे सत्यनुत्पन्नत्वं विकारान्तराभावे प्रयोजकमिति फलितमिति । यद्यष्युत्पत्त्यभावात् भावस्य विकारा न सन्तीत्युक्तेऽनुत्पन्नत्वविशेषणत्वम् । तावतापि प्रागभावे व्यभिचारवारणासंभवाच्च । प्रागभावस्याभावरूपतया भावसंबन्धिविकाराभावात् -तथापि भावविकारित्वाभावस्य विशिष्टा-

भावस्य विकारित्वरूपविशेष्याभावपर्यवसानार्थं भावत्वे सत्यनुत्पन्नत्वादित्यनुमानान्तरमावश्यकमित्यभिप्रेत्यैतदुक्तमिति ध्येयम् ।

अनुभूतेर्नित्यत्वादिसमर्थनम्

व्यापकजन्मनिवृत्त्येति । नानात्वनिवृत्त्यैव जन्मनिवृत्तेरुक्तत्वादिति भावः । अत्र व्याप्तिग्रहस्थलाभावश्चाधिकदूषणं द्रष्टव्यम् । यथावस्थितान्वयेऽपि पर्यवसानबलाद्वयापकत्वसिदिं्ध दर्शयति - यद्वा यथेति । अनुभूतिर्न व्यावृत्तिरूपधर्मभागिति । इदमनु-मानद्वयं नित्यत्वादिधर्मराहित्यरूपद्वितीयपक्षानुमानयोरष्युपलक्षणं द्रष्टव्यम् । "यतो निर्धूतनिखिल' इत्यस्य ज्ञात्रसद्भावसमर्थन-मुखेन संविदात्मत्वहेत्वं स्वरसतः प्रतीयत इत्यभिप्रेत्य व्याचष्टे-सकलभेदनिषेधेनेति । निर्धूतनिखिलभेदत्वस्यात्मत्वेऽद्वारकहेतु-संभवमभिप्रेत्य व्याचष्टे-यद्वा वेदान्तैरात्मन इति । "आश्रयो ज्ञाता' इत्यनयोः पौनरुक्तयमाशङ्कय ज्ञातृशब्दविवरणरूपत्वान्न पौनरुक्तयमित्यभिप्रेत्याह-स्वरूपातिरिक्त आश्रयो हीति । तर्हि ज्ञात्रभावस्य को हेतुरित्याशङ्कायां स्वरूपातिरिक्तपदेन ज्ञात्र- भावे हेतुरुक्त इति दशर्यति-संवित्स्वरूपातिरिक्तत्वादेवेति । "स्वप्रकाशरूपा सैषात्मा' इति भाष्यप्रथमव्याख्यायामजडत्वा- च्चेति भाष्यस्य पौनरुक्तयं परहरति-स्वयंप्रकाशत्वं स्वतन्त्रसाधकं चेत्याहेति । पूर्वं संविदात्मनोः स्वयंप्रकाशत्वस्य प्रमाण-सिद्धत्वात्, स्वयंप्रकाशस्य प्रागभावाद्यभावेनानुत्पन्नत्वात्, अनुत्पन्नस्य च नानात्वायोगात्, संविदात्मनोर्न भेद इति नाना-त्वाभावसाधनद्वारा संविदात्मत्वसाधकत्वं स्वयंप्रकाशत्वस्योक्तम्; इदानीं व्याप्तिबलेन संविदात्मत्वसाधकत्वमुच्यत इति भावः । कर्तरिक्त इति । आप्नोतेर्गत्यर्थकत्वात्, अकमर्कत्वविवक्षया वा, "गत्यर्थाकर्मक' इति कर्तरिक्त इति भावः ।

आत्मनो ज्ञातृत्वाभावसमर्थनम्

ननु "अहं जानामि' इत्यहमर्थे ज्ञातृत्वस्य प्रत्यक्षसिद्धत्व्रेपि नात्मनो ज्ञातृत्वं प्रत्यक्षसिद्धमित्याशङ्क्याह - आत्मनोऽहंप्रत्यय-गोचरत्वस्य स्वानुभवप्रत्यक्षसिद्धत्वेनेति । यद्वा ज्ञातृत्वे प्रतीयमान इति । अंशवाचिना शकलशब्देनायमर्थः स्मार्यत इति भावः । ज्ञातृत्वं हीति भाष्यं पूर्वोक्तहेतोरसिद्धिशङ्कापरिहारपरमित्यभिप्रायेण कर्तृत्वायोगमुपपादयति-ज्ञातृत्वं हीति । अस्मिन् व्याख्याने स्वात्मशब्दस्वारस्याभावात् उपपादनसापेक्षकर्तृत्वायोगं हेतुमभिधाय तदुपपादनात्पूवर्मेव, ततः किमिति शङ्कापरहि#ारानौचित्याच्चान्यथा व्याचष्टे-यद्वा ज्ञातृत्वं नामेत्यदिना ।स्वरूपभूतज्ञानाश्रयत्वविवक्षायां कर्तृत्वशब्दः कथं घटत इत्याशङ्क्याह - कर्तृत्वमाश्रयत्वमिति । स्वात्मनि कर्तृत्वायोगहेतोरुपपादननिरपेक्षत्व्रेपि विकल्पितशिरोन्तरनिराकरणात् प्राक्,ततः किमिति शङ्कापरिहारस्यानुचितत्वात्, "अतो मनुष्योऽहम्' इत्यादिभाष्यं हेत्वन्तरपरतया व्याचष्टे-ज्ञातृत्वं भ्रान्तपुरु- षेति । अस्मिन् पक्षे अतः- शब्दस्य पूर्वोक्तपरामर्शिनो न स्वारस्यमिति द्रष्टव्यम् । जडत्वविक्रियात्मकत्वसाम्यादिति । जडत्व-विकारित्वसाम्यादित्यर्थः । विकारिद्रव्याहंकारेति, अविक्रियेति, साक्षिणि चेति भाष्ये दर्शनात् । अन्यथा विक्रियाद्रव्याहं- कारेति, अविक्रियायां साक्षिणीति च भाषणीयं स्यात् । न च ज्ञातृत्वस्य विकाररूपस्य कथं विकारित्वमिति वाच्यम्, विका-रत्वविकारित्वयोरविरोधात् । यद्यष्याश्रयाश्रयिभावे साम्यमप्रयोजकम्, द्रव्यगुणजातिव्यक्तयादौ तथाऽभावात् । तथापि जडं जडशश्रितमेव दृष्टम्; विकारि च विकार्याश्रितमेव दृष्टमिति भावः । केचित्तु, "विकारिद्रव्याहंकारग्रन्थिस्थमविक्रिये साक्षिणि' इति भाष्यपर्यालोचनायाम्, निविर्कारे विकारस्यावस्थानं न संभवतीत्येव प्रतीयते; न समयोरेवाश्रयाश्रयिभाव सति मन्यन्ते । "नाह खल्बयमेवं संप्रत्यात्मानं ज्ञानात्ययमहमस्मीति; नो एवेमानि भूतानि' इति सुषुप्तिविषयिणी श्रुतिः । अयं सुषुप्तः, "अय-महमस्मि' इत्येवं न जानाति खल्वित्यर्थः ।

शरीरप्रतिबन्द्या निरस्तेति । शरीरस्य कर्तृत्वेऽप्यात्मनो भोक्तत्वदर्शनादिति भावः । वस्तुतस्तु भोक्तृत्वमप्यात्मनो नास्त्येव । नन्वेवं संसारमोक्षयोर्वैयधिकरण्यप्रसङ्गः, मोक्षस्य चिन्मात्रगतत्वात्, बन्धस्य कर्तृत्वादिरूपस्यान्तःकरणगतत्वादिति चेत्-न; कर्तृत्वभोक्तृत्वादिविशिष्टान्तःकरणाध्यासाधिष्ठानभाव एव चिन्मात्रगतः संसार इत्यभ्युपगमेन दोषाभावात् । "अहंप्रत्ययगोचरात्' इति भाष्यं दृष्टान्ते शरीरेऽनात्मत्वासिद्धिशङ्काया अतिमन्दत्वादपरितुष्यन्नाह - यद्वा अप्रामाणिकाहंप्रत्ययगोचरत्वेन हीति । अस्मिन् पक्षे "प्रमाणिकानां प्रसिद्धमेव' इति भाष्यस्थ एवकारो यथाशब्दार्थः । अथवा तथाशब्दबलात् यथाशब्दोऽध्याहर्तव्यः । अस्मिन् पक्षे "अहंप्रत्ययगोचरात्' इति भाष्यस्थप्रत्ययापदस्य भ्रान्तिरर्थ इति द्रष्टव्यम् । केचित्तु - "ज्ञातुरपि विलक्षणत्वेन प्रमा-णसिद्धत्वात्तथाभ्युपगन्तव्यमित्यर्थः' इत्यस्यानन्तरं यद्वेति पदं कोशेषु दृश्यते । न तस्य सम्यवत्वं पश्यामः; "अप्रामाणिकाहं-प्रत्ययगोचर' ति ग्रन्थस्य तथाहमर्थादिति भाष्यगतस्याहमर्थादिति पदस्यावतारिकारूपत्वस्यैव युक्तत्वात् । ततश्चार्हप्रत्ययगोच-रादिति प्रतीकग्रहणमपि न युक्तम् । अहमर्थादित्येव प्रतीकग्रहणं युक्तम् । न चैतत्पूर्वग्रन्थस्थस्या अहंप्रत्ययगोचरादित्यस्य ग्रहणं

युक्तम्, देहातिरिक्तत्वसमर्थनपरे तस्मिन् वाक्ये देवातिरिक्तत्वं सिद्धवत्कृत्य शङ्कया अनुथितेरितयाहुः । ज्ञातृरष्यात्मानं प्रमाण-बाधितं चेदिति । प्रामाणिकाहंप्रत्ययगोचरस्यापीति शेषः । "अविक्रिये साक्षिणि' इत्यादिना पूर्वमात्मनि ज्ञातृत्वासंभवस्योक्त- त्वात्, उत्तरत्र तत्कृतोऽयं जानाम्यहमिति भ्रमः' इत्यत्मनि ज्ञातृत्वभ्रमोपपत्तेर्वक्ष्यमाणत्वाच्च पूर्वापरनुगुण्येनात्मनि ज्ञातृत्वाव-भासनोपपादनपरतया, "एवमविक्रियानुभवस्वरूपस्यैव' इत्यादि भाष्यं व्याचष्टे-अविक्रियात्मन इति । स्ववराक्यस्वारस्यानु-रोधेनान्यथा व्याचष्टे-यद्वा ज्ञातृत्वमिति ।

एवं ज्ञातृत्वस्यापारमार्थिकत्वमुक्तमिति । "यतोऽहं जानामि' इति भाष्यस्या, अहमर्थस्यैव ज्ञातृतया चिन्मात्रात्मनो यतो ज्ञातृ- त्वं न पारमार्थिको धर्म इत्यर्थ इति भावः । विशेष्यपर इत्यपौनरुक्तयमिति । धर्मिस्वरूपपर इत्यर्थः । भ्रान्त्या विवर्तत इति कथं निर्देशः? भ्रान्त्या प्रतीयत इति हि विवर्तशब्दार्थः । ततश्च पौनरुक्तयमित्याशङ्क्याह - करिकळभवन्निर्देश इति । "कपोले जान-क्याः करिकलभदन्तद्युतिमुषि' इतिवदिति भावः ।

महासिद्धान्तः

प्रतिजानाति-तदिदमितीति । वक्तुमुत्कण्ठत इत्यर्थः । "संप्रतिभ्यामनाध्याने' इत्याध्याने प्रतिषेधादात्मनेपदं न भवति । आध्या-नमुत्कण्ठा । अत्र च प्रतिपूर्वस्य जानातेरुत्कण्ठार्थत्वस्य विवक्षितत्वात् । प्रतिजानीते । इति पाठः सुगम एव । केचित्तु, "परम-पुरुषशब्देनोपेयम्' इत्यादिग्रन्थे "प्रतिजानाति' इति पाठो युक्तः, अर्थौचत्यात्; तत्र परमपुरुषादिशब्दैः स्मरणमात्रस्य युक्तत्वात् । इह तु, "प्रतिजानीते' इत्येव युक्तम् । लेखकदोषवशादिदं व्यत्यस्तमिति वदन्ति । प्रमाणप्रमेयविशेषसंबन्ध इति । प्रमाणविशेष उपनिषत्; प्रमेयविशेषः परमपुरुषः; तयोः प्रतिपाद्यप्रतिपादकभावः संबन्धः "तं त्वौपनिषदं पुरुषम्' इति श्रुत्यैव स्पष्टीकृत इत्यर्थः । अत्र भक्तया शुद्धभावं गत इति । न च "भक्तया शास्त्राद्वेहिृ' इत्येवान्वयोऽस्तु, न तु "भक्तया शुद्धभावं गतः' इति भक्तेर्भावशुद्धि-हेतुतयेति वाच्यम्-शास्त्रादित्यनेनैव हेत्वाकाङ्क्षाशान्त्या तत्र भक्तेर्हेतुत्वेनानन्वयात्; भावशुद्धेर्हेतुसाकाङ्क्षत्वाच्च "भक्तया शुद्धभावं गतः' इत्येवान्वय इति भावः । अनादिपापवसनेत्यादिकमौपनिषदेत्यादिपूर्वविशेषणहेतुत्वेन व्याख्यायेदानीं कार्यत्वेन व्याचष्टे-यद्वा सम्यग्ज्ञानेति । दुनिर्रासत्वमिति । दुःखेन निरासो यस्येति बहुव्रीहिः । दुनिर्रसत्वमिति पाठः सुगम एव । यद्वा तत्तद्द्वाद्यभि-मतेति । अयं भावः-सकलाभिमतं प्रमाणं सकलप्रमाणम्; येन येन यदभिमतं तत् सर्वमित्यर्थः । अत एव भाष्ये वक्ष्यति-"प्रमाण-संख्याविवादेऽपि सर्वाभ्युपगतप्रमाणानामयमेव विषयः' इति । प्रत्यक्षादि च सकलप्रमाणं चेति द्वन्द्वः । न तु कर्मधारय इति भ्रमि-तव्यम्; तथोत्वेऽर्थापत्त्याद्यसंग्रहापत्तेः । आदिशब्दादनुमानमिति प्रागुक्तेः । यद्वा आदिपदेनासंकोचेनार्थापत्त्यादिप्रमाणान्तर- स्यापि परिग्रहार्थः सकलशब्द इति ।

प्रमाणानां सविशेषयत्वम्

तद्वयावृत्त्यर्थमिदंशब्दः इति । #ृङ्गग्राहिकया संप्रतिपन्नं किंचिन्निर्दिश्य, इदं प्रमाणमिति न शक्यते दर्शयितुमिति भावः । एक-वचनानुसारेणान्यथा व्याचष्टे-यद्वा न काचिदपीति । अत्र केचित् - यद्वेति पदं लेखकस्खलनकृतम्, तद्राहित्येनैव ग्रन्थस्वारस्य-मस्तीति मन्यन्ते । गन्धोऽनुभूयत इति । अनुभूतेर्विशेषणत्वेन भानात् सर्वस्याप्यर्थस्यानुभूतिरूपविशेषणविशिष्टत्मेव, न निर्विशेषत्वमित्यर्थः । ननु "यस्तु स्वानुभवः प्रमाणत्वेनोपन्यस्तः' इत्येवं तुशब्देन स्वानुभवलक्षणप्रमाणविशेषे प्रदर्शनीये तुशब्देन समयविशेषप्रदर्शनमसंगतमित्याशङ्कय समयवैषम्यप्रदर्शनस्यापि मूलभूतस्वानुभवलक्षरप्रमाणवैषम्यप्रदर्शनपर्यवसन्नत्वान्न दोष इत्याह - तुशब्देन समयं विशिंषन्निति । ननु विशिष्टो विषयः स्वयमेव चेत्, विशिष्टो विषयो यस्येति बहुव्रीहिनिर्देशः कथमित्या-शङ्कयाह - शिलापुत्रकस्य शरीरमितिवदयं निर्देश इति । स्वानुभवसिद्धमित्यनेनैकाथ्र्यादिति । अनुभवान्तरव्युदासपरग्रन्थै-काथ्र्यादौपचारिकत्वस्यैव वक्तुं युक्तत्वादित्यर्थः । ननु स्वानुभवशब्दस्याष्यनुव्यवसायरूपज्ञानान्तरपरत्वसंभवत् कथं तदैका-थ्र्येनोक्तार्थपरत्वनिश्चय इत्यत्राह - न चानुभवशब्दोऽनुव्यवसायपर इत्यादिना । अतीतविषयतयेति । वर्तमानज्ञानस्य स्वप्रका-शतया अनुव्यवसायस्य वर्तमानविषयत्वासंभवेनातीतविषयत्वनियमादतीतविषयकस्य प्रत्यक्षत्वानुपपत्तेरित्यर्थः । प्रमुषितसंस्का-रमिति । अनुद्वुद्धसंस्कारमित्यर्थः । अन्यदिति । उद्वुद्धसंस्कारमित्यर्थः । न च घटानुभवसंस्कारात् घटस्यैव स्मृतिविषयत्वम्, न घटज्ञानस्येति वाच्यम्-तस्य स्वप्रकाशतया तज्जन्यस्मृतेरेवानुभवस्मृतित्वोपपत्तेः । नन्वनुमितिसामग्री स्मृतिसामग्य्रपेक्षया बल- वती । अनुमित्मासत्त्वे तु ततस्तराम् । ततश्चाप्रमुषितसंस्कारस्यापि ज्ञानस्यानुमिति विषयत्वं संभवत्येवेतिचेत्-न; "स्वानुभव-प्रत्यक्षसिद्धम्' इति तद्गोष्ठीसमयस्य तथाष्यनिर्वाहादित्याशयात् । परोक्षत्वं विषयद्वारेति । अनुमित्यादिज्ञानस्यापि स्ववृत्ति-

वर्तमानस्य सर्वस्यापरोक्षत्वादिति भावः । पक्षाविशिष्टो हेतुः स्यादिति । पक्षाभिन्नो हेतुः स्यादित्यर्थः । ततश्च स्वरूपासिद्धो हेतुः स्यादिति भावः । पक्षव्यापको हि हेतुरिति । पक्षवृत्तिर्हेतुरित्यर्थः । किंचान्यस्येति । स्वसंबन्धादर्थान्तरे तद्वयवहारहेतोरेव स्वव्यावृत्तिरूपत्वादिति भावः । व्यधिकरणासिद्धीति । स्वरूपासिद्धीत्यर्थः । ततश्च "स्वासाधारणैः' इत्यनेन स्ववृत्तित्वे सति व्याप्यत्वमिति सिध्यति । ततश्च सत्तातिरेकित्वं स्वासाधारणत्वोपयुक्तमित्यत्र तात्पर्यम् । अतो न "सत्तारिरेकिभिः' इत्यस्य वे#ैयथ्र्यं शङ्कनीयम् । धीत्वस्वप्रकाशत्वे सिध्यत इत्यर्थ इति । धीत्वे साधिते तेन स्वप्रकाशत्वं सिध्यतीत्यर्थः । ननु धीत्वं स्वप्रकाशता च ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धेरिति भाष्ये धीत्वस्वप्रकाशत्वयोः साक्षात् साधिका (स्व)विषयप्रकाशनतयोपलब्धिरिति प्रतीयते । तस्याधीत्वसाधकत्वं धीत्वस्य च स्वप्रकाशतासाधकत्वमिति व्याख्याने भाष्यस्वारस्यं नास्तीत्यपरितोषादन्यथा व्याचष्टे-यद्वा धीत्वं धीस्वरूपमात्रमिति । धीस्वरूपं तस्य स्वप्रकाशत्वं च विषयप्रकाशनस्वभावतयोपलब्धेः सिद्धमिति भाष्यार्थ इत्युक्तं भवति । आत्मस्फुरणमिति ।आत्मस्वरूपस्फुरणमित्यर्थः । भाष्ये-स्वाभिमततद्विदाभेदैश्चेति । "अनुत्पन्नत्वान्नित्यत्वम्; नित्य-त्वादात्मनो नानात्वमपि न सहते' इत्येवं परेण साधनादिति भावः । पूर्वं सविशेषत्वनिरासकहेतुभिः सविशेषत्वमुक्तमिति । "अतः कैश्चिद्विशेषैर्विशिष्टस्य' इति भाष्येणेत्यर्थः । ततः कतिपयेति । "ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धेः' इति भाष्येणेत्यर्थः । केचित्तु-"स्वाभिमततद्विधाभेदैः' इति भाष्येणेत्यर्थः सति व्याचक्षते ।

शब्दप्रत्यक्षयोः सविशेषविषयत्वम्

स्वप्रकाशवृवि निरूप्येति । पूर्वस्मिन् पक्षे स्वप्रकाशवृत्तिः प्रतिज्ञातसर्वप्रमाणसविशेषविषयत्वाननुप्रविष्टा; द्वितीयपक्षे तु सापि तत्र निवेशितेति विवेकः । अन्तरङ्गत्वेनोभयवादिसंमतस्येति । पूर्वस्मिन् पक्षे परोक्तं बलीयस्त्वं न सिद्धान्तिसंमतम्; सिसि-द्धान्तिसंमतः सविशेषवस्तूबोधकत्वातिशयो न परसंमतः । अस्मिन् पक्षे अन्तरङ्गत्वाकार उभयसंमतः इति विवेकः । ननु निर्विशेषशब्देनेति । "निर्वशेषं वस्तु नास्ति' इत्यत्र निविर्शेषशब्देनेत्यर्थः । निषेधोऽनुपपन्न इति । प्रतीतेः सर्वस्या अपि प्रमारूपत्वादित्यभिमानः । भ्रान्तिप्रमितिविभागादिति प्रमितिविषयनिषेधे हि दोषः, न भ्रान्तिविषयनिषेधे इति भावः । निर्विशेषशब्दजनितेति । प्रमाणाभावसप्रसक्ता भ्रन्ति "निर्विशेषं नास्ति' इति प्रमाणेन बाध्यत इत्यर्थः । भ्रान्तित्वे हेतुमाह-मिथोऽन्वयानर्हार्थगोचरेति । परस्परानन्वितार्थान्वयविषयत्वमेव भ्रान्तित्वमिति भावः । केचित्तु-ननु निर्विशेषशब्देन निर्वि- शेषं वस्त्विति ग्रन्थमन्यथा व्याचक्षते-"न निर्विशेषवस्तुनि शब्दः प्रमाणम्' इति भाष्यवाक्यस्थनिर्विशेषशब्देनेत्यर्थ इति । अस्मिन् पक्षे निर्विशेषवस्तुनः शब्देन प्रतिपादने निषेधोऽनुपपन्न इति ग्रन्थः स्वरस्यः । तथा, नैवम्, भ्रन्तिप्रमितिविभा- गात् । निर्विशेषशब्दजनिता मिथोऽन्वयानर्हार्थगाचरा भ्रान्तिः प्रमितिजनकैः शब्दैः इत्यस्यायमर्थः-निर्विशेषशब्दजनित परम्परन्वयायोग्यधर्मधर्मिविषयकनिर्विशेषशाब्दत्वभ्रान्तिः "निविर्शेषं न शाब्दम्' इति शब्दप्रमाणकत्वाभावप्रमितिजनकैः शब्दैर्बाध्यते, भ्रान्तित्वेन माष्यते । भ्रमत्वबुद्धिर्हि बाध इति । अधिकरणतदसाधारणेति । अधिकरणत्वतः अधिकरणासा-धारणनिषेध्यप्रतिपक्षात् धर्मतश्चेत्यर्थः । विशेषाभावाधिकरणस्य निर्विशेषशब्दार्थस्य ब्राहृणः परेणाष्यङ्गीकृतत्वादधिकरणशब्दो भावप्रधान एव । तदसाधारणभूतो निषेध्यप्रतिपक्षधर्मः तदसाधारणनिषध्प्रतिपक्षधर्मः । अधिकरणालणान्निषेधकशब्दस्यानन्वय एव स्यादिति । विशेषाभावाधिकरणत्वरूपनिर्विशेषशब्दप्रवृत्तिनिमित्ताभावे निर्विशेषशब्दस्यापार्थकत्वमेव स्यादित्यर्थः । दूषणान्तरमाह - न हि निर्विभक्तिक इति । ततश्च विभक्तयर्थसंख्यान्वयोऽपि स्यादिति भावः । पदान्तरानन्वित इति । ततश्च निर्विशेषयं वस्त्वस्ति' इत्युक्ते वस्तुत्वास्तित्वान्वयावश्यंभाव इति भावः । अन्यपदार्थाभिधानमिति । "अनेकमन्यपदार्थे' इत्यनुशासनादन्यस्वरूपार्थामिधानमवर्जनीयमिति भावः । इदमुपलक्षणम् । मत्वर्थे बहु#ेव्रीहेरनुशिष्टत्वात् मत्वर्थात्मकसंबन्ध-रूपविशेषाभिधानमवर्जनीयमित्यपि द्रष्टव्यम् । तत्पुरुषपदप्रयोगं चेति । "निर्गतो विशेषत्' इत्येवं "निरादयः क्रान्ताद्यर्थे पञ्च- म्या' इति समानेन निर्गमनक्रियाश्रयत्वस्य प्रतीत्यवश्यंभावादिति भावः ।

निर्विकल्पकसविकल्पकनिरूपणम्

निर्विकल्पकानुभूतार्थस्येति । सविकल्पकानुभूयमानार्थप्रतिसंधानहेतुत्वेन निर्विकल्पकस्य निरूपणीयतया तस्य सविकल्पक-ज्ञानसाध्यत्वात् सविकल्पकं प्रथमं निरूपितमिति भावः । पश्चादुद्दिष्टस्य सविकल्पकस्य बुद्धिस्थत्वं चकारात् समुच्चीयत इत्यपि द्रष्टव्यम् । सविकल्पकस्वरूपं प्रदर्शितमिति । पश्चादुद्दिष्टमपि प्रागिति शेषः । कल्पनामपि व्युदस्यति-त्रिकोणेति इति ग्रन्था-नन्तरम्, "यद्वा अनुपपतिं्त व्युदस्यति-त्रिकोणेति' इति पाठः सुगमः । अध्याह्मतशङ्कावाक्येन ग्रहणायोगादिति पञ्चम्या अन्वय

इति । सर्वविशेषवियुक्तस्य ग्रहणं कल्प्यमिति शङ्कावाक्यप्राप्तप्रतिक्षेपकत्वेनेतेयर्थः । कस्यचिदपि पदार्थस्य ग्रहणायोगान्न सव-र्विशेषवियुक्तस्य ग्रहणं कल्प्यमित्यध्याह्मतकल्प्यपदेनान्वय इति भावः । तमेवान्वयं दर्शयति-दृष्टव्याप्तीत्यादिना । प्रथम-द्वितीयपिण्डयोरिति । प्रथमद्वितीयपिण्डग्रहणयोरिर्थः । गोत्वानुवृविप्रतीत्यप्रतीत्योरिति । चक्षुषा पृथिवीग्रहणेऽपि न गन्ध-ग्रहणम्, गन्धस्य चक्षुरयोग्यत्वात्; इह तु न तथेति भावः । अपृथविसद्धत्वेन तन्नास्तीति परिहरतीति । "संस्थानेन विना संस्थानिनः प्रतीत्यभावात्' इत्यस्य भाष्यस्य संस्थानेन विना संस्थानिनोऽभावादित्येवार्थः । प्रतीत्यभावकथनं तदुपपादनायेति भावः । संस्थानरूपशब्देनाभिप्रेतोऽर्थ इति । अपृथक्सिद्धत्वमेव संस्थानशब्देनाभिप्रेतमिति भावः । यद्वा "इत्थम्' इत्यनेन विवृतो भवतीति योजनां । प्रकारप्रकारिभावेन ग्रहणोपपत्तेरिति । जातिव्यक्तिमात्रयोरिति शेषः । जात्यादयो विशेष्यं चेति । अत्र विशेषणमात्रमेव गृह्रते, न विशेष्यमिति कश्चित् पक्षः । विशेषणवत् विशेष्यं च गृह्रते एव; वैशिष्टयमात्रं न गृह्रत इत्य- परः । ननु विशेषणविशेष्यभावस्य सप्रतियोगिकत्वादिति । दण्डविशिष्यज्ञाते दण्डे पुरुषप्रतियोगिकविशेषणत्वं भासते; पुरुषे च दण्डप्रतियोगिकविशेष्यत्वम् । ततश्च विशिष्टज्ञानविषयाभूतस्य विशेषणविशेष्यभावस्य सप्रतियोगिकत्वात् तज्ज्ञानं पूर्वमपेक्षितमिति भावः । न च निर्विकल्पकवादिना विशेषणज्ञानस्यैव हेतुत्वमभिप्रेतम्; न विशेष्यमानस्यहति वाच्यम्; अस्य मतान्तरत्वेनादोषात् । तस्यापि स्वभावस्य स्वविशेष्यभूतमिति । जात्यादेर्विशेषरत्वस्वभावलक्षणविशेषणत्ववैशिष्टयं न प्रथ-मतोऽवगतम्, येन प्रथमतो विशिष्टप्रतीत्यभ्युपगमः स्यादिति भावः । विशेषणत्वं न प्रथममिति विशेषणत्ववैशिष्टयमित्यर्थः । किंतु स्वरूपमात्रमिति चेदिति । परस्पराविशिष्टानि व्यक्तिजातितद्विशेषणत्वानि प्रतिपन्नानीत्यर्थः । तावतापि विशेषणविशे-ष्यभावव्यत्याससंभवादिति भावः । विशेषणतत्स्वभावयोरिति । परस्परानन्विततया गृहीतयोर्विशेषणतत्स्वभावयोर्विशिष्ट-प्रतीतिदशायां व्यत्यासः प्रसज्येत । अतस्तस्यापि धर्मान्तरभानेऽत्रानवस्थेति भावः । यदि व्यत्यासविशिष्टप्रतीतिप्राथम्यप्रसङ्ग-परिहारायेति । जात्यादिस्वरूपस्यैव विशेषणत्वरूपतया वस्तुस्वभावादेव न व्यत्यासप्रसक्तिः । धर्मान्तरस्याभावात् वैशिष्टया-प्रसक्तेर्न विशिष्टप्रतीतिप्राथम्यप्रसङ्गः, नाष्यनवस्थेति भावः । विशेषणतया विशेष्यतया च स्यादिति । न च विशेषणत्वस्य स्व-रूपरूपस्य प्राग्गृहीतत्वेऽपि विशेषणतावैशिष्टयस्याभानान्न विशेषणतया प्रतीतिप्रसङ्ग इति वाच्यम्-तद्वैशिष्टयस्यापि स्वरूपरू-पतया तस्यापि भानावश्यंभावादित्यत्र तात्पर्यात् । भिन्नसामग्रीवेद्यवस्तुगोचरत्वमुपाधिः स्यादिति । ननु निर्विकल्पकवादिमते विशिष्टज्ञाने विशेषणज्ञानघटिता सामग्री; विशेषणज्ञाने तु न तथेति भिन्नसामग्रीवेद्यत्वस्योपाधेः दूषितत्वादित्यभिमानात् । पक्षव्यवच्छेद्यत्वसिद्धेरिति; पक्षव्यवच्छेद्यत्वस्य सिद्धिर्येन, स पक्षव्यवच्छेद्यत्वसिद्धिः; पक्षमात्रव्यावर्तकस्येत्यर्थः । यद्वा पक्षे साध्यव्यवच्छेदस्य सिद्धेरित्यर्थः । बाधोन्नीतपक्षेतरत्वस्येवानुकूलतर्के सत्युपाधित्वसंभवादिति भावः । तर्कबलादुपाधित्वस्वीकारे दृष्टान्तद्वयमाह-यथा प्रध्वंसाभावेत्यादिना । अयं भावः-यथा साधनावच्छिन्नसाध्यव्यापके भावरूपत्वे सति आदिमत्त्वरूपे आर्द्रि#ेन्धनसयोगरूपोपाधौ च भावत्वाद्र्रत्वरूपविशषषणयोः साध्यव्यापकत्वानुपयुक्तयोरप्यनुकूलतर्कवशादुपाधिकोटिप्रवेशः, एवं भिन्नसामग्रीवेद्यत्वमित्यत्र साध्यव्यापकत्वानुपयुक्तस्यापि भिन्नेत्यस्योपाधिविशेषणत्वं संभवतीत्यपि द्रष्टव्यम् । सर्वत्राग्नि- मतीति । आद्र्रेन्धनशून्यस्थलेऽपीत्यर्थः । ननु जन्यविशिष्टज्ञानत्वस्य बाधकं विना कार्यमात्रवृत्तिधर्मत्वेन कार्यतावच्छेदकत्वात् तदवच्छिन्नेऽनुगतकारणत्वस्य वक्तव्यत्वात् जन्यविशेषणज्ञानस्य हेतुत्वसिद्धौ जागराद्य-सविकल्पकज्ञानहेतुतया कारणभूतं विशेषणज्ञानं सिध्यन्निर्विकल्पकमेव सिध्यतीति चेत्-न; विशिष्टमानत्वं हि विशेषणविशेष्यसंबन्धविषयकज्ञानत्वम्; तच्च विशेषणविशेष्यतत्संबन्धभानसामग्य्रैवोपपन्नम्; न तु कार्यतावच्छेदकं, नीलघटत्ववदर्थवशसंपन्नत्वात् । ननु विशिष्टज्ञाने विशेषणज्ञानहेतुत्वमवश्याश्रयणीयम्; इतरथा जातिव्यक्तयोरिन्द्रियसंनिकर्षेऽविशिष्टेऽपि कताचिज्जातिविशेषणिका व्यक्तिविशे-ष्यिका प्रतीतिर्जायते कदाचिच्च तद्वैपरीत्येनेति सर्वसिद्धव्यवस्था भज्येत । विशेषणज्ञानकारणत्वेऽभ्युपगते तु यस्य प्रागवगति;, तद्विशेषणकं विशिष्टज्ञानमुत्पद्यत इति व्यवस्था सुवचेति चेत्-न; यत्रोभयविषयकं निर्विकल्पकं तत्र द्वयोरपि प्रागवगतत्वाविशे-षाद्विशेषणविशेष्यभावव्यवस्थापकस्य कस्याष्यभावादव्यवस्थाप्रसक्तिरतदवस्थैव स्यात् । यदि च तत्रादृष्टं व्यवस्तापकम् । तदेव सर्वत्र व्यवस्थापकमस्तु; किं विशेषणज्ञानकारणत्वाभ्युपगमेन? ननू गोत्वप्रत्यासत्तिजन्यंज्ञानं गोत्वप्रकारकमेव, न व्यक्तिप्रकार-कमिति सिद्धम् । तत्र यदि विशेषणज्ञानं विशिष्टज्ञाने कारणं न भवेत्, तदा सामान्यप्रत्यासतिजन्यं ज्ञानं पूर्वानवगतव्यक्तिविशे-षणकमपि कदाचित् स्यात्, पूर्वावगतमेव विशेषणमिति नियमाभावादिति चेत्-न; सामान्यप्रत्यासतिजन्यसकलव्यक्तिविषय-कज्ञानस्यैवाभावात् । तस्माद्विशिष्टज्ञानस्य विशेषणविशेष्यतद्वैशिष्टयभानसामग्य्रैवोपपन्नत्वान्न विशेषणज्ञानत्वं कारणतावच्छे-

दकम् । यदि ह्रनुमित्यननुमितिरूपज्ञानद्वयवन्निर्विकल्पकसविकल्पकरूपज्ञानद्वयं प्रामाणिकं स्यात्, तदा सामान्यसामग्रीत एव विशिष्टज्ञानोत्पत्तशै सर्वमपि ज्ञानं विशिष्टज्ञानं स्यादिति भयेन विशेषसामग्री कल्प्येत । न च तदस्ति, निर्विकल्पकस्याद्याष्य- सिद्धेः; सर्वस्यापि ज्ञानस्य सविकल्पकत्वात् । "इदमित्थम्' इति हि सर्वापि धीः । अन्यथा निष्प्रकारकधीवन्निर्विषयापि धीः स्यात् । इच्छाऽपि काचिन्निर्विषयाऽतीन्द्रिया च स्यात् । एवं द्वेषादयोऽपीत्यलमतिचर्चया । तदेतःसर्वमभिसंधायोपसंहरति-अतो यथोक्तस्वरूपे एव निर्विकल्पकमबविकल्पकं इति । द्वितीयादित्वेन पिण्डग्रहणेष्विति । अयं भावः-अनुवृत्तग्रहणरहितेषु प्रथमेतरग्रहणेषु सविकल्पकत्वाभावापादनं तु न संभवति, प्रथमेतरत्वेन ग्रहणेऽनुवृविग्रहणनैयत्यादिति ।

भेदाभेदवादनिरासः

अत्र सहोपलम्भनियमसमानाधिकरणप्रत्ययौ भेदाभेदसाधकाविति । ननु केवलभेदे केवलभेदे च सामानाधिकरण्यानुपलम्भा- दस्तु सामानाधिकरण्यं भेदाभेदसाधकम् । कथं सहोपलम्भनियमो भेदाभेदसाधकः? न तावत् सहोपलम्भनियम एकज्ञान- विषयत्वम्, तस्यैक्येऽपि दृष्टत्वात् । नाष्येककालीनोपलम्भद्वयविषयत्वम्, जातिव्यवत्योस्तदभावात् । नाप्युपलम्भसामग्री-द्वययौगपद्यनियमः, उपलम्भैक्येन सामग्रया अप्येकत्वात् । न च घटपटसमूहालम्बने उपलम्भैक्येऽपि सामग्रीद्वित्वं दृष्टमिति वाच्यम्-घटेन्द्रियसंनिकर्षो घटज्ञानसामग्री, पटेन्द्रियसंनिकर्षः पटज्ञानसामग्रीत्यन्यत्र सामग्रीभेदनिधारणसंभवात् तत्र तथा; इह तथा अभावात् । न च जातीन्द्रियसंनिकर्षो जातिज्ञानसामग्री; व्यक्तीन्द्रियसंनिकर्षो व्यक्तिज्ञानसामग्रीतिभेदः संभवतीति वाच्यम्, भेदस्य वा अभेदस्य वाऽध्याष्यसिद्धेः, भेदसिद्धौ च तदधीनस्य सहोपलम्भनियमस्य न भेदसाधकत्वम्, अपित्वभेद-मात्रसाधकत्वमित्येव स्यात् । किंच एकशब्दानुविद्धप्रत्ययस्य "पुरोवत्र्येकः' इत्येवंरूपस्य जातिव्यक्तयैक्यसाधकत्वेऽपि प्रथम- पिण्डे भेदाग्रहणस्य कथमभेदसाधकत्वम्? न हि प्रथमतोऽगृहीतां सर्वमसदित्यस्ति । न हि विशेषादर्शनदशायामप्रतीतत्वाद-सत्त्वमिति काचिद्युक्तिरस्तीति चेत्-उच्यते-सहोपलम्भनियमो ह्रेकोपलम्भविषयत्वमेव । तच्चैक्यसाधकमेव । तद्द्वारा भेदाभेद-साधकम् । उत्तरत्र तदनुगुणवाक्यानां बहूनामुपलम्भात् । नन्वेवमेकशब्दानुविद्धप्रत्ययप्रथमपिण्डग्रहणाभेदग्रहणयोरष्यभेदद्वारा भेदाभेदसाधकत्वसंभवात् पृथक्क्यृ, तयोरभेदसाधकत्वमित्युक्तरयुक्ता स्यात्,(?) त्रयाणमष्येकीकरणस्यैव युक्तत्वादिति चेत्-सत्यंमभेदद्वारा भेदाभेदसाधकत्वांशे (?) त्रयाणामष्यैकराश्यम् । अपितु तयोर्युक्तयोरभ्युच्चययुक्तित्वमिति तयोरेकराशीकरणम् । अत एव न तद्विषयदूषणस्याष्यवकाशः, तयोरभ्युच्चयमात्रत्वादिति । स्वपर्यवसितेति । स्वनिष्ठेत्यर्थः । पाररन्त्र्यस्वभावशून्येति यावत् । ननु सहोपलम्भनियमस्य भेदाभेदसाधने नासाधारणत्वम्, भेदाभेदवतः सपक्षस्यैवाभावेन तद्वयावृत्तिरूपासाधारणत्वा- प्रसक्तः । अत एव पृथिव्यामितरभेदे साध्ये जलदित्रयोदशभेदवतः सपक्षरयाभावान्नासाधारण्यमित्यस्वरसादाह - किं च विरुद्ध एवेति । द्वित्वसाधकसहोपलम्भनियम इति । द्वित्वसाधकस्य सहोपलम्भस्य नियम इत्यर्थः । उभयत्र विशेषणविशेष्यभावः समानः' इति भाष्यमुभयत्र विशेषणविशेष्यभावे विप्रतिपव्यभावेनः मन्दप्रयोजनमित्याशङ्कय शङ्काविशेषनिरासपरतया व्याचष्टे- यद्येवं जातिकुण्डलादिरित्यादिना । भाष्यस्थं समानपदं व्याचष्टे-उभयसंप्रतिपत्तेरिति । एवं तात्पर्यवर्णनस्य क्लिष्टत्वादन्यथा व्याचष्ट-यद्वा पृथक्संस्थानसंस्थितानामिति । सहोपलम्भनियमोनान्यत्रेति व्यवस्थासिध्द्यर्थमिति । सहोपलम्भप्रयोजका-पृथ्सिद्धत्वनियम इत्यर्थः ततश्च सहोपलम्भव्यवस्थाया अपृथक्सिद्धत्वेन प्राक् समर्थितत्वात् कथमस्याः शङ्काया उत्थानमिति न चोदनीयम् । इयांस्त्विति भाष्ये तुशब्द एवकारार्थ इत्यङ्गाकृत्यान्ययोगन्यवच्छेदपरतया व्याचष्टे-इमानेवेति । तुशब्दस्यावधार-णार्थत्वमस्वरसमित्यन्यथा व्याचष्टे-यद्वा विशेषणविशेष्यमावप्रसक्तेति । घटे पटस्याभाव इति । तादात्म्यसंबन्धेनेति शेषः । यद्वा पटस्याभावः पटत्वाभाव इत्यर्थः । भेद इति । पटाद्भेद इत्यर्थः ।

अनुमानादेः निर्विशेषविषयत्वनिरासः

वस्तुगतस्वभावविशेषैस्तदेव वस्तु निर्विशेषमिति भाष्ये सर्वप्रमाणविषयस्य सविशेषस्य वस्तुनः स्वभावविशेषैर्निर्विशेषतया निष्कर्षे निर्विशेषत्वासिद्धिर्वाग्विर्विरोधश्चोच्यत इति प्रतीयते । तच्चायुक्तम्, अनुक्तोपालम्भत्वात् । स्यानुभवविषये हि परैर्निष्कर्ष उक्त इत्यांशङ्कय स्वानुभवविषयनिष्कर्ष एव दूषणमनेनोच्यत इत्याह -प्रमाणानीत्यादिना । तानि तर्कपराहतानीति । अतो निरपवादस्वानुभवसिद्धं निर्विशेषमिति शेषः । स्मरणमात्रस्य मन्दप्रयोजनत्वमाशङ्कयान्यथा व्याचष्टे-यद्वा पूर्वं स्वानुभव- सिद्ध इति ।

सन्मात्रग्राहिप्रत्यक्षभङ्गः भेददूषणनिरासश्च

न केवलं सविशेषेति । यद्यपि "यदुक्त तदपि निरस्तम् इत्युक्ते परोक्तेन पूर्वनिरस्तेनार्थान्तरेणैव समुच्चयो वक्तुमुचितः; न तु सवि-शेषविषयत्वोपपादननिर्विशेषविषयत्वोपपादनानुपपत्त्योः; तथापि "इष्टं च सिद्धम्, अनिष्टं च निरस्तम्' इत्यादौ तथापि दर्शना-देवमुक्तमिति द्रष्टव्यम् । निर्विशेषविषयत्वोपपादनानुपपत्तिश्चेति । सन्मात्रग्राहिप्रत्यक्षस्य दूरोत्सारितत्वान्निर्विशेषयविषय-त्वोपपादनानुपपत्तिः फलितेति फलितानुपपत्त्या समुच्चयः । एतदम्बरमादाह-न केवलं भिन्नविषयत्वं स्थापितमिति । प्रति-योगिस्मरणकृतविलम्बे सत्यपीति । एकक्षणमात्रवर्तिनः सद् ग्राहिप्रत्यक्षस्य प्रतियोगिस्मरणसापेक्षभेदोल्लेखव्यवहारसामथ्र्यं नास्तीति पूर्वपक्षे यदुक्तम्, तत्र भेदस्यातिरिक्तत्वपक्षेऽपि भेदस्य दुर्निरसतया प्रत्यक्षस्य क्षणमात्रस्थायित्वनियमं परित्यज्य भेदो(दव्यवहारा)ल्लेखार्थमनेकक्षणस्थितिरष्यन्यथानुपपत्त्या कल्प्या । यदि हि तादृशक्लिष्टकल्पनमन्तरेणैव जात्यादेरेव भेदत्वं सुघटम्, तदा परोक्तयुक्तेर्दूगेत्सारितत्वं किमु वक्तव्यमिचाशयः । प्रथमचशब्दस्येति । ननु-अतःशब्दपरामृष्टस्वपरनिर्वाहकत्व-स्यानवस्थादिपरिहारे निरपेक्षहेतुतया अतः शब्दान्वितचशब्दप्रतिपाद्यसमुच्चेतव्यान्तराभावात् "न च' इत्यादिवत् च शब्दो वाक्यालङ्कार इति चेत्-न; चशब्दं भिन्नक्रममाश्रियानवस्था च अन्योन्याश्रयणं च(दूषणान्तरञ्च) नास्तीत्यभ्युपगमेनादोषात् । अनवस्थापरिहारसिद्धाविति । यद्यपि संवेदनरूपादिवदनवस्ताभीत्या स्वपरनिर्वाहकत्वसिद्धिरिति वदन्तं प्रति नास्याः शङ्काया उत्थानम्, तथापि तदनादरेणेयं प्रवृत्तेति द्रष्टव्यम् । कारणनिरूपणायापह्नवमर्हतीति । कारणनिरूपणं प्रसजेदित्येवं भीत्या-स्फुटावधारितं कार्यं नापह्नवमर्हतीति भावः । प्रपञ्चस्य बाध्यत्वज्ञानमिति । बाध्यत्वरूपभेदविषयज्ञानमित्यर्थः । पञ्चमं पक्षं प्रतिक्षिपति-न च बाध्यविषयत्वमिति । तथा सतीति । भेदस्य सर्वस्य बाध्यत्वे प्रपञ्चबाध्यत्वरूपभेदस्यापि बाध्यतया प्रपञ्च-सत्यत्वमेव स्यादित्यर्थः । "स्वशास्त्र निर्णये सत्य इति । बाध्यत्वात्मकभेदलक्षणशास्त्रार्थे सत्ये सति भेदस्य दुर्निरूपत्वयुक्तेर-प्रवृत्तेस्तुल्यन्यायतया प्रामारिकस्य भेदान्तरस्यापि सत्यत्वं स्यादित्यर्थः । स्वशास्त्राथस्र्य भेदमिथ्यात्वस्यासत्यत्वे तद्विरुद्धसत्य-त्वोन्मज्जनप्रसङ्ग इत्यर्थः । केचित्तु स्वशास्त्रार्थनिर्णये सत्ये सत्येव लोके निणर्या अस याःस्युः । तस्यैपासत्यत्वे लोकनिर्णयसत्यत्वं कुतो न भवेदित्यर्य इति वदन्ति । शब्दस्वभावायत्तत्वान्नाथर्दूषणत्वमिति । यथैकस्यैवार्थस्य स्वशब्दोल्लेखने निरपेक्षस्यापि कठितत्वलधुत्वादिशब्दोल्लेखने सापेक्षत्वम्, यथा वा ज्ञानानन्दाद्यभेदो ब्राहृस्वरूपमिति वदतस्तव मते ब्राहृशब्दोल्लेखने निरपेक्ष-स्यापि अभेदशब्दोल्लेखने सापेक्षत्वम् , तथेहापि घटशब्दोल्लेखने निरपेक्षस्यापि भेदशब्दोल्लेखने सापेक्षत्वमित्यस्तु; एकस्यैव गम-नस्य गच्छति, चलति' शब्दोल्लेखाभ्यां, प्रयत्नस्य च "करोति, प्रयतते' शब्दोल्लेखाभ्यां कर्मसापेक्षत्वनिरपेक्षत्वयोः शब्दस्व-भावप्रयुक्तत्वदर्शनादि#ि#ीत भावः । तदवच्छेदकमहिषादिपदार्थेति । व्यावृत्यवच्छेदकेत्यर्थः । महिषादिप्रतियोगिकव्यावृत्तिबुद्धि हेतुत्वप्रवृत्तिनिमित्तपुरस्कारेण भेदशब्दो गोत्वं दर्शयतीयर्थः । तटस्थोपाधिभेदादिति । घटकोपाधिभेदादित्यर्थः । कत्रैच्छौ प्रयोगाप्रयोगाविति । महिषादिपदार्थान्तरपुरस्कारेण गोत्वे ज्ञातेऽपि प्रयोगाप्रयोगावैच्छावित्यर्थः । न तु गोत्वज्ञानमात्रेणेति मन्तव्यम्, तावता भेदव्यवहारासंभवादिति द्रष्टव्यम् । तद्योगकार्यव्यावृत्तीति । भेदरूपधर्मान्तरयोगवार्या या व्यावृत्तिधीस्त-द्धेदत्वादित्यर्थः । अभेदेऽपि तुल्या इति ।

"भेदः स्वरूपं धर्मो वेत्यादिभेदविभीषिका ।

अकारमात्रप्रदलेषे स्यादिभेदविभीषिका ।।'

इत्युक्तेरिति भावः । ब्राहृाद्वितीयमित्यादिपदानां पर्यायत्वं च स्यादिति । द्वितीयपदस्य भेदपरत्वेनाद्वितीयमित्यस्याभेदार्थकत्व- मिति भावः ।

ज्ञाततयैव परमर्शप्रसङ्ग इत्यर्थ इति । न च - प्रत्ययमात्रस्य सन्मात्रग्राहित्वादज्ञाततयाऽपि "परमर्शसंभवः; किंच सन्मात्रांशे ज्ञातत्वापादनमिष्टमेव; अंशान्तरे तु न ज्ञातत्वमिति कथं तदापादनसंभव इति वाच्यम्-पूर्वोक्तदूषणे तात्पर्यात् । समवेतशब्दो विशेषणौकस्वभावपर इति । सिद्धान्ते सवमायानभ्युपगमादिति भावः । त्तत्तत्संस्थानवत्तयेति । असाधारणधर्मवत्तयेत्यर्थः । कालविशिष्टतयेति ; कालस्य सर्वेन्द्रियग्रह्रत्वादिति भावः । सविकल्पके तु देशादीनां बहूनां विशेषणत्वमिति । यद्यपि सिद्धान्ते निर्वकल्पकेऽपि देशादय्रोपि विशेषणं भवन्त्येव, तथाष्यनुवृत्तत्वादेनिÐर्वकल्पके भानं नास्तीत्यत्र तात्पर्यात्(र्यम्?) । गन्धस्थले देशग्रहणस्य प्रथमतोऽभावमभिप्रेत्य तथोक्तमित्यापि केचित् ।

जातेः संस्थानरूपत्वसमर्थनम्

संस्थानातिरेकिणोऽनेकेष्वेकाकारबुद्धिबोध्यस्येति भाष्ये संस्थानातिरिक्तैकाकारबुद्धिबोध्यनिषेधस्य पर्यवसाने द्वेधा घटते । संस्थानस्यैवैकाकारबुद्धिबोध्यत्वाद्वा तदतिरिक्तस्यैकाकारबुद्धिबोध्यस्याप्रामाणिकत्वाद्वेत्यभिप्रेत्य द्वेधापि व्याचष्टे-अयं सास्त्रा-दिमानित्यादिना । नामान्तरेणेति । अतिरेकवादद्रपीति । भाष्यस्य मतद्वयसंप्रतिपन्नसंस्थानस्यान्यतरसंप्रतिपन्नजात्यैक्यं न युक्तमिति तात्पर्यमिति भावः । केचित्तु-उभयसंप्रतिपन्नेनोपपत्तौ नातिरिक्तं कल्प्यमित्येव अतिरेकवादेऽपीति । भाष्ये स्वरसतः प्रतीयत इति वर्णयन्ति । परैरवयविनोऽसमवायिकारणत्वेन संस्थानं स्वीकृतमिति । यद्यपि द्रव्यविशेषविषय एवेदम्; न सर्वत्र-तथापि क्कचिज्जात्यपलापे तयैव रीत्याऽन्यत्रापि तदपलापः सिध्यतीति भावः । जातिमात्रोच्छेदश्च स्यादिति । सिद्धान्तेऽप्याकृ-तिरूपजातेः क्कचिदभ्युपगमात् स न स्यादित्यर्थः । जात्यजातिसाधारणमिति । अवयवसंयोगविशेषशौक्लयादिसाधारणमित्यर्थः ।

ननु स्वासाधारणमित्यत्र स्वशब्दः किमित्यादि । यद्यपि स्वशब्दस्य प्रकृतवाचिशब्दत्वात् यो यस्यासाधारणो धर्मः स तस्य संस्थानम्, यथा "असाधारणधर्मो लक्षणम्' इत्यत्र । संस्थानशब्दो हि सिद्धान्ते लक्षणशब्दापरपर्याय एव । अतो न विकल्पाव-काशः-अथापि शिष्यबुद्धिविशदीकरणायायं प्रपञ्च इति द्रष्टव्यम् । एकशब्दप्रवृत्तिनिमित्तत्वाभावादितीति । न च गृष्टिधेनुवश-#ावष्कयण्यादिशब्दवत् खण्डयोवाचकमपि किंचित्पदं किं न स्यादिति वाच्यम्, अनुपलब्धेरिति भावः । कस्तर्हि जातिरूपसं-स्थानानामिति । अवयवसंयोगविशेषरूपसंस्थानानां शौक्लयादिभ्यः संस्थानेभ्यः कथं भेदः? उभयोरपि संस्थानत्वस्याविशिष्ट- त्वेन, "जातिवाचिन उत्पलशब्दस्य प्राधान्यम्; गुणवाचिनो नीलादिशब्दस्य गुणत्वम् । ततश्च नीलादिशब्दस्य विशेषणत्वमेव । अत एव, "विशेषणं विशेष्येण बहुलम्' इत समासो "नीलोत्पलम्' इत्येव; न तु "उत्पलनीलम्' इति' इति व्यवस्था कथं स्या-दित्याक्षेपाभिप्रायः । जातिरूपसंस्थानलक्षणमिह विवक्षितं चेदिति । ननु "यो यदसाधारणो धर्मः, स तस्य संस्थानम्' इति संस्तानसामान्यलक्षणोस्थिते जातित्वे सति असाधारणधर्मत्वं जातिरूपसंस्थानलक्षणं भविष्यतीति कोऽसौ विचारः? किंच शौक्लयादिसंस्थानेष्वपि प्रकृताकारेण सुसदृशव्यक्तयः समस्ता इति विवक्षा आवश्यकी, शौकल्यादेरपि प्रकृताकारेण सुसदृश-व्यक्तयसाधारणधर्मत्वस्यावश्यवक्तव्यत्वात् । संस्थानरूपा घटत्वादिजातयः प्रतिव्यक्ति भिन्नाः; संस्थारूपाः शौक्लयादयश्च प्रति-व्यक्ति भिन्नाः । सौसादृश्येनैकीकरणं जात्यजातिसाधारणमेव । को विशेष इति चेत्-भावानवबोधात् । "संस्थानं नाम स्वा-साधारणं रूप' मिति भाष्यस्य जात्यजातिसाधारणसंस्थानस्वरूपनिर्वचनपरत्वमिति पूर्वमुक्तं पक्षं परित्यज्य जातिरूपसंस्था- नस्यैव लक्षणमुच्यत इति व्याख्यायामित्यर्थः । नन्वेवं व्याख्यायां पूर्वपक्षे किमस्वरसवीजमिति चेत्, उच्यते-"वस्तुसंस्तानरूप-जात्यादिलक्षणभेदविशिष्टमेव प्रत्यक्ष' मिति भाष्ये संस्थानशब्दस्यासाधारणधर्मरूपसंस्थानपरत्वविवक्षायां नैयायिकादीनामपि जातेरसाधारणधर्मत्वं सिद्धमेवेति संस्थानमेव जातिरिति प्रसाधनं व्यर्थं स्यात् । संस्थानस्योभयसंप्रतिपन्नत्वादिति । भाष्येऽष्य-साधारणधर्मस्योभयसंप्रतिपन्नत्वाच्चेति न युज्यते । अतः प्रांक्तनसंस्थानशब्दानामवयवसंयोगविशेषपरत्वं सिद्धम् । अतस्तदवै-रूप्यायेदमपि तथैव वक्तुमुचितमित्याकृतिरूपसंस्थानमात्रपरतया "संस्थानं नामे'ति भाष्ययोजनायामित्यर्थः । अत आकृति- रूपो धर्मविशेषः संस्थानमिति न काष्यनुपपत्तिरिति द्रष्टव्यम् । देशतः कालतश्च नोपपद्यत इति । गकारदेशानन्तरदेशत्वलक्षणं वा गकारोत्तरकालत्वलक्षणं वा आनुपूव्र्यमौकारस्य नोपपद्यते, वर्णानां नित्यत्वाद्विभुत्वाच्चेति भावः । तस्या उच्चारणनिबन्ध-नत्वादिति । गकारोच्चारणानन्तरोच्चारणविषयत्वमेवौकारस्यानुपूव्र्यमित्यर्थः । वृविविकल्पादिदौर्घट¬मिति । सादृश्यमेकदेशेन वर्तते चेत्, सादृश्यपर्याप्त्यधिकरणत्वाभावात् द्वित्वपर्याप्त्यनधिकरण एकस्मिन् "द्वौ' इति शब्दस्याप्रयोगवत् सादृश्यपर्याप्त्य-नधिकरणे "सादृशः' इति प्रयोगो न स्यात्; सावयवत्वप्रसङ्गश्च । कार्त्स्न्#ेन वर्तते चेत्, सादृश्यस्य द्विष्ठत्वं न स्यादिति दूष-णानामनवकाश इत्यर्थः । गवासुसदृश इत्येव प्रयोगः स्यादिति । एवकारः चार्थः । इति च प्रयोगः स्यादित्यर्थः । गौरिति । गौ-रित्येव प्रयोगो न स्यादित्यर्थः । यद्वा गोशब्दस्य व्यक्तिविशेष एव गृहीतसंकेततया "तत्सदृशः' इत्येव प्रयोगः स्यादित्यर्थः । इदं च व्युत्पत्तिदशायाम्, "एवमाकृतिकाया, सा गौः' इति ग्रहणाभावमभिप्रेत्योत्तम् । अनुगतधर्माभावे सामान्यधर्मपुरस्कारेण वह्निधूम-योव्र्याप्तिग्रहो न स्यादित्याशङ्क्याह - व्याप्तिग्रहणं चेति । सौसादृश्येनैकीकृतेन संस्थानलक्षरपरिण सर्वेषां क्रोडीकारसंभवा- दिति भावः । प्रतिपन्नसंस्थानविरोध्याकारग्रमस्यैवेति । यद्यपि प्रतिपन्नस्य शुक्तदीत्वस्य रजतत्वं विरोध्येव, तथापि तस्य विरो-वित्वास्फुरणाद्भ्रम इति भावः । शौक्लयं हि शुक्लस्यासाधारणमिति । ततश्च शौक्ल्स्याशुक्लभेदरूपस्य दर्शनादशुक्लत्वाध्यासः परं निवर्तते; न त्वठुक्तयध्यास!, अशुक्तभेदस्य शुक्तित्वस्याग्रहादिति भावः ।

संस्थापनस्य भेदरूपत्वसमर्थनम्

पूर्वं प्रतियोग्यपेक्षयेति । "जात्यादेरेव प्रतियोग्यपेक्षया' इति भाष्यग्रन्थेनेति भावः । यद्यपि "जात्यादेरेव प्रतियोग्यपेक्षया' इति ग्रन्थे भेदव्यवहारे प्रतियोगिस्मरणसापेक्षत्वमिति नोक्तम् । अपितु जात्यादेरेव स्वपरभेदत्वम्-अथापि सोऽप्यर्थस्तत्र विवक्षित इति भावः । तर्हि भेदव्यवहार इति । यद्यपि प्राक् "प्रतियोग्यपेक्षया भेदव्यवहारः' इत्युक्तमब्, तथापि निष्प्रतियोगिकगोत्वादेरेव भेदत्वे तदयुक्तमेव स्यादिति तदष्याक्षिष्यतेऽनेन भाष्यग्रन्थेनेति वाक्यस्याभिप्रायात् । ननु सकलेतरसजातीयबुद्धिव्यवहारयो- रिति कथमुक्तिः? इतरेषां महिषादीनां स्वसजातीयत्वासंभवेन "इतरे च ते सजातीयाश्च' इत्युत्त्यसंभवादित्याशङ्क्याह - निर्दि-ष्टसामान्यानन्तरेति । निर्दिष्यसामान्यं गोत्वसामान्यम्; तदनन्तरपरसामान्यं तत्साक्षाद्वयापकं पशुत्वादि । भाष्ये सजातीय- ग्रहणं विजातीयादेरप्युपलक्षणम् । सजातीयभ्रमनिर्वतकत्वे कथिते विजातीयभ्रमनिवर्तकत्वं किंपनन्र्यायसिद्धमित्यभिप्रेत्य सजा-तीयग्रहणं कृतमिति द्रष्टव्यम् । परनिर्वाहकत्वाभाव इति । यद्यपि "गोत्वादिरेव हि सकलेतरव्यावृत्तिः' इति भाष्ये गोत्वादौ घटादिव्यावृत्तिरूपवसमर्थनमात्रमभिप्रेतम् । न तु स्वनिर्वाहकत्वात् परनिर्वाहकत्वम्, परनिर्वाहकत्वाभावे स्वनिर्वाहकत्वा-संभवादित्येतत्पर्यन्तम् ।किंच "स्वसंबन्धादर्थान्तर-' इत्यनुमानानुरोधेनस्वनिः र्वाहकत्वाभावे परनिर्वाहकत्वासंभवादित्येव प्रदर्शनीयम्-तथापि तावत्पर्यन्तविवक्षामभिप्रेत्य तथोक्तमितत द्रष्टव्यम् । अतो धर्माणामिति । ननु रूपादिधर्मस्यापि न सर्वथा भ्रमविरोधित्वम्, तत्रापि गुण्यभेदभ्रमादिदर्शनात्; तदवलम्ब्य मतभेदप्रवृत्तेरद्यापि दर्शनात् "पटद्रव्यस्य रूपाव्यतिरेकभ्रमः' इति स्वयमुक्तत्वाच्च धर्मिणोऽपीतरधर्मापेक्षया स्वधर्मव्यावर्तकत्वाच्च घटस्यापि स्वाश्रयभूतलादिव्यावर्तकत्वाच्च ब्राहृणोऽपि स्वविषय-ज्ञानव्यावर्तकत्वाच्च कथमियं व्यवस्तेति चेत्-न; रूपादिधर्मेषु व्यावर्तकधर्मान्तरसत्त्वेऽप्यनिष्टाभावात्, प्रामाणिकत्वेऽ(ना)नन्त-वस्त्वभ्युपगमस्याष्यदोषत्वाच्च । अत एव भेदत्वसंभव इत्येवोक्तम्; न तु "तस्यैव भेदत्वसंभव' इतीति द्रष्टव्म् । धर्माणां स्व-रूपस्यैवेति ।धर्मस्वरूपमेव स्वाश्रयस्य घटस्य स्वविरुद्धधर्मान्तराश्रयधग्र्यन्तरापेक्षया भेद इत्यर्थः । विशेषणापेक्षया विशेष्यस्य स्वरूपमेव भेद इति । न च "धर्मिस्वरूपस्य स्वगतधर्मापेक्षया भ्रमविरोधी भेदो धर्मान्तरान्वयः' इति पूर्वग्रन्थविरोध इति वाच्यम्-"विशेष्यस्य स्वरूपम्' इत्यस्य विशेष्यस्य स्वरूपमसाधारणधर्म इत्यर्थात् स्पर्शादिविशेषणान्तरमेव रूपादिविशेषणाद् भेद इत्यर्थपर्यवसानात् । कस्य को वाऽसाधारणशब्द इत्यत आह-स च शब्दो व्युत्पत्तिसिद्ध इति । अस्यार्थस्यायमसाधारणशब्द इत्येतल्लोकव्युत्पतिसिद्धमित्यर्थः । प्रतियोगितय्राभिमतार्थान्तैक्यधीविरोधि वा स्वरूपमिति । अस्मिन् पक्षे वस्तु(ब्राह्म्न)स्व-रूपस्याविरोधितया स्वरूपत्वं न स्यादित्यस्वरसो बोध्यः ।

मिथ्यत्वानुमानभङ्गः

वस्त्वन्तरस्योपाधित्वादिति । देशकालान्तराणामुपाधिभूतानां सद्भावात् प्रतिपन्नोपाधौ बाधितत्वं तत्राप्यस्तीति भावः । अनु-तिबाधकज्ञानेषु भ्रान्तिष्विति व्यधिकरणे सप्तम्यौ । अनुदितबाधकज्ञानेषु पुरुषेषूत्पन्नासु भ्रन्तिष्वित्यर्थः । अतोऽनुदितबाध-कज्ञानास्वित्यनुक्तिः । चोदयितृपुरुषज्ञानेनेति । यस्तु चोदयिता पुरुषः. तज्ज्ञानेनेत्यर्थः । भ्रमत्वबुद्धेरेव बाधरूपत्वादिति भावः । विशेषणविशेष्यांशसिद्धरिति । प्रतिपन्नोपधिर्विशेषणम्; बाधितत्वं विशेष्यम् । अप्रामाणिकधर्मपरंपरापादिनेनेति । यथा उत्पत्तेरुत्पत्तावनवस्था; अनुत्पत्ताबुत्पत्तिर्नित्या स्यादित्यत्र उत्पत्त्युत्पत्तेरत्यन्तासंभाविताया आपादनात् । इह तु मिथ्यात्वमिथ्यात्वस्यात्यन्ताप्रामारिकत्वाभावात् । ब्राहृणि मिथ्यात्वमिथ्यात्वस्य संप्रतिपन्नत्वादिति भावः । इदमुपलक्षरम्-

"धर्मस्य तदतद्रूपविकल्पा(कल्पना)नुपपत्तितः ।

धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत् ।।'

इति तल्लक्षणम् । न चात्र मिथ्यात्वस्य सत्यत्वे धर्मिणो मिथ्यात्ववैशिष्टयभङ्ग उक्तः, किं त्वद्वैतहानिः । प्रत्युत भेदः किं भिन्ने वर्तते, उताभिन्न इति त्वदुक्तेरेव भिन्नदिविशिष्टमात्रनिरासकत्वेन स्वव्याधाताज्जातित्वम् । उक्ते हि, "एतामेव जातिमवष्टभ्य शुष्कतर्क-वादिनां बौद्धचार्वाकवेदान्तिनां बालव्यामोहहेतवः कण्ठकोलाहलाः' इति । मुद्गरे नष्टेऽपीति । न च नष्टस्यापि मुद्गरस्य घटस्येव पारमाथ्र्यमस्तीति वाच्यम्-न हि पारमाथ्र्याभावे स दृष्टान्तः । यथा नाशकनाशे नाश्यानुन्मज्जनम्, एवं प्रपञ्चसत्यत्वबाधकस्य मिथ्यात्वसाधकहेतोर्बाधेऽपि बाध्यानुन्मज्जनमित्येतावता साम्येन दृष्टान्तत्वात् । बाधकज्ञानस्य मिथ्यात्वेऽपीति । बाधकज्ञा-नविषयस्य दृश्यत्वादिहेतोर्बाधेऽपीत्यर्थः । साधनपारमाथ्र्यापारमाथ्र्यविचारस्यैव प्रस्तुतत्वादिति द्रष्टव्यम् । कारकज्ञापकयोर्वैष-म्यादिति । ननु नाशकस्यापि बाधितत्वे नाशोऽसत्य एव । न हि मुद्गरस्य मिथ्यात्वे नाशस्य सत्यत्वमस्ति । अतः साम्यमेवेति

चेत्-न; बाधकबाधे बाध्यसत्यत्वं स्यादिति मयोक्ते नाशकारकनाशे कार्यस्य नाशस्यानाशो दृष्ट इति त्वद्वचनमत्यन्तासंगतमिति तत्तात्पर्यात् । वृन्तविषयभ्रमरत्वभ्रमबाध्रेपीति । कस्याश्चिद्भ्रमर्याः पलाशपुष्य उत्पन्नो दावभ्रमः पलाशवृन्तविषयभ्रमरबुद्धया निवृत्तः, सोऽपि यत्र वृन्तविषयभ्रमरभ्रमो विशेषदर्शनान्तरेण निवृत्तः, तादृशभ्रस्थल इत्यर्थः । वक्ष्यति-"भ्रमरी भ्रमरभ्रमेण वृन्ते यददावभ्रममाश्लिषत् पलाशम्' इति । परमार्थभृतवअन्तबाध्यत्वदर्शनादिति । इदमुपलक्षणम्-पलाशपुष्पबाध्यत्वादित्यपि द्रष्ट- व्यम् । ततश्च त्वन्मत इति । दावज्ञानान्तरोत्पविप्रतिबन्धकत्वलक्षणमेव दावबाधकत्वं भ्रमरपारमार्थिकत्वभ्रमस्य । एवं च प्रपञ्चे दृश्यत्वमिथ्यात्वादित्यापिरूपसाध्यसाधनपारमाथ्र्यभ्रमस्य प्रपञ्चसत्यत्वज्ञानान्तरोत्पत्तिप्रतिबन्धकत्वलक्षणं बाधकत्वं वक्तव्यम् । ततश्च तस्यापि भ्रमस्य निवर्तकान्तरमपि किंचिद्धर्मपारमाथ्र्यज्ञानमेवेति भ्रमपरंपरानुवृत्तिरेव स्यात्; निःशेषाविद्यानिवृत्तिर्न स्या- दिति भावः । नन्वेवं दावादिभ्रमस्थल इव प्रकअते भ्रमस्य भ्रमनिवर्तकत्वे निःशेशाविद्यानिवृत्तिर्न स्यादित्येव सुवचम्; किमर्थमे-तावान् सरम्भ इति चेत्-सत्यम्, तत्तत्पदार्थस्वरूपशिक्षार्थत्वेनादोषात् । भ्रान्तिरूपोतरोत्तरेति । साधनधर्माणामपारमाथ्र्या- दिति भावः । स्वयं नाश इति । ननु (ज्ञानान्तरेण ज्ञानेन) नाशेऽपि घटादिनाशान्तरवत् काल्पनिकत्वं सिद्धमेवेति, निःशेषा-विद्यानिवृत्तिर्न स्यादिति दोषः समान इति चेत्-इष्टापविरिति केचित् । अन्ये तु ज्ञानजन्याया अविद्यानिवृत्तेब्र्राहृस्वरूपत्व-पञ्चमप्रकारत्वपक्षावलम्बनेन परिहारस्य कथंचित् कृतत्वेन ज्ञानात्तिरिक्तजन्यनाशस्य स्वकारणे प्रविलयरूपतया परैरभ्युपगत- त्वेन कारणभूताविद्याया अनुवृत्तिः स्यादेवेति भाव इति वदन्ति । तथापि सन्मात्रस्येति । इदमुपलक्षणम्-नभसोऽप्यध्यस्त-नीलिमपुरस्कारेण चक्षुषा ग्रहणसंभवात् पञ्चीकरणप्रक्रियया रूपवत्त्वसंभवेन चाक्षुषत्वादेकवितिवेद्यत्वं सिध्यतीति भावः ।

दृश्यत्वनियमरूपहेतुभङ्गः

ननु दृश्यत्वनियमोऽत्रेति । स्वव्यवहारे स्वातिरेकिसंविदपेक्षानियतदृश्यत्वमित्यर्थः । सदनुभूत्योर्वेदाभावादिति । स्वप्रकाशा-नुभूत्यभिन्नत्वेन स्वप्रकाशत्वं वक्तव्यमित्यर्थः । स्वप्रकाशत्वेन दृश्यत्वनियमासिद्धेरिति । यदि दृश्यत्वहेतुनैव भेदमिथ्यात्वं साध्यते, तदा सदनुभूत्तिभेदमिथ्यात्वाधीनं दृश्यत्वहेतुसामीचीन्यम्, सद्रूपे ब्राहृणि व्यभिचाराभावात्; सामीचीन्ये सति भेदमिथ्यात्वमित्यन्योन्याश्रय इत्यर्थः । यद्यनुबमानान्तरेणेति । जडत्वपरिच्छिन्नत्वादिनेत्यर्थः । तह्र्रस्मिन् सिद्धसाध्यतेति । दृश्यत्वहेतोरित्यर्थः । दृश्यतैकस्वभावत्वमिति । स्वप्रकाशताशून्यत्वमित्यर्थः । परमार्थभूताश्चेति । नित्यत्वादीनामपारमाथ्र्ये-ऽनित्यत्वादिकं प्रसज्येतेति भावः ।

व्यावर्तमानत्वहेतुभङ्गः

अनृतादितिभ्यो व्यावृत्तत्वेनाभ्युपगमादिति । ननु यद्यष्यनृतव्यावृत्तत्वमनृतविलक्षणत्वमङ्गीकृतम्, तथाप्यनुवर्तमानत्वप्रति-द्वन्द्विव्यावर्तमानत्वं नाङ्गीकृतमिति चेत्-न; विलक्षणत्वरूपव्यावर्तमानत्वे सत्यननुवृत्तत्वरूपव्यावृत्तत्वमपि सिध्यतीति भावातः । ततस्वकार्यकरमिति । व्यभिचारज्ञानसंपादनमुखेनानुमितिप्रतिबन्धकमित्यर्थः । अनुभूतित्ववदिति । स्वरूपानति-रिक्तानुभूतित्वस्य स्वप्रकाशत्वरूपसाध्यसाधकत्वादिति भावः । अपरमार्थशब्दश्चेति । अत्र के चित्-अपरमार्थशब्दपदं लक्ष- णया ब्राहृशब्दपरम् । ततश्च "ब्राहृणो जडव्यावृत्तत्वमपरमार्थः' इत्यत्र ब्राहृशब्दो व्यर्थः, व्यावृत्तत्वमात्रस्यापरमाथ्र्यात् । अत एव "घटादावपि' इत्युत्तरग्रन्थस्वारस्यमपीति वदन्ति । अन्ये तु-परमार्थ इत्युत्तया न कोऽपि परिहारः कृतः व्यावर्तमानत्वान्तर- स्यापि तादृवत्वेन परमार्थव्यावर्तमानत्वस्य हेतूकरणासंभवात् वैलक्षण्यासिद्धेरिति भावं वर्णयन्ति । तह्र्रसिद्धो हेतुरिति । नन्वपरमार्थभूतव्यावर्तमानत्वस्य हेतूकृततया तस्य नासिद्धिः । व्यावर्तमानत्वस्य तत्रासत्त्व एवापरमार्थव्यावर्तमानत्वसिद्धिः । इतरथा परमार्थव्यावर्तमानत्वमेव स्यादिति चेत्-न; तथा सति अपरमार्थव्यावर्तमानत्वं व्यावृत्तिशून्यत्वमिति स्यात् । ततश्च व्यावृत्तिशून्यत्वमेव हेतुः स्यात्, न तु व्यावृत्तिरिति भावः । प्रतिपन्नोपाधौ बाधितस्यैवेति । अत्र प्रतिपन्नोपाधौ बाधितस्यैव व्यावृत्तिर्मिथ्यात्वसाधिकेति योजना, "न त्वगृहीतत्वमात्रम्' इत्युत्तरग्रन्थानुसारात् । पक्षान्तरमाह-अत्र #ेव्यावृतिविशेषो व्या-वृत्तिशब्दोक्त इति । बाधितस्यैव मिथ्यात्वसाधकव्यावृत्तिविशेषः संभवतीत्येवं योजनेति भावः । निषेधधीबोध इति । निषेध- धीजन्या पूर्वज्ञाने भ्रमत्वबुद्धिर्बाधः । निषेधरूपत्वं बाधकत्वमिति । पूर्वज्ञानविषयाभावावगाहि ज्ञानं बाधकमित्यर्थः । सर्व-सपक्षाननुयायित्वेनेति । न चैवं प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपमिथ्यात्वस्यामावेन कथं तेषां सपक्षत्वमिति वाच्यम्-ज्ञान-निवत्र्यत्वरूपमिथ्यात्वस्य सत्त्वात् सपक्षत्वमस्तीति तदमिप्रायसंभवात् । इतरथा साव्योपाध्योरैक्यप्रसङ्गात् । उपाधिकवच्छेदक इति । आश्रय इत्यर्थः । न तु साध्यव्यापकादिलक्षण इति भ्रमितव्यमिति भावः । देशकालभ्रमे वस्त्वन्तरबुपाधिरिति । देशभ्रमे

कालादिव्र्यावहारिके वस्त्वन्तरेऽध्यस्यत, प्रातिभासिकं रजतमिव शुक्तिशकल इत्युक्तौ नान्योन्याश्रयः । न हि रजतस्य शुक्ति-शकलेऽध्यासोऽन्यत्र शुक्तिशकलाध्याससापेक्षः । अतो नान्योन्याश्रयशङ्का । नापि "भ्रमव्यक्तिभेदात्3 इति परि#ाहारश्च युज्यते, अनवस्थादि'भरुत्पतिप्रतिबन्धप्रसङ्गदिति चेत्-मैवम्; भ्रमव्यक्तिभेदात् इत्यस्य प्रतिभासिकव्यावहारिकव्यक्तिभेदात् प्रातिभा-सिकस्य व्यवहारिकेऽध्यासोपपत्तावन्योन्याश्रयानवस्थाद्यभावादित्येव तदमिप्रायात् । यदवच्छेदकावच्छिन्नमिति । न च यत्र यत् प्रतिपन्नम्, तत्र तस्याभावो मिथ्यात्वप्रयोजक इत्येवास्त्विति वाच्यम-संयोगाद्यतिप्रसिङ्गापारणाय यद्वेशकालावच्छिन्नमि-त्यस्यावश्यकत्वात् । क्रियान्तरावच्छिन्नस्येति । अयं भावः- नात्र कालस्याध्यासः, येनोपाध्यन्तरसदसद्भावशङ्का स्यात् । अपि तु काले सायंत्वरूपादित्यक्रियासंबन्धाव्यासः । न च-सायंत्वेन प्रतीतस्य न सायंत्वभ्रमाधिष्ठानत्वम्, आत्माश्रयप्रस- ङ्गात्; नापि दिवात्वेन प्रतीस्य, विरोधादिति वाच्यम्-तदुभयविलक्षणगोदोहनादिक्रियासंबन्धित्वेन प्रतीते काले सायं- त्वाध्यास उपपद्यत इति । नियमः क्रियत । इति । अस्तित्वनास्तित्वयोः प्राप्तौ नियमः क्रियत इत्यर्थः । घटशब्दप्रतिपन्न-ऽस्तित्वरूपधर्मान्तरसंबन्धो बाध्यते; इतरथा "नीलो घटः' "शुक्लः पटः' इत्यदावपि विकल्पावतारप्रसङ्ग इति भावः ।

अनुवर्तमानत्वदूषणम्

प्रथमे शिरसि सिद्धसाधनत्वं दूषणमुक्तमिति । अत्र केचित्-सन्मात्रं सर्वासु प्रतिपत्तिष्वनुवर्तमानं दृश्यत इति तत् रमार्थः' इति सन्मात्रशब्दितसत्तासामान्यसनयानुवर्तमानतया पास्माथ्र्यमुपक्षिप्तं पूर्वपक्षे । तत्र सत्तासामान्यस्यानुवर्तमानतया पारमाथ्र्यो-पपादनं सिद्धसाधनमेव । विशेषणां व्यार्तमानतयाऽपारमाथ्र्योपपादनं ह्रनिष्टमिति भाष्ये स्पष्टोऽर्थः प्रतीयते । न तत्र विकल्प मुखेन ग्रन्थावतरणं युज्यते । तथाहि सति सच्छब्दस्य प्रमाणसंबन्धार्हस्यैव वस्तुत्वेन सिद्धान्तेनोऽपि संमतत्वात् । किंच ननु सदेष परमार्थ इति हि ग्रन्थकाराभिप्रायः इत्याक्षेप समाधाने अष्यमानविजृभ्रिमते । अनुवर्तमानत्वं सत्यारमाथ्यर्साधकम्; व्यावर्तमानत्वमितरापारमाथ्र्यसाधकम् । द्वाभ्यां च हेतुभ्यं सन्मात्रशब्दितसत्तारूपसामान्यस्यैव पारमाथ्यर्म्, नेतरेषामित्युक्त- तया अनुवर्तमानत्वहेतुसाध्यतया पराभिमतस्य सत्तापरमाथ्र्यस्य स्वमतेऽपि सत्त्वेन सिद्धसाधनस्य, सिद्धतयाक्षेपस्य वा, विक- ल्पमुखेन सामाधानस्य वा अप्रसक्तेरिति मन्यन्ते-तदिदमसारम्; अधिष्ठानतयानुवर्तमानस्य पराभिमतस्य सच्छब्दितस्यापि पार- माथ्र्यं सिद्धान्तिसंमतमिति शङ्काव्युदासार्थं विकल्पमुखेनैव ग्रन्थस्यावतारणीयत्वात् । न चैवम्-अतो न सन्म्रात्रमेव वस्तुः' इत्यु-त्तरभाष्यसङ्गतिरिति वाच्यम्, "न सन्मात्रमेव वस्तु' इत्यत्र "साधनार्हम्' इति शेषः पूरणीयः । प्रमाणसंबन्धार्हवस्तुनः पारमाथ्यस्य सिद्धत्वेन तस्य साधनानर्हत्वादित्याशयात् । यदुक्तम्, "ननु सदेव परमार्थ इति हि ग्रन्थकाराभिप्रायः' इत्याक्षेपसमाधानयोर-स्थानविजृस्भितत्वमिति - तन्न; "सदेव परमार्थ इति हि ग्रन्थकाराभिप्रायः' इत्यत्र, "वणिर्त' इति शेषः । ततश्च यद्यनुवर्तमान- त्वात् सत्त परमार्थ इत्युच्येत, तदा हि सिद्धसाधनशङ्का स्यात् । अनुवतर्मानत्वात् सदेव परमार्थ इत्येतावत्साध्यतम्; अतो न सिद्धसाधनमित्याक्षेपसंभवात् । व्यधिकरणासिद्धतेति । अनुभूतिव्यतिरिक्तमपरमार्थः, अनुभूतेरनुवर्तमानत्वादित्युक्ते हेतोः पक्षा-वृत्तिवादसिद्धिः स्यादित्यर्थः । तृतीर्येऽशतः(शे) सिद्धसाध्यतेति । अनुभूतिरूपसत्तद्वयतिरिक्तौ परमार्थापरमार्थौ, अनुवर्त-मानत्वादित्युक्तावित्यर्थः ।

आश्रयासिद्धिमेवोपपादयति-सच्छब्दवाच्यस्येति । व्यावृत्तशब्दवदुपपन्न इतीति । इतरथा "घटो व्यावृत्तः', "पटो व्यावृत्तः' इत्यनुगतव्यवहाराद्वयावृत्तिशब्दितमनुवृत्तपदार्थान्तरं सर्वाध्यासाधिष्ठानभूतमुपेयं स्यात् । तथा "स्वपुष्पमसत्', "नृ#ृङ्गमसत्' इत्यनुवृत्तव्यवहारादनुवृत्तेऽसति व्यावृत्तनृ#ृङ्गादिकं कल्प्यमिति स्यादिति भावः ।

तदसंभवे परोक्तमनुमानमिति । अनुभाव्यत्वासंभवसाधनं परोक्तमित्यर्थः । शब्दार्थसंबन्धग्रहणायोगादिति । प्रयोज्यवृद्धस्य गवानयनप्रवृत्त्या तदीयकार्यताज्ञानमनुमाय तत्र पदशक्तेग्र्राह्रत्वादिति भावः । अतीतानुभवव्यावृत्त्यर्थमिति । अतीतानुभवे तल्लक्षणातिव्याप्तिनिवृत्त्यर्थमित्यर्थः । अतीतदशायां प्रकाशस्यावर्तमानतया शानजभिहितप्रकाशवर्तमानत्वस्याभावात् सत्तयैव प्रकाशमानत्वस्य तत्रासंभवः प्रसज्येतेति तद्वयावृत्त्यर्थमित्यर्थः । यद्यष्यतीतानुभवस्येति । अयमर्थ-अतीतानुभवस्थले स्वसत्ताया एवाभावात् प्रकाशाव्यभिचारिस्वसत्ताकत्वमस्त्येव; अतीतदशायामवस्थाविशेषविशिष्टस्वरूपस्यैवाभावाल्लक्षणस्य नाव्याप्तिः - तथाप्यर्थविशेषव्युत्पादनाय वर्तमानदशायामित्युक्तमिति । अयमत्रान्वयः-ज्ञानान्तरमन्तरेण प्रकशानुपपत्तेः प्राप्तस्यातीतानुभवे लक्षणाभावस्य सत्तयेति पदेनैवार्थाद्वयवच्छेदसिद्धेर्वर्तमानदशायामिति निरर्थकमिति । नेति उपाधित्वनिरासाय पक्षे तत्प्रस- ञ्जय-तीति । अननुभूतित्वलक्षणसाध्यव्यापकस्याज्ञानाविरोधित्वस्यानुपाधित्वस्फोरणाय-साधनव्यापकत्वं पक्षवृत्तित्वप्रसञ्जतेन

दर्शयतीत्यर्थः । अनुभूतेरनुभाव्यत्वेऽननुभूतित्वस्येति । अनुभूतिरनुभाव्यत्वे आपाद्यमानस्याननुभूतित्वस्येत्यर्थः । समीपस्थैं- रिति । उपेत्युपसर्गवशात् समीपस्थैरित्यर्थलाभ इति भावः ।

संविदनुत्पत्त्यादिनिरसनम्

तदानीमित्यभावविशेषणमिति । तदानीं तनाभावमित्यर्थः । भिन्नकालीनाभावावगाहने विरोधस्याभावात्; "न ह्रनुभूतिः स्व-समकालवर्तिनमेव' इत्युत्तरभाष्यस्याप्रसक्तप्रतिषेधत्वापातादिति भावः । नेति प्रतिज्ञाऽध्याहर्तव्येति । उक्तविकल्पपक्षानुगुणा प्रतिज्ञेत्यर्थः । अयं भावः-अनुभूतेः स्वसमकालवर्तिग्रहणनियमो न ग्राह्रसामान्यप्रयुक्त इति वा, न ग्राहमानुभूतिस्वभावप्रयुक्त इति वा प्रतिज्ञेति । ग्राह्रविशेषपक्षं दूषयितुं शङ्कते-अथ मन्यत इतीति । इदमुपलक्षणम्-किं ग्राह्रानुभूत्यभावस्वभावादिति द्वितीयपक्षस्यापीति द्रष्टव्यम् । दर्शनपूर्विकैव स्यादिति । अदर्शने त्वादृश इत्थं न वदेत् । अतो दृष्ट्वैव वदसीति दर्शनं सिद्धव- त्कृत्य, तच्च दर्शनं क्केत्युपालभत इति भावः । प्रत्यक्षशब्दस्य विषयसाधारण्यादाह - प्रथ्यक्षशब्देन प्रत्यक्षज्ञानमुच्यत इति । इदं च इन्द्रियजन्मन इति पदसमभिव्याहारलभ्यम् । यद्वा कर्मेन्द्रियजन्मनो गमनादिलक्षणस्य प्रत्यक्षविषयस्य व्यावृत्त्यर्थं प्रत्यक्षज्ञानमुच्यत इत्युक्तम् ।

प्रमाणप्रमाणज्ञानयोः कथं वैषम्यमिति । अयं भावः-सर्वेषां ज्ञानानं स्वसमकालवर्तिग्राहित्वनियमानभ्युपगमेऽपि प्रमाणज्ञा- नानां स्वसमकालवर्तिग्राहित्वनियमोऽभ्युपेयः; इतरथा प्रमाणाप्रमाणव्यवस्था न स्यात् । प्रमेयाविनाभावसदसद्भावाभ्यां हि प्रमाणाप्रमाणव्यवस्था उपपाद्या । यदि प्रमेयमन्तरेणापि प्रमाणमुत्पद्येत, तदा कथं तस्य तदविनाभावः? अतः स्वसमकालवर्ति-त्वनियमोऽभ्युपेयः । अतः स्वसमकालवर्तिग्राहित्वमेवोषेयमिति । ज्ञानमात्रस्येति । प्रमाणज्ञानमात्रस्येत्यर्थः । तत्रैव नियमस्य शङ्कितत्वादिति द्रष्टव्यम् । वर्तमानविषयालाभादसमकालर्विग्राहिणामिति । अत्र सामकालवर्तिग्राहिशब्देन नञःसमासः । वर्तमानविषयस्यालाभेन समकालवर्तिविषयग्रहणासंभवादसमकालवर्तिनश्च विषयत्वाभावस्य त्वयाऽभ्युपेतत्वान्निर्विषयाणा- मेषां प्रमेयस्यैवाभावेन प्रमेयाविनाभावः कथं स्यादित्यर्थः । तत्सिद्धः कथमित्यपेक्षायामिति । भिन्नकालवर्तिग्रहण्रेपि भिन्न-कालवर्तिनाप्रमेयेण विना कालान्तरे वर्तमानानामेषां कतं तदविनाभावः सिध्येदित्यर्थः । प्रमाणस्यार्थसंबन्ध इत्यन्वय इति । स्वसमकालवर्तिना अर्थसंबन्धोऽविनाभावो नेत्य वयः । मिथ्यात्वस्य प्रमाणं प्रत्यनीकं भवतीति । प्रमाणगतं प्रमेयमिथ्या-त्वप्रत्यनीकत्वमेव प्रमेयेणाविनाभावसंबन्ध इत्यर्थः । व्यवहितस्य समकालवर्तित्वनियमाभावस्यातःशब्देन परामर्शादष्यनन्तरनि-र्दिष्टस्य प्रमाणतयाभिमतेषु कालान्तरवर्तिग्रहणदशर्नस्य हेतुतया परामर्शो न्याय्य इत्यस्वरसादाह-एवं वार्थ इति । पूर्वस्मिन् पक्षे प्रमाणस्य प्रमेयाविनाभावः समाकल्ग्राहित्वबाधकः; अस्मान् पक्षे तस्य साधकत्वनिरासरणमिति भिदा । गवये गोसादृश्य-लक्षणादुपमानाद्गविगवयसादृश्यप्रतीतिरूपोपमितिर्जायत सति केचित् । ग सादृश्यविशिष्टपिण्डज्ञान त् "अयमत्तौ गवयशब्द- वाच्यः पिण्डः' इति संज्ञासंज्ञिसंबन्धप्रमितिरूपोपभितिर्जायति इत्यन्ये । मतद्वयमप्यनुभाषते-उपमानस्य प्रतिपन्नेत्यादिना ।

चेद्यदिशब्दयोरैकाथ्र्यात् पौनरुक्तयमाशङ्क्याह - यदिशब्द इति । चच्छब्दो यद्यर्थ इति । चेच्छब्दः चेदर्थ वेत्यर्थः । अत एव तथा चेत् । इति वक्ष्यति । तथाशब्दाध्वाहारमभिप्रेत्याह-तथा चेदित्यर्थ इति । भावरूपावस्थान्तरोपलब्धिरिति । यथा घट-स्याभावः पिण्डत्वादिरूपं भावरूपमस्थान्तरम्, एवं घटज्ञानानुपलब्धिनार्म घटज्ञानोपलब्धित्वावस्थापरित्यागेन भावरूपं पटादिवस्त्वन्तरोपलब्धिरूपमेवेत्यर्थः । क्कचित् संकोचोऽपि । अत एव वक्षयति ज्ञानस्य संकोचोऽवस्थान्तरं वेति । ततश्च भाव- रूपा या अवस्थान्तरोपलब्धिर्वस्त्वन्तरोपलब्धिः; सैव घटज्ञानाद्यनुपलब्धिरिति भावः । अत्र केचित्-"ज्ञानस्य योग्यानुपलब्धि- र्नाम भावरूपावस्थान्तरोपलब्धिः । पिण्डत्वाद्युपलब्धिरेव हि घटस्य योग्यानुपलब्धिः' इति । ग्रन्थपर्यालोचनायाम्, तथोत्तरत्र, अतीतकालावच्छिन्नज्ञानाभावो नाम ज्ञानस्य संकोचोऽर्थान्तरज्ञानं वा' इति ग्रन्थस्य, "अतीतकालावछिन्नो गज्ज्ञानाभावो नाम ज्ञानस्य संकोचोऽर्थान्तरज्ञानं वा3 इति ग्रन्थस्य, "अतीतकालावछिन्नो गजज्ञानस्य योरयानुपलब्धिः' इति ग्रन्थस्य च पर्यालो-चनायां घटाभावोपलब्धिरेव घटानुपलब्धिः, गजज्ञानाभात्तोपलब्धिरेव गजज्ञानानुपलब्धिरिति प्रतीयते । न च तद्युज्यते, घटा-भावोपलम्भस्य घटापलम्भाभावस्य च भिन्नत्वात् । किंच घटाभावोपलम्भस्यैव घटोपलम्भाभावत्वे घटानुपलब्ध्या लिङ्गेन घटा-भावोऽनुमीयत इत्येतद्विरुच्येत । न ह्रभावोपलब्ध्याऽभावोऽनुमीय इति शक्यते वक्तुमिति चोदयन्ति-तन्न; उक्तरीत्या अभावो-पलम्भस्य तदनुपलब्धिरूपत्वाभावेन ज्ञानसंकोचो वा अवस्थान्तरं वानुपलब्धिः' इत्यत्रैव तात्पर्यात् ।

पूर्वग्रन्थस्य प्रागभावसमर्थनपरत्वदुत्तरग्रन्थस्यानित्यत्वसमर्थनपरत्वादेकविषयत्वाभावात् किंचेत्ययुक्तमित्याशङ्क्य, उत्तरग्रन्थानु-

सारेण पूवग्रन्थस्याप्यनित्यत्वपरत्वमभिप्रयन्नाह-ज्ञानस्य स्वावभासेति । अथ विषयप्रकाशनिरूपणमुखेनेति । विषयप्रकाश-कादाचित्कत्वनिरूपणमुखेनेत्यर्थः । अतो न साध्याविशिष्टतेति । अयं भावः-तदप्रतीतिश्च संवेदनस्य कालपरिच्छितया प्रती-तेरिति वाक्ये संवेदनस्याप्रतीतिः साध्यतया प्रतीयते; प्रतीतेः कालपरिच्छिन्नत्वं हेतुतया प्रतीयते; कालपरिच्छिन्नत्वत् कालान्तरे-ऽसत्त्वत् अप्रतीतिः प्रतीत्यभाव इत्युक्ते साध्याविशेष इत्यर्थः । इदं चोपलक्षणम्-संवेदनस्य तदप्रतीतिरित्यनन्वयश्च । न च संवे-दनस्येत्यस्य कालपरिच्छिन्नतयेत्यनेनान्वय इति वाच्यम्, प्रतीतेरित्यनेनान्वितस्य कालपरिच्छिन्नतयेत्यस्य निराकाङ्क्षत्वात् । तस्मादस्य भाष्यस्य संवेदनस्य तदप्रतीतिः घटादिसत्ताविषयव्यवहारानुगुण्याभावः प्रतीतेः कालपरिच्छिन्नत्वादित्यर्थ इति भावः । केचित्तु-कालपरिच्छिन्नतया प्रतीतेरित्यत्र प्रतीतेरित्यतदविवक्षितम्; संवेदनस्य कालपरिच्छिन्नत्वादित्येवार्थः । एवं च न तदप्रतीतिरिति साध्याविशेष इति वर्णयन्ति । अर्थापत्यन्तरमाहेति । ननु प्रत्यक्षज्ञानं स्वविषयस्य स्वसमकालवतिर्तावग-मकस्वभावमिति सिद्धम् । घटप्रत्यक्षे "इदानीं घटोऽस्ति, न वा' सति तत्काले संदेहादर्शनात् । ततश्च प्रत्यक्षं स्वयं सर्वकालवर्ति- त्वेन भातं चेत्, स्वविषयमपि सर्वकालवर्तित्तया भासयेत् स्वविषये घटादौ कालापरिच्छिन्नत्वलक्षणसार्वकालिकत्वावभासाभा- वात् ज्ञानेऽपि कालानवच्छिन्नत्वलक्षणसार्वकालिकत्वेन क्रतीतिर्नास्ति । अपितु कालावाच्छन्नत्वलक्षणानित्यत्वेनैव ज्ञानस्य प्रतीतिः । न च ज्ञाने नित्यत्वमाने हि विषयेऽपि तथात्वप्रसङ्गः; नित्यानित्यत्वौदासीत्येनैव प्रतीतिसम्भवात् इति वाच्यम्, स्वप्रकाशज्ञाने नित्यत्वधर्माभानेनित्यत्वरूपधर्मभानावश्यंभावादित्येकग्रन्थतया योजयितुं शक्यत्वात् इति चेत्-सत्यं सा यो- जना प्रतीयते, युक्तिर्न समीचीना । ज्ञाननित्यत्वे विषयस्यापि तथात्वमित्युक्ते ईश्वरप्रत्यक्षेऽतथात्वात् (स्व)व्यवहारानुगुण्य-कादाचित्कत्वमेव वक्तव्यमवशिष्यते । अत एव वक्ष्यति "अनुग्राहकतयोक्तौ भवतः' इति । पूर्वापरावधिद्वयास्वयंप्रकाशत्वा-देवानित्यत्वस्याप्रकाशे अवधिद्वयराहित्यरूपनित्यत्वस्याष्यप्रकाशः सुवच एव । कालापरिच्छिन्नत्वलक्षणनित्यत्वपक्षेऽपि कालपरिच्छेदस्यास्वयंप्रकाशत्वादेव तदभावलक्षणनित्यत्वस्य न प्रकाशोपपत्तिरित्यस्वरसादाह - यद्वा घटादिनित्यत्वप्रसङ्ग इति । अनुगतं नित्यत्वलक्षणमिति । सर्वकालसंबन्धित्वलक्षणनित्यत्वस्य कालसाधारण्याभावादिति भावः । लिङ्गादेः प्रत्यक्षज्ञानविषयत्वादिति । इदमुपलक्षणम् । "अधुनेदमतीतम्' इति ज्ञानं स्वाधारकालवृत्तिध्वंसंप्रतियोगित्वलक्षणमतीतत्व-मतीतवस्तुनि विषयीकरोति । इदमिदानींमतीतम्' इति शब्दप्रयोगस्थलेऽपि "इदानीम्' इति शब्दप्रयोगाधारकालवृत्तिध्वस-प्रतियोगित्वलक्षणमतीतत्वमेव भासते । ततश्च ज्ञानस्य नित्यत्वे सर्वस्यापि कालस्य तज्ज्ञानाधारकालतया अतीतानागतव्यव-स्थानुपपत्तिः । न चैवमीश्वरज्ञार्नेऽतीतत्वोल्लेखाद्यनुपपत्तिः स्यादिति वाच्यम्, तत्राप्यवस्ताभेदेन ज्ञानभेदमादायैवातीतत्वोल्ले- खस्य समर्थनीयत्वादित्यपि द्रष्टव्यम् । वस्तुतस्तु अनुमित्यादीनां नित्यत्वे अजन्यज्ञानत्वेन प्रत्यक्षत्वमेव स्यात् । ततश्च तद्विषयाणामपि नित्यत्वमेव स्यादिति दूषणे तात्पर्यमित्याहुः ।

निर्विषयसंविदस्फूर्तिः

अनुभवानभ्यासश्चास्मरणमात्रहेतुतया हि प्रसिद्धा इति । अस्मरणनियमहेतुया प्रसिद्धा इत्यर्थः । अनुभवानभ्यासश्चेति च- शब्दात् प्रायणनारक्लेशादिः संगृह्रते । एते निखिलसंस्कारतिरस्कृतिकरदेहविगमादीत्यत्रादिपदग्राह्रा इत्यर्थः ।

"तदन्यधीरतात्पर्यं पटुत्वविरहो धियः ।

दुःखादि तीव्रमुन्मादोऽनभ्यासो दीर्घकालताः ।।

एतैश्चादृष्टवैगुण्यं कल्प्यं संस्काररोधिषुः ।

एतेष्वसत्स्वरमरणात् ज्ञानाभावोऽनुमीयतेः ।।'

इति सिध्यति (?) (सिद्धिः?) । अतो नियमशब्द इति । अस्मरणनियमहेतुभूतदेहविगमादेरभाव इत्युक्तेः अस्मरणनियमादि- त्येव वक्तुमुचितम्, न त्वस्मरणमिति । अस्मरणनियमहेतुभूतव्यासङ्गाद्यभावो यद्युच्यते, तदा अस्मरणमिति वक्तुं युज्यते । अस्मरणनियमहेतुभूतदेहविगमाद्यभावकीर्तनादस्मरणनियमादित्येव वक्तुमुचितमित्यर्थः । यद्वा अनुभवानभ्यासश्चेति चशब्दा-द्विषयानतरव्यासङ्ग उच्यते । ततश्चैते अस्मरणमात्रहेतवः । ततश्चास्मरणनियमहेतुदेविगमप्रसूतिनारकक्लेशाद्यभावेऽपि विषयान्त-रव्यासङ्गाद्यस्मरणमात्रहेतुवशादनुभूतस्याष्यस्मरणसंभावात् तद्वयावृत्त्यर्थं नियमशब्द इत्यर्थः । उक्ततिरस्कारकाभावे इति । उक्ततिरस्कारकरूपप्रतिबन्धकरहितानुभवो यत्र तत्र स्मरणमित्यप्रतिबद्धानुभवस्य स्मरणं व्यापकम् । अतश्च स्मरणरूपव्यापका-भावेनाप्रतिबद्धानुभवाभावे साध्ये देहविगमादिप्रतिबन्धकाभवरूपस्य विशेषणस्य सिद्धतया विशेषणवति विशेष्टाभावः सिध्यन्,

विशेष्यरूपानुभवाभावमादाय पर्यवस्यतीति भावः । न त्वनुभवस्योक्तरिरस्कारभावायुक्तस्मरण व्यापकमिति भ्रमितव्यम्, तथा व्याप्तेरसंभवात् । अनुषङ्ग इति । न केवलमस्मरणनियमादनुभवाभाव इति प्रथमान्तसानुभवाभावशब्दस्य षष्ठयन्ततया विप-रिणमिनानुषङ्ग इत्यर्थः । अहंकारशब्दस्य महत्तत्त्वजन्याहंकारतत्त्वभ्रान्ति व्युदस्यति-अहंप्रत्ययेति । अहमिति प्रत्ययो यस्य सोऽहंप्रत्ययः-अन्तःकरणम् । अत एव वक्ष्यति, "ज्ञातृज्ञेययोरपि स्मरणं प्रत्यकारणत्वमकामेनापि स्वीकार्यम्' इति । न तु ज्ञातृविषयकज्ञानज्ञेययोरिति द्रष्टव्यम् । नन्वहमर्थस्यानुवृत्तौ प्रकाशप्रसङ्ग इत्यत्राह-प्रकाशत इति । अत्र चशब्दोऽध्याहर्तव्यः; अनुवर्तते प्रकाशते च; ततो हेतुरसिद्ध इत्यर्थः । न त्वनुवर्तते इत्यस्य प्रकाशत इति विवरणम् यथाश्रुतेऽनुपपत्त्यभावात् ।

तदालम्ब्य व्याघात्ताभिप्रायेणेति । अनुभवशब्दमात्रमालम्ब्याक्षिपतीति भावः । केवलैव संविदात्मानुभव इति भाष्ये -आत्मा-नुभव इति सप्तम्यन्ततया वैयधिकरण्येन व्याख्यानस्य क्लिष्टत्वादन्यथा व्याचष्टे-केवलैवेत्यादेरेवं चार्थ इति । धर्मिस्फुरणरूपा या संविदिति । ननु स्फुरणस्य संविद्रूपत्वे स्फुरणस्य व्यवहारानुगुण्यरूपसंविद्धर्मत्वप्रतिपादकोत्तरग्रन्थविरोध इति चेत्-न । धर्म-धर्मिणोरभेदोपचारेण स्फुरणे संविच्छब्दप्रयोगोपपत्तिरिहेति द्रष्टव्यम् । व्यवहारानुगुण्यमिति । ततश्च साश्रयत्वं सिद्धमिति भावः । ननु संविन्निविर्शेषत्ववादिनं प्रति व्यवहारानुगुण्यापरपर्यायभासमानत्वरूपस्य संविद्धर्मस्फुरणस्य संविशेषत्वसाधनम-नुचितमिति चेत्-न ।अस्मस्फुरणरूपा संविन्निर्विशेषेति वदता आत्मस्वरूपसंविदतिरिक्तस्य स्फुरणस्य निर्विशेषत्वमभ्युपेत्य स्फुरणस्य स्फुरत आत्मनश्चाभेदासंभवादित्यभ्युपेत्य तथोक्तयुत्पपत्तेः । न हि परेण आत्मरूपा संविन्निर्विशेषेत्युक्तम् । अपि-त्वात्मस्फुरणरूपैवेत्युक्तम् । अत आत्मस्फुरणस्य संविशेषत्वोपपादनं युज्यत इति द्रष्टव्यम् । स्मर्तव्यास्मरणलिङ्गेनेति । अने-नादराविशयविषयत्वमुच्यते । तेन तृणादिव्यावृत्तिः । जायमानेन चेति शेषः । ततश्च स्मर्तव्यास्मरणलिङ्गजन्येन तस्मिन् काले "न किंचिदवेदिषम्' इत्यनुभूतिरूपपरामर्शेन स्वाभावोऽपि गृह्रत इत्यर्थः ।

तद्धि उक्तिदूषणमिति । अनुभूतावनुत्पन्नवेन नित्यत्वे हि परेण प्रतिज्ञातम् । तद्विहाय भावत्वविशिष्टानुत्पन्नत्वेन साध्यत इति हेत्वन्तरपरिग्रहे प्रतिज्ञान्तरमिति यद् दूषणम्, तत् उक्तिदूषणम् । व्यभिचारस्तु अर्थ (वस्तु) दूषणम् । अतस्तदेव तर्ककुशलते-त्युद्भावनार्हमिति भावः । अस्य विशेषणस्य व्यापत्र्याभावादिति । एवं हि वदता पारमार्थिकविकारभावः साध्य इत्युक्तं भवति । ततश्च पारमार्थिकविकाररूपसाध्याभावस्योत्पत्तिरूपस्य साधनाभावस्य च व्याप्तिग्रहस्थानस्याभावाद्वयाष्यत्वासिद्धिरित्वर्थः । एतश्चोत्तरत्र स्पष्टम् ।

अनुभूत्यविभागत्वनिरासः

तस्यापरमाथ्र्ये विशेषणषैयथ्र्यादिति । अनुत्पन्नत्वात् परमार्थविभागशून्या' इत्यत्र परमार्तविशेषणस्य पूर्वोक्तरीत्या व्याष्य-त्वासिद्धिसंपादकत्वादित्यर्थः । न तु, "मिथ्याभूत' इति विशेषणस्येति मन्तव्यम्, तस्याविशेषणत्वात् । तुळ्यन्यायतया दर्श-नभेदोऽपि सिद्ध इत्यर्थ इति । ननु-"दृश्यभेदसमर्तनेन दर्शनभेदोऽपि समर्थित एव, छेद्यभेदात् छेदनभेदवत्'ति कर्मभेदस्य क्रिया-भेदहेतुत्वे प्रतीयमाने किमिति तत् परित्यज्य तुल्यन्यायतयोति व्याक्यानमिति चेत्-सत्यम्, एकस्मिन् समूहालम्बने दृश्यभेद-सत्त्वेऽपि दर्शनभदाभावात् तस्य प्रवानयुक्तिव्यसंभवात्, छेद्यभेदात् छदनभदवदित्यस्य शङ्कान्तरपरिहारार्तत्वरूपयुक्तयन्तापद्भा- वाच्चैवं व्याख्यातमिति द्रष्टव्यम् । संयोगोदेरपि संबन्धिव्यङ्ग्यत्वमात्रेणेति । संबन्धिव्यङ्ग्यभेदवत्त्वमात्रेणेत्यर्थः । सबन्धी हि द्वेधेति । भेदव्यञ्जकः संबन्धीत्यर्थः; तस्यैव प्रस्तुतत्वात् । इतरथा प्रकृतानुपयुक्तत्वप्रसङ्गात् । संबन्धिव्यङ्ग्यभेदमपि वस्तु द्विवि- धम्, सम्बन्ध्यधीनसत्ताक्रमतादृशं चेति । पूर्वस्य तु स्वतो भेद एव, उत्तरस्त्वौपाधिक इति भावः ।

साध्यव्यावृत्तावपि साधनाव्यावृत्तत्वलक्षणानियतत्वमात्रमिति । साध्याभाववद्गामित्वलक्षणानियतत्वमात्रमेष । न तु पक्षत्र-यवृत्तित्वलक्षणम् । व्यतिरेवयनुमाने सपक्षस्याभावात् अनैकान्तिकमित्यस्यानियतमिति व्याख्यानं युज्यत इति भावः । न तु पराभ्युपगमादिति । ननु, "आनन्दो विषयनुभवो नित्यत्वं चेति सन्ति धर्माः । ते चापृथक्तवेऽपि पृगिवावभासन्ते3 इति परै-नित्यत्वादीनां भावरूपाणामेव ब्राहृस्वरूपत्वमभ्युपेतमिति चेत्-न । तत्र नित्यत्वादेः कालानवच्छिन्नत्वादिरूपत्वसंभवादिति भावः । उभयत्रानुगतप्रकाशशब्दार्थमाहेति । उभयत्र चिदचितोरित्यर्थः । "ज्ञानं प्रकाशते, घटः प्रकाशते' इति व्यवहारसा-म्यादुभयसावारण्यमिति भावः । स्वव्यपहारसामग्य्रन्तर्भूतज्ञानवत्त्वमिति । स्वव्यवहारानुगुण्ज्ञानविषयत्वमित्यर्थः । न चास्मिन् पक्षेऽनुगम्#ः; ज्ञानावेद्यत्वतदन्यान्यत्वेनानुगमसंभवात् । एतदस्वरसादेवाह - यद्वा एवं चाहुरिति । सर्वत्र व्यवहार-प्रतिसंबन्धित्वमेवानुगतं प्रकाशशब्दार्थः । तत्तु द्वेधा-क्कचित् ज्ञानविषयत्वात्, क्कचितदभेदादिति भावः । अत्र चिदचिशेषपदार्थ-

साधारणं व्यवहारानुगुण्यमिति भाष्यं चिदचिदशेषपदार्थनिष्ठं स्वव्यवहारानुगुण्यमिति व्याख्याय चिदचिदशेषपदार्थविषयक-व्यवहारानुगुण्यं चिद्गतमेव प्रकाशशब्दाथर् सति व्याचष्टे-यद्वा ज्ञानगतप्रकाशेति । व्यवहारप्रतिसंबन्धित्यं प्रति हेतुत्वरूपमिति । व्यवहारहेतुत्वरूपमित्यर्थः । व्यवहर्तव्यत्वमुभयसाधारणम् । व्यवहारहेतुत्वं तु ज्ञानासाधारणमिति भावः । प्रत्यक्तवानुकूलत्वेति । प्रत्यवत्वानुकूलत्वैकत्वविशिष्टस्वव्यवहारं प्रतीत्यर्थः ।

सदकारणकत्वं च नित्यत्वं प्रसिद्धमिति । सत्त्वे सति अकारणकत्वमित्यर्थः । सत्त्वे सतीति विशेषणमसति प्रागभावे चाति-व्याप्तिवारणार्थमिति द्रष्टव्यम् । अस्ति चेत् पक्षापात् स्यादिति । अस्मात्पक्षपातः स्यादित्यर्थः । प्रतीतिश्चेत् कस्यचिदिति । साश्रया सकर्मिका च वक्तव्येत्यर्थः । ननु भाष्यानुगुण्येन सिद्धिश्चेत् कस्यचित् किंचित् प्रतीति वक्तव्ये, प्रतीतिश्वेदिति वदतः कोऽपिप्राय इति चेत्-उच्यते-सिद्धेरकमर्कतया सिद्धिश्चेत् सकर्मिका स्यादित्युक्तेरयोगात् । किंच सिद्धिश्चेत् कस्यचित् कं (किं) चित्प्रतीत्युक्ते घटस्य सिद्धिर्देवदत्तं प्रतीति वक्तव्यम् । घटो दवदत्तं प्रति सिधेयतीति हि वक्तुमुचितम् । न तु देवदत्तो घटं प्रति सिध्यतीति । ततश्च "कस्यचित् पुरुषस्य किंचिदर्थजातं प्रति सिद्धिरूपतया' इत्युत्तरभाष्यविरोधापत्तिः । अतः सिद्धि#ाब्दः प्रती-तिमात्रपर इति प्रदर्शनार्थं सकर्मकप्रतीतिशब्दो व्यवह्मत इति द्रष्टव्यम् । ननु भाष्ये संविच्चेत् कस्यचित् किंचित् प्रत्येव भवतीति वक्तुं सुशकत्वात् सिध्यति चेदित्येवं प्रणाड¬ा प्रतीतेः सिद्धित्वसमर्थनपुरस्कारेण दूषणे न हेतुं पश्याम इति चेत्-न-तस्यो-क्तिमात्रभेदरूपत्वेनादोषात् । कस्यचिदित्युक्तज्ञात्रपेक्षाप्रतिक्षेपं शङ्कत इति । कस्येति निर्दिष्टसिद्धिप्रतिसंबन्ध्यपेक्षाप्रतिक्षेपं शङ्कत इत्यर्थः । आत्मानं प्रतीत्युत्तरग्रन्थानुसारात् आत्मन इति चतुर्थीमभिप्रेत्याह-आत्मानं प्रतीति । यद्यपि कस्य सिद्धि-प्रतिसंबन्धिन इत्यपेक्षायामात्मन इत्युक्ते आत्मासिद्धेप्रतिसंबन्धीत्यर्थलाभ त् तदर्थमात्मानं प्रतीति न व्याख्येयम् । किंच कस्येत्यस्योत्तरं षष्टयन्तमेव भवितुमर्हति, न द्वितीयान्तम्-तथापि स्पष्टार्तमुक्तमिति द्रष्टव्यम् । आत्मशब्दः स्ववाचीति । आत्मशब्दस्य ज्ञातृत्वलक्षणसिद्धप्रतिसंबन्धिपरत्वे कः सिद्धिप्रतिसंबन्धीति प्रश्नस्य सिद्धिप्रतिसंबन्धीत्युत्तरमसंगतं स्यात् । अतोऽन्यप्रतिद्वन्द्विपर इति भावः । न चार्थजातं प्रति सिद्धिरूपस्य कथमात्मानं प्रत्यपि सिद्धिरूपत्वमिति वाच्यम्, एकस्य प्रतिसंबन्धितया प्रतिशब्दार्थीभूतलक्षणत्वम्, अपरस्य विषयतया लक्षणत्वमिति "आत्मानं प्रति, अथजातं प्रति' इति च सुव- चमिति द्रष्टव्यम् । सिद्धिप्रतिसंबन्ध्यात्मा क इति । आत्मशब्दस्य स्वपरत्वेन व्याख्याततया तदंशस्याक्षेप्तुमशक्यत्वात् सिद्धि-तिसंबिन्धत्वमात्मशब्दनिर्दिष्टस्य स्वस्य कथमित्यर्थः । स्वस्यैव स्वप्रतिसंबन्धित्वे विरोधादिति भावः । न त्वात्मत्वमष्याक्षेष्य-कोटिप्रविष्टमिति द्रष्टव्यम् ।

संविदात्मत्वनिरासः

संविदात्मभावस्येति । अ#ि#ात्मशब्दः सिद्धिप्रतिसंबन्धिपरः; न तु स्वपरः; अन्यत्वप्रतिसंबन्धित्वस्योपपादननिरपेक्षत्वादिति द्रष्ट- व्यम् । धर्मधर्मिभावेति । अतो निष्प्रकारकज्ञानस्य नावकाश इति भावः । इह किमर्थ इति । किमुत्पत्तिवाची, उत ज्ञप्तिवाची- त्यर्थः । कर्तुरपि प्रत्यभिज्ञाविषयत्वादिति । ननु "पूर्वं मयानुभूतो यः, स एवायम्3 इति प्रत्यभिज्ञाया पूर्वानुभूतवि#ेयाभेदस्य पुरो-वर्तिनि सिद्धावपि कथमनेनानुभवित्रभेदसिद्धिः? तदानीमनुभवितुश्च मदर्थस्य, इदानीमनुभवितुश्च मदर्थस्याभेदाविषयत्वेन भेदेऽप्यस्याः प्रतीतेः संभवात् । न चान्यानुभूतेऽन्यस्मरणासंभवादभेदसिद्धिरिति वाच्यम्, तह्र्रभेदस्तया युक्तया सिध्यतु; न तु प्रत्यभिज्ञाप्रत्यक्षेण । यदि च तावन्मात्र एव संरंभस्तर्हि वक्ष्यमाणायाः प्रत्यभिज्ञाश्रायत्वयुक्तेरेव प्रमाणीकरणसंभवात् प्रत्यभि-ज्ञाविषयत्वस्य प्रमाणीकरणमयुक्तमिति चेत्-न; 2यः पूर्वं मयानुभूतः, स एवायमर्थस्तेनैव मयानुभूयते, इति प्रत्यभिज्ञायाः प्रमा-णीकरणसंभवादित्यत्र तात्पर्यात् । उत्पत्तिस्थिती सिद्धे इति । "जानामि' इति ज्ञानानुकूलकृतिमत्त्वप्रतीतेरुत्पत्तिप्रतीतिः, लटा धात्वर्थवर्तमानत्वप्रतीतेः स्थितिप्रतीतिरिति भावः । ननु "जानामि' इत्यादौ धात्वर्थाश्रयत्वमेव प्रतीयते; न तु तदनुकूल-कृतिमत्त्वम् । अत एव नित्यज्ञानाश्रयस्यापि परमात्मनः "वेदाहं समतीतानि' इति ज्ञानाश्रयत्वप्रतीतिरिति यद्यपरितोषः, तर्हि "मम ज्ञानमुत्पन्नम्' इति प्रतीतिरुत्पत्तौ प्रमाणीकरणीया । ज्ञातुरेव ममेत्युक्तिरिति । तृचः कर्तृत्वार्थकत्वेनानन्तरकालोत्पन्न-त्वप्रतीतेरिति भावः । निरोधो नाम पटसंविदिति । यद्यष्युत्पत्तेः प्रथमक्षणयोगित्वरूपत्ववत् विनाशस्य चरमक्षणयोगिवमपि सुवचम्-तथाष्युत्तरोत्तरावस्थासबन्धस्यैव पूर्वपूर्वावस्थाविनाशत्वमिति द्रष्टव्यम् ।

आत्मा हि प्रतिसंधत्त इति । न त्वन्तःकरणमिति शेषः । अनुभूतेरात्मत्वे अनुभवित्रभेदप्रतिसंधानमनुभूतेः कथं स्यादिति भावः । उभयाभ्युपेता संविदेवेति । भाष्ये ज्ञातुरुभयानमिमतत्वं प्रतीयते । मृषावादिभिश्च तदभ्युपगमात्तदीयशङ्कापरिहारपरत्वमयुक्तमिति

ज्ञातृस्वरूपानभ्युपगन्तृबौद्धैकदेशिमतं प्रसङ्गान्निराकरोतीत्याह-बौद्धैकदेशिभिरिति । उपलब्धिपराहतत्वात्संविदात्मत्वमनु-पपन्नमिति । संविद एवात्मत्वम्, तद्वयतिरिक्तस्यात्मत्वाभाव इत्येतस्य तद्वयतीरिक्तोपलब्धिपराहितत्वादित्यर्थः । अत एव- अस्तु ज्ञातुरप्युपलम्भः । नैतावता संविदत्मत्वममुप'लब्धिपराहतम् । न हि संविदनात्मेति कश्चिदुपलम्भोऽस्तीति चोद्यं पराकृतं वेदितव्यम् । एतादृशक्लिष्टार्थाश्रयणप्रसङ्गपरिहाराय मृषावदिशङ्कापरिहारपरतया व्याचष्टे-यद्वा संविदः परमार्थत्वेनेति ।

अहमर्थात्मत्वसमर्थनम्

अस्मत्प्रत्ययत्वेन पराभ्युपगत इति । मृषावादिमत्रेपि "अहम्' इति प्रत्ययरूपेऽस्मत्प्रत्यये चिदचिदंशद्वयभानाभ्युपगमाद्ययाश्रुते- ऽपि न दोष इति द्रष्टव्यम् । अन्वयित्रयमिति । यद्यपि "अनुभूतिरात्मा प्रत्यक्तवात्', "अनुभूतिः प्रतीची स्वयंप्रकाशत्वात्', अनुभूतिः स्वप्रकाशा, अभुभूतित्वात्' इति व्यतिरेकिक्रयवत् "अहमर्थो नात्मा पराक्तवात्' "अहमर्थः पराक् ज्ञानाधीनप्रका- शत्वात्' "अहमर्थो ज्ञानाधीनप्रकाशः चिद्ययतिरिक्तत्वात्' इत्येवमुत्तरोतरस्य पूर्वपूर्वसाधकतयोपन्यास एव सुश्लिष्टः-तथापि साधनकमवैचित्रप्रदर्शनार्थमेवमुक्तमिति द्रष्टव्यम् । भाष्ये-चिन्मात्रातिरेकी युष्मदर्थ एवेति । युष्मदर्थ एव अनात्मैवेत्यर्थः । "स आत्मा' इत्यस्य प्रतिनिर्दोरूपत्वादिति द्रष्टव्यम् । इतरानुमानचतुष्टयमिति । "अनुभूतेश्चित्त्वात् स्वप्राशत्वम्', "अहमर्थस्य चित्त्वादस्वप्रकाशत्वम्' इत्यनुमानद्वयं विहाय, "अनुभूतेः स्वप्रकाशत्वात् प्रत्यवत्वम्', "प्रत्यक्तवाच्चात्मत्वम्' इत्यनुमानद्वयस्य च, "अहमर्थस्यास्वप्रकाशत्वात् परोक्तवम्', "ततश्चानात्मत्वम्' इत्यनुमानद्वयस्य च दूषणमाहेत्यर्थः । ननु "अहं जानामि' इत्यत्र ज्ञानशेषित्वलक्षणप्रत्यक्तवस्य कथं भानमित्याशङ्कयाह-धर्मितयावभासादेवेति । ननु "अहम्' इत्यत्र चिदंश्रोपि भासत इति वदन्तं प्रति नेदमुत्तरम्, अंशद्वयेऽपि वृत्तिज्ञानाश्रत्वप्रतीतेरिति चेत्-न; "अहम्' इत्यत्रांशद्वयानुपलम्भात् । उप- लम्भे च चित्रोप्यहमर्थतया अहमर्थानात्मत्वोक्तिर्विरुध्येतेति भावः ।

प्रत्यक्तवं विपरीतसाधकं चेत्याहेति । अहमर्थात्मत्वसाधकमित्यर्थः । स्वंप्रकाशत्वहेतोः सत्प्रतिपक्षत्वं चेति । तुल्यबलत्वा- भावात् बाधितार्थत्वमित्यत्र तात्पर्यम् । इतरथा प्रत्यक्तवहेतोरसिद्धिदाढर्¬मिति पूर्वग्रन्थविरोधात् । यद्वा विशेषः(ष) दर्शनाभि- प्रायेण सत्प्रतिपक्षतोक्तिरिति द्रष्टव्यम् । संवित्प्रत्यत्तवहेतोरसिद्धिश्च सिद्धेति । पूर्वमहमर्थव्यतिरिक्तत्वाहतुना असिद्धिरुक्ताः; अधुना अहंप्रत्ययाविषयत्वहेतुतेति भेदः । यद्वा संवित्प्रत्यक्तवसाधकस्वप्रकाशत्वहेतोन्र्याष्यत्वासिद्धिश्च सिद्धेत्यर्थः । अतो न पौनरुक्तयप्रसङ्ग इति द्रष्टव्यम् । यत्संबन्धित्वेन दुःखज्ञानमिति । उद्वेगहेतुर्भवतीति शेषः न हि शास्त्रं श्रवणादिनिरपेक्षमिति । यद्यपि कृतसाङ्गाध्ययनस्य शब्दोऽर्थप्रत्यायको भवत्येव, तथाप्यनुष्ठानपर्यवसायिप्रमितिजनकत्वं शास्त्रस्य श्रवणादिसापेक्षम् । श्रवणं च बुभुत्साधीनम् । स च पुरुषार्थत्वपर्यवसायित्वावीनेति भावः । ज्ञातव्यस्येति । मुमुक्षुज्ञातव्यस्येत्यर्थः । अहमर्थस्य नियत्वकथनमपीति । यद्यपि, 'नात्मा श्रुतेः' इत्यत्राहमर्थस्य नित्यत्वं न साधितम्, अपि त्वात्मनः-तथापि तस्यात्मत्वं सिद्धि-मित्याभिमानेन तथोक्तमिति द्रष्टव्यम् ।

ज्ञानस्वरूपत्वज्ञानगुणकत्वे

तद्वयतिरिक्तवादहमर्थ इति । भाष्ये न चासौ ज्ञाताहमर्थः इत्यत्र ज्ञातेति हेतुगर्मं विशेषणम् । वक्ष्यति च-न हि दीपादेः स्व-प्रभावलनिर्भासितत्वेनाप्रकाशत्वमिति । ततश्च स्वधर्मभूतज्ञानप्रभावलनिर्भास्यतया कथं ज्ञातृरनन्यप्रकाशत्वमित्याक्षिष्या-नात्मत्वसाधकहेतोरन्याधीनप्रकाशत्वस्यासिद्धिमभिप्रायन्नाहेत्यर्थः । तच्च कथमित्यत्राहेति । प्रकाशाश्रयस्य तस्यानुभूत्यादि-शब्दितसकर्मकसकर्तृकज्ञानरूपप्रकाशत्वं कथमित्याक्षेपभिप्रायः । चैतन्यं ज्ञानत्वमिति । व्यवहारानुगुणत्वमित्यर्थः । आत्मनि ज्ञानाब्दस्यस्वप्रकाशत्वाभिप्रायत्वात्, आत्मनि प्रयुज्यमानो ज्ञानशब्दः स्वप्रकाशे रूढ इत्युक्तत्वाच्च व्यवहारानुगुणत्वलक्षण-स्वप्रकाशत्वमेव ज्ञानशब्देनेह विवक्षितम् । तच्चातुभूतिसंविदादिशब्दानभिलापनीयस्याष्यकर्मकस्यकर्तृकस्य युज्यत इति भावः । अहमर्थस्य चैतन्यस्वभावत्व इति । "अन्नायं पुरुषः स्वयं ज्योतिः' इत्यादिवाक्यैरनन्याधीनप्रकाशत्वलक्षणचैतन्यस्वभावत्वे प्रमाणं दर्शयिष्यन्, प्रकाशगुणकस्य कथमनन्याधीनप्रकाशत्वं सजातीयान्वयदर्शनरूपयोग्यताया अभावादित्याशङ्कय प्रका-शत्वस्वभावस्य प्रकाशगुणकत्वं दीपादौ दृष्टति#ि योग्यतां प्रदर्शयतीत्यर्थः । न तु स्वप्रकाशत्वलक्षणचैतन्यस्वभावत्वमिति मन्त- व्यम् । एतेन-"अहमर्थस्य चैतन्यस्वभावत्वे श्रुतिप्रमाणं वक्ष्यन्' इति ग्रन्थपर्यालोचनायां चैतन्यस्वभावत्वमेवानन्याधीनप्रकाश-त्वमिति प्रतीयते । "यः प्रकाशस्वभावः सोऽनन्याधीनप्रकाशः' इति तर्कस्यानन्यादीनप्रकाशत्वप्रतिपादकश्रुत्यतुग्राहकत्वस्यैव युक्ततया चैतन्यस्वभावत्वानन्याधीनप्रकाशत्वयोरैक्यावश्यंभावात् । ततश्चाहमर्थोऽनन्याधीनप्रकाशः स्वप्रकाशत्वादिति

साध्यसाधनयोरविशेषः, द्वयोरपि चैतन्यस्वाभावत्वरूपत्वात्-इति शङ्का परास्ता, चैतन्यस्भावत्वस्यैकरूपत्वाभावात् । केचित्तु-अहमर्थोऽनन्याधीनप्रकाशः स्वयंप्रकाशत्वादिति पूर्वोक्तानुमाने व्याÏप्त दर्शयतीत्यापि व्याचक्षते । न च-"तत्र स्वयंप्रकाशत्वं हेतुः, इह तु प्रकाशस्वभाव इत्युच्यत' इति वैरूप्यं शङ्कयम्, द्वयोरष्येकत्वात् । स्वपयं प्रकाशत्वादित्यस्यापि प्रकाशस्वभावत्वादित्ये- वार्थ इति । तस्मिन्नपि व्याख्याने न दोषः । आत्मदीपेति । अत्र समाहारगर्भो द्वन्द्वः । अतश्चतुष्र्वपि न द्विवचननिर्देशानुपपत्ति- रिति द्रष्यव्यम् । यादृशमिति साक्षात्परं-परौदासीन्येन व्यवहारानुगुणत्वमित्यर्थः । यद्वा आत्पदीपयोर्धर्मभूतज्ञानप्रभयोरित्यर्थः । तादृशमिति । दीपतत्प्रभयोरौज्जापल्यम्, आत्मधर्मभूतज्ञानयोः स्फुरणमित्यर्थः । साध्यवैकल्यनाशङ्कयेति । इदमुपलक्षणम् - साधनवैकल्यमित्यपि द्रष्टव्यम् । रूपितत्समवेतार्थेति । द च रुपितत्समवेतार्थयोः रूपपेक्षेया-धम्र्यन्तरत्वात्तेन कतं तद्वारणमिति वाच्यम्, धम्र्यन्तरशब्दस्य स्वाश्रयेतरद्रव्यार्थकत्वस्योत्तरग्रन्थे स्पष्टत्वात् । चैतन्यस्वाभावतेत्यादि भाष्यमिति । यद्यपि "यः प्रकाशस्पभावः' इत्यारभ्य तर्करूपत्वं प्रागुपन्यस्तम्, तथापि चैतन्यस्वभावतेत्यारभ्य तर्करूपत्वेऽपि विरोधाभावादेवमुक्तमिति द्रष्टव्यम् । ज्ञानधर्मकत्वज्ञानस्वरूपतोक्तेरिति । हेतुसाध्ययोः प्रदर्शनादिति भावः ।

ननु कर्पूरादीनां द्वरोपलब्धगन्धानामिति (दूयोपलब्धगन्धानामिति) हेतुगर्भविशेषणम् । कर्पूरादीनां द्वरोपलब्धगन्धत्वादि- त्यर्थः । अतश्च यत् कैश्चिदुक्तम्-"द्वरोपलब्धगन्धानामित्येतत् प्रक्षिप्तम् । तथाहि सति समुद्गसंपुटादीति ग्रन्थस्याप्रसक्तप्रतिषेधता-प्रसङ्गात्' इति-तन्निरस्तम् । अत्र समुद्गसंपुटयोः सामान्यविशेषरूपेणार्थभेदसत्त्वान्न पौनरुकत्यशङ्का । उभययादिसंप्रतिपन्नाना-मेवेति । उपलभ्यमानगन्धश्रयणामेषामेवावयवानां निश्चलतयावस्थितिमात्रमेव लघु; न तु-तेषामवयवानां संयोगविशेषरूप उपनिषातः, तद्धेतुकधम्र्यन्तरोत्पत्तिः, तदुत्तरक्षणे विशरणम्, तदधीनधर्मिनाशः, पुनरपि तदुवरक्षणे पुञ्जीभावेन धम्र्यन्तरोत्पत्ति-रित्यादिकल्पनम् । अतो न गौरवमिति भावः । अकृतिरिति । निव्र्यापारः, निश्चल इत्यर्थः । वायुतेजःप्रभृतिभिः संबन्धादिति । रश्मिमत्त्वे तेज संबन्ध एव प्रयोजक इति द्रष्टव्यम् । गत्वगणां रश्मीनामिति । कपालं निर्मिद्य सलिले प्रविष्टानामपि ततो-ऽचिरादूध्वर्निर्गमनमेव स्यात्; न तु तत्र विश्रम इति भावः । अग्न्यवयवसंक्रान्त्यैवौष्णयोपलम्भ इति । विशरणमन्तरेणै-वाग्निसहचरिताग्न्यवयवसंक्रान्त्यैवौष्ण्योपलम्भं इत्यर्थः; "आतपतप्तेष्वपि न किरणविशरणादवयवसंक्रम' इत्युत्तरग्रन्थानुसा- रात् । केचित्तु-अग्नितप्ते विशीर्णावयवसंक्रमणमभ्युपेतम् । अत एव हि सिद्धं नः समीहितम्, तेषामेव विशीर्णावयवानां प्रभा-त्वावगमादित्याशङ्कय निषिध्यते "सलिलादौ सङ्क्रमन्तः' इत्युत्तरग्रन्थेनेति वर्णयन्ति । तदुपात्तमुक्ताग्न्यवयवकार्यमिति प्रती- यत इति । अत्र केचित् - सौर्यरश्मीनां संतापहेतुत्वस्याग्न्यवयवद्वारकत्वेऽग्नीनां संतापनहेतुत्वमादित्यरश्म्यवयवानुप्रवेशकृत- मिति किं न स्यात्? उभयोरपि परस्परानुप्रवेशस्य प्रामाणिकत्वात् । तस्मादष्युभयोरष्युष्णत्वाविशेषात् संतापहेतुत्वमेव वक्तव्यम् । न त्वन्यतरस्यान्यतरद्वारकत्वम् । न हि "वायुर्धूलिं वर्षति शोषयति' इत्युक्ते शोषणस्यापि किंचिद् द्वारतयापेक्षितम् । न चाग्नीनां दिवापि तापहेतुत्वदर्शनात् । तदा सूर्यरश्म्यवयवानुप्रअवेशाभावात् स्वत एवाग्नेस्तापहेतुत्वमिति वक्तुं शक्यम्, "रश्म्यनुसारी' इति सूयोक्तन्यायेन रात्रौ सूर्यरश्मीनां संतापहेतुत्वस्य सिद्धतया तदानीमग्न्यनुप्रवेशाभावात् संतापहेतुत्वं न स्यादिति साम्यात् । अग्न्यवयवादीनामनुप्रवेश त् सौरकिरणानामनुप्रवेशे दोषाभावाच्चेत्यपि द्रष्टव्यम् (वदन्ति?) ।

ननु ष्लोषणद्रवीभूतेति । अत्र केचित्-अयं ग्रन्थः ऊध्र्वमुद्गग्येति ऊध्र्वगमनतिर्यग्गमनस्वभावविरोधप्रदशर्कभाष्यस्यावतारिका; न तु विशरणपिण्डीभावस्वभावविरोधप्रदर्शक्स्य । न हि विशरणस्वभावेति पूर्वभाष्यस्य तत्पूर्वमेवावतारितत्वात् । अतश्च ऊध्र्वमुद्गम्येतीति प्रतीकग्रहणं युक्तमिति वदन्ति । ॠजुर्दश एव छायायोगादवगम्यत इति । यदि प्रभाय ॠजुप्रसरणनियमो न स्यात्, तदा दीपप्रभाव्यवधायकस्तम्भान्तरितान्वकारस्थले प्रभाया वक्रमार्गेण वायुनीतपांसूनामिव गमनप्रसङ्गेन तत्रत्यान्ध-कारेऽष्यार्जवं न स्यादित्यर्थः । ननु तिरोधायकपदार्थं प्रति ॠजुप्रदेश एव छायायोगे नियमो नास्ति; तथा हि सति व्यवधायकस्य पदार्थस्य दीपसंनिकृष्टत्वे पृथ्वग्रा सूक्ष्मसूला छाया नोपलभ्येतेत्यत्राह - छायावैपुल्यमिति । छायापृथ्वग्रन्वं निरुप्यमानरश्मीनां पृथ्वग्रसूक्षममूलत्वनिबन्धनमित्यर्थः । अयं भावः- यावद्देशप्रसरणशीलाग्रवन्तो रश्मयो निरुध्यन्ते तावद्देशप्रसृता छाया भवतीति । उत्पत्तिविनाशसामग्रीभ्पामिति । अयमिहनुमानक्रमः - द्वितीयादिवत्र्यवयवाग्निसंयोगो दीपोत्पादकः वत्र्यवयवाग्निसयंयोगत्वात्, प्रथमवत्र्यवयवाग्निसंयोगात् । प्रथमवर्तिकावयवनाशो दीपनाशहेतुः, वर्तिकावयवनाशत्वात् चरमवर्तिकावयवनाशवदिति । भाष्ये औष्णयाधिक्यमित्याद्युपलब्धिव्यवस्थाष्यमिति । इदमुपलक्षणम्-औष्रयाधिक्यं न प्रभाधर्मः, अपितूद्भूतस्पर्शानां तत्सहचरि- तानां तेजोवयवानां धर्म इत्यपि सुवचमिति द्रष्टव्यम् । अनेन पक्ष्यमाणश्रुतिवाक्य इति । ननु ज्ञानादिव्यपदेशस्य स्वप्रशाशत्व-

मादाय निर्वाहः । स्वप्रकाशत्वस्य तु चैतन्यस्वभावत्वमादाय निर्वाहः; चैतन्यम्बभावता हि स्वप्रकाशतेयुपपादनात्; अतोऽन्यो-न्याश्रय इति चेत्-न; चैतन्यस्वभावत्वमित्यत्र चैतन्यलक्षणज्ञानत्वं व्यवहारानुगुणत्वमात्रमेव, न तु संविदनुभूत्यवगत्यादिशब्द-प्रवृत्तिनिमित्तत्वमभिप्रेत्येति पूर्वोक्तत्वाददोषात् ।

व्यतिरेकशब्देन निःशेषग्रहणं कृतमिति । अन्तरङ्गः कृत्स्नः सैन्धवघन इत्यपेक्षया बहिरङ्गव्यतिरिक्तः, कृत्स्नः सैन्दवधन इत्युक्ते, असंकुचितसर्वान्तरङ्गप्रतीतिरनुभवसिद्धेति भावः ।

स्वसंबन्धितया प्रतीतमिति । स्वसंबन्धाप्रतीतौ स्वसंबन्धितया अप्रतीतमित्यन्वयः । ज्ञानान्तरवेद्यत्वं स्यादिति । ज्ञातृज्ञान-संबन्धविषयकज्ञानस्य संबन्धिभूतज्ञातृज्ञानविषयकत्वावश्यंभावादिति भावः । नन्वेवं ज्ञानत्ववैशिष्टयमात्मनि च प्रत्यकत्वा-नुकूलत्वैकत्ववैशिष्टयं कथं भायात्? वैशिष्टयानुयोगिनः स्वस्य स्वविषयत्वासंभवादित्यपि वक्तुं शक्यमिति चेत्, तस्याष्याक्षेप-स्येष्टत्वात् । संबन्धविषयकज्ञानेन सह ज्ञातृसंबन्धस्यापीति । ज्ञातृव्यवसायसंबन्धविषयकानुव्यवससायेन सह ज्ञ तुः संबन्ध- स्यापि वेद्यत्वायानुव्यवसायानुव्यवसायः स्वीकतव्र्य इत्यर्थः । अहमर्थो हि विशेष्यतैकस्वभावः स्वात्मनामुपस्थापयतीति । न च प्रत्यवत्वानुकूलत्वैकत्वभिन्नात्मधर्मग्रहे आत्मनः सामथ्र्याभावात् कथं विशेष्यत्वस्य ग्रहणमिति वाच्यम्, विशेष्यत्वस्य स्वभावानतिरिक्तत्वेन ग्रहणसंभावात् । न च विशेषणत्वविशेष्यत्वस्वभावग्रहणेऽपि परस्परनिरूपितत्वाग्रहात् कथं विशिष्टव्य- वहार इति वाच्यम्, परस्परनिरूपितत्वासंसर्गाग्रहस्यैव संसर्गग्रहकार्यजनकत्वात्, तस्यापि तदुभयस्वरूपत्वाद्वा ग्रहणोपपत्तेः । ननु प्रत्यक्पदजन्योपस्थितेरात्मविषयत्वं वक्तव्यम्, तत्र प्रकाशद्वयस्याभ्युपगन्तव्यत्वात् । तत्रावेद्यत्वलक्षणस्य स्वप्रकाशत्व-स्यास्मदि#ेष्टत्वाभावात् प्रकाशद्वयसत्त्वे न दोष इत्येव परिहर्तव्यमिति चेत्-सत्यम्, "घटमहं जानामि' इति ज्ञानं चक्षुरिन्द्रियज- न्यम्; न तु नैयायिकमत इवानुव्यवसायरूपं मनोजन्यम् । न हि चक्षुर्जन्यज्ञान आत्मनो विषयत्वं संभवति । अतोऽहमित्येव धर्मी स्फुरति । घटज्ञानांशः स्वप्रकाशतया भासत इत्येव वक्तुमुचितमति भावः । जडत्वप्रयुक्तम् हि तत्रेति । जडस्थलीयसहा- वभास एवैकज्ञानगम्यत्वप्रयोजक इत्यर्थः ।

व्युत्पत्तिनिमित्तमस्त्विति । यथा "वासस्वी देवदत्तपदवाच्यः' इत्यत्र वासो देवदत्तपदव्युत्पविदशायां निमित्तमेव, न तु शक्यको-टिप्रविष्टम् - तथेत्यर्थः । धर्मभूतज्ञाने सावकाशोऽस्मन्मत इति । ननु परमत्रेपि "ज्ञायतेऽनेन' इति व्युत्पत्त्या अन्तःकरणवृत्ति-ज्र्ञानमिति वृत्तिज्ञाने संबन्धिशब्दः सावकाश इति चेत-न । जडायामन्तःकरणवृत्तौ ज्ञानत्वोक्तेरसंगतत्वात्; भावप्रत्ययान्तज्ञान-पदवाच्य एव संबन्धित्वव्यवहाराच्चेति भावः ।

उत स्वस्मै स्वयंप्रकाशमानत्वमिति । अत्र केचित्-स्वस्मै भासमानत्वमिति तृतीये विकल्पे संविदि असिद्धया दूषिते सति स्वस्मै स्वयंभासमानत्वमिति चतुथर्विकल्पस्योत्थानासंभवेन, "तस्मात् स्वात्मानं प्रति स्वसत्तयैव सिध्यन् अजडोऽहमर्थ एवात्मा' इति भाष्यस्य चतुथर्विकल्पदूषणत्वं न युक्तम् । तस्मादित्यादिभाष्यस्य पूर्वप्रस्तुतविकल्पदूषणोपसंहारे स्वरसस्य पक्षान्तरप्रतिक्षेपक-परतया व्याख्यानमपि क्लिष्टम् । तथा तस्यैव भाष्यस्य ज्ञानकर्मतामन्तरेण व्यवहारानुगुणत्वं ज्ञानान्तरनिरपेक्षप्रकाशत्वमित्वेव-विधपञ्चमपक्षविकल्पद्वयनिरसनपरत्ववर्णनमपि क्लिष्टम् । न हि "तस्मात् स्वात्मानं प्रति स्वसत्तयैव सिध्यन्नजडोऽहमर्थ एवात्मा' इति भाष्यं ज्ञानकर्मतामन्तरेण व्यवहारानुगुणत्वरूपपञ्चमपक्षविकल्पस्य दूषणीभवितुमर्हति । तस्मिन् हि पक्षेऽहमर्थे एव व्य- भिचार उद्भाव्यः, न त्वहमर्थ एवात्मेति । ज्ञानकर्मतामन्तरेण व्यवहारानुगुणत्वस्याहमर्थ इव संविद्यपि सत्त्वेनाहमर्थोऽप्यात्मेत्येव वक्तुमुचिततया "अहमर्थ एवात्मा' सति वक्तुमचितत्वात् । ततश्च स्वसत्ताप्रयुक्तप्रकाशत्वं वा, अव्यभिचरितप्रकाशमत्ताकत्वं वा, तत्त्वे सति स्वस्मै भासमानत्वं, वा, अन्यसंबन्धानपेक्षप्रकाशत्वं वेति । चतुर्धा विकल्पोऽभिमतः । भाष्येऽपि तथैव प्रतीयत इति वदन्ति ।

प्रत्यक्षबाधः सर्वसाधारणं दूषणमिति । "अहम्' इति भासमानस्यैवात्मत्वेन तस्य ज्ञानाश्रयतया ज्ञानभेदनैव प्रतीतेरिति भावः । यद्वा "अहं जानामि' इति तस्याहमर्थधर्मत्वग्राहिप्रमाणबाध इत्यर्थः । अनैकान्त्यांवरोधयोरन्यतरेणेति । स्वदर्शने पक्षत्रयवृत्ति-त्वरूपमनैकान्त्यम्; परदर्शने पक्षविपक्षमात्रवृत्तित्वरूपविरोध इत्यर्थः । न व्यभिचरति प्रकाशो यस्य सत्ता-मिति । अत्र केचित् - न व्यभिचरति प्रकाशं यस्य सत्तेति पाठः समीचीनः, तस्यैवार्थस्योचितत्वात् । सत्ताया एव प्रका-शव्याप्यत्वस्य विवक्षितत्वात्, भाष्यस्थाव्यभिचरितशब्दस्य कर्मणि क्तप्रत्ययान्तत्वेन कर्तरि क्तप्रत्ययोन्तत्वाभवादिति वदन्ति ।

परस्मै भासमानत्वमुपपादयतीति । "अहं सुखी' इत्यत्राहमथस्र्य सुखशेषित्वभानात् सुखस्यैव प्रकाशरूपत्वात् सुखप्रकाश-शेषित्वलक्षणं प्रकाशफलित्वमपि "अहं सुखी' इत्यत्र भासत इति भावः ।

अथाहमर्थस्य भ्रान्तिसिद्धत्वमिति । न च भाष्ये ज्ञातृतयावभासते इति । ज्ञातुरेव भ्रान्तिसिद्धत्वं प्रतीयते, नाहमर्थस्येति वाच्यम् - अहमर्थस्यैव ज्ञातृत्वात् । अत एव परिहारभाष्ये अनुभविताहमर्थः प्रतीयते अनुभूतिरह मितीत्युक्तम् । भाष्ये-अनुभूतिः पर- मार्थतो निर्विषया निराश्रायेति । अत्राश्रयविषयशब्दौ भावप्रधानौ । ज्ञानाश्रयत्वज्ञानविषयत्वशून्येत्यर्थः । "सा ज्ञातृता भ्रान्ति-सिद्धा रजततेव शुक्तिशकलस्य,' अनुभूतेः स्वात्मनि कर्तृत्वायोगा'दिति पूर्वपक्षभाष्यानुरोधात् । अत एव ज्ञातृत्वस्य भ्रान्ति-सिद्धत्वोपपादने परमार्थतो विषयाश्रयशून्यविषयत्वोपपादमनुपयुक्तमिति शङ्काऽपि निरस्ता । अत्र च ज्ञानविषयत्वाशून्यत्वोप- पादनं दृष्टान्ततया, न प्रकृतोपयोगितयेति द्रष्टव्यम् । यद्वा निराश्रया तादात्म्यसंबन्धेनाध्यस्यमानज्ञातृशून्येत्यर्थः । अत एव अनुभवसामाधिकरण्येनाहमर्थः प्रतीयेतेति ग्रन्थस्वारस्यं द्रष्टव्यम् । तत्र न संबन्धमात्राध्यास इति । येनाहमर्थवैयधिकरण्येन प्रतीतिः "दपर्णे मुखम्' इतिवदुपपद्येतेति भावः । प्रभा मणिसामानाधिकरण्येनैव हि भातीति । ननु प्रभायां प्रभाश्रयमण्यध्या-सवदनुभूतावनुभूत्याश्रयाहमर्थाध्यामः कुतो न संभववेदिति चेत्-न । तत्राधिषांनप्रभातिरिक्तप्रभाश्रयाभेदाध्यासः संभवेत् । अनु- भूतौ द्वित्वाभावान्न तथा संभवतीति भावः । पदद्वयप्रवृत्तिनिमिवयोरिति । ननु मालिन्यपदप्रवृत्तिनिमिवस्य मालिन्यत्वस्य राग-पदप्रवृत्तिनिमित्तस्य रागत्वस्य च कथं दिङ्नभोवृत्तित्वम्? कथं वा "सर्वदिक्ष्वपि सैव मे' इति सर्वासु दिक्षु कामिन्यध्यासे दिव-त्वकामिनीत्वसामानाधिकरण्यमिति चेत् - न; तादृशस्थले संसर्गारोपरूपतया वैयधिकरण्येन भ्रमसंभवात् । न चात्रापि संस-र्गारोपोऽस्त्विति वाच्यम्, तथा हि सति 'दिक्षु कामिनी', "दिक्षु मालिन्यम्' इतिवत् "अनुभूतावहम्' इति प्रतीतिप्रसङ्ग इति भावः । तदधिकरणाध्यासातुदय इति । अनुभूतित्वास्फुरणस्य भ्रमहेतुत्वं वदता अनुभूत्यस्फुरणमध्यासहेतुरित्युक्तं स्यात् । तत-श्चाधिष्ठानम्फुरणरूपहेत्वभावादध्यसानुदयप्रसङ्ग इति भावः । अधिष्ठानस्फुरणस्य हेतुत्वाभावादध्यासोदयः संभवतीत्याक्षिपति-नन्वध्यासानुदयो दुर्वच इति । तदप्रकाशादध्यासोदय इति । तत्प्रकाशस्याहेतुत्वादध्यासोदय इत्यर्थः । अप्रतिपन्नस्याधिष्ठा-नत्वायोगादिति । अध्यासदशायामप्रतिपन्नस्येत्यर्थः । दूषणान्तरमाह-विषयाश्रयशून्याया इति । केचित्तु-अप्रतिपन्नस्य । सर्वथा अप्रतिपन्नस्येत्यर्थः । तदुपपादकमुवरवाक्यमिति वदन्ति ।

ज्ञातृत्वस्यान्तः करणधर्मत्वनिरासः

ज्ञातृत्वपरश्रुतिवाक्यादिति । "परात् परं पुरिशयं पुरुषमीक्षते' "सर्वं ह पश्यः पश्यति' इत्यदिवाक्यादित्यर्थः । तादृशाहंकार-ग्रन्थिस्थमिति । विकारिजडद्रव्यस्थमित्यर्थः; न तु विक्रियात्मकजडद्रव्यस्थमिति मन्तव्यम्, अविक्रियस्येति पूर्वग्रन्थानुसारात् विकारास्पदेति । भाष्यानुगुण्याच्च । दृश्यत्वादित्यर्थ इति । दृश्यत्वादिति शेष इत्यर्थः । देहात्मभेद इति । देहस्य ज्ञातृत्वाभाव इत्यर्थः । क्कचिज्ज्ञातृत्वाभावप्रयोजकस्येति । नन्वेवं ज्ञातृत्वस्य चित्त्वप्रयोज्यत्वं स्यात् । न चेष्टापात्तिः । धर्मभूतज्ञाने ज्ञातृत्व- प्रसङ्गः । न च चित्त्वमात्मत्वम्, तदभावो ज्ञातृत्वाभावप्रयोजक इति वाच्यम्, आत्मत्वज्ञातृत्वयोः प्रयोज्यप्रयोजकभावस्य क्काष्य-ग्रहादिति चेत्-न-आत्मत्वज्ञातृत्वयोः प्रयोज्यप्रयोजकभावाग्रहेऽष्यात्मत्वाभावस्य ज्ञातृत्वाभावप्रयोजकत्वदर्शनादिति भावः । वस्तुतस्तु अचेतनत्वादीत्यत्र तद्गुणसंविज्ञानत्वहुव्रीहिणा दृश्यत्वादिकमुक्तमिति ध्येयम् । पूर्वोक्तव्याप्तिस्थापनायेति । "चेत-नासाधारणधर्मत्वाच्च ज्ञातृत्वस्ये'ति पूर्वोक्तव्याप्तिस्थापनायेत्यर्थः । न हि वयं द्रष्टृत्वादीति । देहस्य जडत्वान्न द्रष्टृत्वम् । तत-श्चानात्मत्वमिति चार्वाकं प्रति न देहात्मभेदं साधयामः । अपि त्वात्मनो दृशिस्वरूपत्वात् देहस्य चातथात्वात् देहस्यानात्मत्व- मित्येव साधयाम इत्यर्थः । द्रष्टृत्वाभावस्याचेतनत्वादिप्रयोज्यत्व इति । अचेतनत्वादीत्यत्र अतद्गुणसंविज्ञानबहुव्रोहिवशात् दृश्यत्वस्य ग्रहणात् । द्रष्टृत्वाभावेऽप्यचेतत्वादिकमित्युत्तरत्रापि दृश्यत्वमेव विवक्षितम् । मृषावाद्यसाधारणेति । यदि दृश्यस्य द्रष्टृत्वम्, तर्हि दृशित्वमपि किं न स्यात्? यदि च कर्मणः क्रियात्वं न संभवतीत्युच्येत, तर्हि कर्मणः कर्तृत्वमपि न संभवति; कर्म-त्वकर्तृत्वक्रियात्वानां परस्परविरोधादिति भावः । यद्यपि सिद्धान्ते दृशेरपि दृश्यत्वमभ्युपगतम्-तथापि परमतानुसारादेवमुक्तमिति द्रष्टव्यम् । रजतप्रत्ययगोचरत्वमात्रेणेति । रजतप्रत्ययस्य रजतवि#ेयत्ववत् अहंप्रत्ययोऽप्यात्मविषयः, अहंत्वमेवात्मत्वमिति स्थि-तत्वात् । ततश्चाहंप्रत्ययविषयत्वं नात्मत्वबाधकम्; प्रत्युतात्मत्वसाधकमेवेति भावः । परमात्मन्यनात्मत्वादिप्रसङ्गश्चेदिति । यदि परमात्मा कर्ता स्यात्, अनात्मा स्यादित्यापादने, तस्मान्न कर्तेति विपर्यये पर्यवसाने, कर्तृत्वादिश्रुत्या बाधप्रसङ्ग इत्यर्थः । द्वितीये परमात्मन्यसिद्धिरिति । कर्तृत्वेऽहंप्रत्ययगोचरत्वे चाभ्युपगम्यमान इत्यस्य परमात्मनः स्पन्दरूपक्रियाश्रयत्वेऽहं प्रत्योचरत्वे

चाभ्युपगम्यमान इत्यर्थः पर्यवसितः ततश्च तथाभ्युपगमोऽसिद्ध इत्यर्थः; तर्के पराभ्युपगतस्यैवापादकत्वादिति भावः ।

प्रसरमपेक्ष्योदेयास्तमयाव्यपदेश इति भाष्ये प्रसरशब्दस्य प्रसरणार्थत्वमाश्रित्य प्रसरणान्वयव्यतिरेकाभ्यां मानस्यांशिन उदया-स्तमयव्यवहार इत्यर्थः प्रतीयते । प्रसरशब्दस्य पचाद्यजन्ततया प्रसरणकर्तृपरत्वमाश्रित्य प्रसृतांशमपेक्ष्य तन्मात्र एव प्रसरण-संकोचदशायामुदयास्तमयव्यपदेशः, न त्वंशिनीत्यष्यर्थः प्रतीयते । अतोऽर्थद्वयपरतया व्याचष्टे - प्रसरान्वयव्यतिरेकाविति । मुखान्तरेणापीति । तच्च न स्वाभाविकं रूपम् इति भाष्ये तत् स्वाभाविकं च न भवतीति च शब्दो भिन्नक्रम इति भावः । स्वाभाविकं रूपं कथमित्यत्राहेति । अत्र केचित्-निर्विकारत्वश्रुत्यः स्वाभाविकविकारनिषेधरा इत्येका व्याख्या । उपा-धिविनिर्मुक्तस्वाभाविकमुक्तस्वरूपे विकारमात्रनिषेधोपरा इत्यपरा । तत्र पूर्वव्याक्यायाम्, तच्च न स्वाभाविकम्, अपि तु कर्मकृतमिति भाष्ये तच्छब्दः कर्तृत्वपरः । ततश्च कर्तृत्वाश्रयभूतं (भूत)जीवस्वरूपं न स्वाभाविकम्, अपि त्वौपाधिकम् । स्वाभाविकरूपं तु अविक्रियमेव । विकारनिषेधश्रुतयश्च स्वाभाविकस्वरूपपरा इत्यर्थः । इमां द्वितीयव्याख्यामभिप्रेत्य स्वा- भाविकं रूपं कथमित्यत्राहेति ग्रन्थः प्रवृत्तः । पूर्वस्यां व्याख्यायां स्वाभाविकं रूपं कथम् इत्याक्षेपस्य वा अविकारित्ववचना-न्युपाधिविनिर्मुक्तस्वाभाविकरूपपराणीत्युत्तरग्रन्थस्य वा असामञ्जस्यात् व्याक्याद्वयमेवेदमित्याहुः । न कदाचिदपि जडस्या-हंकारस्येति । जडत्वस्य प्रतिद्वन्द्वितया निर्देशात् स्वरूपपरशब्दस्वारस्याच्चान्यथा व्याचष्टे - यद्वा स्वरूपशब्दो धर्मिपर इति ।

परोक्तज्ञातृत्वनिर्वाहनिरासः

समासान्तर्गता विभक्तिरिति । छायापत्तिः प्रतिफलनम् । ततश्रच "दर्पणस्य करवालसंनिधानेन करवाला प्रतिफलनात्' इत्युक्ते यथा करवाले दर्पणस्य प्रतिफलनमित्यपि प्रतीयते, करवालस्य दर्पणे प्रतिफलनमित्यपि प्रतीयतेः एवं चित्प्रतिफलनमित्युक्ते चेति प्रतिफलनं, चेतो वा प्रतिफलनमित्यर्थद्वयमपि संभवत्येव । एतेन-"देवदत्तस्य यज्ञदत्तधनप्राप्तिः' इत्युक्ते यज्ञदत्ते देवदत्तधनप्राप्ति-रित्यर्थो यथा न लभ्यते, एवम् "अहंकारच्छायापविः संविदः' इत्युक्ते, अहंकारे संविच्छायापविरित्यर्थः कथं लभ्येतेति शङ्का गलःस्तिता । न हि व्यं छायापविशब्देन । प्रतिफलनं च षष्ठयन्तमिव सप्तम्यन्तमष्याकाङ्क्षतीति नानुपपत्तिगन्धोऽपि । अत्र केचित्-भाष्ये "केयं तच्छायापत्तिः' इति पाठो युक्तः, पूर्वत्र तच्छायापत्त्येत्युक्तेः । ततश्च तच्छब्दस्य किमहंकारपरामर्शित्वम्? उत संवित्परामर्शित्वम् इति विकल्पो युज्यते चिच्छायापत्तिरिति पाठेऽपि ज्ञातृत्वच्छायापत्तिरिति न व्याख्येयम्, भाष्ये तथाऽप्रतीतेः; ज्ञातृत्वच्छायापत्तिपक्षस्य परैरनुद्भावितत्वाच्च । अत एव ज्ञानच्छायासंपवि संपर्कौ कस्मान्न निरस्ताविति चोद्यस्यापि नावकासः ।

"तस्मावत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।

गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ।।'

इत्युक्तरीत्या चैतन्यसामानाधिकरणकृत्याश्रयत्वलक्षणज्ञातृत्वस्य चिदचित्संनिधानेन परस्परच्छायापत्त्या संभव इति चोदयति- भाष्ये जडस्वरूपस्येति । सामान्यतो ज्ञातृत्वसंभवमात्रप्रदर्शनेऽपि अन्तःकरणस्येति वा चैतन्यस्येति वा धर्मिविशेषस्यानुक्तेः चिच्छायापत्त्येत्यत्रापि षष्ठीसप्तमीसमासद्वयसंभवं चाभिप्रेत्य तत्संभव इत्यत्र ज्ञातृत्वोत्पत्तिपरत्वं निश्चित्य कस्य छायापत्त्या तदुत्पद्यत (कुत्र ज्ञानमुत्पद्यते) इति पृच्छति-केयं चिच्छायापत्तिरिति । किमहङ्कारच्छायापत्तिः संविद इति । ततश्च तया छाया-पत्त्या संविद्येव ज्ञातृत्वमित्यर्थसिद्धम् । एवमुवरत्रापि उभयत्रापि ज्ञातृत्वासंभवभाष्यस्यायमर्थः । चैतन्यसमानाधिकरणकर्तृत्वं हि ज्ञातृत्वम् । यत्र चैतन्यं न तत्र कर्तृत्वं, यत्र च कर्तृत्वं न तत्र चैतन्यमिति नोभयत्रापि छायापत्त्या वास्तवज्ञातृत्वोत्पत्तिः सिध्यतीति भावः । अत एव नोभयत्रावास्तवज्ञातृत्वमित्युत्तर-भाष्यं च स्वरसमिति वदन्ति ।

संपर्कश्चोपलम्भानुगुण्येनेति । प्रमात्वस्यौत्सर्गिकत्वात् रुमाकाष्ठलावण्यवदेवाभ्युपगन्तव्यम् । न त्वयःपिण्डौष्ण्यवदेवेति भावः । दण्डदेवदत्तयोरिति । अयः-पिण्डाग्न्यादिषु तथा दर्शनादित्यर्थः । अपृथगवस्थितयोः संपर्कश्चानुपपन्न इति । नन्वपृथगवस्थि-तयोर्वह्निधूमयोर्वा देहात्मनोर्वा संपर्को दृष्ट इति चेत्-मैवम्, ज्ञानाहंकारयोर्धर्मभावेनोपलम्भानुगुण्येनापृथक्सिद्धत्वे ज्ञातृत्वमपि वास्तवमेव किं न स्यादिति भावः ।

अनुत्पन्नस्येति । अन्वयव्यतिरेकाभ्यामुत्पत्तेरभिव्यक्तिहेतुतयोत्पत्तिरभिव्यक्ति#ाब्दव्यपदेश्या भवति । अभिव्यज्यते अस्या इति व्युत्पत्त्या अपादाने क्तिनि अभिव्यक्तिशब्दस्योत्पत्तिपरत्वसंभवादिति भावः । एतदस्वरसादाह-किंचेति । प्रकाशोत्पत्तिरूपा-भिव्यक्तिरिति । ननु च तत्प्रकाशनमिति द्वितीयपक्षाभेदः स्यादिति चेत् न; द्वितीयपक्षे विषयविषयिभावो भेदगर्भः, इह तु न तथेति द्रष्टव्यम् । एतदभिप्रायेण प्रकाशनमनुभवविषयप्रकाशोत्पत्तिरिति वक्ष्यति । स्वतः सिद्धशब्दस्यानन्यप्रकाश्यत्वानन्या-

त्पाद्यत्वरूपार्तद्वयसंभवादुभयश्रा व्याचष्टे-स्वतः सिद्धतया हीत्यादिना । पूर्वमिति । तत एवेति भाष्येणेत्यर्थः । अनुग्राह्रेति । अनुग्राह्रमनुग्रहसाधनम् । अनुग्रहस्य कोटिद्वयेऽप्यनन्तर्भावादिति । सर्वस्याष्यनुग्रहस्य कोटिद्वयेऽप्यनन्तर्भावादित्यर्थः । व्या-प्तिस्मरणादिरनुग्रह इति । तद्धेतुभूतव्याप्त्यनुभवादिरनुमानानुग्राहकः । न चानुग्रहः फलरम्भौन्मुख्यंधसामथ्र्योद्र्वोधनमन्यदेवेति कथं व्याप्तिस्मरणादेरेवानुग्रहरूपत्वमिति वाच्यम्, साधनव्यतिरेकेणानुग्रहसद्भावे प्रमाणाभावात् । व्याप्तिस्मरणानुगृहीतमनु-मानमित्युक्तिस्तु "अनुभवेनानुभूयते' इतिवदुपपन्नेति भावः । इन्द्रियसंबन्धहेतुत्वेनेत्युक्तमिति । वस्तुतस्तु इदमनुमानदिरण्यु-पलक्षणम् । नेन्द्रियाणि, नानुमानमिति निषेधस्य तुल्यत्वादिति द्रष्टव्यम् । अनुपङ्गेणेति । उत्तरभाष्यानुषङ्गेणेत्यर्थः । आचा-र्यैरुभयैरुक्तमपि तद्विकल्पमुखेन भाष्यभिप्रेतमित्याह-अयं तु भाष्याभिप्राय इत्यादिना । अहंकारोऽमूर्तद्रव्यमिति । अक-ठिनद्रव्यमित्यर्थः पक्षद्वयनिरासानन्तरमेवान्यपक्षनिरासस्य युक्तत्वात् न तावदित्यनेन तन्निरासोऽनुपपन्न इत्यन्यथा व्याचष्टे-यद्वाऽहंकारस्येति ।

भाष्ये - न केनापि कदाचित् संविदाश्रयमज्ञानमुच्छिद्येतेति । नन्वहं कारापनेयत्वयं ज्ञानस्य वदन्यं प्रति कथमज्ञानस्यानुछेदा-पादनमिति चेत्-न । अहंकारनिवर्तकत्वपक्षस्य गर्भस्त्रावेण गतत्वात् ज्ञानमात्रनिवत्र्यत्वस्यैव वक्तव्यत्वं सिद्धवत्कृत्य तत्प्रसङ्गा- दिद दूषणरपादनमिति द्रष्टव्यम् । अत एवानुभूतेरनुभाव्यत्वाभ्युपगमेऽपीत्यनुभाव्यत्वमभ्युपगम्यप्रवृत्ते ग्रन्थे विषयभावविरहिते ज्ञानमात्र इति विषयत्वाभावकथनं पूर्वोत्तरविरुद्धमिति शङ्कापि निरस्ता, न च संविदाश्रयत्वमित्यादिभाष्यस्य प्रासङ्गिकत्वा- दिति ध्येयम् । व्यतिरेकव्याप्तिर्दशिर्तेति । ज्ञानविषयत्वाभावादज्ञानवि#ेयत्वं नास्तीत्यनुमाने ज्ञानविषयत्वाज्ञानविषयत्वाभावयोः पक्षादन्यत्रावृत्तेव्यर्तिरेकव्याप्तिरिति भावः । ज्ञाननिवत्र्याज्ञानत्व इति बहुव्रीहिः । प्रतीतिव्र्यवहारानुगुण्यमिति । प्रतीतिशब्देन ज्ञानस्य परिग्रहे ज्ञानानुगुण्यस्य ज्ञानेऽभावात् प्रतीत्यनुगुणस्वभावत्वात् ज्ञानतत्साधनयोरित्यस्यासंगतिः स्यादिति भावः ।

प्रामाण्याप्रामाण्ययोद्र्वयोरपि परतस्त्वमिति कोऽर्थः? यथा पृथिव्याः शीत्तत्वमुष्णत्वं च परतः, स्वतस्त्वनुष्णाशीतत्वम्, एवं वा; उत ज्ञानसामान्यसामग्य्रतिरिक्तोत्पाद्यत्वे सति यावत्तद्ग्राहकसामग्राह्रत्वमिति विकल्प्य प्रथमं दूषयति-निःस्वभावत्वादिप्रसङ्गा- दिति । प्रामाण्याप्रामाण्ययोद्र्वयोरष्यभावे सर्वस्यापि वस्तुनस्तद्वत्त्वतदभाववत्त्वयोद्र्वयोरण्याभावेन तुच्छत्वमेव स्यादित्यर्थः । दूषणान्तरमाह-प्रामाण्याप्रामाण्येति । तत्संबन्धात् ज्ञाने तथात्वमिति । यथा रुमासंबन्धात् काष्ठे लावण्यम्, अनुष्णाशीत-पृथिव्यामुष्णशीतयोरग्निजलयोः संपर्कादुष्णत्वादिप्रतिभासो वा तद्वत् प्रामाण्याप्रामाण्ययोस्तत्वतिभासस्य वोपपत्तिरित्यर्थः । परतस्त्वननुपपन्नमिति । प्रामाण्याप्रामाण्ययोस्तुच्छत्वमेव स्यात्, अन्यत्राष्यभावात् अत्राष्यसत्त्वात् । उष्णत्वशीतत्वयोस्त्व- न्यत्र वृत्तिसंभवान्न तुच्छत्यमित्यर्थः । द्वितीयं दूषयति-प्रामाण्यबुभुत्सेति । गृहीतृप्रामाण्यस्यैव निश्चयरूपतया तत्रापि प्रामा-ण्यग्रहापेक्षायामनवस्थेत्यर्थः । यद्वा निःखभावत्वादिप्रसङ्गादित्यादिशब्देनानवस्थापरिग्रहः । उभयं विवृणोति-प्रामाण्यप्रा- माण्ये इत्यादिना ।

क्कचिदात्मस्थतयाभिव्यञ्जनमभ्युपेत्येति । दीपादिष्वनैकान्त्यप्रदशर्नमेव क्कचिदभ्युपगमसूचनमिति भावः । भाष्ये चाक्षुषतेजः-प्रतिफलनेनेति । प्रतिफलनम् प्रतिहतिः । भाष्ये वस्तुतो दोषतो वा न किंचिदिह कारणमितीति । वस्तुरूपं वा दोषरूपं वा न किंचित् करणमित्यर्थः । प्रत्यक्षप्रमायां हि वस्तुशब्दवाच्यो विषयो हेतुः अतो वस्तुनः कारणत्वमुपपद्यत इति द्रष्टव्यम् । धर्मधर्मि-भावेन वस्तुत इति । तसेः सार्वविभक्तिकत्वात् वस्तुनाउधर्मधर्मिभावेनेत्यर्थः । मूर्तस्वच्छस्थूलद्रव्यत्वमिति । मूर्तस्वच्छस्थूल-द्रव्यत्वप्रयुक्तं चाक्षुषतेजःप्रतिफलनरूपं तात्स्थ्#ेनोपलब्धौ दोषरूपं कारणमित्यर्थः । वस्तुतः कारणाभावान्न ज्ञातृत्वं विद्यत इति । धर्मधर्मिभावात्मकस्य वस्तुरूपकारणस्याभावान्न ज्ञातृत्वं प्रतीयत इत्यर्थः । अतः प्रत्यक्तवमपीति ज्ञप्तेरपि न प्रत्यक्त-वसिद्धिरिति भाष्ये अपिर्भिन्नक्रमः । प्रत्यक्तवसिद्धिरपि नेत्यन्वय इति । अनुभूतेरपि तथैवं प्रथेति वक्तव्यमिति भाष्ये तथैवे- त्यस्यो विशदावभासत्वेनेत्यर्थमभिप्रेत्यावतारयति-वि#ादावभासाभावादिति । ननु तथा -शब्दस्याहंत्वेनेत्यर्थ एवास्तु । एवं च न हि सुप्तोत्थितः इति भाष्यमपि तदुपपादकतया तच्छेषभूतमस्त्विति चेत्-सत्यम्, युक्तयन्तराविष्करणार्थमेवं व्याख्योपपत्तेः । जागरितावस्थायोमेवेति । अविशदावभासायोग्यावस्थायामप्यविशदावभासाभ्युपगमे तद्योग्यंवस्थायां तदभ्युपगन्तृणां का नः क्षतिरित्यर्थः ।

प्रत्यक्तवसिद्धयर्थमिति । अतोऽहंभाववियुक्तेत्यनेन विरोध इति भावः । प्रत्यभिज्ञाविशेषोऽयमिति । "सुखमहम्' इत्यंशे स्मृतिरूपः, "अस्वाष्सम्' इति स्वापांशे कालांशे च प्रत्यभिज्ञायोग्यानुपलब्धिरूपलिङ्गाद्वयप्रतिसंधानजन्यानुमितिरूपो नृसंहा-

कारज्ञानविशेष इत्यर्थः । ननु-स्मृते पर्वते वह्निव्याष्यधूमवत्त्वज्ञानात् "पर्वतो वह्निमान्' इत्यनुमितिः पर्वतांशेऽष्यनुमितिरूपा;

न स्मृतिरूपा । एवं स्मृते सुखरूपे आत्मनि स्वापकालयोः संबन्धानुमितिरात्मांशेऽप्यनुमितिरूपैव; न तु परामर्शरूपा । अनु-मितित्वस्याव्याष्यवृत्तित्वासंभवत् । अस्तु वाऽनुमितत्वमव्याष्यवृत्ति । तथापि "सुखमहम्' इति ज्ञानमिदानींतन्सुखरूपाहमर्थ-विषयकं कुतो न स्यात्? न हि तदंशे तत्तोल्लेखोऽस्ति, येन स्मृतित्वं स्वध्यवसानं स्यात् । स्वापवालीनानुभवस्य देशकालाद्यगो-चरत्वेन स्वापंकालीनात्मनि व्यावर्तकाकारस्य कस्याष्यभावेन तस्य पक्षीकरणासंभवेनानुमानेन कीदृशे आत्मनि स्वापसंबन्धो बोध्येत? तस्मादात्मनि स्वापदशायां यावत् धर्मान्तरसंबन्धोऽवभासत इति नाङ्गीक्रियते, तावत् "सुखमहम्' इत्यस्य स्वापकाली-न्सुखानुसंधानरूपत्वं न सूषष्दम् । तस्मादेतत्प्रघट्टकं सर्वं न सुन्दरमिति चेत्-अत्राहुः-सुषुप्तिदशायां जाग्रद्दशाविलक्षणमानुकूल्यं भासत इति सिद्धम् । तच्च न स्वरूपभूतज्ञानेन । तथात्वे जागरितदायामपि तदानुकूल्यं भासेत । ततश्च यता कैवल्यदशायां भासमानस्य विलक्षणस्यानुकूल्यस्य न स्वरूपभूतज्ञानप्रकाश्यत्वम्, एवं सुषुप्तिदशायामपि भासमानानुकूल्यं धर्मूतज्ञानेनैव भासते । जाग्रद्दशायां तु जाग्रद्भोगप्रदकर्मप्रतिबन्धवशात् तदनुकूल्यं धर्मभूतज्ञान न विषयः । सुषुप्तिदशायां तु विषय एव । ततश्च तादृशविषयलाभात् तज्ज्ञानस्य स्वप्रकाशत्वम् । अत एव सुखित्वं ज्ञातृत्वं च ज्ञायत इति भाष्यमपि सुसंगतम् । बहिर्विषयप्रसरे परमिन्द्रयापेक्षा । अत एव, "इन्द्रियद्वारेण व्यवस्थितमिति भाष्यमपि संगतमेव । ततश्च धर्मभूतज्ञानेनानुकूल्यविशेषवत्तया जाग्र-दादिविलक्षणस्मरणं संभवति । तस्मानुभवस्य संस्काराधायकतासंभवेन स्मरणमपि संभवति, तद्दशायां कालस्यापि धर्मभूत- ज्ञानेन विषयीकरणसंभवात्, कालस्य ज्ञानमात्रवि#ेयत्वात्, तत्कालीने आनुकूल्यविशेषवत्तया स्मृत आत्मनि ज्ञानाभावरूपस्वा- पस्य योग्यास्मरणलिङ्गगम्यत्वसंभवात्, स्वापांशस्यापि तदानुभवेऽपिबाधकाभावात्, सर्वांशे परमर्शस्य स्वरससिद्धत्वाच्चेति । वस्तुतस्तु धर्मभूतज्ञानेन व्यावर्तकाकारास्फुरणेऽपि जाग्रद्दशाविलक्षणे प्रमृष्टत्ताकस्मृतिगोचरेऽतिशयितसुखविशेष आत्मनि तदानींतनार्थास्मरणलिङ्गेन ज्ञानाभावरूपस्वापस्य वा तस्य स्वापस्येदानीमसत्त्वेन लिङ्गेन स्वापगतातीतत्वस्य वानुमाने दोषा-भावान्नानुपपत्तिरिति द्रष्टव्यम् ।

अहमर्थात्मस्फुणसमर्थनम्

तच्चेन्द्रियद्वारेण व्यवस्थितमिति भाष्यस्वारस्यविरुद्धं चेति । "क्षेत्रज्ञावस्थायां कर्मणा संकुचितस्वरूपं तत्तत्कर्मागुणतरतम- भावेन वर्तते । तच्चेन्द्रियद्वारेण व्यवस्थितम्' इति भाष्यविरुद्धमित्यर्थः । न किंचिदवेदिषसित्यज्ञानसाक्षित्वेन स्थितिं वदतेति । सुप्तोत्थितस्य न किंचिदवेदिषम्' इत्याकारकस्मरणान्यथानुपपत्तिकल्पितं सुषुप्तिकालीनं "न जानामि' इति यदज्ञानसाक्षित्वम्, तेनेत्यर्थः । ततश्च सुषुप्तिदशायां "न वेहिृ' इत्यज्ञानानुभवसंभवेऽपि "नावेदिषम्' इत्याकारकाज्ञानानुभवासंभवात् कथमेतदिति न चोदनीयम् । अज्ञानाश्रयभूताहमर्थेति । अहमर्थस्याज्ञानाश्रयत्वमप्यभ्युपगन्तव्यसम् । तद्भानमप्यभ्युपगन्तव्यमित्यर्थः । यथा प्रातश्चत्वरे गजो नास्तीति । इदं गजाभावविशिष्टतयानुभूतस्य चत्वरस्य यदा स्मरणं तदेति द्रष्टव्यम् । परमते "न किंचिदवेदिषम्' इत्यस्य सर्वांशे परामर्शरूपत्वात्तदनुसारेण दृष्टान्तस्य वक्तव्यत्वात् । उत्तरत्र तु सिद्धान्ते धम्र्यंश एव परामर्शरूपत्वात् तद्दृष्टा- न्ततया स्वमतानुगण्येन वक्ष्यमाणा "त्वत्वरे गजो नास्ति' इति योग्यानुपलब्धिलिङ्गकगजाभावानुमितिश्चत्वरांश एव परामशर्- रूपा । अतश्चत्वरमात्रं यत्र प्रागनुभूतं तादृशमेवोत्तरत्रोदाहरिष्यते, स्वमतानुगुण्यादिति द्रष्टव्यम् । परमतवत् त्वन्मतेऽपि "सुख-महमस्वाष्सम्' इति सर्वांशेऽपि परामर्शत्वमेव स्यादिति शङ्कते-अस्वाष्समिति परामर्शेनेति । अनुसंधानमस्ति चेत् स्वाप्ता एव न स्यादिति । ननुःबाह्रान्तःकरणजन्यसमरतज्ञानाभावेऽपि साक्षिणैव स्वापशब्दिताज्ञानानुभवसंभवान्न सुषुप्तिव्याघात इति चेत्-न; अज्ञानस्य साक्षिभास्यत्वे प्रमाणाभावादिति भावः ।

परोक्तान्यथासिद्धिमिति । सुषुप्तौ सुखानुभवानभ्युपगन्तृनैयायिकाद्युक्तान्यथासिद्धिमित्यर्थः । न तु मृषावाद्युवतेति मन्तव्यम्, मृषावादिभिः सुखानुचभवस्यैवाभ्युपेतत्वात् । न च "सुखपरमर्शो दुःखाभावनिमित्तः' इति पञ्चपादिकायामुक्तत्वात् मृषावादि- भिरपि सुखानुभवाभावोऽभ्युपेत इति वाच्यम्, तद्वयाख्यात्रा विवरणकृता तस्य परमतोपन्यासरूपत्वाविष्करणात् । वस्तुतस्तु अहमर्थसदसद्भावचिन्तनप्रकरणत्वात् यथेदानीं सुखं भवतीति भाष्यस्य "सुखं यथेदानीमहं(?) भवति तथास्वाष्सम्' इत्येव-मर्थपरतया व्याख्येयत्वात् मृषावादिमेऽपीदृशोक्तेः संभवात् तन्मत्रेपि नानुपपत्तिरिति द्रष्टव्यम् । अस्थिरत्वमनुभवाभावो वेति । तदानींमहमर्थतदनुभवाभावे अहमर्थसुखित्वप्रतिसंधानानुपपत्तिवशात् "इदानीं यथा सुखम्' इत्याद्यनुभवप्रकारः पर्यवस्यतीति भावः । अहमर्थस्य निषेधविषयत्वेपि । अहमर्थानुभवस्येत्यर्थः । भाष्ये-नाहमवेदिषमिति वेदितुरिति । "नाहमवेदिषम्' इत्य-

त्राहामत्यंशस्य सुषुप्त्यनुभूतार्थस्मृतिरूपतया स्मृतेश्च स्मर्यमाणस्वरूपमात्रे प्रामाण्यसंभवात् । न च नैयायिकादिमत इव तदंशे-ऽप्यनुभवत्वमस्त्विति शङ्कयम्, स्मअतित्वस्यानुभवसिद्धत्वादिति भावः । एतेन "राममहं नाद्राक्षम्' इत्यादाविव तदानींमहमर्था-भावेऽपि "नाहमवेदिषम्' इत्यहमर्थेऽतीतज्ञानसंबन्धित्वादिनिषेधेऽनुपपत्त्यभावात् कथमेतादिति शङ्का निरस्ता । वेद्यप्रतिंभाष- विषय इति । न वेदितृप्रतिभासविषया इत्यर्थः । अताष्यहमर्तनिवृतीति । अहमर्थज्ञानाभावेत्यर्थः । चत्वरनिवृत्तीति चत्वरज्ञान-निवृतीत्यर्थः । "अहमर्थानुभवाभावसाधकं परामर्शं शङ्कते' इत्यवतारिकाप्रदर्शनादित्थं द्रष्टव्यम् । यद्वा अहमर्थानुभवाभार्वो-ऽप्यहमर्थाभावपर्यवसित इति न विरोध इति द्रष्टव्यम् ।

अहं न ज्ञातवान् इत्यादि भाष्यं पूर्वव्याख्यानद्वयानुरोधेनः द्वेषाः विरोधप्रदर्शतपरतया व्याचष्टे-अहं न ज्ञातवानित्यादिना । विधिनिषेधयोरिति । "अहम्' इत्यस्य सौषुप्तिकाहमर्थपरामशर्रूपतयाऽहमर्थप्रमाणत्वेन तद्विधिरूपत्वम्, "मां न जानामि' इत्य-स्यज्ञाननिषेधमुखेनाहमर्तनिषेधरूपत्वं चेति भावः ।

भाष्ये साक्षित्वं च साक्षात् ज्ञातृत्वमिति । मुख्यज्ञातृत्वमित्यर्थः । ज्ञातृत्वस्यमुख्यत्वं द्रष्टृत्वे पर्यवस्यति । तेन साक्षाच्छब्दस्य कृद्यं (ञ्यो)ग एव गतिसंज्ञा विधानेन ज्ञाधात्वर्थान्वयः कथमिति चोद्यस्य नावकाश इति द्रष्टव्यम् । ननु अजानत इति शतुर्लडा-देशतया ज्ञानवर्त मानत्वं विवक्षितदं स्यात् । ततश्च तत्साक्षात्काररूपज्ञानात्ययोऽपि "साक्षी3 सति व्यपदेशो न स्यादित्या-शङ्क्याह-अज्ञातुरित्यर्थ इति । तृजादेः सर्वकालसाधारणत्वात् तृजादिषु वर्तमानकालोपादानमिति पूर्वपक्षं (तृजादिषु) वर्त-मानकालोपादानमध्यायक वेदाध्यायार्थमिति पूर्वपक्षं कृत्वा, "न वा कालमात्रे दर्शनादन्येषाम्' इति वार्तिककृता सिद्धान्तित्वा- दिति भावः । भाष्ये साक्षाद्द्रष्टर्येवेति । साक्षान्छब्दात् द्रष्टर्यभिधेये साक्षिशब्दं स्मरतीत्यन्वयः । अनेन सूत्रं व्याख्यातम् । एवं हि सूत्रार्थः-साक्षाच्छब्दात् द्रष्टर्यभिधेये संज्ञायं वि#ेये इनिप्रत्ययो भवतीति । जाग्रदात्मा सपक्ष इति । आत्मा अहमित्यवभासते, स्वस्मै भासमानत्वात् जाग्रदात्मवदित्यनुमानशरीरम् । न च जाग्रदात्मनः "अहम्' इति भासमानत्वमसिद्धमिति वाच्यम्, "अहम्' इति बुद्धेश्चिदचित्संबलविषयत्वस्य तैरभ्युपेतत्वात्, "अहं भूयासम्' इति प्रतीतिबलेनात्मनि परमप्रमास्पदत्वस्योपपा-दितत्वाच्च "अहम्' इति भासमानत्वं जाग्रदात्मनः सिद्धमेवेति सपक्षत्वं युज्यत एवेति मन्तव्यम् ।

मुक्तावहमर्थानुवृविसमर्थनम्

अपि च यः परमार्थत इति भाष्यस्य, यः परमाथर्त आध्यात्मिकादिदुः-खैरात्मानम् "अहं दुःखी' इति दुःखितयानुसंघत्ते, भ्रान्त्या वा आत्मानमनुसंघत्ते "अहं भ्रान्तिमान्' इति, स एवेति योजना । भ्रान्त्येति इत्थंभूते तृतीयेत्यभिप्रयन्नाह-यः स्वात्मानं भ्रम-वन्तमनुसंघत्त इत्यादि । स एव भ्रमनिवृविसाधन इति । दुःखित्वंभ्रन्तिसिद्धमिति वदता हि दुःखित्वनिवृत्तये न प्रवृत्तिर्वयुक्त-मुचिता, दुःखित्वस्य स्वतो निवृत्तत्वात् । ततश्च "मम दुःखित्वभ्रान्तिरनुवर्तते, सा निवर्तताम्' इति प्रतिसंधाय भ्रान्तिनिवृत्ति- साधने प्रवर्तत इति वक्तव्यम् । तदपि त्वन्मते अनुभूतेर्न संभवति, भ्रान्तिमत्त्वप्रतिसंधातृत्वस्याष्यनुमूतावभावात् । अतोऽहमर्थ- स्यैव स्वभ्रान्तिनिवृत्त्यै प्रवृत्तिर्वक्तव्या; न तु स्वविनाशायेत्यर्थः । अनुमानमाहेति । मुक्तावहमिति भासमानत्व इति शेषः । अनुमानमप्यस्तीति चार्थ इति । चशब्दस्य गत्यन्तराभावादेवमन्वयो दर्शित इति द्रष्टव्यम् । तथावभासमानत्वेन इति व्या- ख्येयं पदम् । स्वस्मै भासमानत्वेनेति तद्वयाक्यानम्। अहमिति भासमानत्वेन चेति शेषः । साध्यसाधनयु#ोभयोरपि प्रदर्शनी-यत्वादिति द्रष्टव्यम् । न साध्याविशिष्टतेति । अहमिति प्रकाशत इत्यस्याहमिति वकयवहारार्हत्वं ह्रर्थः; तच्च संप्रतिपन्नमेव संसारदशायाम् "अहम्' इति व्यवह्यियमाणतया योग्यतायाः सर्वदा सत्त्वात् (इति?)सिद्धसाधनमिति न वाच्यमित्यर्थः । साध्या-विशिष्टत्वम् । साध्यस्यसाधनेनाविशिष्टत्वम्, सिद्धत्वमित्यर्थः । अहमित्येव प्रकाशत इत्येवकारेण सर्वदा व्यवहारानुगुण्यं प्रकाशे विवक्षितम् । तत्तु परसंमतं न भवतीति न सिद्धसाधनमित्यर्थः । ततश्चान्यशेषतयाऽभासमानत्वरूपस्य संप्रतिपन्नस्य स्वस्मै भासमानत्वस्य, मुक्तौ विप्रतिपन्नस्य "अहम्' इति भासमानत्वस्य चैक्याशङ्काया असंभवात् कथं साध्याविशिष्टत्वनिमि शङ्का निरस्ता ।

साध्यविपरीतविशेषसाधकतयेति । पक्षधर्मतावललभ्यस्य साध्यस्य मुक्तनिष्ठस्य"अहम्' इति भासमानत्वस्य विरुद्धं संसारि- त्वम् । तत्साधकतयाभिमतविशेषविरुद्धत्वं शङ्कत इत्यर्थः । बाधस्य तर्कानुगुणत्वात् दूषणान्तरमाहेत्याह-सोपाधिकत्वमाहेति । संसारित्वज्ञत्वादिहेतुः कर्मरूपाविद्यान्वयः । सोऽत्र नास्तीति भावः । धम्र्यैक्ये सतीति । संसर्गारोपो रजोजन्यः । तादात्म्यारो-पस्तमोजन्य इति भावः । केचित्तु-तद्भिन्ने तदारोपमात्रं रजसा; तद्विरोधिनि तदारोपस्तमसा; यथा धर्मप्रकाशदौ धर्मतमस्वादि-

बुद्धिरित्याहुः । अज्ञत्वाद्यहेतुत्वादित्यस्याविद्यारूपोपाद्यवगमकत्वस्य क्लिष्टत्वम् पक्षान्तरमाह-अथवेति ।

कथं तर्हीति भाष्यमवतारयति-महाभूतान्यहंकार इति क्षेत्रान्तर्भावचनमेकमित्यादिना । उत्तरत्र परिहारादिति छेदः । अहंभावः अहमिति बुद्धिरिति । ननु करणशब्दस्य बुद्धिपरत्वसंभवात् अहंभावकरणम्, अहंभावप्रतीतिः, अहंत्वप्रतीतिरिति यावदिति कुतो नाश्रीयत इति चेत्-सत्यं तथा स्वारस्यमस्ति । तथापि अयमेवोत्कृष्टजनावमानहेतुरित्युत्तरभाष्ये "अयम्' इत्यनेनः करण-शब्दार्थः परामर्शानर्हः, तस्यानपुंसकत्वात् । तेनाभावशब्दार्थस्य परामर्शो वक्तव्यः । अत्र चाहंभावशब्दस्य यद्यहंत्वमर्थ स्यात्, तस्य गवर्शब्दितत्वायोगादसंगतिः स्यात् । अतोऽहंभावशब्देनाहंबुद्धिरेव पराभ्रष्यव्येत्यभिप्रायः । अयंशब्देनाप्रस्तुताद्दंभावो विव-क्षित इति । अयमेव त्वहंकार इति भाष्यस्य, उत्कृष्टजनावमानहेतुर्गवोपरनामायोऽहंकारः शास्त्रेषु हेयतया प्रतिपाद्यते, सोऽयमे- वेति योजनेत्यभिप्रायः । इतरथा "अयमेव त्वहंकार' इत्यनेन प्रस्तुतस्य महत्तत्त्वकार्याहंकारस्यैव परामर्शप्रसङ्गात् । अहंभाव-लक्षणाहंकारस्य प्रागसिद्धत्वात् । अयमेवाहंकार इति सिद्धवनिनर्देशासंभवाच्च । करोर्तर्बुद्धिपरत्वं युक्तमिति । "शब्ददर्दुरं करोति' इत्यत्र करोतेज्र्ञानार्थकत्वाभिधानात् । अत एव "शब्दं करोति, शाब्दिकः' इत्युपपद्यत इति द्रष्टव्यम् । अनहम्यहंबुद्धिगर्भाविमाव-हंभावाहंकारशब्दाविति बहूषु कोशेषुः पाठो दृश्यते । तत्राहंभावशब्दो लेखकस्खलनकृतः । अनात्मनि देहेऽहंभावेत्यत्राहं-भावशब्दस्य "अविद्याऽहंमतिः स्त्रियाम्' इत्यत्राहंमतिशब्दवत् । च्विप्रत्ययान्तत्वाभावात् । अत्र भावे व्युत्पत्तिः पूर्वत्र करणे व्युत्पत्तिरित्युपरितनवाक्ये अहंकारशब्दस्यैव व्युत्पत्तिप्रदशर्नाच्च । अत्र भावे व्युत्पत्तिरिति । अनात्मन्यात्मबुद्धिरूपे भ्रमे इत्यर्थः । पूर्वत्रेति । अहंकाराख्ये महतत्त्वकार्य इत्यर्थः । उपादेयगोचरतयोति । "अथातोऽहंकारादेशः' इत्यहंबुद्धेः कर्तव्य-त्वाभिधानादिति भावः । स त्वहंकारशब्द इति । अयमत्र विवेकः-अहंकारशब्दो द्विविधः । च्विप्रत्ययान्तादुत्पन्नोऽनुत्पन्नश्च । उत्पन्नश्च द्विविधः-भावसाधनः करशसाधनश्चेति । च्विप्रत्ययान्तरदुत्पन्नो भावसाधनो गर्ववाची । च्विप्रत्ययान्तादुत्पन्नः करण- वाची त्वहंकारशब्दोऽहंकारतत्त्ववाचीं । अच्व्यन्तोत्पन्नभावसाधनशब्द उपादेयभूताहंप्रत्ययवाचीति । ननु "श्रूयतां चाष्यवि- द्यायाः' इत्यस्मिन् श्लोके अनात्मन्यात्मबुद्धेः परमनुपादेत्यवमुच्यते, न त्वनात्मन्यहंबुद्धेः । अतः कथमस्योक्तार्थे प्रमाणत्वमिति शङ्कायामाह-अत्रैव पुराण इत्यादिना । अनन्तरोक्तभ्रान्तियोग इति । अनात्मन्यात्मबुद्धिरूपभ्रान्तियोगः इत्यर्थः । अविद्याया अयोग इति छेदसंभवमभिप्रेत्य तमेवार्थं विपर्ययतो व्याचष्टे-अहमर्थस्यानात्मत्वा इति । भ्रान्तेरयोग इति । आत्मभ्रान्तित्वयोगः इत्यर्थः ।

प्रत्यक्षविरोधे शास्त्रप्राबल्यनिरासः

एतेन प्रत्यक्षान्तराणां दोषमूलत्वमनुमीयते चेदिति । केषुचित् प्रत्यक्षेषु काचादिदोषमूलत्वदर्शनेन प्रत्यक्षान्तराणां कचादिदोष-मूलत्वमनुमीयते चेदित्यर्थः । एवमुत्तरत्र सर्वत्रापि दोषपदं काचादिदोषपरं द्रष्टव्यम् । ततश्च मुख्यमृषावादिनः स्वैकदेशिनं प्रति स्वव्याधातकरीयमुक्तिः कथं स्यादिति शङ्का निरस्ता । कोऽयं दोष इति भाष्यस्य यदुक्तमित्यनेनान्वयं घटयितुमुपयं प्रदर्शयति- कोऽयं दोष इत्यनया वचनव्यक्तयेति । दोषमूलत्वेनान्यथासिद्धिसंभावनया सकलभेदप्रत्यक्षस्य शास्त्रबाद्यत्वमिति यत् दोष-रूपमूलमुक्तम्, तत् किमित्येवं "को दोष' इति वचनव्यक्तया पृष्ट इत्यर्थः । यदुक्तमिति नपुंसकस्य को दोष इति पुंलिङ्गस्य च सामानाधिकरण्यसंपादनस्याति क्लष्यत्वादन्यता व्याचष्टे-यद्वा यच्छब्दसामथ्र्यादिति । हेतुत्वेन व्याप्तेरदृष्टतयेति । भेदवा-सनात्वस्येति शेषः । भेदवासनाया विपरीतज्ञानहेतुत्वेन व्याप्तेःउसावल्येन संबन्धस्येत्यर्थः ।

भाष्ये श्रवणावगतनिखिलभेदोपमर्दीति । श्रवणवेलायां निखिलभेदोषमर्दित्वेन प्रकारेणावगतस्य ब्राहृात्मैकत्वविज्ञानस्याभ्या-सरूपत्वान्मननादेरित्यर्थः । न च मननस्य ब्राहृात्मैकत्वविज्ञानाभ्यासरूपत्वेऽपि ब्राहृात्मैकत्वविज्ञानस्य निखिलभेदोषमर्दि-त्वाभ्यासरूपत्वं किमथर्मिति शङ्कनीयम्, ब्राहृात्मैकत्वसिद्धयर्थं तदितरमिथ्यात्वसिद्धयै ब्राहृात्मैकत्वविज्ञानस्य भेदोपमर्दित्वस्य चिनत्यत्वात् । आरम्भणाधिकररष मननात्मकत्वचिन्तायाः क्रियमाणत्वाच्च । भेदवासनामूलत्वं तावत् संप्रतिपन्नमिति । प्रकृतिप्रत्ययादिभेदवासनामूलत्वादिति भावः । तस्याश्च दोषत्वमिति । ननु दोषस्य भ्रान्तिवल्ष्यत्वाद्वेदान्तजन्यचिन्मात्रवि-षयकज्ञानस्य प्रामात्वेन दोषजन्यत्वं कुतः कल्प्यत इति चेत्-न;वृविरूपज्ञानस्यापि ब्राहृव्यतिरिक्तवेन मिथ्यात्वात् दोषजन्य-त्वस्यावश्यकत्वात्, योग्यताभ्रमजन्यतया शास्त्रजन्यज्ञानस्यापि भ्रमत्वस्य वक्तव्यत्वाच्चेति भावः । मिथ्यात्वावगतिश्च ज्ञान-निवत्र्यत्वावगमादिति । ननु श्रवणवेलायां ब्राहृव्यतिरिक्तमिथ्यात्वस्य "नेहे नानास्ति' इति शास्त्रेणैव प्रतीतेः मिथ्यात्वावगतेश्च दोषमूलत्वेन भेदासनाय एव दोषत्वं पर्यवस्यतीति । ॠजुमार्गे सति किमनेन वक्रमार्गानयणेनेति चेत्-अत्र केचित्-ननु श्रवणवे-

लायां दोषजन्यत्वं नावगतम्, आरम्भणाधिकरण एव ब्राहृव्यतिरिक्तमिथ्यात्वस्य, भेदप्रतीतेर्दोषजन्यत्वस्य च निरूप्यमाणतया आरम्भणाधिकरणस्य च मननात्मकद्वितीयाध्यायगतत्वात् श्रवणवेलायां दोषजन्यत्वाज्ञानात् शास्त्रजन्यज्ञानस्य परतया बाध-कत्वंभविष्यतीत्याशङ्कानिराकरणार्थं श्रवणावगतेत्यादि भाष्यम् । ततश्च मननस्य श्रवणावगतार्थदृढीकरणार्थतया श्रवणवेला- यामपि भेदमिथ्यात्वप्रतीत्यवश्यंभावेन तत्प्रतीतेर्दोषजन्यत्वप्रतीत्यवश्यंभावात् । अन्यथा श्रवणकालीनशास्त्रजन्यावगतेः परत्वेऽपि भेदमिथ्यात्वविषयत्वेन बाधकत्वाप्रसक्तेरिति भाव इत्याहुः ।

शब्दराशिव्यावृत्तिरिति । अशास्त्रभूतशब्दाराशिव्यावृत्तिरित्यर्थः । त्वयेति व्याख्येयं पदम् । स्वतःसिद्धत्वेन निर्धूतनिखिल-विशेषत्वमिति । स्वतः सिद्धत्वे प्रागभावभावेनोत्पत्त्यभावात्, "उत्पत्तिप्रतिबद्धाश्चान्ये विकारा न सन्ती'ति पूर्वमुक्तत्वादिति भावः । परमाथत्र्वविकल्पशिरसि परवाद्यतभ्युपगमरूपदूषणाय स्पष्यत्वादपरमार्थ(त्व)पक्षं दूषयति-साधकं चेदिति । यद्यपि भाष्ये कोऽयं व्यापहारिको नामेत्यादिना व्यावहारिकत्वं दूषयिष्यत सति तत्रैवेदं वक्तुमुचितम्, तथाष्यस्मिन्नपि वाक्य एषां दूष-णानां संभवमनिप्रेत्यैतदुक्तमिति द्रष्यव्यम् । युक्तये बाधो यौक्तिकबाध इति । "तेन दीव्यति' इति दीव्यत्याद्यर्थे उगिति भावः ।

लेखकस्वलनकृत इति । अत्र केचित्-तदभावावगाहिप्रत्यक्षादिज्ञानाबाधितस्यापि दोषजन्यज्ञानवि#ेयत्वैकशरणा अपरमार्थत्व-प्रतीतिर्भवतीत्यस्यार्थस्य प्राक् प्रस्तुतत्वात् तस्यैवात्रापि प्रतिषिपादयिषिततया ज्ञातस्वतिमिरस्य तैमिरिकजनस्य चन्द्रद्वित्वे नास्तीत्येवं बाधकप्रमारानवतारेऽपि स्वदोषप्रतिसंधानमात्रेणे चन्द्रद्वित्वं दोषजन्यज्ञानवि#ेयत्वान्तिथ्याभूतमिति मिथ्याभूतप्रति-पत्तेषामेव दर्शनात् निर्विशेषब्राहृण्यपि नास्तिताग्राहकस्य परोक्षस्यापरोक्षस्य वा प्रमाणस्य कस्यापि जनस्याप्रवृत्तावपि दोष-जन्यज्ञानविषयत्वेनैव ब्राहृमिथ्यात्वं ज्ञास्यत इत्येतत्परत्वात्, पुरुषान्तरागोचरत्वोक्तेश्च उपदेशादिलक्षरपरोक्षरूपाभावग्राहि-प्रमाणानुदयप्रतिपादनपरत्वेन साफल्याच्च, तैमिरिकजनस्य तिमिरान्वये आप्तवाक्यादिकमन्वेष्टव्यमिति क्लेशस्याष्यभावाच्च । अत एव पुरुषान्तरज्ञानेन मिथ्यात्वनिश्चय इत्युतरग्रन्थोऽपि न युक्तः । पुरुषान्तरज्ञानेन बाधोदये बाधकज्ञानेनैव मिथ्यात्व- निश्चय आपन्न इति बाधकज्ञानशून्ये कथमिव मिथ्यात्वप्रत्यय उपपदितः स्यात् । यदि पुरुषान्तगणां प्रकारान्तरेण बाधकज्ञा-नानुदयेऽपि दोषजन्यज्ञानविषयत्वैकशरणामिथ्यात्वप्रतीतिः, तर्हि ज्ञातस्वतिभिराणामेव तैमिरिकजनानां दोषजन्यज्ञानविष- यत्वेन मिथ्यात्वप्रतीतिसंभवात् पुरुषान्तरोप्यासो व्यर्थः । अतो ज्ञातस्वतिमिरस्येति पाठमाद्रियन्ते । ननु स्वविषयेण ब्राहृणा सह मिथ्यैवेति । भाष्यमयुक्तम्, दोषजन्यज्ञानवि#ेयस्यैव मिथ्यात्वस्यापादनार्हत्वाद्दोषजन्यज्ञानस्वरूपस्य मिथ्यात्वाभावादि-त्याशङ्कयाह - परमताभ्युगमादुक्तमिति । चन्द्रद्विवजनस्य विपर्यण सह मिथ्यात्वमित्यभ्युपगमादिहापि ज्ञानविषययोद्वेयोरपि मिथ्यात्वभापाद्यत इति भावः । ननु परमते चन्द्रैकत्वज्ञानमपि मिथ्यैवेति विशिष्य कतं द्विचन्द्रज्ञानस्य दोषजन्यतया मिथ्यात्व-मुच्यते? न च चन्द्रैकत्वज्ञानं व्यावहारिकम्; द्वित्वज्ञानं तु न तथेति वाच्यम्-ब्राहृप्रमान्याबाध्यत्वेन द्वयोरप्येकरूपत्वादिति चेत्- न; इदमंशावाच्छिन्नचैतन्यस्थाविद्या रजतज्ञानाभासकारेण विवतर्ते इत्युपगमेन रजतज्ञानस्याष्याभासत्वप्रदर्शनात्, प्रतिभासिक- त्वेन द्विचन्द्रज्ञानस्य चन्द्रकत्वज्ञानविलक्षणत्वात् आगन्तुकदोषजन्यत्वाच्चेति द्रष्टव्यम् ।

अनुमान एव प्रयोगशब्दौचित्यात् कथं तर्के प्रयोगशब्द इत्याशङ्कयाह-व्याप्तिप्रदर्शनवचनत्वादिति । अन्यतगसिद्धमिति । मन्मते अप्रसिद्धमित्यर्थः ततश्चापादकान्यतरासिद्धिर्न दोष इति दूषणमलग्रकं वेदितव्यम् । केचित्तु-तर्कत्वं विस्मृयासिद्धिदूषणो-द्भावनम्; अत एव तर्कत्वावलम्बनेनैव परिहरिष्यत इति वदन्ति ।

असत्यात् सत्यप्रतिपत्तिनिरासः

भाष्ये सत्यैवादष्टेऽपीति । पूर्वमात् भयदिहेतुरित्यनुषज्यत इति द्रष्टव्यम् । भाष्ये वस्तुमृत एव जालादाविति । वस्तुभूत इति मुखादिप्रतिभासविशेषरम्; न जादिविशेषणम् । प्रतिभासमानत्वमेव विषयत्वमित्यर्थ इति । प्रतिभासमानत्वमेवलम्बनत्वव्य-वहारेऽपेक्षितमिति भाष्यार्थ इति भावः । तेन रूपेणासत्यतेति । न तु प्रतिभासमानत्वरूपेणापीत्यर्थः । तथा साक्षादवभासमान इति । विद्यमानतया साक्षात्क्रियमाण इत्यर्थः । अतः परेक्षज्ञानस्थलेन व्यभिचार इति दोषो निराकृतः । न ज्ञानस्य हेतुतयापे- क्षित इति । हेतुत्वं नास्ति, विषयत्वमस्ति । विद्यमानस्थले तु द्वयमप्यस्तीति वाक्यार्थः । वस्तुतो विद्यमानत्वमेवेति । प्रति-भासंमानत्वरूपेण विद्यमानस्यापि वस्तुतो विद्यमानत्वं नास्तीति भावः । अयं भावः - केचन धर्मा धर्मिसत्तासापेक्षाः । केचन तन्निरपेक्षाः । तत्र च प्रतिभासमानत्वासत्त्वातीतत्वानागतत्वादयो धर्मास्तन्निरपेक्षाः । कारणत्वरूपित्वादयो धर्मास्तत्सापेक्षाः । तत्र धर्मिसवासपेक्षैर्धर्मैर्विशिष्टतयावस्थितिरेव वस्तुतो विद्यमानत्वमिति । व्यावृत्तिश्च स्वालम्बनेनेति । न च व्यावृत्तिजनकत्वे

आलम्बनस्यासत्यत्वादसत्यात् सत्यसिद्धयापत्तिरिति वाच्यम्, व्यावृत्तिधीजनकज्ञानवि#ेयत्वरूपं तदीयतानियाकस्वरूपविशेषरूपं वा व्यावतर्अकत्वं तत्र तदाऽविद्यमानस्याप्युपपद्यत इति भावः । अन्यथाक्यातिपक्षेऽपीति । नन्वविद्यमानानामेव दोषवशादालम्ब-नत्वं तत एव व्यावर्तकत्वं च संभवति, व्यावर्तकत्वस्य हेतुत्वरूपत्वाभावादिति समर्थनेनैव समीहितसिद्र्धेः किमेतन्निरूपणेनेति चेत्-सत्यम् । आलम्बनत्वमप्यत्यन्तासतो न संभवतीति प्रासङ्गिकत्वदुपपद्यत इति द्रष्टव्यम् । क्कचिदर्थात्तत्प्रतिपत्तिरिति । दर्पणप्रतिहतनयनरश्मिसंपृक्तादर्थादित्यर्थः । क्कचित्प्रतिभासादिति । स्वाप्नस्थल इति भावः ।

असतो निरुपाख्यस्येत्यनयोः पौनुक्तयं च(?)परिहरन् पक्षद्वयदूषणपरतया व्याचष्टे - असतः सद्व्यतिरिक्तस्येत्यर्थ इत्यादिना । भाष्ये उपायोपेययोरित्यादि । यद्यपि "अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः' इति आरम्भणाधिकरणशांकरभाष्यं व्याकुर्वता वाचस्षतिना-"यद्यपि रेखास्वरूपं सत्यम्, तथापि तत् यथासंकेतमसत्मयम् । न हि संकेतयितारः संकेतयन्ति, "ईदृशेन रेखाभेदेनायं वर्णः प्रत्येतव्यः' इति, अपि तु ईदृशो रेखाभेद एवाकार इति । ततश्चासमीचीनात् संकेतात् समीचीनवर्णावगतिः' इत्यनृताक्षरप्रतिपत्तेः सत्याक्षरप्रतिपत्तिहेतुत्वकथनान्न साध्यसाधनयोरभेदः-तथापि पूर्वदूषण एव तात्पर्यम् । सिंहावलोकनेनेति । ननु वर्णात्मना प्रतीता रेखेति तृतीयपक्ष एव-बुद्धयंशहेतुत्वपक्षे दूषणमुक्तम्; वर्णात्मतांशे दूषणमुच्यत इत्युपपत्तौ सिंहाबलोकनं किमर्थमिति चेत्-अत्र केचित्-वर्णात्मतां-शस्य प्रथमपक्षानुप्रविष्टत्वाभिप्रायेण सिंहावलोकनोक्तिरुपपन्नेति वदन्ति । केचित्तु-संहावलोकनेनेत्येतदशविकल्पमुखेन ग्रन्थप्रवृत्तिमनभ्युपगच्छतामिदं व्याख्यानान्तरम् । अतो वाशब्दोऽध्याहर्तव्य इति मन्यन्ते । अविद्यामानवर्णात्मनेत्यत्र अविद्यामानत्वं वर्णात्मकत्वविशेषणं, वर्णस्य विद्यमानत्वेऽपि वर्णात्मताया अविद्यमानत्वमभिप्रेत्य तद्विशेषणतया व्याचष्टे-अविद्यमानवर्णात्मत्वेनेति । रेखागवयादपीति भाष्यस्यायमर्थः-रेखायामारोपितेनासत्यगवयेनसत्य-गवयप्रतीतिरिति नाभ्युपगन्तव्यम्, रेखायां गवयारोपे प्रमाणाभावात् । अपि तु गवयसदृशरेखां प्रदश्र्य "एतत्सदृशो गवयः' इति बोधयन्ति । तथैव प्रतिपद्यन्ते च । तच्च सादृश्यं सत्यमेवेति ।

स्फोटवादनिरासः

कत्वखत्वादिभेद इति । अत्रादिपदेनोदात्तत्वानुदात्तत्वतारत्वमन्द्रत्वदीर्घत्वादयो गृह्रन्ते । शब्दो आरोपित इति । स्फोटरूपशब्दे आरोपित इत्यर्थः । खत्वादिकमुदात्तत्वादिकं च सर्वं नादगतमेव, स्फोटनादोभयव्यतिरेकेण कत्वाद्याश्रया वर्णा एव न सन्तीति हि स्फोटवादिनां प्रक्रिया । वर्णनित्यत्ववादिनां तु कत्वाद्याश्रयवर्णा नित्याः । तारत्वदीर्घत्वादिकं तु नादगतमिति विवेकः । अभिव्यक्तिविशेषः सत्य इति । अभिव्यक्तिः ज्ञानम् । अत एवोत्तरत्र कत्वाद्यालम्बनाभिव्यक्तिविशिष्टरूपेणेति । वक्ष्यति । ननु दुन्दुभ्यादिः कुतो न व्यावत्र्यत इत्यत्राह-स त्वनभिव्यक्तेति । तस्यापि गकारादित्वेन तद्भिन्नत्वाभावात् एवकारेण न व्यावृत्तिरित्यर्थः । अनुभूतार्थान्तरप्रतीतिहेतुत्वाभावेनेति । अयं भावः-संस्काराणां साचिव्यं किं पदादर्थप्रतीतौ साक्षात्? उत स्वीवर्णविषयस्मृतिद्वारा? नोभयथापि संस्कारस्य हेतुत्वं संभवति, शब्दार्थानुभवस्य शब्दार्थप्रत्ययस्य वणर्संस्काराजन्यतया तत्प्र-तीतौ न साचिव्यम् । नापि सवर्वर्णस्मृतिद्वारत्वम्; संस्काराणां स्वविषयमात्रस्मारकत्वेन समूहालम्बनस्मृत्यसंभवादिति । अत एवोत्तरत्र वक्ष्यति-युगपत्कार्यकरत्वं युक्तमिति । एकार्थावच्छिन्नवर्णममुदायत्वलक्षणपदत्वपरित्यागेनैकविभक्तयन्तानेकवर्ण-समुदायस्य पदत्वाश्रयणादन्योन्याश्रयणं निरस्तमित्याह-न चार्थैकत्वादिति । पदैकत्वादर्थैकत्वमिति । अनुगतप्रवृत्तिनिमिव-रूपार्थकल्पनस्यैकपदप्रयोगानुगत्यधीनत्वादिति भावः । उक्तं च - "एकशब्दप्रवृत्तिनिमित्तत्वादेकसंस्थानत्वं निलेन्दीवरत्वस्य खण्डगोत्वं तु न तथा, एकशब्दाभावात्' इति । यद्वा घटव्यक्तीनां नानात्वेन स्वत ऐक्याभावाद्वावकशब्दैक्यनिबन्धनमेव वाच्यै-क्यमिति भावः । अव्याप्तिर्न स्यादिति । सुबन्धतमात्रत्वस्य वा तिङन्वमात्रत्वस्य वा पदत्वप्रयोजकत्वेऽव्याप्तिः स्यात् । विभक्ति- त्वेन द्वयोरष्येकीरणे तु न तथेति भावः । केचित्तु-एकविभक्तीत्यत्र एकपदं व्यर्थम्, विभक्तयन्तत्वमात्रस्यानतिप्रसक्तत्वात् । "नीलो घटः' इत्यादिपदसमुदायस्य प्रत्ययग्रहणपरिभाषया विक्तयन्तत्वाभावात् । न हि समुदायात् विभक्तयुत्पत्तिः, अन्यथा "सुप्तिङन्यं पदम्' इति पदत्वस्यापि प्रसङ्गात् । समासावयवपदेष्वष्यन्तर्वर्णिनीं विभक्तिमाश्रित्य पदसंज्ञासंभवान्नाव्याप्तिरित्यर्थ इति वदन्ति । सैन्धवादिशब्दनामनेकार्थयतीत्युपयुक्तकानां पदत्वं न स्यात् । अत आह-एकव्युत्पत्तिसिद्धेति । तत्र चेनेकार्थप्रति-पादकत्वं व्युत्पविभेदेनेति भावः । अतश्च वाक्यस्यापि संसर्गलक्षरविशिष्टरूपैकार्थप्रत्यायकत्वेनातिप्रसङ्गः परिह्मतः । वाक्यस्य विशिष्टरूपार्थप्रत्यायकत्वनाकाङ्क्षादिमत्पदसमभिव्याहारलभ्यम्,न व्युत्पत्तिलभ्यमिति द्रष्टव्यम् । चाक्षुषत्वज्ञाने न चक्षुरपेक्षेति । यथा चक्षुर्जन्यज्ञानविषयत्वलक्षणचाक्षुषत्वज्ञानं न चक्षुर्जन्यम् , एवं श्रोत्रग्राह्रत्वलक्षरशब्दत्वज्ञानं न श्रोत्रजन्यमित्यर्थः ।

चाक्षुषत्वश्रावणत्वादिज्ञानमिति । ननु श्रावणत्वस्य चाक्षुषत्वस्थानाभिषिक्तत्वेऽपि न शब्दत्वं चाक्षुषत्वस्थानाभिषिक्तम्; अपि तु रूपत्वस्थानाभिषिक्तम् । ततश्च यथा चाक्षुषत्वाद्रूपत्वं भिद्यते, एवं शब्दत्वं श्रोत्रग्रह्रत्वात् भिन्न भवितुमर्हति । इतरथा "शब्दः' श्रावणः' इति पुनरुक्तिः स्यादिति चेत्-न; चाक्षुषत्वस्यैव रूपत्वस्वरूपत्वे घटादावपि रूपत्वप्रसङ्गेन रूपत्वस्य चाक्षु-षत्वभिन्नत्वेऽपि शब्दत्वस्य श्रोत्रग्राह्रत्वरूपत्वे च(?)बाधकाभावात् । न च श्रोत्रग्राह्रत्वं कत्वादावतिप्रसक्तमिति वाच्यम्, श्रोत्रग्राह्रगुणत्वस्य शब्दत्वरूपत्वे बाधकाभावात् । केचित्तु-रूपत्वमपि चक्षुग्राह्रनुरत्वमेवेति वर्णयन्ति । व्युत्पन्नशब्दस्मरण-पूर्वकमिति । कत्वखत्वादेः श्रोत्रग्राह्रत्वलक्षणशब्दत्वव्याप्तिमवगतवतः पुंसो व्याप्तिरस्मरणादिपूर्वकमेव शब्दत्वानुमितिरित्यर्थः ।

शास्त्रसत्यत्वशङ्कापरहि#ारः

सत्यप्रतिपविहेतुष्विति । प्रपञ्चसत्यत्ववादिमत इति शेषः । न तु स्वमतानुसारेण; स्वमते सत्यप्रतिपत्तिहेतोर्वदान्तातिरिक्तस्य कस्याष्यभावादिति द्रष्टव्यम् । भाष्ये-मिथ्याभूतशास्त्रजन्यज्ञानस्येति । असतिं शास्त्रे "अस्ति शास्त्रम्' इति भ्रान्तिजन्यायाः प्रतीतेभ्रान्तित्वावश्यंभावादित्यर्थः । पूर्वग्रन्थे "अस्ति शास्त्रम्' इति बुद्धेभ्र्रान्तित्वस्योपपादितत्वात् । इत्तरथा पूर्वोत्तरग्रन्थयोरुप-पाद्योपपादकभावाभावत् पूर्वग्रन्थवैयथ्र्यमेव स्यात् । मिथ्याभृतशासजिन्यज्ञानस्येत्यादिनैव चारिताथ्र्यादिति द्रष्टव्यम् । स्तुति-परत्वाद्यूपादित्यैक्याप्रतिपादनमित्यपसिद्धान्त इति । ननु - स्तुतितात्पर्यवती श्रुतिः प्रत्यक्षात् प्रबला । आदित्यो पूप इत्यादेः न यूपादित्यैक्ये तत्पर्यम् । स्तुतिपरस्य तत्रापि तात्पर्ये वाक्यभेदप्रसङ्गात् । अतोऽतत्परत्वात् "आदित्यो यूपः' इत्यादेर्न प्रत्यक्षबाध-कत्वम् । न चैवं देवताविग्रहादेरपि सिद्धेर्न स्यात्, तात्पर्याभावादिलि शङ्कनीयम् - असति मानान्तरविरोधे तात्पर्याभावेऽपि प्रमाण्यं प्रतीयमानार्थे उपपद्यते । देवताविग्रहादौ मानान्तरविरोधाभावात् तात्पर्याविषयस्य विग्रहादेः सिद्धावपि यूपादित्यैक्य- स्थले मानान्तरविरुद्धस्य तस्य तात्पर्याभावे न सिद्धिः । प्रपञ्चमिथ्यात्वस्थले षड्#िववतात्पर्यलिङ्गसत्त्वान्न प्रत्यक्षविरोधाद्धयमिति हि तत्सिद्धन्त इति चेत्-न । स्तुतिपरस्यार्थवादस्य स्तुतिद्वारभूताथ्र्रेवान्तरतात्पर्येऽपि वाक्यभेदाभावात् । इतरथा देवताविग्रहा-देरष्यसिद्धिप्रसङ्गात् तात्पर्यविषय एव वेदानां प्रामाण्यमिति सर्वैरपि वैदिकैरभ्युपेतत्वाच्च स्तुतिपरत्वान्न यूपादित्यैक्यप्रतिपादन-मित्ययुक्तमेव । अपि तु मानान्तरविरोधेन यूपादित्यैक्यतात्पर्यासंभवात् न यूपादित्यैक्यमित्येव परमा गतिः । ततश्च प्रपञ्चमिथ्या- त्वेऽपि मानान्तरविरोधान्न तात्पर्यमिति सिद्धमिति भावः । असंनिकृष्टेति श्लोकस्यायमर्थः - "शास्त्रं शब्दविमानादसंनिकृष्टऽर्थे' इति शास्त्रलक्षणे असंनिकृष्यादेन द्वयं व्यावत्र्यतयाभिप्रेतम्-किं तत्? ताद्रूष्येण परिच्छित्तिः, तद्विपर्ययतः परिच्छित्तिश्च । साधक-बाधकप्रमाणाभाव इति यावत् । प्रमाणान्तरागोचरत्वलक्षणमिति । प्रमाणान्तराबाधितत्वमित्यर्थः । इत्यलसप्रतिष्ठितेति भाष्ये इति शब्दस्य संनिहितशास्त्रप्राबल्यनिरासपरत्वमुचितमित्यभिप्रयन्नाह - शास्त्रप्राबल्यनिरसनमिति । कुतर्केति तर्कशब्दस्वार-स्यमभिप्रयन्नाह - यत्तु प्रत्यक्षमिति ।

श्रुतिघट्टः

तत्रापीति । दृष्टान्तोऽपीत्यर्थः । विकारो घटत्वाद्यवस्थेति । ननु पूवत्र्र मृन्मयशब्देन विकारार्थमयडन्तेन यस्य परामर्शः, तस्यै- वेहापि विकारशब्देन परामर्शो युक्तः । ततश्च पूर्वत्र मृन्मयशब्देनावस्थाश्रयस्य परामृष्टतया विकारशब्देनापि धर्मिण एव परामर्शो युक्तः; न त्ववस्थाया इति चेत् - सत्यं पूर्वत्र मृन्मयशब्देनावस्थावतः परामर्शः । इहतु न तत्परामर्शो युज्यते । तथा हि सति कार्यकारणाभेदो नोपपादितः स्यात् । न हि मृत्पिण्डेन कार्यविशेषाय घटः स्पृश्यत इत्येतावता स्पृष्टृस्प्रष्टव्ययोरभेदः सिध्यति । अतो मृन्मयविकारशब्दयोर्भिन्नार्थत्वमेव वक्तव्यम् । अत एव "मृत्तिकेत्येव सत्यम्' इत्यत्राव्यवहितविकारशब्दनिर्दिष्टावस्थाया न परामर्श इति भावः । मृदयं घट इति प्रत्यभिज्ञयेति । अत्र केचित् - इतिशब्दबलात् प्रतीतेः शब्दस्य वा पराभ्रष्टव्यत्वात् मृत्तिकेति ज्ञानमेव सत्यमिति श्रुत्यर्थः । तस्य ज्ञानस्य सत्यत्वे मृद्द्रव्यत्वस्याबाधितत्वं सिद्धमित्युत्तरग्रन्थः फलितार्थकथनपरो द्रष्टव्यः । न च मृन्मयं मृत्तिकेत्येव सत्यं प्रामाणिकं प्रामाणत्#ः प्रतीयत इत्यर्थाश्रयणे को दोष इति वाच्यम्, प्रमाणतो मृविकेति प्रतीयत इति वा, मृत्तिकेत्याकारकं यत् प्रमाणं तेन प्रतीयत इति वा इतिशब्दस्य प्रमाणप्रतीत्यन्यतरान्वयो वक्तव्यः । प्रमाणतः प्रतीयत इति हि निर्देशे कृते तथान्वयप्रतीतिरुपपद्यते । सत्यशब्दात् प्रतीतौ तथा गमकत्वादशर्नादिति वदन्ति । अन्ये तु मअत्तिकेत्येव प्रमाणतः प्रतीयत इत्यत्रेव सत्यपदेऽपि तथावगतेरनुभवसिद्धतया प्रत्याख्यातुमशक्यत्वात् मृन्मयं मृविकेत्येव सत्यं प्रमाणप्रति-पन्नमित्युक्तौ न दोषः । अत एव मृद्द्रव्यत्वेनैव प्रामाणिकमित्यर्थ इति टीकावाक्येऽपि न चोद्यावकाशः । तस्यापि वाक्यस्य गमकत्वादिति वदन्ति । ननु उपादानोपादेयाभेदयतिपादनमुखेनासत्कार्यवादे निराकरणीये विकार आलभ्यत इति प्रतिपादनस्यैव

सप्रयोजनतया नामधेयस्याष्यालभ्यामानत्वप्रतिपादनं किमर्थमिति चेत्-सत्यम् । घटादिनामापि मृत्पिण्डस्यैवेत्युपपादनाभावे उपादानोपादेयाभेदो न प्रतितिष्ठतीति तदप्युपपादनीयमिति द्रष्टव्यम् । ननु नैयायिकादिभिरपि मृन्मये घटशरावादौ मृविकात्वस्य सत्त्वाभ्युपगमात् अनेनासत्कार्यवादनिरासः कथं फलित इति चेत्-न । "मृत्तिकेत्येव सत्यम्' इति श्रुतेर्न मृविकात्वमात्रप्रति- पादने संरम्भः; किंतु "तदेवेदं मृद्द्रव्यम्' इत्यभेदप्रत्यभिज्ञाया उपादनभूतमृद्द्रव्याभेदप्रसाधनपरत्वात् । सर्वविज्ञानमुपपन्नमिति शङ्कायामिति । यद्विज्ञानेन सर्वं ज्ञातं भवति, तादृशं वस्तु किमिति भगवांस्त्वेष मे तत् व्रहीत्विति पृच्छायामित्यर्थः ।

भ्रान्तः शङ्कते-यद्यपि सद्विजातीयमसदिति न विजातीयत्वाकारेणेति । अयं भावः-"इदं सदेव' इत्येकारेण इदंशब्दनिर्दिष्टे जगति सृष्टेः प्राक्सद्विजातीयत्वं तदन्यत्वं तद्विरोधित्वं वा व्युदमनीयम् । न तु गर्वस्मिन् लोके विजातीयभेदनिषेधः । यथा "घटः पूर्वाह्णे सदेव' इत्युक्ते एवकारेण घटे सद्विजातीयत्वं वा सदन्यत्वं वा सद्विरोधित्वरूपं वा निषिव्यते, न तु सर्वस्मिन् लोके पटा-दिविजातीयभेद इति । ननु "सदेव' इत्यनेन सृष्यिप्राक्कालीनसत्ता प्रतीयते चेत्, ब्राहृकारशकत्वमनुपपादितं स्यात् । सच्छब्देन ब्राहृप्रतिपादने वा मानसंबन्धयोग्यत्वलक्षणसत्तायाः सदित्यनेनाप्रतिपादितत्वादसत्कार्यवादो न निराकृतः स्यादित्याशङ्क्याह - सच्छब्दो हि मानसंबन्धयोग्यतेति । प्रवृविनिमित्तस्य ब्राहृण्येव पुष्कलत्वादिति भावः । नन्विदानीमपि जगतः सदात्मत्वात् "अग्र' इति व्यर्थम् । किंच "एकमेवासीत्' इत्यनेनैवासत्कार्यव्युदाससिद्धेः "सदेवासीत्' इति व्यर्थम् किंच इदंशब्देन जगतः परामर्शे तस्य ब्राहृणैक्यासंभवात् सदासीदित्ययुक्तम् । तच्छरीरकब्राहृपरत्वं चायुक्तम्, अश्रुतवेदान्तं श्वेतकेतुं प्रति इदंशब्दस्य ब्राहृपर्यन्तबोधकत्वासंभवादिति चेत्-न; इदं जगत् सृष्टे। प्राक् सदेव सद् ब्राहृैव सत् एकमविभक्तनामरूपमासीदित्यर्थः । अधुना जगतस्तादृशसद्रूपत्वाभावादग्र इति सार्थकमेव । "एकमेवासीत्' सत्युक्ते अविभक्तनामरूपमासीदिति प्रतीतावपि तादृशब्राहृा-त्मकत्वस्यापि प्रतिषिपादयिषिततया सच्छब्दसार्थक्यम् । ननु "सदेवेदं जगत् प्राक् सृष्टेरेकम्' इति वेदार्थसंग्रहश्रुतप्रकाशिकायां व्याख्यातत्वात् कथमेवमिति चेत्-न; सिद्धस्यैवोद्देश्यविशेषणतया सदित्यस्यासिद्धत्वेन विधेयकोटावेवनिवेश्यतया तस्याष्यत्रैव तात्पर्यात् । यद्यष्यश्रुतवेदान्तेन श्वेतकेतुना न तद्वाक्योप्रकमदशायामेवं ज्ञायते, अथापि शरीरात्मभावप्रतिपादनानान्तरमिदंशब्देन जगच्छरीरकं ब्राहृ ज्ञास्यतीति बुद्धया, "सदेव सोम्येदमग्र आसीत्' इत्याचार्येणोपदिष्टमित्युक्ते विरोधाभावात् । ननु घटदेरावदि पूर्वाह्णे मृदेवासीत्; पश्चात् घटादिरूपेणाभवत्; तस्मान्मृदात्मकमेव घयशरावादीति निर्देशवत् किं न स्यादिति चेत्-न-"अनेन जीवेनात्मनाऽनुप्रविश्य' इत्यादि वाक्यं श्रुतवतः स्वरूपेण ब्राहृपरिणामत्वशङ्काया अभावेन शरीरात्मभावस्यैव प्रतीत्या इदंशब्दे- नापि जगच्छरीरकब्राहृप्रतीतेरेव संभवात् ।

परतन्त्ररूपविशेषणानामिति । कालादृष्टादीनामित्यर्थः उपरितनवाक्यसंगतिमेव दर्शयति - एकमेवेत्यादिना । ब्राहृणः सर्वदा सत्त्वेनेति । सच्छब्दप्रवृविनिमिवपौष्कल्याधारभूतब्राहृाभेदस्य "सदेवेदम्' इति बोधनात् कार्यस्य कदाष्यसत्त्वशङ्काव्यावृविरि- त्यर्थः । वैशेषिकमतनिरासपरमिति । न च तथा सति, "तद्धैक आहुरसदेवेमग्र आसीत् एकमेवाद्वितीयम्' इत्यनुवादोऽनुपपन्नः, तैस्तथानभ्युपगमादिति वाच्यम् - शून्यवादनिराकरणेऽपि दोषसाम्यात् । न हि शून्यवादिनैकमद्वितीयं किंचिदभ्युपेतम्, सर्वदा सवर्शून्यत्वस्यैव तेनाभ्युपेतत्वात् । यदि च तद्वाक्यस्यैकत्वाद्वितीत्यत्वयोर्न तात्पर्यम्, तर्हि वैशेषिकस्यापि तत् तुल्यमिति भावः । वैशेषिकादिमतनिराससापेक्षत्वादिति । ननु "मृतिकेत्येव सत्यम्' इत्यत्रैव तन्निराकृतम् । इतरथा एकविज्ञानेन सर्वमानसंभवम-भ्युपगम्य, "भगवांस्त्वेव मे तद्ववीतु' इत्युपदेशप्रार्थनानुपपत्तेरिति चेत् -न; मतानुवादपूर्वकं सयुक्तिकं प्रत्याख्यातमित्यत्र तात्प- र्यात् । मृद उत्पन्नस्यमृदात्मकत्ववदिति । न च सतः कायस्र्या दुत्पन्नत्वस्यानभ्युपगतत्वात् कथमापादनमिति वाच्यम्-"जगत् पूर्वमसदासीत्; इदानीं सदासीत्' इत्युक्ते सतोऽसदुपादानकत्वमुक्तं स्यात्, यथा "घटशरावादिः पूर्वं मृदासीत्, पश्चात् घटादिरा- सीत्' इत्युक्ते तयोरुपादानोपादेयभाव उक्त एव स्यादिति निश्चित्यैतद् दूषणापादनमिति द्रष्यव्यम् । कथं निगश्रयावस्थासंभव इत्यर्थ इति । अयं भावः-यनि प्रकृत्युपादानकस्यमहदादेः प्रकअतित्वाभाववत् असदुपादानकस्यापि सतो नासव्वप्राप्तिः, सत्त्वा-वस्ताप्राप्तेरेवासंभवान्निराश्रयावस्था कथं लभ्येतेति । तदात्मकत्वेनैवेति । ऐतदात्म्यमिदं सर्वम्' इति पूर्ववाक्ये ऐतदात्म्यम्उएत-दात्मकमित्यर्थः; स्वार्थे ष्यञ् । ततश्च, "तत्सत्यम्' इत्युतरत्रापि पूर्वनिर्दिष्टवेषविशिष्टस्य पराभ्रष्यव्यतया तदात्मकस्यैव जगतः सत्यत्वसिद्धिरिति भावः । ननु "एतदात्म्यम्' इत्यनेनैव जगद्व्रहृणो। शरीरशरीरिभावे कथिते "स आत्मा' इति निर्देशवैयथ्र्यमिति शङ्कां परिहरति-रामानुजं लक्ष्मणपूर्वजं चेतिवदिति । यद्वा स त आत्मा इति । अस्मिन् पीष "स आत्मा,' "तत्त्वमसि' इत्यनयोः पौनरुक्त्य परहि#ारः कथचिदनुसंधेय । तत्पर्यन्ता इति तत्त्वमसीत्यस्यार्थ इति । तत्त्वंशब्दादीनां तदर्थपर्यन्तत्वम्, "तत्त्वमसि'

इत्यस्य प्रघट्टकस्य फलितार्थ इत्यर्थः; न तु "तत्त्वमसि' इत्यस्यैवार्थ इति मन्तव्यम्, "तत्त्वमसि' इत्यस्य तावदर्थकत्वाभावात् ।

इगुपधात्क इत्यपवादसूत्रेणेति । "इगुपधज्ञाप्रीकिरः कः' इत्यपवादसूत्रेणेत्यर्थः । नन्विगुपधलक्षणकप्रत्ययस्य न पचाद्यज्वाधक- त्वम्, तथा हि सति देवमेषादिरूपासिद्धिप्रसङ्गात्; पचादित्वाश्रयणस्य कप्रत्ययबाधकत्वार्थकत्वादिति चेत्-न । भावानवबो- धात् । "नन्दिग्रहिपचादिभ्यः' इति सूत्रे "सर्वधातुभ्योऽज्वक्तव्यः' इत्यौपसंख्यानिकस्योत्सृष्टस्याच्प्रत्ययस्य शङ्किततया तस्ये-गुपधलक्षणकप्रत्ययबाध्यत्वाभिधानेऽदोषात् । औपसंख्यानिकेऽष्यचि "प्रचाद्यच्' इति व्यवहारस्य ग्रन्थेषु दर्शनादिति द्रष्टव्यम् ।

प्रकृत्यर्थः शासनमिति । अत्र केचिच्चोदयन्ति-यत्तावदुच्यते प्रसिद्धिप्राचुयात् प्रकृत्यर्थः शासनमिति: सत्यमेव तत् । "शासनं विविच्य ज्ञापनम्' इति धातुवृत्तिकृता व्याख्यातत्वादुपदेश एव पर्यवसानम्; "उपदेशेऽजनुनासिक इति,' "स्थनिवदादेशोऽन- ल्विधौ' इत्यादिसूत्रेषु "दिशि#ुच्चारणक्रिय' इति महाभाष्योक्तेः । "अथोतोऽहंकारादेशः' इत्यादावादेश उपदेश इत्यर्थः । "इदं शास्याचार्यः' इति भाष्यस्य "इदमुपदिशति' इति ह्रर्थः । "तदशिष्यम्' इत्यादौ "अवक्तव्यम्' इति व्याख्यातम् । ततश्चादेशनं शासनमुपदेशनम् । तत्कर्मत्वं च "अनु म एतां भगवो देवतां शाधि' इति ब्राहृणः सिद्धमिति प्रकृतिप्रत्यययोरविरोधसंभवात् प्रत्ययास्वारस्यानुसरणस्यायुक्तत्वात् । न चानुशासनकर्मत्वेऽपि न शासनकर्मत्वमिति वाच्यम्, "शासु अनुशिष्टौ' इति शास-नस्यैवानुशासनरूपत्वात् । ततश्च करशत्वाध्यारोपेण घञ्समर्थनमप्यनुचितम्, आरोपस्यानुचितत्वात् । ननु करणत्वस्य ना- ध्यारोपः, तस्यापि सत्त्वादिति चेत्-न; तथा सति सिद्धान्ते प्रत्ययास्वारस्याभ्युपगमस्यायुक्तत्वात् । अत एव "असि#ि#ाछनत्ति' इत्यादौ सौकर्यातशयविवक्षया "ब्राहृदृष्यिरुत्कर्षात्' इतिन्यायंन करणे कर्तृत्वाराप्रेपि न कतर्रि करणत्वारोपसंभवः, तथा सति राजनि भृत्यत्वारोपभ्येवानर्थावहत्वात् । अत एव "साधकतमं करणम्' इति सूत्रे अधिकरणस्थाल्याः तनुकपालतया साधकत- मत्वविवक्षया "स्थाल्या पचति' इति प्रयोगमुपपाद्य, "न चैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः, भिन्नजातीयत्वात् । सकलसाध-नविनियोगकारी खल्वसौ । न हि शतधनो निष्कधनेन स्पर्धितुमर्हती'ति कर्तुः करणत्वविवक्षाभाव उपपाद्यते । किं च करणत्वे विवक्षिते "करणाधिकरणयोश्च' इति परेण ल्युटा बाधितत्वेन घञोऽप्रसङ्गः । न च "हलश्च' इत्यनेन घञः प्रसङ्गः । तत्रापि "संज्ञायाम्' इत्यनुवृत्तेः । न च त्वन्मतेऽपि कर्मणि घञ् न स्यात्, "अकर्तरि च कारके संज्ञायाम्' इति संज्ञायामेव घञो विधा-नादिति वाच्यम्-"अकर्तरि च "इत्यत्र चकारस्य भिन्नकमत्वामाश्रित्यासंज्ञायामप्यस्तीति पदमञ्जर्यादौ समर्थितत्वात् । "संज्ञा-ग्रहणानर्थक्यं च सर्वत्र घञो दर्शनात्' इति वार्तिककृतोक्तत्वाच्च । किं च घञः करणार्थत्वे, उपक्रम आदेशशब्देन प्रशासिताभि- धीयत इति यदभिहितं तद्विरुध्येत, प्रशासनकरणत्वस्यैवाभिहितत्वेन प्रशासनकर्तुरनभिहितत्वात् । यच्चोक्तम्-प्रशासितृत्वमसाधा-रणमिति । तदपि न, आदेशशब्देन प्रशासनकरणत्वमात्राभिधानेऽपि प्रशासितृत्वानभिधानात् । तदभिधानेऽपि निरुपाधिकप्रशा-सितृत्वस्येव मुख्योपदोयत्वस्यैव ब्राहृासाधारणत्वात् । अत एव"ब्राहृजिज्ञासा' इति सूत्रे "ब्राहृणः' इति कर्मरि षष्ठीपरिग्रहात् ब्राहृण एवाभिधानिकजिज्ञासाकमत्र्वम्, तदुपासनादीनां त्वाक्षेष्यमित्युक्तम् । किंच आदेशशब्दमात्रस्य अतिप्रसङ्गमाशङ्कय तमित्येवंविशेषणदानादवश्यं तमित्यस्यादेशविशेषकत्वमभ्युपेयम् । यदि ह्रादेशशब्दस्यैव निरुपाधिकप्रशासितृत्वमर्थः, तदा तस्य परमात्मासाधारणत्वात् तच्छब्दो विशेषको न स्यात् । यदपि चोक्तं प्रष्टव्यत्वकथनेनोपदेश्यत्वं सिद्धमिति तत्कथनस्यानपेक्षित- त्वात् प्रशासिदृत्वमेवार्थ इति-तन्न, "यद्यपि पूर्वं नाप्राक्षम्, अधुना स्वयमेव ज्ञास्यामि' इति बुदिं्ध व्युदसितुमुपदेष्टव्यत्वकथन-स्यैवापेक्षितत्वात् । अत एव, "तं त्वौपनिषदं पृच्छामि' इत्यादौ प्रष्टव्यस्योपदेश्यत्वलक्षणौपनिषदत्वकथनम् । यच्चोक्तम्-सर्व-विज्ञानप्रतिज्ञासिद्भयर्थं निमिवत्वमपेक्षितमिति । तन्न, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाबलादुपादानत्वस्येव तदन्यथानुपपत्या निमित्तत्वस्यापि लाभसंभवेन तस्य पृथगवक्तव्यत्वात्, तदनुपपत्तेर्भवतैवोक्तत्वाच्च । वस्तुतस्तु निमित्तान्तरसद्भावे एकविज्ञानेन सर्वविज्ञानमनुपपन्नमित्युक्तिरष्यसंगता, नित्यविभूत्या अज्ञानेऽप्येकविज्ञानेन सर्वविज्ञानं यथोपपद्यते, कार्यवर्गस्य ज्ञातत्वात् सर्वशब्दस्येदंकारगोचरबहुभवनसंकल्पपूर्वकसृष्टिमात्रविषयत्वात्-तथा तादृशनिमित्तान्तरसद्भावेऽप्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा कुतो न संगच्छत इति ।

अत्रोच्यते-"एष उपदेशः' इत्येवं पृथगपदिष्टयोः "न वायुक्रिये पृथगुपदेशात्' इति न्यायेनादेशोपदोयोर्भेदावश्यंभावात् निमन्त्र-णामन्त्रणयोरिव, वृक्षवनस्पतिशब्दयोरिव, वृक्षवनस्पतिशब्दयोरिव च, स्नेहभक्तिशब्दयोरिव च क्कचिदकविषये प्रयोगमात्रेणानु-भवभेदस्य दुरपह्यवत्वात् । "आदिशाति' इत्युक्ते हि यद्वाक्योल्लङ्घने दण्डा भवतितादृशशब्दप्रयोक्तृत्वं नियमयितृत्वमाज्ञापयि- तृत्वं प्रतीयते । आदिशतीति व्यवहारः प्रभुविषय एव । अत एव न्यासकारेणादेशोपदेशयोर्भेदो वर्णितः-"आङ्पूर्वोदिशतिर्नियोक्तृ-

प्रयोजनवचनः' इति; "अन्तः प्रविष्टः शास्ता जानानम्' इत्यादौ तथैव प्रतीतेः । ततश्च प्रकृतिस्वारस्येन नियमनापरपर्यायाज्ञापन-रूपार्थे प्रतीते घञ्प्रत्ययस्य कर्तृव्यतिरिक्तकारकमात्रवाचिनो योग्यतावशात् त्वन्मते कर्माथकत्ववत् अस्मन्मतेऽपि कारकवाचिनो घञ्प्रत्ययस्य सकलकारकप्रयोक्तृकर्तृलक्षणा समाश्रीयते । प्रष्यव्यवस्तुनस्तादृग्रूपत्वात् असंजातविरोधिमुख्यप्रकृत्यर्थानुग्रहेण जघ-न्यलक्षणाय आश्रयणीयत्वात् । "पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः' इत्यादावहःपरत्वस्वरसत्रिवृदादिपदमुख्यत्वानुसारेण जघन्य-संवत्सरपदस्यैव सौरचान्द्रमासाद्यनेकार्थसाधारण्येन निश्चयासमर्थस्याजहल्लक्षणाया अभ्युपेतत्वात् । तथा "प्रयाजशेषेण हर्वीष्य-भिदारयति' इत्यादौ प्रयाजशेषप्रातिपदिकानुरोधेन तृतीयायां द्वितीयार्थलक्षणाया आश्रितत्वात् । तथा "प्राणा वा ॠषयः' इत्या- दौ ॠषिशब्दानुसारेण बहुवचनश्रुतेः पाशन्यायेन गौणार्थकत्वस्य "गौण्यसंभवात् तत्प्राक्छØतेश्च' इत्यत्रोपपादितत्वाच्च । नन्वा-देशपदस्य प्रशासनापरपर्यायाज्ञापन इवोपदेशे प्रसिद्धिप्राचुर्याभावेऽप्युपदेशार्थकत्वे प्रकृतेः सर्वात्मना मुख्यार्थत्यागावात् प्रत्य- यस्य त्वन्मते कर्तृलक्षणायां मुख्यार्थत्यागात् कास्यभोजिन्यायेन जघनायद्यावापृथिव्येककपालानुरोधेन मुख्यैन्द्राग्रादीनां प्रसूनब-र्हिर्नियमाश्रयणवत्, "एकधा ब्राहृण उपहरति' इत्यव सकृत्त्वसहत्वसाधारणस्यैकधाशब्दस्य भक्षान्तरप्रापकदुर्बलचोदकानुग्रहणे सहत्वार्थत्वस्वीकारवत् "सप्तदश प्राज्ञापत्यान्' इत्यत्र प्रजातिसंबन्धविशिष्टान्वययोग्यस्यापि बहुत्वस्यैकपशुनिष्पन्नैकादशावदा-नप्रापकदुर्बलचोदकानुसारेण विशिष्टान्वयाभ्युपगमेन द्रव्यदेवतासंबन्धाक्षिप्तयागभेदाभ्युपगमवच्च जघन्यघञ्प्रत्ययानुसारेण मुख्यादिशेरुपदेशार्थकत्वमेव युक्तम् । प्रकृतेः मुख्यार्थत्यागाभावात् । प्रचुरप्रसिद्धार्थत्यागमात्रं त्ववशिष्यते । तत्तु न दोषाय । अत एव "पत्नय उपगायन्ति' इत्यादौ गीतिशब्दस्य शारीरगाने प्रसिद्धिप्राचुर्ये सत्यपि अशारीरवादित्रादिगानस्यापि गीतिशब्दप्रयो-गविषयत्वेन मुख्यार्थत्वात् संनिहितस्य दुन्दुभ्यादिगानस्यैव काण्डवीणादिभिरुपचयं कुर्वत्यः पन्त्यो नत्विर्जां निवर्तिका इति दशमे सिद्धान्तितमिति चेत्-मैवम्; गानशब्दस्य बर्हिराज्याधिकाणान्यायेन गीतिमत्रा वाचित्वात् युक्तं तत्र संनिहितदुन्दुभ्यादि-गानवाचित्वम् । इह त्वादेशशब्दस्य क्कचिदपि "शिष्यो गुरुमादिदेश' इत्यादिप्रयोगाभावेन साधारणोच्चारणाद्यर्थकत्वाभावात् उपदेशातिदेशाब्दयोरिवादेशोपदेशशब्दयोरपि भिन्नार्थकत्वेनादेशशब्दस्योपदेशार्थकत्वे मुख्यार्थत्यागास्यावर्जनीयत्वेन जघन्य- प्रत्यय एव लक्षणाया उचितत्वात् । वस्तुतस्तु "उपदेशेऽजनुनासिक इत्' इति सूत्रे "करणाधिकरणयोश्च' इति ल्युटा बाधितस्य घञः, "अकर्तरि च कारके' इत्यनेनाप्रसङ्गमाशङ्कय,"कृत्यल्युटो बहुलम्' इति घञो भाष्यकृता समर्थितत्वात् तन्न्यायेन कर्तर्यपि तेनैव सूत्रेण घञसिद्धौ लक्षणाया अप्रसङ्गात् प्रशासितृत्वार्थकत्वमेव युक्तमिति युक्तमुत्पश्यामः ।

तस्य तावदेव चिरमिति । तस्य सद्विद्यानिष्ठस्य । तावदेव चिरम्-तावनेव विलम्बः, यावत्प्रारब्धकृतदेहान्न विमोक्ष्यते । अथ अनन्तरं ब्राहृ संप्रत्स्यत इति तदर्थः । अथर्वादश्च लब्ध इति । "पारिप्लवार्थाः' इत्यधिकरणे विद्या संनिधिपठितानां "श्वेतकेतुर्हारुणेय आस' इत्याद्याख्यायिकानां तदर्थवादतया तच्छेषत्वस्य स्थापितत्वादिति भावः । यद्यप्ययमर्थवादो न सविशेषत्वैकान्तः, तथापि लिङ्गान्तरेण सविशेषत्वतात्पर्ये निश्चिते अर्थवादस्यापि तदेकान्तात्वं सिध्यतीति भावः । द्वितीयेंऽशे सप्तमे यमस्य स्वपुरुषं प्रति वचनम् -

"कटकमकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् ।

सुरपशुमनुजादिकल्पनाभिर्हरिरखिलाभिरुदीयर्ते तथैकः ।।

क्षितितलपरमाणवोऽनिलान्ते पुनरपि यान्ति यथैकतां धरित्र्याम् ।

सुरपशुमनुजादयस्तथान्ते गुणकलुषस्य सदा(ना)तनेन तेन ।।'

इति । तदर्थैकवियत्वादिति । ऐदंपर्येण प्रवृत्तत्वादिति भावः ।

परविद्यायाः सविशेषविषयत्वम्

अव्ययत्वस्य दोषाभावरूपस्य कथं भाष्ये कल्याणगुणत्वेन निर्देश इत्याशङ्कयाह-दोषविरोधित्वं नाम गुण इत्यभिप्रायेणेति । पूर्ववदर्थ इति । सगुणब्राहृव्यावृत्तिरित्यर्थः ।

वकयावत्र्यानेकत्वादिति । व्यावृत्तिप्रतियोगिनामनृतजडपरिच्छिन्नानामनेकत्वेनेत्यर्थः । पदानां पर्यायत्वप्रसङ्गादिति । "प्रवृति-निमित्तभेदाभावेन' इति उत्तरंवाक्यस्थमिहापि काकाक्षिन्यायेन संबध्यते । ननु "कुच्म्भाद्यनुगता सत्ता परजातिः सत्यपदप्रवृत्ति-निमित्तम् । अन्तःकरणवृत्त्युपधानलब्धभेदचिदानन्दानुगते ज्ञानानन्दत्वे अपरजाती । एवं च सत्यज्ञानानन्दशब्दानां लक्ष्या-र्थाभेदेऽप्युक्तजातिवाचित्वान्न पर्यायता' इति कल्पतरूक्र्तेर्न पर्यायत्वमिति चेत्-न; कुम्भाद्यनुगतसत्तायाः सत्याब्दवाच्यत्वे सत्य-त्वस्यातिप्रसक्तस्य ब्राहृलक्षणत्वाभावप्रसङ्गात् । अभ्युपगम्यते च त्वया सत्यत्वस्य ब्राहृलक्षणत्वम् । सत्यमिथ्यार्थानुगतसवा-सामान्यासंभवाच्च । तस्यानृतसाधारणतयानृतव्यावढत्त्यसिद्धेश्च । कालत्रयाबाध्यत्वरूपं परमार्थिकसत्त्वं ब्राहृणि श्रौतमिति त्वत्सिद्धान्तव्याकोप्रसङ्गाच्च । धर्मिसमसवाकभेदं विना औपाधिकभेदमात्रेणाकाशत्वादेरिव ज्ञानत्वानन्दत्वयोरपि जातित्वायो- गाच्च । ज्ञानत्वादेः धर्मिसमसत्ताकभेदवदुपहितचैतन्यवृत्तित्वे शुद्धलक्षणत्वायोगाच्च । ज्ञानत्वादेः धर्मिसमसत्ताकभेदवदुपहित-चैतन्यवृत्तित्वे शुद्धलक्षणत्वायोगाच्च । एतेन सत्यादि(?) विशिष्टशबलब्राहृवाचिनां सत्यादिशब्दानां शुद्धब्राहृणि लक्षणेति न पर्यायत्वमिति निरस्तम् । अनृतास्वप्रकाशपरिच्छिन्नरूपे शबले सत्यत्वादेरयोगात् । योगे वा तस्यैवानृतास्वप्रकाशपरिच्छिन्न-व्यावृत्तिः स्यात् । न तु सत्यत्वाद्यानाश्रायस्य शुद्धस्य । तस्मात् सत्यत्वादीनां शुद्धादन्यत्रासंभवात् सत्यादिवाक्यस्य च लक्षणया अखण्डार्थत्वे शुद्धेऽपि तदसिद्धेः सत्यत्वादीनामत्यन्तासत्त्वेनतद्भेदमादायपर्यायत्वस्य दुःसमाधानत्वात् (दुःसाधत्वात्?) पर्या- यत्वं सिद्धमित्यर्थः । उपलक्षणतया विशेषणतया वेति । किं व्यावृत्तीनां वाक्यार्थीभूतब्राहृप्रतीत्युपयुक्तपदार्थप्रतीतिवि#ेयत्वमा- त्रमेव, उत वाक्यार्थप्रतीति विषयत्वमप्यस्तीति विकल्पार्थः । उपलक्ष्यात् बहिर्भूतमित्यस्याष्ययमेवार्थः । न च -अवच्छेदकत्वं विशेषणत्वोपलक्षणत्वातिरिक्तमेव । "कर्णशष्कुल्यवच्छ्न्नं नभः श्रोत्रम्' इत्यत्र कर्णशष्कुल्या विशेषणत्वे तस्या अपि श्रोत्र-त्वप्रसङ्गात्; विशेष्यान्वयिनो विशेषणान्वयित्वनियमात् । नाष्युपलक्षणत्वम्, कदाचित् कर्णशष्कुल्युपलक्षितस्यापि नभसः श्रोत्रत्वेऽतिप्रसङ्गादिति वाच्यम्-तत्राष्युलक्षणकोटावेव निवेशसंभवात् । विद्यमानकर्णसंयोगस्योपलक्षणत्वेन दोषाभावात् । उपलक्ष्यात् बहिर्भूतमिति । अयं भावः- किं स्वरूपप्रतिपत्त्यर्थं ज्ञानादिपदम्? उत ज्ञानत्वादिप्रतिपत्त्यर्थम्? नाद्यः, पूर्वं प्रतीतत्वात् । न द्वितीयः, उपलक्षणत्वव्याघातादिति । वाक्याथाभिदानदशायां सर्यैः पदैरिति । सर्वैः पदैः वाक्यार्थाभिधानदायामित्यन्वयः । यद्वा सर्वैः पदैः एकज्ञानजनकत्वेनउएकज्ञानजननेनेत्यर्थः । अतो नान्वयानुपपत्तिरिति द्रष्टव्यम् । ननु युगपदभिधाने श्रुतिवाक्यादिषु बलाबलविभागनिर्णयोऽसंगत एव स्यात्; वाक्यापेक्षया पदश्रुतेः प्राबल्यम्; पदश्रुत्यपेक्षया प्रत्ययश्रुतेरिति व्यवस्था दत्तजलञ्जलिः स्यादित्यस्वरसादाह-क्रम्रणाभिधानेऽपीति । क्रमेणाभिधानानभ्युपगम इति । क्रमेणाभिधानानभ्युपगमवादिपक्ष इत्यर्थः । युगपत्प्रतिपादनेऽपि नापैतीति । उद्देश्योपादेयभावे हि तद्वाक्यज्ञातत्वाज्ञातत्वे अप्रयोजके । अपितुतद्वाक्यप्रवृत्तेः प्राक् माना-न्तरावगतमनूद्यते; अप्राप्तं हि(?) विधीयत इत्येव हि विवेक इति भावः । पौर्वापर्यस्योद्देश्योपादेयलक्षणत्वाभावे कथमुद्देश्योपादे-यविभागज्ञानमित्याशङ्कयाह-एकेन वाक्येनेति । परामर्शदशायां हि संभवत्येवेति । ननु ज्ञातत्वाज्ञातत्वलक्षणोद्देश्येपादेय-विभागज्ञानं न वाक्यार्थप्रतीतावुपयुक्तम्, येन वाक्यार्थप्रतीतेः; प्राक् परामर्शदशायां तदवगतिः समर्थनीया स्यादिति चेत्-न; "ग्रहं संमाÐष्ट' इत्यादौ ग्रहं संमृज्यात्, एकं संमृज्यात्, यत् संमृज्यात् तदेकमित्यादिवचनव्यक्तिनिरूपणाभावे निर्विचिकित्सवा-क्यार्थप्रतीतेरनुदयेन न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम्' इतीति भावः । विशेष्यमात्रैक्यपरत्वात् समानविभक्तेरिति । अयं भावः-यदुक्तं विशिष्टक्यप्रतिपादनं नेति, तदिष्टमेव; विशिष्टैक्यप्रतिपादनस्यानभ्युपगमात् । न च विशेष्यैक्यमात्रप्रतिपादनं परस्यापीष्टमिति वाच्यम्, विशेषणान्वयस्यापि प्रातिपदिकावगतस्यात्यागात् । एकस्मिन् विशेष्ये "एकस्य द्वयम्' इति न्यायेन प्राप्तयोर्विशेषणैकत्वयोरपरित्यागादिति । व्युत्पविश्च प्रत्यक्षमूलेति । न तु स्वर्गादिशब्दव्युत्पत्तिवत् श्रुतिमूलेत्यर्थः ।

प्रत्यक्षं च विशेष्यैक्यमेवावगमयतीति । "दण्डी, कुण्डली' इत्यादौ विशेषणविभक्तेर्भिन्नविशेषणाश्रये एकस्मिन्नेव विशेष्ये पूवर्-पूर्ववृद्धव्यवहारं प्रत्यक्षीकृत्य तथैव व्युत्पत्तेग्र्रहात् । इतरथा विशेषणविभक्तेरभेदार्थकत्वमपि त्याज्यं स्यात् । न हि विशेणवि-भक्तिरैक्यपरेत्यत्र पूर्वपूर्ववृद्धव्यवहाराधीनव्युत्पत्तिमन्तरेणान्यन्निमिवमस्तीति भावः । विशेष्यभेदकत्वं प्रत्यक्षेण तत्रापोद्यत इति चेदिति । प्रत्यक्षागोचरे ब्राहृणि विशेषणभेदप्रयुक्तो विशेष्यभेदो दुर्वार इति भावः । धर्मिवाचकपदैक्यात् समानविभक्ति-निर्देशाच्चैक्यप्रतीतेरिति । इदमुपलक्षणम्-विशेषणभेदे विशेष्यभेद इत्युत्सर्गः, "देवदत्तः श्यामो युवा' इत्यादावदर्शनात् । "खण्डो मुण्डः' इत्यादौ विरुद्धत्वात् भेदकत्वम्, अविरुद्धं त्वभेदकमेव । विशेषणानां भेदकत्वादस्तु विशेषणानाश्रयापेक्षया, न तु विशेषणान्तराश्रयापेक्षयापि । न हि "नीलमुत्पलम्' इत्यादौ नैल्यं दीर्घादपि व्यावतर्यतीत्यपि द्रष्टव्यम् । यच्चोक्तं समान-विभक्तीति । न च समानविभकत्या ऐक्यावगमे परस्याखण्डार्थत्वभङ्गप्रसङ्गात् परस्य कथमियमाशङ्का घटतामिति वाच्यम्, "एकप्रातिपदिकाथर्मात्रनिष्ठत्वमखण्डार्थत्वम्' इत्यनेन प्रातिपदिकार्थान्तरसंबन्ध एव व्यावत्र्यते; न तु विभक्तिसंबन्धोऽपीति । मन्यमानस्य शङ्कासंभवादिति ध्येयम् । अनतिरिक्तपक्षे हेत्वसिद्धिरिति । समानाविभक्त्यवगतैक्यरूपहेत्वसिद्धिरित्यर्थः, ऐक्या-वगमविरोधू#ापहेत्वसिद्धिरित्युत्तरत्रोपसंहारादिति द्रष्टव्यम् । अशक्यासदृशान्वयप्रतियाग्युपस्थितिर्वा शक्यसंबन्धो वा लक्षणा

शक्ये न संभवतीत्यभिप्रेत्याह-आलक्षणिकत्वेऽपीति । विमतं वाक्यमखण्डार्थपरमित्यादि । एतेन-"सत्यादिवाक्यमखण्डा- र्थनिष्ठं लक्षणवाक्यत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवत्' इत्यनुमानं प्रमाणम् । "नीलमुत्पलम्' इत्या-दिसमानाधिकरणवाक्यानां लक्षणवाक्यत्वाभावान्नातिप्रसङ्ग इति निरस्तम्; असाधारणरूपलक्षणवाक्यत्वस्य सखण्डार्थत्वेनैव व्याप्तेः । कर्मकाण्डस्यापि तन्मात्रप्रश्नोत्तरत्वेनाखण्डार्थत्वप्रसङ्गात् ; "प्रकृष्टप्रकाशश्चन्द्रः' इत्यत्र व्यावर्तकासाधारणप्रश्नोत्त- रत्वेन दृष्टान्तासिद्धेन्चेत्यपि द्रष्टव्यम् । यदि च भावरूपखण्डार्थप्रतिपादनासमथर्मिति प्रतिज्ञेति । ततश्च प्रतिज्ञावाक्यस्य खण्डार्थत्वाभावरूपखण्डार्थवैशिष्टयप्रतिपादनसामथ्र्येऽपि भावरूपखण्डाथप्र्रतिपादनासामथ्र्यान्न व्यभिचार इति भावः । प्रातिपदिकेनैव विशेषणान्वयस्येति । प्रातिपदिकस्मारितयोर्विशिष्टयोर्विभाकत्या ऐक्यमात्रप्रतिपादनादित्यर्थ; न तु नील-#्रातिपदिकेनोत्पलेनीलत्वान्वय इति मन्तव्यम्; तथा हि सति उत्पले नीलत्वान्वयस्य नीलप्रातिपदिकेनैव सिद्धेर्विभकत्या ऐक्य-बोधनस्य वैयथ्र्यापातादिति द्रष्टव्यम् ।

अनेन शङ्काद्वयं परिह्मतं भावतीति । कारणपरत्वप्रतिपादकेन सिसृक्षोरिति पदेन साक्षात्पूर्वपक्षिचोद्यनिरासः । उपादानकार- णत्वं "सदेव सोक्येदमग्र असीदेकमेव' इति प्रतिपादितमिति भाष्यखण्डेन पाश्र्वस्थचोद्यनिरास इति भावः । स्वतन्त्र वस्तु-निषेधपरमद्वितीयपदमित्यर्थः इति । अत एव शाङ्करोपनिषद्भाष्येऽपि, "आद्वतीयमिति; मृद्वयतिरेकेण मृदो यथान्यत् घटाद्या- कारेण परिणमयित् कुलालादि निमित्तकारणं दृष्टम्, तथा सद्वयतिरेकेण सतः सहकारि कारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषि- ध्यते-आद्वितीयमिति । नास्य द्वितीयं वस्त्वन्तरं विद्यत इत्यद्वितीयम्' इति निमित्तान्तरनिषेधपरतयैव व्याक्यातम् । किंच "प्राक् सृष्टेरेकप्रद्वितीयं सदेवासीत्' इति सृष्यिप्राक्कालपरतया परैरेव व्याक्यातत्वेन सृष्टिप्राक्कालेऽद्वितीयत्वमात्रेण कथं मिथ्या-त्वप्रसक्तिरित्यपि द्रष्टव्यम् ।

निर्गुणवाक्यविरोधपरिहारः

किं ज्ञानत्वात् ज्ञानानाश्रयत्वमुच्यते, उत एकजातीयद्रव्ययोर्नियतधर्मधर्मिभावानुपपत्तेरिति विकल्पे, प्रथमस्य दूषणं ज्ञातुरेव ज्ञानस्वरूपत्वादिति भाष्यम्-ज्ञातुरपि ज्ञानस्वरूपत्वसंभवादिति तस्यार्थः । द्वितीयस्य तु दूषणं ज्ञानस्वरूपस्यैवेत्यादिभा- ष्यम् । ज्ञातृत्वमेव हि सर्वाः श्रुतयो वदन्तीति भाष्यं तु प्रथमविकल्पदूषणस्योपपादकं तच्छेषभूतमिति प्रथमव्याख्या । अस्याञ्च व्याख्यायाम्, ज्ञातृत्वमेव हीति भाष्यस्य ज्ञातुरेव ज्ञानस्वरूपत्वादिति व्यवहितभाष्योपपादकत्वमाश्रयणीयम्; एवकारस्य अप्यर्थत्वं च क्लिष्यमित्यस्वरसो द्रष्टव्यः । द्वितीयव्याख्यायांतु पूर्ववदेव विकल्पमुखेन प्रवृत्तत्वं समानम् । तत्र ज्ञातुरेवे-त्यादि-भाष्यस्यायमर्थः-ज्ञातृशब्दो भावप्रधानः पञ्चम्यन्तः । एवकारश्च यत् ज्ञातृत्वं त्वया ज्ञानत्वविरुद्धतयोपन्यस्तम्, तदेव ज्ञान-त्वसाधकमिति स्फोरणार्थः ज्ञानत्वाभावव्यापकाभावप्रतियोगितया ज्ञातृत्वस्य न तद्विरुद्धत्वमिति । अस्मिन् पक्षे ज्ञातृत्वमेव हि सर्वाः श्रुतयो वदन्तीति भाष्यं ज्ञातृत्वस्य श्रौतत्वप्रतिपादनद्वारा तद्दृढीकरणार्थम् । अस्यां च व्याख्यायं भावप्रधानतया-निर्देशाद्याश्रयणं क्लिष्टमित्यस्वरसो द्रष्टव्यः । तृतीय्वयाख्यायां तु ज्ञातुरेवत्यादिभाष्यस्य ज्ञातुरेव सतो ज्ञानस्वरूपत्वाविरोधादि- त्यर्थः । इदं च भाष्यं न विकल्पकोट¬ोरन्यतरनिरासकम्; अपि त्वविरोधप्रतिज्ञामात्रपरम् । किं ज्ञातुज्र्ञानानाश्रयत्वं सजाती-ययोर्धर्मधमिर्भावाभावादुच्यते, उत ज्ञानत्वात् ज्ञानानाश्रयत्वमिति विकल्प्य प्रथमं प्रतिवक्ति-ज्ञानस्वरूपसयैवेति । द्वितीयं प्रतिवक्ति-ज्ञातृत्वमेव हीति इति विवेको द्रष्टव्यः । पूर्ववदभिप्राय इति । "किं व्याप्त्या उच्यते, उतश्रुत्या' इत्यादीत्यर्थः । ज्ञातृ- त्वं यथा फलितं भवतीति । "तमीश्वराणाम्' इत्यादिश्रुतावित्यर्थः । फलितत्वप्रकारश्चोत्तरत्र स्पष्ययिण्यते । ज्ञानस्य सर्व-विषयकत्वमिति ।"यः सर्वज्ञः सर्ववित्' इत्यत्र ज्ञानस्य सर्वविषयत्वम्, "तदैक्षत' इति समष्टयुपयोगित्वम् , "सेयं देवतैक्षत'इति व्यष्टयुपयोगित्वम्, "सृजै' इत्युत्तम्पुरुषेणात्मसंबन्धित्वं च दर्शितमित्यर्थः । कामप्रदत्वं चेति । कामितार्थज्ञानाभावे तत्प्रदत्वासं-भवादिति भावः । देवतात्वं कर्माराध्यत्वम् । आराधान महनीयप्रीतिहेतुभूता क्रिया । ततश्च प्रतीरूपज्ञानवत्त्वं सिध्यति । पतित्वं शेषित्वमिति । शेषिचेतनत्वमित्यर्थः,प्रयाजादिशेषिदर्शपूर्णमासादौ पतित्वव्यवहाराभावात् । अतो ज्ञातृत्वसिद्धिरिति भावः । द्वितीयविशेषपर्यवसायित्वं सूचितमिति । ततश्च "न तस्य कार्यं करणं च' इत्याद्यंशस्यापि प्रकृतोपयोगित्वमस्तीति भावः विशे-षविधानं विशेषनिषेधश्चेति । "अपहतपाष्मा' इत्यादिना विशेषविधानमित्यर्थः । वैयत्र्यपरिहाराय संकोचश्चेत् गोबलीवर्दन्याय इति । अत्रोपावविशेषव्यतिरिक्तविषय इत्यनुषज्यते । उपात्तविशेषविषये तस्य संकाचे इति । न च-अयं छागपशुन्याय एव; उत्सर्गापवादन्याय एव हि सामान्यविशेषन्यायः । एवमेव व्यवहारदर्शनादिति वाच्यम्-सामान्यशब्दस्य विशेषातिरिक्तविषयत्व-

मादायोत्सर्गापवादन्याये सामान्यविशेषन्यायशब्दप्रवृत्तिवत् सामान्यवाचिशब्दस्य विशेषपर्यवसानमादाय छागपशुन्यायेऽपि सामान्यविशेषन्यायशब्दव्यवहारे दोषाभावात् । अत्र गोबलीवर्दन्यायकथनं शिष्यानुग्रहार्थं प्रसङगात् कृतमिति द्रष्टव्यम् । ननु गुणसामान्यविधानं श्रुतिषु न दृश्यत इति कथमुच्यत, "यः कालकालो गुणी सर्वविद्यः' इत्यादौ तथा दर्शनादित्याशङ्कयाह-दोषसमभिव्याह्मतेति । दोषाभावसमभिव्याह्मतेत्यर्थः । अत्र हि कालकाल्यत्वलक्षणदोषभावरूपाकालकाल्यत्वसमभिव्या- ह्मतस्य गुणशब्दस्य गुणविशेषपरत्वेन गुणसामान्यविधानासिद्धेरभ्युपगमवाद एव शरणमिति भावः । स्मृतिवचनाभिप्रायेण सगुणवाक्यानामित्युक्तमिति । अत्र च वाशब्दोऽध्याहर्तव्यः, वचनाभिप्रायेण वा सगुणवाक्यानामित्युक्तमित्यर्थः । यद्वा कथमत्यन्तानुपलभ्यमानस्य गुणसामान्यविधानस्याभ्युपगम इत्याशङ्कयाह - वषायुतैरित्यादि । स्मृतिवचनाभिप्रायेणेति । एताभिः स्मृतिभिरेतत्तुल्यगुणसामान्यविधायकश्रुत्यनुमानेन सगुणवाक्यानामित्युक्तमित्यर्थः । दोषप्रतिपक्षवचन इति । (गुणदोष इत्यत्रैव) "गुणदोषौ' इत्यत्रेव दोषप्रतिद्वन्द्विगुरसामान्यपर उपादेयसामान्यपर इत्यर्थः । प्रकरणवशाच्छागपशुन्यायेनेति । ततश्च स्मृतिगतानामपि सामान्यवचनानां विशेषपर्यवसानस्यापेक्षितत्वादेतत्संग्रहार्थं भाष्ये सगुणनिर्गुणवाक्ययोर्विरोधाभावादिति वाच्यं समाप्तम् । अन्यतरस्य मिथ्याविषयतानोयणमपि न युक्तमिति वाक्यान्तरम् । अत्र "विरोधाभ्युपगमे' इति शेषः पूरणीयः । अपिशब्दश्च भिन्नक्रमः । अतः विरोधाभ्युपगमेऽप्यन्यतरस्य मिथ्याविषयताश्रयणं न युक्तमित्यर्थः । सिध्यतीति भावः । अतश्च पूर्वं विरोधो नास्तीति परिह्मतमित्याद्युत्तरग्रन्थोऽपि संगतः । इतरथा एकवाक्यत्वे पूर्वमिथ्युक्तेरसंभवात् । यद्वा अत्रायमभिप्राय इत्यपिशब्दोऽध्याहर्तव्यः । "पूर्वम्, इदानीम्' इति पदद्वयमप्यविवक्षितम् । वस्तुस्थितिमनुरुध्य विरोधो नास्तीत्युक्तम्; विरोध-सत्त्वेऽपि नास्माकं क्षतिरित्यर्थः । उभयोरप्यपच्छेदनियमो नास्तीति । अन्यतरमात्रापच्छेदस्यापि संभवादिति भावः । प्रया-#ेगावधिकविरोध इति । अपच्छेदद्वयनिमित्तकनैमित्तिकप्रयोगद्वयस्य युगपदनुपसंहरणीयतया शास्त्रयोर्विरोधः; अतश्च स कादा- चित्क इति भावः । अनियतविरोधपौर्वापर्यविषय इति उक्तं हि-

"पौर्वापर्यं विरोधश्च पूर्वाप्रामाण्यमेव च ।

नियमान्नास्ति तत्रासावपच्छेदनयो भवेत ।।'

इति । ननु प्रत्यक्षविरुद्धश्रुत्यनुमानं न प्रवर्तत इति विरोधाधिकरणन्यायः । स नात्र प्रवर्तते । यदि प्रत्यक्षानुमानवत् शीघ्रमन्थरगा-मित्वसामान्यात् सगुणनिर्गुणवाक्ययोस्तद्विषयत्वम्, तर्हि निगुर्णवाक्यस्य स्मृतिवदप्रामाण्यमेव स्यात् । यदि चाप्रामाण्यमिष्टम्, तर्हि अपच्छेदन्यायो वा किमिति न प्रवर्तते? अपच्छेदन्यायस्य नियतपौर्वापर्यविषयप्रवृतौ सर्वात्मनाऽप्रामाण्यप्रसङ्गभायाद्धि अपच्छेदन्यायस्याप्रवृत्तिरुच्यते । अतः श्रुतिविषये न विरोधाधिकरणान्याय इत्यस्वरसादाह-यद्वा मा भूदिति । उपक्रमाधिकर-णन्याय एवेति । "प्रजापतिर्वरुणायाश्वमनयत् । स स्वां देवतामाच्र्छत् । स पर्यदीर्यत । स एतं वारुणं चतुष्कपालमपश्यत् । तन्नि-रवपत्' इत्युपक्रम्य, उपसंहारे श्रूयते-"यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणांश्चतुष्कपालान्निर्वषेत्' सति । तत्र उपक्रमेऽर्थ-वादेऽश्वदातुः प्रजापतेर्वारुणेष्टिः प्रतीयते; उपसंहारे च प्रतिग्रहीतुः । द्वयोर्विरोधे सति

"गुणत्वादनुवादत्वादर्तवादस्य लक्षणा ।

विध्युद्देशो जघन्योऽपि स्वार्थहानिं न गच्छति ।।'

इति पूर्वपक्षे प्राप्ते, गुणभूतस्याप्यर्थवादस्यासंजातविरोधित्वेन प्रबलत्वाद्विध्युद्देशस्य प्रधानत्वेऽप्यलब्धात्मकत्वात् प्रधानभूतो विध्युद्देशः स्वयमलब्धात्मा लब्धात्मानमर्थवादं प्रक्रमस्थं बाधितुमसमर्थः स्वयमेव तदानुगुण्यं भजत इति, प्रतिगृह्णीयादित्यस्य प्रतिग्राहयेदित्येवं णिजर्थमन्तर्भाव्य दातुरेवेष्टिरिति सिद्धान्तितम् । ततश्च सगुणवाक्यस्य भेदग्राहिप्रत्यक्षस्य वा प्राक् प्रवृत्तत्वेनो-पक्रमाधिकरणन्याय एव प्रवर्तत इत्युपक्रमनयः । सत्तया मायमानतया वेति । ननु - "रजतम्' इति ज्ञानस्याप्रामाण्यशङ्कास्क-न्दितत्वात्तदनास्कन्दितज्ञानस्यैव विपरीतज्ञानप्रतिबन्धकत्वात् "नेदं रजतम्' इति ज्ञानोत्पत्तौ न विरोधः । न चाप्रामाण्यशङ्काया अपि विषयसंशयपर्यवसन्नतया तस्याप्यनुत्पत्तिः शङ्कनीया, अप्रामाण्यशङ्कासामग्रयाः फलबलादुवेजकत्वकल्पनादित्येतावतैव परिहारसंभवात् व्यर्थोऽयं प्रपञ्च इति चेत्, शिष्यशिक्षार्थतया प्रपञ्चनोपपत्तेः । न च सगुणत्वज्ञाने तद्विरुद्धनिर्गुणत्वमानस्योप-क्रमाधिकरणन्यायेनानुत्पादे षोडशिग्रहणप्रतीतौ तद्विरुद्धाग्रहणप्रतीतेरनुदयप्रसङ्गः; तथा अपच्छेदस्थलेऽपि पूर्वविरुद्धप्रतीत्य-नुत्पादप्रसङ्ग इति वाच्यम्-उपक्रमाधिकरणन्यायस्यैकवाक्यतास्थल एव प्रवृत्तेः; ग्रहणाग्रहणादिस्थले तु तदभावात् । न च सगुणनिर्गुणवाक्ययोरप्येकवाक्यता नास्तीति वाच्यम्-

"एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।

कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।।'

इत्यादावेकवाक्यत्वप्रतीतेः तत्तुल्यात्वाच्च निर्गुणवाक्यान्तस्यापि न तद्विरुद्धार्थप्रतीतिजनकत्वमिति भावः । इदं रजतमिति परा-मर्शसापेक्षत्वादिति । "इदं रजतम्' इति ज्ञानस्य, "नेदं रजतम्' इति ज्ञानोपजीव्यत्वादुपजीव्यविरोधेन कथं तद्विरुद्धोत्पत्तिरिति शङ्कार्थः । शुक्तित्वविषया ह्रुत्तरप्रमितिरिति । इदमुपलक्षणम्-रजतत्वाभावविषयत्वेऽपि "इदं रजतम्' इति ज्ञानस्य प्रतियोगि-विषयत्वमात्रांश उपजीव्यत्वेऽपि पुरोवर्तिनि रजतविषयत्वांशेऽनुपजीव्यत्वेन तदभावावगाहने दोषाभावात् । उदीयमानमिति पाठे "इण् गतौ' इति धातो रूपमिति द्रष्टव्यम् । आनन्दं ब्राहृण इत्यादितात्पर्यलिङ्गप्राचुर्यादिति । ब्राहृापेक्षयापि तद्गुणभूतानन्दवेद-नस्यैव फलवत्त्वावेदनेन श्रुतेब्र्राहृानन्दे तात्पर्यावगतेरिति भावः ।

आनन्दवल्लयाः सगुणविषयत्वम्

पर्यवसितं युक्तमिति पाठः । पर्यवसानं युक्तमित्यर्थः । पर्यवसितुं युक्तमिति क्कचित् पाठो दृश्यते । तत्र "असु क्षेपणे' इत्यस्मात् अवपूर्वात् "वष्टिभागुरिरल्लोपमवाष्योरुपसर्गयोः' इति अवशब्दान्तलोपे तुमुन्प्रत्यये सति कथंचित् निर्वाहो द्रष्टव्यः; "षो अन्त-कर्मणि' इत्यस्मात् तुमुन्प्रत्यये तस्य कित्वाभावात् "द्यतिस्यतिमास्थाम्' इतीत्वप्राप्तेरभावात् । अत एवानन्दमयाधिकरणे वक्ष्य-त्याचार्यः, "पर्यवस्यन्तः पर्यवसातुं प्रवृत्ताः' इति । नित्यनवं यथा भवति तथेति । युवा चासावध्यायकश्चेति समासः । अध्याय- कस्य च युवत्वमध्ययनद्वारा पर्यवस्यतीति भावः । आशुतरक्रिय इति आशुतरक्रियावति वर्तमानात् आशुशब्दात् इष्ठन्प्रत्यये टिलोपे रूपम् । आशुमच्छब्दात् "विन्मतोर्लुक्' इति लुकि वा रूपं द्रष्टव्यम् । अशनक्षम इति । अशनम् आशः, ततो मत्वन्तात् इष्ठन् प्रत्ययः । आशीर्वादविषये वतर्मानादाशीशाब्दात् मत्वन्ताद्वा इष्ठनि आशिष्ठ इति रूपम् । सर्वत्र "विन्मतोर्लुक्' इति इष्ठन् प्रत्ययः; मतोश्च लुक् । पूरणगुणसुहितार्थेति । सुहितशब्दस्य तृप्तयर्थत्वात् पूरणस्यापि तृप्तिरूपत्वादिति भावः । न तु पूरणगुणे- त्यत्र पूरणशब्द इह मन्तव्यः, तस्य पूरणप्रत्ययपरत्वात् । षष्ठयनुज्ञानादिति । षष्ठीसमासनिषेधपरेणानेन सूत्रेण षष्ठयनुज्ञाना- दित्यर्थः । निवत्र्यानिष्टत्वेति । अनिष्टनिवर्तकत्वेत्यर्थः । चतुर्मुखानन्दाधिक्याभिप्राय इति । "ते ये शतम्' इत्यत्र शतशब्दोऽधि-कसंख्यापरः । अतो न परिच्छिन्नत्वमिति भावः । प्राकररिकवाक्यानां संख्याविशेषपरत्वात् "ते ये शतं प्रजापतेः' इत्यत्रापि संख्याविशेषपरत्वमेवोचितमित्यन्यथा निर्वाहमाह - यद्वा ते ये शतं स एक इत्यस्येति । कालत्रयवर्तिप्रजापत्यानन्दत्वे कथिते अपरिच्छिन्नत्वं सिध्यतीति भावः । त्रिपाद्विभूतिमत्तया चेति । ननु भगवदानन्दस्यापरिच्छितामिति वदÏन्त प्रति त्रिपाद्विभूति- मत्तया आनन्दानन्त्यकथनं कथमुपयुज्य(पद्य)तामिति चेत्, अत्र केचित् - कथमपरिच्छिन्नत्वमिति चेदित्येव पाठः । तस्य चाय-मर्थः-"ते येशतम्' इति वाक्येन कथमपरिच्छिन्नत्वं प्रतीयताम्? प्रत्युत परिच्छन्नत्वमेव प्रतीयते । अतोऽपरिच्छिन्नत्वं न सिध्ये-दित्येतावत्पर्यन्तमाक्षेपं वर्णयन्ति । अतस्तत्परिहत्र्रा चानेन श्रुतिवाक्येन परिच्छिन्नत्वासिद्धिरप्युपपादनीया । आनन्दस्यापरि-च्छिन्नत्वमप्युपपाद्यत इति वदन्ति । अपरे तु-"शतं प्रजापतेरानन्दाः' इति श्रुतिस्वारस्यविरोधेन कालत्रयवर्तिप्राजापत्यानन्द-मात्रपरतया वा शतशब्दस्याधिकसंख्यामात्रपरतयावा किमिति व्याक्यायते? यथाश्रुतार्थ एव ग्राह्र इति तटस्थशङ्कामपाकरोति - मेरोरिवाणुरितीति वदन्ति ।

सोऽश्नुत इत्यादिश्रुत्यर्थः

ननु "ब्राहृविदाष्नोति परम्' इति ब्रााहृणे ब्राहृण एव प्राप्यत्वप्रतिपादनात् "एषोऽस्य परमानन्दः' इति ब्राहृण एव विदुषामानन्द-त्वश्रवणेन कामानां च तदभेदप्रतीतेः ब्रााहृणस्य मन्त्रविवरणरूपत्वेन प्रबलत्वात् ब्रााहृणानुसारेणैव "सह ब्राहृणा' इति मन्त्रार्थो वर्णनीयः । यथा पैङ्गिरहस्ये ब्रााहृणानुसारेण "द्वासुपर्णा' इति मन्त्रार्थवर्णनमित्याशङ्कयाह-मन्त्राणां ब्रााहृणविवरणरूपत्व-दर्शनादिति । मन्त्राणामपि ब्रााहृणविवरणरूपत्वदर्शनाद्विवरणरूपत्वरूपः प्राबल्यहेतुद्र्वयोरप्यविशिष्य इति भावः । स्फुट-प्रतीतिहेतुत्वेति । प्रायेण ब्रााहृणानां स्फुटप्रतिपत्तिहेतुत्वमस्ति; मन्त्रास्तु गहना भवन्तीत्येतावता ब्रााहृणप्राबल्योक्तिश्चेत्-इष्टमेवेत्यर्थः । नन्वानन्दमयाधिकरणे मन्त्राणां प्राबल्यं केचिद्वदन्तीति मन्त्रप्राबल्यस्यैव परोक्तत्वोपन्यासात् तद्विरोध इति चेत्- न; तस्यापि मतान्तरत्वेनाविरोधादिति द्रष्टव्यम् । विपश्चित्त्वश्रवणात् तस्य च भोक्तृत्वानुगुणत्वात् ब्राहृणो भोक्तृसाहित्यशङ्कां व्युदस्यति-विपश्चित्त्वमपि भोग्यगुणत्वेनोक्तमिति । न च तस्यापि कामशब्दनिर्दिष्टत्वात् पृथङ् निर्देशवैयथ्र्यमिति शङ्कनीयम्; गोबलीवर्दन्यायेन प्राधान्यविवक्षया पृथङ् निर्देशोपपत्तेरिति भावः । व्यतिरेकानिर्देशादिति । "कामान् सह ब्राहृणा' इति भिन्नतया

निर्देशादित्यर्थः । अव्यवहितप्रयोगस्वारस्याच्चेति । "ब्राहृणा सह सोऽश्नुते सर्वान् कामान्' इति यदि स्यात् तदा स्यादपि भोक्तृ-स्तच्छब्दनिर्दिष्टस्य साहित्याश्रयत्वशङ्केति भावः । तत्परिहारायेति । इष्यापत्त्या तत्परिहारायेत्यर्थः । तस्मिन् यदन्तस्तदन्वेष्यव्य-मितिवदिति । इदं च "तस्मिन्' इत्यस्य दहराकाशपरत्वमित्यभ्युपेत्य गुणस्यैवान्वेष्टव्यत्वमुच्यत इत्यभिप्रेत्योक्तम् । वस्तुतस्तु "तस्मिन् यदन्तः' इत्यत्र तच्छब्दस्य पुण्डरीकाकाशरूपवस्तुद्वयपरामर्शित्वस्य वक्ष्यमाणत्वात् तेन ब्राहृतद्गुणयोद्र्वयोरुपास्यत्व- मिति समप्राधान्यमेव सिध्येत् न गुणानां प्राधान्यमिति द्रष्टव्यम् । यद्वा सहशब्दस्याप्राधान्यद्योतकत्वे ब्राहृणोऽप्राधान्यस्य वक्तुमयोग्यत्वात् दहरविद्यावाक्यानुरोधाच्च समत्व एव तात्पर्यमिति भावः । गुणप्राधान्यं वक्तुमित्यनेनापीति । गुणप्राधान्यं वक्तुमित्यनयोक्तया श्रुतिगतसहशब्दस्य भोग्यसाहित्यमेव भाष्यकाराभिप्रेतमिति सिध्यतीत्यर्थः । अन्यथा भोक्तृप्राधान्यं हीति । भोक्तृसाहित्यपरत्वे भोक्तृब्राहृापेक्षया भोक्तुर्जीवस्यैव प्राधान्यं सिध्येदिति भावः ।

यस्यामतभित्याद्याशयवर्णनम्

सगुणानामेव ज्ञेयत्वं दृष्टमितीति । अत्रैवकारो भिन्नक्रमः । सगुणानां ज्ञेयत्वमेव दृष्टम्, अमेयत्वं न दृष्टमित्यर्थः पर्यवस्यति । ततश्च ज्ञेयत्वस्य व्यापकत्वं सिध्यति। ततश्च तद्वयतिरेकात् सगुणत्वव्यतिरेकापादनं संभवतीति द्रष्टव्यम् । भाष्ये-ब्राहृज्ञानासद्भा-वसद्भावाभ्यामिति । ननु "असन्नेव स भवति' इत्यसत्त्वप्रकारकज्ञानस्यैवात्मनाशहेतुत्वमुच्यते, न तु तदज्ञानस्येति चेत्-"असद्व्र-हृेति वेद चेत्' इत्यस्य "ब्राहृ वेद' इत्येतत् असच्चेदित्यन्वयः । ब्राहृ न जानाति चेदित्यर्थः । "अस्ति ब्राहृेति चेत्' इत्यत्रापि "ब्राहृ वेद' इत्येतदस्ति चेत्उब्राहृ जानाति चेदित्यर्थः । इति भगवद्भाष्यकाराभिप्रायात् । यद्वा श्रुत्यनुसारेण भाष्यार्थो वर्णनीयः । अतः केषुचिद्वाक्येषु इत्यत्र "अतः' इति व्याख्येयं पदम्; सर्वा श्रुतय इति च । ननु सर्वशाखाप्रत्ययन्यायः प्रधानस्वरूपानन्तर्गतानुक्त-#ा#ंशस्वीकारफलः । अत्र च न वाक्यान्तरविहितं मोक्षसाधनं ज्ञानमनूद्य ब्राहृविषयत्वं क्कचिद्गुणतया विहितम्; अपि तु ब्राहृज्ञानमेव विहितम्; येन तन्न्यायप्रवृत्तिरित्यस्वरसादाह-यद्वा केषुचित् ब्राहृविषयत्व इति । ज्ञानमात्रावि#ेयत्वस्यैव निर्गुणत्वाक्षेपकतया परैरुक्तत्वादुपासनाविषयत्वादिविकल्पनिरासपरत्वमस्य ग्रन्थस्यानुचितमित्यपरितोषादाह-यद्वा ज्ञानं चोपासनात्मकमिति । गुणविधानबाधितेति । बाधितापीत्यर्थः । ततश्च ज्ञेयत्वाभावरूपहेत्वसिद्धिमात्रं नेत्यर्थः । अज्ञेयत्वं बाधित्वा ज्ञेयत्वमाक्षिप- तीति । मा भूत् ज्ञेयत्वे प्रमाणान्तरगवेषणा; इदमेव सगुणत्वं ज्ञेयत्वसाधनेपर्याप्तमित्यर्थः । ननु सगुणत्वस्य सर्वप्रकरेण समर्थ- नीयस्य सिद्धौ सगुणत्वेन ज्ञेयत्वसाधनं मुधा, उत्तरसिद्धौ किं पूर्वेणेति न्यायादिति चेत्-अत्र केचित्-यद्यपि सगुणत्वमेव परम-साध्यम्; तत्रैव भाष्यतात्पर्यं च - तथापि तत्रेयं शङ्का समुच्मिषति-कथं सगुणत्वं श्रुतिसहरुामपि प्रतिपादयेत्, तद्वयापकज्ञेयत्वा-भावादिति । तस्याःपरिहारोऽभिधीयते-अज्ञेत्यव बाधित्वेत्यादिना । यथा यागस्य क्षणभङ्गुरस्य फलपर्यन्तं व्यापारशून्यस्य कथं स्वर्गसाधनत्वमित्याक्षेपे स्वर्गसाधनत्वप्रतिपादनबलादेव तत्पर्यन्तस्थायिव्यापारवत्त्वमपि कल्प्यत इत्युच्यते, एवमिति वदन्ति । तत्रैवेति व्याख्येयं पदम् ।

नदृष्टेरितिश्रुत्यर्थः

आगन्तुकत्वाद् गुणत्वाच्चेति । आगन्तुकचैतन्यगुणयोगितया चेति । भाष्ये आगन्तुकगुणशब्दौ भावप्रधानौ; चैतन्यपदं धम्र्युपस्थापकम् । ततश्च चैतन्यस्यागन्तुकत्वगुणत्वयोगितयेत्यर्थः पर्यवस्यतीति भावः । आगन्तुकचैतन्यगुणयोगितया ज्ञातु-रज्ञानस्वरूपतामिति भाष्ये ज्ञातुरात्मनः पक्षत्वम्, अज्ञानस्वरूपत्वलक्षणजडत्वस्य साध्यत्वम्, "ज्ञोऽत एव' इति सूत्रे काणा-दाभिमतजडत्वसाधकत्वेनोपन्यसिष्यमाणस्यागन्तुकचैतन्यत्वस्य साधनत्वं च स्वरसतः प्रतीयते । तद्विहाय ज्ञानपक्षकानात्मत्व-साधकागन्तुकत्वगुणत्वरूपहेतुद्वयपरत्वं वाक्यशैलीविरुद्धमित्यपरितोषादाह-यद्वा चैतन्यं नाम विषयप्रकाश इति । स्वतश्चैतन्य-स्वभावस्यागन्तुकचैतन्यत्वं न संभवतीति भावः । जवात्मानं प्रतिषिध्य सर्वभूतात्मानं परमात्मानमेवोपास्स्वेति भाष्ये जीवा- त्मानं प्रतिषिध्येति प्रतिषेधक्रियायाः श्रुतिकर्तृकत्वादुपासनस्यच जीवकर्तृकत्वात् सामानकर्तृकत्वाभावात् कत्वाप्रत्ययानुपपविमा-शङ्कय श्रुतिकर्तृकोक्तिक्रियावाचिपदाध्याहारेण व्याचष्टे-दृष्टिश्रुतिमतिनिदिध्यासनानामिति । अस्मिन् पक्षेउपास्स्वेत्ययमर्थ उक्तो भवतीत्येव युक्तम्; वाक्यपदमयुक्तमित्यस्वरसादाह-यद्वा अभिदधादीत्यनुषङ्ग इति । इति वाक्यार्थ सति वाक्यान्तर- मिति । "उपास्स्वेत्यभिदधातीति वाक्यार्थ' इत्यत्र इतिशब्दः संनिहितं न अभिदधातीत्यर्थं परामृ#ाति, अपि तूपास्स्वेत्येतदंश- मिति भावः । इतिशब्दस्य विप्रकृष्टपरत्वमदृष्टमित्यपरितोषादाह-यद्वा प्रतिषिध्य परित्यज्येति ।

आनन्दश्रुत्यर्थः

भाष्ये-ज्ञानमेव ह्रनुकूलमानन्द इत्युच्यत इति । अत्र एवकारेण प्रतिकूलज्ञानस्यानन्दत्वं व्यवच्छिद्यते; न तु विषयस्यापि । अतो विभूत्यानन्दत्ववादस्य न विरोध इति द्रष्टव्यम् । धर्मभूतानन्दस्य हीति । न त्वानन्दमात्रस्येत्यर्थः ।

द्वैतनिषेधश्रुत्यर्थः

ननु यदिदमुक्तमिति भाष्ये "यत्र हि' इत्यादिवाक्यखण्डः प्रथममुदाह्मतः । पूर्वपक्षोपन्यासवेलायां तु कृत्स्नं वाक्यं "मृत्योः स मृत्युमाष्नोति' इति वाक्यस्य पश्चादुदाह्मतम् । पूर्वपक्षोदाह्मतप्रकारं विहाय प्रकारान्तरेणोपादाने को हेतुरित्याशङ्कय परिहरति-यत्र हीत्यादिवाक्याभ्यामिति । पूर्वं भेदनिवृत्तिप्रतिपादनपरतयापश्चादुदाह्मतम् । इदानीं तु इवशब्दयुक्ततया भेदनिषेधप्रदर्शनपरतया, "नेह नानास्ति' इति भेदनिषेधकवाक्यखण्डेन सहोपादानमिति द्रष्टव्यम् । निषेधक्रियाऽऽवृत्ति#ार्थ इति । बहुशःउबहुषु स्थलेष्वित्यर्थः । "बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्' इति कारके शसो विधानात् । अधिकरणस्यापि कारकत्वात् । ततश्चावृत्तिः फलितेति फलितार्थकथनम्; न प्रत्ययाथर्तयेति द्रष्टव्यम् । बहुभवनभ्रमरूपमिति । सार्वज्ञ्यस्य पूर्वसिद्धत्वे हि पाश्चात्त्या भ्रान्तिर्नोपपद्यते; न हि ब्राहृणि बहुभवनभ्रमात् प्राक् सर्वाज्ञ्यमस्ति, बहुभव नभ्रमस्यैव सार्वज्ञ्यरूपत्वात्, तस्य चाविद्याधीनत्वात् नाविद्याविरोधित्वमिति भावः । अतो विरोधोऽभ्युपगन्तव्य इति । ततश्च न्यायानुगृहीतश्रुत्यन्तरसिद्धार्थविरुद्धं भेदनिषेधं "नेः नानास्ति' इत्यादिकं कथंप्रतिपादयेदित्यर्थः । ननु भेदनिषेधश्रुतीनां न्यायानुगृहीतविरुद्धश्रुत्यन्तरसाद्भावेऽपि "मृत्योः स मृत्युमाप्नोति' इति भेदज्ञानानर्थत्वप्रतिपादकोदाह्मतश्रुतौ "द्वतिनोऽनथ्यदर्शिनः इति मृत्युपवृहितायां तादृशविरोधाभावान्न दोषइत्याशङ्कयाह-इह च विरोधोऽवगम्यत इति । संसारहेतुत्वं श्रूते; तत्रापि विरोधोऽवगम्यत इति योजना । ततश्च पपरविरुद्धार्थप्रतिपादनस्य सर्वत्र साम्यात् न्यायानुगृहीत एवार्थ स्वीकर्तव्यः । भेदश्रुतिश्च न्यायानुगृहीता, अभेदश्रुतिस्तद्विरुद्धेति न्यायानुगृहीतभेदश्रुतिविरुद्धाथर्कथनमभेदश्रुतेर्न संभवतीति भावः । एतेन केवलं वाक्ययोः परस्परविरोधमात्रप्रतिपादनं प्रकृतासंगतमिति शङ्का पराकृता, उक्तरीत्या प्रकृतसंगतत्वात् । उपास्तिफलभूतमुक्तिदशायामिति । अत्रोपास्तिफलभूतत्वं परंपरया द्रष्टव्यम् । अत्र सामथ्र्याज्जगत इत्यधायाहार इति । ततश्चाध्याह्मतजगच्छब्दस्य न विशेष्यपर्यन्तत्वमिति भावः । कथं तदनत्वेन तदन्तर्यामित्वसिद्धिरिति । ननुतदनमित्यनेनासिद्धावपि "अन्तः प्रविष्टः शास्ता जनानाम्' इत्यादिवाक्यान्तरेण तत् सिध्यातीति चेत्-न; अस्यैव वाक्यस्य तदर्थप्रतिपादनसामथ्र्यमस्तीति शिष्यशिक्षार्थतया तद्वाक्यार्थविचारोपपत्तेः । हेतुत्रयशङ्कास्यादिति । तत्कार्यत्वं च तदन्तर्यामिकत्वोपपाद्यम्, तदात्मत्वं चैक्योपपादकम्; न तु तदन्तर्यामिकत्वमपि साक्षादैक्योपपादकमिति भावः । यद्यपि "जगतो ब्राहृकार्यतया तदन्तर्यामिकतया च तदात्मकत्वनैक्यात्' इत्युक्ते ब्राहृकार्यत्वतदन्तर्यामिकत्वयोस्तदात्मकत्वोपपादकत्वशङ्काप्रसङ्गेन वरुद्धमिति कार्यत्वं (

1.1.1

अव्ययत्वस्य दोषाभावरूपस्य कथं भाष्ये कल्याणगुणत्वेन निर्देश इत्याशङ्कयाह - दोषविरोधित्वं नामगुण इति । पूवर्वदर्थ इति । सगुणब्राहृव्यावृत्तिरित्यर्थः ।

व्यावत्त्र्यानेकत्वेनेति - व्यावृत्तिप्रतियोगिनामनृतजडपरिच्छिन्नानामनेकत्वेनेत्यर्थः । पदानां पर्यायत्वप्रसङ्गादिति - प्रवृत्तिनिमित्तभेदाभावेनेत्युत्तर वाक्यस्थमिहापि काकाक्षिन्यायेन सम्बध्द्यते । ननु कुम्भाद्यनुगता सत्तापरजातिस्सत्यपदप्रवृत्तिनि-मित्तम्, अन्तःकरणवृत्त्युपधानलब्धभेदचिदानन्दानुगते ज्ञानानन्दत्वे अपरजाती; एवञ्च सत्यज्ञानानन्दादिशब्दानां लक्ष्यार्था- भेदेपि उक्तजातिवाचित्वान्न पर्यायतेति कल्पतरूक्तेर्न पर्यायत्वमिति चेन्न, कुम्भाद्यनुगतसत्तायाः सत्यशब्दवाच्यत्वे सत्य-त्वस्यातिप्रसक्तस्य ब्राहृलक्षणत्वाभावप्रसङ्गात् । अभ्युपगम्यते च त्वया सत्यत्वस्य ब्राहृलक्षणत्वं सत्यमिथ्यार्थानुगतसत्तासामान्य-सम्भवाच्च तस्यानृतसाधारणतयाऽनृतव्यावृत्त्यसिद्धेश्च, कालत्रयाबाध्यत्वरूपं पारमार्थिकसत्त्वं ब्राहृणि श्रौतमिति तत्सिद्धान्त-व्याकोपप्रसङ्गाच्च धर्मिसमसत्ताकभेदं विना औपाधिकभेदमात्रेणाकाशत्वादेरिव ज्ञानत्वानन्दत्वयोरपि जातित्वायोगाच्च ज्ञानत्वादेः धर्मिसमसत्ताकभेदवदुपहितचैतन्यवृत्तित्वे शुद्धलक्षणत्वायोगाच्च; एतेन सत्यादिविशिष्टशबलब्राहृवाचिनां सत्यादिशब्दानां शुद्ध- ब्राहृणि लक्षणेति न पर्यायत्वमिति निरस्तम् । अनृतास्वप्रकाशे परिच्छिन्नरूपे शबले सत्यत्वादेरयोगात् । योगे वा तस्यैवानृता-स्वप्रकाशपरिच्छिन्नव्यावृत्तिस्स्यात्, न तु सत्यत्वाद्यनाश्रयस्य शुद्धस्य; तस्मात् सत्यत्वादीनां शुद्धादन्यत्रासम्भवात्सत्यादिवा- क्यस्य च लक्षणया अखण्डार्थत्वे शुद्धेपि तदसिद्धेस्सत्यत्वादीनामत्यन्तासत्त्वेन तद्भेदमादायापर्यायत्वस्य दुस्समाधानत्वात् पर्या- यत्वं सिद्धमित्यर्थः । उपलक्षणतया विशेषणतया वेति - किं व्यावृत्तीनां वाक्यार्थीभूतब्राहृप्रतीत्युपयुक्तपदार्थप्रतीतिविषयत्व-मात्रमेव? उत वाक्यार्थप्रतीतिविषयत्वमप्यस्तीति विकल्पार्थः । उपलक्ष्याद्व्रहिर्भूतमित्यस्याप्ययमेवार्थः । न चावच्छेदकत्वं विशेष-णत्वोपलक्षणत्वातिरि-क्तमेव, कर्णशष्कुल्यवच्छिन्ननभःश्रोत्रमित्यत्र कर्णशष्कुल्याविशेषणत्वे तस्या अपि श्रोत्रत्वप्रसङ्गात् विशेष्यान्वयिनो विशेषणान्वयित्वनियमात् । नाप्युपलक्षणत्वम्, कदाचित् कर्णशष्कुल्युपलक्षितस्यापि नभसः श्रोत्रत्वेतिप्रसङ्गा- दिति वाच्यम्, तत्राप्युपलक्षणकोटावेव निवेशसम्भवात्, विद्यमानकर्णसंयोगस्य उपलक्षणत्वेन दोषाभावात् । उपलक्ष्याद्व्रहिर्भूत- मिति । अयं भावः,- किं स्वरूपप्रतिपत्त्यर्थं ज्ञानादिपदम्? उत ज्ञानत्वादिप्रतीत्यर्थम्? नाद्यः,-पूर्वप्रतीतत्वात् । न द्वितीयः,-उपलक्षणत्वव्याधातादिति । वाक्यार्थाभिधानदशायां सर्वैः पदैरिति । सर्वैः पदैः वाक्यार्थाभिधानदशायामित्यन्वयः । यद्वा, सर्वैः-एकज्ञानजनकत्वेन एकज्ञानजननेनेत्यर्थः, अतो नान्वयानुपपत्तिरिति द्रष्टव्यम् । ननु युगपदभिधाने श्रुतिवाक्यादिषु बला-बलविभागनिर्णयोऽसङ्गत एव स्यात् वाक्यापेक्षया पदश्रुतेः प्राबल्यम्, पदश्रुत्यपेक्षया प्रत्ययश्रुतेरिति व्यवस्था दत्तजलाञ्जलिः स्यादित्यस्वरसादाह - क्रमेणाभिधाने-पीति । क्रमेणाभिधानानभ्युपगम इति । क्रमेणाभिधानानभ्युपगमवादिपक्ष इत्यर्थः । युगपत्प्रतिपादनेपि नापैतीति - उद्देश्यो-पादेयभावे हि तद्वाक्यज्ञातत्वाज्ञातत्वे अप्रयोजके, अपितु तद्वाक्यप्रवृत्तेः प्राक् माना-न्तरावगतमनूद्यते, अप्राप्तं हि विधीयत इत्येव हि विवेक इति भावः । पौर्वापयस्र्य उद्देश्योपादेयलक्षणत्वाभावे कथमुद्देश्योपादे-यविभागज्ञानमित्याशङ्कयाह - एकेन वाक्ये- नेति । परामर्शदशायां सम्भवत्येवेति । ननु ज्ञातत्वाज्ञातत्वलक्षणोद्देश्योपादेय-विभागज्ञानं न वाक्यार्थप्रतीतावुपयुक्तम्, येन वाक्याथप्र्रतीतेः प्राक् परामर्शदशायां तदवगतिस्समर्थनीया स्यादिति चेन्न, "ग्रहं सम्माष्र्टी'त्यादौ ग्रहं संमृज्यादेकं संमृज्यात् यत्संमृज्यात् तदेक'मित्यादिवचनव्यक्तिनिरूपणाभावे निर्विचिकित्सवाक्यार्थप्रती-तेरनुदयेन न्यायसम्पादितवचनव्यक्तिपश्चाद्वाक्यार्थबोधकमिति भावः । विशेष्यमात्रैक्यपरत्वात्समानाविभक्तेरिति । अयं भावः,-यदुक्तं विशिष्टैक्यप्रतिपादनमिति तदिष्टमेव, विशिष्टैक्यप्रतिपादनस्यानभ्युपगमात् । न च विशेष्यैक्यमात्रप्रतिपादनं परस्यापीष्ट- मिति वाच्यम्,-विशेषणान्वयस्यापि प्रातिपादिकावगतस्यात्यागात् । एकस्मिन् विशेष्ये एकस्य द्वयमिति न्यायेन प्राप्तयोर्विशेष-णैकत्वयोरपरित्यागादिति । व्युत्पत्तिश्च प्रत्यक्षमूलेति । न तु स्वर्गादिशब्दव्युत्पत्तिवच्छØतिमूलेत्यर्थः । प्रत्यक्षञ्च विशेष्यैक्य-मवगमयतीति - दण्डी कुण्डलीत्यादौ विशेष-णविभक्तेर्भिन्नविशेषणाश्रये एकस्मिन्नेव विशेष्ये पूर्वपूर्ववृद्धव्यवहारं प्रत्यक्षीकृत्य तथैव व्युत्पत्तेगर्रहात्, इतरथा विशेषणविभक्तेरभेदार्थकत्वमपि त्याज्यं स्यात्, नहि विशेषणविभक्तिरैक्यपरेत्यत्र पूर्वपूर्ववृद्धव्य-वहाराधीनव्युत्पत्तिमन्तरेणान्यन्निमित्तमस्तीति भावः । विशेष्यभेदकत्वं प्रत्यक्षेण तत्रापोद्यत इति चेदिति - प्रत्यक्षागोचरे ब्राहृणि विशेषणभेदप्रयुक्तो विशेष्यभेदो दुर्वार इत्य-भिप्रायः-धर्मिवाचिपदैक्यात् समानविभक्तिनिर्देशाच्च एक्यप्रतीतेरिति । इदमुप-

लक्षणम् विशेषणभेदे विशेष्यभेद इत्युत्सर्गः, देवदत्तश्श्यामो युवेत्यादावदर्शनात्, खण्डो मुण्ड इत्यादौ विरुद्धत्वात्, भेद-कत्वमविरुद्धन्त्वभेदकमेव विशेषणानां भेदकत्ववादस्तु विशेषणानाश्रयापेक्षया, न तु विशेषणान्तराश्रयापेक्षयापि,नहि नील-मुत्पलमित्यादौ नैल्यं दीर्धादपि व्यावर्तयतीत्यपि द्रष्टव्यम् । यच्चोक्तं समानविभक्तीति - न च समानविभक्तया ऐक्यावगमे पर-स्याखण्डार्थत्वभङ्गप्रसङ्गात् परस्य कथमियमाशङ्का घटतामिति वाच्यम्, एकप्रातिपदिकार्थमात्रनिष्ठत्वमखण्डार्थत्वमित्यनेन प्रातिपदिकार्थान्तरसम्बन्ध एव व्यावत्त्र्यते, न तु विभक्तसम्बन्धोपीति मन्यमानस्य शङ्कासम्भवादिति ध्येयम् । अनतिरिक्तपक्षे हेत्-वसिद्धिरिति - समानविभक्तयवगतैक्यावगमविरोधरूपहेत्वसिद्धिरित्यर्थः । ऐक्यावगमविरोधरूपहेत्वसिद्धिरित्युत्तरत्रोपसंहा-रादिति द्रष्टव्यम् । अशक्यासदृशान्वयप्रति-योग्युपस्थितिर्वा शक्यसम्बन्धो वा लक्षणाशक्ये न सम्भवतीत्यभिप्रेत्याह - अललक्ष-णिकत्वेपीति । विमतं वाक्यमखण्डार्थमि-त्यादि - एतेन सत्यादिवाक्यमखण्डार्थनिष्ठं लक्षणवाक्यत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवदित्यनुमानं प्रमाणम्, नीलमुत्पलमित्यादिसमानाधिकरणवाक्यानां लक्षणवाक्यत्वाभावात् नाति- प्रसङ्ग इति निरस्तम् । असाधारणरूपलक्षण-वाक्यत्वस्य सखण्डाथत्र्वेनैव व्याप्तेः कर्मकाण्डस्यापि तन्मात्रप्रश्नोत्तरत्वेनाखण्डा-र्थत्वप्रसङ्गात् प्रकृष्टप्रकाशश्चन्द्र इत्यत्र व्या-वर्तकासाधारणप्रश्नोत्तरत्वेन दृष्टान्तासिद्धेश्चेत्यपि द्रष्टव्यम् । यदि च भावरूपखण्डार्थ-प्रतिपादनासमर्थमिति प्रतिज्ञेति - ततश्च प्रतिज्ञावाक्यस्य खण्डार्थत्वाभावरूपखण्डार्थवैशिष्टयप्रतिपादनसामथ्र्येऽपि भाव-रूपखण्डार्थप्रतिपादनासामथ्र्यान्न व्यभिचार इति भावः-प्रातिपदिकेनैव विशेषणान्वयस्येति । प्रातिपदिकस्मारितयोर्विशष्टयो-र्विभक्तया ऐक्यमात्रप्रतिपादनादित्यर्थः । न तु नीलप्रातिपदिकेन उत्पले नीलत्वान्वय इति मन्तव्यम्, तथाहि सति उत्पले नील-त्वान्वयस्य नीलप्रातिपदिकेनैव सिद्धेर्विभक्तया ऐक्यबोधनस्य वैयथ्र्यापातादिति द्रष्टव्यम् ।

अनेन शङ्काद्वं य परिह्मतं -भवतीति - कारणपरत्वप्रतिपादकेन सिसृक्षोरिति पदेन साक्षात्पूर्वपक्षिचोद्यनिरासः । उपादा-नकारणत्वं "सदेव सोम्येदमग्र आसीदेकमेव' इति प्रतिपादितमिति भाष्यखण्डेन पाश्र्वस्थचोद्यनिरास इति भावः - स्वतन्त्रवस्तु-निषेधपरमद्वितीयपदमित्यर्थ इति । अत एव शाङ्करोपनिषद्भाष्येपि अद्वितीयमिति मृद्वयतिरेकेण मृदो यथान्यद्धटाद्याकारेण परिणमयित्तकुलालादिनिमित्तृकारणं दृष्टम् , तथा सद्वयतिरेकेण सतस्सहकारिकारणं द्वितीयं प्राप्तं प्रतिषिध्यते । अद्वितीयमिति नास्य द्वितीयं वस्त्वन्तरं विद्यत इत्यद्वितीयमिति निमित्तान्तरनिषेधपरतयैव व्याख्यातम् । किञ्चप्राक् सृष्टेरेकमद्वितीयं सदेवासी- दिति सृष्टिप्राक्कालपरतया परैरेव व्याख्यातत्वेन सृष्टिप्राक्काले अद्वितीयत्वमात्रेण कथं मिथ्यात्वप्रसक्तिरित्यपि द्रष्टव्यम् ।।

किं ज्ञानत्वाज्ज्ञानाश्रयत्वमुच्यते? निर्गुणवाक्यविरोधपरिहारः उत एकजातीयद्रव्ययोर्नियतधर्मधर्मिभावानुपपत्तेरिति विकल्पे प्रथमस्य दूषणं ज्ञातुरेव ज्ञानस्वरूपत्वादिति भाष्यम्; ज्ञातुरपि ज्ञानस्वरूपत्वसम्भवादिति तस्यार्थः । द्वितीयस्यतु दूषणं ज्ञानस्वरूपस्यैवेत्यादि-भाष्यम् ; ज्ञातृत्वमेव हि सर्वाः श्रुतयो वदन्तीति भाष्यन्तु प्रथमविकल्पदूषणस्योपपादकम् । तच्छेषभूतम्- इति प्रथमव्याख्या, अस्यां च व्याख्यायां ज्ञातृत्वमेव हीति भाष्यस्य ज्ञातुरेव ज्ञानस्वरूपत्वादिति व्यवहितभाष्योपपादकत्व-माश्रयणीयम्, एवकारस्य अप्यर्थत्वञ्च क्लिष्टमित्यस्वरसो द्रष्टव्यः । द्वितीयव्याख्यायान्तु पूर्ववदेव विकल्पमुखेन प्रवृत्तत्वं समानम्; तत्र ज्ञातुरेवेत्यादिभाष्यस्यायथमर्थः,-ज्ञातृशब्दो भावप्रधानः पञ्चम्यतः, एवकारश्च यज्ज्ञातृत्वं त्वया ज्ञानत्वविरुद्धतयोपन्यस्तं तदेव ज्ञानत्वसाधकमिति स्फोरणार्थः । ज्ञानत्वाभावव्यापकाभावप्रतियोगितया ज्ञातृत्वस्य न तद्विरुद्धत्वमिति अस्मिन् पक्षे ज्ञातृ-त्वमेव हि सर्वाः श्रुतयो वदन्तीति भाष्यं ज्ञातृत्वस्य श्रौतत्वप्रतिपादनद्वारा तद्दृद्वीकरणार्थम्, अस्याञ्च व्याख्यायां भावप्रधानतया निर्देशाद्याश्रयणं क्लिष्टमित्यस्वरसो द्रष्टव्यः । तृतीयव्याख्यायान्तु ज्ञातुरेवेत्यादिभाष्यस्य ज्ञातुरेव सतो ज्ञानस्वरूपत्वाविरोधादि- त्यर्थः । इदञ्च भाष्यं न विकल्पकोट¬ोरन्यतरनिरासकम्, अपि त्वविरोधप्रतिज्ञामात्रपरम्, किं ज्ञातुज्र्ञानानाश्रयत्वं सजातीययो-द्र्धर्मधर्मिभावाभावादुच्यते? उत ज्ञानत्वात् ज्ञानानाश्रयत्वम्? इति विकल्प्य प्रथमं प्रतिवक्ति । ज्ञानस्वरूपस्यैवेति -द्वितीयं प्रतिवक्ति । ज्ञातृत्वमेव हीति -इति विवेको द्रष्टव्यः -पूर्ववदभिप्राय इति । किं व्याप्त्या उच्यते? उत श्रुत्येत्यादीत्यर्थः-ज्ञातृत्वं यथा फलितं भवतीति । तमी-श्वराणामित्यादिश्रुतावित्यर्थः । फलितत्वप्रकारश्च उत्तरत्र स्पष्टयिष्यते । ज्ञानस्य सर्वविषयत्व- मिति - यस्सर्वज्ञस्सर्वविदित्यत्र ज्ञानस्य सर्वविषयत्वम्, तदैक्षतेति समष्टयुपयोगित्वम्, सेयं देवतैक्षतेति व्यष्टयुपयोगित्वं सृजा इत्युत्तमपुरुषेणात्मसम्बन्धित्वञ्च दर्शितमित्यर्थः-कामप्रदत्वञ्चेति । कामितार्थज्ञानाभावे तत्प्रदत्वासम्भवादिति भावः । देवता-त्वम्,-कर्माराध्यत्वम् । आराधनामहनीयप्रीतिहेतुभूता क्रिया । ततश्च प्रीतिरूपज्ञानवत्त्वं सिध्यति । पतित्वं शेषित्वमिति-शेषि-चेतनत्वमित्यर्थः । प्रयाजादि-शेषिदर्शपूर्णमासादौ पतित्वव्यवहाराभावात्; अतो ज्ञातृत्वसिद्धिरिति भावः । द्वितीयविशेषपर्य-

वसायित्वं सूचितमिति - ततश्च "न तस्य कार्यं करणञ्च' इत्याद्यशंस्यापि प्रकृतोपयोगित्वमस्तीति भावः - विशेषविधानं विशे-षनिषेधश्चेति । अपहतपाष्मेत्यादिना विशेषनिषेधः, सत्यकाम इत्यादिना विशेषविधानमित्यर्थः - वैयथ्यर्परिहाराय सङ्कोचश्चेत् गोबलीवर्दन्याय इति । अत्र उपात्तविशेषव्यतिरिक्तविषय इत्यनुषज्यते । उपात्तविशेषविषये तस्य सङ्कोच इति । न चायं छाग-पशुन्याय एव, उत्सर्गापवादन्याय एव हि सामान्यविशेषन्यायः । एवमेव हि व्यवहारदर्शनादिति वाच्यम्,-सामान्यशब्दस्य विशे-षातिरिक्तविषयत्वमादाय उत्सर्गा-पवादन्याये सामान्यविशेषन्यायशब्दप्रवृत्तिवत्सामान्यवाचिशब्दस्य विशेषपर्यवसानमादाय छागपशुन्यायेपि सामान्यविशेषन्यायशब्दव्यवहारे दोषाभावात्, अत्र गोबलीवर्दन्यायकथनं शिष्यानुग्रहार्थ प्रसङ्गात्कृतमिति द्रष्टव्यम् । ननु गुणसामान्यविधानं श्रुतिषु न दृश्यत इति कथमुच्यते? "यः कालकालो गुणी सर्वविद्य' इत्यादौ तथा दर्शनादि-त्याशङ्कयाह - दोषसमभिव्याह्मतेति । दोषभावसमभिव्याह्मतेत्यर्थः । अत्र हि कालकाल्यत्वलक्षणदोषाभावरूपा कालकाल्यत्व-समभिव्याह्मतस्य गुणशब्दस्य गुणविशेषपरत्वेन गुणसामान्यविधानासिद्धेरभ्युपगमवाद एव शरणमितिभावः - स्मृतिवचनाभि-प्र्रायेण सगुणवाक्यानामित्युक्तमिति । अत्र च वाशब्दोऽध्याहर्तव्यः, वचनाभिप्रायेण वा सगुणवाक्यानामित्युक्तमित्यर्थः । यद्वा,-कथमत्यन्तानुपलभ्यमानस्य गुणसामान्यविधानस्याभ्युपगम इत्याशङ्कयाह -वर्षायुतैरित्यादि । स्मृतिवचनाभिप्रायेणेति-एताभिः स्मृतिभिरेतत्तुल्यगुणसामान्यविधायकश्रुत्यनुमानेन सगुणवाक्यानामित्युक्तमित्यर्थः । दोषप्रतिपक्षवचन इति । गुणदोषौ इत्यत्रेव दोषप्रतिबन्दिगुणसामान्यपरः उपादेयसामान्यपर इत्यर्थः - प्रकरणवशाच्छागपशुन्यायेनेति । ततश्च स्मृतिगतानामपि सामान्यवचनानां विशेषपर्यवसानस्या-पेक्षित्वात्, एतत्सङ्ग्रहार्थं भाष्ये सगुणवाक्यानामित्युक्तिरुपपद्यत इति भावः । अत्रायमभि- प्राय इति । भाष्ये-सगुणनिर्गुणवाक्ययोर्विरोधाभावादिति वाक्यं समाप्तम् । अन्यतरस्य मिथ्याविषयताश्रयणमपि न युक्तमिति वाक्येन्तरम् । अत्र विरोधाभ्युपगमो इति शेषः पूरणीयः, अपिशब्दश्च भिन्नक्रमः, अतो विरोधाभ्युपगमेपि अन्यतरस्य मिथ्या-विषयताश्रयण न युक्तमित्यर्थस्सिद्धयतीति भावः । अतश्च पूर्वं विरोधो नास्तीति परिह्मतमित्युत्तरग्रन्थोपि सङ्गतः । इतरथा एक-वाक्यत्वे पूर्वमित्युक्तेरसम्भवात् । यद्वा, अत्रायमभिप्राय इत्यपिशब्दोऽध्याहर्तव्यः, पूर्वमिदानीमिति पदद्वयमप्यविवक्षितं वस्तु-स्थितिमनुरुध्य विरोधो नास्तीत्युक्तम्, विरोधसत्त्वेपि नास्माकं क्षतिरित्यर्थः । उभयारप्यपच्छेदनियमो नास्तीति - अन्यतर-मात्रापच्छेदस्यापि सम्भवादिति भावः । प्रयो-गावधिकविरोध इति । अपच्छेदद्वयनिमित्तिकनैमित्तकप्रयोगद्वयस्य युगपदनुप-संहरणीयतया शास्त्रयोर्विरोधः, अतश्च स कादाचित्क इति भावः । अनियतविरोधपौर्वापर्यविषय इति - उक्तं हि-

"पौर्वापर्यं विरोधश्च पूर्वाप्रामाण्यमेव च ।

नियमान्नास्तितत्रासावपच्छेदनयो भवेत् ।।'

इति । ननु प्रत्यक्षविरुद्धश्रुत्यनुमानं न प्रवर्तत इति विरोधाधिकरणन्यायः । स नात्र प्रवर्तते । यदि प्रत्यक्षानुमानवत् शीघ्रमन्थर-गामित्वसामान्यात् सगुणनिर्गुणवाक्ययोस्तद्विषयत्वम्, तहि निर्गुणवाक्यस्य स्मृतिवदप्रामाण्यमेव स्यात् । यदि चाप्रामाण्यमिष्टम्, तर्हि अपच्छेदन्यायो वा किमिति न प्रवर्तते ? अपच्छेदन्यायस्य नियतपौर्वापर्यविषयप्रवृत्तौ सर्वात्मनाऽप्रामाण्यप्रसङ्गभयाद्धि अपच्छेदन्यायस्याप्रवृत्तिरुच्यते । अतः श्रुतिविषये न विरोधाधिकरणन्याय इत्यस्वरसादाह-यद्वा मा भूदिति । उपक्रमाधिकरण-न्याय एवेति । "प्रजापतिर्वरुणायाश्वमनयत् । स स्वां देवतामाच्र्छत् । स पर्यदीर्यत । स एतं वारुणं चतुष्कपालमपश्यत् । तन्निर- वपत्' इत्युपक्रम्य, उपसंहारे श्रूयते-"यावतोऽश्वान् प्रतिगृह्णियात् तावतो वारुणांश्चातुष्कपालान्निर्वपेत्' इति । तत्र उपक्रमेऽर्थवादे-ऽश्वदातुः प्रजापतेर्वारुणोष्टिः प्रतीयते; उपसंहारे च प्रतिग्रहीतुः । द्वयोर्विरोधे सति

"गुणत्वादनुवादत्वादर्थवादस्य लक्षणा ।

विध्युद्देशो जघन्योऽपि स्वार्थहानिं न गच्छति ।।'

इति पूर्वपक्षे प्राप्ते, गुणभूतस्याप्यर्थवादस्यासंजातविरोधित्वेन प्रबलत्वाद्विध्युद्देशस्य प्रधानत्वेऽप्यलब्धात्मकत्वात् प्रधानभूतो विध्युद्देशः स्वयमलब्धात्मा लब्धात्मानमर्थवादं प्रक्रमस्थं बाधितुमसमर्थः स्वयमेव तदानुगुण्यं भजत इति, प्रतिगृह्णीयादित्यस्य प्रतिग्राहयेदित्येवं णिजर्थमन्तर्भाव्य दातुरेवेष्टिरिति सिद्धान्तितम् । ततश्च सगुणवाक्यस्य भेदग्राहिप्रत्यक्षस्य वा प्राक् प्रवृत्तत्वेनो-पक्रमाधिकरणन्याय एव प्रवर्तत इत्युपक्रमनयः । सत्तया ज्ञायमानतया वेति । ननु - "रजतम्' इति ज्ञानस्या प्रामाण्यशङ्कास्क-न्दितत्वात्तदनास्कन्दितज्ञानस्यैव विपरीतज्ञानप्रतिबन्धकत्वात् "नेदं रजतम्' इति ज्ञानोत्पत्तौ न विरोधः । न चाप्रामाण्य- शङ्काया अपि विषयसंशयपर्यवसन्नतया तस्याप्यनुत्पत्तिः शङ्कनीया, अप्रामाण्यशङ्कासामग्रयाः फलबलादुत्तेजकत्वकल्पनादित्येता-

वतैव परिहारसंभवात् व्यर्थोऽयं प्रपञ्च इति चेत्, शिष्यशिक्षार्थतया प्रपञ्चनोपपत्तेः । न च सगुणत्वज्ञाने तद्विरुद्धनिर्गुणत्वज्ञान-स्योपक्रमाधिकरणन्यायेनानुत्पादे षोडशिग्रहणप्रतीतौ तद्विरुद्धाग्रहणप्रतीतेरनुदयप्रसङ्गः; तथा अपच्छदस्थलेऽपि पूर्वविरुद्धप्रती-त्यनुत्पादप्रसङ्ग इति वाच्यम्-उपक्रमाधिकरणन्यायस्यैकवाक्यतास्थल एव प्रवृत्तेः; ग्रहणाग्रहणादिस्थले तु तदभावात् । न च सगुणनिर्गुणवाक्ययोरप्येकवाक्यता नास्तीति वाच्यम्-

"एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।

कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।।'

इत्यादावेकवाक्यत्वप्रतीतेः तत्तुल्यत्वाच्च निर्गुणवाक्यान्तरस्यापि न तद्विरुद्धार्थप्रतीतिजनकत्वमिति भावः । इदं रजतमति परा-मशर्सापेक्षत्वादिति । इदं रजतम्' इति ज्ञानस्य, "नेदं रजतम्' इति ज्ञानोपजीव्यत्वादुपजीव्यविरोधेन कथं तद्विरुद्धोत्पत्तिरिति शङ्कार्थः । शुक्तित्वविषया ह्रुत्तरप्रमितिरिति । इदमुपलक्षणम्-रजतत्वाभावविषयत्वेऽपि "इदं रजतम्' इति ज्ञानस्य प्रतियोगि-विषयत्वमात्रांश उपजीव्यत्वेऽपि पुरोवर्तिनि रजतविषयत्वंशेऽनुपजीव्यत्वेन तदभावावगाहने दोषाभावात् । उदीयमानमिति पाठे "इण् गतौ3 इति धातो रूपमिति द्रष्टव्यम् । आनन्दं ब्राहृण इत्यादितात्पर्यलिङ्गप्राचुर्यादिति । ब्राहृापेक्षयापि तद्गुणभूतानन्दवेद- नस्यैव फलवत्त्वावेदनेन श्रुतेब्र्राहृानन्दे तात्पर्यावगतेरिति भावः ।

( आनन्दवल्लयाः सगुणविषयत्वम् )

पर्यवसितं युक्तमिति पाठः । पर्यवसानं युक्तमित्यर्थः । पर्यवसितुं युक्तमिति क्वचित् पाठो दृश्यते । तत्र "असु क्षेपणे' इत्यस्मात् अवपूर्वात् "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इति अवशब्दान्तलोपे तुमुन्प्रत्यये सति कथंचित् निर्वाहो द्रष्टव्यः; "षो अन्तकर्मणि' इत्यस्मात् तुमुन्प्रत्यये तस्य कित्वाभावात् "द्यतिस्यतिमास्थाम्' इतीत्वप्राप्तेरभावात् । अत एवानन्दमयाधि- करणे वक्ष्यत्याचार्यः, "पर्यवस्यन्तः पर्यवसातुं प्रवृत्ताः' इति । नित्यनवं यथा भवति तथेति । युवा चासावध्यायकश्चेति समासः । अध्यायकस्य च युवत्वमध्ययनद्वारा पर्यवस्यतीति भावः । आशुतरक्रिय इति आशुतरक्रियावति वर्तमानात् आशुशब्दात् इष्ठन्- प्रत्यये टिलोपे रूपम् । आशुमच्छब्दात् "बिन्मतोर्लुक्' इति लुकि वा रूपं द्रष्टव्यम् । अशनक्षम इति । अशनम् आशः, ततो मत्व-न्तात् इष्ठन् प्रत्ययः । आशीर्वादविषये वर्तमानादाशीश्शब्दात् मत्वन्ताद्वा इष्ठनि आशिष्ठ इति रूपम् । सर्वत्र "विन्मतोर्लुक्' इति इष्ठन् प्रत्ययः; मतोश्च लुक् । पूरणगुणसुहितार्थेति । सुहितशब्दस्य तृप्तयर्थत्वात् पूरणस्यापि तृप्तिरूपत्वादिति भावः । न तु पूरणगुणेत्यत्र पूरणशब्द इह मन्तव्यः, तस्य पूरणप्रत्ययपरत्वात् । षष्ठयनुज्ञानादिति । षष्ठीसमासनिषेधपरेणानेन सूत्रेण षष्ठयनु-ज्ञानादित्यर्थः । निवत्र्यानिष्टत्वेति । अनिष्टनिवर्तकत्वेत्यर्थः । चतुर्मुखानन्दाधिक्याभिप्राय इति । "ते ये शतम्' इत्यत्र शत-शब्दोऽधिकसंख्यापरः । अतो न परिच्छिन्नत्वमिति भावः । प्राकरणिकवाक्यानां संख्याविशेषपरत्वात् "ते ये शतं प्रजापतेः' इत्य-त्रापि संख्याविशेषपरत्वमेवोचितमित्यन्यथा निर्वाहमाह - यद्वा ते ये शतं स एक इत्यस्येति । कालत्रयवर्तिप्रजापत्यानन्दत्वे कथिते अपरिच्छिन्नत्वं सिध्यतीति भावः । त्रिपाद्विभूतिमत्तया चेति । ननु भगवदानन्दस्यापरिच्छिन्नत्वं निश्चित्य, "ते ये शतम्' इति वाक्येन प्रतिपाद्यमानं परिच्छिन्नत्वं कथं संगच्छतामिति वदन्तं प्रति त्रिपाद्विभूतिमत्तया आनन्दानन्त्यकथनं कथमुपयुज्य-(पद्य)तामिति चेत्, अत्र केचित् - कथमपरिच्छिन्नत्वमिति चेदित्येव पाठः । तस्य चायमर्थः-"ते ये शतम्' इति वाक्येन कथम-परिच्छिन्नत्वं प्रतीयताम्? प्रत्युत परिच्छन्नत्वमेव प्रतीयते । अतोऽपरिच्छिन्नत्वं न सिध्येदित्येतावत्पर्यन्तमाक्षेपं वर्णयन्ति । अत-स्तत्परिहत्र्रा चानेन श्रुतिवाक्येन परिच्छिन्नत्वासिद्धिरप्युपपादनीया । आनन्दस्यापरिच्छिन्नत्वक्रमोऽपि प्रदर्शनीय इत्यभिप्रेत्यानेन वाक्येन परि#ुच्छिन्नत्वासिद्धिमुपपाद्य प्रमाणान्तरेणापरिच्छिन्नत्वमप्युपपाद्यत इति वदन्ति । अपरे तु-"शतं प्रजापतेरानन्दाः' इति श्रुतिस्वारस्यविरोधेन कालत्रयवर्तिप्राजापत्यानन्दमात्रपरत्या वा शतशब्दस्याधिकसंख्यामात्रपरतया वा किमिति व्याख्यायते? यथाश्रुतार्थ एव ग्राह्र इति तटस्थशङ्कामपाकरोति - मेरोरिवाणुरिति वदन्ति ।

( सोऽश्नुत इत्यादिश्रुत्यर्थः )

ननु "ब्राहृविदाप्नोति परम्' इति ब्रााहृणे ब्राहृण एव प्राप्यत्वप्रतिपादनात्-"एषोऽस्य परमानन्दः' इति ब्राहृण एव विदुषा-मानन्दत्वश्रवणेन कामानां च तदभेदप्रतीतेः ब्रााहृणस्य मन्त्रविवरणरूपत्वेन प्रबलत्वात् ब्रााहृणानुसारेणैव "सह ब्राहृणा' इति मन्त्रार्थो वर्णनीयः । यथा पैङ्गिरहस्ये ब्रााहृणानुसारेण "द्वा सुपर्णा' इति मन्त्रार्थवर्णनमित्याशङ्कयाह-मन्त्राणां ब्रााहृणविवरण-रूपत्वदर्शनादिति । मन्त्राणामपि ब्रााहृणविवरणरूपत्वदर्शनाद्विवरणरूपत्वरूपः प्राबल्यहेतुद्र्वयोरप्यविशिष्ट इति भावः ।

स्फुटप्रतीतिहेतुत्वेति । प्रायेण ब्रााहृणानां स्फुटप्रतिपत्तिहेतुत्वमस्ति; मन्त्रास्तु गहना भवन्तीत्येतावता ब्रााहृणप्राबल्योक्तिश्चेत्-इष्टमेवेत्यर्थः । नन्वानन्दमयाधिकरणे मन्त्राणां प्राबल्यं केचिद्वदन्तीति मन्त्रप्राबल्यस्यैव परोक्तत्वोपन्यासात् तद्विरोध इति चेत्-न; तस्यापि मतान्तरत्वेनाविरोधादिति द्रष्टव्यम् । विपश्चित्त्वश्रवणात् तस्य च भोक्तृत्वानुगुणत्वात् ब्राहृणो भोक्तृसाहित्यशङ्कां व्युद- स्यति - विपश्चित्त्वमपि भोग्यगुणत्वेनोक्तमिति । न च तस्यापि कामशब्दनिर्दिष्टत्वात् पृथङ् निर्देशवैयथ्र्यमिति शङ्कनीयम्; गोबलीवर्दद्रन्यायेन प्राधान्यविवक्षया पृथङ् निर्देशोपपत्तेरिति भावः । व्यतिरेकनिर्देशादिति । "कामान् सह ब्राहृणा' इति भिन्न- तया निर्देशादित्यर्थः । अव्यवहितप्रयोगस्वारस्याच्चेति । "ब्राहृणा सह सोऽश्नुते सर्वान् कामान्' इति यदि स्यात्, तदा स्यादपि भोक्तुस्तच्छब्दनिर्दिष्टस्य साहित्याश्रयत्वशङ्केति भावः । तत्परिहारायेति । इष्टापत्त्या तत्परिहारायेत्यर्थः । तस्मिन् यदन्तस्तद-न्वेष्टव्यमितिवदिति । इदं च "तस्मिन्' इत्यस्य दहराकाशपरत्वमित्यभ्युपेत्य गुणस्यैवान्वेष्टव्यत्वमुच्यत इत्यभिप्रेत्योक्तम् । वस्तु- तस्तु "तस्मिन् यदन्तः' इत्यत्र तच्छब्दस्य पुण्हरीकाकाशरूपवस्तुद्वयपरामर्शित्वस्य वक्ष्यमाणत्वात् तेन ब्राहृतद्गुणयोद्र्वयोरुपास्य-त्वमिति समप्राधान्यमेव सिध्येत्, न गुणानां प्राधान्यमिति द्रष्टव्यम् । यद्वा सहशब्दस्याप्राधान्यद्योतकत्वे ब्राहृणोऽप्राधान्यस्य वक्तुमयोग्यत्वात् दहरविद्यावाक्यानुरोधाच्च समत्व एव तात्पर्यमिति भावः । गुणप्राधान्यं वक्तुमित्यनेनापीति । गुणप्राधान्यं वक्तुमित्यनयोक्तया श्रुतिगतसहशब्दस्य भोग्यसाहित्यमेव भाष्यकाराभिप्रेतमिति सिध्यतीत्यर्थः । अन्यथा भोक्तृप्राधान्यं हीति । भोक्तृसाहित्यपरत्वे भोक्तृब्राहृापेक्षया भोक्तुर्जीवस्यैव प्राधान्यं सिध्येदिति भावः ।

( यस्यामतमित्याद्याशयवर्णनम् )

सगुणानामेव ज्ञेयत्वं दृष्टमितीति । अत्रैवकारो भिन्नक्रमः । सगुणानां ज्ञेयत्वमेव दृष्टम्, अज्ञेयत्वं न दृष्टमित्यर्थः पर्यव- स्यति । ततश्च ज्ञेयत्वस्य व्यापकत्वं सिध्यति । ततश्च तद्वयतिरेकात् सगुणत्वव्यतिरेकापादनं संभवतीति द्रष्टव्यम् । भाष्ये-ब्राहृज्ञा-नासद्भावसद्भावाभ्यामिति । ननु "असन्नेव स भवति' इत्यसत्त्वप्रकारकज्ञानस्यैवात्मनाशहेतुत्वमुच्यते, न तु तदज्ञानस्येति चेत्-"असद्व्रहृेति वेद चेत्' इत्यस्य "ब्राहृ वेद' इत्येतत् असच्चेदित्यन्वयः । ब्राहृ न जानाति चेदित्यर्थः । "अस्ति ब्राहृेति चेत् इत्यत्रापि "ब्राहृ वेद' इत्येतदस्ति चेत्-ब्राहृ जानाति चेदित्यर्थः इति भगवद्भाप्यकाराभिप्रायात् । यद्वा श्रुत्यनुसारेण भाष्यार्थो वर्णनीयः । अतः केषुचिद्वाक्येषु इत्यत्र "अतः' इति व्याख्येयं पदम; सर्वा श्रुतय इति च । ननु सर्वशाखाप्रत्ययन्यायः प्रधानस्वरूपानन्त-र्गतानुक्तांशस्वीकारफलः । अत्र च न वाक्यान्तरविहितं मोक्षसाधनं ज्ञानमनूद्य ब्राहृविषयत्वं क्वचिद्गुणतया विहितम्; अपि तु ब्राहृज्ञानमेव विहितम्; येन तम्न्यायप्रवृत्तिरित्यस्वरसादाह-यद्वा केषुचित् ब्राहृविषयत्व इति । ज्ञानमात्राविषयत्वस्यैव निर्गुण-त्वाक्षेपकतया परैरुक्तत्वादुपासनाविषयत्वादिविकल्पनिरासपरत्वमस्य ग्रन्थस्यानुचितमित्यपरितोषादाह-यद्वा ज्ञानं चोपासना-त्मकमिति । गुणविधानबाधितेति । बाधितापीत्यर्थः । ततश्च ज्ञेयत्वाभावरूपहेत्वसिद्धिमात्रं नेत्यर्थः । अज्ञेयत्वं बाधित्वा ज्ञेयत्वमाक्षिपतीति । मा भूत् ज्ञेयत्वे प्रमाणान्तरगवेषणा; इदमेव सगुणत्वं ज्ञेयत्वसाधने पर्याप्तमित्यर्थः । ननु सगुणत्वस्य सर्व-प्रकारेण समर्थनीयस्य सिद्धौ सगुणत्वेन ज्ञेयत्वसाधनं मुधा, उत्तरसिद्धौ किं पूर्वेणेति न्यायादिति चेत्-अत्र केचित्-यद्यपि सगुण- त्वमेव परमसाध्यम्; तत्रैव भाष्यतात्पर्यं च - तथापि तत्रेयं शङ्का समुन्मिषति-कथं सगुणत्वं श्रुतिसहरुामपि प्रतिपादयेत्, तद्वयापकज्ञेयत्वाभावादिति । तस्याः परिहारोऽभिधीयते-अज्ञेयत्वं बाधित्वेत्यादिना । यथा यागस्य क्षणभङ्गुरस्यफलपर्यन्तं व्यापारशून्यस्य कथं स्वर्गसाधनत्वमित्याक्षेपे स्वर्गसाधनत्वप्रतिपादनबलादेव तत्पर्यन्तस्थायिव्यापरावत्त्वमपि कल्प्यत इत्युच्यते, एवमिति वदन्ति । तत्रैवेति व्याख्येयं पदम् ।

( नदृष्टेरितिश्रुत्यर्थः )

आगन्तुकत्वाद् गुणत्वाच्चेति । आगन्तुकचैतन्यगुणयोगितया चेति । भाष्ये आगन्तुकगुणशब्दौ भावप्रधानौ; चैत- न्यपदं धम्र्युपस्थापकम् । ततश्च चैतन्यस्यागन्तुकत्वगुणत्वयोगितयेत्यर्थः पर्यवस्यतीति भावः । आगन्तुकचैतन्यगुणयोगितया ज्ञातुरज्ञानस्वरूपतामिति भाष्ये ज्ञातुरात्मनः पक्षत्वम्, अज्ञानस्वरूपत्वलक्षणजडत्वस्य साध्यत्वम्, "ज्ञोऽत एव' इति सूत्रे काणादाभिमतजडत्वसाधकत्वेनोपन्यसिष्यमाणस्यागन्तुकचैतन्यत्वस्य साधनत्वं च स्वरसतः प्रतीयते । तद्विहाय ज्ञानपक्षकाना-त्मत्वसाधकागन्तुकत्वगुणत्वरूपहेतुद्वयपरत्वं वाक्यशैलीविरुद्धमित्यपरितोषादाह - यद्वा चैतन्यं नाम विषयप्रकाश इति । स्व-तश्चैतन्यस्वभावस्यागन्तुकचैतन्यत्वं न संभवतीति भावः । जीवात्मानं प्रतिषिध्य सर्वभूतात्मानं परमात्मानमेवोपास्स्वेति भाष्ये जीवात्मा प्रतिषिध्येति प्रतिषेधक्रियायाः श्रुतिकर्तृकत्वादुपासनस्य च जीवकर्तृकत्वात् समानकर्तृकत्वाभावात् कत्वाप्रत्य-

यानुपपत्तिमाशङ्कय श्रुतिकर्तृकोक्तिक्रियावाचिपदाध्याहारेण व्याचष्टे-दृष्टिश्रुतिमतिनिदिध्यासनानामिति । अस्मिन् पक्षे उपा-स्स्वेत्ययमर्थ उक्तो भवतीत्येव युक्तम्; वाक्यपदमयुक्तमित्यस्वरसादाह-यद्वा अभिदधातीत्यनुषङ्ग इति । इति वाक्यार्थ इति वाक्यान्तरमिति । "उपास्स्वेत्यभिदधादीति वाक्यार्थ' इत्यत्र इतिशब्दः संनिहितं न अभिदधातीत्यर्थं परामृशति, अपि तूपा-स्स्वेत्येतदंशमिति भावः । इतिशब्दस्य विप्रकृष्टपरत्वमदृष्यमित्यपरितोषादाह-यद्वा प्रतिषिध्य परित्यज्येति ।

( आनन्दश्रुत्यर्थः )

भाष्ये-ज्ञानमेव ह्रनुकूलमानन्द इत्युच्यत इति । अत्र एवकारेण प्रतिकूलज्ञानस्यानन्दत्वं व्यवच्छिद्यते; न तु विषयस्यापि । अतो विभूत्यानन्दत्ववादस्य न विरोध इति द्रष्टव्यम् । धर्मभूतानन्दस्य हीति । न त्वानन्दमात्रस्येत्यर्थः ।

( द्वैतनिषेधश्रुत्यर्थः )

ननु यदिदमुक्तमिति भाष्ये "यत्र हि' इत्यादिवाक्यखण्डः प्रथममुदाह्मतः । पूर्वपक्षोपन्यासवेलायां तु कृत्स्नं वाक्यं "मृत्योः स मृत्युमाप्नोति' इति वाक्यस्य पश्चादुदाह्मतम् । पूर्वपक्षोदाह्मतप्रकारं विहाय प्रकारान्तरेणोपादाने को हेतुरित्याशङ्कय परिहरति- यत्र हीत्यादिवाक्याभ्यामिति । पूर्वं भेदनिवृत्तिप्रतिपादनपरतया पश्चादुदाह्मतम् । इदानीं तु इवशब्दयुक्ततया भेदनिषेधप्रदर्शन-परतया, "नेह नानास्ति' इति भेदनिषेधकवाक्यखण्डेन सहोपादानमिति द्रष्टव्यम् । निषेधक्रियाऽऽवृक्तिरर्थ इति । बहुशः-बहुषु स्थलेष्वित्यर्थः । "बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्' इति कारके शसो विधानात् । अधिकरणस्यापि कारकत्वात् । ततश्चावृत्तिः फलितेति फलितार्थकथनम्; न प्रत्ययार्थतयेति द्रष्टव्यम् । बहुभवनभ्रमरूपमिति । सार्वज्ञ्यस्य पूर्वसिद्धत्वे हि पाश्चात्त्या भ्रान्ति-र्नोपपद्यते ; न हि ब्राहृणि बहुभवनभ्रमात् प्राक् सार्वज्ञ्यमस्ति, बहुभवनभ्रमस्यैव सार्वज्ञ्यरूपत्वात्, तस्य चाविद्याधीनत्वात् नावि-द्याविरोधित्वमिति भावः । अतो विरोधोऽभ्युपगन्तव्य इति । ततश्च न्यायानुगृहीतश्रुत्यन्तरसिद्धार्थविरुद्धं भेदनिषेधं "नेह ना-नास्ति' इत्यादिकं कथं प्रतिपादयेदित्यर्थः । ननु भेदनिषेधश्रुतीनां न्यायानुगृहीतविरुद्धश्रुत्यन्तरसद्भावेऽपि "मृत्योः स मृत्युमा- प्नोति' इति भेदज्ञानानर्थत्वप्रतिपादकोदाह्मतश्रुतौ "द्वैतिनोऽतथ्यदर्शिनः' इति स्मृत्यु बृंहितायां तादृशविरोधाभावान्न दोषइत्या-शङ्कयाह-इह च विरोधोऽवगम्यत इति । संसारहेतुत्वं श्रूयते; तत्रापि विरोधोऽवगम्यत इति योजना । ततश्च परस्परविरुद्धार्थ-प्रतिपादनस्य सर्वत्र साम्यात् न्यायानुगृहीत एवार्थ स्वीकर्तव्यः । भेदश्रुतिश्च न्यायानुगृहीता, अभेदश्रुतिस्तद्विरुद्धेति न्यायानु-गृहीतभेदश्रुतिविरुद्धार्थकथनमभेदश्रुतेनर् संभवतीति भावः । एतेन केवलं वाक्ययोः परस्परविरोध-मात्रप्रतिपादनं प्रकृतासंगतमिति शङ्का पराकृता, उक्तरीत्या प्रकृतासंगतत्वात् । उपास्तिफलभूतमुक्तिदशायामिति । अत्रोपास्ति-फलभूतत्वं परंपरया द्रष्टव्यम् । अत्र सामथ्र्याज्जगत इत्यध्याहार इति । ततश्चाध्याह्मतजगच्छब्दस्य न विशेष्यपर्यन्तत्वमिति भावः । कथं तदनत्वेन तदन्तर्या-मित्वसिद्धिरिति । ननु तदनमित्यनेनासिद्धावपि "अन्तः प्रविष्टः शास्ता जनानाम्' इत्यादिवाक्यान्तरेण तत् सिध्यतीति चेत्-न; अस्यैव वाक्यस्य तदर्थप्रतिपादनसामथ्र्यमस्तीति शिष्यशिक्षार्थतया तद्वाक्यार्थविचारोपपत्तेः । हेतुत्रय-शङ्कास्यादिति । तत्कार्य- त्वं च तदन्तर्यामिकत्वोपपाद्यम्, तदात्मकत्वं चैक्योपपादकम्; न तु तदन्तर्यामिकत्वमपि साक्षादैक्योपपादकमिति भावः । यद्यपि "जगतो ब्राहृकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात्' इत्युक्ते ब्राहृकार्यत्वतदन्तर्यामिकत्वयोस्तदात्मकत्वोपादकत्व-शङ्काप्रसङ्गेन विरुद्धमिति कार्यत्वं (मतिकारित्वं?) पक्षद्वयसाधारणम्-तथापि विद्यमानस्य निर्वाहमात्र-प्रदर्शनपरत्वात् तद्योज- नाया अपि वक्ष्यमाणत्वेनेष्टत्वाच्च न दोष इति द्रष्टव्यम् । ऐक्य शब्दस्यार्थभेदः स्यादिति । सकृत्प्रयुक्तपद-स्यार्थद्वयपरत्वम्, विना वृत्त्या न लभ्यत इति भावः । ततश्च जगतस्तदात्मकत्वेनेति । सकृत्प्रयुक्तस्यैकस्मिन्नेवार्थे समाश्रयणीये, अमुख्यस्य प्रकार्यैक्यस्य स्वीकर्तुमयुक्ततया अभेदरूपार्थस्य समाश्रयणीयत्वे सति जगतस्तदात्मकत्वेनैक्यादिति वक्तुमयुक्तमेव, जगद्रब्राहृणोरभेदस्य बाधितत्वादिति भावः । ततश्च-जगतस्तदात्मकत्वेनैक्यादिति वक्तुमयुक्तमिति कथमुच्यते? तत्कायत्र्वेनैक्यादिति वकुमयुक्तमिति कुतो नोच्यते, विनिगमकाभावादिति शङ्का पराकृता । जगद्विशिष्टब्राहृपर इत्युक्तत्वादिति । अध्याह्मतनिष्कर्षकजगच्छब्दार्थे-नैक्यस्यान्वयानभ्युपगमादिति भावः । ऐकशब्दस्य च नार्थभेद इति । यद्यपि जगद्विशिष्टब्राहृपर इत्यनेनैवेयमपि शङ्का पराकृते-त्यैक्यप्रपञ्चनं वृथा, तथापि शिष्यशिक्षार्थमैक्यस्वरूपं विविच्य दर्शयतीति द्रष्टव्यम् । अवस्थाद्वयापन्नचिद-चिद्विशिष्टवस्त्वैक्य-मिति । स्थूलत्वसूक्षमत्वरूपावस्थाद्वयापन्नयोन्श्रिदचिद्विशिष्टवस्तुनोरैक्यमित्यर्थः । यथा रूपस्पर्शादीति । यथा रूपस्पर्शवि- शिष्टस्य पिण्डत्वावस्थापन्नस्य रूपस्पर्शविशिष्टेन घटत्वावस्थापन्नेन्नैक्यम्-अत्र घटगतरूपस्पर्शादिस्थाने चिद-चितौ, पिण्डत्व-घटत्वादिस्थाने अवस्थाद्वयापन्नेत्युक्तम् । इयांस्तु विशेषः-ब्राहृणि चिदचिद्द्वारा अवस्थायोगित्वम्; घटादिस्थले तु (न?)

रूपस्पर्शादिद्वारिकावस्थेति द्रष्टव्यम् । अत्र च बालत्वयुवत्वावस्थाद्वयापन्नशरीरविशिष्टवस्त्वैक्यमनुरूपो दृष्टान्तः । अत एव वक्ष्यति "स एवायं तरुणोऽभूत्' इति । यद्वा अवस्थाद्वयापन्नत्वं चिदचितोर्विशेषणम् । भिन्नकालीनावस्थारूपसद्वारकविशेषणाश्र-यधम्र्यैक्यमिति वक्ष्यमाणग्रन्थस्वारस्यादिति द्रष्टव्म् । वस्त्वैक्यहानिरिति । विशिष्टवस्त्वैक्यहानिरित्यर्थः । नन्वस्यां योजनायां निष्कृष्टजगद्वाचिजगच्छब्दोऽध्याहर्तव्यः ; ब्राहृशब्दस्य च तज्जत्वतल्लत्वहेतुके तदभेदे साध्ये सूक्ष्मचिदचिद्वि-शिष्टपरामर्शित्वं वक्त-व्यम् । सर्वमिदं स्थूलशरीरकं तज्जत्वतल्लत्वाभ्यां सूक्ष्मशरीरकं ब्राहृेत्यर्थस्याश्रयणीयत्वात् । तदनत्वे तु हेतौ ब्राहृशब्दो ब्राहृत्वविशि-ष्टपरः; विशिष्टस्यान्तर्यामित्यात् । अतो ब्राहृशब्दवैरूप्यम् । तज्जलानित्यत्रैकस्यैव तच्छब्दस्य जन्मलययोः सूक्ष्मचिदचिद्विशिष्ट-परामशि#ॅत्वम् । अनेन तु ब्राहृत्वविशिष्टविशेष्टमात्रपरामर्शित्वम् । "सर्वं खल्विदं ब्राहृ' इति जगद्विशिष्टस्य ब्राहृाभेद प्रतिज्ञाय विशे-षणभूते जगति तदनत्वलक्षण तदन्तर्यामित्वरूपहेतूपन्यासे हेतोर्वैयधिकरण्यम्, ब्राहृकार्यतया तदन्तर्यामिकतया चेति चशब्देन ब्राहृकार्यत्वतदन्तर्यामिकत्वयोस्तदात्मकत्वोपपादनत्वं च स्वरसतः प्रतीयते इत्येतत्सर्वं ह्मदि निधायाह -यद्वा कृत्स्नस्य जगत इति निष्कर्षकः शब्द इति । नन्वस्मिन् पक्षे भाष्ये तत्कार्यत्वमात्रं विवक्षितम्? उत तदुपादेयत्वम्? नाद्यः, कार्यत्वमात्रस्यापृथ-क्सिद्धत्वरूपतदात्मकत्वाप्रयोजकत्वात् । इतरथा घटस्य दण्डापृथक्सिद्धत्वरूपतदात्मकत्वप्रसङ्गात् । ब्राहृोपा-देयत्वं तु जगतो नास्त्येव, तद्भिन्नत्वात् । उपादानोपादेययोरभेदावश्यंभावात् । किंच तदुपादेयत्वं मुख्यैक्यसाधकं लोके दृष्टम् । तदन्तर्यामिकत्वं तु अमुख्यैक्यसाधकम् । अतः कथं द्वयोरेकस्मिन्नैक्ये समुच्चयेन साधकत्वमिति चेत्, उच्यते- उपादेयत्वमेवापृथक्सिद्धत्वरूपत-दात्मकत्वसाधकम् । न चोपादानोपादेययोरभेदात् उपादेयत्वं कथमपृथक्सिद्धत्वसाधकं स्यादिति वाच्यम्, मृद्धटयोरभेदेऽप्य-पृथक्सिद्धि संभवात् पृथक्सिद्धयभावमात्रस्य अभेदेऽप्यविरुद्धत्वात् । न च जगतो ब्राहृभिन्नस्य कथमुपादेयत्वमिति वाच्यम् , भाव्यवस्थायोगि ह्रुपादेयम्, पूर्वावस्थायोगि ह्रुपादानमित्यभ्युपगम्यते, भाव्यवस्थावत्त्वं च जगतोऽप्यस्ति; तद्द्वारा ब्राहृणो- प्यस्ति । अतो द्वयोरपि पूर्वावस्थावत्सूक्ष्मजगद्विशिष्टब्राहृापेक्षयोपादेयत्वम् । ननु जगतोऽप्युक्तरीत्या पूर्वावस्थात्त्वात् उत्तराव-स्थायोगि ब्राहृ प्रत्यप्युपादानत्वप्रसङ्ग इति चेत्, तस्योपादानत्वे प्रमाणाभावात् । न च पूर्वावस्थायोगित्वादन्यस्योपादानत्वस्या-भावात् कथं नातिप्रसङ्ग इति वाच्यम् , तदतिरिक्तधर्मविशेषस्य तल्लक्षणत्वात् । उपादानमित्यभियुक्तव्यवहारविषयत्वमेवोपादा-नत्वमित्येवंरूपस्य लक्षणस्य संभवात् । नन्वस्मिन् पक्षे "सर्वं खल्विदं ब्राहृ' इति वाक्ये ब्राहृशब्दस्य ब्राहृापृथक्सिद्धे लक्षणाप्रसङ्गः । सर्वस्यापि जगतो ब्राहृोपादेयत्वात् ब्राहृान्तर्यामिकत्वाच्च ब्राहृ पृथक्सिद्धमित्यर्थस्याश्रयणीयत्वादिति चेत्, इष्टापत्तिरिति भावः । विशिष्टान्तभार्व एवैक्यमित्यर्थ इति । ततश्च तदात्मकत्वेनैक्यादिति भाष्ये तृतीयार्थो न विवक्षितः । तदात्मकत्वप्रयोज्यस्यै क्यान्तरस्याभावात्, तदात्मकत्वमेवैक्यमित्यर्थः इति भाष्याभिप्राय इति भावः । अत्र केचित्-यथा ज्ञानाकारस्वरूपतया सर्व-जीवानामैक्यम्, एवं चिदचिद्वस्तूनां ब्राहृणश्चैक्यमेकविशिष्टान्तर्गतत्वमित्यर्थः, "एकधैवानुद्रष्टव्यम्' इत्युत्तरत्र तथार्थविवरणादि- त्येव भाष्यार्थं वर्णयन्ति । नेह नानास्तीति प्रकरणे श्रूयते इति । कठवल्लयमपि "यदेवेह तदमुत्र यदमुत्र तदन्विह' इत्यैक्यविधि-शेषत्वमेव, "नेह नानास्ति' इति वाक्यस्येति द्रष्टव्यम् । केषुचिद्वाक्येषु तस्य कण्ठोक्तत्वादिति । भाष्यकृता केषुचिद्वाक्येषु समाभ्यधिकनिबेधस्य कण्ठोक्तत्वात् भाष्ये केषुचिद्वाक्येषु छागपशुन्यायस्य कण्ठोक्तत्वादिऽयर्थः । अत्र भेदनिषेधकतयोदाह्मत-वाक्यानां प्रकारिभेदनिषेधकत्वस्यैव प्रतिपिपादयिषितत्वात् तदुपपादकतया प्रकारभेदविधायकवाक्यमुदाह्मत्य तेन कार्यभेदप्रति-पादकवाक्यस्य प्रदर्शनं कर्तुमुचितम्; न तु कार्यभेदविधायकवाक्यमुदाह्मत्य तेन प्रकारभेदविधायकवाक्यप्रदर्शनमुचितमित्यपरि-तोषादुदाह्मतवाक्यस्यैवोभयविधभेदविधिपरत्वं दर्शयति - यद्वा छान्दोग्य इत्यादिना । इयं श्रुतिरिति । अत्र "इयम्' इति व्याख्येयं पदम् । स्वनिष्ठो द्रष्टेति । स्वनिष्ठत्वेन मन्यमानो द्रष्टा स्वनिष्ठत्वेन मन्यमानेनकरणेन स्वनिष्ठत्वेन मन्यमानं कर्म पश्यतीत्यर्थः । कर्तृकरणकर्मसु स्वनिष्ठत्वभ्रमो भवतीति पर्यवसितोऽर्थः । हेत्वन्तरमाह - अस्येत्युक्तेरिति । पुरुषविशेषं प्रत्यात्मत्वमिति वक्तु-मशक्यत्वात् साक्षात्काराभिप्राया एवः "अभूत्' इति शब्द भावः । स्वनिष्ठं किंचिदपि नास्तीत्यर्थ इति । कुत्राधि स्वनिष्ठत्वभ्रमो नास्तीत्यर्थः ।

अदितिः पाशानिति न्यायादिति । "अदितिः पाशान् प्रमुमोक्तु' इत्यत्र बहुवचनप्रतिपादितमपि बहुत्वं न विवक्षितम् । एवम् "अस्मिन्' (एतस्मिन्) इति विभक्तिविकारसूचितं पुनपुसकान्यतरत्वमपि न विवक्षितमित्यर्थः । तथाप्यस्वारस्यमवर्ज-नीयममिति । अत एव हि दशमे, "बार्हस्पत्यं ग्रहं गृह्णाति' इत्यत्र प्राकृतग्रहानुवादेन देवताविधाने तेषां बहुत्वादेकवचनमयुक्त- मिति उद्देश्यगतत्वेनाविवक्षायामप्यभिधानबाधोऽवर्जनीय इत्युक्तम् । किंच "प्रास्मा अÏग्न भरते' इति मन्त्रस्य सारस्वत्यामेवेष्टयं

प्रातिपदिकार्थभूतलिङ्गविरोधादप्रवृत्तिरिति नवमे स्थापितत्वाच्चेति भावः । तथाप्यस्वारस्यमिति चेदिति । समभिव्याह्मतपदाप्रति-पन्नत्वादिति भावः । अभयहेतुप्रतियोगित्वादिति । पूर्ववाक्येऽभयहेतुतया यदुपन्यस्तं तद्विरुद्धस्यैव भयहेतुत्वेन प्रदर्शनौचित्या- दिति भावः । पूर्वसिद्धैक्येति । "विद्लृ लाभे' इति धातोरेव शविकरणपठितादस्य रूपस्य संभवात् । "विद ज्ञाने' इत्यस्यावग-त्यर्थस्य लुप्तवकरणपठिततया परस्मैपदितया चास्य रूपस्यासंभवत् । न च लाभार्थत्वेऽप्यैक्यमिदानीं लभत इति वक्तुं शक्यमिति शङ्कयम्, ऐक्यस्य पूर्वसिद्धत्वादिति भावः । प्रतियोगित्वाबधित्वेति । साहित्यप्रतियोगित्वविवक्षायां "घटेन सह भेदः' इति तृतीया; अवधित्वविवक्षायां "घटाद्भेद' इति पञ्जमी संबबन्धविवक्षायां "घटस्य भेदः' इति षष्ठीति भावः ।

( पुराणघट्टः )

अथप्रतिपादनार्थमिति । पूर्वेणान्वयः ।

"यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।

असंमूढः स मत्र्येषु सर्वपापैः प्रमुच्यते ।।'

इत्ययं श्लोको दशमेऽध्याये । "मत्स्थानि सवर्भूतानि' इत्यारभ्य सार्धश्लोको नवमेऽध्याये । "अहं कृत्स्नस्य जगतः' इति सार्ध- श्लोकः सप्तमेऽध्याये ।

"अथवा बहुनोक्तेन किं ज्ञानेन तवार्जुन ।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।।'

इति श्लोको दशमे ।

"द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।।

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाह्मतः ।

यो लोकत्रयमाविश्य बिभत्र्यव्यय ईश्वरः ।।

यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।

यो मामेवसंमूढो जानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सवर्भावेन भारत ।।

इति गुह्रतमं शास्त्रमिदमुक्तं मयानघ ।

एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ।।'

इति पञ्चदशेध्याये । अकर्मवश्य इति । इदमकर्मवश्यत्वं परमत्वं चाक्षरशब्दनिर्दिष्टे मुक्तशरीरके भगवति मुक्तद्वारा अन्वेति, "महानुदारः' इत्यादौ महत्वस्र्योदार्यद्वारान्वयदर्शनात् । न च पारम्यस्वाराज्ययोः साक्षाद्भगवत्यन्वयसंभवे सद्वारकान्वयो न युक्त इति वाच्यम्, ब्राहृत्वादीनां, सद्वारकान्वयवत् पारम्यस्वाराज्ययोरपि प्रायपाठात् सद्वारकान्वयस्यैव वक्तव्ययता संनिहिताक्षरशब्द-निर्दिष्टमुक्तस्यैव द्वारत्वौचित्यादिति भावः । यद्वा अस्मिन् प्रकरणे ब्राहृादिशब्दा न परमात्मपर्यन्ताः, अपितु भगवद्वाचितच्छब्द एव लक्षणयानच्छरीरपरः । ततश्च परमः स्वाराडक्षरोमुक्तः । स एव तच्छरीरभूत एवेत्यर्थः । पत्यन्तरराहित्यविवक्षायामिति । भगवतो विश्वपतित्वे कथितो तस्यापि पन्यन्तरमाशङ्कय, "आत्मेश्वरम्' इत्यनेन पत्यन्तरं निषिध्यते । अतः पतीश्वरशब्दयोः तुल्यार्थत्व- मिति भावः । समासमादुथ्वं न संशयितव्य (समासासाधुत्वमशङ्कनीय)मिति । उतमश्चासौ पुरुषश्चेति सामानाधिकरण्यवि-वक्षायाम् "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः' इति समासे उत्तमपुरुष इति रूपप्रसङ्गात् । "यतश्च निर्धारणम्' "पञ्चमी विभक्ते' इति षष्ठीपञ्चमीसप्तमीपक्षेषु "पञ्चमी भयेन' इत्यादौ उत्तमशब्दाभावात् पञ्चमीसमासाप्रसङ्गात्, षष्ठीसमासस्य "न निर्धारणे' इति निषेधात्, सप्तमीसमासस्य च लक्षणाभावात् साधुत्वसंशय इति भावः । आप्ततमत्वाच्चेति । "सप्तमी' इति योगविभागात् समासो भविष्यतीति भावः । सामानाधिकरण्यविवक्षायामेवेति । "सन्महत्परमोत्तम्' इति सूत्रेण समासे हि उत्तमशब्दस्य समासशास्त्रे

प्रथमानिर्दिष्टत्वात् "प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्युपसर्जनसंज्ञायाम् "उपसर्जनं पूर्वम्' इत्युत्तमशब्दस्य पूर्वनिपातः स्यात् । "पञ्चमी' इति वा "सप्तमी' इति वा योगविभागेन समासाश्रयणे पञ्चम्यन्तस्य सप्तम्यन्तस्य वा पुरुषपदस्यैव प्रथमानिर्दिष्टत्वेनो-पसर्जनत्वात् पूर्वनिपातावश्यंभावादिति भावः ।

"स सर्वभूतप्रकृतिम्' इत्यारभ्य पञ्चश्लोकी षष्ठांशपञ्चमाध्यायसमाप्तौ पठिता । "शुद्धे महाविभूत्याख्ये' इत्यारभ्य सप्त- श्लोकी तस्मिन्नैवाध्याये "स सर्वभूतप्रकृतिम्' इत्यतः प्राक् पठिता । "समस्ताः शक्तयः' इत्यारभ्य त्रिश्लोकी षष्ठांशे सतमाध्याये केशिध्वजं प्रति खाण्डिक्यवचनम् । "एवंप्रकारम्' इति श्लोकः प्रथमांशसमाप्तौ । "परः पराणाम्' इत्यारभ्य पञ्चश्लोकी पुराणादौ पठ¬ते । "प्रकृतिर्या मयाख्याता' इति श्लोकद्वयं षष्ठांशे चतुर्थाध्याये प्रतिसंचरणप्रकरणे । "द्वे रूपे' इत्यारभ्य सार्धश्लोकद्वयं प्रथ-मांशसमाप्तौ । "विष्णुशक्तिः परा प्रोक्ता' इत्यारभ्य श्लोकत्रयं षष्ठांशे सप्तमाध्याये खाण्डिक्यवाक्यम् । "प्रधानं च पुमांश्चैव' इत्या-रभ्य "पुरुषात्मनः' इत्यन्तं द्वितीयांशे सप्तमाध्याये । "तदेतदक्षयं नित्यम्' इत्येतत् प्रथमांशसमाप्तौ ।

सर्वावरणपदे कर्मधारयमभिप्रेत्य व्याचष्टे - तत्सर्वमतीतं येनेति । आवरणशब्दस्य विषयसापेक्षत्वात् षष्ठीसमाप्ततया व्याचष्टे - यद्वा सर्वविषयज्ञानावरणमिति । ज्ञानमात्रे संकोचो न युक्त इति व्याचष्टे - ज्ञानशक्तयादिति । समस्तकल्याणत्वं गुणः स्वभावो यस्येति । अत्र बहुव्रीहिगर्भबहुव्रीहिमनाश्रित्य कल्याणत्वरूपो गुणः कल्याणगुणः, स आत्मा स्वभावो यस्येत्या-श्रयणेऽप्ययमर्थः सिध्यत्येवेति वदन्ति । अभिप्रायविशेषेणेति । गुणेभ्योऽपि दिव्यविग्रहस्यात्यन्ताभिमतत्वाभिप्रायेणेत्यर्थः । अभिमत्यर्हत्वमिति । अनुरूपत्वमित्यर्थः । अहार्थे निष्ठेति । "कृत्यल्युटो बहुलम्' इति बहुलग्रहणादिति भावः । अभिमत-स्याननुरूपत्वमिति । अत्राभिमतशब्दः इच्छागृहीतार्थकः, अनुरूपत्वमभिमतशब्दार्थ इति प्रागेवोक्तत्वात् । केचितु इच्छागृही-तपदस्यानुरूपत्वमर्थः, तथात्व एव ग्रन्थस्वारस्यमिति वर्णयन्ति । तत्तु न सम्यगिव, इच्छागृहीतपदस्यानुरूपत्वार्थकत्वाश्रयणा-पेक्षया अभिमत्यर्हशब्दस्यानुरूपत्वार्थाश्रयणस्य युक्तत्वात् । नित्येच्छाया इति । ततश्च नित्यविग्रहस्यापि नित्येच्छागृहीतत्वं सिद्धमिति भावः । ननु "ज्ञानबलैश्वर्य' इति निर्देष्टव्ये "तेजोबलैश्वर्य' इति निर्देशः कथमित्यत आह-नात्र क्रमविवक्षेति । सवर्-गुणसाधारणाविति । ननु "महाबुद्धिर्महावीर्यः' इत्यादौ प्रत्येकं महत्त्वेन विशेषणादस्तु सर्वत्र महत्त्वम्; तथापि नानेन वाक्येन सर्वगुणसाधारण्यं सिध्यति, महच्छब्दात् प्राङ् निर्दिष्टेषु तेजोबलैश्वर्येषु महत्त्वान्वयोपायासंभवादिति चेत् - न; न्यायसाम्येन सिद्धिरस्तीत्यत्र तात्पर्यात् । अविद्याऽस्मितेति । अस्मिताउअस्मित्वम् अहन्त्वम् । अनात्मन्यहन्त्वबुद्धिरिति यावत् ।

श्लोकोपात्तयोः रूपस्वरूपशब्दयोरर्थमाह - रूपं शरीरं, स्वरूपं स्वासाधारणमिति । सर्वं विन्दतीति वा सर्ववेत्तेति । अत्र "विदिर् लाभे' इत्यस्य सेट्त्वेऽपि इडभावश्छान्दस इति द्रष्टव्यम् । नित्यमुक्तविषयानेकरूपज्ञानाद्वयावृत्तिरिति । अनेक-नित्यमुक्तविषयकज्ञानाद्वयावृत्तिरित्यर्थः । यद्वा अज्ञानं ज्ञानाभाव इति । न चेतरज्ज्ञानं कथं ज्ञानाभावः स्यादिति वाच्यम्, सिद्धान्ते भावस्या भावरूपत्वे विरोधाभावात् । ज्ञानविशेषणत्वे वाक्यद्वयमिति । ब्राहृविशेषणत्वपक्षे येन ज्ञानेनास्तदोष-त्वादिविशिष्टं वस्तु संज्ञायते संदृश्यते गाम्यते वा तदेव ज्ञानम्, अन्यत्त्वज्ञानमित्येकवाक्यत्वमेव । ज्ञानविशेषणत्वपक्षे तु येन ज्ञानेन परमात्मा ज्ञायते संदृश्यते गम्यते वा, तज्ज्ञानमस्तदोषत्वादिविशिष्टम्; तदेव ज्ञानमिति वाक्यद्वयं स्यात्, इतरथा तच्छब्दद्वयवैयथ्र्यप्रसङ्गात् । न च "तदेव शुक्रं तद्ब्राहृ तदेवामृतमुच्यते' इतिवत् स्यादिति वाच्यम् - तत्राप्यगत्या वाक्यभेद-स्याभ्युपगन्तव्यत्वादिति भावः । अशब्दगोचरस्येत्यादिके पूवश्र्लोके इति ।

"अशब्दगोचरस्यापि तस्य वै ब्राहृणो द्विज ।

पूजायां भगवच्छब्दः क्रियते ह्रुपचारतः ।।'

इति श्लोक इत्यर्थः । औपचारिक इत्युक्तमिति । ननु

"श्रुतिवाक्योदितं ब्राहृ तद्विष्णोः परमं पदम् ।

तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।।

वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ।।'

इति तत्पूर्वश्लोके परमात्मन एव प्रस्तुततया, "अशब्दगोचरस्यापि' इत्यत्र श्लोके तच्छब्दः कथं मुक्तात्मानं परामृशेत् इति चेत्; सत्यम्,

"तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।

शब्दोऽयं नोपचारेण ह्रन्यत्र ह्रुपचारतः ।।'

इति परमात्मनि भगवच्छब्दस्यौपचारिकत्वासंभवात् पूर्वोत्तरवाक्ययोः परमात्मनो भगवच्छब्दमुख्यार्थत्वप्रतिपादनविरोधाच्च तच्छब्दस्याप्रस्तुतमुक्तपरामशित्र्वं वक्तव्यमिति भावः । प्रत्ययविशेषयुक्तस्य भरतेः स्वामिनि रूढत्वमिति । तृचूप्रत्ययविशेष-युक्तस्येत्यर्थः । भरतेः स्वामिनि रूढत्वमित्यत्र भरतेरित्येतदुपलक्षणम्; बिभर्तेर्वेत्यपि द्रष्टव्यम् । धातुमात्रस्येति । यद्यपि डप्रत्यययुक्तस्य च इत्यस्यैव स्वामिवाचित्वम्, न तु प्रत्ययविनिर्मुक्तस्य - तथापि तृच्प्रत्ययरहितस्यापीत्यत्र तात्पर्यम् । अथवा डप्रत्ययस्य साधुत्वमात्रार्थत्वमेव । अत एव "भकारोऽथद्र्वयान्वितः' "गकारार्थः' इत्युक्तमिति द्रष्टव्यम् । प्रवृत्तिनिमित्ते निष्कृष्यो-च्येते इति । अयमर्थः - अत्र भशब्दस्य संभर्तृत्वभर्तृत्वे द्वे अपि प्रवृत्तिनिमित्ततापर्याप्त्यधिकरणे, अतः अर्थद्वयान्वित इत्युक्तम् । गकारे तु नेतृत्वादीनां न प्रत्येकं पर्याप्त्यधिकरणत्वम्, अपितु मिलितानामेव । यथा कृतिसाध्यत्वेष्टसाधनत्वबलवदनिष्टाजन-कत्वानां मिलितानां विध्यर्थत्वम् । अत एव "गकारार्थः' इत्येकवचनोक्तिरिति । केचित्तु संभर्तृत्वरूपप्रवृत्तिनिमित्ते आश्रयान्निष्कृष्य इतिकरणेनोच्यते । ते च द्वे इति कृत्वा अर्थद्वयान्वितः इत्युक्तम् । गकारस्थले इतिकरणाभावेन प्रवृत्तिनिमित्तस्याश्रयान्निष्कर्षा-भावात् प्रवृत्तिनिमित्ताश्रयस्यैव ग्रहणे तस्यैकत्वात् "गकारार्थः' इत्युक्तिरिति भाव इत्याहुः । धातुलीनत्वादिति । यदि सोपसर्गा-णामेव क्रियावाचित्वम्, तर्हि सोपसर्गाणां भ्वादिषु पाठभावात् धातुसंज्ञानभावप्रसङ्गात् क्वचिदुपसर्गमन्तरेणापि तदर्थावगमाच्च धातुरेवानेकार्थाभिधायी; प्रादयस्तु प्रकरणादिवद्विशेषस्मृतिहेतवो द्योतकाः । द्योतकापेक्षा च शब्दशक्तिस्वाभाव्यात् क्वचिदेव । यथा-हरिशब्दो भेकादावेव प्रकरणादिसापेक्ष इति भावः । उद्गमयिता गमयिता संगमयितेति । इदं च सृष्टिस्थितिलयक्रमेणोपात्तम्, न तु "नेता' इत्यादिश्लोकक्रमेणेति द्रष्टव्यम् । नेतेत्यनेन गमयितृशब्दार्थ उक्त इति । रक्षकत्वमुक्तमित्यर्थः । "अधिभूर्नायको नेता' इत्यादो रक्षकत्वस्यैव प्रतीतेरिति भावः । गमयिता इत्यस्य समित्युपसर्गमन्तरेणैव संहारर्थप्रकाशकत्वप्रकारं दर्शयति-यद्वा कार-णभूतमिति । केचित्तु-स्त्रष्टेत्यस्य स्त्रष्टृत्वमर्थः । गमयितेत्यस्य गमयितृत्वरूपं रक्षकत्वमर्थः । न तयोर्विवादः । नेतेत्यस्य तु द्विकर्म-कत्वात् कारणभूतं स्वात्मानं कार्यवर्गं नेतेति संहर्तृत्वमुच्यते । यद्वा एतस्यापि नेतृशब्दार्थप्रदर्शकत्वमेवेति वदन्ति । उत्पतिं प्रलयं चैवेत्यादि श्लोकस्येति ।

"उत्पतिं्त प्रलयं चैव भूतानामागतिं गतिम् ।

वेत्ति विद्यामविद्यां च सा वाच्यो भगवानिति ।।'

इति श्लोकस्येत्यर्थः ।

कथं चिन्तयितु शक्यत्वमित्यत्राहेति । नन्वस्याः "समस्तशक्ति रूपाणि' इति श्लोकेन कथं परिहार इति चेत्, अत्र केचित्-देवादिसजातीयरामकृष्णादिविग्रहसजातीयतया सर्वशक्तयाश्रयपरविग्रहस्य चिन्त्यत्वं संभवतीति श्लोकाभिप्राय इति । केचित्तु-रामकृष्णाद्यवतारस्यैव योगयुकचिन्त्यत्वम्, योगयुक्तस्य परविग्रहश्चिन्त्योऽस्त्विति मन्यन्ते । केचित्तु-परविग्रहस्य समस्तशक्तित्वसर्वविग्रहकारणत्वप्रतिपादनप्रवृत्तत्वेनैतच्छङ्कानिवर्तकत्वाभावादियगवतारिका चिन्तनीयेति मन्यन्ते । लीलायाः पश्चाद्भावित्वेन प्रयोजनत्वे (नत्वात्) कथं हेतुत्वमित्याशङ्कयाह-तदभिसन्धिर्हेतुरिति । लीलाशब्दस्तदभिसन्धिलक्षक इति भावः । किं प्रयोजनमित्यत्राहेति । लीलामात्रस्य प्रयोजनत्वे असमञ्जन्यायप्रसङ्गात् लीलामात्रं न प्रयोजनं भवितुमर्हतीति भावः । परमात्मन्यतिदिशन्तं श्लोकमिति । "ननु देवदत्तो गुणशून्यः, तद्वदेव यज्ञदत्तोऽपि' इत्युक्ते यज्ञदत्ते मानान्तरावगतस्यान्नदातृत्वा-दिगुणविशेषस्यापि देवदत्ते सिद्धयदर्शनात् परमात्मनि मानान्तरसिद्धस्य धर्मान्तरस्य मुक्तात्मन्यापादने किं प्रमाणम्? तथा हि सति वैकृतवैशेषिकधर्माणामपि प्रकृतौ प्राप्तिप्रसङ्गात् । किंच "तद्भावभावमापन्नः' इत्यदीनां मुक्तात्मनि कण्ठरवेण परमात्म-साधम्र्यप्रतिपादकानां प्राकरणिकानामेव वचनानामुपन्याससंभवे परमात्मसाम्याक्षेपकस्य परमात्मनि मुक्तधर्मातिदेशकवचनस्यो-पन्यासः शिरोवेष्टनेन नासिकाग्रहणन्यायमनुसरतीति चेत्-न; असति बाधकेऽस्यापि न्याय्यत्वात् "देवदत्त इव यज्ञदत्तः पुत्रवान्' इत्युक्त्वा, "यज्ञदत्तस्य चत्वारः पुत्राः' इत्युक्ते देवदत्तस्यापि तावन्तः पुत्रा इति प्रतीतेरनुभवसिद्धत्वादिति भावः । केचित्तु-भाष्ये "एवंप्रकारम्' इति श्लोकोपन्यासः समस्तहेयराहित्यप्रमाणविवक्षयैव कृतः । तथोदाह्मतवचनार्थानुक्रमणभाष्ये, "परं ब्राहृ स्वभावतो निरस्तनिखिलदोषगन्धम्' इत्यादि वक्ष्यति । न तु "प्रत्यस्तमितभेदम्' इत्यस्यार्थकथनार्थम् । "यो मामजमनादिं च' इत्यारभ्य, "परमार्थिकमेवेति ज्ञायते' इत्यन्तस्य भाष्यसंदर्भस्य सामान्यतः स्मृतिपुराणप्रतिपाद्यार्थविशेषनिर्णयमात्रार्थप्रवृत्तत्वेन "प्रत्यस्त-मितभेदम्' इति श्लोकविशेषार्थनिर्णयमात्रप्रवृत्तत्वाभावात्, विशिष्य तेषां वचनानामन्यथाकरणस्य पूर्वात्तरपर्यालोचनयोत्तरत्र करिष्यमाणत्वादिति वदन्ति । सविशेषपरत्वं दर्शितं भवतीति । नित्यत्वव्यापकत्वादीनां प्रतिपादनादस्य श्लोकस्य सविशेष-

परत्वमिति भावः । उपसंहारस्य बुद्धिस्थत्वादिति । "समस्ताः शक्तयश्चैताः' इत्यादीनां योगोपसंहारगतत्वेनोपसंहारसाम्येन तस्यैव बुद्धिस्थत्वादित्यर्थः । निव्र्थापारमनाख्येयमित्यादिनेति ।

"निव्र्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् ।

आत्मसंबोधविषयं सत्तामात्रमलक्षणम् ।।

प्रशन्तमनसं शुद्धं दुर्विभाव्यमवस्थितम् ।

विष्णोज्र्ञानमयस्योक्तं तज्ज्ञानं परमं पदम् ।।

तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् ।

संसारकर्षणादेते यान्ति निबीजतां द्विज ।।

एवंप्रकारममलं नित्यं व्यापकमक्षयम् ।

समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ।।'

इति श्लोकक्रमः । एवं भगवति मुक्तगुणातिदेशः कृत इति । ननु "निव्र्यापारम्' इत्यादिकमपि परमात्मस्वरूपपरमेवास्तु । "एवं-प्रकारम्' इत्यपि नातिदेशकम् । अपितूक्तोपसंहाररूपमेवास्तु । न च पूर्वत्र "विष्णोः परमं पदम्' इति व्यतिरेकप्रतीतेः "एवंप्रकारम्' इति श्लोके, "विष्ण्वाख्यं परमं पदम्' इति प्रतिपादनात् भेदोऽवश्यं वक्तव्य इति वाच्यम्-"विष्णोः परमं पदम्' इत्यत्र पदशब्दस्य स्वरूपपरत्वेन घटस्य स्वरूपमितिवदुपपत्तेः । अन्यथा -

"श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ।

तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।।',

"तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।'

इत्यादावगतेः । न च पूर्वश्लोकस्यापि ब्राहृविषयत्वे, "एवंप्रकारममलं नित्यं व्यापकमक्षयम्' इति व्यापकत्वादिकीर्तनवैयथ्र्यम्, व्यापकत्वादीनां "व्याप्तिमात्रमनूपमम्' इत्यादिनोक्तेरिति वाच्यम्-तस्योभाभ्यां समाधेयत्वात् । अत एव "प्रत्यस्तमितभेदम्' इत्य-स्यापि न मुक्तपरत्वम् । तत्र हि प्रकरणे वेदान्तवेद्यस्यादित्यवर्णस्य मूर्तस्य शुभाश्रयत्वमुच्यते । तत्र च मूर्तस्यैव शुभाश्रयत्वं वदता दिव्यात्मस्वरूपस्यालम्बनत्वं हि प्रथमतः प्रतिक्षेप्तव्यम्, न तु जीवस्वरूपस्य । परमात्मनो ध्येयत्वे सिद्धे परमात्मनः परिशुद्धस्वरूपे ध्येयत्वचिन्ताऽवतरति । ततश्च तन्निराकरणमन्तरेण शुद्धजीवस्वरूपध्येयत्वनिराकरणेऽपेक्षितपरित्यागोऽनपेक्षितस्वीकारश्च स्या-दिति चेत्-न अस्याक्षेपस्य अद्वैतपर्यवसितत्वेन पार्थक्येन निरसनीयत्वासंभवात् । अद्वैतविषये च पूर्वाचार्यैरेव पराकृतत्वेन इदानीं निरसनीयांशाभावादुपरम्यते । पाठक्रमाधीनोपक्रमत्वं हि मुख्यं, न त्वर्थक्रमाधीनमित्यपरितोषादाह-यद्वा प्रथमांशोपक्रम इति । महावाक्यस्वारस्यविरोध इति । "प्राणस्तथानुगमात्' इत्यत्र महावाक्यविरुद्धप्रक्रमस्य दुबर्लत्वप्रतिपादनादिति भावः । तच्छेष-भूतस्तनुगुणार्थो वर्णनीय इतीति । मुख्याया अपि दीक्षणीयायाः प्रधानसोमयागविरोधात् न पर्वकालानुग्रह इति "अङ्गगुण- विरोधे च तादथ्र्यात्' इत्यत्र निर्णीतत्वादिति भावः । उपक्रमोपक्रमभूतेति । विधिशेषभूतस्याप्यर्थवादस्य प्रक्रमस्थत्वेन प्राबल्य-मित्युपक्रमाधिकरणे निर्णीतत्वादिति भावः । प्रश्नोत्तरवरलाभेति ।

"सोऽहमिछामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।

बभूव भूयश्च यथा महाभाग भविष्यति ।।',

"देवतापारमाथ्र्यं च यथावद्वेत्स्यते भवान् ।

प्रवृते च निवृत्ते च कर्मण्यस्त्वमला मतिः ।।'

इत्यादिना जगत्सृष्टितत्क्रमातत्प्रकारादिप्रश्नतदुत्तरग्रन्थनिर्माणानुगुणवरदानाद्यसंगतिप्रसङ्गात् । निर्विशेषविषयत्वे किमधिष्ठान- मिति प्रश्नः (प्रश्नस्य)निर्विशेषमधिष्ठानमित्येवोत्तरं स्यादिति भावः । तृतीयातत्पुरुषाश्रयणे आत्मशब्दस्य भावप्रधानत्वाश्रयणं क्लिष्टम् । संस्थितशब्दस्य विशिष्टत्वार्थाश्रयणं च क्लिष्टम् । सर्ववस्तुरूपविशेषणप्रतिपत्तिगौरवं चेत्यस्वरसादाह - यद्वा आत्मत्वेन

संस्थिततयेति । अत्रात्मसंस्थित इत्यस्य "आत्मनि संस्थितः' इति सप्तमीतत्पुरुषः । तदर्थोपपादकः "आत्मत्वेन संस्थिततया सर्वशरीरकत्वात्' इत्यंश इति द्रष्यव्यम् । सर्वपर्यवसानभूमिः स्वनिष्ठ इति छेदः । इति वस्त्वपरिच्छेद उक्त इति ग्रन्थ उक्त-पक्षद्वयशेषः । द्विविधो हि वस्त्वपरिच्छेदः, सर्ववस्तुसामानाधिकरण्यार्हत्वं, गुणैः समाभ्यधिकराहित्यं चेत्यभिप्रेत्याह - सर्व-वस्तुसामानाधिकरण्यार्हत्वमित्यादिना समत्वाभ्यधिकत्वासंभावदित्यन्तेन । देशकालापरिच्छेदयोः, "परः पराणां, परमा- त्मा' इत्येताभ्यां सिद्धत्वात् नित्यत्वविभुत्वव्यतिरिक्तगुणैरित्युक्तम् । पञ्चकल्पनान्वितत्वमिति । संज्ञाजातिगुणक्रियावयव-लक्षणपञ्चकल्पनान्वितत्वमित्यर्थः । शब्दवाच्यास्त एव विशेषणमिति । रूपवर्णादेनिर्र्देशो रूपवर्णादिनिर्देशः । षष्ठीतत्पुरुषः । ततो निर्देशविषयो विशेषणं निर्देशविशेषणमिति मध्यमपदलोपिसमास इति भावः । अस्मिन् पक्षे निर्देशविशेषणपदं व्यथर्म्, तेन विनैव तदर्थप्रतीतेरित्यस्वरसात् द्वन्द्वमभिप्रेत्याह - यद्वा रूपवर्णादितद्वाचिशब्दरूपैरिति । अनित्येषु रूपादिषु रूपादिमत्त्वाभा- वात् नानित्यत्वव्यापकं रूपादिमत्त्वमित्यस्वरसादाह-यद्वा अनित्यत्वव्याप्येति। जायते अस्तीत्यवस्थाद्वयमिति । अत्र केचित्-इतराणि हि वस्तूनि, "अस्ति जायते' इत्यादिभिः षड्भिः शब्दैव्र्यवह्यियन्ते । ब्राहृ तु "अस्ति' इति शब्देनैव सर्वदा व्यवह्यियते । न तु तद्वयतिरिक्तैः पञ्चभिरित्युक्तेरुचितत्वादवस्थाद्वयापरिग्रहेऽपि न दोष इति वदन्ति । औणादिकप्रत्ययस्येति । "अणादयो बहुलम्' इति बहुलग्रहणादिति भावः । निरचिनोदनन्तमिति । "सत्यं ज्ञानमनन्तं ब्राहृ' इत्यत्रानन्तमिति श्रुतिरित्यर्थः ।

परमात्मशब्दस्य क्वचिज्जीवेऽपि प्रयोगदर्शनादिति । "अभेदव्यापिनो वायोस्तथासौ परमात्मनः' इत्यादौ परमात्म- शब्दस्य क्वचिज्जीवेऽपि प्रयोगदर्शनात् । "प्रकृतिर्या मयाख्याता' इति श्लोकानुपन्यासेनैव "परमात्मा च सर्वेषामाधारः परमेश्वरः' इति श्लोकोक्तौ जीवस्यापि परिग्रहप्रसङ्गात् लयाधारस्य साक्षात्परमात्मन एव परमेश्वरत्वविष्णुनामत्वादिकं प्रतिपाद-नीयमित्यभिप्रेत्य लयाधारत्वं "प्रकृतिर्या मयाख्याता' इति पूर्वश्लोके वर्णितम् । ततश्च प्रकृतिपुरुषौ यस्मिन् परमात्मनि लीयेते, स परमात्मा सर्वाधारः परमेश्वरो विष्णुनामा वेदान्तप्रतिपाद्य इति श्लोकद्वयैकवाक्यतयेति भावः । एतेन "लीयेते' इत्यनेन कथं जीव-व्यावृत्तिरिति शङ्का निरस्ता । काठिन्यवान् यो विभर्तीतिवदिति । "काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने नमः' इत्यत्र परमात्मस्वरूपे भूमिद्वारा काठिन्यवदित्यर्थः । अर्हार्थे क्त इति । बहुलग्रहणादिति भावः । एतदस्वरसादेवाह-यद्वा बद्धस्य स्व-रूपेणेति । बद्धजातीयस्येत्यर्थः । असंकीर्णस्वभावत्वमुक्तमिति । परस्परासंकीर्णस्वभावाग्निज्योत्स्नादृष्टान्तबलेन दाष्र्टान्तिके- ऽपि तथा सिध्यतीति भावः । चिदचिदात्मकं जगदुच्यत इति । "गच्छति उ नश्यति' इति व्युत्पत्त्या जगच्छब्दस्य विनाशिमात्र-परत्वेन मुक्तपरत्वासंभवेऽपि तुल्यन्यायतया मुक्तस्यापि ग्रहणं सिध्यतीति भावः । ब्राहृशब्दानामेकप्रकारणस्थानामिति । "द्वे रूपे ब्राहृणस्तस्य', "परस्य ब्राहृणः शक्तिस्तथेदमखिलं जगत्' इत्यादीनां ब्राहृपरत्वात् "अक्षरं तत्परं ब्राहृ' इति परशब्दसामाना-धिकृतब्राहृशब्दस्य जीवेऽत्यन्तास्वारस्याच्चेति भावः । ननु क्षराक्षरशब्दाभ्यां कार्यकारणावस्थब्राहृपरामर्शे कार्यकारणभावाना-पन्नपरस्परभिन्नाग्निज्योत्स्नादृष्टान्तासंप्रतिपत्तिरित्याशङ्कयाह-जगतो ज्योत्स्नास्थानीयत्वं चेति । स चेति । व्यतिरेकनिर्देशस्वा-रस्यभङ्ग इत्यर्थः । ननु रूपशब्दः स्वरूपपरोऽस्तु; ब्राहृणो द्वे रूपे मूर्तामूर्ते इत्येवं किं न स्यात्? ततश्च न भावप्रधानत्वं विवक्ष- णीयम्, नापि षष्ठयस्वारस्यमित्याशङ्कयाह - भावप्रधानत्वाविवक्षायामिति । स्वरूपरूपगुणविभूत्यादिषु स्वरूपरूपशब्दयो-भैदेनोपात्तयोः स्वरूपशब्दास्वारस्यप्रसङ्गेन रूपशब्देन स्वरूपपरिग्रहासंभवात् भावप्रधानत्वमवश्यं विवक्षणीयम् । अतो मूर्तामूर्त-शब्दास्वारस्यमिति भावः । यद्युच्येत ब्राहृणो द्वे रूपे इति । ब्राहृणो द्वे रूपे सति प्रतिज्ञाय ब्राहृ मूर्तं चामूर्तं चेति कथिते मूर्तत्वा-मूर्तत्वे एव रूपे फलिष्यत इति भावः । धर्मिपर्यन्तक्षराक्षरेति । क्षराक्षरस्वरूपे ते मूर्तामूर्ते इति सामानाधिकरण्यं न स्यादित्यर्थः । अवस्थावद्वाचिजगच्छब्देति । "अक्षरं तत्परं ब्राहृ क्षरं सर्वमिदं जगत्' इत्यत्रावस्थावद्वाचिब्राहृजगच्छब्दयोः क्षराक्षरशब्द-सामानाधिकरण्यायोगाच्चेत्यर्थः । शक्तिशब्दस्य कार्यवाचित्वायोगाच्चेति कार्यावस्थब्राहृवाचित्वायोगाच्चेत्यर्थः । शक्तिशब्दस्य कार्यवाचित्वाभावेऽप्युपचारेण कार्यपरत्वमस्त्वित्यत आह-उपचारतोऽपीति । अपृथक्सिद्धकार्योपयोग्यद्रव्यविशेषः शक्तिशब्दस्य मुख्यार्थः । औपचारिकप्रयोगे तु कार्योपयोगिविशेषणत्वमात्रं निमित्तमित्यर्थः । केचित्तु-अत्र विशेषणपदमपृथक्सिद्धविशेषण- परम् । वाशब्दश्चाध्याहर्तव्यः । ततश्च कार्योपयोगि वा अपृथक्सिद्धविशेषणं वा शक्तिशब्देन व्यपदेशमर्हतीति व्याचक्षते । मुख्य-त्वमस्मन्मत इति । मुख्यकल्पत्वमित्यर्थः । अत एवोक्तं वेदान्तचार्यैन्र्यायसिद्धाञ्जने शक्तिनिरूपणे - "क्षेत्रज्ञाविद्यानां जगतश्च परब्राहृशक्तित्वव्यपदेशोऽपि गौण्या लक्षणया वा' इति भावनात्रित्रयान्वयकथनादिति ।

"ब्राहृाख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ।

सनन्दनादयो ब्राहृन् ब्राहृभावनया युताः ।।

कर्मभावनया चान्ये देवाद्याः स्थावरावराः ।

हिरण्यगर्भादिषु च ब्राहृकर्मात्मिका द्विधा ।।'

इत्युक्तप्रकारेण कर्मभावनाब्राहृभावनोभयभावनारूपभावनात्रित्रयम् । भावना वासना संस्कार इति (यावदिति) द्रष्टव्यम् । ब्राहृ-शब्दार्थवैरूप्यमिति । "तपसा चीयते ब्राहृ' इति मुण्डके, "यः सर्वज्ञः सवर्विद्यस्य ज्ञानमयं तपः । तस्मादेतद्व्रहृ नाम रूपमन्नं च जायते' इत्यत्र ब्राहृशब्दः प्रधाने प्रयुक्तः । तत्रैव प्रकरणे "तपसा चीयते ब्राहृ' इत्यत्र ब्राहृशब्दः परमात्मनि प्रयुक्तः । इदं च, "अदृश्यत्वादिगुणको धर्मोक्तेः', "स्याच्चैकस्य ब्राहृशब्दवत्' इत्यादौ स्पष्टम् । सर्वशरीरस्थत्वस्यैकस्मिन् जीवेऽसंभावात् जीव-मात्रपरत्वे जीवानां बहुत्वात् बहुवचनं प्राप्नोतीत्याशङ्कयाह-जातावेकवचनमिति । यथा "मनुष्यः सर्वदेशगः' इत्यादाविति द्रष्ट- व्यम् । तत्तारतम्यं चेति ।

"अप्राणिमत्सु स्वल्पा सा स्थावरेषु ततोऽधिका ।

सरीसृपेषु तेभ्योऽन्याप्यधिका च पतत्रिषु ।।

पतत्रिभ्यो मृगास्तेभ्यस्तच्छकत्या पशवोऽधिकाः ।

पशुभ्यो मनुजाश्चापि शकत्या पुंसः प्रभान्विताः ।।

तेभ्योऽपि नागगन्धर्वयक्षाद्या देवता नृप ।

शक्रः समस्तदेवेभ्यस्ततश्चापि प्रजापतिः ।।

हिरण्यगर्भश्च ततः पुंसः शकत्युपलक्षितः ।।'

इत्यादिनेत्यर्थः । तद्वयावृत्त्यर्थमिति । जातित्वनिबन्धनरूपत्वव्यावृत्त्यर्थमित्यर्थः । ननु "विष्णुशकत्या' इत्यत्र विष्णुरूपशकत्ये- त्यर्थः किं न स्यादित्याशङ्कयाह-अन्यथा शक्तिः सापीति । अत्रशब्दाथर्माह - कारणादीति । जगस्य कणिका इति । जलस्य कारणत्वं कणिकानां कार्यत्वमिति भावः । प्रथमव्याख्यानुसारेण दृष्टान्तं व्याख्याय द्वितीयव्याख्यानुसारेण व्याचष्टे - संयोग-कत्ववियोजकत्वयोर्वेति । अस्मिन् पक्षे सक्तमसक्तं च विभतिर्उसंयोज्य च वियोज्य च विभर्तीत्यर्थः । प्रधानपुरुषयोरात्मन इति । "प्रधानपुरुषात्मन' इति षष्ठयन्तमेतत् विष्णोरित्यस्य विशेषणं द्रष्टव्यम् । अध्याहारदोषादाह-यद्वा प्रधानशब्दानन्तर इति । "तदेव सर्वमेवैत'दित्यत्र तच्छब्दसामानाधिकरण्यमिति । यद्यपि व्याख्येयभाष्यक्रमानुरोधेन शरीररूपतन्वंशेत्यादिभाष्यं व्या-ख्यायैव तच्छब्दसामानाधिकरणेनेत्येतद्भाष्यं व्याख्यातुमुचितम्, तथाप्युदाह्मतपुराणवचनक्रमानुसारेण तच्छब्दसामानाधिकरण्यं व्याख्यातम् । भाष्यकारेण तु शरीरतन्वादिशब्दानां शरीरत्वसाधकस्फुटप्रमाणत्वादुदाह्मतपुराणवचनक्रममतिलङ्ध्य व्याख्यातमिति द्रष्टव्यम् ।

( परोदाह्मतपुराणवचनार्थः )

देवादिशरीरं चोपाधित्वेन प्रतीयत इति । जपाकुसुमादिवदात्मनिष्ठभेदादिधर्मासञ्जकत्वेनोपाधित्वम् । ननु मुक्ताना-मुपास्यत्वाभावादिति । मुक्तात्मान्तरस्य स्वाप्राप्यत्वाभावेन तस्य शुभाश्रयत्वस्य वा योगयुक्चित्तालम्बनत्वस्य वाऽप्रतिषेध्य- त्वात् उपासकस्वरूपस्य च कर्तृत्वादिबन्धाश्रयत्वस्याप्राप्यत्वेन शुभाश्रयत्वप्रसक्तेरेवाभावेन तत्प्रतिषेधेऽप्रसक्तप्रतिषेधत्वापातादयं श्लोकः परमात्मस्वरूपस्यैव योगयुङ्गमन आलम्बनत्वप्रतिषेधकः किं न स्यादित्याशङ्कय मुक्तावाविर्भविष्यतः स्वरूपस्य प्राप्यत्वेनोपा-स्यत्वप्रसक्तिसद्भावात्तस्योपासननिवृत्तयेऽयमुपदेश इत्याहेत्यर्थः । अनुसान्धानाणेपदेश इति निर्देशो "मशकेभ्यो धूमः' इतिवत् द्रष्टव्यः । तथाननुसन्धानायेति वा पाठः । केचित्तु-तथानुसन्धानाय । अनुपास्यत्वेनानुसन्धानायेत्यर्थ इति वदन्ति । अस्मिन् प्रकरणे इति व्याख्येयं पदम् । कथं विष्णोर्विग्रहैकदेश इति । विष्णोः शरीरतया विष्णुधार्यस्य तद्धारकत्वायोगादित्यर्थः । शक्ति-त्रित्रयसमावेशे एकैकस्या एव शक्तेः कृत्स्नविग्रहाश्रयत्वासंभवमभिप्रेत्य विग्रहैकदेशाश्रायत्वोक्तिः । यद्वा विग्रहरूपोऽयमेकदेशः परिच्छिन्नः तदाश्रित इत्यर्थः । ननु विष्णोः शक्तित्रयाश्रयभूतविग्रहासंभवेऽपि ब्राहृणस्तादृशो विग्रहः संभवेदिति शङ्कामपाकरोति - तदाश्रयभूतो विग्रह इति । परसंज्ञरूपगोचर इति । "तच्च विष्णोः परं रूपम्' इत्यादौ व्यतिरेकिनिर्देशेन पररूपस्य विष्णुभिन्नत्वा-

वगमात् परशक्तिशब्देन पररूपस्यैव निर्देशात् "विष्णुशक्तिः' इत्यत्र षष्ठीसमास एव युक्त इति भावः । विभज्यनिर्देशः कृत इति । विभज्यस्य निर्देशो विभज्यनिर्देशः, विभक्तव्यनिर्देश इत्यर्थः । द्वितीयान्तो विभागशब्दः कर्मणि घञन्त इत्यर्थः । अयं भावः-यद्यपि पूर्ववाक्ये "मूर्तामूर्तविभागेन' इत्यत्र विभागशब्दो न कर्मार्थकः, तथापि पूर्ववाक्ये विभागशब्देन विभजनस्य प्रस्तुतत्वात् तत्कर्मण इह द्वितीयान्तविभागशब्देन परामर्शे नानुपपत्तिरिति । केचित्तु ननु विभज्यनिर्देशः मूर्तामूर्तशब्देनैव क्रियताम् । किं विभागशब्देने-त्याशङ्कयाह - मूर्तामूर्तविभागेनेत्युक्तत्वादितीति वदन्ति । अपि तु शक्यत्वा-भिप्राय इति । "कृत्याश्च', "शकि लिङ् च' इति शक्यार्थे कृत्यप्रत्ययविधानात्, "न तद्योगयुजा शक्यम्' इति च प्रतिपादनादिति भावः । बहुव्यक्तिक्रोडीकारार्थमिति । सकलव्यक्तिक्रोडीकारार्थमित्यर्थः । "परशक्तिरूपम्' इत्यत्र रूपप्रतिसंबन्धितया परमात्म-प्रतीतौ विलम्बादाह-परशकत्यात्मकं वेति । मूर्ते भगवतो रूपे इति ।

"मूर्ते भगवतो रूपे सर्वापाश्रयनिस्पृहा ।

एषा वै धारणा प्रोक्ता यच्चितं तत्र धार्यते ।।'

इति वचनार्थ इत्यर्थः । अन्यत्रास्यानर्हत्वकथनमिति । श्लोकान्तरेऽस्यानर्हत्वकथनमित्यर्थः । प्रकरणसिद्धिमेवोपपादयति - अन्ये तु पुरुषव्याघ्रेत्यादिना । बद्धनामेव शुद्धिविरहः प्रतिपाद्यते, न मुक्तानामित्याशङ्कय सिंहावलोकितकेनाह - अन्ये त्विति ग्रन्थे- नेति । स्तम्बसमभिव्याहारादिति । ननु पर्यन्तपदवैयथ्र्यप्रसङ्गात् "स्तम्बपर्यन्ताः' इति वा "स्तम्बपर्यन्तम्' इति वा रूपप्रसङ्गेन "स्तम्बपर्यन्ताः' इति रूपासिद्धेश्च आङित्यस्य वाक्यस्मरणान्यतरार्थकत्वस्यैव युक्ततया "आङभिविधौ' इत्यस्यायुक्तत्वात् तत्सिद्धवत्कारेण स्तम्बसमभिव्याहारादित्युक्तिरयुक्तेति चेत्, उच्यते-आङित्यस्याभिविध्यर्थकत्वसंभवे गत्यभावकल्प्यस्य वाक्य-स्मरणार्थकत्वस्यायुक्तत्वात् आङित्यस्य ब्राहृशब्देन समासः । स्तम्बपर्यन्ता इति पृथक्पदम् । ततश्च समभिव्याह्मतस्तम्बपर्यन्तपदे स्तम्बस्याभिविधित्वदर्शनात् आब्राहृशब्देऽप्याङभिविधाविति भावः ।

भाष्ये-जगद्व्रहृणोः सामानाधिकरण्येनैक्यप्रतीतेरेति । "ज्योतीषि विष्णुः' इत्यादिना सर्वस्य जगतः सामानाधिकर-ण्येनैक्योपदेशादित्यर्थः । न शुक्तिकाशकलेन सामानाधिकरण्यं दृष्टमिति । "सर्व जगत् ब्राहृ' इतिवत् "सर्वं रजतं शुक्तिः' इत्युपदेशादर्शनादित्यर्थः । तथा सति निषेधवचनस्यापीति । यदि विधिवाक्यमपारमार्थिकं भेदं परमार्थिकत्वेन बोधयेत्, तर्हि निषेधवाक्यमपि वस्तुतः पारमार्थिकमेव भेदमपारमार्थिकत्वेन किमिति न प्रतिपादयेदित्यर्थः । न केवलमाकारद्वय इति । त्वया हि सामानाधिकरण्यं बाधसापेक्षमित्युच्यते, मया तु सामानाधिकरण्यस्य बाधसापेक्षत्वप्रतिषेधमात्रं न क्रियते, प्रत्युत बाधविरो-धित्वमपीत्युच्यते । अन्यरविरोधे सामानाधिकरण्यभङ्गप्रसङ्गादिति भावः ।

भाष्ये - जगञ्जन्मादिकारण ब्राहृेत्यवसिते सति इतिहासपुराणाभ्यामुपबृंहणं कार्यमित्ययमर्थः "इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्' इति वाक्येन ज्ञायत इति योजना । श्रुत्वोपबृंहणं कर्तव्यमिति "इतिहासपुराणाभ्याम्' इति श्लोकात् प्रतीयत इत्यर्थः । न चोपबृंहणं श्रवणानन्तर्यं नास्माद्वचनात् प्रतीयते, श्रुत्वोपबृंहयेदित्याद्यश्रवणात् "उपबृंहयेत्' इत्येतावत एव श्रवणा- दिति वाच्यम, उपबृंहणस्य श्रुतार्थविशदीकरणरूपत्वेनोपबृंहणे श्रवणानन्तर्यलाभात् । ततश्च, "अवसिते सत्यस्माद्वाक्यादुपबृंहणं कार्यमिति ज्ञायत इति कथमुच्यते? श्रवणात् प्रागप्यस्माद्वाक्यादर्थावगतिसंभवादिति शङ्का पराकृता । केचित्तु पूवस्र्माद्वाक्याद-र्थावगतिसंभवेऽप्यश्रुतवेदान्तस्य प्रवृत्त्यौपयिकोपबृंहणकर्तव्यताज्ञानस्यानुत्पत्तेः श्रवणानन्तरमेव प्रवृत्त्यौपयिकोपबृंहणकार्यता-प्रतीतिरुत्पद्यत इत्यर्थ इति मन्यन्ते । भारतादिप्रबन्धविशेषश्रवणायेति । ननु न्यायसिद्धानुवादित्वे कथमस्य वाक्यस्य भारता-दिप्रबन्धविशेषश्रवणप्रवर्तकत्वमिति चेत् - न; अनुवादकस्याप्यस्य वाक्यस्य "अक्षैर्मा दीव्यः कृषिमित् कृषस्व' इति वाक्यवत् स्वाभाविकप्रवृत्तिविषयविमुखीकरणद्वारेण प्रवृत्त्युपयोगाददोषात् । नन्वेवं तर्हीति । "मामयं प्रतरिष्यति' इति दृष्टार्थत्वप्रति-पादनमनुपपन्नमिति शङ्कार्थः । ततश्च दृष्टादृष्टरूपोभयविधप्रतिक्षेपकत्वं विरुद्धमिति न मन्तव्यम् । "किं ते कृष्वन्ति कीकटेषु गावः' इत्यादेरयमर्थः- हे मघवन् कीकटदेशेषु ते गावः किं कुर्वन्ति, न कचिदप्युपकारं कुर्वन्तीत्यर्थः । तदेवोपपादयति - आशिरंउप्रवग्यार्थं पयः न दुहन्ति, घम्र्यं प्रवग्र्यार्थं घृतं न तापयन्ति, धर्मोपयुक्तं क्षीरं न प्रयच्छन्ति तद्देशस्थानां नास्तिकत्वात् । प्रमगन्दस्य कीकटाधिपतेः राज्ञः वेदः धनं नैचाशाखं नीचाशखिनगरस्थम् आभर रन्धय वर्धय-इति । अयमर्थः द्राक् प्रतीयते । अत्र प्रमगन्दनामकराजवृत्तान्तप्रतिपादने नित्यायाः श्रुतेरनित्यार्थप्रतिपादकत्वेनाप्रामाण्यप्रसङ्गात् प्रमगन्दशब्देन प्रकृष्टं धमं मामागमिष्यतीति प्रमगन्द इति व्युत्पत्त्या वार्धुषिकः प्रतिपाद्यते । नैचाशाखशब्देन षण्डसंबन्धिधनं प्रतिपाद्यते । एवं च सति

बार्धुषिकादीनां प्रवाहतो नित्यत्वात् नानित्यार्थसंयोगविरोधः । तथैव "अहल्यायै जार' इत्यत्रापि अह्नि लीयते इत्यहल्या रात्रिः, तस्या जारो जरणहेतुः सूर्यः इत्यादिरेवार्थः । अतो नानित्यार्थसंयोगविरोधः । एवं च सति शब्दसाम्यात् प्रमगन्दाहल्यादिवृत्तान्तः स्फुरतीति चेत्-सोऽविवक्षित एवेति मीमांसकानां स्थितिः । तद्वदेव वेदान्तभागेष्वपि नारायणपरब्राहृादिशब्दप्रतिपन्नार्थेषु देवता-विशेषादिष्वविवक्षितार्थत्वशङ्काव्युदासार्थमुपवृंहणं कार्यमिति प्रघट्टार्थः ।

"पढइ परासरसद्दं सोवि जुआ सरसकव्वदुल्ललिओ ।

अहृो कालस्स गई अहृेवि णिअ पइं गमिअ ।।'

छायाउ पठिति पराशरशब्दं सोऽपि युवा सरसकाव्युदर्ललितः ।

अहो कालस्य गतिः वयमपि निजं पतिं गमिताः ।।

इति पठ¬ते । इदं चासत्काव्यालापप्रवणस्योपपत्तेः कालविशेषे विष्णुपुराणपाठबद्धादरतामात्मनश्च स्वैरविहारनिवृतिं्त च स्मृत्वा विस्मितायाः कस्याश्चिद्वचनम् । अतोऽन्यार्थप्रवृत्तत्वमस्येति द्रष्टव्म् । ननु पराशरपुराणेऽपि पराशरशब्दशब्दो भवत्येव । तत्र चामूलाग्रं शिवपारम्यमेव प्रदश्र्य (दृश्य)त इति चेत् -न ; तस्मिन् विष्णुपुराण इव पराशरशब्दशब्दप्रसिद्धयभावेन श्लोकस्थ-पराशरशब्दशब्देन विष्णुपुराणस्यैव विवक्षितत्वादिति भावः ।

( विष्णुपुराणप्राशस्त्यम् )

अग्नेः शिवस्येति ।

"संकीर्णाः सात्त्विकाश्चैव राजसास्तामसास्तथा ।

कल्पाश्चतुर्विधाः प्रोक्ता ब्राहृणो दिवसाश्च ते ।।'

इति कल्पानामेव सात्त्विकादिविभागकथनात् "सात्त्विकेष्वथ कल्पेषु' इति दर्शनात् "तामसेषु, राजसेषु' इत्येतत्सर्वं कल्पविशे- षणम् । ततश्च तामसेषु कल्पेषु प्रकीतिर्तं ब्राहृणा अग्निशिवमाहात्म्यं, राजसेषु कल्पेषु ब्राहृणो माहात्म्यं प्रोक्तं विदुरित्यर्थः । यस्मिन् कल्पे तु इत्यस्यायमर्थः- उत्तरार्धे तस्य तस्येति श्रवणात् यस्य यस्यान्यादेः पुराणं माहात्म्यप्रतिपादकं यत् प्रोक्तं, तस्य माहात्म्यं माहात्म्यस्य प्रतिपादकं तदिति, तदिति पदमध्याहतव्र्यम्, पूर्वत्र यत्प्रोक्तमिति श्रवणात् । तस्य तस्य माहात्म्यप्रतिपादकं तत्पुराणम्, तत् तत्स्वरूपेण तस्य कल्पस्य स्वरूपमेव स्वरूपं यस्य; सात्त्विकत्वादिकं हि कल्पस्य स्वरूपम्; सत्त्वादिगुणप्रचुरेण ब्राहृणा वण्र्यत इति फलितार्थः । ततश्च तमःप्रचुरेण ब्राहृणा अग्निशिवमाहात्म्यं वण्र्यते, रजःप्रचुरेण ब्राहृमाहात्म्यं, सत्त्वप्रचुरेण विष्णुमाहात्म्यमिति फलितार्थ इति द्रष्टव्यम् । केचित्तु "यस्मिन् कल्पे तु यत्प्रोक्तम्' इत्यत्र यद्दैवतमधिकृत्य पुराणं प्रवृत्तम्, तस्य माहात्म्यं तत्स्वरूपेण वण्र्यत इत्यर्थ इति वदन्ति । अन्ये तु "तत्स्वरूपेण' इत्यत्र तदिति पृथक् पदम् । यस्म्#ि कल्पे यत्पुराणं प्रोक्तं तस्य तन्माहात्म्यं तस्य स्वरूपेण वण्र्यत इति योजना । एवं हि तस्य तस्येति षष्ठयन्तद्वयसाफल्यम् । तस्य च स्वरूपमसाधारणा- कारः सत्त्वरजस्तमांस्येव । ततश्च सत्त्वरजस्तमोभिर्वण्र्यत इत्यर्थ इति वदन्ति । ननु-

"तत्रस्ते कारणात्मानो जाताः साक्षान्महेश्वरात् ।

ब्राहृणा सर्गे हरिस्त्राणे रुद्रः संहरणे पुनः ।।

तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयार्थिनः ।

तपसा तोषयित्वा तु पितरं परमेश्वरम् ।।

कल्पान्तरेऽसृजद्व्रहृा विष्णुरुद्रौ जगन्मयः ।

कल्पान्तरे तथा विष्णुब्र्राहृरुद्रौ तथा हरः ।।

नानेन तेषामाधिक्यं न्यूनत्वं वा कथंचन ।

तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ।

तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्रति ।।'

इति पुराणवचनानुसारेण तत्तत्कल्पवर्तिपारमार्थिकवृत्तान्तप्रतिपादनमुखेन सकलपुराणप्रामाण्यप्रतिपादनपरमिदं वचनं किं न स्यात्? "तस्य तस्य तु माहात्म्यम्' इत्यत्र यस्मिन् कल्प इति पूर्वनिर्दिष्टकल्पपरामर्शस्योचिततया कल्पसंबन्धिमाहात्म्यमेव तत्स्वरूपेण तत्कल्पप्रवृत्तपुराणस्वरूपेण वण्यर्त इति वक्तुं शक्यत्वादिति चेत्-न; "त्रयस्ते कारणात्मनः' इति श्लोकस्य पूर्वैरनु-दाह्मतत्वेन प्रामाण्यस्य निश्चेतुमशक्यत्वात् । यस्मिन् कल्पे यत् पुराणं प्रोक्तम्, तस्य कल्पस्य माहात्म्यं तेन पुराणेन वण्र्यत इत्य- स्य विवक्षितत्वे तत्स्वरूपेण वण्र्यत इत्यस्यायुक्तत्वाच्च यथोक्त एवार्थः ।

अन्यथाज्ञानविपरीतज्ञानेति । अन्यथाज्ञानं धर्मान्यथाभावज्ञानम् । विपरीतज्ञानं धम्र्यन्तरज्ञानम् । केचित्तु इमे सं-सर्गारोपतादान्यारोपरूपे, धम्र्यंशे भ्रान्तेरभावादिति वदन्ति । सत्त्वं लघु प्रकाशकमिति । "गुरुवरणकमेव तमः' इत्यत्र एवकारः सर्वत्र संबध्यते, सत्त्वं लघु प्रकाशकमिष्टं साङ्खयाचार्यैः । उद्गमनहेतुः गौरवप्रतिद्वन्द्वी हि धर्मो लाघवम्, यतोऽग्नेरूध्र्वज्वलनम्, यतो वायोस्तिर्यग्गमनं च । तच्च लाघवं करणानां चक्षुरादीनां स्वस्वविषयप्रवृत्तौ हेतुः । अतः प्रकाशकं भवति । तद्धि सत्त्वं स्वयमक्रियत्वात् स्वकार्यं प्रति अवसीदति । तच्च रजसा उपष्टभ्यते प्रवत्यर्ते । अतः प्रवर्तकत्वद्रजः उपष्टम्भकम् । तत्र च हेतुश्च- लत्वं । यतः स्वयं चलस्वभावं भवति, अतश्चाचलं चलयद्रजः प्रवर्तकम् । तादृशं च रजो गुरुणा आवृण्वता च तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवत्र्यत इति "गुरु वरणकमेव तमः' इत्युच्यते । वरणकं नियमनहेतुरित्यर्थः । सत्त्वरजस्तमसां प्रकाशप्रवृत्तिनियमार्थत्वात्सत्त्वस्य प्रकाशकत्वम्, तमसश्च गुरुत्वेन करणमान्द्यहेतुत्वं च सिद्धमिति भावः । तस्मान्नास्य वचन- स्येति । वस्तुतस्तु सात्त्विके गारुडपुराणेऽस्य वचनस्योपलम्भादेतस्य तामसमात्स्यपुराणवचनस्य प्रामाण्यासिद्धावपि न क्षति- रिति द्रष्टव्म् । अनेन वचनेन सत्त्वादिमूलत्व इति । नन्वेवं द्वैताद्वैतग्राहिप्रमाणाविरोधेऽपि "जनै स्वकर्मास्तिमितात्मनिश्चयैः', "ततो हि शैलाब्धिधरादिभेदान्' इत्यादिप्रमाणानुसारात् द्वैतज्ञानस्य सर्वस्यापि दोषमूलत्वनिश्चयसंभवात् द्वैतग्राहिप्रत्यक्षस्या-द्वैतश्रुतिपरिपन्थित्वं न स्यादिति चेत्-न; तेषां वचनानां भेदेप्रत्यक्षादेर्दोषमूलत्वप्रतिपादकत्वस्याद्याप्यसिद्धेः । "न ह्रेतस्मादिति नेत्यन्यत्परमस्ति' इति । अस्यायमर्थः-"अथात आदेशो नेति नेति' इत्येवम्, इतिनेतिशब्दनिर्दिष्टादेतस्माद् ब्राहृणोऽन्यत्परं नास्तीति । कारणवाचिशिवादिशब्दानामिति । "यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः', "शिव एको ध्येयः' इत्यादीनाम् "आकाशादेव समुत्पद्यन्ते' इत्यादिवाक्यतुल्ययोगक्षेमत्वादिति भावः । दश साहस्त्रसंमितमिति । षट्साहस्त्रप्रति-पादकवचनविरोधस्तु वृत्तभेदादिना, आधिक्यमात्रपरतया वा, सङ्खयाया अविवक्षितत्वेन वा समाधेयः । आश्रितेत्यानृशंस्यत इति । स्वयमाश्रिता । (?) अतो रामस्य स्वस्यामनृशंसतेति सीतावचनादिति भावः । तत्रापि यतो यथेति पदयोरिति । "यतो यथा बभूव' इत्यत्रेव "यतो यथा भविष्यति' इत्यत्रापीत्यर्थः । प्रश्नान्तरव्यवधानेनेति । इदमुपलक्षणम्; "यतश्चैतच्चाराचरम्' इति चशब्दादीनामपीति द्रष्टव्यम् । आत्मतया हि व्याप्तिरिति । यद्यपि "यन्मयम्' इति मयडर्थप्राचुर्यबलेन व्यापकत्वमात्रं सिध्येत्, नात्मत्वम्, अथापि सृष्टिलयसमभिव्याहारात् स्थितिहेतोव्र्यापकस्यैव प्रष्टव्यतया आत्मत्वसिद्धिरिति भावः । ननु यस्य यथोत्प-त्तिस्थानत्वं तस्य तथा लयस्थानत्वं च सिद्धमिति लयस्थानतत्प्रकारप्रश्नावयुक्तावित्यत्राह-लयस्थानप्रश्न इति । सद्वारकत्वा-द्वारकत्वेति । सद्वारकत्वं सिद्धान्ते; अद्वारकत्वं यादवभास्करमतयोः; कार्यभ्रमनिवृत्तिरूपत्वं शंकरमत इति विभागो द्रष्टव्यः । स च कर्तृभेदशङ्कानिबन्धन इति । लोके उत्पादकसंहत्र्रोर्भेददर्शनादिति भावः । "यत्प्रमाणानि भूतानि' इत्यादिप्रश्नश्लोकानां भाष्ये कण्ठतोऽनुपादाने हेतुमाह-स्वरूपप्रश्नश्लोकद्वयमिति । स्थितिलययोरकर्मकत्वात् "स्थितिलयकर्मभूतम्' इत्युक्तिरसंगता स्यादित्याशङ्कयाह - स्थितिलयशब्दाभ्यां रक्षासंहारौ विवक्षिताविति । इदमिति पदं व्याचष्टे-सामानाधिकरण्यप्रतिपन्नमि- त्यर्थ इति । अत्र केचित्-"इदं च तादात्यम्' इति भाष्ये इदंशब्दस्य सामानाधिकरण्यपरत्वं युक्तम् । तादात्म्यशब्दश्च तत्प्रति-पादकसामानाधिकरण्यपर एव व्याख्यातुमुचितः । तदात्म्यप्रतिपादकं सामानाधिकरण्यं जगदन्तर्यामिणो जगच्छब्दार्थस्य तच्छब्दार्थस्य परमात्मनश्चैक्यनिबन्धनम्; न तु व्याप्यव्यापकयोर्जगद्व्रहृणौरैक्यनिबन्धनम् । "यन्मयम्' इति प्रश्नोत्तरत्वात् "जगच्च सः' इति सामानाधिकरण्यस्येति योजनैव स्वरसतः प्रतीयते । यदि च तादात्म्य शब्दः सामानाधिकरण्यप्रतिपन्नैक्यपरः, तदा "न तु व्याप्यव्यापकयोर्वस्त्वैक्यकृतम्' इति भाष्यस्यास्वारस्यम् । न हि तादात्म्यलक्षणस्यैक्यस्यैक्यनिबन्धनत्वशङ्कास्ति । अत-स्तादात्म्यशब्द एव सामानाधिकरण्यपरतया योजनीयः । टीकाया अपि तत्रैव तात्पर्यमिति वदन्ति । व्याप्तिमात्रेण तादात्म्यं न दृष्टमिति । "गमनं घटः' इति सामानाधिकरण्यं न दृष्टमित्यर्थः । न त्वैक्यमिति भ्रमितव्यम्, शरीरात्मनोरपि तादात्म्यलक्षणैक्या-भावादिति द्रष्टव्यम् । श्रुतिसिद्धत्वादिति भाव इति । व्याप्यत्वव्यापकत्वरूपविरुद्धधर्माध्यस्तयोरैक्यासंभवादिति भावः । ब्राहृा-

ज्ञानवादिनोऽभिमतमिति । यद्यपि विकारार्थत्वमप्यभिमतं, तथापि यत इत्यनेन सिद्धत्वादिदमेव तस्याभिमतमिति भावः । ननु त्वन्मतेऽपि मयटः प्राचुर्यार्थत्वाश्रयणमात्रेणात्मत्वपर्यन्तार्थालाभात् तत्कल्पने च प्रतिपत्तिगौरवात् मयटो निरर्थकत्वमविशि-ष्टमित्यत आह-श्रुतार्थस्वीकारेणेति । असाधारणं दूषणमाहेति । अर्थवत्त्वे संभवत्यानर्थक्याश्रयणमन्याय्यमित्यस्य भेदाभेद-वादिसाधारणत्वादिति भावः । ननु "विष्णुरेवेत्युत्तरमभविष्यत' इति भाष्यमयुक्तम् । किमत्र जगत्पदं न प्रयोक्तव्यमित्यभिप्रायः? उत एवकारः प्रयोक्तव्य इति? न प्रथमः, "जगत् किम्?' इति जगद्धर्मिकप्रश्ने उत्तरस्यापि जगद्धर्मिकस्यैवोचितत्वात् । नाप्ये-वकारप्रयोगः, "सर्वं वाक्यं सावधारणम्' इति न्यायेन सिद्धेः । किंच जगद्विष्णुरेवेत्युत्तरं चासंगतम् । न हि शुक्तिरेव रूप्यमि- त्युत्तरं क्वचिद् दृष्टचरमित्याशङ्कय मिथ्यैवेत्युत्तरमभविष्यत्, न तु विरुद्धाकारद्वयसामानाधिकरण्येनेति भाष्यतात्पर्यार्थं ह्मदि निधायाह-स्वार्थिकत्वपक्ष इत्यादिना । अन्यतराकारोपस्थापक इति । सत्यत्वमिथ्यात्वयोरन्यतराकारोपस्थापक इत्यर्थः विष्णुरित्यन्यतराकारोपस्थापकशब्द इति । "विष्णुरेव' इति भाष्ये विष्णुशब्दस्य न विष्णुत्वे तात्पर्यं, किंतु सत्यत्वमिथ्या-त्वयोरन्यतराकारे तात्पर्यमित्यर्थः । प्रभूतं प्रचुरमित्यर्थ इति । यद्यपि काशिकायाम्, "प्राचुर्येण प्रस्तुतं प्रकृतम्' इति व्याख्यातम् । तद्वयाख्यात्रा हारदत्तेनापि, "यद्यपि प्रस्तुतमात्रं वक्ति प्रकृतशब्दः-तथापीह वचनग्रहणादयं विशेषो लभ्यते । वचनग्रहणं हि या- दृस्य प्रकृतस्य लोके मयङ्वचनं प्रत्यासन्नं तत्र यथा स्यादित्येवमर्थम्' इत्युक्तम्-तथाप्यस्य ततोऽपि सुन्दरत्वादिदमेव ज्याय इति ध्येयम् । शङ्कते-यन्मयमित्यस्येति । आकारद्वयोपस्थापकसामानाधिकरण्यस्योत्तरत्वायोगादिति । यद्यपि "जग- न्मिथ्या' इत्याकारद्वयोपस्थापकसामानाधिकरण्यस्योत्तरत्वं संभवति-तथापि जगत् विष्णुरेवेति सामानाधिकुरण्यस्योत्तरत्वं न संभवतीत्यत्र तात्पर्यम् । न तु तस्य शरीरात्मभावनिबन्धनत्वायोगादिति । स्वार्थिकत्वमपास्तमिति पूर्वेणान्वयः । सामानाधि-करण्यस्य शरीरात्मभावनिबन्धनत्वायोगप्रसङ्गात् स्वार्थिकत्वं नापास्तम्, येन शरीरात्मभावनिबन्धनत्वस्याद्याप्यसिद्धत्वाद-न्योन्याश्रयः स्यादित्यर्थः । अर्थविरोध इति । जडाजडयोरैक्यविरोध इत्यर्थः । यन्मयमित्युक्तप्रश्नस्योत्तरत्वानुपपत्तिश्चेति । मयटोऽर्थवत्त्वाय विकारप्राचुर्ययोरेव प्रष्टुमुचितत्वादिति भावः । ननु न मयडवैयथ्र्यं, यन्मयमिति विकारप्रश्नसंभवादित्याशङ्कयाह- यत इत्युपादानस्य पृष्टत्वादिति । "निखिलहेयप्रत्यनीकता च बाध्येत', "सर्वाशुभास्पदं च ब्राहृ भवेत्' इत्यनयोः पौनरुक्तयं परिहरति-सत्यसंकल्पेत्यादिनेति । असंकोचादेकेनैव पदेनोभयदोषप्रसङ्गोक्तिसंभवादन्यथा पौनरुक्तयं परिहरति-यद्वोभय-लिङ्ककत्वहानिरित्यादिना । ननु "स्थापयिष्यते' इत्यर्थे कथं "स्थाप्यते' इत्यस्य साधुत्वमित्यत आह-अनन्तरभावित्वादिति । "वर्तमानसामीप्ये वर्तमानवद्वा' इत्यनुशासनादिति भावः । सप्तश्लोकी नमस्कारविषयामिति ।

"अविकाराय शुद्धाय नित्याय परमात्मने ।

सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ।।

नमो हिरण्यगर्भाय हरये शंकराय च ।

वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ।।

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।

अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ।।

सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।

मूलभूतो नमस्तस्मै विष्णवे परमात्मने ।।

आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।

प्रणम्य सर्वभूतस्थमनन्तं पुरुषोत्तमम् ।।

ज्ञानस्वरूमत्यन्तनिर्मलं परमार्थतः ।

तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ।।

विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे महाप्रभुम् ।

प्रणम्य जगतामीशमजमक्षरमव्ययम् ।।'

इति सप्तश्लोकी । विस्तररूपत्वं च सिद्धमित्यर्थ इति । "अतः' इत्यस्य "संग्रहेणोक्तं विस्तरेण वक्तुम्' इत्यनेन संनिहितेनैवान्वय इति भावः । विस्तररूपत्वं सिद्धमित्यर्थ इत्युक्तिस्तु अन्वयफलितार्थाभिप्रायेति द्रष्टव्यम् । बाह्रस्थितिप्रश्नस्य चेति । मातापित्रा-दिक्रियमाणस्थितिप्रश्नस्य चेत्यर्थः । कण्ठोक्तार्थस्येति । आत्मत्वस्येत्यर्थः । वक्ष्यमाणमहाविस्तरस्येति । अत्र प्रथनस्य शब्द-द्वारकत्वात् "प्रथने वावशब्दे' इति शब्दविषये घञः प्रतिषेधात् विस्तरेत्युक्तिः । ईक्षत्यानन्दमयेति । पूर्वार्धेन ईक्षत्यानन्दमयाधि-करणार्थभूतप्रकृतिजीववैलक्षण्यमुक्तम् । "सदैकरूपरूपाय' इत्यन्तरादित्याविद्यार्थ उक्त इति भावः । नृपनभोव्यावृत्तिरिति । विष्णुपदेन नृपव्यावृत्तिः, सवर्जिष्णुपदेन नभोव्यावृत्तिश्चेत्यर्थः । सर्वजिष्णुपदस्य नियन्तरिस्वारस्याभावाद्वयाप्तिबलादेव निय-मनस्यार्थसिद्धेश्च जिष्णुपदं व्याप्यगतदोषास्पृष्टत्वपरं व्याचष्टे-यद्वा विष्णुशब्देनैवेति । कथं विष्णोः कारणत्वमिति । यद्यपि "अविकाराय' इति श्लोके जगत्कारणत्वं नोक्तम्-तथापि "विष्णोः सकाशादुद्भूतम्' इति तत्पूर्वश्लोके कारणत्वस्येरितत्वात् तथोक्तमिति द्रष्टव्यम् । विष्ण्वाख्यावतारविग्रहद्वारेति । विग्रहविशेषद्वारेत्यर्थः । देवमनुष्यादिशब्दव्यपदेशवदिति । रामादिवि- ग्रहेषु सत्त्वादिगुणपरिणामविशेषभूतमनुष्यत्वाभावेऽपि मनुष्यसंस्थानसजातीयतया "रामो मनुष्यः' इति व्यपदेशवत् भगवच्छ-क्तिभूतजीवात्मभिः अत्मत्वेन सजातीयतयौपचारिकः शक्तिशब्दस्य व्यपदेश उपपद्यत इति भावः । केचित्तु-शक्तिशब्दस्यौप-चारिकत्वममृष्यन्तो देवादिशरीरकतया देवादिशब्दवाच्यत्ववत् शक्तिभूतजगच्छरीरके तस्मिन् शक्तिशब्दव्यपदेशो मुख्य इत्य- भिप्राय इति वर्णयन्ति । "एकानेकस्वरूपाय सूक्ष्मस्थूलात्मने नमः' इति वक्तव्ये "स्थूलसूक्ष्मात्मने नमः' इत्युक्तिरयुक्तेत्या- शङ्कयाह-धीस्थामिति । अनेकशब्दस्यात्यन्तसंनिहितत्वादिति भावः । अण्डान्तर्भूतसर्गादेरिति । "सर्गस्थित्यन्तकर्मणे' इत्यु-क्तत्वादित्यर्थः । अण्डबहिर्भूतेति । "विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे महाप्रभुम्' इति वक्ष्यमाणत्वादित्यर्थः । ननु "आधारभूतं विश्वस्य' इत्युत्तरश्लोको वा कालपरः किं न स्यादित्याशङ्कयाह - उत्तरश्लोकः समष्टिजीवपर इति । अवच्छेदकतया अवच्छे- द्यतया चेति । जगतः कालपरिच्छेद्यत्वात् कालस्यावच्छेदकत्वं निमेषादिभिः परिच्छिन्नत्वादवच्छेद्यत्वमप्यस्तीति भावः । भव- तीति भूतमिति । अकर्मकत्वात् कर्तरि क्त इत्यत्र तात्पर्यम्, न तु वर्तमानत्वेऽपीति द्रष्टव्यम् । क्षेत्रज्ञाव्यष्टिविशिष्टमिति । "ज्ञानस्वरूपम्' इति श्लोकस्यायमर्थः-ज्ञानस्वरूपम्उज्ञानस्वरूपजीवशरीरकमित्यर्थः । अत्यन्तनिर्मलत्वादिकं च जीवद्वारा विशेषणम् । यथा "महोदारः, महाप्राज्ञः' इत्यादौ महत्त्वस्यौदार्यज्ञानद्वारान्वः । न च साक्षादेवान्वयोऽस्त्विति वाच्यम्, परमा- त्मनि साक्षान्निर्मलत्वस्य "अविकाराय शुद्धाय' इत्यादिवाक्यप्रतिपन्नत्वात् सर्वज्ञे तस्मिन् भ्रान्तिदर्शनतः स्थितत्वस्य च साक्षाद संभवात् सद्वारक वक्तव्य इति ।

यदि निर्विशेषज्ञानस्वरूपब्राहृाधिष्ठानभ्रमप्रतिपादनपरं शास्त्रमिति भाष्ये शास्त्रपदस्य "ज्ञानस्वरूपम्' इति श्लोक-मात्रपरत्वमभिप्रेत्य तस्य परोक्तार्थपरत्वे उपसंहारविरोधप्रतिपादनपरतया यदीत्यादिभाष्यं व्याख्याय शास्त्रशब्दस्य एकश्लोक-मात्रपरत्वमनुचितमिति मत्वा प्रवर्तिष्यमाणप्रश्नोत्तरानुपपत्तिपरतया व्याचष्टे-यद्वा शास्त्रारम्भोपयोगीति । स्वयं निर्गुण इति छेदः । कर्मवश्यत्वकर्मसंबन्धार्हत्वयोः पर्यायत्वं परिहरति-अकर्मवश्यत्वं मुक्तस्यापीत्यादिना । ब्राहृण एव वस्तुत्वात् ब्राहृणः शक्तय इति निर्देष्टव्ये ब्राहृणो भावशक्तय इति निर्दशो न युक्त इत्याशङ्कयाह-निर्देशो ब्राहृतादात्म्यमिति निर्देशवदिति । ब्राहृा-त्मकमिति वक्तव्ये ब्राहृशब्दनिर्दिष्टस्य पुनरपि तच्छब्देन परामर्शवदित्यर्थः । तादात्म्यशब्दस्याभेदपरत्वात् ब्राहृतादात्म्यमित्यत्र नानुपपत्ति;, प्रकृते तु, "ब्राहृणो भावशक्तय' इत्युक्ते भावस्य ब्राहृण इत्यर्थो न लभ्यते, न हि घटस्य भावरूपमित्युक्ते भावस्य घटस्येत्यर्थो लभ्यते इति चेत्-सत्यम्, समासैकदेशस्य नान्यविशेषणत्वं, तथापि "शिवस्य भागवतः' इत्युक्ते शिवस्य भगवत्त्व-लाभवत् ब्राहृणो भावशक्तय इत्युक्ते अर्थात् ब्राहृण एव भावरूपत्वं पर्यवस्यतीति भावः । एतदस्वरसादेवाह-यद्वा ब्राहृणो भाव-शक्तय इति ।

अतत्पर्यन्तो मिथ्येत्यर्थ इति । त्वमेव स्वनिष्ठः । त्वदन्यः स्वनिष्ठो नास्तीत्यर्थः । ततश्च परमार्थशब्दः स्वनिष्ठपरः । परमःउउत्कृष्टोऽर्थः परमार्थः । स्वतन्त्र इति यावत् । व्याप्यत्वसहचरितं हीति । व्याप्यत्वविशेषितमित्यर्थः । शरीरलक्षण-द्योतकमिति । यस्य चेतनस्येत्युक्तशरीरलक्षणद्योतकमित्यर्थः । जगच्छरीरकेति संबुद्धिः । अतत्पर्यन्तस्येति । अतच्छरीरक- स्येत्यर्थः । परमार्थशब्दस्य परमप्रयोजनवचनसंभवे स्वनिष्ठवस्तुपरत्वमयुक्तमित्यस्वरसादाह-यद्वा एकशब्दः प्राधान्यपर इति । असहायपदव्यवच्छेद्यं हीति । नन्वन्यप्रधानासहायसंख्यासाधारणवाचिन एकशब्दस्यासहायपदव्यवच्छेद्यमर्थान्तरमपि संभवति,

न तु प्रधानत्वमेवेति कथमिदमसहायपदमेकशब्दस्य प्रधानार्थकत्वं ज्ञापयेदिति चेत्-न । "असहाये' इति विशेषणस्यार्थान्तरसंभव-मात्रसूचकत्वात् । "ष्णान्ता षट्' इति सूत्रे महाभाष्ये "एकशब्दोऽयं बह्वर्थः । अस्त्यसहायवाची-एकाग्नयः एकहलः इति । अस्ति संख्यार्थः-एकः द्वौ बहव इति । अस्त्यन्यार्थे वर्तते-प्रजामेका रक्षत्यूर्जमेका' इत्युक्तेः । "एके मुख्यान्यकेवलाः' इति निघण्टू- क्तेश्चेति भावः । भाष्ये "त्वदात्मकमेवेदं सर्वमिति त्वदन्यः कोऽपि नास्ति' इत्युक्तमयुक्तम्, तदात्मकस्यैव जगतस्तदन्यत्वादि-त्याशङ्कय शेषपूरणेन व्याचष्टे-त्वदन्योऽत्वदात्मक इति । अत्वदात्मकः । स्वनिष्ठ इत्यर्थः । ननु श्लोकार्धैकदेशश्चोक्तार्थोपपादक इत्याहेत्यवतारिका न युक्ता, "अत इदमुच्यते' इत्यादिभाष्येण श्लोकार्धैकदेशशब्दविवक्षितस्य महिमशब्दमात्रस्योपपादकत्वा-कथनात्, सर्वव्याप्तेरप्युपपादकतयोपन्यासादित्याशङ्कयाह-महिम्नो व्याप्तिरूपत्वादिति । सर्वमिथ्यात्वे सर्वव्याप्तिर्नोपपद्यत इति न भाष्याभिप्रायः । अपितु सर्वव्याप्तिर्वा भवतु; यकिंचिद्वयाप्तिर्वा भवतु; अन्यत् वा भवतु । न तस्य महिमत्वप्रतिपादन-मुचितमित्यत्रैव भाष्यसंरम्भ इति भावः । प्रयुक्तपदाविवक्षाकथनमस्वरसमित्याशङ्कयाह-यद्वा व्याप्तेरुक्तार्थोपपादकत्वमिति ।

भाष्ये-न केवलं वस्तुतस्त्वदात्मकं जगत् इत्यत ऊध्र्वं "तत्र' इति शब्दोऽध्याहर्तव्यः । ततश्च वस्तुतो यत् त्वदात्मकं जगत् तत्रेत्यर्थः । एतेन "वस्तुतस्त्वदात्मकं जगत्' इत्यस्यांशस्य भ्रान्तिदर्शनाकारप्रदर्शकत्वासंभवात् "वस्तुतस्त्वदात्मके जगति' "वस्तुतस्त्वदात्मकस्य जगतः' इति वा षष्ठीसप्तम्यन्यतरान्ततया निर्देश एवोचितः, नान्यथेति शङ्का पराकृता । मामेभ्यः परम-व्यममित्यत्रेति छेदः । नन्वपरोक्षस्य देहात्मभ्रमस्य शास्त्रजन्यज्ञानेव परोक्षेण बाधाभ्युपगमे द्वैतग्राहिप्रत्यक्षस्यापि शास्त्रजन्य- ज्ञानेन बाधः किं न स्यादिति शङ्काम्, सादृश्यादिरूपभ्रमहेत्वभावात् कथं देहात्मभ्रम इति शङ्कां च परिहरन् देहात्मभ्रममुपपादयति-देहात्मभ्रमश्च संसर्गकृत इति । यथा "जलमुष्णम्' इति प्रत्यक्षं तेजोद्रव्यसंपर्कात् दोषसाहित्यात् शङ्कितदोषं सत् जलस्य शैत्य-स्वभावत्वग्राहकशास्त्रेण बाध्यते इत्यर्थः । (भावः) । न चैवं ब्राहृप्रपञ्चयोरप्युपादानोपादेयभावेन परस्परसंसृष्टतया ब्राहृगतसत्त्व-प्रतीतिः प्रपञ्चे किं न स्याति वाच्यम्, ब्राहृसंसगस्र्यैव दोषत्वे अद्वैतशास्त्रमसदेव अप्रमाणमेव अव्यावहारिकमेव सत्त्वेन प्रमाण- त्वेन व्यावहारिकत्वेन च गृह्रत इति शङ्कितदोषतया तदपि न बाधकं स्यात् । किं च प्रपञ्चस्य सत्त्वाभावे ब्राहृसंसर्गस्याप्यसंभवेन तस्य दोषत्वाभावादित्यन्यत्र विस्तरः । अनुभवसाधनयोगयोग्येति भाष्यम् । अनुभवसाधने ध्यानयोगे योग्यानि परिशुद्धानि मनांसि येषां ते तथोक्ताः । योग्यतायां च परिशुद्धिर्हेतुः । परिशुद्धौ च कर्मयोगो हेतुरित्येवंपरतया व्याख्याययोगयोग्येत्यत्र तृती-यातत्पुरुषो विवक्षितः । योगशब्दश्च कर्मयोगपरः । योग्यतापरिशुद्धयोश्च भेदाभावात् पूर्ववत्तयोर्हेतुहेतुमद्भावश्च न विवक्षितः । योग्यपरिशुद्धेति व्यपदेशश्च "घटजननयोग्यदृढदण्डः' इतिवदुपपन्न इत्यभिप्रयन्नाह-योगेन योग्यता परिशुद्धिरिति वार्थ इति । अखिलजगच्छब्देनाचिद्रूपं जगद्विवक्षितमिति । अत्र केचित्-पूर्वश्लोक इव चिद्रूपजगद्विवक्षायामपि न दोषः । चिद्रूपं जगत् ज्ञानात्मकं पश्यन्तीत्युक्तेऽपि दोषाभावात् । यद्वा पूर्वश्लोकेऽपि जगच्छब्दोऽचित्पर एव । ततश्चार्थस्वरूपं जगत् देवमनुष्यादि- रूपं ज्ञानस्वरूपमात्मस्वरूपं पश्यन्तः देहात्मभ्रमवन्त इत्यर्थः । ततश्च जगच्छब्दद्वयस्यापि न वैरूप्यमित्यपि वदन्ति । प्रथम-श्लोकसंक्षिप्तमित्यादि । अयमर्थः-प्रथमश्लोकं संक्षिप्तं तच्छ-लोकमात्रविषयतयोक्तमनुक्तदूषणैः सह पौनरुकत्यार्थविरोधशास्त्रता-त्पर्यविरोधैः सह विस्तरेण सर्वश्लोकसाधारणतया आहेत्यर्थः । सर्वश्लोकसाधारणमित्येतत्तु विस्तरशब्दविवरणम् । न तु संक्षे-पविस्तरशब्दयोर्दूषणस्वरूपसंक्षेपविस्तरपरत्वम् । दूषणस्वरूपं हि प्रथमश्लोके त्वमित्यादिपदानां लक्षणा, महावराहस्य स्तुति-प्रकरणविरोध इति विस्तरेणोक्तम्; उत्तरत्र तु पदानां लक्षणा, प्रकरणविरोध इति संक्षेपेण । अतो यथोक्त एवार्थः । अवान्तर-प्रकरणेति । अवान्तरप्रकरणस्योपक्रमोपसंहारादिविरोध इत्यर्थः ।

( प्रकाराद्वैतप्रकार्यद्वतैविवेकः )

वक्ष्यमाणश्लोकस्थेति । "यद्यन्योऽस्ति परः कोऽपि' इति श्लोकस्यथान्यपरशब्दस्वभावाच्चेत्यर्थः । प्रकाराद्वैममेवेति । एकप्रकारकत्वमित्यर्थः । पुरोडाशविधिवदिति । अष्टकपालपुरोडाशद्रव्यकाग्निदेवताकयागवदित्यर्थः । पौर्णमास्यधिकरणे आग्नेयस्याष्टाकपालपुराडाशस्य विधेः प्रत्याख्यातत्वादिति द्रष्टव्यम् । प्रतिबन्धकाभावे सतीति । सुखादिप्रतिसंधानप्रतिबन्ध- काभावे सत्यपि सुखादिप्रतिसन्धानाभावो व्यवस्थेत्यर्थः । मयट् स्वार्थिक इति । "तस्यात्मपरदेहेषु' इति श्लोकस्यायमर्थः-सतो-ऽपीति "षष्ठो चानादरे' इत्यनादराधिक्ये भावलक्षणे द्योत्ये षष्ठो । आत्मपरदेहेषु सत्तामनादृत्य एकमयं समानमेकरूपं विज्ञा-नलक्षणमात्मस्वरूपमेव परमार्थो भवतीत्यर्थः । श्रीविष्णुचित्तार्यैस्तु "सतोऽपि ज्ञानम्' इति व्यतिरेकनिर्देशस्वारस्यात् ज्ञानशब्दो- ऽयं धर्मभूतज्ञानपरतया व्याख्यातः । मयट्स्वार्थिकत्वस्यास्वरसत्वादाह-यद्वा एकशब्दो भावप्रधान इति । ऐकाथ्र्यं दर्शितमिति ।

वचनयोरविरोधः प्रदर्शित इत्यर्थः । अविरोधप्रदर्शनप्रकारश्च, "प्रत्यस्तमितभेदम्' इति श्लोकभाष्यव्याख्यायां ग्रन्थकृता कृतो द्रष्टव्यः ।

एकवचनं नोपपद्यत इति । इदमुपलक्षणम् । "सतोऽप्येकमयम्' इत्येकवचनं नोपपद्यत इति द्रष्टव्यम् । देहशब्देऽप्येकवचनं स्या- दिति । ततश्च "तस्यात्मपरदेहेषु' इति बहुवचनं नोपपद्यत इति भावः ।

स्थानत्रय इति । "अन्यः परः' इत्येकं स्थानम् । "एषोऽहम्' इति द्वितीयम् । "अयं चान्यः' इति तृतीयम् । ननु-अहंत्व-तदन्यत्वाभ्यां वैषम्यं वक्तुं शक्यम् । न चाहंत्वमपि परमात्मन्यास्त इति वाच्यम्, तथा सति "अहं ब्राहृास्मि' इत्यादीनामहमर्थ-ब्राहृाभेदप्रत्यायकानां जीवब्राहृभेदप्रत्यायकत्वशङ्काया एवाभावेन तत्परिहाराय यत्नो न कर्तव्यः स्यात् । अहंशब्दस्यात्मशब्दा-परपर्यायतया आत्मत्वजातेः सकलजीवपरमात्मसाधारणतया अहंत्वमादीनामात्मत्वमात्रप्रवृत्तिनिमिकत्वेन "तत्त्वमसि', "अहं ब्राहृास्मि' इत्यादिवाक्यानां ब्राहृण आत्मत्वजात्याश्रयत्वप्रतिपादकत्वेन विरोधाप्रसक्तेस्तन्निराकरणाय यत्नोऽपि विफलः स्या-दित्यस्वरसादाह-पूर्वं देवादिष्विति । अन्यादृशाकार इत्युक्तमिति । "अयमेतदाकारः, अयमन्याकारः' इति निर्देष्टव्ये "अन्या-दृशाकारः' इत्युक्तेः आकारेऽपि सुसदृशत्वमात्रमेव, न त्वैक्यमस्तीति भावः ।

सर्वथा साम्याभ्युपगमे हीति । एकत्वाश्रयत्वेनापि साम्याभ्युपगम इत्यर्थः । भेदः षड्जादिसंज्ञित इति पाठे सत्यपीति । संज्ञाभेद इत्युक्ते यथैकस्य घटस्य घटकलशादिसंज्ञाभेदः, एवं षड्जादिसंज्ञाभेदमात्रमेव, न तु संज्ञिभेदोऽस्तीति न मन्तव्यम् । संज्ञाभेदाधीनत्वात् संज्ञिभेदस्य । "तदधीनत्वात्ताच्छब्द्यम्' इति न्यायेन भाष्ये संज्ञाभेदशब्देन संज्ञिभेद एवोपचर्यत इति भावः । ननु षड्जादिसंज्ञासंबन्धग्रहः केनचिदितरव्यावृत्ताकारेण गृहीत एव धर्मिणीति वक्तव्यम्; ततश्च संज्ञा भेदमन्तरेणापि भेद-काकारस्याभ्युपगन्तव्यत्वात् कथं तदेकभेदत्वमिति चेत्-सत्यम्; संज्ञासंबन्धो भेद्रप्रतीतौ प्रायेण हेतुरित्यत्र तात्पर्यात् । दाष्र्टा-न्तिकेऽपि तथैवेति । दृष्टान्ते भेदसिद्धेर्दाष्टान्तिकेऽपि तथैव भवत्वित्यर्थः । यत्र त्वाकाशदृष्टान्त इति । यथैकस्याकाशस्य काल- भेदेन रूपभेदवत्त्वम्, तथैकस्यैवात्मन कालभेदेन देवादिभेदवत्त्वमित्येतावानेवेह वक्तव्योऽर्थः । ततश्च कस्या व्यक्तेः पूर्वत्वम्, कस्या व्यक्तेः परत्वं, कुत्र व्यक्तावुपदेशः, कुत्र वातिदेश इत्यादिविचारे न सन्नद्धव्यमिति द्रष्टव्यम् । वेदान्तिभिर्नभसो निरव-यवत्ववाद इति । अत्र निरवयवत्वेन वादो निरवयवत्ववादः । तस्य च कर्म नभः; ततश्च "उभयप्राप्तौ' इति नियमात् कर्तरि तृतीयासंभवात् तृतीयाया नानुपपत्तिरिति द्रष्टव्यम् । नभस्यंशभेदाभिप्रायेणेति । न चैवं जीवानामप्याकाशवत् प्रदेशभेदमात्रत्वं स्यात्, तच्चात्मैक्यवादिनोऽपि संमतमेवेति वाच्यम्; सुखदुःखव्यवस्थाद्यनन्यथासिद्धभेदग्राहकप्रमाणेन भेदसिद्धेरित्यत्र तात्प- र्यात् । तत्रैव साम्यदृष्टान्ताभिधानादिति । न च "यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत्' इत्यत्र साम्यमात्रस्य प्रागपि सिद्धतया समानत्वमित्यस्यैक्यमेवार्थः समाश्रयणीय इति वाच्यम्, ऐक्यस्य बाधितत्वेन भेदकाकारविशेषप्रहाणेन साम्यविशेषस्यैव तदर्थ- त्वात् ।

अध्यायचतुष्टयोक्तमिति । द्वितीयांशत्रयोदशाध्यायप्रभृत्यध्यायचतुष्टयेनोक्तमित्यर्थः । अन्यथा तत्सामानाधिकरण्ये-नेत्यनन्तरोक्तिविरोधादिति । अन्यथाउज्ञानाकारमात्रपरामशित्र्व इत्यर्थः । तं भेदमोहमिति । देवाद्याकारहेतुकं भेदमोहमित्यर्थः । ननु "आत्मस्वरूपम्' इत्यस्यैवोपलक्ष्यवाचितया "सर्वमेतदात्मस्वरूपम्' इति सर्वशब्दस्योपादानं भाष्ये किमर्थमित्याशङ्कयाह- अहं त्वं सर्वमिति त्रयाणामपि पदानामित्यादिना । आत्मस्वरूपपदस्य श्लोकं सर्वशब्दमात्रेण सामानाधिकरण्यं दृश्यत; तत् कथमहंत्वंशब्दयोरात्मस्वरूपपदसामानाधिकरण्यमित्याशङ्कायामाह - अहंत्वमर्थसजातीयेति । अहत्वमर्थसजातीयार्थवाचि-सर्वशब्दस्यात्मस्वरूपशब्देन सामानाधिकरण्यदर्शनात् अहंत्वंशब्दयोरपि तत्सामानाधिकरण्यं फलितमिति ज्ञापनार्थं "सर्व-मेवैतदात्मस्वरूपम्' इति सर्वशब्दस्यापि सहोपादानं कृतं भाष्य इति भावः । अत्र सर्वशब्दस्याहंत्वमर्थवचनसामाथ्र्ये सत्यपि गोबलीवर्दन्यायमभिप्रेत्याहंत्वमर्थसजातीयवाचित्वोक्तिरिति द्रष्टव्यम् । इदं चोपलक्षणम् । परमते "सोऽहं स च त्वम्' इत्यत्रापि "सः' इत्यस्यात्मस्वरूपपरामर्शितयोपलक्ष्यसामानाधिकरण्यस्य परेणाभ्युपेतत्वादिति द्रष्टव्यम् । लक्षणयास्त्विति चेदिति । अहं-त्वमादिशब्दानामन्तःकरणविशिष्टात्मवाचिनां विशेष्यस्वरूपमात्रे लक्षणा; यथा "घटाकाश एव महाकाशः' इत्यत्रेति भावः । प्रक्रमस्थस्योपलक्ष्यपदस्योपलक्ष्यवाचिशब्दलक्षकत्वापेक्षयोपसंहारगतस्य "आत्मस्वरूपमित्यनेन' इत्यस्यात्मस्वरूपमित्युक्तेनार्थे-नेत्यर्थपरत्वं युक्तमित्यन्यथा व्याचष्टे-यद्वा अनेनेति पदमुपलक्ष्यविशेषणमिति । न तूपलक्ष्यवाचिपदविशेषणमिति भावः । नन्व- स्यां योजनायां "सर्वमेतदात्मस्वरूपम्' इत्यस्य स्थलनिर्देशप्रदर्शनोपक्षीणत्वात् अहंत्वंशब्दसामानाधिकरण्यहेतोः सर्वशब्द-सामानाधिकरण्यस्यानुक्तिरित्याशङ्कयाह - अस्यां योजनायामिति । यद्यपि पूर्वयोजनायामपि सर्वशब्दसामानाधिकरण्यप्रदर्शन-

मर्थसिद्धमेव, तथापि शब्दपरत्वे "सर्वमेतदात्मस्वरूपम्' इत्येतत् सर्वशब्दसामानाधिकरण्यप्रदर्शनपरं भवेत् । द्वितीययोजनायां तूपलक्ष्यनिर्देशस्थलप्रदर्शनमात्रपरमिति वैषम्यम् । द्वितीययोजनायाम् "अहंत्वमादिशब्दानाम्' इत्यत्राहंत्वमादयः शब्दा येषां त इति व्युत्पत्त्या अर्थपरत्वं द्रष्टव्यम्, शब्दस्यार्थसामानाधिकरण्यासंभवात् । ननूपलक्षणत्वेऽपि सामानाधिकरण्यं लक्षणया "घटा- काशो महाकाशः' "शाखाग्रं चन्द्रमाः' इत्यादिना द्रष्टमित्याशङ्कयाह-यद्यं त्वमादिशब्दा इति । तथापि "स ;चात्मस्वरूपम्' इत्यनेनैव सामानाधिकरण्यस्य सिद्धत्वात् अहंत्वमादिसामानाधिकरण्यं व्यर्थमित्यर्थः । सिद्धान्तेऽहमादिशब्दानां प्रयोजनमाह - अहंशब्दस्यापेक्षिकेति । प्रत्यकत्वमात्रस्य प्रवृत्तिनिमित्तत्वे सर्वेषां स्वात्मनां स्वात्मानं प्रति प्रत्यकत्वात् परामात्मन्यप्यहंशब्दप्रयो-गप्रसङ्ग इत्याशङ्कय प्रत्यकत्वस्य प्रवृत्तिनिमित्तत्वेऽपि स्वतन्त्रशब्दोच्चारयितृत्वमुपाधिरित्यभिप्रेत्याह -आपेक्षिकेति । प्रकृतेति । द्वितीयांशत्रयोदशाध्यायमारभ्य प्रस्तुतत्वादित्यर्थः । अयमस्य श्लोकस्यार्थः-अहमपि ज्ञानैकाकारः स आत्मा, त्वमपि तादृशः, सर्वमेतदात्मस्वरूपमपि ज्ञानैकाकारम् । अत आत्मसु देवाद्याकारेण भेदमोहं परित्यजेति ।

प्रथमं किमात्मस्वरूपैक्यपरमिति । मुक्तपरैक्यं पश्चाद् दूषयिष्यत इति प्रथमशब्दाभिप्रायः । द्वा सुपर्णाविति । सुपर्ण-साम्यात् सुपर्णौ । सयुजौ उ सर्वदा सह वर्तमानौ । सत्त्वं ह्रन्तःकरणमिति छेदः । येनेतीत्थंभावे तृतीयेति । उक्तयुक्तिबलात् दुर्बलाप्युपपदविभक्तिः सोढव्येति भावः । द्वावपि कर्तृविशेषाविति । "स्वतन्त्रः कत्र्ता', "तत्प्रयोजको हेतुश्च' इति द्वयोरपि कर्तृ-संज्ञाविधानादिति भावः । चशब्देनोक्तमिति । तथाच श्रुतिरित्यत्रेति भावः । तच्च तत्र सुस्पष्टम् ।

( मुक्तावप्यनैक्यम् )

निराकरणपरत्वाच्च प्रकरणस्येति ।

"धर्माय त्यज्यते किंनु परमार्थो धनं यदि ।

व्ययश्च क्रियते यस्मात् कामप्राप्त्युपलक्षणः ।। (2-14-17)

पुत्रश्चेत् परमार्थः स्यात् सोऽप्यन्यस्य नरेश्वर ।

परार्थभूतः सोऽन्यस्य परमार्थो हि तत्पिता ।।

एवं न परमार्थोऽस्ति जगत्यत्र नराधिष ।

परमार्थो हि कार्याणि कारणानामशेषतः ।।

राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ।

परमार्था भवन्त्यत्र न भवन्ति च वै ततः ।।

ॠग्यजु सामनिष्पाद्यं यज्ञकर्म मतं तव ।

परार्थभूतं तत्रापि श्रूयतां गदतो मम ।।

यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ।

तत् कारणानुगमनाज्जायते नृप मृन्मयम् ।।

एवं विनाशिभिद्र्रव्यैः समिदाज्यकुशादिभिः ।

निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ।।

अनाशी परमार्थस्तु प्राज्ञैरभ्युपगम्यते ।

तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम् ।।

तदेवाफलदं कर्म परमार्थो मतस्तव ।

मुक्तिसाधनभूतत्वात् परमार्थो न साधनम् ।।

ध्यानं नैवात्मनो भूप परमार्थोर्थशब्दितम् ।

भेदकारि परेभ्यस्तत् परमार्थो न भेदवान् ।।

परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।

मिथ्यैतदन्यद् द्रव्यं हि नैति तद्द्रव्यतां यतः ।।

तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ।

परमार्थस्तु भूपाल संक्षेपाच्छÜयतां मम ।।

एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।।'

इति प्रकरणस्येत्यर्थः । संक्षेपविस्तराभ्यां त्विति ।

"इत्युक्तस्ते मया खाण्डेक्य परिपृच्छतः ।

संक्षेपविस्तराभ्यां तु किमन्यत् क्रियतां तव ।।'

इति श्लोकः । अयं सम्यगर्थं इति । "यथाग्निसङ्गात् कनकम्' इति स्मृत्यानुगुण्यादिति भावः । "आत्मभावं नयत्येनम्' इत्यत्रात्म-शब्दस्य ध्येयब्राहृापरत्वमाकर्षकपरत्वं चेति प्रथमा व्याख्या । आत्मशब्दस्य ध्यातृपरत्वमिति द्वितीया । पक्षद्वयेऽप्याकर्षकशब्दो योगिकव्युत्पत्त्या अग्निपरः । उत्तरेषु त्रिष्वपि पक्षेष्वयस्कान्त परः । आत्मशब्दस्य ध्येयपरत्वमेव, भावशब्दश्चेष्टापर इति तृतीया व्याख्या । आत्मशब्दो लोहध्यात्रोर्दृष्टान्तदाष्र्टान्तिकयोर्निष्कृष्टस्वरूपपर इति चतुर्थी । आत्मशब्दो ध्येयाकर्षकपरः । भावशब्दश्च प्राप्तिवचन इति पञ्चमीति निष्कर्षो द्रष्टव्यः । अनुसंचरन्नित्यनेन भेदो #ेदर्शित इति । अनुशब्देन मुक्तसंचारस्य परमात्मसंचार-पाश्चात्यत्वकथनादिति भावः । समानशब्दोऽप्यैक्ये प्रयुज्यत इति । ननु वाक्शब्दपर्यायगोशब्दस्य किरणे प्रयोगो न वाक्शब्दस्य किरणार्थत्वसाधकः अप्रयोजकत्वात् । अतः परिहारग्रन्थे सामानाधिकरण्यशब्दविचारोऽपि न युक्त इति चेत्-न । समशब्दाधि-कार्थस्य समानशब्देऽद्याप्यसिद्धया तथोक्तयुपपत्तेः । मुख्यार्थत्वेऽभ्युपगतेऽपीति । हरिशब्दस्य भेकादिष्विवेति भावः । स तु साधारण्यार्थ इति । सादृश्यवाचिना शब्देन लक्षणया साधारण्यं प्रतीयत इत्यर्थः । लक्षणया तत्सिद्धप्रकारमुपपादयति-तथा- हीति । साधारण्यस्यानेकनिरूप्यत्वादनेकप्रतियोगिकेत्युक्तम् । पुत्रं प्रति मातुः, श्वशुरं प्रति स्नुषाया एकस्या एव पुत्रश्वशुरौ प्रति साधारण्याभावात् एकरूपेत्युक्तम् । ताभ्यां संबन्धि धनमिति । ततश्च समशब्दार्थीभूतसदृशसंबन्धित्वं साधारणस्यास्तीति लक्ष-णात्वजभूतमुख्यार्थसंबधिबीसत्त्वात् लक्षणोपपद्यत इति भावः । सादृश्यस्य साधारणधर्मायत्तत्वात् सादृश्यवाचिशब्दः सादृश्य-निर्वाहके साधारणे वर्तत इति निष्कर्षः । एवं दृष्टान्ते समानाधिकरणसमकालादिस्थलेऽप्यमुमर्थं शिक्षयति-तथा नीलत्वोत्पलत्वे इति । द्वाभ्यां संयोगित्वेनेति । ययोः समकालत्वमुच्यते, ताभ्यां द्वाभ्यामित्यर्थः । द्रव्यकालादिषु समसमानादिशब्दा इति । यद्यपि सामानाधिकरण्यं "समकालवर्ती' इत्युदाहरणानुसारेण काले समशब्दस्य द्रव्ये समानशब्दस्य चोपपाद्यतया द्रव्यकालादिषु समानसमशब्दा इत्येव वक्तुमुचितम्, तथाप्यल्पाच्तरत्वात् क्रमाविवक्षणाद्वा नानुपपत्तिरिति द्रष्टव्यम् । युज्यत इति युगिति । अत्र केचित्-संबन्धार्थस्य "युजिर् योगे' इत्यस्य रौधादिकस्य कतर्रि युज्यत इति रूपस्याभावात् समाध्यर्थस्य च युजेः कतर्र्येत-द्रूपसंभवेऽपि तस्यार्थस्य प्रकृतासंगतेः प्रकृतासंगेतः "युजिर् योगे' इत्यस्यैव कर्मण्येतद्रूपमिति वक्तव्यम् । तत्र च " ॠत्विग्दधृक्' इत्यादिसूत्रेण क्विनो वा "सत्सूद्विषा' इत्यादिना "किष् च' इत्यनेन वा किपो वा कतर्रि विहितत्वेन कर्मण्यसंभवात् युज्यतेऽने- नेति कर्तर्येव क्विन्, पच्यते अनेनेति पाचक इतिवत् । तस्य सहशब्देन सदृशवाचिना बहुव्रीहिः । अस्ति च सहशब्दः सदृशपर्यायः । यथा-सदृशः सख्या ससखीति । तस्यास्वपदविग्रहोऽयं बहुव्रीहिः । समानं युक् गुणजात मस्येत्यर्थः । तत्र च "उपसर्जनस्य' इति सहस्य सभावः इति । अग्नित्वोपाधेः प्रहणादिति । अपृथग्भूतस्याप्यग्नित्वप्रहाणे अग्नेर्देवताया एवाभावप्रसङ्ग इत्यर्थः । ननु वाक्य्-द्वयेन विरुद्धक्रमद्वये प्रतीयमाने कथमविरोध इत्यस्वरसादाह-किचाग्नेर्वा एतानीति । दत्तमुत्तरमिति । "उपाधिश्च देहान्तः- करणादिः' इत्युक्तमित्यर्थः ।

प्राप्यस्य सगुणत्वायेति । न च "विकल्पोऽविशिष्टफलत्वात्' इति सूत्रं निर्गुणविद्याव्यतिरिक्तविषयं किं न स्यात्? येन सर्वविद्याप्राप्यस्यैकरूपतया सर्वत्र सगुणत्वमेव सिध्येदिति वाच्यम्-संकोचे प्रमाणाभावादिति भावः । विद्याविकल्पश्च तत्रैव द्रष्टव्य इति । गुणयुक्तमेव प्राप्यमिति प्राप्यस्यैकरूप्यकथनेनाविशिष्टफलत्वाविष्करणाद्विकल्पोऽपि तस्मिन् वाक्य उक्तप्राय इति द्रष्टव्यमित्यर्थः । भाष्ये-यद्यपि सच्चित्त इत्यादिनेति । "यद्ययपि सच्चितो न निर्भुग्नदैवतं गुणगुणं मनसानुधावेत्, तथाप्यन्त-र्गुणामेव देवतां भजते । तत्रापि सगुणैव देवता प्राप्यते' इति व्याख्यातमित्यर्थः । अस्य चायमर्थः-सच्चितो न निर्भुग्नदैवतं गुणगणं मनसानुधावेत् । अपहतपाप्मत्वादिगुणं दैवताद्विभक्तं यद्यपि दहरविद्यानिष्ठ इव सच्चित्तो न स्मरेत्, तथाप्यन्तर्गुणामेव देवतां भजते । तत्रापि सगुणैव देवता प्राप्यत इति । देवतास्वरूपानुबन्धित्वात् कल्याणगुणगणस्य केनचित् परदेवताऽसाधारणेन निखिलजगत्कारणत्वादिनोपास्यामानापि देवता वस्तुस्वरूपानुबन्धिसर्वकल्याणगुणविशिष्टैवोपास्यते । अतः सगुणमेव ब्राहृ तत्रापि प्राप्यमिति सद्विद्यादहरविद्ययोर्विकल्प इत्यर्थ इति । "सोऽयं गौः' इत्यत्र विप्रतिपन्नं प्रत्याह-सोऽयं व्रीहिरित्यादेरुप-लक्षणमिति । मुख्योऽप्यस्वरस इति । जात्यंशे मुख्यत्वं व्यकत्यंशेऽमुख्यत्वमित्यर्थः । अत्यन्तामुख्यो न भवतीत्यर्थः । व्यकत्यं-शप्रहाणादस्वारस्यमिति । जातेर्जात्या सौसादृश्यवत् व्यक्तयन्तरस्य व्यकत्यन्तरेण भेदकाकारोपलम्भेन सौसादृश्याभावादि- त्यर्थः । मुख्य इत्यस्यात्यन्तामुख्यो न भवतीति व्याख्याने वीजमाह-न हि मुक्तस्येति । "स्वरूपतो गुणतश्च यन्निरवधिकातिशयं सोऽस्य मुख्योऽर्थः' इति पूर्वं भाषितत्वादिति भावः ।

श्लोके प्रकृतोपयुक्तं पदं दर्शयति-अस्मिन् श्लोके तथैवेति । एकप्रकरणत्वज्ञापनायेति ।

"विज्ञानं प्रापकं प्राप्ये परे ब्राहृणि पार्थिव ।

प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ।।

क्षेत्रज्ञः करणी ज्ञानं करणं तस्य वै द्विज ।

निष्पाद्य मुक्तिकार्यं वै कृतकृत्वं निवर्तयत् ।।

तद्भावभावमापन्नस्तथासौ परमात्मना ।

भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ।।

विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।

आत्मनो ब्राहृणो भेदमसन्तं कः करिष्यति ।।'

इति हि श्लोकक्रमः । श्लोके तद्भावेत्युपमानबहुव्रीहिरिति । तद्भाव इव भावोयस्य स तद्भावः, तत्समानस्वभावः । तस्य भावस्त-द्भावभाव इति व्याख्याने द्वितीयभावशब्दस्य प्रयोजनवत्तरत्वमिति भावः । भाष्यस्थतद्भावशब्दस्य श्लोकवैरूप्येण तत्पुरुषत्वमनु-पपन्नमित्यत आह-समासे व्याचिख्यासिते सति हीति । श्लोकभाष्ययोवैरूप्यपरिहारार्थमाह-यद्वा भाष्यस्थतद्भावशब्दोऽपीति । ननु भाष्यस्थतद्भावशब्दस्य बहुव्रहित्वे, "तद्भावो ब्राहृणो भावः' इति भाष्यमयुक्तमित्याशङ्कयानेकशब्दाध्याहारपूर्वकं व्याचष्टे-तद्भावेति पदे तच्छब्दवाच्यब्राहृसंबन्धितया प्रतीयमान इति । द्वितीयभावशब्दः सत्तावाचिति । यद्यप्यस्मिन् पक्षे द्वितीयभाव-शब्दस्य परपक्ष इव वैयथ्र्यमस्ति, तथाप्यभेदस्य बाधितत्वात् पराभिमतार्थो न संभवतीत्यत्र तात्पर्यम् । अर्थान्तरप्रतीतिनिवारणा-र्थत्वेन साफल्यसंभवे स्वरूपव्याक्रियामात्रमनर्तकमित्यभिप्रेत्याह-यद्वा भेदरहितो भवतीति । अनन्तरनिर्दि#ेशो न घटत इति । भेदस्य कल्पितत्वेन कृतत्वासंभवादिति भावः । सिद्धान्ते-भेदश्च तस्याज्ञानकृतो भवेत् । देवादिभेदश्चात्मन्यारोपितः तस्य मुक्त-स्याज्ञानकृतो भवेत्, कर्मकृतो भवेत् । कर्मकृतत्वेन ज्ञातो भवेदित्यर्थः । अथवा "अभवेत्' इत्यकारप्रश्लेषः, "अपचसि त्वं जाल्म' इतिवत्, "नञो नलोपस्तिङि क्षेपे' इति द्रष्टव्यम् । प्रकर्षेण जात एकस्वरूपभेद इति छेदः । हेयार्हतापत्तेः स्वाभाविकत्वप्रसङ्गा-दिति । "ब्राहृणः' इत्यस्य षष्ठयन्तत्वपक्षे देवादिभेदस्य तन्मूलकर्माविद्यादिदोषस्य च ब्राहृगतत्वेनैवाभ्युपगन्तव्यत्वात् ब्राहृावार- कस्य चाज्ञानस्य-

"ज्ञानरूपं परं ब्राहृ तन्निवत्र्यं मृषात्मकम् ।

अज्ञानं चेत् तिरस्कुर्यात् कः प्रभुस्तन्निवर्तने ।।'

इति न्यायेन निवर्तकान्तराभावात् स्वाभाविकत्वप्रसङ्ग इत्यर्थः । उपाध्यपगमे नश्यतीति श्लोकार्थ इति । "कः करिष्यति' इत्यस्य कः परिपालयिष्यतीत्यर्थ इति भावः । "असन्तम्' इत्यस्यानित्यवाचिन उपयोगमान्द्यादाह - उपाध्यभावादिति । अस्मिन् पक्षे "करिष्यति' इत्यत्र कृञधातोरुत्पादने स्वारस्यमस्तीत्यपि द्रष्टव्यम् । व्यवच्छेद्याभावादफलत्वमिति । ननु नैतद्वयवच्छेदकतयो-पात्तम् । अपितु कल्पकेऽज्ञाने नष्टे कल्पितत्वरूपसत्त्वं पुनर्भेदानुत्पत्तौ हेतुतयोक्तमिति चेत्-न । पूर्वोक्तदोष एव तात्पर्यात् ।

ह्मद्देशस्थ आत्मनीत्यर्थ इति । तद्भ्रामणार्थं तदन्तःप्रवेशस्यावश्यकत्वात्, "अन्तः प्रविष्टः शास्ता जानानां सर्वात्मा' "योऽन्तरो यमयति' इत्यादिप्रमाणादिति भावः । केचित्तु सर्वभूतशब्दस्यैव चेतनपर्यन्तत्वात् ह्मद्देशशब्देन जीवानामन्तःप्रदेश एव विवक्षित इति वदन्ति । नापि चिदचिदीश्वराणामिति भाष्यस्य मृषावाद्यभिमतैक्यनिषेधपरत्वमयुक्तम्, अचिदीश्वरयोस्तैरैक्यान-भ्युपगमादित्यभिप्रेत्य भास्कराद्यमिमतैक्यनिषेधपरतया व्याचष्टे-जगद्व्रहृणोरिति । मृषवादिमतनिरासोपसंहारे इतरमतनिरासो न युक्त इत्यमिप्रेत्य तन्मतनिरासपरतयावतारयति-अथवा मृपावादिनमेवेति । (इति पुराणप्रक्रिया । अथ सप्तविधानुपपत्तिः )

( आश्रयानुपपत्तिः )

1.1.1

कथं भ्रमसंभव इति । निर्विशेषे परिकल्पितशब्दोक्तभ्रमसंभव इति शङ्का स्यात् । अतो दोषपदमिति भावः । "अनृतेन हि प्रत्यूढाः' । प्रतीषं नीताः, वैपरीत्यं प्रापिता इत्यर्थः । "तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुः, एवमेवेमाः संर्वाः प्रजा अहरहर्गच्छत्य एतं ब्राहृलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः' इति छान्दोग्यम् । भाष्ये आदिशब्देन "नासदासीत्' इत्यादिश्रुतयो विवक्षिताः । भाष्ये जीवैक्यानुपपत्त्येति । विरुद्धधर्माध्यस्तयोर्जीवपरयोरैक्यासंभवेन धर्माणां कल्पितत्वस्य वक्तव्यतया तत्कल्पिकाऽविद्याभायचुपगन्तव्येत्यर्थः । सत्त्वेऽप्यात्मनो भ्रान्तिबाधाश्रयत्वर्योर्दर्शनात् न भ्रान्तिबाधा- भ्यां सद्विलक्षणत्वसिद्धिः । असिद्धिश्च हेतोः स्यात्, भ्रान्तिबाधयोरतन्निष्ठत्वादित्यत आह-भ्रान्तिविषयत्वबाधविषयत्वेति । भाष्ये भ्रान्तिबाधयोरयोगादित्यत्र शुक्तिरूप्यस्येति शेषः पूरणीयः । उत्तरत्र तद्विवरणभाष्ये "प्रतीतिभ्रान्तिबाधैरपि न तथाभ्युप-गमनीयम्' इत्युपक्षिप्य, "शुकत्यादिषु रजतादिप्रतीतेः' इति दर्शनात् । परैरपि ख्यातिबाधानुपपत्तेः शुक्तिरूप्यविषये उपन्यासाच्च । न चाज्ञानस्य जगदुपादानत्वं सदसद्विलक्षणत्वं च प्रतिज्ञाय तद्धेतुतया शुक्तिरूप्ये प्रतीतिभ्रान्तिबाधोपपादनं कतं संगतं स्यादिति वाच्यम्, उपादानोपादेययोरभेदाभिप्रायेण तथोकत्युपपत्तेः । स्वाभिन्नकायर्जनकत्वमुपादानत्वं विवर्तपरिणामोपादानलक्षणमिति कथयद्भिरुपादानोपादेयाभेदस्याभ्युपेततय शुक्तिरूप्ये ख्यातिबाधसमर्तनस्य उपादाने तत्समर्थनपर्यवसितत्वात् । ननु भामत्या-मारम्भणाधिकरणे "न हि वयमभेदं ब्राूमः, किंतु भेदं व्यासेधामः' इत्युकतेरभेद एवोपादानोपादेययोर्नास्तीति वाच्यम्, ब्राहृसम-सत्ताकाभेदप्रतिक्षेपमात्रपरत्वात् तदुक्तेः । यद्वा प्रतीतिबाधानुपपत्त्या शुक्तिरूप्यमिथ्यात्वसिद्धौ मित्याभूतस्य मिथ्याभूतमेवो-पादानमन्वेषणीयमित्यज्ञानस्यापि सदसद्विलक्षणत्वं सिध्यतीत्यभिप्रायेण तथोकत्युपपत्तेः । केचित्तु-"अहमज्ञः' इत्यज्ञानप्रतीतेः "नेह नाना' इति श्रुत्या बाधदर्शनात् अत एव भ्रमत्वाच्च प्रतीतिभ्रान्तिबाधानामविद्याविषयत्वमेव; न शुक्तिरूप्यविषयत्वम् । उत्तरत्र शुक्तिरूप्यादिषु प्रतीतिभ्रान्तिबाधैर्मिथ्यात्वसमर्थनं युकत्यन्तरमेव; नैतद्विवरणरूपम् । "तत्र अनिर्वचनीत्वे परोक्तं हेतु विस्तरेण दूषयति' इति तत्रत्य (संक्षिप्तस्य विवरणमिति) श्रुतप्रकाशिकावाक्यमपि कथंचिन्नेयमिति वदन्ति । "ख्यातिबाधयो-श्चायोगात्' इत्यस्य खायातिबाधयोश्चायोगप्रसङ्गादित्यमुमर्थं स्फोरयति-प्रतीतिभ्रान्तिबाधान्यथानुपपत्त्येति । प्रतीतिरसद्विलक्ष-त्वसाधिका, भ्रान्तिस्तु सद्विलक्षणत्वसाधिका, बाधस्तूभयसाधारण इति विवेको द्रष्टव्यः । न च-सद्वादिनं प्रति भ्रान्तैर्हेतुत्वोप-न्यासोऽयुक्तः, तन्मते भ्रान्तित्वस्यानभ्युपगतत्वात् । बाधने भ्रान्तित्वसमर्थने च बाध एव हेतुरस्तु, किमनेन भ्रमत्वसमर्थनेनेति वाच्यम्, "अहं रजततया अभ्राम्यम्' इत्यनुभवसिद्धतया भ्रमत्वस्य सद्वादिनापेयप्रत्याख्येयतया हेतुत्वसंभवादिति भावः । सद्भाव एवमिति । परमतत्वाभावे दृष्टान्तः । ब्राहृाश्रयत्वपक्षं दूषयतीति । ब्राहृणश्चिन्मात्रत्वेन तस्याश्रयत्वे पूर्वोक्तान्योत्याश्रयदोषा- प्रसङ्गः ।

"आश्रयत्वविषयत्वभागिनी निर्विशेष(र्विभाग)चितिरेव केवला ।

पूर्वसिद्धमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ।।'

इत्युक्तेरिति भावः । ज्ञानत्वेऽपि नैयायिकादिरीत्या जडत्वाभ्युपगमे स्वस्य स्वयाथात्म्यज्ञानविरोधित्वासंभवादाह-स्वप्रकाशत्वं विवक्षितमिति । विषयित्वलक्षणज्ञानत्वाभावात् स्वप्रकाशत्वं विवक्षितमिति केचिद्वदन्ति । ननु ब्राहृस्वरूपतद्विषयकज्ञानयोः साधारणं स्वरूपप्रकाशत्वं किं स्वरूपाभिन्नप्रकाशत्वम्? उत स्वरूपविषयप्रकाशत्वम्? नाद्यः, तस्य प्रमाणज्ञानेऽभावात् । न द्वितीयः, अभेदे विषयविषयिभावाभावेन स्वरूपाव्यापनादित्याशङ्कय तद्विषयव्यवहारानुगुण्यलक्षणं तद्विषयकत्वं प्रकृते विव-क्षितमित्यभिप्रयन्नाह-स्वरूपविषयज्ञानत्वे सतीत्यर्थ इति विषयवैषभ्याभावादित्यर्थ इति । विषयवैषम्याभावेन विशेषानव-

गमादित्यर्थ इत्यर्थः । न तु "विशेषानवगमात्' इत्यस्य विषयवैषम्याभावोऽर्थः । तथा सति "कथं विशेषानवगमः' इत्याक्षेपानुत्थि-तेरिति द्रष्टव्यम् । अयमेको देवदत्त इति । एक् इत्यस्याभेदोऽर्थः । स तु स्पाष्टयार्थः । "अयं देवदत्तः' इत्यभिज्ञायाः "सोऽयं देव- दत्तः' इति प्रत्यभिज्ञाया इव पुरोवर्तिनि देवदत्ताभेदविषयत्वमविशिष्यम् । न ह्रभेदे द्वैविध्यमस्ति, येन विषयवैषम्यं स्यात् । तथापि प्रत्यभिज्ञाया एव भेदभ्रमनिवर्तकत्वं नामिज्ञाया इति द्रष्टव्यम् । न च प्रत्यभिज्ञायामेकस्मिन्वस्तुनि कालद्वयसंबन्धो विषयः, नाभिज्ञायामिति वाच्यम्-ऐक्यस्य कालद्वयसंबन्धस्य चाभिज्ञाभ्यामेव सिद्धेः अभिज्ञाद्वयानवगतार्थविषयकत्वाभावे-नाभिज्ञाद्वयानिवत्र्यभेदभ्रमनिवर्तकत्वं न स्यादिति भावः । द्वित्वभ्रमः । भेदभ्रमइत्यर्थः । "सत्यत्वज्ञानत्वादिरस्ति चेत् स स्व-रूपानतिरिक्त इति दर्शयितुं स्वभावशब्दः' इति समीचीनः पाठः । "सत्यत्वज्ञानत्वस्वभावोऽस्ति चेत्' इति स्वभावशब्दो धर्म- परः । सत्यत्वज्ञानत्वादिधर्मोऽस्ति चेत्-स च स्वरूपानतिरिक्त इति दर्शयितुं स्वभावशब्द इत्यर्थः । कालद्वयदेशद्वयसंबन्धित्वं ह्रैक्यमिति । न चैतदप्यभिज्ञाद्वयसिद्धमिति प्रागेवोक्तमिति वाच्यम्, अभिज्ञाद्वये सत्यप्येकस्मिन् कालद्वयसंबन्धौ मया ज्ञात इत्यनुभवाभावात् । सत्यां च प्रत्यभिमायां तथानुभवदर्शनेनानुभवस्यैवात्र साक्षित्वात् । अनुभवापलापे चोपेक्षणीयत्वप्रसङ्गादिति भावः । द्वित्वभ्रमशब्दः सर्वत्र भेदभ्रमपरः ।

ननु न प्रमाणज्ञानत्वं निवर्तकत्वप्रयोजकम्, अपि तु भ्रमविरोधित्वमेव । तच्च ब्राहृस्वरूपेऽपि संभवतीति शङ्कां व्युदस्यति-अधिष्ठानत्वाच्छुकत्यादिवदिति । यद्वा अनिवर्तकत्वे हेत्वन्तरमप्याह-अधिष्ठानत्वादिति । अधिष्ठानस्य भ्रमविरोधित्वं प्रमाणा-न्तरसापेक्षं, शुकत्यादौ तथा दर्शनादित्यभ्युपगम्यमाने शुकत्यादिवदेवाधिषांनस्फुरणमपि प्रमाणान्तरसापेक्षं स्यादिति प्रतिबन्द्या दूषयति-अधिष्ठानत्वस्य ज्ञानान्तरविषयत्वमिति । अधिषांनत्वनिवृविरितीति । अधिषांनत्वनिवृत्तिः प्रसज्येतेत्यर्थः । यदि शुकत्यादावधिष्ठानस्य भ्रमाविरोधित्वमापाद्यते, तर्हि तद्वदेवा ध्यासाधिषांनत्वार्थं ज्ञानान्तरवेद्यत्वप्रसङ्गः । यदि च तत्र ज्ञाना-न्तरवेद्यत्वं जडत्वप्रयुक्तम् । तर्हि भ्रमाविरोधित्वमपि जडत्वप्रयुक्तमिति न ब्राहृरि भ्रमाविरोदित्वमिति प्रघट्टार्थः । प्रथमपक्षो दूषित इति । स्वरूपज्ञानस्याज्ञानानिवर्तकत्वे साक्षिवेद्यसुखादावप्यज्ञानप्रसङ्गात् । किंच विवरणे "अन्तःकरणपरिणामे ज्ञानत्वोपचारात्' इत्युक्तत्वेनोपचारिकज्ञानविरोधिनोऽमानत्वायोगाच्च । न च यथा सौरप्रकाशाविरोधित्वम्, एवमज्ञानस्य कल्पिततया न स्वरूपमानविरोधित्वमिति वाच्यम् । सौरप्रकाशविरुद्धतत्समसत्ताकतमोऽन्तरवत् चैतन्यप्रकाशविरुद्धतत्समसत्ता-काज्ञानान्तराभावेनातात्त्विकाज्ञानस्यैव ज्ञानेन विरोधस्य वक्तव्यतया अज्ञानासंभवात् । अहमर्थधर्मभूतवृत्तिज्ञानस्यैव विरोधित्वा-भ्युपगमे ज्ञानाज्ञानयोः समानाश्रयत्वस्य वक्तव्यतया "अहमज्ञः' इति प्रतीत्यनुसारेण जीवाश्रयत्वपक्ष एवाङ्गीकृतः स्यात्, न ब्राहृ-शब्दितचिन्मात्राश्रयत्वपक्ष इत्यादिद्रष्टव्यम् । भाष्ये-प्रपञ्चसत्यत्वरूपाज्ञानविरोधित्यस्य प्रपञ्चसत्यत्वतत्प्रतिभासरूपाज्ञान-विरोधीत्यर्थः, "प्रपञ्चसत्यत्वं तत्प्रतिभासश्च विक्षेपरूपाज्ञानम्' इति टीकायामुक्तत्वादिति द्रष्टव्यम् । अज्ञानं हि ज्ञानप्रतिबन्ध-कमिति । न च ज्ञाननिवत्र्यस्याज्ञानस्य कथं ज्ञानप्रतिबन्धकत्वमिति वाच्यम्, चरमवृत्तिनिवत्र्यस्याज्ञानस्य निरतिशयानन्द-स्वरूपात्मस्फुरणप्रतिबन्धकत्वस्य तैरभ्युपेतत्वादिति द्रष्टव्यम् । पराभ्युपगमादेवमुक्तमिति । अत एव "अनिर्वाच्याविद्याद्वित-यसचिवस्य प्रभवतः' इति प्रबन्धादौ वाचस्पतिनोक्तम् । तत्र ह्रेका अनादिर्भावरूपा अविद्या देवताधिकरणोक्ता; अन्या चाध्या-सभाष्य एव प्रदर्शिता-आत्मन्यनात्माध्यासं प्रस्तुत्य "तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते' इति । तथा (अयथा) व्याख्याने हेतुमाह-न हि सत्तयेति । सत्ताया एवाभावेन सत्तया सद्वितीयत्वस्याज्ञानरूपत्वासंभवात् सद्वितीयत्वज्ञानमेवाज्ञान- मिति भावः । सद्वितीयत्वविशिष्टब्राहृगोचरज्ञान इति । सद्वीतीयत्वज्ञानरूपे ब्राहृज्ञाने निवृत्त इत्यर्थः । स्वरूपं तु स्वानुभव-सिद्धमिति भाष्यं केचिदेवमवतारयन्ति-प्रपञ्चमिथ्यात्वं शास्त्रप्रतिपाद्यं चेत्, तस्यैव शास्त्रप्रतिपाद्यतया ब्राहृणः शास्त्रात् सिद्धय-भावेनाप्रमाणिकत्वमेव स्यादित्यत्राह-स्वरूपं तु स्वानुभवसिद्धमिति ।

( तिरोधानानुपपत्तिः )

तेषां तिरोधिरिति । अत्र "उपसर्गे धोः किः' इत्यस्याप्रवृत्तावपि प्रयोगबाहुल्यात् "कृत्यल्युटो बहुलम्' इति बहुलग्रह- णात् समर्थनीयम् । ज्ञानस्यात्मासाधारणकारस्येति । इदमुपलक्षणम्; प्रत्यकत्वादेरित्यपि द्रष्टव्यम् । तस्यासाधारणत्वास्फुर-णादिति । ननु-असाधारणधर्मत्वं साधारणधर्माद्वयावृत्तिः । सा च नैल्यस्य शौकल्यव्यावृत्तिरिव प्रत्यकत्वादिस्वरूपाभिन्नैव । ततश्च प्रत्यकत्वादिस्वरूपे भासमानेऽपि तदभिन्नायाः साधारणधर्मव्यावृत्तेरभासमानत्वकथनं परोक्ततिरोधानपर्यवसितमेवेति चेत्-न; प्रत्यकत्वादौ साधारणधर्माभेदभ्रमदर्शनेन प्रत्यकत्वादिगतायाः साधारणधर्मव्यावृत्तेः स्वरूपरूपत्वे प्रमाणाभावात् ।

नैल्यादौ तु शौकत्याभेदभ्रमस्य कदाप्यभावेन तत्र तद्वयावृत्तेः स्वरूपरूपत्वात् । तत्रापि शौकल्याभेदभ्रमसत्त्वे स्वरूपातिरिक्त-तद्वयावृत्तेरिष्टत्वादिति द्रष्टव्यम् । अस्मदवस्थास्थानीय इति । अस्मदभिमतस्वप्रकाशधर्मभूतज्ञानविकासावस्तास्थानीय इत्यर्थः । सदा स्वप्रकाश इति यावत् । स्वरूपनाश एव तिरोधानं स्यादित्यर्थः इति । ननु-अस्तु प्रकाशाभाव एव तिरोधानम् । न च प्रकाशाप्रकाशयोर्विरोधः, अप्रकाशस्यारोपिततयाऽविरुद्धत्वात् । "त्वदुक्तमर्थं न जानामि' इत्यादौ श्रुत एवार्थे अज्ञातत्वस्या-प्यनुभूयमानत्वाच्चेति चेत्-न । अधिष्ठानयाथात्म्येऽवभासमाने अप्रकाशकल्पनाया अप्यनुदयात् । वह्नावारोपितस्यावह्नित्वस्य वह्निकार्याप्रतिबन्धकत्वात् प्रकाशारोपितस्या प्रकाशस्य प्रकाशकार्याप्रतिबन्धकत्वाच्च । "त्वदुक्तमर्थं न जानामि' इत्यादौ सत्ता-वधारणात्मकज्ञानाभावविषयत्वेन प्रकाशाप्रकाशविरोधसाधकत्वाभावात् । अन्यथा "घटः प्रकाशते, न प्रकाशते च' इत्यनुभवा-पातात् । एतेन "नास्ति, न प्रकाशते' इति विपरीतव्यवहारयोग्यत्वमेवावरणमिति निरस्तम् , विपरीतव्यवहारलक्षणावरणकल्प- नाया अपि भासमानेऽधिष्ठाने असंभवात् । आनन्दस्वरूपस्य भासमानत्वेन तदंशे आवरणस्य वक्तुमशक्यत्वाच्च । न चानवच्छि-न्नानन्दाप्रकाशादावरणमस्तीति वाच्यम्, आनन्दे भेदाभावेन तदस्फुरणस्य वक्तुमशक्यत्वात् । न च संसारदशायामानन्दे भास-मानेऽप्यनवच्छेदो न भासत इति वाच्यम्, आनन्दस्य मोक्षकालीनस्य स्फुरणे सिद्धे अनवच्छेदांशस्यापुरुषार्थत्वात् तन्मते संसारमुकत्योरविशेषप्रसङ्गात् । न च निरतिशयानन्दास्फुरणस्फुरणाभ्यां संसारमुकत्योविर्शेष इति वाच्यम्, अद्वैतिमते वैषयिकान-न्दस्य ब्राहृनन्दातिरिक्तस्याभावेनोत्कर्षापकर्षायोगात् । आनन्दो भासते चेत् स एव मुक्तिकालीनानन्द इति संसारमोक्षयोरानन्दा-नुभवे न वैषम्यं मृषावादिमते सुवचम् । न च-यथा त्वन्मते जीवस्वरूपानन्दस्य, कैवल्यदशायामनुभूयमानस्य च स्वरूपरूप-त्वेनाभेदेऽपि स आनन्द आवृत एव तस्येदानीमसत्त्वव्यवहारात् सातिशयानन्दो भातीत्यभ्युपगम्यते, एवमिहापि स्यादिति वाच्यम्-तत्रानन्दस्यैकत्वेऽपि तस्मिन्नानन्दे तीव्रत्वमन्दत्वादिभेदोऽस्ति, ततश्च संसारदशायामान(न्दे म?)न्दानुकूल्यं स्वरूप-रूपज्ञानेन भासते, तद्गततीव्रानुकूल्यं तु कैवल्यदशायां धर्मभूतज्ञानेन भासत इति ह्रस्माकं प्रक्रिया । न तु तीव्रानुकूलत्वमपि स्वरूपरूपं स्वप्रकाशमित्यस्माभिरभ्युपगम्यते, येन दोषः स्यात् । तस्मात् तिरोधानं भासमानस्वरूपेऽनुपपन्नमिति भावः ।

(स्वरूपानुपपत्तिः )

ज्ञातृत्वादीनां परमार्थतया हीति । अनुभूतेर्निराश्रयत्वे ज्ञातुरभावादेव ज्ञातृत्वादिरप्यपरमार्थो भवतीत्यर्थः । ननु "नि-र्विषया निराश्रया' इत्येतत्परमतानुवादरूपम् । न च पर एव स्वमतदूषणावकाशमभिलषन् विशेषणं प्रयच्छति, अपितु स्वोक्ता-र्थोपयोगितयैव । प्रकृते च स्वाभिमतमिथायात्वापयोगितया तस्य विशेषणस्य साफल्यमेव वक्तुमुचितम् । न तु परदूषणायेत्यस्वर-सादाह-यद्वा विषयाश्रयभेदानाभिति । असत्त्वप्रतिभासयोरुक्तिरिति । "निर्विषया निराश्रया' इत्यसत्तवोक्तिः, "अनुभूतिः' इति तत्प्रतिभासोक्तिरिति द्रष्टव्यम् । किं स्वरूपव्यनिरिक्तेति । अधिष्ठानब्राहृस्वरूपव्यतिरिक्तेत्यर्थः । अनवच्छिन्नदृशिद्वयान-भ्युपगमादिति । अनवच्छिन्नाधिष्ठानभूतदृशिंस्वरूपापेक्षया अतिरिक्ताया दोषभूताया अपरमार्थभूताया अनवच्छिन्नदृशेरनभ्यु-पगमादित्यर्थः । अनवच्छिन्नपक्षेऽपि समानेति । दृशेरवच्छिन्नानवच्छिन्नविकल्पस्य अपरमार्थशिरोऽन्तर्गततया अपरमार्थे सर्वत्र कल्पकान्तरापेक्षाया अविशेषादित्यर्थः । काल्पनिकशब्दस्य कल्पनप्रयोजनकत्वभ्रान्ति व्युदस्यति-अपरमार्थत्वेनेत्यर्थ इति । अनुभूतेरेव दोषत्वादिति । अविद्याकल्पकदोषत्वादित्यर्थः । प्रवाहानादित्वेन परिह्मतेति । "तदधीनत्वादर्थवत्' इति सूत्रे वाच-स्पतिना बीजाङ्कुरन्यायोपन्यासादिति भावः । इदं तु स्वरूपानादित्वस्याप्युपलक्षणम् । यथा निरंशेऽप्याकाशे घटस्तटस्थ एव तमुपलक्ष्य एकदेशं संपाद्य तेन संबध्यते, तद्वदविद्यापि तटस्यैव चिन्मात्रमुपलक्ष्य एकदेशरूपजीवं संपाद्य तेद संबध्यते, तद्वद- विद्यापि तटस्थैव चिन्मात्रमुपलक्ष्य एकदेशरूपजीवं संपाद्य तत्रावतिष्ठत इति नेतरेतरानयत्वम् ।

"स्वेनैव कल्पिते देशे व्योग्नि यद्वद् घटादिकम् ।

तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः ।।'

जीवाज्ञानयोरनादित्वे उत्पतिज्ञप्त्यप्रतिबन्धाच्चान्योन्याश्रयो न दोषः' इति जीवाश्रयाज्ञानवादिवाचस्पतिना स्वरूपानादित्व-स्याप्यभ्युपेतत्वादिति द्रष्टव्यम् । दोषस्य स्वपरनिर्वाहकत्वेनेति । नन्वेवं परिहारचातुर्विध्यात् परैरनवस्था त्रेधापरिह्मतेति पूर्वो-क्तिविरोधः इति चेत्-अत्र केचित्-जीवाज्ञानवादिना प्रवाहानादित्वदुर्घटत्वस्वपरनिर्वाहकत्वानामेवोक्तत्वेन स्वरूपानादित्वस्या-नुक्तत्वात्, ब्राहृाज्ञानवादिनापि प्रवाहानादित्वस्यानुक्तत्वाच्च त्रैविध्यमेवेति वदन्ति । परमार्थत्वप्रयुक्तेति । परमार्थे वस्तुनि या

उपपविरपेक्षिता, सा परमार्थत्वप्रयुक्तोपपत्तिरित्यर्थः । अपरमार्थत्वप्रयुक्तोपपत्तीति । दोषाऽप्यपरमार्थवस्तुसामग्रीकोट¬नुप्रविष्ट इत्यर्थः । अपारमार्थिकस्य वस्तुनः पारमार्थिकवस्तुसामग्रीनिरपेक्षत्वेऽप्यपारमार्थिकवस्तुसामग्रीसापेक्षत्वमस्त्येव । स्वल्पास्येन विपुलप्रासादनिगरणस्य परमार्थिकप्रसादनिगरणहेतुनिरपेक्षत्वेऽप्यपारमार्थिकप्रादादनिगरणहेतुभूतैन्द्रजालिकमन्त्रौषधादिसा-मग्रीसापेक्षत्वदर्शनादिति भावः । अधिष्ठानाध्यस्तयोरैक्यप्रसङ्ग इति । स्वपरनिर्वाहकत्वपक्षे तस्मिन्नेवाधिष्ठाने तदेवाध्यस्त-मित्यागतम् । ततश्चाधिषांनत्वाधायस्तत्वयोः परस्परविरोधाभावात् सवमपि स्वस्वरूप एव कल्पितमिति वक्तुं शक्यतया अध्य-स्ताद्भिन्नमधिष्ठानान्तरं नापेक्षणीयं स्यादिति भावः ।

( अनिर्वचनीयत्वानुपपत्तिः )

व्याप्तिविरोधादिति चेदिति । सत्त्वस्यासत्त्वाभावव्याप्तत्वादिति भावः । सदसदात्मकत्वं दृष्टमिति । भ्रान्तिबाधाभ्यां सदसदात्मकतया प्रतिपन्नत्वात् तदेव स्वीकर्तुमुचितमित्यर्थः । अथÐस्थतौ सत्त्वमसत्त्वं वा स्यादिति । वस्तुस्थिथौ पर्यालोच्य-मानायां सत्त्वासत्त्वयोरन्यतरदेव स्यादित्यर्थः । सदसद्विलक्षणत्वं दृष्टमिति चेदिति । सन्मात्ररूपत्वेऽप्युगयरूपत्वाभावादिति भावः । अन्यथाख्यानादिभिरिति । आदिपदेनाख्यातियथाथख्र्याती विवक्षिते । सत्त्वे सतीति । सत्त्वे सत्येवेत्यर्थः । भेदाग्रहेण ख्यातिबाधोपपत्तिरिति । न च भेदाग्रहस्य ख्यात्युपपादकत्वेऽपि कथं बाधोपपादकत्वमिति वाच्यम्, "वर्षकृतं दुर्भिक्षम्' इतिवदुपपत्तेः । अथवा भेदाग्रहेणेत्युपलक्षणम्-भेदाग्रहेण भेदग्रहेण च ख्यातिबाधोपपत्तिरित्यर्थः । तमर्थमुपपादयति-सत एवेत्यादिना । पुरोकत्र्यगृहीतासंसर्गभेदप्रतियोगितयानुपस्थितस्योपस्थितः ख्यातिः । तत्र गृहीतभेदप्रतियोगितया तस्य वस्तुनः प्रतीतिर्बाध इति वदन्ति ।

( प्रमाणानुपपत्तिः )

तद्विवरणरूपतामेवोपपादयति-अहमज्ञ इति । अज्ञानस्वरूपकीतर्नमिति । विषयावरणरूपकार्यविनिर्मुक्ताज्ञानस्वरूपकीतर्नम्-अज्ञ इति;मामन्यं चेत्यत्र तु विषयावरणकार्यविशिष्याज्ञानकीर्तनमित्यर्थः । अत एव तिवरणव्याख्याने तत्त्वदीपने-"अहमज्ञ इत्यज्ञानस्य साश्रयत्वम्; मामन्यं च न जानामीति सविषयत्वं प्रतीयते' इत्युक्तम् । "अहमज्ञः' इति प्रतीत एवाज्ञानस्वरूपे सविष्यत्वरूपधर्मान्तरवैशिष्टयावगाहित्वेन तद्विवरणरूपत्वमिति भावः । कार्यरूपाज्ञान-व्यावृत्तिरिति । "श्रूयतां चाप्यविद्यायाः स्वरूपं कुरु(ल)नन्दन । अनात्मन्यात्मबुद्धिर्या' इत्यादावनात्मन्यात्मबुद्धेरप्यविद्याऽज्ञा-नादिशब्दप्रोगविषयतया तद्वयावृत्तिरित्यर्थः । वक्ष्यति चानात्मन्यात्मबुद्धेरप्यज्ञानशब्दवाच्यत्वम् । सौषुप्तिकममानमिति । सुषु-प्त्यनुवृत्तमज्ञानमित्यर्थः । अहंबुद्धिरूपस्य कार्यज्ञानस्य सुषुप्त्यनुवृत्तत्वाभावात् तद्वयावृत्तिरित्यर्थः । ननु "मामन्यं च न जानामि' इत्यनुभवः सुषुप्त्यनुवृत्ताज्ञाने न प्रमाणीकर्तुं योगयः, सुषुप्तावहमर्थस्य तदन्यस्य वा विषयस्योल्लेखासंभवादित्याशङ्कयाह-जागरि-तावस्तायामिति । सविकल्पप्रत्यक्षरूपसाक्षिणा अहमर्थतदन्यरूपविषयावच्छिन्नाज्ञानानुभवो जाग्रद्दशायाम्; तस्यैवाज्ञानस्य निर्विषयतयानुभवः सुषुप्तावित्यर्थः । ततश्च कारणाज्ञानस्य जाग्रद्दशायाम् तत्त्वशुद्धिकारमते सर्वात्मना अप्रतीतिरिति न मन्तव्यम्, साक्षिभास्यस्याज्ञानस्याउज्ञातत्वासंभवात् । न चाज्ञानस्य निर्विषयत्वावस्था न संभवति; निर्विषयत्वेनाज्ञानानुभवश्च न संभव- तीति वाच्यम्-सुषुप्तौ प्रत्यगात्ममात्रविषयतयाऽज्ञानस्य भाने दोषाभावात् । ननु-जाग्रद्दशायां साक्षिणः "घटं न जानामि' इति विषयोल्लेखित्ववत् सुषुप्तावपि विषयोल्लेखित्वे को दोषः? न हि साक्ष्युल्लेखानुल्लेखयोर्जागरणाजागरणे उपयुज्येते; अत एव - "सर्वं वस्तु ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य सर्वदा विषय एव' इत्युक्तं विवरण इति चेत्,-सत्यम्; जाग्रद्दशायां "घटं जानामि, पटं जानामि' इति विशिष्य विषयविशेषोलोखवत् सुषुप्तिदशायां विषयाणां विशिष्योल्लेखादर्शनेन तदनुरोधेन कस्य- चिद्धेतोः कल्पनीयत्वात् । न केवलं तत्त्वशुद्धिकारदिभिराधुनिकैरुक्तम् । संप्रदायेऽपि तथैवेत्याह-जागरितावस्तायामेवेति । अज्ञानानुभवोऽयमिति । "अहमज्ञः; मामन्यं च न जानामि' इत्ययमज्ञानानुभव इत्यर्थः । ननु "न जानामि' इत्यत्राज्ञानमात्र-मनुभूयते, न तस्य कारणत्वमपि । तत् कथं कारणाज्ञानविषयं प्रत्यक्षमित्युच्यत इत्याशङ्कयाह-न जानामीत्याच्छादकतयेति । कार्याज्ञानस्याच्छादकत्वाभावादिति भावः ।

भाष्ये-कारणाज्ञानविषयं प्रत्यक्षं तावदिति । "अहमज्ञः, मामन्यं च न जाना'#ि इत्यपरोक्षावभासः कारणाज्ञानविषयं प्रत्यक्षमिति योजना । ततश्च प्रत्यक्षमपरोक्षावभास इत्यनयर्रान पौनरुकत्यमिति ध्येयम् । भाष्ये स हि षष्ठप्रमाणगोचर इति । षष्ठप्रमाणमात्रगोचर इत्यर्थः । मात्रपदेन प्रत्यक्षगोचरत्वं निषिध्यते । प्रत्यक्षागोचर इत्यर्थः । अत एवोत्तरत्र "अभावस्य प्रत्यक्ष-

गोचरत्वाभायुपगमेऽपि' इत्युक्तम् ।

भवत्वयमपि षष्ठप्रमाणविषय इति । अत्र चोदयन्ति -"अयं तु "अहं सुखी' इतिवदपरोक्षः' इत्यत्र भाष्ये "अयम्' इत्यनेनानुभवः परामृश्यते, न तु विषयः; "अहं सुखी' इतिवदितीतिकरणावमृष्टप्रत्यक्षानुभवस्य दृष्टान्तीकरणात् । न हि 'सुखा-दिवत्' इत्युक्तम् । किंचाभावः प्रत्यक्षायोग्यः । इदं तु ज्ञानं प्रत्यक्षरूपम् । अतो नानयोर्विषयविषयिभावः संभवतीत्यस्यार्थस्यैव प्रतिपादयितुमुचितत्वात् "अयम्' इति ज्ञानपरामर्श एवोचितः, न विषयपरामर्शः । ततश्च "भवत्वयमप्यनुभवः षष्ठप्रमाणजन्यः' इत्येवावतारिकया भवितव्यमिति-तन्न, उपायस्योपायान्तरादूषकत्वात् । परोक्षप्रमाणविषयः प्रागभाव इति । परोक्षैकविषय इत्यर्थः । ततश्च परोक्षप्रमाणविषयस्य वह्नयादेरपरोक्षत्वस्यापि दर्शनात् नेदं युक्तमिति शङ्काया नावकाशः । भावग्राहकप्रमाणे- नेति । प्रत्यक्षस्य संनिकृष्टार्थमात्रग्राहितया संयोगादिलक्षणस्य पञ्चविधस्य संनिकर्षस्य भावेष्वेव संभवेन भावग्रहणैकशीलस्यापि प्रत्यक्षस्य विशेषणतालक्षणसंनिकर्षान्तरपरिकल्पनेनाभावग्राहकत्वाभ्युपगमेऽपीति भावः । ततश्च-भाष्ये "प्रत्यक्षत्वाभ्युपगमेऽपि' इति स्पष्टमर्थे प्रतीयमाने, "भावग्राहकप्रमाणेनाभावस्य वेद्यत्वाभ्युपगमेऽपि इत्यवतारिकायां न सामञ्जस्यम्; किं च भावग्राहिणां शब्दानुमानादीनामभावग्राहित्वस्य सर्वसिद्धत्वाच्चेति चोद्यस्य नावकाशः ।

ग्राहकाभावान्न तदभावप्रतीतिरित्यर्थ इति । ग्रहणकारणीभूताधिकरणप्रतियोगिज्ञानाभावादभावज्ञानं नोत्पत्तुमर्हती-त्यर्थः; न तु ग्राहकस्याभावाज्ञानस्येत्यर्थः, उत्तरत्र "एतदुक्तं भवति' इति भाष्ये तथैव विवरणदर्शनात् । न च ग्राहकशब्दस्य ग्रहणजनकप्रतियोग्यधिकरणज्ञानपरत्वे अभावविषयकज्ञानस्य ग्राहकत्वादित्यव्यवहितशङ्काया अनुत्थानमिति वाच्यम्, आश-यानभिज्ञस्य तथा चोद्यसंभवात् । केचित्तु ग्राहकाभावात्उअभावग्राहकस्य ज्ञानस्याभावात्; न तदभावप्रतीतिःउन तदभावो- ल्लेख इत्यर्थः, "एतदुक्तं भवति' इत्येतस्य कथंचिदुपपादकत्वमात्रत्वेनाप्युपपत्तेरिति वदन्ति । ज्ञानप्रागभावस्य ग्राह्रत्व इति । अत्र प्रागित्येतदविवक्षितम्; ज्ञानाभावस्य ग्राह्रत्व इत्यर्थः । इतरथा प्रागभावस्य यावज्ज्ञानप्रतियोगिकस्यासंभवेन व्यक्ति-विशेषप्रतियोगिकस्यैव वक्तव्यतया तत्र विरोधाभावादिति द्रष्टव्यम् । अभावधर्मितयात्मनो ज्ञानमस्तीति वक्तव्यमिति । अभा-वधर्मित्वादात्मनस्तज्ज्ञानमस्तीति वक्तव्यमित्यर्थः; न तु धर्मित्वेन प्रकारेण ज्ञानमिति भ्रमितव्यम्, तेन रूपेण तज्ज्ञानस्याहेतु- त्वात् । धर्मितया प्रतियोगितयावगतिरस्ति न वेति भाष्यस्याप्ययमेवार्थः । अस्मिन् पक्ष इति । प्रत्यक्षागोचरत्वपक्षाभायुपगम इत्यर्थः । ततश्चानुमेयत्वमात्रेण कथमपरोक्षत्वविरोधः, वह्नयादावुभयदर्शनादिति शङ्का परास्ता वेदितव्या ।

घटाच्छादकमज्ञानं हि घटज्ञाने न विरुध्यत इति । अयमर्थः-घटज्ञाने सति घटाच्छादकमज्ञानं न हि विरुध्यते; घटा-ज्ञानविषयज्ञानधर्मिज्ञानाभ्यां च न विरुध्यते, भावाभावरूपत्वाभावात् ; उभयोरपि भावरूपत्वादित्यर्थः । भाष्यस्वारस्यात्, "भावरूपाज्ञानप्रत्यक्षवादे तु सत्यप्याश्रयप्रतियोगिज्ञाने ज्ञानाभावस्येव भावान्तरस्यापि नानुपपत्तिर्नियन्तुं शक्यते' इति पुरो-वादिपञ्चपादिकाविवरणग्रन्थानुसाराच्चोक्त एवार्थः । यथाश्रुतार्थग्रहणे साक्षाद्धटविषयज्ञानस्यैव "घटं न जानामि' इति ज्ञानविष-यत्वप्रसङ्गेन ज्ञानासिद्धिप्रसङ्गात् । वस्तुयाथात्म्यज्ञाननिवत्र्यमिति । उभयोर्भावरूपत्वऽपि तेजस्तिमिरयोरिव विरोधः सिद्ध इति भावः ।

भाष्ये-साक्षिचैतन्यं न वस्तुयाथात्म्यविषयमिति । साक्षिचैतन्यं वस्तुयाथात्म्यविषयकप्रमाणज्ञानं न भवतीत्यर्थः; प्रमाणज्ञानस्यैवाज्ञाननिवर्तकत्वात् । अन्यथेत्यस्याज्ञानविषयमिति संनिहितविषयत्वसंभवेऽपि विप्रकृष्टवस्तुयाथात्म्यविषयत्वान-भ्युपगमप्रतिपादकत्वमयुक्तमित्यस्वरसादाह - अज्ञानविषयत्वाभावे वेति । न हि रजतज्ञानेनेति । साधकस्य बाधकत्वायोगादि-त्यर्थः ।

भाष्ये-ननु चेदं भावरूपमप्यज्ञानमिति । अत्र चोदयन्ति-"नन्वज्ञानस्य व्यावर्तको विषयः कथं साक्षिचैतन्येनावभास्यते? प्रमाणयत्तत्वाद्विषयसिद्धेरिति । उच्यते-सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव; तत्र ज्ञाततया विषयः प्रमा-णव्यवधानमपेक्षते, अन्यस्तु सामान्याकारेण विशेषाकारेण वा अज्ञानव्यावर्तकतया सदा भास्यते' इति पञ्चपादिकविवरण-ग्रन्थानुवादरूपमिदं वाच्यम् । तस्य चायमर्थः-कथं "मामन्यं च न जानामि; त्वदुक्तमर्थं संख्यां वा शास्त्रार्थं वा न जानामि' इति विषयावच्छिन्नमज्ञानं साक्षिभास्यं स्यात्? अज्ञानावच्छेदकस्य विषयस्य साक्षिणा भानासंभवात्; साक्षिणो बहिर्विषये नैयायिकमते मनस इव स्वातन्त्र्#ासंभवात् । इतरथा प्रमाणान्तरवैयथ्र्यप्रसङ्गात् । ततश्चाज्ञानावच्छेदकस्य घटादेः प्रमाणत एव सिद्धिरेष्टव्या । प्रमाणज्ञानं चाज्ञानविरोधि; न तु साक्षिवदज्ञानसाधकम्, येनाज्ञानं न विरुन्ध्यात् । ततश्चाज्ञानानुभवो न संभवतीति

शङ्काभिप्रायः । स्वतो मनोग्राह्रत्वाभावेऽपि परमाणोः,"ज्ञातः परमाणुः' इति ज्ञाततया मनोवेद्यत्ववत् तत्तदाकारवृत्त्यनुपहितेन परमाणोः, "ज्ञातः परमाणुः' इति ज्ञाततया मनोवेद्यत्ववत् तत्तदाकारवृत्त्यनुपहितेन केवलेन साक्षिणा स्वतो ग्रहणायोग्यमपि वस्तु ज्ञातत्वाज्ञातत्वान्यतराकारेण सदा भास्यत एव । इयांस्तु विशेषः-वस्तुनो ज्ञाततया भादे प्रमाणव्यवधानापेक्षा, ज्ञाततायाः प्रमाणोत्पाद्यत्वात् । अज्ञाततायास्तु स्वतःसिद्धत्वादज्ञाततया भोन न प्रमाणव्यवधानापेक्षा । ततश्च सर्वमपि वस्तु प्रमाणाप्रसर-णदशायामज्ञाततया भासत एवेति न विषयभानार्थं प्रमाणापेक्षा, येनाज्ञानस्य विरोधः स्यात् । साक्षिरूपं च घटादिविषयज्ञानं नाज्ञानविरोधि, साधकतया तस्य बाधकत्वाभावादिति प्रागेवोक्तत्वादिति परिहाराभिप्रायः । एवमेव हीदं वाक्यं व्याख्यातं तत्त्व-दीपनकृता । इह तु कथं तद्विहायान्यथानूद्यत इति ।

तत्रायं परिहारः-सत्यं विवरणवाक्यं तत्त्वदीपनकृता तथा व्याख्यातम् । तथापि जडस्याज्ञानविषयत्वमनभ्युपगच्छतो विवरणकारस्य मते प्रत्यगर्थावच्छिमेवाज्ञानमभूयत इत्येव वक्तव्यम्, न तु घटादिविषयम् । ततश्च शङ्कापरिहारौ प्रत्यगर्थविषयावेव वक्तव्यावित्यभिप्रेत्य भगवता भाष्यकृता तदनुसारेण शङ्कापरिहारग्रन्थौ योजनी#ा#ंवित्यभिप्रेत्य तथानूदितमिति द्रष्टव्यम् ।

( भावरूपाज्ञानानुमानविचारः )

उपपादिताकारविशिष्टमिति । प्रत्यक्षेण न्यायानुगृहीतेनाज्ञानस्य भावरूपत्वं "न जानामि' इत्यनेनात्माश्रयत्वं च सिद्ध- मिति पूर्वमुक्तत्वेन स्वप्रागभाव्यतिरिक्तत्वस्वदेशगतत्वयोः सिद्धत्वादिति भावः । न हि तमो दीपगतमिति । दीपस्यैव प्रभाश्रय- त्वात् प्रभादेशस्य प्रभाश्रयत्वं नास्ति, "प्रभादेशः' इतिवत् "प्रभाश्रयः' इति व्यवहाराभावादिति भावः । वेद्यगतवित्त्यभिव्यक्ति-प्रागभाव इति । वेद्यगतवित्तिर्विषयाधिष्ठानचैतन्यम्, तन्निष्ठाभिव्यक्तिप्रागभाव इत्यर्थः । "वेद्यगतं चैतन्यमभिव्यक्तं भवति' इत्यु-त्तरग्रन्थानुसारादयमेवार्थः । अनुलोमव्यावृत्तिरिति । अत्र स्वप्रागभावं स्वोत्पादकादृष्टं विषयगतामज्ञाततां च व्युदसितुं क्रमेण विशेषणानीत्यपि वदन्ति ।

इत्मुत्पत्त्यनुपपत्तिरिति । दीपनिर्वापणसमसमयसौधोदरव्यापिसंतमसोत्पत्तिकारणं दुर्निरूपमित्यप्यनुपपत्तिरनुसन्धेया । निमीलने नीलप्रतिभासवदिति । अयं भावः-अस्ति तावान्निमीलितनेत्रस्य, "नीलं तमः' इति प्रतीतिः । सा तु न प्रमा, बाधि-तविषयत्वात् । तथाहि-किमत्र बाह्रं तमः प्रतीयते, उतान्तरम्? नाद्य।, बहलालोकवितते देशे बाह्रस्यान्धकारस्याभावात् । न द्वितीयः, बहिःप्रसरणशीलानां नायनरश्मीनामान्तरतमोग्राहकत्वाभावात् । इतरथा नयनान्तःस्थाञ्जनग्रहणप्रसङ्गात् । तस्मा-द्भ्रान्तिरेवेति । नीलप्रतिभानं बाधितविषयमिति । यद्यपि विवरणादौ पिहितकर्णपुटस्यान्तरशब्दोपलम्भवत् निमीलितनेत्र-स्यान्तर्मुखैर्नोचनरि#ामभिरान्तरं तमो गृह्रत इति "नीलं तमः' इति प्रतीतेर्गोलकान्तर्वतिर्तमोविषयतया प्रमात्वमेवोपपादितम् । अतस्तथैवानुवादो युक्तः-तथापि तस्य लोकविरुद्धत्वात् भ्रमत्वमभ्युपगम्येह परिहारान्तरमुपन्यस्तमिति द्रष्टव्यम् । रूपोलबिन्ध-वेलायामिति । सजातीयघटादिरूपोपलब्धिवेलायामित्यर्थः । कारणनिरूपणायापह्नवमर्हतीति । प्रयोजनार्थे चतुर्थी । प्रयोजनं च निवत्र्यमानतया, "मशकेभ्यो धूमः' इतिवत् । कारणनिरूपणाभावायापह्नवमर्हतीत्यर्थः । कारणनिरूपणं प्रसज्येतेति भया- दित्यर्थः । स्वच्छद्रव्यत्वादिति । प्रभावात् स्वच्छद्रव्यविशेंषत्वात् स्पर्शानुपलम्भ इत्यर्थः ।

( अविद्याप्रत्यक्षनिरासः )

प्रतिपन्नशब्देन भासनमुच्यत इति । न तु विषयत्वपर्यन्तम् । तथाहि सति प्रत्यगर्थस्य प्रतिपन्नत्वकथनं व्याहतं स्या- दिति भावः । अभावप्रतियोगिभूताविशदज्ञानविषयत्वमिति । अत्र चोदयन्ति-"आश्रयप्रतियोगिज्ञानं त्वविशदस्वरूपंविषयम्' इति भाष्यस्य ह्रयमर्थः-यद्यपि "अहं मां न जानामि' इत्यत्राश्रयज्ञानं प्रत्यगर्थविषयम्, तथा प्रतियोगिज्ञानमपि ज्ञानविषयतया प्रत्यगर्थविषयकम्-तथापि न तद्द्वयमपि विशदप्रत्यगर्थविषयकं, प्रत्यगर्थांशे तयोरविशदत्वात् । ततश्च मां न जानामिउयथा विशदं भवति तथा न जानामि इत्यर्थः । मदर्थविषयकावधारणात्मकसाक्षात्काररूपज्ञानं नास्तीति पर्यवसितोऽर्थः । ततश्चाभाव-प्रतियोगिभूतज्ञानस्य वैशद्यं विद्यमानस्य प्रतियोगिविषयखमाश्रस्यावैशद्यं चाविरोधसिद्धये समर्थनीयम् । तद्विहाय तुरगारूढस्य तुरगविस्मरणन्यायेन प्रतियोगिभूतज्ञानस्यावैशद्यं कथं समथ्र्यत इति । अत्र ब्राूमः-सत्यं प्रतियोगिभूतज्ञानस्य वैशद्यमेव समर्थनीयम् । तथानि भाष्ये "आश्रयप्रतियोगिज्ञानं त्वविशदस्वरूपविषयम्' इत्युक्तेः साक्षाद्विषयप्रतियोगिभूतज्ञान एवाविशदत्वं समर्थनीय-मित्यत्यभिप्रेत्य तदुपपादनायायं संरम्भः कृतः । स्वविषयं निवर्तकज्ञानमिति । स्वविषयं निवर्तकज्ञानं कमर् । इदानीं ज्ञानं कर्तृ । स्वशब्देन प्रतियोगिविषयकं ज्ञानमुच्यते । निवर्तकज्ञानं प्रतियोगिभूतज्ञानमित्यर्थः । विद्यमानं हि स्वाश्रयमिति । स्ववृत्तिवर्तमान-

स्यापरोक्षत्वादित्यर्थः । वर्तमानर्मापरकीयं न प्रत्यक्षम् । स्वीयमप्यतीतादिकं न प्रत्यक्षम् । स्वीयमप्यतीतादिकं न प्रत्यक्षम् । स्व-वृत्तिवर्तमानं च यज्ज्ञानं तदेव विशदमित्यर्थः । ततश्च स्वरूपतो विषयतश्चेदानीमभावप्रतियोगिभूतं ज्ञानमविशदमिति पर्यवसितो- ऽर्थः । अन्यथा प्रमाणज्ञाननिवत्र्याज्ञानेति । प्रमाणज्ञानाभावानभ्युपगमे प्रमाणज्ञानस्य सत्त्वप्रसङ्गेन तन्निवत्र्यमज्ञानं कथमनु- भूयत? प्रमाणज्ञानस्य विरोधिनः सत्त्वादित्यर्थः । तत्रायं परिहार इति । ननु "विशदतदर्थप्रतीतिर्नास्ति' इति भाष्य एवास्याः शङ्कायाः परिह्मतत्वात् किमिति टीकायां परिहारान्तरमुपन्यस्यत इति चेत्-न; विशदतदर्थप्रतिपत्तिनिषेधे विशदप्रतिपत्तेः स्मर-णावश्यंभावेन स्मृत्यारूढाया अपि विशदप्रतिपत्तेः सत्त्वमपेक्षितमिति हि शङ्काभिप्रायः; तत्र च यथाश्रुतभाष्येण परिहारासं- भवात् परिहारन्तरं टीकायामारब्धमित्यदोषः । यद्यपि भानसत्त्वे भासमानसत्त्वमपेक्षितमिति शङ्का मन्दा, अथापि सा मन्दविष-न्यायेन परिहर्तव्येति परिहार उपन्यस्त इति द्रष्टव्यम् । मेरुसाक्षात्कारः कथं निषिध्यत इति । यद्यपि स्वस्य मेरुसाक्षात्कारभावे- ऽपि परकीयमेरुसाक्षात्कारस्य पुराणादिनावगतस्य स्वात्मनि निषेधे नानुपपत्तिः, तथापि स्वीयमेरुसाक्षात्कारनिषेधस्थले स्वी-यमेरुसाक्षात्कारस्याप्रसिद्धत्वादिति शङ्काभिप्रायात् । इहांदृष्टचत्वरद्विरदेनेति । चत्वरीयो द्विरदश्चत्वरद्विरदः । नञर्थप्रतियोग्य-वच्छिन्नतयैवेति । यद्यप्यभावस्येव भावरूपाज्ञानास्यापि विरोधितया नञर्थत्वमविशिष्टम्-तथाप्यभावत्वपक्षे अभावस्य प्रतियो-ग्यवच्छिन्नत्वेन भाननियमवत् भावत्वपक्षे ज्ञानाविरोधित्वेनैव प्रतितिनियमाभावा(#ादि)इति भावः । अभावस्य नञर्थत्वसंभवा- दिति । "भावरूपाज्ञानवादिना ज्ञानाभावत्वस्य सर्वात्मनाऽनभ्युपगमेऽपि' इति शेषः । स्वरूपावच्छिन्नाज्ञानप्रतीताविति । प्रत्य-गर्थाज्ञानप्रतीतावित्यर्थः । स्वरूपभूतज्ञानादन्यतया तत्सिद्धेरिति । यद्यपि प्रमाणज्ञानादन्यतया तत्सिद्धावपि न निवत्र्यनिवर्त-कविरोधः, अन्ततो गत्वा प्रमाणज्ञानविरुद्धतया तत्सिद्धावपि न निवत्र्यनिवर्तकविरोधः । न हि प्रमाणज्ञानविरुद्धमित्युल्लिख्य-मानत्वमात्रेण विरोधिप्रमाणज्ञानमाविर्भूतमुपस्थितं स्यात्, येन विरोधो भवेत् । न हि "तेजोविरुद्दोऽन्धकारः' इत्युल्लेखमात्रेणा-न्धकारस्य तेजसा निवृत्तिर्भवति । इयं च शङ्कापिशाची "स्मृतेः स्मर्यमाणसमकालवर्तित्वनियमाभावात्' इति पूर्वमेव प्रतिक्षिप्ता च । ततश्च किं वैषम्यमभिप्रेत्य "स्वरूपज्ञानादन्यतया प्रतीतिरस्तु, न तु प्रमाणज्ञानाविरोधितया' इत्युपन्यस्यते इति चेत् । अत्र ब्राूमः-प्रमाणज्ञानास्य तदानीमसत्त्वे प्रमाणज्ञानविरुद्धतयाऽज्ञानस्योल्लेखः साक्षिणा न युक्तः, ज्ञातत्वाज्ञातत्वोपरागाभावे साक्षिणः स्वाध्यस्तविद्यमानमात्रग्राहित्वात् । तथाच प्रमाणज्ञानस्य साक्षिणोल्लेखमभ्युपगच्छता प्रमाणज्ञानस्य सत्त्वमभ्युपगन्त-व्यमिति । न हि स्वरूपभूतं ज्ञानं साश्रयं सविषयं चेति । यद्यपि स्वरूपज्ञानस्याज्ञानादिभासकस्य सविषयत्वमस्ति, तथापि साश्रयत्वाभावेन द्वित्वावच्छिन्नाभावमभ्युपेत्य तथोक्तमिति द्रष्टव्यम् । यद्वा "मामकं न जानामि' इति प्रत्यगर्थकर्मकत्वस्य ज्ञाने प्रतीते स्वरूपज्ञानस्य स्ववृत्तित्वविरोधेन प्रत्यगर्थविषयत्वाभावमभिप्रेत्य स्वरूपज्ञानस्य सविषयत्वाभावकथनमिति द्रष्टव्यम् । ननु "मामहं न जानामि' इत्यत्र न नञर्थप्रतियोगिनि ज्ञाने साश्रयत्वसविषयत्वप्रतीतिः, येनायं दोषः स्यात् । अपितु नञर्थ एवाज्ञान इत्याशङ्कय तत्रापि प्रत्यगर्थविषयत्वं तदावरणत्वम्; तच्च तद्विषयकज्ञानप्रतिबन्धकत्वमिति घट्टकुटीप्रभातवृत्तान्त इत्याह - स्व- रूपं किमाश्रयतयेत्यादिना । स्वस्मादन्येन केनापीति । स्वरूपभूतज्ञानान्यमात्रार्थकत्वस्य परेणोक्ततया तदन्येन येन केनाप्य-श्रितत्वमात्रं सिध्येदिति भावः । प्रमाणज्ञानप्रतीत्यवश्यंभावादीति । तत्प्रतीतौ प्रत्येतव्यस्य प्रमाणज्ञानस्य सत्त्वमावश्यकमिति भावः पूर्वोक्तो द्रष्टव्यः । प्रतीयते चेति व्याख्येयं पदम् । न तूभयाभ्युपगत इत्युक्तमिति । न तूभयाभ्युपेत एक इत्युक्तमित्यर्थः । "उभयाभ्युपेतो ज्ञानप्रागभाव एव "अहमज्ञो मामन्यं च न जानामि' इत्यनुभूयत इत्यभ्युपगन्तव्यम्' इति भाष्य उक्ततया न तदपलापश्चोदनीयः ।

न तु भ्रमवेलायामपि विद्यमानमिति । यद्यपि स्वानुभवैकस्वभावत्वस्यापि भ्रमवेलायां विद्यामानत्वमस्त्येव, अन्यथा तेन हेतुना अज्ञानानुभवप्रतिक्षेपायोगात्-तथापि तादृशस्य स्वानुभवैकस्वभावत्वस्य भ्रमवेलायां विद्यमानत्वं न पराभ्युपगतम्, अज्ञानानुभवस्वभावत्वस्याप्यभ्युपेतत्वादिति विशेषः ।

नैतदित्यादिना दूषयतीति । ननु-सिद्धान्तेऽपि "पराभिध्यानात्तु तिरोहितम्' इत्यादि कथमनुपपादनीयम्? अतिरोहि-तापहतपाष्मत्वाद्यवस्थस्य पुण्यापुण्यरूपपरमात्मसंकल्पेन तिरोधानं न संभवत्येव, प्रकृत्यात्मत्वस्वतन्त्रात्मत्वभ्रमशून्यावस्थायां कर्मणोऽप्रसक्तेः । अतस्तिरोधानानन्तरं पराभिध्यानस्य लब्धसत्ताकत्वम्, तस्मिश्च सति तिरोधानमित्यन्योन्याश्रय इति चेत्-न । कर्मतिरोधानयोर्बीजाङ्कुरन्यायेन प्रवाहानादितयाऽदोषात् । तन्मते अविद्याया एकत्वाभ्युपगमेन प्रवाहानादित्वानभ्युपगमादिति भावः । यौगपद्यपक्ष इति । यद्यपि हेत्वन्तरेण तिरस्कृतमिति पक्षो न यौगपद्यपक्षः, तस्य दूषितत्वात्-तथापि अनवस्था चेत्यत्र

चशब्दः पूर्वोक्तयौगपद्यपक्षेऽनुभवपूर्वकस्तिरस्कारः, तिरस्कारपूवर्कोऽनुभव इति पक्षद्वयोक्तदूषणद्वयमपि सूचयतीति भावः । ज्ञानानिवत्र्यदूषणद्वस्यापीति । इदं च तिरस्कारकहेत्वन्तरस्याननुभूयमानस्यैव काचादिवत्तिरस्कारकत्वमित्यभिप्रेत्योक्तम् । यदा तु तदपि हेत्वन्तरं हेत्वन्तरतिरस्कृतेनानुभूतमेव तिरस्कारोतीत्यभ्युपगम्यते तदानवस्यैवेति द्रष्टव्यम् ।

अनुमतिप्रदाने (मतप्रदर्शने) वर्तत इति । पक्षन्तरपरिग्रह इत्यर्थः । यः सांशः सविशेषः इत्यादेः अज्ञानकार्यं न संभवतीत्यन्तस्य भाष्यस्यायमर्थः- अविशदप्रकाशत्वं हि अविशदत्वविशिष्टं प्रकाशत्वम् । अविशदत्वं चाप्रकाशमानत्वम् । अप्रकाशमानत्वं च धर्मद्वारा धर्मिगतम् । प्रकाशमानत्वं च साक्षाद्धर्मिगतम् । ततश्चाप्रकाशमानधर्मकत्वे सति प्रकाशमानत्व-मविशदप्रकाशत्वमित्येवावगन्तव्यम् । न त्वविशदत्वप्रकाशमानत्वयोः साक्षादेकनिष्ठत्वम्, विरोधात् । य आकारोऽविशदः, तत्र प्रकाशमानत्वस्याभावेनाविशदप्रकाशमानत्वाभावात् । यश्च प्रकाशमानः, तत्राविशदत्वलक्षणाप्रकाशमानत्वाभावात् । ततश्चाविशदत्वलक्षणमप्रकाशमनित्वं धर्मद्वारकम्, प्रकाशमानत्वमद्वारकमित्येवाभ्युपगन्तव्यम् । ततश्च "निर्धर्मके ब्राहृण्यविश-दप्रकाशमानत्वं न संभवति' इति टीकाग्रन्थस्याप्यत्रैव तात्पर्यम् । विशदस्वरूपं प्रागस्ति न वेति विकल्पे विशदस्वरूपस्य प्राग-सत्त्वे विशदस्वरूपस्यागन्तुकत्वेनानित्यत्वप्रसङ्ग एवापादनीयः । न मोक्षस्य, व्यधिकरणत्वात् । किं च मोक्षस्याविद्यानिवृत्ति-रूपत्वेनाभावरूपतया कार्यत्वेऽपि नानित्यत्वापादनं युक्तमित्याशङ्कय मोक्षस्येत्येतद्वयाचष्टे-मुक्तस्वरूपस्येति । वैशद्यं च भावरूपमिति । विशदस्वरूपं च भावरूपमित्यर्थः ।

तदनवभासेऽज्ञानानुभवायोगादिति । प्रमाणज्ञानानवभासे तदन्यत्वानाज्ञानानुभवायोगात् प्रमाणज्ञानस्यावभासोऽपे- क्षितः ततश्चावभास्यमानस्य प्रमाणज्ञानस्यापि पूर्वोक्तरीत्या सत्त्वमपेक्षितमिति तदन्यरूपमज्ञानं कथमवभासेतेत्यर्थः । निर्वि- कल्पकेन वा सविकल्पकेन वेति । नित्येन वा, अनित्येन वेत्यर्थः । निर्विकल्पकसविकल्पकशब्दयोनिष्प्रकारकसप्रकारकपरत्वे परमतेऽज्ञानान्तःकरणतद्वर्मादिभासकसाक्षिचैतन्यस्वरूपस्य निष्प्रकारकत्वाभावात् अखण्डार्थवाक्यजन्यस्य वृत्तिरूपज्ञानस्य निष्प्रकारकत्वदर्शनेन वृत्तिज्ञानस्य सप्रकारकत्वनियमाभावच्च निर्विकल्पकसविकल्पकशब्दाभ्यां साक्षिस्वरूपचैतन्यवृत्तिज्ञान- परिग्रहं सिद्धवत्कृत्य दूषणानुपपत्तेः नित्यानित्यज्ञाने एव निर्विकल्पकसविकल्पकशब्दाभ्यां विवक्षिते इत्येव युक्तमिति द्रष्टव्यम् ।

अविद्यानुमाननिरासः

भाष्ये - हेतोरनैकान्त्यमिति । अप्रकाशितार्थप्रकाशत्वरूपलिङ्गजन्यायाः स्वप्रागभावेत्यादिसाध्यविषयकानुमिते-रप्यप्रकाशितार्थप्रकाशकत्वं स्वीकर्तव्यम्, इतरथा तस्याः प्रकाशितप्रकाशकत्वमप्रकाशकत्वं वा स्यात् ततश्चा तस्याबनुमितौ हेतुसत्त्वादनुमितिविषयीभूताज्ञानावारकाज्ञानानभ्युपगमेन स्वविषयावरणपूर्वकत्वलक्षणसाध्याभावेन हेतोरनैकान्त्यमित्यर्थः । यद्यपि परैः परोक्षस्थलमात्र एव वृत्तिनिर्गमाभविनाज्ञानानिवर्तकत्वस्याभ्युपगमेन परोक्षवृत्तिमात्रे व्यभिचारः सुवचः, तथापि परोक्षस्थले विषयावच्छिन्नचैतन्यस्थाज्ञानानिवृतावपि प्रमातृगताज्ञाननिवृत्तेरभ्युपेतत्वात् परोक्षज्ञानमात्रे व्यभिचारो नोद्भावित इति वदन्ति । केचित्तु इदमुपलक्षणं परोक्षज्ञानमात्रस्येति मन्यन्ते । अत्र जडविषयकज्ञानमात्रे व्यभिचारश्च बोध्यः । जडावारका-ज्ञानाभावात्, जडस्याप्रसक्तप्रकाशकत्वेन परैरावरणानभ्युपगमात् । न च जडावच्छिन्नचैतन्यावारकमज्ञानं संभवतीति वाच्यम्, घटविषयकज्ञानस्य घटावच्छ्न्चैतन्यावारकाज्ञाननिवर्तकत्वस्य भिन्नविषयत्वेनासंभवात् । न च "सर्वप्रत्ययवेद्ये च ब्राहृरूपे व्यव-स्थिते' इत्युक्तरीत्या घटादिज्ञानमपि तदवच्छ्न्नचैतन्यविषयमिति वाच्यम्, "न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च- नैनम्' इत्यादिश्रुतिविरोधात् । तथा हि सति "घटोऽस्ति' इति ज्ञाने सद्रूपब्राहृस्फुरणेन ब्राहृसाक्षात्कारादविद्यानिवृत्तिप्रसङ्गः । न च तस्य ब्राहृमात्रविषयकत्वाभावान्नाज्ञाननिवर्तकत्वमिति वाच्यम्, "दण्डी देवदत्तः' इति विशिष्टज्ञानस्य विशेष्याज्ञाननिवर्त-कत्वानापत्तेरितत्यादि दूषणं द्रष्टव्यम् । तस्य प्रमाणज्ञानस्याप्रकाशितार्थप्रकाशकत्वात् इत्यस्यानन्तरं "तस्य हेतोः' इति शेषः पूरणीयः । अतः स्वविषयावरणाज्ञानान्तरसाधनत्वे सतीत्यस्य नान्वयानुपपत्तिरिति द्रष्टव्यम् । तद्विरोधादेव न हेतोरनैकान्त्य-मिति । न चासल्लिङ्गजन्याय अप्यनुमितेर्विषयाबाधेन प्रमात्वसंभवान्न विरोध इति वाच्यम्, असल्लिङ्गस्य प्रमायामसामथ्र्यात् । वह्निमत्पर्वते व्यभिचारिलिङ्गजन्यानुमितेरपर्वतीयवह्निविषयतया वा पर्वतस्थापाषाणादौ वह्नित्वविषयतया वा भ्रमत्वावश्यंभा- वात्, लिङ्गोपहितलैङ्गिभानेन भ्रमत्वावश्यंभावाच्चेति भावः । तत्र वृत्त्यभावादिति । अप्रकाशिकार्थप्रकाशकत्वस्याबाध्यव्यव-हारानुगुण्यरूपप्रमात्वपर्यवसितस्य तत्रानुमितावभावादिति भावः । अज्ञानानुमितेः प्रमात्वे प्रकाशितार्थप्रकाशकत्वस्य व्यभिचा-रित्वावश्यंभावेन व्यभिचारिहेतोः प्रमाजनकत्वविरोधः, अप्रमात्वे प्रमात्वरूपहेतोव्यभिचारित्वेन सल्लिङ्गत्वावश्यंभावेन तस्या-

प्रमाजनकत्वविरोध इत्यभिप्रायेण परिहरति - उच्यत इत्यादिना । अन्यतराभावेऽपि साध्यसिद्धयभावादिति । ननु ज्ञानसौष्ठव-मात्रेणापि साध्यं सिध्यतीति चेत् । सत्यम् । तदपि हेत्वनैकान्त्येन सिध्यतीत्यत्र तात्पर्यात् । अभावाद्विवेचनमात्रं क्रियत इति । न चाभावविवेकस्याप्रकाशितस्य प्रकाशकतया व्यभिचारस्तदवस्थ इति वाच्यम्, अभावविवेकावारकाज्ञानसत्त्वेन तन्निवर्तकत्व-स्यानुमितौ संभवेन व्यभिचाराभावात् । अहमर्थधर्मभूतेति । धर्मभूतज्ञानभिन्नेनेत्यर्थः । अज्ञानसिद्धावनुमानप्रामाण्यमिति । उक्तीरीत्या अस्याभावविवेचनुमितित्वेन व्यभिचाराभावादिति भावः । भावरूपाज्ञानसिद्धिरिति । भावरूपतयाऽज्ञानसिद्धिरि- त्यर्थः । ज्ञातुरपि तत्कल्पितत्वादिति । ततश्चाज्ञानकल्पिताहमर्थधर्मभूतज्ञानस्यागन्तुकस्यानाद्यज्ञानभासकत्वासंभवेन । अनाद्य-ज्ञानभासकं नित्यं साक्षिचैतन्यमभ्युपेयमिति भावः । तदुत्तीर्णसाक्षिचैतन्येनेति ननूत्तीर्णचैतन्यसिद्धौ भावरूपाज्ञानसिद्धिर्नापे- क्षिता । साक्षिसिद्धेस्तदेकोपायत्वाभावात्, धारावाहिकज्ञानसुखादिभासकत्वोनापि सिद्धिसंभवात् । किंच "मामन्यं च न जानामि' इति साक्षिचैतन्येनाज्ञानसिद्धौ साक्षिणोऽहमर्थोत्तीणत्र्वसिद्धिरपि नोपजीव्या । न हि "अयं घटः' इति ज्ञानेन घटसिद्धौ घटज्ञा- नस्य देहान्तःकरणात्मधर्मत्वादिविवेकोऽपेक्षित इति चेत्-सत्यम् । तस्याः प्रणाड¬ अपि परैरुपन्यस्तत्वात्तद्रीतिमनुसृत्यान्योन्या- यश्रय उपन्यस्त इति द्रष्टव्यम् । भाष्ये-सत्यपि दीप इति । ज्ञानमनुत्पाद्य विषयप्रकाशकत्वायोगादित्यर्थः । ततश्च ज्ञानेन सह-तस्यप्रकाशकत्वमस्तीति शङ्का निरस्ता । असिद्धिः फलति#ेति । ज्ञानस्यैव हि साक्षात् प्रकाशकत्वमिति तस्यार्थ इति भावः । इन्द्रियाणामित्यनेन तृतीयपक्ष इति । "तर्हीन्द्रियाणामप्युपकारकत्वेन तेषामप्यप्रकाशितार्थप्रकाशकत्वमङ्गीकरणीयम्' इति ग्रन्थेनेति भ्रमितव्यम्, एतस्य हेत्वभावसमर्थनपरस्य तद्विरुद्धानैकान्त्यसमर्थनाभिप्रायानुपपत्तेः । "नास्माभिज्र्ञानतुल्यप्रकाश-कत्वाभ्युपगमेन' इत्येतत्पर्यन्तभाष्यग्रन्थस्य साक्षात्प्रकाशकत्वरूपपक्षव्युदासकत्वेन पक्षान्तराप्रतिक्षेपकत्वात् । ननु यदि सर्वत्र ज्ञानस्यैव प्रकाशकत्वम्, तर्हीन्द्रियस्य प्रकाशकत्वं न स्यादित्याशङ्कयेष्यापत्त्या परिहरति भाष्ये-इन्द्रियाणामपि ज्ञानोत्पत्ति-हेतुत्वमेवेति । मात्रचार्थपरिच्छेदव्युदास इति । अत्र "प्रमाणे द्वयसज्घ्नञमात्रचः' इति मात्रच्प्रत्ययः प्रमाणार्थः । विरोधिनि-रसनपर्यन्तत्वरूपं प्रकाशकत्वं न संप्रतिपन्नमित्यर्थः । ननु "क्षीरमात्रं पिब' इत्यत्रेवोत्तरपदत्वनियतव्यवच्छेदार्थकं मात्रपदम् । तथा हि सति, "विरोधिनिरसनमात्रं न संप्रतिपन्नम्' इत्युक्ते "इतरसहितं तु संप्रतिपन्नम्' इति प्रतीयेत । अतो यथोक्त एवार्थः । तद्धि साध्यं न संप्रतिपन्नमिति । ततश्च भाष्ये संप्रतिपन्नमिति शेषः पूरणीय इति भावः । नन्वपकाशितार्थप्रकाशकत्वहेतौ विक- ल्पेन दूषितेऽपि इन्द्रियादिव्यभिचारवारणार्थं भासमानत्वविशेशिततया पूर्वमुपन्यस्तो हेतुनर् दूषित इत्याशङ्कय विशेष्यदूषणादेव विशिष्टोऽपि दूषित इत्याह-भासमानत्वे सत्यप्रकाशितार्थप्रकाशकत्वादिति हेतौ विशेषितेऽपीति ।

अनुमाने पक्षस्योभयसिद्धत्वस्यापेक्षितत्वान्नेदमनुमानरूपम्, अपितु प्रतिकूलतर्करूपमित्यभिप्रयन्नाह - अथास्यानु-मानस्येति । प्रयोगशब्दस्यानुमान एव प्रयोगप्रसिद्धिमाशङ्कयाह-तर्कस्यापि व्याप्तिमूलत्वादिति । यथाक्रममनुमानत्रयमिति । प्रतिकूलतर्कत्रयमित्यर्थः । ननु कथमेषामेतदनुमानप्रतिरोधित्वम्? प्रत्युस्वविषयावरणस्वदेशगतेतिविशेषणानुकूलत्वमेव । ताभ्यां हि विशेषणाभ्यां ज्ञानसमानाश्रयं ज्ञानसमानविषयं चा(ह्र)ज्ञानं साध्यते । तत् कथं प्रकृतानुमानविरुद्धमिति चेत्-न,अर्थानव- बोधात् । स्वदेशगतत्वस्वविषयावरणत्वस्वनिवत्र्यत्वानां साधनं चिन्मात्राश्रितत्वचिन्मात्रविषयत्वप्रतिकूलं यथाक्रममनुमानत्रयम् अज्ञानं पक्षीकृत्योच्यत इत्यर्थः । अज्ञानं न प्रमात्राश्रितं, नापि प्रमेयजडविषयकम्, अपितु चिन्मात्राश्रितं चिन्मात्रविषयकं चेति वदतः स्वदेशगतस्वविषयावरणेत्यनुमानोक्तिर्विरुद्धेति पर्यवसितोऽर्थः । ज्ञानानाश्रयत्वप्रसङ्ग इत्युक्त इति । अज्ञानं चेत्, ज्ञानं नाश्रयेदित्यर्थः । ब्राहृणो ज्ञाननिवत्र्याज्ञानत्व इति । ज्ञाननिवत्र्याज्ञानविषयत्व इत्यर्थः । उत्तरोत्तरज्ञानानां सपक्षत्वमपि ह्रुप- पद्यत इति । अपिशब्दो भिन्नक्रमः । अज्ञानानुमितिवत् उत्तरोत्तरमानानामपीत्यर्थः । अतो भाष्योक्तस्याज्ञानसाधनप्रमाणज्ञान- स्यापि दृष्टान्तत्वं न विरुध्यत इति द्रष्टव्यम् । यद्वा अज्ञानसाधकप्रमाणज्ञानस्योभयसंप्रतिपन्नत्वाभावात् उत्तरोत्तरमानानां सपक्ष-त्वमुक्तमिति द्रष्टव्यम् । न वस्तुनो विनाशकमिति । प्रागभावस्याभावरूपस्यावस्तुत्वात् वस्तुत्वेऽपि ज्ञानस्य स्वप्रागभावविना-शरूपत्वेन विनाशकत्वाभावाद्वा न बाध इति भावः । व्यतिरेकव्याÏप्त द्विधा दर्शयतीति । ईश्वरयोगज्ञानादौ शक्तिविशेषोपबृंह-णविरहरूपविशेषणविरहेण मुद्गरादौ ज्ञानत्वरूपविशेष्यविरहेणेति दर्शयतीत्यर्थः । भाष्ये-अज्ञानं च दृष्टमिति । ज्ञानभिन्नं च दृष्टमित्यर्थः ।

पूर्वभ्रान्तिज्ञानोत्पन्नानामितीति । भ्रान्तित्वेन ज्ञायमानपूर्वज्ञानोत्पन्नानामित्यर्थः । बाध्यज्ञानोत्पन्नानामिति यावत् । न तु वस्तुसत भ्रान्तित्वं विवक्षितम्, प्रमितिजन्यभयस्यापि भ्रमरूपबाधकज्ञानेन निवृत्तिदर्शनादिति द्रष्टव्यम् । "क्षरिकत्वेन स्वय-

मेव नश्यतीति भाष्यमयुक्तम्; दीपज्वालादौ व्यभिचारात्, तस्य कारणनाशनाश्यत्वेन स्वयमेव नाशाभावात् । किंच नाशका-भावेऽपि नाशे अहेतुककार्योत्पविप्रसङ्गः' इत्याशङ्कय "क्षणिकत्वात् स्वयमेव नश्यति' इत्यस्य कारणनाशाद्यनाश्यं क्षणिकं फलविनाश्यमित्यर्थ इत्याह - फलविनाश्यानि द्दीति । उक्तविशेषणेनेति । यत् क्षणिकं तत् फलविनाश्यमित्युक्ते ज्वालादौ व्यभिचारः स्यात् । समवायिकारणनाशाद्यनाश्यं क्षणिकं फलविनाश्यमित्युक्ते तु न व्यभिचार इति भावः । तथा भयाद्यपीति । तथा च भयाद्यपीत्यर्थः । तर्हि सदा भयसंततिरुपलभ्येतेति । नन्वयं दोषोऽक्षणिकत्ववादिनोऽपि समान एव, भयस्याक्षणिकत्वे सर्वदोपलब्धिप्रसङ्ग इत्यापादनसंभवादिति चेत्-सत्यम् । कस्यचित् तटस्थस्येदृशशङ्कासंभवात् । केचित्तु-बाधकज्ञानेन तेषामनाशे उत्पन्नबाधकज्ञानस्यापि पुंसो भयोपलम्भः किं न स्यादित्याशङ्कय, किं पूर्वभयोपलम्भ आपाद्यते, उतोत्तरभयोपलम्भ इति विकल्प्य, पूर्वस्य स्वत एव नष्टत्वात् उत्तरस्य च कारणाभावेनानु#ात्पत्तेर्न भयोपलम्भप्रसङ्ग इत्याह भाष्ये-क्षणिकत्वेन तेषामि-त्यादिनेति टीकातात्पर्यं वदन्ति । अनन्तरनिवृ रन्यथासिद्धिमाहेति । अत्र केचित्-"क्षरिकत्वेन तेषां स्वयमेव नाशात्' इति ग्रन्थेनैव यावद्वाधं भयस्वरूपानुवृत्तेरनन्तरनिवृत्तेश्च हेतोरन्यथासिद्धिः संभवति । किं च "कारणनिवृत्त्या पश्चादनुत्पत्तेः' इत्यने-नानन्तरनिवृत्तेरन्यथासिद्धरपि दुर्वचा, तस्य ग्रन्थस्य तदन्यथासिद्धयुपपादकत्वाभावादिति चोदयन्ति । ननु तन्निवृत्तिर्दोषनिवृ- त्त्या चेत् "नायं सर्पो रज्जुरेषा' इति ज्ञानस्योपदेशो न स्यादित्याशङ्कय रज्जुत्वमानस्य रज्जुत्वरूपविशेषादर्शनरूपदोषनिवृत्ति- द्वारा सर्पपारमाथ्र्याभिमानरूपभ्रमोत्पविप्रतिबन्धमुखेन भयानुत्पत्तिहेतुत्वमित्यभिप्रयन्नाह-नायं सर्पो रज्जुरेषेति ज्ञानमिति । स्वविषयव्यवहारहेतुरिति दृष्टान्तार्थम् । यथा साक्षात् स्वविषयव्यवहारहेतुः, नैवं भ्रमनिवृत्तौ साक्षाद्भेतुरिति भावः । न च विशे-षादर्शनरूपदोषस्य तन्निवत्र्यत्वाभ्युपगमेऽपि ज्ञानस्य वस्तुनाशकत्वाभ्युपगमप्रसङ्ग इति वाच्यम्, भावस्यैव विनाश्यत्वानभ्युप- गमेन विशेषादर्शनस्य विनाश्यत्वाभ्युपगमे दोषाभावात् । न च सिद्धान्ते भावातिरिक्ताभावानुभ्युपगमाद्विशेषादर्शनमपि भाव एवेति वाच्यम्, ज्ञानं स्वप्रागभावव्यतिरिक्तविनाशकं नेत्यभ्युपगमे विरोधाभावादिति भावः ।

( अनिर्वचनीयत्वानुपपत्तिः )

विद्यमानभेदाग्रहणेति । विद्यमानस्य भेदस्याग्रहणेत्यर्थः । स्वविषयान्यथात्वेति । अन्यस्यान्यात्मनाऽवभासेत्यर्थः । अत्र, अन्यस्यान्यात्मनेत्येव भ्रान्तिस्वरूपम्; इतरांशेन तत्कार्यकारणयोः कीर्तनमिति द्रष्टव्यम् । स्वविषयोल्लेखमात्रेणेति । किमनिर्वचनीयोल्लेखित्वादासां प्रतीतीनां तत्र प्रामाण्यम्, उत सतो वाऽसतो वा प्रतीतिभ्रान्तिबाधविषयत्वासंभवादनिर्वचनीयत्वं कल्प्यत इत्यर्थः । उपपत्तिनिरपेक्षाणामेवैषां घयादिविषये "अयं घटः' इति प्रत्यक्षस्येव तत्र प्रामाण्यम्, उतोपपत्तिभिर्निष्कृष्यमा-णानामेवैषामिति पर्यवसितोऽर्थः । प्रतीत्युल्लिख्यमानमिति । न च विषयत्वमपि ह्रुल्लिख्यमानत्वमेवेति प्रतीत्युल्लिख्यमानमेव प्रतीतिभ्रान्तिबाधोल्लिख्यमानमित्युक्ते प्रयोज्यप्रयोजकाभेद इति वाच्यम्, उल्लिख्यमानमेवोल्लिख्यमानतयाऽभ्युपगन्तुं युक्तमित्यर्थ-कत्वेनादोषात् ।

विस्तरार्थं परमातमनुवदतीति । ननु प्रतीतिभ्रान्तिबाधौरज्ञानस्यानिर्वच नीयत्वं प्रागुपन्यस्तम् । अधुना शुक्तिरूप्ये प्रतीतिभ्रान्तिबाधा उपन्यस्यन्त इति वैरूप्यात् कथमेतस्य पूर्वोक्तविस्तररूपत्वमिति चेत्-न, पूर्ववाक्यस्यापि शुक्तिरूप्यविष- यत्वेन विरोधाभावात् । नन्वेवमपि "शुक्तयादिषु रजतादिप्रतीतेः' इत्यादिभाष्यस्य पूर्वोक्तार्थविस्तररूपत्वं न संभवति । पूर्वं हि शुक्तिरूप्यादेः प्रतीतिभ्रान्तिबाधविषयत्वं सिद्धवत्कृत्य तदन्यथानुपपत्त्याऽनिर्वचनीयत्वं साधितम् । इदानीम् "अन्यस्यान्यथा-भानायोगाच्च' इत्यन्यथाख्यात्यसंभव एव प्रतिपाद्यते । कथमनयोः संकोचविस्तररूपत्वमिति चेत्-न; अन्यथाख्यातिरूपभ्रमा-संभवात् सद्भिन्नविषयत्वेन च भ्रमत्वस्योपपाद्यत्वात् तादृशभ्रमविषयत्वानुपपत्तिरेवेहापि प्रमाणीकियत इति संक्षेपविस्तररूपत्वे नानुपपत्तिरिति द्रष्टव्यम् । अस्ति चेद्यथार्थैव प्रतीतिरिति । इदं च दूषणं धर्मधर्मिणोर्मिथस्तादात्म्यपक्षेऽपि समानम् । ज्ञानगतमन्यथात्वमित्यत्र किं शुक्तिज्ञानस्य रजतज्ञानत्वमन्यथात्वमित्यर्थः, उत शुक्तिज्ञानस्य रजतरूपत्वमन्यथात्वमिति विकल्प्याद्यं दूषयति-विषयोऽन्यो ज्ञामन्यदेवेति नोपपद्यत इति । अन्यविषयकज्ञानेऽन्यविषयकज्ञानत्वं नास्तीत्यर्थः । ततश्चा- सतो ज्ञानन्तरतादात्म्यस्य ख्याने असत्ख्यातिप्रसङ्गः इति भावः । द्वितीयं दूषयति-आत्मख्यातिप्रसङ्गश्चेति । न हि पुरोवर्तिनि रजतधर्मिसंबन्ध इति । न हि पुरोवर्तिनि रजताभेद इत्यर्थः । अन्यत्र संबन्धमात्रमिति । शुक्तिरजततादात्म्यस्य वा शुक्तिरज-तवैशिष्टयस्य वा असत्त्वेऽपि रजतत्ववैशिष्टयस्य वा रजततादात्म्यस्य वा सत्यरजते प्रसिद्धत्वादिति भावः । संबन्धद्वयानव-भासादिति । अन्यत्र सतः संबन्धस्यान्यत्र भाने संबन्धसंबन्धो भासत इत्यर्थः स्यात् । ततश्च संबन्धद्वयमानप्रसङ्ग इत्यर्थः । शङ्कते-

संबन्धस्य संबन्धान्तरानपेक्षत्वादिति । निरन्तरं भातमिति । अगृहितासंसर्गतयैकप्रतीत्युपारूढमित्यर्थः । न हि प्रतिबन्धेति । ततश्च प्रवृत्तिबाधमात्रस्य न प्रयोजकत्वम् । अपितु प्रवृत्तिबाधसचिवस्य "नास्ति' इति प्रत्ययस्यापीति भावः ।

आरोप्यलिङ्गानुविधायीति । ग्रहणस्मरणात्मकत्वे "इयं रजतम्' इत्यपि स्यादिति भावः । न तु तत्पक्ष उप्यस्त इति । तन्मते ज्ञानैक्यानभ्युपगमादिति भावः । भाष्ये-विषयासद्भावपक्ष इति । माध्यमिकमते ज्ञानमपि नास्ति । यागाचारमते ज्ञाना-भिन्नतया विषयोऽप्यस्ति । एतन्मते तु ज्ञानमस्ति, विषयो नास्तीति विशेषः ।

विद्यमानविषयकारणकत्वेनेति । विषयजन्यत्वेनेत्यर्थः । कारणत्वे विद्यमानत्वमपि सिध्यतीत्यभिप्रेत्य विद्यमानेत्यु- क्तम् । तस्या वृत्तिज्ञानत्वेनेति । अपरोक्षवृत्तिज्ञानत्वेनेत्यर्थः । ततश्च परोक्षवृत्तिज्ञाने विषयरहितावस्थासंभवेन न दोष इति ध्येयम् । विरम्य व्यापारवचनाच्चेति । निर्वषयमुत्पन्नं सत् विषयमुत्पाद्य पश्चाद्विषयीकरोतीति क्रमिकव्यापारद्वयाश्रयणात् विरम्य व्यापार इति द्रष्टव्यम् । पुरुषगतत्वस्यापि संभवादिति । यद्यपीन्द्रियापेक्षया प्रमात्रपेक्षया दूरत्वं विषयगतमेव; न पुरुषगतम्- अथापि सामान्यतो दूरत्वमात्रस्य दाषत्वमिति वदन्तं प्रतीदं दूषणमिति द्रष्टव्यम् । उभयत्रेति । ननु विषय इव पुरुषेऽप्यविद्यावृत्ति-रूपभ्रान्त्युत्पादनेनोभयत्र कार्यमुत्पाद्यत इति शक्यं वक्तुमिति चेत्-न । उभयत्रैकरूपकार्योत्पत्तिप्रसङ्ग इत्यत्र तात्पर्यात् । तत्र कार्यकरत्वं दृष्टमिति । विषयविषयकज्ञानोत्पत्तेरिति भावः । दोषांशस्याकार्यकरत्वादिति । चउ#ूरश्म्यादेर्यथा तथा वस्तु । दोषां- शस्य तु न क्वापि भिन्नाधिकरणे कार्यजनकत्वं दृष्टम् । अतो न प्रमात्राश्रितदोषस्य विषयनिष्ठानिर्वचनीयरजतोत्पादकत्वमिति भावः । ननु दुष्टेन्द्रियसंप्रयोगस्यागन्तुकदोषस्य संभव सत्याशङ्कयाह-इन्द्रियसंयोगस्येति । दृष्टिविषादिन्यायस्येति । दृष्टौ विषं येषां ते दृष्टिविषाः केचन सर्पविशेषाः । ते हि चतुरिन्द्रियसंप्रयोगेण विषमुत्पाद्य पुरुषान् घ्नन्तीति प्रसिद्धिः । तद्वत् दुष्टेन्द्रियसंप्र-योगमात्रेण रजतमुत्पाद्यतामित्याक्षेपाभिप्रायः । तत्रैव कार्यविशषेमिति । पुरुषविशेष एव ज्ञानादिकमुत्पादयति, न तु परुषान्तर इत्यर्थः । यथा देशादिषु दोषाः प्रादुःष्युरिति संभावनायां लिङ् । प्रादुर्भावसंभवः इत्यर्थः ।

भाष्यं-सा किं परमार्थभूता, अपरमार्थभूता वेति । सत्यरजते शुक्तिरूप्यादौ च प्रतीयमानेत्यर्थः । न च सत्यरजते सत्या, मिथायारजते मिथ्येति किं न स्यादिति वाच्यम्, तदा रजतत्वजातेः साधारणत्वाभावेनोभयत्राप्यैकरूप्यस्य वक्तव्यत्वा- दिति भावः । व्यक्तिबाधेऽपि जातेरबाधितत्वप्रसङ्ग इति । न हि "इदं रजतम्' इति प्रतीयमानयोर्जातिव्यक्तयाकारयारेकस्य बाध्यत्वमपरस्य नेति दृष्टम् । आपणस्थरजतव्यक्तीति । रजतत्वजातिमात्रस्यापारमाथ्र्याभ्युपगमेनापणस्थरजतनि#ेठरजतत्व- जातेरपि तथाप्वावश्यंभावादिति भावः । कदाचित् बाधितत्वप्रसङ्ग इति । व्यक्तिः सती, जातिर्नास्तीति कदाचित् बुद्धिः स्यादि- त्यर्थः । क्वचिदपि परमाथर्बुद्धिशब्दहेतुत्वादर्शनादिति । यद्यपरमार्थभूताति जातिः परमार्थव्यक्तौ क्वचिद्वर्तेत, तदा व्यक्तिगतपरमार्थ-त्वैकार्थसमवायात् जाति परमार्थभूतेत्येवं परमार्थबुद्धिशब्दयोः कथंचिन्निर्वाहकत्वदर्शनात् अपरमार्थव्यक्तिस्थलेऽप्यपरमाथर्जातौ परमार्थबुद्धिशब्दयोर्निवाहः संभवेत् । यदि च क्वापि परमार्थव्यक्तिसंबन्धो न स्यात्, तर्हि क्वापि परमार्थबुद्धिशब्दनिर्वाहकत्वादर्श- नात् भ्रान्तिस्थलेऽपि तन्निर्वाहो न स्यादित्यर्थः ।

( सत्ख्यातिः )

पाठक्रमेणाण्डसृष्टेः पश्चादिति । "नामरूपे व्याकरोत् । तासां त्रिवृत्तं त्रिवृतमेकैकामकरोत्' इति पाठक्रमेणेत्यर्थः । संकल्पे तु (फूलं) पूर्वभावीति । फलेच्छा पूर्वं भवति; पश्चात् तत्साधनेच्छा भवति; उपायेच्छाया इष्टसाधनताज्ञानजन्यत्वादिति भावः । किं केन कथमित्यादाविति । यद्यपीयं जिज्ञासारूपा शाब्द्याकाङ्क्षा, न तु फलोपायेच्छारूपा । अत एव हि "करोति' इत्युक्ते "किं करोति, सर्वस्वापहारं करोति, शिरश्छेदं करोति' इति भाव्ये जिज्ञासा जायते । अथापि फलोपायविषयकेच्छापि फलोपायजिज्ञासातुल्यशीलेति भावः । न च भाव्याकाङ्क्षायाः पूर्वभावित्वे समानपदोपात्तदात्वर्थस्यैव भाव्यत्वेनान्वयः स्यादिति वाच्यम्, समानप्रत्ययोपात्तविध्यवरूद्धाया भावनायाः समीहितभाव्यापेक्षितया यागस्य भाव्यतया नान्वयः, अपितु करणत्वेनेति स्वर्गकामाधिकरणे स्थितत्वादिति द्रष्टव्यम् । अस्मिन्नर्थे निदर्शनिमिति । "बहु स्यां प्रजायेय' इत्यत्र, "प्रजायेय' इति निर्दिष्ट-प्रजननापेक्षया "ब्राहु स्याम्' इति पूर्वनिर्दिष्टस्य बहुभवनस्य कार्यत्वदर्शनात् तद्वदेव "नामरूपे व्याकरवाणि । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि' इत्यत्र संकल्पवाक्ये पूर्वनिर्दिष्टस्य नामरूपव्याकरणस्य कार्यत्वं निश्चीयते । ततश्च "नामरूपे व्याकरोत् । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि' इत्यत्र संकल्पवाक्ये पूर्वनिर्दिष्टस्य नामरूपव्याकरणस्य कार्यत्वं निश्चीयते । ततश्च "नामरूपे व्याकरोत् । तासां त्रिवृतं त्रिवृतमेकैकामकरोत्' इति वाक्ये पाठक्रमो बाध्य इति भावः । ननु त्रिवृत्करणनामरूपव्याकरणयोः

कार्यकारणभावे यस्य विप्रतिपत्तिः, तस्य बहुभवनप्रजननयोः कार्यकारणभावः कथं संप्रतिपन्नः स्यात्? न ह्रयमर्थस्ततोऽपि सुप- #्रसिद्धः । किं च कथमस्य श्लोकार्धस्येदृशार्थसूचकत्वमिति चेत्-न । बहुभवनप्रजननयोः कार्यकारणभावस्य सुप्रसिद्धत्वात् । इत- रथा भाष्यकृता निर्दानतयोपादानासंभवात् । न च निर्दशनतयोपादानमस्मिन् श्लोकेऽसिद्धमिति वाच्यम्, व्याख्यानतो विशेष-प्रतिपत्तिसंभवात् । अस्याप्तुपनिषदीति । छान्योग्ये तेजः-प्रभृत्तिसृष्टेरेवोपात्तत्वात् आकाशवायुसृष्टेरनुक्तेः "तिस्त्रो देवताः । त्रिवृतं करवाणि' इत्युक्तिः । नैतावता पञ्चीकरणं नास्तीति मन्तव्यम्, त्रिवृत्करणस्य पञ्चीकरणोपलक्षणार्थत्वादिति भावः । अवस्थाद्वयमस्तीति । ततश्च "संहतिं विना, असमागम्य' इति पदद्वयस्य न पौनरुक्तयमिति भावः । "समेत्यान्योन्यासंयोगम्' इति संहतत्वावस्ताकथनेऽपि कृत्स्नशःसमागतत्वरूपावस्थान्तरं नोक्तमिति शङ्कां व्युदस्यति - उपात्तवचनानन्तरमिति । पुराणे-

"समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ।

एकसंघातलक्ष्याश्च संप्राप्यैक्यमशेषतः ।।'

इति पाठक्रमादिति भावः ।

सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावात् इति भाष्यस्यायमर्थः-"यदि सोमं न विन्देत् पूती-कानभिषुणुयात्' इत्यनेन सामाभावे निमित्ते नैमित्तिकतया फलचमसवत् पूतीका न विधीयन्ते, अपितु सोमावयवस्य सोमसदृश-द्रव्येषु सत्त्वात् प्रतिनिधित्वेन पूतीकानां तदतिरिक्तद्रव्याणां च प्राप्तौ पूतीकानेव गृह्णीयादिति नियमार्थं पूतीकग्रहणं श्रुतिचोदि-तमिति । ततश्च, "सोमावयवसद्भावात् पूतीकग्रहणं श्रुतिचोदितम्' इत्यस्य, चोदनायां सोमावयवसद्भावो हेतुः, अतश्चोदनानु- पपत्त्या सोमावयवसिद्धिरित्यर्थ इति न भ्रमितव्यम्, सोमावयवसद्भावे न्यायस्यैव ज्ञापमतया चोदनाया अज्ञापकत्वात् । भाष्ये-व्रीह्रभावे न नीवारग्रहणं व्रीहिभावत इति नीवारग्रहणं न्याय्यमिति न्यायविदो विदुरिति योजना । षष्ठे प्रतिनिधिपेटिकायामस्य न्यायस्य व्युत्पादितत्वादिति भावः । एतत् सर्वमभिप्रेत्याह-अयं विधिर्नियमार्थ इति । प्रतिनिधिश्रुत्यैवेति । प्रतिनिधिश्रुतेर्निय-मविधित्वसंपादकन्यायेनेत्यर्थः । एवं हि स्थितिः षष्ठे - "ब्रााहृणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात्' (6-2-31) इत्यत्र सोमयागस्य, "वसन्ते वसन्ते ज्योतिषा यजेत' इति वीष्सया विष्सितवसन्तस्य निमित्तत्वावगमात् नित्यत्वं स्थापितम् । नित्ये च यथाशक्तयङ्गोपसंहारेणाप्यधिकारोऽस्तीति सर्वशक्तयधिकरणे स्थितम् । ततश्च सामेद्रव्यरूपाङ्गाभावेऽपि द्रव्यान्तरमादाय शक्याङ्गोपसंहारेण यागस्य कर्तव्यत्वं सिद्धम् । तत्र च सोमद्रव्यसदृशस्य वा तद्विसदृशस्य वा यागनिर्वर्तकतया यागाविध्याक्षेप-बलादुपादानं कर्तव्यमिति, "श्रुतिप्रमाणत्वाच्छिष्टाभावे नागमोऽन्यस्याशिष्टत्वात्' (6-3-13) इत्यत्र स्थितम् । तत्र च सदृश-द्रव्योपादाने तत्र सोमावयवानामपि सत्त्वात् सोमशास्त्रस्याप्यनुग्रहाय सोमसदृशद्रव्योपादानमेव युक्तमिति, "सामान्यं तच्चिकीर्षा हि' (6-3-27) इत्यत्र स्थापितम् । तत्र च बहुषु सोमसदृशद्रव्येषु सत्सु पूतीकविधिनिर्यमार्थः-यः सोमलताया अभावेन सामे-जातिपरिच्छिन्नान् सकलावयवान् उपादातुमशक्तस्तत्सदृशान् विकलावयवान् उपादित्सते स पूतीकानेवेति नियमार्थमिति निर्णीतं "नियमार्था पुनःश्रुतिः' इति (3-6-40) तृतीयाध्यायधिकरणे, "वचनाच्चान्याय्यमभावे' (6-3-31) इति षष्ठाधायायाधि- करणे चेति । एवं च न्यायेनैव सदृशे तदवयवस्थितिर्निर्णेया, न तु श्रुत्या । अतो यथोक्त एवार्थः । अत एवास्वरसादाह-यद्वा त्रिवृत्करणेति ।

उपजीव्यत्वाय तदुक्तिरिति । "अदृष्टवशाच्चाम्बुनो ग्रहणम्' इत्युक्ते रुपलक्षणत्वादिति भावः । पूर्वोत्तरज्ञानयोस्तथा-रूपत्वादिति । विद्यमानशुक्तयवयवभूयस्त्वाग्रहणरूपस्य रजतज्ञानस्य बाध्यत्वं विद्यमानभूयस्त्वग्रहस्य शुक्तिज्ञानस्य बाधकत्व-मिति भावः । न च विद्यमानभूयस्त्वप्रतियोगिभूतरजतावयवानां "नेदं रजतम्, किंतु शुक्तिः' इति ज्ञानकालोऽप्रतीतेः कथं तत्प्रति-योगिकं भूयस्त्वं भासेतेति वाच्यम्, वस्तुतो यदवयवा भूयांसः, तज्ज्ञानं बाधकम्; यदवयवा अल्पीयांसः, तज्ज्ञानं बाध्यम् । बाध्यत्वञ्च बाध्यप्रवृत्तिकत्वम्; विफलप्रवर्तकत्वमिति यावत् । अत एव "प्रवृत्तेर्बाधितत्वं विफलत्वं वा3 इति वक्ष्यति । अत एव- क्वापि शुक्तौ शुक्तिज्ञानस्य रजतज्ञानेन बाधो न स्यात्, रजतज्ञानस्य वस्तुतोऽल्पविषयत्वेन वास्तवभूयोवयवविषयत्वाभावादिति शङ्का परास्ता । शुक्तौ शुक्तिज्ञानस्य विफलप्रवृत्तित्वाभावेन बाध्यत्वाभावादिति द्रष्टव्यम् । धम्र्यन्तरनिष्ठत्वेति । रजतत्वादौ रूपे धम्र्यन्तरनिष्ठत्वभानविरहः रूपिणि शुक्तयादौ रजतत्वविरोधिधर्मान्तराश्रितत्वभानविरहोऽप्यपेक्षित इत्यर्थः । अत एव भेदग्रहणादिति । इषंभेदाग्रहः प्रवर्तकः, अनिष्टभेदाग्रहो निवर्तक इत्यभ्युपगमेन भेदाग्रहमात्रस्य प्रवर्तकत्वानभ्युपगमादिति भावः ।

अत्र त्विति । सिद्धान्ते त्वित्यर्थः । विजातीयभूतारब्ध इति । विजातीयभूतावयवप्रचुरारब्ध इत्यर्थः । ततश्च विजातीयपृथिव्य-वयवप्रचुरारब्धे शुक्तिशकले तद्विजातीयतेजोवयवप्रचुरारब्धरजतभ्रमौपरिकमित्यर्थः । अण्डसृष्टेः पूर्वभावित्वादिति । तदानीं रजतोदेरप्रसक्तेः; येन तस्मिश्रणं स्यादिति भावः । पाञ्चभौतिकेष्विति । सत्यरजतस्थले रजतपरिणाभविशेषयोग्यतेजोशसत्त्वात् तत्र रजतावयवारम्भसंभवात् याथाथ्यर्मुपपद्यत इति भावः । त्रिवृत्करणेन कार्यानुप्रविष्टस्येति । मरु करीचिकारूपकार्यानु- प्रविष्टस्य जलरूपस्य भूतस्य समुद्रादिरूपकार्यान्तरावयवजलसमानपरिणामसंभावात् मरुमरीचिकारूपभौतिकान्तरे समुद्रा-दिलक्षणभौतिकान्तरबुद्धियार्थाथ्र्यं यथा घटते, तथेत्यर्थः । अतः शुक्तयादौ रजताद्यवयवसद्भाव उपपद्यत इति । ननु त्रिवृ- त्करणं शुक्तौ रजतसद्भावप्रयोजकं चेत् त्रिवृत्कृततेजोंऽशस्य सर्वत्र पार्थिवे सत्त्वात् सर्वत्र रजतसादृश्यं स्यात् । तेजोवयवेषु तारतम्यासंभवात् पार्थिवेषु सर्वेष्वष्टमांशस्य तेजसः सर्वत्र सत्त्वात् सर्वत्र तद्भ्रमः स्यादिति चेत्-न । अदृष्टाधीनपरिणामविशेषस्य कार्यानुरोधेन क्वचिदेव कल्प्यत्वेनादोषात् । अणुमात्रे च शुक्तित्वं पुष्कलमिति । रजतत्वसुवर्णत्वपृथिवीत्वादिवच्छुक्तित्वादि-जातिरवयवावयनिष्ठा । न तु घटत्वपुरुषत्वादिवदवयविमात्रनिष्ठा, शुक्तशकलेऽपि "इयं शुक्तिः' इति व्यवहारात् । यदि चात्र विप्रतिपत्तिः, तर्हि शुक्तपदं रजतभ्रमाधिष्ठानरङ्गादिपरम्, रङ्गत्वस्यावयवावयाविनिष्ठत्वेऽविवादात् ।

ननु पुरुषत्वादेरवयविमात्रनिष्ठत्वे स्थाणौ पुरुषत्वभ्रमः कथं निर्वोढव्यः? पुरुषत्वस्य पाणिपादसंघातवृतितया पुरुषाव- यवेषु पुरुषत्वस्याभावेनान्यथाख्यात्यापत्तेः । किंच व्रीहित्वजातेरप्यवयवावयविनिष्ठत्वाभावात् व्रीहिभ्रमनिर्वाहानुपपत्तिश्च । नीवा-रादौ व्रीहित्वजातिसत्त्वे च मुख्यत्वमेव स्यात्, न प्रतिनिधित्वम् । अत एव मीमांसकैरपि, "सामान्यं तच्चिकीर्षा हि' इत्यत्र,-"व्रीहिसदृशनीवारद्रव्येषु न व्रीहित्वजातिः । नापि व्यक्तिः, नीवारत्वजातितद्वयक्तयोः व्रीहित्वजातितद्वयक्तयपेक्षया भिन्नत्वात् । तथापि सदअशद्रव्योपादाने व्रीहिशास्त्रस्य कियानप्यनुग्रहोस्ति । तथाहि-"व्रीहिभिर्यजेत् इति' व्रीहित्वजातेः साधनत्वं बोध्यते । अमूतार्ययाश्च जातेः स्वतो हेतुत्वासंभावात् व्यक्तिपरिच्छेदमुखेनेति वक्तव्यम् । व्यक्तेरपि पुरोडाशादिनिष्पत्ताववधातादिशास्त्र-पर्यालोचनया न तदव्यवद्वारा हेतुत्वं वक्तव्यम् । ततश्च व्रीहित्वजातेव्रीहितदवयवारिच्छेदमुखेनाङ्गत्वात् व्रीहित्वजातेरिव व्यक्तित-दवयवानामप्यङ्गत्वं सिद्धज्ञ् । ततश्च जातिव्यक्तयवयवा व्रीहिशास्त्रार्थाः । तत्र सदृशोपादाने जातिव्यक्तयो। शास्त्रार्थयोरलाभेऽपि तदवयवरूपशास्त्रार्थलाभेन व्रीहिशास्त्रमपि किंचिदनुगहीतं भवतीत्युक्तमिति चेत्-न । यत्र जातिरवयवावयविवृत्तिस्तत्र तत्प्रतीतेर्या-ताथ्यमस्ति । इतरत्र तु प्राभाकरोक्तरीत्या अख्यातिः । यथा पञ्चलोहारब्धे कार्ये सर्वापि लोहप्रतीतिर्यथार्थेत्यत्रैव भाष्यकृतः संरम्भः ।

स्वप्नं पश्यतीति पूर्ववाक्यमिति । यद्यपि "स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं निहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्यातिषा प्रस्वपिति । अत्रायं पुरुषः स्वयंज्योतिर्भवति । न तत्र रथाः' इत्येव श्रुत्याकारः- तथापीदं वाक्यं तत्समानार्थं लौकिकमुपात्तं द्रष्टव्यम् । मुख्यार्थत्व इति । स्वाप्नानां मुदादीनां जाग्रत्सुखादिवैलक्षण्यायोगात् विषयाणामेव विलक्षणत्वादित्यर्तः । व्याघातपौनरुकत्येति । "न भवन्ति', "रथान् सृजते' इति व्याघातः "सृजते', "स हि कर्ता' इत्यनयोः पौनरुकत्यमिति भावः । शिरश्छेदादय इत्युक्तत्वादिति छेदः ।

दृष्टान्ते चायं भाव इति । तत्र पीतिमविशिष्टसुवर्णद्रव्यस्यापि ग्रहणमस्तीति भावः । चाक्षुपदोषसंसर्गो दुर्वच इति । पित्तानुपहतनयनानामपि स्फटिकेपीतत्वोपलब्धेरित्यर्थः । अदृष्टस्य नियामकत्वादिति । ननु समीपस्थानां स्फटिकेपीतत्वोप-लब्धेरित्यर्थः । अदृष्टस्य नियामकत्वादिति । ननु समीपस्थानां "जलं नास्ति । एतावन्तं कालमिदं जलतयाऽभ्राम्यम् । असदेव जलत्वमभात्' इत्यादिपरीक्षितप्रत्यक्षाणांका गतिः? तेषामसंसर्गाग्रहरूपत्वाभ्युपगमे मरीचिकाजलप्रत्यक्षाणामल्पीयसामेव तद्रूषत्वं किं न स्यादिति चेत्-न । मरीचिकाजलप्रत्यक्षस्य त्रिवृत्करणशास्त्रानुगृहीततस्यासंसर्गाग्रहरूपत्वमनुचितमिति भाष्य-काराभिप्राय इति केचित् । समाधत्ते-आपेक्षिको हि सव्यदक्षिणभाव इति । स्वाभिमुखे दर्पणे स्वापेक्षया विपर्यस्तसव्यदक्षिण- भावः सिद्धः स्वाभिमुखवस्तुनः स्वविरुद्धसव्यदक्षिणभावस्य संप्रतिपन्नत्वात् । तद्ग्रहणपूर्वकस्वमुखग्रहणे मुखस्य दर्पणस्य चान्तरालरूपविप्रकर्षस्याग्रहणात् दर्पणस्थत्वासंसर्गाग्रहोऽपि भवति । ( तथा दर्पणगतविपर्यस्तसव्यदक्षिणभावस्य आभि- मुख्यस्य अभिमुखस्य च असंसर्गाग्रहो भवति । ) ततश्च दर्पणस्थत्वस्वाभिमुखत्वविपर्यस्तसव्यदक्षिणभावप्रतीतीनां याथाथ्र्यं सिद्धमि(द्धयर्ता)त्यर्थः । ननु सोपाधिकभ्रमे अन्तरालाग्रहणमप्रयोजकम्, दर्पणबिम्बयोरन्तरालं पश्यतामपि पाश्र्वस्थानां बिम्बे दर्पणस्थत्वभ्रान्तिदर्शनादिति चेत्, सत्यम्-उपाधिनिवृत्तिसहितान्तरालग्रहणे भ्रमदर्शनादुपाधिनिवृत्तिसहितान्तरालग्रहणस्या-भावोऽपेक्षित इति तात्पर्यम् ।

दिगन्तरप्रतियोगिनो दिगन्तरस्य चेति । यस्मिन् प्रदेशे प्रत्यकत्वभ्रमो जायते, तत्र प्रत्यकत्वमवध्यन्तरापेक्षयाऽस्त्येव । स्वाश्रयदेशापेक्षया परं नास्ति । ततश्चान्यावधिकं प्रत्यकत्वे स्वाश्रयदेशावधिकत्वासंसर्गाग्रह इत्यर्थः । चन्द्रदेशौ द्वाविति प्रतीत्य-भावहेतुरिति । एकस्य चन्द्रस्य द्वौ देशाविति प्रतीत्यभावहेतुरित्यर्थः । भाष्ये-युगपद्देशद्वयेत्यत्र यौगपद्योक्तिः शौघ्य्राभिप्राया, एकस्मिन् क्षणे ज्ञानद्वयासंभवात् । भाष्ये-ग्रहणभेदेन ग्राह्रकारभेदादिति । ग्रहणभेदानोल्लिख्यमानदेशरूपग्राह्राकारभेदादि- त्यर्थः । न तु ग्रहणभेदायतं ग्राह्राकारद्वित्वमिति मन्तव्यम्, ग्राह्राकाररूपदेशद्वित्वस्य ग्रहणभेदानधीनत्वात् । तत्कृतं ग्राह्रा-कारद्वित्वं च पारमार्थिकमिति भाष्यस्याप्येवमेवार्थः । केचित्तु-तत्र सामग्रीद्वित्व ग्रहणद्वित्वपारमाथ्र्यसाधनसंरम्भात् ग्रहण- द्वित्वेन ग्राह्रकारद्वित्वसमर्थनसंरम्भाच्च ग्रहणगतद्वित्वस्य चन्द्रस्य चासंसर्गाग्रह एव; न तु देशगतद्वित्वस्येति वदन्ति । तन्न; प्राभाकरमतप्रवेशापत्त्या, प्राभाकरमतवैषम्यप्रदर्शकोत्तरटीकाग्रन्थविरोधप्रसङ्गेन चतस्योपेक्षणीयत्वात् । नेत्रवृत्तिर्द्विधाभूतेति । ननु श्लोके द्वित्वं चन्द्रं चेति द्वित्वमात्रं प्रतीयते । वित्तिगतद्वित्वमिति कुतोऽवसीयते? नेत्रवृत्तेर्वित्तिग्रहणसामथ्र्याभावेन वित्तिद्वित्वग्राहकत्वासंभवादिति चेत्-न । "द्वे तु वित्ती वितन्वती' इति वित्तिगतद्वित्वस्य प्रकृतत्वेन स्वप्रकाशत्वेन च तस्यैव ग्रहणोपपत्तेः ।

( अविद्यापरत्वाभिमतश्रुत्यर्थः )

ॠताभावस्य ॠतविरोधिनश्चेति । न च घटस्य घटाभावाश्रयत्वात् ॠतस्य ॠताभावाश्रयत्वे को दोष इति वाच्यम्, भावाभावयोः सामानाधिकरण्यासम्भववत् आधाराधेयभावस्याप्यसंभवात् । न चैवं घटे घटाभावाभावे घटसत्त्वापत्तिरिति वाच्यम्, घटाभावे घटतदभावयोद्र्वयोप्यभाववत् घटे घटतदभावयोद्र्वयोरप्यभावोपपत्तेः । अत एव प्रपञ्चाभावरूपस्य ब्राहृणः प्रपञ्चाधिकरणत्वायोग्यतया ब्राहृाश्रितस्य प्रपञ्चस्य स्वाधिकरणत्वायोग्याधिकरणकत्वरूपं मिथ्यात्वमिति परे वदन्ति । अत एव रूपविरोधिनो रूपत्वस्य रूपाश्रितत्वादित्यपि शङ्का परास्ता, अत्र विनाश्यविनाशकभावलक्षणविरोधित्वस्य विवक्षि- तत्वात् । तन्मते च ज्ञानरूपब्राहृणोऽज्ञाननाशकत्वादिति भावः । शङ्कते-पुण्यमपि हीति ।

प्रतिबन्दीत्वेनानुसंधेय इति । यदि "नासदासीन्नो सदासीत्' इति श्रुतिबलात् तमःशब्दितप्रकृतेरनिर्वचनीयत्वम्, तर्हि "अनादि मत्परं ब्राहृ न सत्तन्नास दुच्यते' इति प्रमाणबलात् ब्राहृणोऽपि सदसद्विलक्षणत्वप्रसङ्ग इत्यर्थः । भाष्ये-अचित्समष्टि- भूते तमःशब्दाभिधेय इति । ननु कथं सदसच्छब्दितयोश्चिदचिद्वयष्टयोरचित्समष्टौ लय इति चेत्-न । योग्यतावशेन सूक्ष्मचिद-चिद्धरीरके लय सत्यर्थकत्वेनादोषात् । भाष्ये-सत्यं तमःशब्देनेति । ननु तमःशब्देनाभिहितस्याचित्समष्टित्वमिति सिद्धान्तिनोक्ते सत्यमित्यादिनाऽचित्समष्टिभूतायाः प्रकृतेः सूक्ष्यावस्तोच्यत इति कथमनूद्यते? पूवत्र्र तमस एवाचित्समि#ेयत्वकथनेन प्रकृतेरचि-त्समष्टित्वस्य वा तमसस्तत्सूक्ष्मावस्थात्वस्य वाऽकथनादिति चेत्-न । उभयोरपि विरोधाभावेन तथानुवादोपपत्तेः । क्रमेणो-पादानविवक्षामिति । पूर्वपक्षोपन्यासदशायां "तम आसीत्' इति वाक्यानन्तरं "मायां तु प्रकृतिम्' इति वाक्यमुपाददानस्य पूर्व-पक्षिणो विवक्षामित्यर्थः । तमःशब्दात् सांख्याभिमतप्रकृतिरुच्यत इति शङ्काव्यावृत्त्यर्थं हि, मायां प्रकृतिं विद्यात् इति वाक्यं तदनन्तरमेवोपात्तमिति भावः । ननु "अस्मान्मायी सृजेत विश्वमेतत् तस्मिश्चान्यो मायया संनिरुद्धः' इति वाक्यप्राप्तमायानुवादेन "मायां तु प्रकृतिं विद्यात्' इति वाक्येन प्रकृतिशब्दितमुपादानत्वं विधीयते, "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादौ प्रकृतिशब्दस्योपादान एव प्रसिद्धेः । परैरपि तथा व्याख्यातत्वाच्च । तत एवोपादानमिथ्यात्वस्यापि सिद्धेर्मायानुवादेन प्रकृतित्वं विधीयत इत्येव परेण सुवचमिति चेत्-न । प्रकृतिशब्दस्योपादानपरत्वादपि प्रसिद्धिप्राचुर्येणाचित्समष्टिप्रकृतेरेवोपस्थित्या तस्या मायात्वरूपानिर्वचनीयत्वविधानस्यैव तन्मतेऽप्युचितत्वादिति भावः । न मायामात्रसूत्रेति । "मायामात्रं तु कार्त्स्न्#ेन' इत्या- दिसूत्रे मायाशब्दस्याश्चर्यार्थकत्वप्रतिपादकभाष्येण विचित्रार्थसर्गकारित्वप्रतिपादकस्यास्य भाष्यस्य न विरोध इत्यर्थः । बहुव-चनादवगम्यत इति । त्वदभिमताविद्याया एकत्वादिति भावः । प्रतिभासस्तु द्वित्वादिविषयत्वादिति । अविद्यमानचन्द्र-द्वित्वादिविषयत्वादित्यर्थः ।

( अविद्यापरपुराणार्थः )

विशब्दस्य वैविध्यवैपरीत्यरूपार्थद्वयपरत्वसंभवमभिप्रयन्नाह-विविधं ज्ञायतेऽनेन, विपरीतं ज्ञायतेनेनेति वा करणे व्युत्पत्तिरिति । "करणाधिकरणयोश्च' इति ल्युट् । विज्ञानमविद्येत्यत्र प्रमाणमाह-यदा तु शुद्धमित्यादिना । तस्य हि व्यतिरेको वक्ष्यत इति । विज्ञानशब्दस्य "विज्ञानमेकं निजकमर्भेद' इत्यत्रेव ब्राहृम्बरूपज्ञानपरत्वे तद्वयतिरेके प्रपञ्चव्यतिरेकप्रतिपेदकस्य

"यदा तु शुद्धम्' इत्यस्य श्लोकस्यासामञ्जस्यप्रसङ्गादिति भावः । ननु विज्ञानेउब्राहृणि विजृग्भितानिउकल्पितानीत्यर्थस्य वक्तुं शक्यत्वात् श्रीधरेण तथा व्याख्यातत्वाच्च कथं विज्ञानाब्दस्याविद्यार्थकत्वनिर्णय इत्याशङ्कयाह-विज्ञाने विजृम्भितानी- तीति । अस्वारस्यादिति। "सप्तमी' इति योगविभागाश्रयणेन सप्तमीसमासस्य क्लिष्टत्वादिति भावः । नपुंसकपदस्येति पाठः । नपुंसकान्तपदस्येति पाठे नपुंसकत्वद्योतकविभक्त्यन्तपदस्येत्यर्थः । पुंलिङ्गभेदशब्दविशेषणत्वायोगेनेति । "जृभिगात्रविनामे' इत्यस्याकर्मकतया "गत्यर्थाकर्मक' इति कर्तरि क्तान्तस्य वा, ण्यन्तात् कर्मणि क्तान्तस्य वा विजृम्भिताब्दस्याश्रयणे विशेष्य-निघ्नताप्रसङ्गात्, "नपुंसके भावे क्तः' इति भावक्तान्तत्वपक्ष एव नपुंसकत्वस्य युक्तत्वाच्च भावप्रत्यायन्त एव विजृम्भितशब्दः । न च भेदानां कथं विजृम्भणरूपधात्वर्थत्वमिति वाच्यम्-उपचारेण तथा प्रयोगोपपत्तेः । ततश्च भावप्रत्ययान्तत्वे सिद्धे विजृम्भण-रूपस्य भावस्य कत्र्राकाङ्क्षाया एवोत्कटत्वादधिकरणाकाङ्क्षाया अतथात्वात् षष्ठीसमास एव युक्त इति भावः । बहुवचने न तात्पर्यमिति । प्रत्यक्षादिसिद्धबहुत्वानुवादित्वादिति भावः । जडोपलक्षित इति । देहान्तःकरणादिभिः परस्परव्यावृत्ततया प्रतीते एकस्मिन् आत्मवस्तुनीत्यर्थः । जडगतभेदा न संभवन्तीत्यर्थ इति । अन्तःकरणाद्युपाधिप्रयुक्तभेदा न भवन्तीत्यर्थः । वस्तुभेद-शब्दयोः कर्मधारयमभिप्रयन्नाह-यद्वा एको वस्तुशब्द आकारपर इति । प्रथमो वस्तुशब्दो जडपर इत्यभिप्रायः । अस्मिन् पक्षे कमप्र्रतिबद्धात्मनिश्चयैः सत्यत्वेनाऽऽलक्ष्यत इत्यस्य वक्तव्यतया सत्यस्वेनेत्यंशस्याध्याहारप्रसङ्गादुत्तरार्धस्य पूर्वार्धैकवाक्यत्वा-भावाच्चापिशब्दमात्रमध्याह्मत्य व्याचष्टे-यद्वा न केवलमिति । तदुत्तरोत्तरभावीति । अनेन भाष्ये भेददर्शनं निमित्तं यस्याज्ञान- स्येति बहुव्रीहिरभिप्रेत इति भावः । अस्मिन् पक्षे कार्याज्ञानं ममकाररागद्वेषादि । तस्यापि पूर्वकर्मैवेत्यर्थ इति । न च भेददर्श-ननिमित्तकाज्ञाने भेददर्शनस्यैव हेतुत्वात् कथं कर्मणो हेतुत्वमिति वाच्यम्, मूलकारणं कर्मैवेत्यर्थात् । अस्मिन् पक्षे निजकर्म-भेदविभिन्नचित्तैः बहुधाभ्युपेतमित्यस्यायमर्थः-निजकर्मभेदेन विभिन्नचित्तैः सजातीयभेददर्शनैः । चित्तशब्दो बुद्धिपरः । बहुदा- भ्युपेतं कार्याज्ञानयुक्तमिति । अस्मिन् पक्षे बहुधाभ्युपेतमित्यस्यातिक्लिष्टत्वात् पक्षान्तरमाह-यद्वा देवादिशरीरभेदेति । सजाती-यविजातीयभेदविरहानुवाद इति । "विज्ञानमेकम्' इत्यर्धेन सजातीयविजातीयभेदविरहानुवाद इति । "विज्ञानमेकम्' इत्यर्धेन सजातीयात्मभेदस्य, "तस्मान्न विज्ञानम्' इत्यर्धेनानात्मभूतविजातीयभेदस्य च निषिद्धतया तन्निपेधानुवाद इत्यर्थः । स्वगत-भेदराहित्यमुच्यत इति । तद्वदेव पूर्वार्धप्रतिपन्नमनूद्यत इत्यर्थः । द्वितीयपक्षे भाष्यानुगुण्यमाह-एतदुभिप्रायेण हीति ।

दशश्लोक्यामिति । विष्णुपुराणे द्वितीयेंशे द्वादशाध्याये-

"इत्येष संनिवेशोऽयं पृथिव्या ज्योतिषां तथा ।

द्वीपानामुदधीनां च पर्वतानां च कीर्तितः ।।

वर्षाणां च नदीनां च ये त तेषु वसन्ति वै ।।

तेषां स्वरूपमाख्यातं संक्षेपः श्रूयतां पुनः ।।'

इत्युपक्षिष्य-

"यदम्बु वैष्णवः कायस्ततो विप्र वसुंधरा ।

पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ।।

ज्योतीषि विष्णुर्भुवनानि विष्णुवर्नानि विष्णुर्गिरयो दिशश्च ।

नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ।।

ज्ञानस्वरूपो भगवान् यतोऽसावशेषमूतिर्र्न तु वस्तुभूतः ।

ततो हि शैलाब्धिरादिभेदान् जानीहि विज्ञानविजअम्भितानि ।।

यदा तु शुद्धं निजरूपि सर्वकर्मक्षये ज्ञानमपास्तदोषम्।

तदा हि संकल्पतरोः फलानि भवन्ति ना वस्तुषु वस्तुभेदाः ।।

वस्त्वस्ति किं कुत्रचिदादिमध्यपयन्तहीनं सततैकरूपम् ।

यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ।।

मही घटत्वं घटतः कपालिका कपालिका चूर्णरजस्ततोऽणुः ।

जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते व्रूहि किमत्र वस्तु ।।

तस्मान्न विज्ञानमृतेऽस्ति किंचित् क्विचित् कदाचिद् द्विज वस्तुजातम् ।

विज्ञानमेकं निजकर्मभेदविभिन्नचित्तैर्बहुधाभ्युपेतम् ।।

ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् ।

एकं सदैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ।।

सद्भाव एवं भावतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् ।

एतत्तु यत् संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ।।

यज्ञः पशुर्वह्निरशेष ॠत्विक् सोमः सुरा स्वर्गमयश्च कामः ।

इत्यादि कर्मश्रितमार्गदृष्टं भूरादिभोगा (भेदा) श्च फलानि तेषाम् ।।'

इति दशाश्लोकी पठिता । (यश्चैतद्भुवनगतमिति मूलोक्तपाठः ।) नात्र विगानमिति । यद्यपि "यदस्ति यन्नास्ति च विप्रवर्य' इत्य-त्रास्तिनास्तिशब्दयोर्भावाभावरूपेण प्रतिपन्नवस्तुपरतया योजयितुं शक्यत्वादस्तिशब्दस्यात्मपरत्वे विगानं संभवति-तथापि नास्त्यसत्यशब्दयोरचेतनपरत्वे न विवाद इत्यत्र तात्पर्यम् । अपितु कर्मपरत्वमेवेति । कर्ममूलवैविध्यानुसन्धानपरत्वमेवेत्यर्थः, उत्तरत्र तथाभिधास्यमानत्वात् । वियुक्तं सूक्ष्मरूपमिति । परस्परमुपकरणोपकरणिभाववियुक्तं प्रकृतिपुरुषयोः सूक्ष्मं रूपमुच्यत इत्यर्थः । आदिभरतचरि ह्मत्स्थमिति । "मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः' इति प्रथमाध्याये उपक्षिप्तत्वादिनानीं ह्मत्स्थमिति भावः । ननु संक्षेपशब्दस्य सकलशास्त्रार्थसंक्षेपपरत्वसंभवे प्रथमाध्यायोक्तप्रतिज्ञावशेनादिभरतचरितस्य बुद्धिस्थत्वं परिकल्पय, एतस्य तत्संक्षेपत्वकल्पनं क्लिष्टम् । किंच तत्संक्षेपरूपत्वं प्रतिज्ञातं चेत्, विस्तरकथनस्य स्वतः प्राप्ततया "भगवन् सर्वमाख्यातम्' इति मैत्रेयस्यादिभरतचरितप्रश्नो न युक्त इति चेत्-न । सकलसंक्षेपरूपत्वे वक्ष्यमाणसंक्षेपरूपत्वमपि संभवतीत्यत्र तात्पर्यात् । सत्तामात्रमगोचरमिति । यद्यपि नैतानि वाक्यान्येतत्प्रकरणस्थानि, तथापि "ज्ञानस्वरूपो भगवान् यतोऽसौ' इत्यादीनामे-तत्प्रकरणस्थानं तत्समानार्थत्वं वक्तव्यमित्यभिप्रायेण तथोक्तमिति द्रष्टव्यम् । अधीतानधीतशाखार्थज्ञापनार्थमितीति । अत्रेतिः समाप्तौ ।

विष्णुरात्मेतीत्यस्य वाक्यस्य व्यवहितेनापि "शरीरात्मभावः' इत्यनेनान्वयसंभवे अभिप्रेत्येत्यध्याहारोऽनुचित इत्य-भिप्रेत्याह-शरीरात्मभाव इति वार्थ इति । सकलश्रुतिगततादात्म्योपदेशोपवृंहणरूपस्येत्यत्र सकलपदमनधीतशाखापरम् । तस्याश्चोपवृंहणं तदर्थविशदीकरणम् । अथवा सकलपदमधीतशाखापरम् । तस्याश्चेपवृंहणं तद्विरुद्धार्थवाक्यासत्त्वप्रतिपादन- मिति द्वेधार्थसंभवमभिप्रेत्य व्याचष्टे-अनधीतशाखास्वपीति । तादात्म्योपदेशोऽस्तीति । य इति शेषः, उत्तरत्र "तस्यायमेवार्थः' इति तच्छब्दश्रवणात् । अत्रेतिशब्दत्रयस्येति । एवमिहान्वयक्रमः-"यदम्बु वैष्णुवः कायः' इति श्लोकेन सकलश्रुतिगततादात्म्योप-वृंहणरूपस्य सामानाधिकरण्योपदेशास्य "ज्योतीषि विष्णुः' इत्यारभ्य वक्ष्यमाणस्य शरीरात्मभाव एव निबन्धनमित्यभिप्रेत्या- स्बुनो विष्णोः कार्यत्वेनाम्बुपरिणामभूतं ब्राहृाण्डमपि विष्णोः शरीरमित्याहेति । न च "विष्णुरात्मेत्यभिप्रेत्य' इति पूर्वग्रन्थविरोध इति वाच्यम्, तस्य व्याख्यानान्तरत्वेनादोषात् । केचित्तु-अनेन श्लोकेन तस्य विष्णुरात्मेत्यभिप्रेत्य शरीरात्मभाव एव सामानाधि-करण्ये निबन्धनमिति तात्पर्यत् आहेति योजयन्ति । विश्वरूपो यतोऽव्यय इति । "सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज्जगत् । स एव' इति सामानाधिकरण्येन निर्दिश्य कथमिदं भिन्नयोः सामानाधिकरण्यमित्यपेक्षायाम्, "सर्वभूतात्मा विश्वरूपो याते- ऽव्ययः' इति शरीरात्मभावस्य "यतः' इति पञ्चम्या कण्ठतो हेतुतयोक्तेरित्यर्थः । इदं च वेदार्थसंग्रहे भाष्यकृता सुख्यक्तमुक्तम् ।

पदात्रयस्यार्थ उच्यत इति । "यदस्ति यन्नास्ति च विप्रवर्य3 इति चतुर्थपादार्थस्य "अत्रास्त्यात्मकं नास्त्यात्मकं च' इत्यादिभाष्यग्रन्थेनानुवादमुखेन स्फुटीकरिष्यमाणत्वात् पादत्रयस्यार्थ उच्यत इत्युक्तम् । केचित्तु-असंकोचेन पादचतुष्टस्याप्यर्थ उच्यते, श्लोकामत्रस्य शरीरात्मभावायत्ततादात्म्योपदेशपरत्वे विप्रतिपत्त्यभावात् । इयांस्तु विशेषः-पादात्रायगतानां ज्योतिरादि-पदानां निर्णीतार्थतया न जिज्ञासा । चतुर्थपादगतास्तिनास्तिशब्दयोरनिर्णीतार्थतया तत्र जिज्ञासया तत्पादार्थमात्रस्यानुवादो-पपत्तेरिति वदन्ति । विशिष्टवाक्यार्थानुवादेनेति । पर्यवसन्नवाक्यार्थानुवादोपपत्तेरिति वदन्ति । विशिष्टवाक्यार्थानुवादेनेति । पर्यवसन्नवाक्यार्थानुवादेनेत्यर्थः । नास्त्यात्मकत्वे हेतुरयमित्याहेत्युक्तमिति । न त्वस्यास्त्यात्मकत्वे हेतुरयमित्याहेत्युक्त- मित्यर्थः ।

"ज्ञानस्वरूपो भगवान् यतोऽसौ' इत्यंशेन "इदमस्त्यात्मकम्, इदं नास्यात्मकम्, अस्य च नास्त्यात्मकत्वे हेतुरयम्' इत्यप्रतिपादनादाह-प्रतीकमुपादात्त इति । ननु भाष्ये-अशेपक्षत्रज्ञात्मनावस्थितस्येति कथं लभ्यते? क्षेत्रज्ञस्य प्रागनिर्दिष्टत्वात् । न च "यदस्ति यन्नास्ति च विप्रवर्य' इत्यनेनास्तिशब्देन क्षेत्रज्ञस्योपस्थापनमस्तीति वाच्यम्, "इदमस्त्यात्मकम्, इदं नास्त्या- त्मकम्' इति विभागानभिज्ञं मैत्रेयं प्रति अस्तिशब्दस्य क्षेत्रज्ञोपस्थापकत्वाभावेनाशेषभूर्तिशब्देन क्षेत्रज्ञात्मनावस्थितस्य भगवत उपस्थापने प्रमाणाभावादित्याशङ्कय, अस्तिनास्तिशब्दाभ्यामनुपस्थापनेऽपि ज्योतिरादिशब्दैः संसृष्टवचनैश्चेतनाचेतनयोरुप-स्थितिसंभवात् तत्र चाचिच्छरीरके ज्ञानस्वरूपशरीरकत्वोपदेशस्य वा "न वस्तुभूतः' इति देवादिशरीरकत्वनिषेधस्य वाऽसं- भवात् क्षेत्रज्ञशरीरक एव योग्यतावशेनाशेषमूर्तिशब्देन परामृश्यते । ततश्च क्षेत्रज्ञशरीरको भगवान् ज्ञानस्वरूपः ज्ञानशरीरको भवति, (स्वरूपशब्दः शरीरपरः ।) वस्तुस्वरूपदेवादिशरीरत्वं नास्तीति फलति । ततश्च देहात्मविवेकोऽपि फलितो भवति । यथा "अङ्गुलीयकवानसौ रजतवान्न सुवर्णवान्' इत्युक्ते "अङ्गुलीयकं रजतरूपं न सुवर्णरूपम्' इति तद्वत्-इत्यभिप्रयन्नाह-अशेषशब्देनाचितोऽपीति । वस्तुभावनिषेधोऽनुपपन्न इति । चिच्छरीरकस्य भगवतः, "न तु वस्तुभूतः' इति देवमनुष्यशै-लाब्धिधरादिवस्तुशरीरकत्वनिषेधस्य शरीरभूते अचिदंशे देवमनुष्यादिभावनिषेधपर्यवसितत्वादित्यभिप्रायः । ॠ त्विक्प्रचार-कर्मविशेषणमिति । यथा परंपरया प्रचारविशेषणमुष्णीषलौहित्यम् । परम्परयेत्यस्य प्रचारे ॠग्विजां विशेषणत्वम्, तत्र चोष्णीषस्य, तत्र च लोहित्यस्येत्यभिप्रायः । "काठिन्यवात् यो विभर्ति तस्मै भूम्यात्मने नमः' इत्यत्रात्मस्वरूपे भूमिद्वारा काठिन्यमिति भावः । भाष्ये-यत एवं तत एवेति । ननु क्षेत्रज्ञस्य ज्ञानस्वरूपत्वेन देवादिरूपत्वाभावेऽपि देवादिभेदस्य तद्विज्ञानविजृम्भितत्वमनावश्यकम्, क्षेत्रज्ञाभिन्नत्वमात्रेण तद्विज्ञानविजृम्भितत्वस्यानावश्यकत्वात् । इतरथा परमात्मनित्य-विभूत्यादेरपि तथात्वप्रसङ्गात् । न च जीवभिन्नस्यानित्यत्वेन सिद्धस्य देवादेस्तद्विज्ञानविजृम्भितत्त्वमावश्यमित वाच्यम्, देवादिभेदस्याद्याष्यनित्यत्वानिश्चयात् । निश्चये वा तस्यासत्यशब्दितत्वोपयुक्तानित्यत्वस्य सिद्धतया कर्मपरिणामरूपतया-ऽनित्यत्वप्रतिपादनार्थं प्रवृत्तस्य, "ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविजृम्भितानि' इत्यस्य वैयथ्र्यप्रसङ्गात् । किंच क्षेत्रमात्मनावस्थितस्य देवादिभूतत्वाभावेन देवादिस्वरूपस्य विज्ञानविजृम्भितत्वे देवाद्यात्मनावस्थितस्य ज्ञानस्वरूपक्षेत्रज्ञभूत-त्वाभावेन क्षेत्रज्ञस्यापि विज्ञानविजृम्भितत्वप्रसङ्ग इति चेत्-न । " न तु वस्तुभूतः' इति देवादिस्वरूपस्य क्षेत्रज्ञस्वरूपावस्थि-तपरमात्मस्वाभाविकरूपत्वे प्रत्याख्याते, पुनः किंरूपमित्यपेक्षायाम्, "विज्ञानविजृम्भितानि' इत्यागन्तुकरूपत्वमुच्यत इत्य- दोषात् । अत एव भाष्ये ज्ञानमेव स्वाभाविकं रूपमिति स्वाभाविकपदं प्रयुक्तम् । देवादिभेदहेतुत्वं सद्वारकमिति । पूर्वपूर्व-वैविध्यानुसन्धानेन, कर्मणा च देवादिभेदा इत्यर्थः । कर्माविद्ययोर्बीजाङ्कुरवत् परस्परहेतुत्वसंभवात् हेतुहेतुमद्भावव्यत्यासशङ्का न कार्या । ज्ञानस्वरूपः विज्ञानविजम्भितानीत्यनेन फलितमिति । "ज्ञानस्वरूपः' इत्यनेन ज्ञानस्वरूपस्योक्ततयो परिणाम-शून्यत्वावगमात् सत्यत्वम्, "विज्ञानविजृम्भितानि' इत्यनेन परिणामित्वं च फलितम् । अत एव "निजसिद्धज्ञानैकरूपत्वेन' इति भाष्यमिति भावः । ननु "यदा तु शुद्धम्' इत्यस्य पूर्वोक्तविवरणरूपत्वेन पूर्वपक्षिसंमतस्य कथं तदेव विवृणोतीति भाष्यकृताप्य-भ्युपगम इत्याशङ्कयाविरुद्धांशे तदुपजीवनं न दोषायेत्याह-पूर्वपक्षयोजनायामिति । निदोषमित्यादिपदानामर्थविभाग इति । अपास्तदोषमित्यादिपदानामिति वक्तव्ये लाघवार्थं निर्दोषपदनुपात्तमिति द्रष्टव्यम् । यद्वा निदोषमित्यादीति छेदः । पदाना- मिति श्लोकस्थपदानामित्यर्थः । आत्मकल्पनामूलकर्मफलभूता इति । आत्मकल्पना मूलं यस्येति बहुव्रीहिः । व्यक्तिभेदेन बीजाङ्कुरन्याये दोषाभावात् । विज्ञानशब्दे संकल्पशब्देऽपीति । वैविध्यानुसन्धानस्य विज्ञानशब्दार्थस्य एकीकृत्यानुसन्धानस्य संकल्पशब्दार्थस्य च हेतुहेतुमद्भावेन करणत्वसंभवात् "विज्ञानविजृम्भितानि, संकल्पतरोः फलानि' इत्युक्तयोर्न विरोधः,

अन्यतरस्योक्तावन्यतरस्यार्थसिद्धत्वादिति भावः । भोग्यशब्दार्थः स्पष्टीकृतो भवतीति । भोगार्था इत्यपक्षिप्तानामेव वस्तुभेदा-नामुत्तरवाक्ये भाग्यभूता इति परामर्शादित्यर्थः । भोगसिद्धिप्रयोजनकत्वभेवेति । "तस्य निमित्तं संयोगोत्पातौ' इत्यस्मिन्नर्थे "गोद्वयचः' इति भोगशब्दाद्यत्प्रत्ययः; न तु "ॠहलोण्र्यत्' इति ण्यदन्तम्, तथात्वे भोगस्थानादीनां भोग्यशब्देन परिग्रहाता- पत्तेरिति भावः ।

व्याख्येयपदव्याख्यानार्थमिति । "वस्तुषुः' इत्यादिपदस्याव्याख्यातत्वात् तदर्थमित्यर्थः । व्याख्येयं पदमुदाहरतीति । "भोक्ता भोग्यम्' इति श्रुतिगतभोग्यपदमित्यर्थः । हेतुरनुक्त इति । यद्यपि "ज्ञानस्वरूपः' इत्यनेनैवास्तिशब्दवाच्यत्वे हेतुरुक्तः, तथापि भाष्ये नोक्तः । अत एव पूर्वश्लोकव्याख्याने, "इतरदस्ति#ाब्दाभिधेयम्' इत्युक्तम्, न तु तत्र हेतुरुपन्यस्त इति भावः । प्रयो-जकशिक्षेति । अस्तिनास्तिपदप्रवृत्तिनिमित्तशिक्षेत्यर्थः । अत्राभिधेयमिति । अस्मिन् श्लोके अस्तिशब्दस्यास्तिशब्दाभिधेय एवार्थः इत्यर्थः । स्वभोग्यभूतमचिद्वस्तु प्रतिक्षणमन्यथाभूतमालक्ष्यते इति भाष्ये प्रतिक्षणमन्यथाभूतं वस्तु भोग्यत्वेनालक्ष्यते, भोग्यमचिद्वस्तु प्रतिक्षणमन्यथात्वेनालक्ष्यत इत्युद्देश्यविधेयभावभेदेनाथद्र्वयसंभवमभिप्रेत्य द्वेधापि व्याचष्टे-अस्थिर इत्या- दिना । चाक्षुपज्ञाने प्रयोगप्राचुर्यादिति । यद्यपि चक्षुषा प्रत्यक्षेणोपलक्ष्यते इत्युक्तावपि न दोषः, तथापि चाक्षुषज्ञानातिरिक्त-प्रमाणान्रसंग्रहायानुभूयत इति व्याख्यातमिति द्रष्टव्यम् । श्लोकव्याख्यानपरिसमाप्तिमिति । अस्यां योजनायामिति शेषः । अयं भावः-आलक्ष्यते अनुभाव्यते भुज्यत इति वा, भोग्यत्वेनालक्ष्यत इति वा पूर्वयोजनायामेतादृशाप्रसिद्धार्थप्रदर्शनपरतया "इत्यर्थः' इत्यस्य साफल्यं संभवेत् । अस्यां तु योजनायामालक्ष्यत इत्यस्यानुभूयत इत्यर्थे प्रसिद्धिसत्त्वेन "इत्यर्थः' इत्यस्य वैयथ्र्यात् समा-प्तिद्योतकत्वमेव । अस्मिश्च पक्षे एवंसतीत्युत्तरभाष्यं श्लोकद्वयाभिप्रायकथनपरम् । एतदेवाभिप्रेत्य वक्ष्यति-अथवा श्लोकद्वया-भिप्रायमाहेति । पूर्वयोजनायां तु "इत्यर्थः' इत्यस्य समाप्तिद्योतकत्वाभावात् "एवंसति' इत्युत्तरभाष्यं ब्राूहीत्यादिपदार्थकथनपरम् । एतदेवाभिप्रेत्येण ब्राूहीत्यादेरर्थमाहेत्यादिग्रन्थ इति । अतः श्लोकव्याख्यानसमाप्तौ ब्राूहीत्याद्यर्थकथनं विरुद्धमिति न चोदनीयम् । अस्तिशब्दार्थमित्यादि विशेषणं सामथ्यर्सिद्धतयेति । न तु "वस्त्वस्ति किम्' इति शब्दाभिधेयतया, तत्रास्तिशब्दस्य भवत्य-र्थकत्वादिति भावः । वस्तुशब्दतुल्यत्वं न शङ्कनीयमिति । "वस्तत्वस्ति किम्' इत्यत्र वस्तुशब्दस्येत्यर्थः । यद्वास्ति#ाब्दा- भिधेय इत्यनेनेति । पूर्वयोजनायामस्तिशब्दार्हमित्यध्याहारः । अस्मिन् पक्षे तु भवत्यर्थकास्तिशब्दाध्याहार इति विशेषः । पूर्वपक्षयोजनायामिति । अतश्च पूर्वपक्षे विभज्य श्लोकद्वयार्थानुक्तिर्न दोषायेति भावः । अवच्छिन्नास्तिशब्दवाच्यत्वं चेति । "तदानीमस्ति' "इदानीमस्ति' इति पदान्तरसहितास्तिशब्दवाच्यत्वं चेत्यर्थः । आकारैक्यपरत्वं स्पष्यमिति । "संखयाया विधार्थे धा' इति विधार्थभूतप्रकारे धाप्रत्ययविधानात् बहुधेत्यस्य बहुप्रकारमित्यर्थो वर्णनीयः । ततश्च तत्प्रतियोगिन एकशब्द- स्यापि प्रकारैक्यमेवार्थः । न च "एकं राशिं पञ्चधा कुरु' इत्यत्रेव "अधिकरणविचाले च' इति धाप्रत्ययोऽस्त्विति वाच्यम्, अधिकरणविचालनं हि एकस्य वस्तुनोऽनेकदाकरणम् । संख्यान्तरापादनमित्यर्थः । न हि विज्ञानस्य संख्यान्तरापादनं स्व- रसम् । तस्माद्विधार्थ एव धाप्रत्यय इति प्रकारैक्यमेवैकशब्दस्याभायुपेयमित्यर्थः । ननु "बहुधाभ्युपेतम्' इति विधार्थे धाप्रत्यय- श्रवणे पञ्चवाभुक्ते इत्यत्रेव क्रियागतं प्रकारबहुत्वं प्रतीयत इति वक्तव्यम्; न तु विज्ञानगतम्, क्रियाबहुत्वस्य धाप्रत्ययार्थत्वात् । ततश्च "बहुधाभ्युपेतम्' इत्यत्राभ्युपगमक्रियागतप्रकारबहुत्वं पर्यवस्येत्; न तु ज्ञानप्रकारबहुत्वम् । ततश्च "विज्ञानमेकम्' इत्यत्र विज्ञानप्रकारैक्यं कथं सिध्येत्? तद्वोधकाभावात् । एकत्वबहुत्वयोर्भिन्नविषयत्वादिति चेत्-न । अभ्युपगमक्रियाबहुत्वस्याभ्यु-पगम्यमानविज्ञानबहुत्वपर्यवसिततयैकत्वबहुत्वयोः समानविषयत्वात् इति भावः । औपाधिकमित्यर्थ इति । ननु देवाद्यनुसंधान-स्यौपाधिकत्वे किं प्रयोजनम्? "यदम्बु वैष्णवः कायः' इत्यादिश्लोकद्वयेनोक्तचिदचिदात्मकस्य जगतः संसृष्टत्वावस्थायां वियुक्त-त्वावस्थायां च भगवच्छरीरत्वमुपपादितम् । "ज्ञानस्वरूपो भगवान् यतोऽसौ' इत्यादिश्लोकद्धयेन चिदचिद्विवेकः, चितः सत्य-शब्दवाच्यत्वमचितोऽन्वयव्यतिरेकाभ्यां कर्मपरिणामतयाऽसत्यशब्दवाच्यत्वं चोपपादितम् । तदेवाचितोऽसच्छब्दवाच्यत्वं जग-दुपलब्धिप्रकारेणापि "वस्त्वस्ति किम्' इत्यादिश्लोकद्वयेनापि दृढाकृत्य, "तस्मान्न विज्ञानम्' इति श्लोकार्धे न चित एव सच्छ-ब्दवाच्यत्वं नाचित इत्युपसंह्मतमेवेति समर्थनीयान्तराभावात् "विज्ञानमेकम्' इति श्लोकार्धोपन्यासहेतुभूतशिष्यजिज्ञासाविषयभूतं किमपि न दृश्यत इति चेत्, सत्यम्; अचिद्वस्तुनोऽसत्यशब्दप्रवृत्तिनिमित्तभूतपरिणामित्वोपपादककर्महेतुकत्वोपसंहाररूपतया सार्थक्यात् ।

कमक्षयवाचिपदानन्तरपदस्येति । कर्मक्षयवाचिपदं विशुद्धिमिति पदम् । तदनन्तरपदं विमलमिति पदम् । शरीरसं-बन्धरहितपरत्वेनेति । प्रकृतिस्पर्शरहितमित्यस्य शरीरसंबन्धरहितमित्यस्य च समानार्थत्वादिति भावः । चिदचित्साधारणा- विति । चिदचिद्विवेकपरत्वादिति भावः । अन्येष्वपि शब्देष्विति । सदसदादिशब्देष्वित्यर्थः । ननु "स्वर्गमयश्च कामः' इत्यस्य काम्यमानस्वर्गपरत्वमेव किं न स्यादित्याशङ्कय, "भूरादिभोगाच्च कामः' इत्यस्य काम्यमानस्वर्गपरत्वमेव किं न स्यादित्या- शङ्कय, "भूरादिभोगाश्च फलानि तेषाम्' इति फलस्य वक्ष्यमाणत्वात् स्वर्गेच्छापरत्वमेव युक्तमित्याह-फलस्य वक्ष्यमाणत्वा- दिति । ननु "यज्ञः पशुः' इत्यादिश्लोकस्य कथं कर्मस्वरूपप्रतिपादनपरत्वम्? पश्वदीनां यज्ञशेषतया तदनुप्रविष्टत्वेऽपि वह्नि-शब्दनिर्दिष्टदेवताया भूरादिभोगानां च फलभूतानामतच्छेषभूतानां कर्मत्वासंभवादित्याशङ्कयाह-देवतायाः फलस्य चेति । सर्वत्र व्रजति हीति । व्रजत्येवेत्यर्थः । कर्मवश्यो हीति । कर्मवश्य एवेत्यर्थः । ध्रुवमचलं सदैकरूपमिति ।

"यच्चैतद् भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः ।

ज्ञात्वैतद्ध्रुवमचलं सदैकरूपं तत् कुर्याद्विशति हि येन वासुदेवम् ।।'

इति श्लोकस्थैः "धुवमचलं सदैकरूपम्' इति पदैः क्रमेण स्वरूपतो रूपतोगुणतश्चैकरूप्यमुच्यत इत्यर्थः । सदैकरूपमित्यत्र रूपत ऐकरूप्यस्योचितत्वमभिप्रयन्नाह-यद्वा स्वरूपतो गुणतो रूपतश्चेति । पूर्वेणान्वय इति सिद्धान्तोपक्रमगतप्रतिज्ञावाक्येन "नैत-देवम्' इत्यनेनान्वय इत्यर्थः ।

नासद्विलक्षणपरावित्यर्थ इति । यथा ब्राहृणि प्रयुज्यमानावस्तिसत्यशब्दौ न सदसद्विलक्षणपरौ, एवं प्रपञ्चेऽपि प्रयुज्य-मानौ नास्त्यसत्याब्दौ न सदसद्वैलक्ष्ण्यपरावित्यर्थः । अर्थद्वारको विरोध इति । यद्यपि सदसद्विलक्षणत्वमपि सत्त्वविरुद्धं भवति-तथापि सत्त्वाभावमेवासच्छब्दो वदेत्, नातिरिक्तमिति भावः । विनाशित्वमेव हि मिथ्यात्वमिति शङ्कायामिति । तटस्थशङ्का-यामित्यर्थः; मृषावादिनस्तादृश्याः शङ्काया अनुत्थानात् । तथा सति विवादपर्यवसानात् । विनाशित्वस्वरूपे शेधयतीति । एकेनाकारेणैकस्मिन् कालेऽनुभूतस्य कालान्तरे परिणामविशेषेणान्यथोपलब्ध्या नास्तित्वोपपादनादिति भाष्यस्य परि-णामविशेषेणान्यथोपलब्धिर्हि विनाशित्वमित्यभिप्रायं मत्वा विनाशित्वस्वरूपं शोधयतीत्यवतारिका रचिता । केचित्तु एकेना-कारेणेत्यादिभाष्यमेवमवतारयन्ति-ननु "वस्त्वस्ति किं, मही घटत्व'मित्यत्र नाशित्वमेव ह्रुपपादितम्: न नि#ेप्रमाणकत्वं ज्ञान-बाध्यत्वं वा' इत्युक्तम् । नात्र विनिगमकं पश्याम इत्याशङ्कय, "वस्त्वस्ति किम्' इत्यादिश्लोकद्वयेन कालान्तरेऽन्यथोपलब्धस्य कालान्तरेऽन्यथोपलम्भेनोपपद्यमानस्य नास्तित्वस्य प्रमाणसंबन्धानर्हत्वलक्षणतुच्छत्वरूपे प्रतिपन्नदेशकालोपाधौ निषेधप्रति-योगित्वलक्षणमिथ्यात्वरूपे वा पर्यवसानासंभवेन विनाशित्व एव पर्यवसानस्योचितत्वमभिप्रयन्नाह-एकेनाकारेणैकस्मिन् काल इतीति । अस्मिन् पक्षे विनाशित्वमेव मिथ्यात्वमिति शङ्कायाः कथं विनाशित्वं तुच्छत्वमिथ्यात्वव्यावृत्तमिति शङ्कायाश्च तटस्थ-शङ्कात्वाश्रयणक्लेशो नास्तीति च वदन्ति । विनाशगभत्र्वं नास्ति#ाब्दप्रवृत्तिनिमित्तमित्यर्थ इति । नश्वरत्वं नास्तिशब्दप्रवृत्तिनि-मित्तमिति नास्त्यर्थत्वं नश्वरत्वरुाय । अतश्च अचेतनं सर्वदा नास्त्यर्थगर्भमिति भाष्यस्य सर्वदा नाशभर्गमित्यर्थ इति भावः । स्वाभाविकास्तित्वयोगित्वबुद्धिविषयत्वमिति । स्वाभाविकास्तित्वमपरमार्थ इत्यर्थः । अपरमार्थभूतस्वाभाविकास्तित्वयो- गात् अचिद्वस्तुनोऽप्यपरमार्थत्वमिति भावः । न चापरमार्थस्वाभाविकसत्यत्वस्याचिद्रूपेऽभावात् कथं तद्योगेनाचेतनेऽपरमार्थ-त्वव्यवहार इति वाच्यम्, अचेतनमसत्सत्यत्वकमिति प्रतीत्या कस्यचित् संबन्धस्य बहुव्रीह्रर्थस्य वक्तव्यत्वात् । अपरमार्थ-न्वगर्भास्त्यर्थोपेतत्वादिति । अपरमार्थस्वभाविकसत्यत्वोपेतत्वादित्यर्थः ।

( निवर्तकानुपपत्तिः )

तेनात्मवयविषयत्वं चेति । तेनउनिर्विशेषवस्तुनेत्यर्थः । यद्वा निर्विशेषवस्तुविषयत्वेनेत्यर्थः । तत्र हि "अद्भयः संभूतो हिरण्यगर्भ इत्यष्टौ' इति प्रतीकोपादानं कृतमिति । ततश्च "अद्भयः संभूतः' इत्युत्तरानुवाकपठितेन "वेदाहमेतं पुरुषं महान्तम्, आदित्यवर्णम्' इत्यनेन 2सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि' इत्यस्य "अम्भस्यापारे' इत्यनुवाकगतस्यैकवाक्यत्वं वक्तव्यमिति भावः ।

( तत्त्वमस्यर्थः )

चतुर्धा हि परैः सामानाधिकरण्यमिति । "व्याप्तेश्च समञ्जसम्' इत्यत्र शांकरभाष्ये सामानाधिकरण्ये अध्यासापवादै-कत्वविशेषणानीति चत्वारः पक्षा उपन्यस्ताः । तत्र-"अध्यासो नाम-द्वयोर्वस्तुनोरनिवर्तितायामेवान्यतरबुद्धौ अन्यतरबुद्धिरध्य-

स्यते । यथा नाम्नि ब्राहृत्वबुद्धाबध्यरतायामप्यनुवर्तत एव नामबुद्धिः, न ब्राहृबुद्धया निवर्तते । यथा वा प्रतिमादिषु विष्ण्वादिबुद्धि-रध्यासः । अपवादो नाम-यत्र कस्मिश्चिद्वस्तुनि पूर्वनिविष्टायां निश्चितायां मिथ्यात्वबुद्धौ पश्चादुपजायामाना यथार्थबुद्धिः पूर्व-निविष्टाया मिथ्यात्वबुद्धेर्निवतिर्का भवति । यथा देहेन्द्रियसंघाते आत्मबुद्धिरात्मन्येवात्मबुद्धया पश्चाद्भाविन्या तत्त्वमसीत्यनया यथार्थबुद्धया निवर्तते । यथा दिग्भ्रान्तिर्दिग्याथात्म्यबुद्धया निवर्तते । एकत्वं च समानाधिकृतयोः शब्दयोद्र्वयोरनतिरिक्तार्थवृत्ति- त्वम् । तद्यथा "सिन्धुरः करी', "कोकिलः पिकः' इति । विशेषणविशेष्यभावे "नीलमुत्पलम्'-इत्युपन्यस्तम् । तस्यापीदमुप-लक्षणमिति द्रष्टव्यम् । सर्वं स्वल्विदं ब्राहृेत्यादाविति । ननु शमविधिपरत्वेन, "नाम ब्राहृ' इत्यादाविव सर्वस्मिन् ब्राहृदृष्टिविधि-परत्वाभावेन अध्यासे सामानाधिकरण्यमिति परैर्न व्यवह्मतम्; कथमेवमुच्यत इति चेत्-न । यदि न व्यवह्मतम्, तर्हि "नोदाहरण-मादर्तव्यम्' इति न्यायेन संप्रतिपन्नबुदाहरणान्तरं द्रष्टव्यम् । स्थित्यादिविशेषणविधुरेति । तिष्ठतिक्रियाय आनयनदशायाम-संभवादिति भावः । स्थित्यादिविशेषणेनेति । यत्प्रत्याय्यव्यावृत्तिमत्तया ज्ञाते तात्पर्यविषयेतरविशेषणान्वयधीः, तत्त्वस्यैव विशेषणत्वरूपत्वम्; न तु विधेयान्वयिरूपत्वमिति भावः । यथान्वयार्हमिति । विधेयसमकालतया वा विधेयभिन्नकालतया वा यथान्वयार्हमित्यर्थः । अत एव "सोऽयं देवदत्तः' इत्यादौ देशकालादीनामपि विशेषणत्वमिति भावः । एकस्यापि परित्याग इति । अत एव "संबन्धादेवमन्यत्रापि' इत्यधिकरणे व्याह्मतिविद्यायाम् "तस्योपनिषदहरित्यधिदैवतम्', "तस्योपनिषदहमि-त्यध्यात्मम' इत्यत्र तच्छब्दस्य पूर्वप्रपृतस्थानविशेषविशिष्यवचनत्वात् तत्तन्नाम्नो व्यवस्थितिः, न तु विशेष्यमात्रवचनतयाऽव्य-वस्थितत्वमिति समर्थितमिति भावः । प्रकृतत्वं दूरोत्सारितमिति । अत एव निर्विशेषप्रतीतिस्तपदेन लक्षणयैवेति परैरपीष्यत इति भावः । प्रतिसंधानानर्हत्वादिति । तत्पदजन्यप्रतिसंधानानर्हत्वादित्यर्थः । कनकं प्रतिसन्धीयत इति । न च तच्छब्दानुवि- द्धतया तदिति प्रात्यक्षिकप्रतिसंधाने सत्यपि तत्पदजन्यप्रतिसंधानविषयत्वस्यानुपपादितत्वात् कथमयमाक्षेप इति वाच्यम्, तच्छ-ब्दानुविद्धप्रतिसंधानानर्हस्य तत्पदजन्यप्रतिसंन्धानानर्हत्वमपि संभवतीति तदभिप्रायात् । शब्दस्त्विपि । वस्तुतस्तु प्रत्यक्षेण यत्रा-ङ्गुलीयकत्वप्रहाणेन तदिति कनकं प्रतिसंधीयते, तत्रापि संस्कारसाचिव्यादङ्गुलीयकत्वविशिष्यस्यैव परामर्श इत्युक्तावपि न दोषः । प्रयोजकोपलक्षणाभिप्रायेणेति । ततश्च किंचिज्ज्ञत्वादिरूपमाभिमुख्यप्रयोजकमप्यचिद्विशिष्टेत्यनेन संगृहीतमिति भावः । अन्यथाऽतीतानागतेति । प्रतीतियौगपद्यमादाय विषययौगपद्याभ्युपगमे प्रत्येतव्यस्य प्रतीतिसमकालत्वमिति नियमोऽभ्युपगतः स्यात् । ततश्चातीतानागतविषयेऽपि विषयविषयिणोः समकालत्वनिर्वाहाय विषयिणो वाऽऽतीतत्वं विषयस्य वा विद्यमानत्वं स्यादिति भावः ।

उक्तदृष्टान्तादिति । "शुक्तिरेव रजतम्' इति दृष्टान्तादित्यर्थः । उपलक्ष्यसामानाधिकरण्यादिति । "अन्वयमुखेनोप-लक्ष्यवस्त्वैक्यपरम्' इति प्रतिपादितात् उपलक्ष्यसामानाधिकरण्यादित्यर्थः । पाठो निरीक्षणीय इति । आश्रयशब्दस्य नित्यपुंल्लि-ङ्गत्वादिति भावः । आश्रयशब्दो विषयपर इति । विषयीकरणपर इत्यर्थः । स्वसिद्धान्तरमाह-आरेप्याकाराधिकरणभूतमधिष्ठा-नमिति वार्थ इति । भ्रम्यत इति भ्रमः. आरोप्याकारो रजतादिरेव । तस्याश्रयम् आश्रीयम् आश्रीयत इत्याश्रयम् "अकर्तरि च कारके' इत्यधिकारे कर्मणि "परच्' इत्यच्प्रत्ययः । न च "ञजवन्ताः पुंसि' इति पुंलिङ्गत्वमजन्तत्वे स्यात्,

"क्तल्यू नपंसके भावे स्त्रियां क्तिन्नादयो यतः ।

अतो घञाद्याः पुंस्येव यथा पाकश्चयो लवः ।।'

इति वाच्यम्, तस्य भावार्थघञादिविषयत्वात् । यथोक्तम्-

"भावे घञाद्याः पुंस्येव कर्तृभिन्ने तु कारके ।

पुंनपंसकयोरेव न कथंचित् स्त्रियां क्विचित् ।।'

इति । तेन कर्मादिषु कारकेषु पुंनपंसकत्वमस्तीति विशेष्यस्य नपुंसपत्वान्नपुंसकत्वमुक्तमिति द्रष्टव्यम् । यथा पलाशपुष्पविष- येति । यद्यपि श्लोके भ्रमर्या वृन्तेभ्रमरभ्रमेण पलाशपुष्पविषयदावभ्रमे निवृत्ते पलाशपुष्पालश्लेषमात्रं प्रतीयते; "भ्रमरभ्रमेण' इत्य- स्य "अदावभ्रमम्' इत्यनेनैवान्वितत्वेन "आश्लिषत्' इत्यनेनान्वितत्वाभावात्, तावन्मात्रस्यैव प्रकृतोपयुक्तत्वाच्च-तथापि भ्रमर-ज्ञानस्य भ्रान्तित्वस्पष्टीकरणार्थं पलाशपुष्पाश्लेषस्य भ्रमरभ्रमनिवर्तकत्वमप्युपन्यस्तमिति द्रष्टव्यम् । भ्रमविषयनिवृत्तेरिति । निवृविरपहारः, असत्त्वमिति यावत् । पारमार्थिकधर्मतत्तिरोधानानभ्युपगमे भ्रान्तिबाधौ दुरुपपादौ इति हि भाष्यम् । तत्र बाधो हि विषयापहारः, विषयासत्त्वमिति यावत् । ततश्च भ्रान्त्यन्तरं निवर्तताम्; मा वा । दावत्वरूपविषयस्यासत्त्वरूपो बाधः

पारमाथिर्कपलाशपुष्पत्वकृतः; विरोधिधर्मपारमाथ्र्यायत्तत्वात् तद्विरोधिधर्मासत्त्वस्येति भावः । भ्रान्तिबाधो नाम भ्रान्तिविनाश एवेत्यभिप्रेत्याशङ्कते-भ्रमरभ्रमेण दावत्वभ्रमनिवृत्तिरिति चेदिति । असत्ये सत्यत्वविषयभ्रमान्तरमिति । ननु-तन्निवृत्तिरपि भ्रमान्तरेण, तन्निवृत्तिरपि भ्रमान्तरेणेत्याश्रयणे भ्रमपरंपरया निःशेषाविद्यानिवृत्त्यनुपपत्तिः इत्येतावतैव ग्रन्थेन विवक्षितार्थः सिध्यतीति, "ततः किम्? दावत्वबुद्धिनिवृत्तिः' इत्यादिग्रन्थस्य नातीव प्रयोजनं पश्यामः । किं च अभ्रमरे भ्रमरत्वविषयत्वेनैव भ्रमत्वोपपादनसंभवे सत्यत्वविषयत्वपर्यन्तोपपादनस्यापि न प्रयोजनमिति चेत्-न; विरुद्धाकारसत्यत्वावगाहिज्ञानस्यैव बल- वत्त्वेन बाधकत्वमिति शिक्षणार्थत्वेनास्य ग्रन्थस्योपपत्तेः । निःशेषाविद्यानिवृत्त्यनुपपत्तिरिति । भ्रमेण भ्रमनिवृत्तिमात्रदर्शनेऽपि मोक्षे निःशेषाविद्यानिवृत्तिमभिलषता सुदूरमपि गत्वा पारमार्थिको धर्मः स्वीकरणीय इति भावः । किं च भ्रमरभ्रमनिवृव्यनन्त-रमिति । वृन्तत्वज्ञानेन भ्रमरत्वव्यतिरेकनिश्चये निवर्तकीभूतभ्रमरत्वबुद्धेरपारमाथ्र्यनिश्चयेन दावत्वबुद्धेः पारमाथ्र्यबुद्धेरवर्जनीय-त्वादिति भावः । परमार्थपलाशपुष्पत्वग्रहणेनैव प्रतिनिवृत्त इति । यद्यपि दावत्वभ्रमस्य वृन्ते भ्रमरत्व पारमाथ्र्यभ्रममात्रेणापि तद्वाधकज्ञानानुत्पत्तिस्थले निवृत्तिः संभवति, तथापि भ्रमर्याः पलाशपुष्पत्वज्ञानादेव सा भ्रान्तिर्यत्र निवृत्ता तदभिप्रायेण तथो- क्तमिति द्रष्टव्यम् । न स्यादिति चेदिति । नश्येदिति चेदित्यर्थः । ननु-न तस्यैव मिथ्यात्वं सत्यत्वं च प्रसज्यते । विनाश्य-विनाशकभावलक्षणबाधकभावस्य मिथ्यात्वसत्यत्वनिरपेक्षत्वात्, तुल्यसत्ताकयोरेव पूर्वोक्तज्ञानयोर्विनाश्यविनाशकत्वलक्षण-बाध्यबाधकत्वदशर्नात् । न च बाधकज्ञानविषयस्य सत्यत्वं बाध्यज्ञानविषयस्य मिथ्यात्वं चापेक्षितमिति चरमज्ञानविषयस्य मिथ्यात्वसत्यत्वे स्यातामिति वाच्यम्, तस्याद्याप्यसिद्धेरित्यस्वरसादाह-किंच प्रपञ्चोऽपीति । स्वयं नाशेऽपि नाशस्यावस्था-न्तररूपत्वादिति । न च परतो नाशेऽपि नाशस्यावस्थान्तरूपत्वादिति सुवचमिति वाच्यम्, ज्ञानेन निवृत्तिस्थले मूलभूताविद्याया एव निवृत्तिरिति नावस्थान्तरापत्तिलक्षणो विनाश इत्यत्र तात्पर्यात् । अत एव यत्र मुद्गरप्रहारेण घटनाशस्तत्र स्वकारणे विलय-मात्रमेव; न तु घटस्यात्यन्तनिवृत्तिः । यत्र तु शुक्तिज्ञानेन रजतनिवृत्तिः, तत्र स्वोपादानेन सह निःशेषनिवृत्तिः, न तु स्वकारणे विलय इति पराभ्युपगम इति भावः । राजकुमारसमाधिरिति । समन्वयाधिकरणभाष्य, "कश्चिद्राजकुमारः' इत्यादिना स्पष्ट- यिष्यते । उक्तं च परैरपि-

"राजसूनोः स्मृतिप्राप्तौ व्याघभावो निवर्तते ।

यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः ।।' इति ।

सार्वज्ञ्यादिगुणकत्वस्य प्रत्यक्षाद्यगोचरत्वादिति । यद्यपि पूवर्संदर्भप्रतिपन्नस्य सार्वज्ञ्यादिगुणकस्योद्देश्यत्वं संभवति, तथापि तत्पक्षे "असि' इति मध्यमपुरुषानुपपत्तिरिति दूषणं द्रष्टव्यम् । अन्तर्यामिणः प्रत्यक्षागोचरत्वादिति । यदि चान्तर्यामी पूर्वप्राप्तः, तदोपदेशवैयथ्र्यमिति द्रष्टव्यम् । ननु "ऐतदात्म्यम्' इत्यनेन शरीरशरीरिभावस्य प्राप्तत्वेऽपि त्वंशब्दतदर्थतद्बुद्धीनां परमात्मपर्यन्तत्वरूपस्य "तत्त्वमसि' इति वाक्यप्रतिपाद्यार्थस्याप्राप्तत्वादुद्देश्योपादेयसिद्धिरित्याशङ्कय तस्यापि प्राप्तिमुपादयति-अस्मिन्नेव प्रकरण इति । इदं च त्वमादिशब्दानां परमात्मपर्यन्तत्वमिति "तत्त्वमसि' इत्यस्यार्थ इत्यभ्युपगम्योक्तमिति द्रष्टव्यम् । उद्देश्योपादेयविभागवत्त्वभ्रान्तिरेवेति । ननु "अग्निर्हिमस्य भेषजम्' इत्यादौ प्राप्त्यप्राप्तिनिबन्धनानुवाद्यत्वविधेयत्वाभावेऽपि निर्देशगतस्वातन्त्र्यपारतन्त्र्यरूपोद्देश्योपादेयविभागवत्त्वे न दोषः । न चानुवाद्यत्वविधेयत्वे एवोद्देश्यत्वोपादेयत्वे इति वक्तुं शक्यम्-"पौर्णमास्यां पौर्णमास्यां यजेत' इम्यादावनुपादेयस्यापि कालस्य विधेयत्वदर्शनादिति भावः । केचित्तु-उद्देश्योपादेयशब्दावनु-वाद्यत्वविधेयत्वपरावितिवदन्ति । प्रापकवाक्यस्थोद्देश्यवाचीति । यद्यपि त्वंशब्दस्य "ऐतदात्म्यमिदम्' इति प्रापकवाक्यस्थ-विधेयवाचकैतदात्म्यशब्दवाच्यपरमात्मपर्यन्ततया विधेयत्ववाचित्वमपीति न विनिगमकमस्ति, तथाप्यसति विनिगमके द्वयोरपि प्रयोगार्हत्वात् मध्यमपुरुषः प्रयुक्त इति भावः । तदनुरोधेन मध्यमनिर्देश इतीति । यद्यपि-मानान्तरसिद्धत्वेऽपि त्वंशब्दार्थस्य तच्छब्दाथप्र्रकृतित्वविवक्षायां प्रकृतेरेवासिक्रियाकर्तृत्वान्मध्यमपुरुषो भवति । अत एव "यदग्ने स्यामहं त्वं त्वं वा स्या अहम्' इति मन्त्रे "अहं त्वं स्यां, त्वं वा अहं स्याः' इति प्रकृत्याश्रयःपुरुषो भवतीति "युष्मद्युपपदे' इति सूत्रे प्रतिपादितम् । ततश्च त्वदात्मक एव सर्वज्ञत्वादिगुणको जगत्कर्तेत्ययमर्थः पर्यवस्यति, विवक्षानुसारित्वाच्छब्दप्रवृत्तेः मानान्तरसदसद्भावयोरप्रयोजकत्वात् । अत एव हि "आत्मेति तूपगच्छन्ति' इत्यधिकरणे आचार्याः स्वयमेव तथा वक्ष्यन्ति-तथाप्यत्रोपायान्तरमुपन्यस्तमिति द्रष्टव्यम् । सदायतना इत्यनेनाधाराधेयभाव उक्त इति । "सन्मूलाः सत्प्रतिष्ठाः' इत्यत्र सच्छब्दो विशिष्टपरः । प्रजाशब्दोऽपि कार्यावस्थ-ब्राहृपरः, केवलस्योपादानत्वासंभवात् । "सदायतनाः' इत्यत्र तु सच्छब्दो विशेष्यस्वरूपमात्रपरः । प्रजाशब्दोऽपि न ब्राहृपर्यन्तः,

अपित्वचिद्विशिष्टजीवमात्रपरः ।वैरूप्यमपि प्रामाणिकत्वादभ्युपेयम् । अथवा प्रजाशब्दः सर्वत्र विशेषणमात्रपरः । अस्मिन्नपि पक्षे उपपत्तिः प्रागेव दर्शिता । सन्मूला इत्यादिवाक्यैकाथ्र्यादिति । "सर्वं खलु' इति वाक्ये इतिकरणेन हेतुत्वं स्पष्टम्; अन् इत्यस्य शरीरशरीरिभावार्थत्वमस्पष्टम् । "सदायतनाः' इत्यत्र शरीरशरीरिभावः स्पष्टः; हेतुत्वमस्पष्टम् । ततश्च नष्टाश्वदग्धरथ-न्यायेनोभयोरपि परस्पराकाङ्क्षतयार्तनिर्णायकत्वमिति भावः ।

शरीरात्मभावः फलित इति । आत्मत्वप्रतिपादनेन शरीरत्वमपि फलितमिति भावः । साधारण्यं स्यादिति । ततश्चा-न्यतरमात्रेऽपि पर्यवस्येदिति भावः । अयं निर्देश इति । "यस्यात्मा शरीरम्' इत्यादिनिर्देश इत्यर्थः । अधिकरणाधिकर्तव्येति । "य आत्मनि तिष्ठन्' इत्यधिकरणाधिकर्तव्यत्वमुक्तम्, "आत्मनोऽन्तरः' इति व्याप्यव्यापकभावः, "यमात्मा न वेद' इत्यज्ञप्राज्ञ-भावः, "य आत्मानमन्तरो यमयति' इति नियाम्यनियन्तृभावश्चोक्त इति भावः । पृथिव्यवादीनामिति । "ॠक्पूरब्धूः' इत्यप्रत्य-याभावः समासान्तविधेरनित्यत्वादिति द्रष्टव्यम् । अन्तर्यामिब्रााहृणेनैव चारिताथ्र्यात् "यः पृथिवीमन्तरे संचरन्' इति सुबाल-वाक्योपादनस्य प्रयोजनमाह-कारणावस्थमपीत्यादिना । जीवेन मयेति श्रवणादित्यत्राह-तदनुप्रविश्येतीति । ननु श्रुत्यन्तरे तादृशवाक्यान्तरसद्भावेऽप्यश्रुतवेदान्तान्तरस्य श्वेतकेतोः "अनेन जीवेनात्मना' इत्यनेन वाक्येन जीवब्राहृाभेदसिद्धिः कस्मान्न स्यादिति चेत्-न; अत्रापि प्रकरणे "सन्मूलाः सोम्येमाः सर्वाः प्रजाः' इत्यनेन प्रजाशब्दार्थस्याचित्संसृष्टचेतनस्य सच्छरीरत्वा-दिकथनेन "सता सोम्य तदा संपन्नो भवति' इत्यादिभेदनिर्देशेन चाभेदभ्रमनिवृत्त्युपपत्तेः । नामरूपाभ्यामितीत्यर्थभावे तृती- येति । यद्यप्येकीकृतं वस्तु नामरूपाभ्यां करणाभ्यां विभिन्नतयाऽक्रियतउअज्ञाप्यत इत्येवं व्याकरणे नामरूपयोः करणत्वमपि संभवति । कारकविभक्तित्वसंभवे उपपदविभक्तित्वं चान्याय्यम्-तथाप्युपायान्तरप्रदर्शनपरत्वाददोष इति ध्येयम् । संज्ञासंज्ञि-संबन्धव्युत्पादक इति । संकेतयितरि पित्रादावित्यर्थः । गङ्गापदाग्निपदापेक्षया नामित्वाप्रसिद्धेरिति । न च-घटपदवाच्यस्यापि कलशस्य नामित्वं नास्त्येव, घटशब्दस्य संज्ञाशब्दत्वाभावादिति वाच्यम्-अत्र नामशब्दस्य घटादिशब्दसाधारणवाचकत्वमात्रार्थ-कत्वेन संज्ञाशब्दपर्यायत्वाभावादिति भावः । निष्पाद्यमानतत्तद्रूपवाचकशब्दव्युत्पादनमेवेति । तत्तद्रूपवाचकशब्दवाच्यत्वसंपा-दनमेवेत्यर्थः । ननु-अस्तु नामव्याकरणं शब्दवाच्यत्वसंपादनम्; तथापि चिदचितोरेव नामवाच्यत्वसिद्धिः; न ब्राहृणः, ब्राहृपर्य- न्तत्वे प्रमाणाभावात्;"तद्धेदं तह्र्रव्याकृतमासीत्' इत्यत्रापीदंशब्दस्य जगद्वाचितया ब्राहृवाचित्वाभावादित्याशङ्कय नामवाच्य- त्वस्य ब्राहृपर्यन्तत्वमुपपादयति-तत्र बहु स्यामित्यनेनत्यादिना । तत्रउनामव्याकरणस्य नामवाच्यत्वसंपादनरूपत्वे सतीत्यर्थः । लोकतो व्युत्पत्त्यभावपरिहार इति । लौकिकानामपूर्वे व्युत्पत्तिः कुतो नास्तीति शङ्कायाम पूर्वस्य लौकिकप्रमाणागोचरत्वेनेति यथा परिहारः क्रियते, तथेत्यर्थः । वैयधिकरण्येन प्रतिज्ञातस्य उपसंहार इति । "एतदात्म्यम्' इति बहुव्रीहिणा वैयधिकरण्येन, "इदं सर्वम्' इति सामान्येन च निर्दिष्टस्य शरीरात्मभावस्य, "तत्त्वमसि' इति सामानाधिकरण्येन विशेषे चापेसंहारः कृत इत्यर्थः । न तु निगमनवाक्यानामिति । ननु यथा "धूमवान् सर्वोऽपि वह्निमान्' इति पर्वतसाधारण्येन धूमवत्त्वावच्छेदेन वह्निमत्त्वव्याप्त्यु-पदर्शनेन ज्ञातत्वेऽपि "पर्वतो वह्निमान्' इति वाक्यस्यैतत्पर्वतत्वावच्छेदेन वह्निप्रतिपादकस्य(?) यथोद्देश्योपादेयत्वम्, एवमिह किं न स्यादिति चेत्-न; तत्रापि "इमे पर्वता वह्निमन्त' इति पुरोवर्तिपर्वतसाधारण्येन निश्चयस्थले उद्देश्योपादेयविभागाभावस्येष्ट-त्वादिति भावः ।

भेदश्रुतिघटकश्रुत्वविरोधार्थमिति । द्वाभ्यामपि सामानाधिकरण्यस्याविरोधार्थमित्यर्थः । तन्त्रेणोक्तिरिति । अचिद्व्र-हृणोर्भेदाभेदौ स्वाभाविकौ; चिद्व्रहृणोस्त्वभेदः स्वाभाविक, भेदस्त्वौपाधिकः; मुक्तावभेदवचनादिति भास्करमतम् । चिद्व्रहृ-णोरपि भेदाभेदौ स्वाभाविकौ, मुक्तौ भेदस्यापि निर्देशादिति यादवप्रकाशमतमिति विवेको द्रष्टव्यः । स्ववाक्येन सत्यं ज्ञान-मित्यादिनेति । आदिपदेन "सदेव सोम्येदम्' इत्यादेः प्राकरणिकवाक्यस्यापि परिग्रहः । परित्यागः फलित इत्यर्थ इति । स्वा-रसिकार्थपरित्यागा एवोपदोपरित्यागः । न हि वेदस्य तदर्थत्यागादन्यस्त्यागोऽस्तीति भावः । ब्राहृज्ञानेन जीवस्य दोषनिवृत्तेः शास्त्रसिद्धत्वान्नित्यदोषोपहितत्वं ब्राहृणो बाधितमित्यस्वरसादाह-यद्वा तत्तद्दोषसंबन्धार्हत्वमिति । यथा जीवस्य दोषसंबन्धा- र्हत्वं स्वाभाविकम्, एवं तदभिन्नब्राहृणोऽपि स्यादित्यर्थः । ननु-निर्दोषब्राहृतादात्म्योपदेशविरोधो न संभवति । तन्मते इश्वरस्यैव निर्दोषत्वम् । चिदचिदीश्वरसमुदायात्मकब्राहृद्रव्यस्य न निदो#ॅषत्वम् । येन निर्दोषब्राहृतादात्म्योपदेशविरोधः स्यादित्याशङ्कयाह-सद्व्रहृात्मादिशब्दानामिति । निर्दोषश्रुतिविरोधः फलित इति । जीवस्य ब्राहृतादात्म्ये प्रतिपाद्ये ब्राहृणो निर्दोषत्वश्रुतिर्विरुध्ये- तेति पर्यवसितोऽर्थः । हेयापहेति । "स्त्रगियं यदि जीवितापहा' इतिवत् "अन्येभ्योऽपि दृश्यते' इति डप्रत्यये, "क्विष् च' इति क्विपि

वा रूपम् । क्विष्पक्षे बह्वादिषु पाठसामथ्र्यात् ङीषभावे "ॠन्नेभ्यः इति न ङीबिति धातुवृत्तावुक्तमिति द्रष्टव्यम् । ततश्च "अपे क्लेश-तमसोः' इति क्लेशतमसोरेवोपपदयोर्डप्रत्ययविधानमिति कथमिदं रूपमिति न चोदनीयम् ।

दण्डादिव्यावृत्त्यर्थमाहेति । "शरीरभावेन3 इति पदसमभिव्याहारेण "विशेषणत्व' इति भाष्यस्यापृथक्सिद्धतया विश-षणत्वमिति लभ्यते, न विशेषणत्वमात्रमिति भावः । तत्र तत्र प्रयोगविषयेष्वनुवृत्ताकरदर्शनादिति । ननु जातिगुणद्रव्येष्वपृथ-कसिद्धविशेषणत्वस्यानुगतस्य मत्वर्थप्रत्ययनिरपेक्षसामानाधिकरण्यप्रयोजकस्य संभवेऽपि देवादिशब्दप्रवृत्तिनिमित्तस्य शरीर-जीवपरमात्मसाधारणस्य प्रवाहतीरानुगतगङ्गापदप्रवृत्तिनिमित्तस्येवैकस्याभावात् तच्छब्दप्रवृत्तिनिमित्तदेवत्वादिजात्याश्रयशरीर- स्यैव मुख्यत्वम्, अतदाश्रयात्मनि तत्संबन्धाल्लक्षणैवास्त्विति चोद्यस्य कः परिहार उक्त इति चेत्-उच्यते-देवत्वादिकमेव देवादि-शब्दस्य शरीरात्मसाधारणं प्रवृत्तिनिमित्तं "स्थूलो मनुष्यो देवः' इत्याद्यबाधितप्रयोगवशात् देहस्य देवत्वाद्याश्रयत्वाभ्युपगमवत् "देवोऽहं जानामि' इत्यबाधितप्रयोगवशात् देवत्वाश्रयत्वस्यात्मन्यप्यभ्युपगन्तव्यत्वात् । न च देहात्मविवेककृतोऽयं प्रयोग इति वाच्यम्, "नाहं देहः' इति देहेत्मविवेकवतोऽपि "नाहं देवो मनुष्य' इत्यप्रतीतेः । न च-देहद्वारा देवत्वरूपप्रवृत्तिनिमित्ताश्रयत्वे-ऽप्यात्मनः साक्षात् प्रवृत्तिनिमित्ताश्रयत्वाभावान्न तच्छब्दवाच्यत्वम् । अन्यथा घटद्वारा घटत्वाश्रयभूतलस्यापि घटशब्दवाच्यत्व- प्रसङ्ग इति वाच्यम्, तत्र "भूतले घटत्वम्' इति वा "भूतलं घटः' इति वा भूतलस्य घटत्वाश्रयत्वग्राहकस्याबाधितप्रमाणस्याभावेन तस्य घटाब्दवाच्यत्वाभावेऽपि "देवोऽहं जानामे' इत्यबाधितप्रतीतेर्देवत्वरूपप्रवृत्तिनिमित्ताश्रयत्वस्य, तत्त्वेन तच्छब्दवाच्यत्व-स्याप्यावश्यकत्वात् । अपूर्वान्तिरितस्यापि यागादेः स्वर्गसाधनत्ववत्, आस्तरणान्तरितस्यापि पर्यङ्कादेः शयानदेवदत्ताधारत्ववत् शरीरान्तरितस्याप्यात्मनो देवत्वाद्याश्रयत्वं न विरुध्यते । भूतलस्य तु घटाधारत्वमेव । न तु घटत्वाधारत्वम्, तथा अप्रतीतेरिति विशेषः । "उष्णं जलम्' इत्यादौ त्वबाधितप्रतीतिव्यवहाराभावात् नोष्णादिशब्दवाच्यत्वम् । अत एवापृथक्सिद्धविशेषणवाचि-शब्दानां विशेष्यवाचित्वे दीपाद्यपृथक्सिद्धप्राभावाचिशब्दानामपि दीपदिवाचित्वप्रसङ्ग इत्यादिश्रुद्रोपद्रवाणामपि नावकाशः, दीपादेः प्रभात्वरूपप्रवृत्तिनिमित्ताश्रयत्वाभावात् ।

ननु "मनुष्यादिशरीराणाम्' इति भाष्ये तत्प्रकारत्वमपृथक्सिद्धविशेषणत्वरूपतयोच्यमानं दण्डादिष्वतिप्रसक्तमित्या-शङ्कयाह-अन्यतरान्वितमिति । नन्वात्मैकाश्रयत्वतदेकार्थत्वयोरन्यतरान्वितं प्रकारत्वमपृथक्सिद्धविशेषणत्वमित्ययुक्तम्, व्यर्थ-विशेष्यत्वात् । किंच तथा सत्यात्मैकाश्रयत्यतदेकप्रयोजनत्वान्यतरप्रयुक्तमित्येवोच्यताम्; किमित्यात्मैकाश्रयत्वं तदेकप्रयोजन-त्वमिति निर्देश इत्यस्वरसादपृथक्सिद्धत्वप्रयोजकत्रयपरतया व्याचष्टे-यद्वा प्रकारत्वशब्देनेति । उत्तरत्र प्रकारत्वविवरण इति । न चात्मविशेषणतयैव प्रतीतेरिति भाष्यखण्डस्य प्रकारत्वप्रमाणोपन्यासपरत्वसंभवेन प्रकारत्वविवरणरूपत्वमसिद्धम्; अतः प्रकारत्वं प्रकारतैकस्वभावत्वमित्यर्थः किं न स्यादिति वाच्यम्-तथा हि सति तदेकाश्रयत्वतदेकप्रयोजनत्वतद्विशेषणत्वैः शरीर- स्यापि तत्प्रकारतैकस्वभावत्वावगमादिति विशेषणत्वतत्प्रकारतैकस्वभावत्वयोरुपपद्योपपादकभावेव भेदेन निर्देशकं भाष्यं विरु- ध्येत । अतो विशेषणत्वं विशेषणतयैव प्रतीतत्वं विवक्षितमिति भावः । भृत्यादिदेहेष्विति । न च भृत्यदेहस्य स्वामिप्रयोजनसाध-नत्वेऽपि स्वप्रयोजनादेरपि साधकतया नातिव्याप्तिः शक्यशङ्केति वाच्यम्, तथात्वे पत्रीपुत्रादिभोगसाधने शरीरऽसंभवापत्तेरिति भावः । ननु प्रकारत्वं प्रकारतयैव प्रतीतिरिति व्याख्यातत्वात् विशेषणतया प्रतीतेः प्रकारतया प्रतीतत्वमित्युक्ते साध्याविशेष इत्या-शङ्कयाह-पञ्चमीनिर्देशस्त्वौपचारिक इति । एतत् त्रितयमिति । त्रित्वोक्तिः "मनुष्यादिशरीराणाम्' इत्यादिभाष्यद्वितीयव्या-ख्याभिप्रायेणेति द्रष्टव्यम् । स्वरूपमिति । अत्र स्वशब्द आत्मीयवाचीति भावः । प्रयोजकान्तराभावादेकसामग्रीवेद्यत्वं प्रयो-जकमुच्यत इति । एकसामग्रीवेद्यत्वमपृथकसिद्धविशेषणत्वे प्रयोजकमिति तदभावान्नापृथक्सिद्धविशेषणत्वमित्युच्यत इत्यर्थः । एवं सत्येव "पृथग्ग्राहणयोग्यस्य' इति भाष्यावतारिकाग्रन्थैकरूप्यमुपपद्य इति द्रष्टव्यम् । एकसामग्रीवेद्यतास्वभावत्वव्या- वृत्त्यर्थ इति ।

अत्र केचित्-"प्रकारतैकस्वरूपत्वं दुर्घटम्' इत्यत्रैकशब्दस्येवेहापि कदाचिदप्रकारत्वव्युदासकत्वस्यैव युक्तत्वात् तस्यै- वेह कथनाच्च तदेव युक्तम् । न त्वेकसामग्रीवेद्यत्वस्वभावत्वव्यावृत्त्यर्थत्वम्, तदेकाश्रयत्वादीनामपृथक्सिद्धविशेषणत्वावगम-कत्ववदेकसामग्रीवेद्यत्वाभावावगमकत्वाभावात् । अत एव "यदि तदेकाश्रयत्वादिरेवापृथक्सिद्धविशेषणत्वे प्रयोजकः' इत्युत्त-रग्रन्थावतारिकापि न युक्ता, एकसामग्रीवेद्यत्वाभावस्योक्तरीत्या प्रागसमर्थितत्वेनैकाश्रयत्वादिरेवेत्यनुवादासंभवात् । "कथं तर्हि सहोपलम्भनियमः' इत्युप्ययुक्तम् । तस्य ह्रयमभिप्रायः-एकसमाग्रीवेद्यत्वस्यापृथक्सिद्धविशेषणत्वाप्रयोजकत्वे अपृथक्सिद्ध-

विशेषणेषु जातिव्यक्तयादिष्वेकसामग्रीवेद्यत्वानवश्यम्भावेन तन्निबन्धनः सहोपलम्भनियमोऽपि न स्यादिति । एवमाक्षिपन्तं प्रति "सहोपलम्भनियमस्त्वेकसामग्रीवेद्यत्वनिबन्धनः' इति परिहारस्यायुक्तत्वात् । तदभ्युपगमेनैवाक्षेषस्य प्रवृत्तत्वात् । जात्यादौ सहोपलम्भनियम इत्यध्याहारस्यापि क्लिष्टत्वाच्च । किंच "पृथग्ग्रहणयांम्यस्य प्रकारतैकस्वरूपत्वं दुर्घटम्' इति भाष्यस्य सहोपल-म्भनियमशून्यस्य तत्प्रकारतैकस्वरूपत्वं दुर्घटमित्यर्थस्यैव स्वरसतः प्रतीतेः स एवार्थ उचितः । किं प्रकारतैकस्वरूपत्वे प्रमाणा- भावात् तन्नास्तीत्यभिप्रायः? उत प्रकारत्वस्य स्वभावत्वे यद्वस्तु यत्स्वभावविशिष्टं तद्वस्तु गृह्रमाणं तत्स्वभावयुक्तमेव गृह्रत इत्यपृथक्सिद्धत्वस्वभावत्वे तद्विशिष्टमेव गृह्रेतेत्यभिप्राय इति विकल्प्य प्रथमं दूषयति-भाष्ये जात्यादिवदिति । द्वितीयं दूषयति- भाष्ये सहोपलम्भनियमस्त्विति । सहोपलम्भनियमःउसहैव प्रकारतयोपलम्भनियम इत्यर्थः, "सहैवप्रकारतया प्रतिपादयति' इत्युत्तरभाष्यानुगुण्यात् । वस्तुग्राहकं प्रमाणं तत्तत्स्वभावविशिष्टमेव गृह्णातीति नियमाभ्युपगमे बाधकं दर्शयति-यथा चक्षउपेति । पृथिव्याः स्वाभाविकगन्धरसादिसंबन्धित्वस्याग्रहवत् शरीरगतात्मप्रकारत्वस्वभावत्वस्याप्यग्रहणोपपत्तौ प्रमाणान्तरसिद्धप्रकार-तैकस्वभावत्वत्यापह्नवानर्हत्वादिति भाव इति वदन्ति ।

प्रथमविकल्पे द्वितीयशिरसीति । अनुयायित्वादेकसामग्रीवेद्यत्वमपि प्रयोजकमिति द्वितीयकल्प इत्यर्थः । अनुगत-प्रयोजकसद्भावादिति । तदेकाश्रयत्वादिरूपानुगत प्रयोजकसद्भावादित्यर्थः । द्वितीयशिरसि गन्धादाविति । यद्यपि शरीरा- दिषु भिन्नसामग्रीवेद्येष्वपृथकसिद्धविशेषणत्वस्य समर्थितत्वेनापृथक्सिद्धसामान्ये प्रयोजकत्वशङ्काया अनुत्थानात् जात्यादि-गतापृथक्सिद्धसामान्ये प्रयोजकत्वशङ्काया अनुत्थानात् जात्यादिगतापृथक्सिद्धत्वविशेषे एकसामग्रीवेद्यत्वस्य प्रयोजकत्वेऽपि तस्याप्रत्याख्येयत्वाच्च तत्प्रत्याख्यानं प्रकृतानुपयुक्तम्, तथापि पराभिमानखण्डनार्थमुक्तमिति द्रष्टव्यम् । एकशब्द एक-सामग्रीवेद्यत्वव्युदासपरः । एवकारः सहोपलम्भनियमव्युदासार्थ इति । अत्र केचित्-एकशब्दोऽप्रकारत्वावस्थाव्युदासपरः, एवकारः सहोपलम्भनियमैकसामग्रीवेद्यत्वव्युदासपर इत्येव युक्तमिति वदन्ति ।

भाष्ये-पदार्थविवेकप्रदर्शनायेति । देवादिशब्दैर्हि शरीरात्मानौ न विविच्य ज्ञापयितुं शक्यौ । शरीरादिशब्दैस्तु विविच्य ज्ञापयितुं शक्याविति भावः । वैवक्षिकनिष्कर्षका इति । विवक्षि#ायां सत्यां निष्कर्षका इत्यर्थः । विवक्षायां भव इति अध्यात्मादि- त्वात् ठञ् । जातिवाचिशब्दवदपृथक्सिद्धविशेषणवाचित्वाविशेषादिति । ननु-नीलादिशब्दानां गवादिशब्दसाम्ये गवादि-शब्दानां जातिमात्रे प्रयोगाभाववत् नीलादिशब्दानां गुणमात्रे प्रयोगो न स्यात् । प्रयुज्यते च "पटस्य शुक्लः' इतीति चेत्, मैवम्-गोशब्दप्रवृत्तिनिमित्तस्य गोत्वानाश्रयत्वेन गोत्वस्य गोपदप्रयोगाविषयत्वेऽपि नीलपदप्रवृत्तिनिमित्तनीलत्वाश्रयत्वेन नीलरूपस्य तच्छब्दवाच्यत्वोपपत्तेः । त्रिलिङ्गतया शब्दसाधुत्वायेति । प्रत्ययान्तत्वे तु "दण्डवान्, दण्डवती, दण्डवत्' इतिवत् शुक्लादि- शब्दानां त्रिलिङ्गत्वं सिध्यति । उक्तं च भगवता कात्यायनेन-"गुणवाचनेभ्यो मतुपो लुग् वक्तव्यः, तथा च लिङ्गवचनसिद्धिः । स्वरविशेषाय च भवति' इति । नीलादिशब्देषु अशर्आद्यजन्तत्वाश्रयणे स्वरभेदोऽपि सिद्धो भवतीत्यर्थः । लिङ्गस्वरार्थं मुतब्ला-#ेपस्मरणमिति । मतुब्लोपादिस्मरणमित्यर्थः । अतो मतुब्लोपस्य स्मरणा(स्वरा)र्थत्वोक्तिरयुक्तेति चोद्यं निरस्तम् । अत एव हि रागशाब्दस्येति । "गुणवचनेभ्यो मतुपो लुक्' इत्यत्र गुणद्वारा गुणिवचनेभ्य एव मतुब्लोपस्मरणात् रागशब्दस्य अतथात्वान्न मतुब्लोप इत्यर्थः । वस्तुतस्तु मतुब्लोपस्य वा अर्शआद्यजन्तत्वस्य वा अभेदोपचारस्य वा लक्षणाया वा आश्रयणे नीलादिशब्दानां गुणिवाचित्वभङ्गप्रसङ्गात् मतुब्लोपादिकं सिद्धान्तेऽनभिमतमेव । "लिङ्गमशिष्यं लोकाश्रयत्वात्' इति त्रिलिङ्गता चोपपद्यत इति द्रष्टव्यम् । पृथिव्याद्यपेक्षयैव गन्धादिशब्दानां नियतनिष्कर्षकत्वमिति । यद्यपि "गन्धः पृथिवी', "जलं रसः' इत्यादिप्रयोगेषु गन्थरसादिशब्दानां पृथिवीजलादिपर्यन्तत्वं दृष्टम्, तत्र च तेषामौपचारिकत्वाश्रयणे "रसोऽहमप्सु' इत्यादीनां परमात्मन्यौपचा-रिकत्वं सुवचम्, रसाभेदोपचारस्यैव युक्तत्वात् । "रसोहमप्सु इत्यादौ रसशब्दस्य रसवत्परत्वे "अप्सु रसवान् इत्यस्यायुक्तत्वाच्च-तथापि बहूनां रसगन्धादिशब्दानां परमात्मनि प्रयुक्तानां मुख्यत्वे संभवति औपचारिकत्वाश्रयणमयुक्तमिति भावः ।

"व्यक्तीनामानन्त्येनानन्तासुव्यक्तिषुशक्तिग्रहासंभवात् व्यभिचाराच्चव्यक्तीनामशब्दार्थत्वम्, नियमलक्षणत्वात् संब- न्धस्य; अनियमे सति तदयोगात् । व्यक्तौ शक्तयभ्युप मे शक्तीनामप्यानन्त्यप्रसङ्गाच्च जातिरेव शब्दार्थः । व्यक्तिलाभस्तु लक्ष- णया आक्षेपाद्वा भविष्यती'ति भाट्टोक्तरीत्या वा, "जातेः परतन्त्रत्वलक्षणस्वभावविशिष्टतयैव भाने तद्रूपस्य व्यक्तिघणितमूर्ति- त्वेन व्यक्तिमनादाय स्वभावविशिष्टजातिबोधनासंभवात् जातिभानसामग्रयेव व्यक्तिमादाय जातिं बोधयति । यद्धि येन विना न भासते, तद्व्रोधकस्य तद्व्रोधकत्वनियमात् । न च जातिव्यक्तयोद्र्वयोरपि प्रत्याय्यत्वे व्यक्तावपि शक्तिः किं न स्यादिति वाच्यम्,

जातिव्यक्तिविषयक्ज्ञानस्य शब्दजन्यत्वेऽविशिष्टेऽपि जात्यंश एव शक्तिः कल्प्यते, अनन्यलभ्यस्यैव शक्यत्वात् । व्यक्तयंशस्य नान्तरीयकतयापि लाभसंभवत् । अतो नाक्षेपाल्लक्षणया वा व्यक्तिप्रतीतिरभ्युपेये'ति प्राभाकरोक्तरीत्या वा व्यकत्युपस्थितिसं- भवेन न व्यक्तौ शक्तिः कल्पनीयेत्येतदाशङ्कय परिहरति-यद्यपि शरीरवाचिशब्दा इत्यादिना प्रघट्टकेन । अयुतसिद्धविशेषण-वाचिशब्दत्वस्य विशेष्यलक्षणाप्रतिबन्धकत्वादिति । नीलत्वादिप्रवृत्तिनिमित्ताश्रयस्य तच्छब्दलक्ष्यत्वासंभवादित्यर्थः । ननु-जातिवाचित्वमते गवादिशब्दानां गोत्वं न प्रवृत्तिनिमित्तम् । अपितु तदेव शब्दार्थः । तथा चाधेयवाचिना शब्देनाधारलक्षणायां काऽनुपपत्तिरिति चेत्-न । स्वार्थादन्येन रूपेण तीरत्वादिनोपस्थित एव तीरादौ गङ्गादिपदस्य लक्षणा दृष्टा । न चात्र व्यक्तिः स्वार्थभूतजातिं विना रूपान्तरेणोपस्थिता । किंच "गां पश्य, गौरितष्ठति' इत्यादौ सत्यपि जातेरन्वययोग्यत्वे तदनुपपत्त्यनुस- न्धानं विनैव जातिविशिष्टव्यक्तिप्रतीतेर्न तत्र लक्षणा । प्रत्युत "गौर्नित्या, गौर्जातिः' इत्यादावन्वयानुपपत्त्यैव जातिधीरिति जा- तावेव लक्षणा युक्ता । किं च शक्तिग्राहकानयनादिव्यवहारयोग्यव्यक्तिपरित्यागेन तदयोग्यजातिशब्दार्थस्वीकारोऽसंगतः । तथा "गौरनित्या, गौः शुक्ला, गौः सास्त्रादिमती, मां बधान, ;गौगच्र्छति, गामानय' इत्यादिप्रयोगप्रतीतिप्राचुर्यविषयव्यक्तिशक्ति-परित्यागश्चासंगतः । गवादिशब्दानां जातिमात्रविषयप्रयोगे त्वतलादिवैयथ्र्यं च स्यादित्यादिवक्ष्यमाणदूषणे तात्पर्यात् । जात्या-दिशब्दानामपि संबन्धातुपपत्त्यविशेषेणेति । न च जातिरित्यादिशब्दानामपि संबन्धानुपपत्तिप्रतिसंधानदशायां लक्षणैवेष्टेति वाच्यम्, जात्यादि#ाब्देषु लक्षणायाः क्वाष्यदृष्टचरत्वादिति भावः । नन्विदं सिद्धान्तेऽपि समानम् । जात्यादिशब्दानामप्यपृथ-क्सिद्धविशेषणवाचिशब्दत्वात् व्यक्तिवाचित्वं किं न स्यात्? निष्कर्षकशब्दत्वादिना वैलक्षण्यं तु तस्यापि सुवचम्, तथापि पूर्वोक्तदूषणे तात्पर्यात् ।

प्राभाकरमतं दूषयति-आकृतिरेव शब्दशक्तिविषय इति । पारतन्त्र्#ाबोधनं विवक्षितमिति । ननु जातिशब्देन जाते-द्र्रव्यप्रकारतैकत्वभावत्वलक्षणपारतन्त्र्यबोधनस्य विवक्षितत्वे व्यकयभिधानस्य सिद्धत्वात् विशेषणान्तरान्वयानर्हत्वलक्षणस्य वा कारकभावानर्हत्वलक्षणस्य वा पारतन्त्र्यस्याभिधानं व्यर्थम्, व्यक्तिप्रतीत्यप्रतीत्योद्र्रव्यप्रकारतैकस्वभावत्वलक्षणपारतन्त्र्#ा-भिधानानभिधानयोरेव प्रयोजकत्वादिति चेत्, सत्यम्-कस्यचिन्मन्दस्येदृशशङ्कासंभवादिति द्रष्टव्यम् । किंतु विशेषणान्तरान्व- येति । ननु "जातिं पश्य व्यापिकाम्' इत्यत्र जातिशब्दोपात्ताया जातेव्र्यापकत्वरूपविशेषणान्तरान्वयवत्, दृशिक्रियायां कमर्का-रकत्वेन चान्वयवत् "गौः शुक्लातिष्ठति' इत्यादौ गोशब्दप्रतिपन्नाया जातेर्विशेषणान्तरान्वयो वा क्रियायां कारकत्वेनान्वयो वा यद्यपि न दृष्टचरः, तथापि तादृशपारतन्त्र्यं न शब्देनाभिधीयते । विशेषणान्तरान्वयानर्हत्वस्य वा कारकभावानर्हत्वस्य वा गर्वा-दिशब्देनाप्रतीतेः । न हि गौरित्युक्ते गोत्वं कारकभावानर्हमित्यपि शब्देन प्रतीयत इति चेत्, सत्यम्-कारकभावाद्यनर्हत्वप्रयोजकः पारतन्त्र्यविशेषो गवादिशब्दात् प्रतीयत इत्यत्र तात्पर्यात् । मुख्यार्थगुणसंबन्धीति । मुख्यार्थतद्गुतगुणेति द्वन्द्वः । मुख्यार्थसंबन्धी लक्ष्यः तद्गतगुणसंबन्धी गौणः । प्रचुरप्रयोगाभावात् प्रचुरप्रयोगाभाव इति परिहारो न घटत इति । न च-"गवादिशब्दानां व्यक्तौ निरूढलक्षणायोगात् जातौ प्रचुरप्रयोगाभाव' इत्यस्य व्यक्तौ प्रचुरप्रयोगात् जातौ प्रचुरप्रयोगाभाव इति ह्रर्थः, न तु प्रचुरप्रयोगाभावा इति । ततश्चायमनुक्तोपालम्भ इति वाच्यम्-व्यक्तौ प्रचुरप्रयोगादित्यस्य जातौ प्रचुरप्रयोगाभादित्यर्थपर्यव-सितत्वेनानुक्तोपालम्भाभावात् । भावप्रत्ययानपेक्षत्वदर्शनादिति । क्वचित् भावप्रत्ययानपेक्षत्वस्यापि दर्शनादित्यर्थः । ततश्च "पटस्य शौक्लयम्' इत्यादौ क्वचित् भावप्रत्ययसापेक्षत्वदर्शनं न दोषायेति ज्ञेयम् । जातिस्थले तु न क्वचित् भावप्रत्ययानपेक्षत्वं दृश्यते; "खण्डस्य गौः, मुण्डस्य गौः' इत्यादिप्रयोगस्यजातिविषयस्य क्वाष्यदर्शनादिति भावः । निरूढलक्षणाभ्युपगममुपपा- दयति-शुक्लादिशब्दानां हीत्यादिना । निरूढिर्नाम सर्वप्रयोगानुगतिरिति चेदिति । सर्वप्रयोगानुगता लक्षणा निरूढलक्षणेत्यु- च्यते, न तु प्रचुरप्रयोगानुगतिरिति चेदित्यर्थः । अनुवृत्तो गोव्यवहार इति । इदं त्वापाततः, भावप्रत्ययानपेक्षप्रयोगस्यात्रैव दृष्टत्वं, "भावप्रत्ययानपेक्षत्वं च दुष्परिहर'मिति पूर्वग्रन्थविरोधापत्तेरिति द्रष्टव्यम् । भवतां गौरवं स्यादिति । जातिव्यकत्योः शब्दार्थत्ववादिनामित्यर्थः । प्रतिसंबन्धिभूतं द्रव्यमुपसर्जनतया प्रतीयेतीति । जातिः व्यकत्याश्रया भवितुमर्हति जातित्वादिति आक्षिप्ता व्यक्तिरुप सजर्नतया भायात्, पर्वतो वह्निमानित्यत्र वह्निवत् । पुत्रः पितेतिवदिति । पुत्रशब्दाक्षिप्तपितृवाचिना पितृ- शब्देन पुत्रशब्दस्य सामानाधिकरण्याभाववत् जातिव्यक्तिवाचिनोः "गौः खण्डः' इत्याक्षेपकाक्षेष्यवाचिशब्दयोः सामानाधि- करण्यं न संभवतीत्यर्थः । विवक्षितेति । तात्पर्यविषयेत्यर्थः । विशेष्यत्वेनेत्येतद्वयाचष्टे-प्रधानतयेति । तदवच्छेदार्थत्वात्तस्येति । पुत्रव्यावृत्त्यर्थत्वात् पितुरित्यर्थः । यद्वा प्रधानतया तदवच्छेदार्थत्वादित्यन्वयः । प्रधानत्वेन तस्यावच्छेदः संबन्धः, तदर्थत्वात् ।

प्रधानीकरणाथत्र्वादिति यावत् । विवक्षितार्थप्रतिसंबन्धितयेत्यत्र विवक्षितपदव्यावृत्त्यर्थ(व्यावत्र्य)माह-गङ्गायां घोष इत्यत्रेति । वस्तुतो गङ्गा संबन्ध्येव तीरं तीरत्वेनैव भासते; न तु गङ्गासंबन्धित्वेन; तथाप्वे शकत्या प्रवाहस्य लक्षणया तीरस्य च प्रतीतौ वृत्तिद्वयविरोधप्रसङ्गात् । अतः प्रवाहस्याविवक्षितत्वम् । जातेस्तु शब्दप्रतीतौ विषयत्वमस्तीति भावः । इदमुपलक्षणम्-कूलस्य लक्षणया वृत्त्योपस्थापितत्वात् प्राधान्येन भानं भवति; अक्षिप्ताया व्यक्तेः शब्दवृत्त्याऽनुपस्थितायाः प्राधान्येन भानं न संभवती- त्यत्र तात्पर्यात् । अयमिह प्रयोगक्रमोऽभिप्रेतः- यदि गोव्यक्तिः पदतात्पर्यविषयसंबन्धितया भासमानत्वे सति गोपदवाच्या न भवेत्, तर्हि गोपदजन्यप्रतीतिविशेष्या न भवेदिति । शब्दविशेषणोपश्लिष्टेति; शब्दादुपस्थितस्य शब्दादुपस्थितं प्रत्येव विशेष- णत्वं, नाक्षिप्तं प्रतीत्यर्थः ।

प्रकार्यैक्यं कार्यकारणैक्यं चेति । उभयोरपि तत्त्वंपदाथर्योश्चिदचित्प्रकारणत्वं तयो रैक्यं चेत्यर्थः । वाक्यभेदः शङ्कनीय इति । यद्यपि तत्त्वमसीत्यस्यानुवादरूपत्वसमर्थनान्न वाक्यभेदप्रसङ्गः, तथाप्यभ्युपेत्योक्तमिति द्रष्टव्यम् ।

(परमते सामानाधिकरण्यानुपपत्तिसंकलनम्)

विशेषणत्वाभ्युपगमे मुख्य इति । पदान्तरवैयथ्र्यपरिहाराय सत्यादिपदलक्षितानां व्यावृत्तीनां विशेषणत्वाभ्युपगमे मुख्-यानां सत्यत्वादीनामेव विशेषणत्वमस्तु, अविशेषादित्यर्थः । यथाहमिच्छामीति । यद्यप्यहंशब्दस्यान्तःकरणोपहितेच्छादिवाचि-त्वाभावे "अहमिच्छामि' इत्यादिप्रत्ययानुपपत्तिर्न परैः प्रमाणत्वेनोपन्यस्ता, अहंशब्दस्यान्तःकरणोपहितघटादिपरत्वाभाववत् तदुपहितेच्छावाचित्वाभावस्यापि प्रमाणाभावेनैव सिद्धेः -अथापि "अहमिच्छामि' इतीच्छाया विशेषणतानुपपत्तिरपि प्रमाणी- कर्तुं शक्येत्यभिप्रेत्यैवं व्यवह्मतमिति द्रष्टव्यम् । न हि ज्ञप्तिरेव ज्ञस्या विशेष्यत इति । अहमर्थस्यैव ज्ञप्ति वे "अहं जानामि' इति प्रतिपन्नं ज्ञप्त्याश्रयत्वमहमर्थस्य न स्यादिति भावः । यदर्थविवणक्षयेति । भ्रान्तिदशायामधिष्ठानत्बुद्धेरेवाभावात् तदर्थविवक्षया न प्रयोगः; प्रबोधदशायामधिषांनत्वधीसंभवेऽपि तद्विवक्षया न प्रयोग इति भावः । यज्ञदत्तवाचित्वे मूलं भवतीति । न चैवं वद-तस्तदपीष्टमेवेति वाच्यम्, तथा सति वाच्यावाच्यव्यवस्थाभङ्गप्रसङ्गादिति भावः । सर्पशब्दस्य प्रामनारेपिनेति । प्रबोधदशाभा- विनो "रज्जुः सर्पः' इति प्रयोगस्यायमर्थः-एतावन्तं कालं सर्पपारमाथ्र्यबुद्धया रज्जुः सर्पपदप्रयोगविषयोऽभूदिति । आरोपितविष- येति । अरोपितविषयोऽधिष्ठानमित्यर्थः । द्वितीये जीवब्राहृणोरैक्यमिति । त्वंशब्देन जीवभावाधिष्ठानस्वरूपमात्रस्य विवक्षित- त्वेन जीवब्राहृणोरविवक्षितत्वादिति भावः । तदविवक्षितविशेषणेति । अविवक्षितविशेषणं जीवभावः । त्वंशब्दमुख्यार्थीभूतजीव-संबन्धिचिन्मात्रैक्यबोधनमात्रेण मुख्यार्थीभूतजीवब्राहृैक्यं मुख्यार्थीभूतजीवसंबन्धिकर्तृत्वादिबन्धमिथ्यात्वं च तद्धर्मधिष्ठानमात्र-पारमाथ्र्यं च सिध्यति चेत्, जनपदलक्ष्यार्थीभूतजनप्रह्मष्टैक्यबोधेऽपि जनपदशब्दमुख्यार्थैक्यं मुख्यार्थीभूतजनपदत्वादिधर्ममिथ्या- त्वं तद्धर्माधिषांनमात्रपारमाथ्र्यं च सिध्येदित्याह-न हि प्रह्मष्टो जनपद इति । तस्य तत्ताविधान इति । तच्छब्दार्थत्वविधान इत्यर्थः । ज्ञप्तिवैयधिकरण्वेनेति, "त्वं जानासि' इति त्वंशब्दज्ञाधात्वोर्वैयाधिकरण्येनेत्यर्थः । वाच्यैक्देशलक्षणासत्त्वेऽपि मुख्यार्तयोरभेदासिद्धौ तन्मूलतया मुख्यार्थधर्माणां मिथ्यात्वासिद्धौ च दृष्टान्तमाह-न हि दूरस्थस्येति । "पर्वतो ज्वलितः' इत्यत्र पवेतशब्दो वाच्यान्तर्गतपर्वताप्रदेशलक्षकः, ज्वलितशब्दस्तदाधारलक्षकः । ततश्च लक्षितयोरेवैक्यं स्यात् । न तु मुख्या- र्थयोः पर्वताग्न्योः, न वा पर्वतधर्माणां सानुवृक्षादीनां ज्वलितशब्दमुख्यार्थवह्निवर्माणां वह्नित्वदग्धृत्वादीनामपारमाथ्र्यं सिद्धयति । एवमिह तत्त्वंपदमुख्यार्थयोरैक्यं न सिध्येत्, न वा तद्धर्माणां किंचिज्ज्ञत्वसर्वज्ञत्वादीनांमिथ्यात्वं सिद्धयेदितित भावः । यद्यपि मुख्यार्तयोरैक्यं बोध्यत इति न परमतम्, तथापि जीवब्राहृैक्यं बोध्यत इति तन्मतप्रसिद्धिमवलम्व्योक्तमिति द्रष्टव्यम् । ईश्वर एव हि ब्राहृेति । यादवमते चिदचिदीश्वरातिरिक्तमंशि ब्राहृास्तीति । भास्करमते तु चिदचिदीश्वरातिरिक्तमंशिभूतं ब्राहृद्रव्यं नास्तीति विवेको द्रष्टव्यः । केनाष्याकारेणैक्य इति । घटपटयोद्र्रव्यत्वादनैक्येऽपि घटपटपदप्रवृत्तिनिमित्तसद्भावासद्भावलक्षणभेदे प्रतीय- माने ऐक्यस्य विभक्तिबोध्यत्वादर्शनादित्यर्थः । कार्यकारणरूपेणेति । घटशरावादिकार्यात्मना भेदः, कारणमृदात्मनात्वभेद इत्यर्थः । भिन्नत्ववदभिन्नत्व इति । भेदाभेदाभ्युपगमेऽपीत्यर्थः । पटस्यांशभेद इति । प्रयुक्तानामिति शेषः । पटाब्दाभिहित-विशेष्यस्यां-शतोऽप्यनतिरेपादिति । ननु "व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च' इति व्यक्ताव्यक्तपुरुषकालादिशब्दै-र्भोक्तृभोग्यनियन्त्रंशेषूपस्थितेषुपस्थितेषु ब्राहृशब्दस्य तदनतिरिक्तार्थवृत्तित्वसंभवात् सामानाधिकरण्यमुपपद्यत इति नानुपपत्ति- रिति चेत्-न; ब्राहृत्वस्य साधारण्यसंभवेऽपि "व्यक्तं विष्णुः' इत्यादौ विष्णुशब्दनिर्दिष्यस्येश्वरत्वस्य चिदचिदंशयोरभावेन "व्यक्तं विष्णुस्तथाव्यक्तम्' इति विष्णुसामामानाधिकरण्यासंभवात् । "घटो मृत्, शरावो भृत्' इति निर्दशसंभवेऽपि "घटः शरावः' इति निर्देशासंभवादिति दूषणे तात्पर्यात् । किं हस्तादीतिशब्देन हस्तापादादीन्द्रियं विवक्ष्यते, उत तदधिष्ठानगोलकमिति विकल्प्य, आद्यं दूषयति-छेदनादावपीति । इदमुपलक्षणम्-शरीरनाशेऽप्याकल्पस्थायिनामिन्द्रियाणामविनाशान्नापृथक्सिद्धविशेषणत्व- मिति द्रष्टव्यम् । द्वितीयं दूषयति-तत्तद्गोलकस्येति । स्वाभाविकभेदाभेदपक्षेऽपीत्यादेः सामानाधिकरण्यं हीत्यन्तस्य सामा-नाधिकरण्यस्यैक्यावगमकत्वेन तद्विशेषणान्वितवस्त्वैक्यावगमकत्वेऽपि वस्त्वन्तरैक्यावगमकत्वाभावात्; तथात्वे बाधितार्थत्व-

प्रसङ्गाच्चेति भावः । विवक्षितैकत्वासिद्धेरिति । सदन्तरैक्यस्य विवक्षितत्वे तस्यासिद्धेः; सद्द्रव्यमात्राभेदस्य च प्रत्यक्षसिद्धत्वे-नोपदेशवैयथ्र्यमित्यर्थः । यद्यंशविशेषासाधारणाकार इति । ईश्वरत्वमित्यर्थः । तदितरांशवाचिपदसामानाधिकरण्य इति । "घटः शरावः' इतिवदिति भावः । असाधारणाकारान्तरस्येति । ब्राहृणत्वादेरित्यर्थः ।

(सिद्धान्त संग्रहोपन्यासः)

पा रक्षण इति धातोरिति । "पातेर्डतिः' इति डतिप्रत्ययान्तत्वेनेत्यर्थः । पतिशब्दप्रयोगाच्चेति । "गृहपतिः' इति प्रयो-गादित्यर्थः । शेषिणि पतिशब्दो रूढ इति । अत एव "अन्तर्वत्पतिवतोर्नुक्' इत्यत्र भत्र्रर्थ एव नुगित्युकत्वास्वाम्यर्थत्वे "त्वया पतिमती पृथीवी' इति शेष्यर्थत्वं सिद्धवत्कृत्यैव प्रत्युदाह्मतं महाभाष्ये । "पत्पुर्नो यज्ञसंयोगे' इत्यत्रापि भगवता पतञ्जलिना "पतिशब्दोऽयमैश्वर्यवाची' इत्युक्तम् । पाणिनिनापि-"पत्यावैश्वर्ये' इत्यत्र ऐश्वर्यार्थत्वमाविष्कृतम् । जैमिनिनापि, "मेघपतित्वं स्वामिदेवतस्य समवायात्' (9-3-32) इति स्वामिवचनत्वं सिद्धवत्कृत्यैव ऊहानूहचिन्ता नवमे कृता । अतो न स्वामिवच- नत्वे विप्रतिपतिः । अत एव "विश्वस्य पतिम' इति विश्वेरत्वे कथिते स्वस्यापीश्वरान्तराङ्काव्यावृत्त्यर्थम् "आत्मेश्वरम्' इति शष्यन्तरनिषेध उपपद्यते । "धवः प्रियः पतिर्भर्ता' इति भर्तृवाच्यपि पतिशब्दोऽन्यः । "मेघपतिभ्यां मेघम्' इत्यत्र देवतायामपि प्रयोगात्, "मेघपतित्वं स्वामिदेवतस्य समवायात्' इति जैमिनिना स्वामिवाचित्वदेवतावाचित्वयोः प्रदशिर्तत्वाच्च तत्रापि कामं शक्तिरस्तु वा मा वा; स्वामीश्वरापरपर्यायशेष्यर्थत्वे न विमतिः शक्या कर्तुमिति द्रष्टव्यम् । "इभ्य आढ¬ो धनी स्वामी नायकः पतिरीशिता' इति च निघण्डुः । द्वितीयाश्रुत्या प्रोक्षणादेरिति । द्वितीयाश्रुतिप्रतिपादितसाध्यभावानां व्रीहिणां श्रुतिबलात् समीहितसाध्यापेक्षिण्या भावनयाऽन्वयबलात् समीहितसाध्यत्वलक्षणशेषित्वस्य सिद्धिवत् श्रुतिप्रतिपन्नशरीरभावस्य जगतः शरीरत्वाक्षिप्तः शेषशेषिभावः, पत्यादि#ाब्दाभावेऽपि सिध्यतीत्यर्थः । संघातपरार्थत्वादिति ।

"संघातपरार्थत्वात् त्रिगुणादिविषर्ययादधिष्ठानात् ।

पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थप्रवृत्तेश्च ।।'

इति सांख्यश्लोकः । संघातस्य सर्वस्यापि शयनासनादिवत् पाराथ्र्यावश्यंभावात् देहस्यापि संघातरूपतया पाराथ्र्यं सिद्धमित्यर्थः । "अजोऽन्यः' इति श्रुत्यंशेन प्रकृतिं जहति मुक्तेऽन्यत्वप्रतितपादनमभिप्रयन्नाह-मुक्तौ भेदमाह अजामितीति । प्रधानप्रसङ्गोपेत-त्पसंम्यादिति । यद्यपि "पृथगात्मानम्' इति पूर्ववाक्ये प्रधानप्रसङ्गोपेतत्वं नास्ति, तथाप्युपरितनवाक्यस्य प्रधानप्रसङ्गोपेतत्वात् तेन संगतिरस्तीति भावः । ममेत्यनेनेति । षष्ठया व्यतिरेकनिर्देशेनेति भावः । स्वभावासंकर इति । अध्यक्षत्वादिस्वभावासंकर इत्यर्थः ।

लयप्रकरणात् तमसोऽपि लय एवोच्यते; ततश्च ब्राहृपरिणामवाद एवाभ्युपगतः स्यादिति शङ्कां वारयति-तमस एकी-भावमात्रमिति । कार्यानुपयुक्ततमः शरीरक इति । अक्षरव्यक्तमहदादिरूपेण परिणतस्तर्मोशोऽपरिणततमोंशश्चैक्यं प्राप्तावि- त्यर्थः । इदमपि शरीरलक्षणमिति । "यस्य चेतनस्य यत् द्रव्यम्' इत्याद्युक्तलक्षणत्रयवत् अन्तःप्रविश्य नियाम्यत्वमपि भाष्यका-राभिमतं शरीरलक्षणमित्यर्थः ।

अनुप्रवेशश्रवणाभावेऽपीति । "तन्नामरूपाभ्यां व्याक्रियत' इत्यत्रेति शेषः । सामान्यशब्दस्य विशेषपदोपस्थापिते पर्य-वसानं हि सामान्यविशेषन्यायः । अनुप्रवेशपूर्वकत्वस्य तु नामरूपव्याकरणस्वरूपानन्तर्गतत्वेन विशेषपदप्रतिपाद्यत्वाभावात् नायं सामान्यविशेषन्यायविषयो भवितुमर्हतीत्यपरितोषादाह-यद्वा सर्वशाखेति ।

यद्वा ग्राहकग्रहणेनेति । ग्राहकं साधिकारापूर्वम्; फलवत् परमापूर्वमित्यर्थः । "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति वाक्यप्रतिपन्नमपूर्वं परमापूर्वम् । तत्संनिधिसमाग्नातानां "समिधो यजति', "व्रीहिनवहन्ति' इत्यादि वाक्यानां कार्यान्विताभि-धायित्वस्वभावानां परमापूर्वलक्षणकार्यान्वितप्रयाजावधातादिलक्षणस्वार्थाभिधानमेव ग्राहकग्रहणम् । एवंरूपेण ग्राहकग्रहणेन सर्वेष्वपि द्रव्यगुणक्रियारूपेषु शेषशेषिभूतपदार्थेषु खलेकपोतवदवगतग्राहकैदमथ्र्येषु यागस्य करणतया अद्वारकशेषत्वमवसीत- यते, व्रीहिणां यागद्वारा शेषत्वं प्रोक्षणादीनां च व्रीहिद्वारा शेषत्वं करणैदमथ्र्यद्वारैदमथ्र्यग्राहक्श्रुत्यादिप्रमाणैरवसीयत इत्यर्थः । बहु स्यामिति ग्राहकग्रहणेनेति । ग्राहकस्थानीयः परमात्मा, तस्य ग्रहणं संकल्पः । अत्र किंचिद्विवृतमिति । पूर्वं विस्तरेण विवतमित्यर्थः ।

उभयथापि ज्ञानव्यपदेशयोग्यतामिति । यद्यपि "सत्यं ज्ञानम्' इत्यत्र ज्ञानमित्यस्य नैतावानर्थ, तथापि फलितार्थ-कथनमिति द्रष्टव्यम् । उभयमप्युपपन्नमित्यर्थ इति । अत्र "ज्ञानम्' इत्यस्य "तद्गुणासारत्वात्' इति न्यायेन ज्ञानगुणकत्वाथर्- त्वात् प्रत्युतानुगुणत्वमेवेति द्रष्टव्यम् । ब्राहृैव स्वसंकल्पादित्यादिभाष्ये "ब्राहृैव' इति ब्राहृशब्दस्य निष्कृष्टपरमात्मपरत्वस्वार-स्यानुरोधेन स्थिरत्रसरूपतयेतत् व्याचष्टे-स्थिरत्रसशरीरतयेति । अब्राहृात्मकेत्यत्रापि ब्राहृशब्दं केवलपरमात्मपरतया व्याचष्टे-ब्राहृान्तर्यामिकत्वरहितत्वमुक्तमिति । स्थिरत्रसरूपतयेत्येतत्स्वारस्यानुरोधेन ब्राहृपदं चिदचिद्विशिष्टवस्तुपरमित्यभिप्रयन् व्या- चष्टे-यद्वा स्थिरत्रसरूपतयेति । ऐक्यश्रुतीनां प्रकारैक्यपरत्वादिति । इदं तु सिंहावलोकितकेन प्रथमपक्षशेषभूतमिति द्रष्टव्यम् । भाष्ये-सर्वं तं परादादिति । सर्वं कर्तृं तं परादात्-पराकुर्यात् । निःश्वासितम्; अनायासेनोत्पन्नम्, संकल्पमात्रविजृम्भितमिति यावत् ।

ऐन्द्राग्नश्चेति षड¬ागा इति । ऐन्द्रौ द्वौ आग्नेयश्चेति षड¬ागा इति पाठः समीचीनः । ऐन्द्राग्नश्चेति पाठे एवमभिप्रायं केचिदूषुः-आग्नेयः पौर्णमास्याममावास्यायां च कर्तव्यः सायंप्रातःकालकत्रव्याग्निहोत्रहोमवदेक एव, कर्मभेदापादाकशब्दा-न्तरादेरनुपलम्भात् । अत एवाष्टमे, "एककर्मणि विकल्पोऽविभागो हि चोदनै कत्वात्' (8-1-26) इत्यत्र एकस्यैवाग्नेयस्य पौर्णमासीसंज्ञकत्वादमावास्यासंज्ञकत्वाच्च पौणर्मासीकाले क्रियमाणोऽमावास्यासंज्ञको भवतीति तस्मिन्नेवाग्नेये "पञ्चहोत्रामा-वास्यामभिमृशेत्' इति शास्त्रवशात् पञ्चहोतृमन्त्रप्रयोगोऽपि पौर्णमास्यां किं न स्यात्; अवैगुण्यात् इति चेत्-सत्यमाग्नेयस्यावैगु-ण्यम्; तस्योभयसंज्ञकत्वात्; तेन सह तत्कालकर्तव्यानामग्नीषोमीयादीनां हविषाममावास्यासंज्ञाभावेन वैगुण्यं पञ्चहोत्राऽभिमर्शे स्यात् । अतस्तेषामप्यनुग्रहाय क्रियमाणमभिमर्शनं चतुर्होतृकरणकमेव कर्तव्यमिति निर्णीतम् । न च पञ्चहोत्रा आग्नेयभिमृश्य चतुर्होत्रा अग्नीषोपीयादीनामभिमर्शः किं न स्यादिति शक्यशङ्कम्, "आसन्नानि हर्वीष्यभिमृशति' इत्येकस्यैव विहितत्वात् । अत्र "हविरन्तरानुग्रहवशेन परं व्यवस्था' इति दुष्टीका (आपदेवीया) दिग्रन्थपर्यालोचनया एकमेवाग्नेयाख्यं कर्म पौर्णमासी- त्रिके अमावास्यात्रिके चान्तःपतितम्; नाग्नेयकर्मभेदः । यदि भेदः स्यात्, प्रकृतौ पौर्णमासीकालकत्रव्यग्नेयाभिमर्शने पञ्चहोतृ-मन्त्रप्रसक्तरेवाभावादव्यवस्थाशङ्कातत्परिहारावसंगतौ स्याताम् । ततश्च एकमेव कर्म कालद्वययोगि, यथाग्निहोत्राख्यं कर्म सायं-प्रातःकालद्वययोगीत्येव युक्तम् । अतोऽसोमयाजिविहितैन्द्राग्नेनैव षट्त्वसंख्यापूरणं कर्तव्यमिति । अत्र "उत्पत्तिवाक्यैःउ"यदा-ग्नेयोऽष्टाकपालोऽमावास्यायां च पोर्णमास्यां चाच्युतो भवति' इत्येवमादिभिः । उत्पत्तिवाक्यमिति प्रथमप्रतिपविजनकं वाक्यम् । पृथगुत्पन्नान्उपृथक्प्रतिपादितान्' इति पाठक्रमस्तु मसीचीनः । स्वर्गसाधनत्वाकारेणैकीकृत्य तत्कर्तव्यतया विदधातीत्यर्थ इति । तत्समुदायद्वयमेकीकृत्य समुच्चित्य स्वर्गसाधनत्वाकारेण कामिकर्तव्यतया विदधाति । यथा-व्यापृते षडपि यागाः स्वर्गसा- धनं भवन्ति, तथा व्यापरितव्यमिति साधनत्वेन विदधातीत्यर्थ इत्यर्थः । यद्वा, एकीकृत्य स्थितं तदिति योजना । समुदायीभूतं तत् कर्मेत्यर्थः ।

कारणावस्थः कार्यायस्थश्च परमात्मैक एवेति । अयमत्रान्वयक्रमः-"सदेव सोम्येदमग्र आसीत्', "ऐतदात्म्यमिदं सर्वम्', "सर्वं खल्विदं ब्राहृ' इत्यादि वाक्यं कर्तृ पृथक् प्रतिपन्नं वस्तुत्रितयं सद्ब्राहृादिशब्दयुक्तवचनभङ्गया कारणवस्थः कार्या-वस्थश्चैक एवेति प्रतिपादयतीति । परमात्ममात्रवाचिभिः शब्दैरिति; अक्षरसर्वज्ञादिशब्दैरित्यर्थः । अर्थसामाथ्र्यं दर्शयति-चिद-चिता-#ेरिति । शब्दसामथ्र्यं दर्शयति-सद्वहृशब्दावित्यादिना । दृष्टान्तदाष्र्टान्तिकवैषम्यहेतुप्रतिपादनं मन्दफलम्; आत्मशब्दस्य व्यापकवाचिनः शब्दसामथ्र्यात् व्याप्योपस्थापकत्वं च नास्तीत्यपरितोषात् स्वरूपपरिणामशङ्कानिवृत्त्यर्थतया "चिदचिद्वस्तुशरी-रिणः' इति भाष्यमवतारयति-यद्वा अक्षरात् संभवतीह विश्वमिति । पृषादज्यनयादिति । यथा पृषदाज्यसंस्काराय अचोदित- मपि पात्रान्तरमुपादीयते, तद्वदित्यर्थः । दर्शपूर्णमासयोः "अष्टावुपभृति गृह्णाति' इति प्रयाजानूयाजार्थं चतुर्गृहींतद्वयमेकस्यामुप- भृति युगपद्गृहीतम्; तथैव पशौ प्राप्तम् । तत्रानूयाजानां द्रव्यविकारः श्रूयते, "पृषदाज्येनानूयाजान् यजति' इति । पृषदाज्यं दधिमि-श्रितमाज्यमेव । तत्र द्वयोरसंकरेऽवश्यंभाविनि चिन्ता-किं कालभेदेन तस्यामेवोपभति द्वयं ग्रहीतव्यम्? उत एकस्मिन्नेव काले पात्रभेदेनेति । तत्र तु "अष्टावुपभृति गृह्णति' इति पात्रैकत्वं श्रुतम् । पदार्थक्रमस्तु पदार्थानां गुणः; पाठकल्प्यश्च । अत एकस्मि- न्नेव पात्र पृषदाज्यं गृहीत्वा प्रयाजेषु हुतेषु पश्चात् पृषादाज्यं ग्रहीतव्यमिति प्राप्ते उच्यते-

"उभयोग्र्रहणाङ्गत्वात् पात्रैक्यस्य क्रमस्य च ।

विकृतौ चानुमानेन प्राप्तौ तुल्यं बलाबलम् ।।'

इति । एवं चाविशेष सति प्रयाजाज्यग्रहणेनोपस्थितस्यानूयाजाज्यग्रहणस्याकरणे न किंचित् कारणमस्तीति तदैव पात्रान्तरमुपा- दाय ग्राह्रमिति "विकारे त्वनूयाजानां पात्रभेदोऽथर्भेदात् स्यात् (4-2-16) चिन्तितम् । केचित्तु-पृषाराज्यशब्दार्थस्य दधिमि-श्राज्यस्याज्यशब्देनैवभिधानसंभावात् "देवानाज्यपानावह' इत्यादिनिगदेष्वाज्यपानित्येवमविकृत एव प्रयोगः, न तु पृषदाज्यपानि-त्यूहेन प्रयोग इति दशमे (10-4-26) निर्णीतम् । तद्वदिहापि विशेष्यमात्रवाचिनोऽपि शब्दस्य चिदचिद्वशिष्टे प्रयोग उपपद्यत इति वदन्ति ।

(निवृत्त्यनुपपत्तिः)

अर्थक्रियाकारित्वात् इत्यनेन हेतुभावानुपपत्तिरुक्ता । उत्पत्तिमत्त्वात् इत्यनेन हेतुमद्भावानुपपत्तिरुक्तेति द्रष्टव्यम् । हेतु-सापेक्षत्वं च न दृष्टमिति । प्रपञ्चस्य तु तत्सापेक्षत्वात् न मिथ्यात्वं युक्तमिति भावः । न चाङ्कुरादिसामग्य्रेव भ्रमसामग्रीति । तदभ्रमसामग्रीत्यर्थः । भिन्नविषयस्याभेदज्ञानस्येति । वस्तुतो भिन्ने विषये उत्पन्नस्याभेदज्ञानस्येत्यर्थः । "उत्तमः पुरुषस्त्वन्यः' इति स्मृत्युपबृंहणीयायाः "पृथगात्मानम्' इति श्रुतेः उपबृंहणात् पश्चादुपादानं कथमित्यत्राह-स्मृतीवचसोरिति । स्मृत्योरव्य-वसायार्थमित्यर्थः ।

दावानलेति । यथा दावानलः इन्धानानि विनाश्य इन्धननाशे स्वयमेव नश्यति, तथेत्यर्थः । निवर्तकज्ञानं तद्विनाशश्च किमिति । ननु विनाशस्यैव दूष्यत्वप्रतीतेज्र्ञाने ब्राहृव्यतिरिक्तत्वादिविकल्पोऽभिप्रेत इति कथमुच्यत इति चेत्-न । विनाशस्य न केवलं ब्राहृव्यतिरिक्ततया मिथ्यात्वम; अपि तु निवर्तकज्ञानस्य मिथ्यात्वेन तत्प्रतियोगिकस्य विनाशस्यापि मिथ्यात्वमिति दूषणस्फोरणाय निर्वकज्ञानस्यापि ब्राहृस्वरूपव्यतिरिक्तत्वादिविकल्पोऽभिप्रेतइत्युक्तम् । अत एव भाष्ये-तत्स्वरूपतदुत्पत्ति-निनाशानां काल्पनिकत्वेनेति ज्ञानस्वरूपस्य काल्पनिकत्वमुक्तम् । नन्वेवं ज्ञानस्वरूपविनाशयोरेव काल्पनिकत्वस्य वक्तव्य- तया ज्ञानोत्पत्तिकाल्पनिकत्वोक्तिः किमर्थेति चेत्-न । दृष्टान्ततया तदुपन्यासोपपत्तेः । केचित्तु-"तत्स्वरूपतदुत्पत्तिविनाशानां काल्पनिकत्वेने'त्यस्य विनाशकल्पनोपपादकत्वात्, "तद्विनाशो ब्राहृस्वरूपमेवेति चे'दिति भाष्येऽपि विनाशस्यैव प्रतीतेश्च विना-शपरिग्रह एव युक्तः; अतो निवर्तकज्ञाने ब्राहृव्यतिरिक्तवादिविकल्पो न ह्मदयङ्गम इति वदन्ति । एवंरूपाविद्याया इत्यर्थ इति । उपादानोपादेययोरभेदोपचारादेवमुक्तमिति द्रष्टव्यम् । कालभेदव्यतिकरितगृहप्राङ्गणादिप्रदेश इति । कालविशेषविशिष्टदेशवि- शेष इत्यर्थः । तवापि चोद्यं तुल्यमिति चेदिति । निःशेषकर्मस्वरूपानाशो न स्यादिति भावः ।

विकल्पाभिप्रायेणेति । चिन्मात्रेत्यनुकत्वा ब्राहृव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्येत्युक्तौ ब्राहृशब्दार्थे चिन्मात्रव्यतिरि-क्तानामपि केषांचिदनुप्रवेशसंभवेन ब्राहृशब्दार्थव्यतिरिक्तकृत्स्नपारमाथ्र्यनिषेधे चिन्मात्रव्यतिरिक्तकृत्स्नपारमाथ्र्यनिषेधाभावेन तस्यनिषेध्यतया, निवर्तक्ज्ञानकर्मत्वादिति दूषणस्यालग्नकापत्तेश्चिन्मात्रेति पदमावश्यकमिति भावः । प्रथमं धर्मिप्रश्न इति । उत्त- रत्र ज्ञातृत्वधर्मविकल्पस्य करिष्यमाणत्वादेवमुक्तमिति द्रष्टव्यम् । स्वरूपमित्यस्य यथाश्रुतार्थत्वे ब्राहृस्वरूपस्यैव ज्ञातृत्वे इति दूषणभाष्यासामञ्जस्यं मन्वान आह-स्वरूपं स्वाभाविकमित्यर्थ इति । भाष्ये-अध्यस्तं चेदयं अध्यासस्तन्मूलाविद्यान्तरं चेत्यादि । अध्यस्तस्य ज्ञातुनिर्वर्तकज्ञानाश्रयत्वलक्षणज्ञातृत्वस्य तत्कल्पकाविद्यायाश्च निवर्तकज्ञानानुगुणतया निवर्तकज्ञानोपजीव्यस्य तद्व्रा-ध्यत्वाभावादित्यर्थः । अत्र तस्मादित्युपसंहारभाष्यावतारिकाग्रन्थपर्यनाते ग्रन्थो लेखकदोषात् पतित इति वदन्ति । भाष्ये तस्यापि त्रिरूपत्वादिति । निवर्तकज्ञानान्तरस्य कल्पकाविद्यामातृसापेक्षत्वेन त्रिरूपत्वादित्यर्थः । प्रथमं कल्पं दूषयति भाष्ये-ब्राहृस्वरूप-स्यैव ज्ञातृत्व इति । ज्ञातृत्वस्य ब्राहृस्वाभाविकत्व इत्यर्थः । तन्नाशस्य ब्राहृस्वरूपत्वाभ्युपगमात् ;परमापुरुषार्थत्वमस्त्वित्याह भाष्ये-तन्नाशस्य ब्राहृस्वरूपत्वाभ्युपगम इति ।

तस्मात् साधनचतुष्टस्यस्येति । तस्मादिति व्याख्येयं पदम् । आत्मयाथात्म्यबुद्धिसंस्कारशून्याकार इति । भगव-च्छेषत्वज्ञानपूर्वकत्वराहित्यं केवलाकारः । हानमुपादनं च न संभवतीत्यर्थ इति । नित्यनैमित्तिकाद्यङ्गकं ब्राहृोपासनमनन्त-स्थिरब्राहृप्राप्तिसाधनमित्यापातप्रतीतिरनवगतकर्मविचारस्य न संभवतीत्यर्थः । न तु हानोपादानशब्दाभ्यामननुष्ठानानुष्ठाने विव- क्षिते, तादृशकर्माननुष्ठानानुष्ठानयोब्र्राहृोपासनोपयुक्तत्वेऽपि ब्राहृविचारानुपयुक्ततया ब्राहृविचारपूर्ववृत्तत्वकथनावसरेऽनुपयुक्त-त्वादिति द्रष्टव्यम् ।

( जिज्ञासाधिकरणशरीरम् )

ननु "वचनं व्याहतम्' इति वदतः कोऽभिकप्रायः? विचारः कर्तव्य इति सूत्राक्षरयोजनानन्तरम्, न कर्तव्यमिति पूवर्पक्ष-

प्रदर्शनमयुक्तमितति वा, उत सिद्धव्युत्पत्तेः सूत्रकारेणासूचनान्नैवं पूर्वोत्तरपक्षौ युक्ताविति वेति विकल्पमभिप्रेत्य प्रथमं दूषयति-अथातो धर्मजिज्ञासेत्यत्रेति । प्राभाकरैरध्ययनस्याचार्यकाधिकारकत्वादिति । अयं भावः-मतद्वयेऽप्यध्ययनस्यार्थज्ञानार्थत्वा-भावाद्विचारो नारम्भणीय इति पूर्वपक्षः, अर्थज्ञानार्थत्वादारम्भणीय इति सिद्धान्तश्च समान एव । भाट्टमते विश्वचिन्न्यायेनाध्य- यनस्य स्वर्गार्थत्वेनार्थज्ञानार्थत्वाभावात् धर्मविचारो नारम्भणीय इति पूवर्पक्षं कृत्वा-दृष्टे संभवत्यदृष्टकल्पानाया अन्याय्यत्वादर्थ-ज्ञानमेव फलम् । न चाध्ययनस्यार्थज्ञानसाधनत्वस्य प्राप्तत्वात् विधिवैयथ्र्यं शङ्कनीयम्, नियमार्थतयाप्युपपत्तेरिति सिद्धान्तितम् । गुरुमते तु-

"आचार्यकनियोगार्थः स्वाध्यायस्तत्प्रयुक्तितः ।

प्रथमावगतत्वेन तद्धि युक्तं प्रयोजनम् ।।

न तु वाक्यार्थविज्ञानं तद्धि पश्चात् प्रतीयते ।

तेनाविवक्षितार्थत्वाद् वेदस्यार्थविचारणम् ।।

न कर्तव्यमतः शास्त्रं मीमांसाख्यमनर्थकम् ।।'

"स्वाध्यायोऽध्येतव्यः' इति स्वाध्यायाध्ययनस्य प्रयोजनापेक्षायां प्रथमावगतत्वेनाचार्यकनियोग एवास्य प्रयोजनम् । न त्वतज्र्ञा- नम्, पश्चाद्भावित्वात् । यद्यपि पुरुषान्तरगामित्वेन बहिरङ्गमाचार्यकम्, तथापि प्रथमावगतत्वेन तत्सिद्धरेवास्य प्रयोजनं युक्तम् । न त्वर्थज्ञानम्, पश्चाद्भावित्वात् । तेनान्यार्थत्वाद्वेदाध्ययनस्याविवक्षितोऽर्थः । अविवक्षितश्च न निर्णेतव्यः । निर्णिनीषितार्थ-प्रयोजनाभावात् । अनिर्णेतव्यश्चार्थो न विचारमर्हतीति तदात्मकं मीमांसाशास्त्रमनर्थकत्वादनारम्भणीयमिति पूर्वपक्षः । कथ-माचायर्करणविधिप्रयुक्तमध्ययनम्, न स्वविधिप्रयुक्तम्? उच्यते-न स्वाध्याय । विधावस्ति नियोज्यः । तत्र चासति न प्रयोजकता युक्ता, प्रयाजादिनियोगवत् । न ह्रनधिकारस्य स्वविषयानुष्ठापकत्वं संभवति, प्रयाजादिविधिवत् । न चाध्ययनविधेरधिकारी श्रूयते । तस्मान्नास्य प्रयोजकत्वं संभवति ।

"न च कल्पयितुं शक्यो नियोज्यः पितृयज्ञवत् ।

अकल्पितेऽपि तस्मिन् यदनुष्ठानं प्रसिद्धयति ।।'

स्यादेतत्-अश्रूयमाणोऽपि नियोज्यः पितृयज्ञवत् कल्प्यत इति । तन्न, अकल्पितेऽपि तस्मिन् यतोऽनुष्ठानं प्रसिध्यति । सिद्धे तस्मिन्नासौ कल्पयितुं शक्यः, अनुपपत्त्यभावात् । अनुष्ठानाधीनसिद्धिर्हि नियोगस्तत्सिद्धयर्थमनुष्ठातारमाक्षिपन् अनधिकारिणो-ऽनुषांतृत्वायोगात् अनियोज्यस्याधिकारासंभवात् नियोज्यं कल्पयति, प्रयाजादिनियोगवत् । संभवति चेहाचार्यकरणविध्यनुष्ठा-पितेनैव विषयेणाध्ययननियोगसिद्धिरिति न नियोज्यकल्पनासंभवः । कथं पुनराचार्यकरणविधिरध्ययनं प्रयुङ्क्त;? उच्यते-उप-नीयाध्यापनादाचार्यकं भवति । न चाध्ययनमन्तरेणाध्यापनं संभवतीति तदाक्षिपति । उपनयमध्यापनसमानकर्तृकमेवावगम्यमानं तदङ्गमेव । तस्य च द्वारापेक्षायामुपनेयासतिरेव लिङ्गात् द्वारमवगम्यते । उपनेयो हि नाकिंचित्करोऽङ्गमिति तद्वयापरापेक्षाया-मुपनयनप्रकरणाधीतमध्ययनमध्यापनोपकारित्वात् तद्वयापारत्वेनाध्यवसीयते । एवं च वैधमेवाध्ययनं कुर्वन् माणवकोऽध्यापन-स्योपकारीत्यवगमात् तद्विषयमेवाध्यापनमाचार्यकसाधनमिति तद्द्वारेण सर्वस्याध्ययनाङ्गस्य तदुपकारित्वादध्ययनार्थस्य व्रतादे- स्तत एवानुष्ठानसिद्धिः । तस्मादाचार्यकरणविधिप्रयोजनकत्वादध्ययनस्याविवक्षितार्थत्वात् वेदस्य, तदर्थनिर्णयार्थं नारब्धव्यमिति ।

सिद्धान्तस्तु-सत्यमाचार्यकरणविधिप्रयुक्तमध्ययनम् । न तु तत्सिद्धिरेवास्य प्रयोजनम्; बहिरङ्गत्वात् । अन्तरङ्गत्वाद-ध्येतृगतमेवार्थज्ञानं प्रयोजनत्वेनाध्यवसीयते । ननु प्रथमावगतत्वेन प्रयोजनापेक्षमध्ययनमध्यापनविध्यवगतमाचार्यकमेव तावत् स्वीकरोति । स्वीकृते च तस्मिन्नपेक्षाभावात् पश्चादवगतत्वेनान्तरङ्गमप्यर्थज्ञानं न प्रयोजनीकरोति-मैवम्. प्रथमामाचार्यकस्य प्रयोजनत्वानवकल्पनात् । यद्यकल्पिते तस्मिन्ननुष्ठानमध्ययनस्य न सिध्येत्, ततः कल्पयेत । न त्वेतदस्ति, अकल्पितेऽपि तस्मि-न्ननुष्ठानलाभात् । अनुष्ठिते त्वस्मिन्नव्ययने प्रयोजनापेक्षायामन्तरङ्गत्वार्थज्ञानमेव फलमङ्गीक्रियते । ननु नियोग एव शब्दादवगतः प्रयोजनं स्यात्, नार्थज्ञानम् । न, अर्थज्ञानस्यापि प्रतीयमानस्य त्यागायोगात् । तेनोभयोरपि प्रयोजनत्वं युक्तम्, अवगतत्वादर्थ-ज्ञानस्य नियोगस्य च । तत्रार्थज्ञानरूपं प्रयोजनं न विचारमन्तरेणाध्ययनेन संपादयितुं शक्यत इत्यध्ययनविधिरेव तत्सिद्धयर्थं विचारमाक्षिपतीति तदात्मकं शास्त्रमारब्धव्यमिति व्याख्यातम् ।

द्वितीयं दूषयति-अक्षरयोजनायां ब्राहृविचाररम्भ इति । प्रामाण्यसंभावनानुपपन्नेति । उत्पन्नापीयमवगतिर्मूलाभावान्न समीचीना भवितुमर्हतीति प्रामाण्यसंभावना न भवतीति भावः । चोदनालक्षणोऽर्थ एव वेदप्रतिपाद्य इतीति । "अथाऽतो धर्म-जिज्ञासा' इति सूत्रे अथशब्दस्य वेदाध्ययनानन्तरमित्यर्थः । ततश्च वेदाध्ययनानन्तरं तदर्थजिज्ञासा इति सूत्रे कर्तव्ये, "धर्मजिज्ञा- सा' इति सूत्रयतो जैमिनेर्धर्म एव कृत्स्नवेदार्थ इति भावोऽवसीयते । ततश्च कृत्स्नवेदार्थस्य धर्मस्य चोदनैव प्रमाणमिति चोदनासूत्रे कथनात् कार्यप्रतिपादकमेव वाक्यं वेदार्थे धर्मे प्रमाणमित्युक्तं भवति । ततश्च कार्यमेव वेदार्थ इति फलति । ततश्चैवं वदतो जैमिनेः सिद्धार्थे व्युत्पतिरेव नास्ति । तत्प्रतिपादने प्रयोजनं च नास्तीत्याशयोऽवसीयते । तत्र निष्प्रयोजनत्वं समन्वयाधिकरणे निराकरि- ष्यते । अधुना सिद्धार्थे व्युत्पत्तिः समथ्र्यत इति भावः । इदं चोपलक्षणम्, "अम्नायस्य क्रियार्थत्वात्' इति कण्ठत एव सूत्रतत्वादि-त्यपि द्रष्टव्यम् । न च जैमिनेरेव पूर्वपक्षित्वे परस्परविरुद्धयोरैकशख्यं कथं निर्वहेदिति वाच्यम्, अन्वारुह्रोक्तिप्रतिक्षेपमात्रेण शाख्यैक्यसंभवात् ।

(अधिकरणपूर्वपक्षः)

"ननु विषयो विशयश्चैव' इति न्यायेन "अयं विषयः । इत्थं संशयः' इति प्रदर्शनीये कथं तदप्रदर्शनं भाष्ये युक्तमित्या-शङ्कयाह-अक्षरयोजनायामित्यादिना । तत्र प्रपञ्चसत्यत्वे स्थिते सतीत्यर्थ इति । अत्र केचित् प्रपञ्चसत्यत्वस्थापनस्यच कार्ये व्युत्पत्तिसमर्थनस्य च हेतुहेतुमद्भावासंभवं मन्यमानाः तत्रेति भाष्यस्थपदस्य ब्राहृविचारारम्भकर्तव्यत्वाकतव्र्यत्वसंशये सतीत्यर्थ इति मन्यन्ते । संबन्धं गृहीत्वेति । संबन्धो युज्यत इत्यभिप्रेत्येत्यर्थः । ततश्च गामानय, गां पश्य, गां बधान इति बहुप्रयोगानु-स्यूतगोशब्दस्य सर्वक्रियानुस्यूतगोपिण्डोर्थः । व्यावर्तमानानामानय(न)#ादिशब्दानां व्यावर्तमानाः क्रिया अर्था इति संबन्धग्रह-स्यैवावापोद्धाराधीनशक्तिग्रहरूपतया कत्वाप्रत्ययार्थपौर्वापर्यानुपपत्तिरिति शङ्काया नावकाशः । ननु हर्षहेतूनामानन्त्यादित्यनेनैव विवक्षितार्थसिद्धेः कालत्रयवर्तिनामित्यनर्थकम् । प्रत्युतायुक्तं च, इदानींतनहर्षेऽतीतानागतयोर्हेतुत्वासंभवात्, हर्षहेतुज्ञानपर-त्वाश्रयणस्य क्लिष्टत्वाच्चेत्याशङ्कय पञ्चिकोक्तानुवादरूपत्वाददोष इत्यभिप्रयन्नाह-कालत्रयवर्तिनामिति पञ्चिकायामिति ।

ननु हर्षहेतुविशेषपरत्वानिश्चयेऽपि हर्षहेतुमात्रपरत्वं निश्चितमिति कथं व्युत्पत्त्यभाव इत्याशङ्कयाह-व्युत्पत्तिर्नामेति । व्युत्पन्नेतरपदभ्य पदान्तरार्थनिश्चयोदाहरणमिति । यद्यपि भाष्ये व्युत्पन्नेतरपदविभक्तयर्थस्येति इतरपदविभकत्यथव्र्युत्पवि-मानेवोदाह्मतः । न प्रत्येकम् । प्रत्येकं व्युत्पव्यभिप्रायत्वे केवलविभक्तिमात्रव्युत्पत्तेरप्युदाहरणं प्रदशर्नीयं स्यात्-तथापि भाष्ये पदा-न्तरस्य विभक्तेश्च व्युत्पत्तिद्वयमपि प्रयोजकतयोपात्तमिति केवलं पदान्तरव्युत्पत्तेरप्यर्थनिश्चायकत्वमभिप्रेत्य ग्रन्थकृता भाष्याभि-प्रेतत्वेनोदाह्मतमिति द्रष्टव्यम् । व्युत्पन्नकः-कूजतिशब्देनेति क्वचित्पाठः । यद्यपि समभिव्याह्मतपदान्तरस्यैव व्युत्पन्नत्वं वक्तव्यम् । "सांनिध्यतः सिद्धपदस्य वृद्धाः' इत्युक्तरीत्या प्रसिद्धपदसमभिव्याहारलक्षणसांनिध्यस्यैव शक्तिग्राहकत्वकथनात् । अत एव "इह सहकारतरौ मधुरं पिको रौति' इत्यादौ प्रसिद्धपदसामानाधिकरण्यादिभिव्र्युत्पत्तिग्रह इति तार्किकैरप्युदाह्मतम्-तथापि "कः' इत्य- स्य "पिकः' इत्युत्तरं जानता तु निर्विचिकित्सं शब्दार्थाध्यवसानं संभवतीत्यभिप्रेत्यैवमुक्तमिति द्रष्टव्यम् । व्युत्पन्नकूजतिशब्देनेति पाठस्तु सुगम एव । व्युत्पन्नेतरपदविभकत्यर्थस्य प्रकअत्यर्थनिश्चयोदाहरणमिदमिति । यद्यपि भाष्ये व्युत्पन्नेतरपदस्य पदान्तरा-र्थनिश्चयः, व्युत्पन्नविभक्तकस्य प्रकृत्यर्थनिश्चय इति यथासंख्यान्वयः स्वरसतः प्रतीयते । न च विभक्तिमात्रव्युत्पन्नस्य प्रकृत्यर्थनि-श्चयोदाहरणं नास्तीति शङ्कयम्, यज्ञदत्तं ध्नन्तं देवदत्तं पश्यति व्युत्पित्सौ, "देवदत्तो यज्ञदत्तं हन्त' इति केनचिद्वाक्ये प्रयुक्ते, सुप्ति-ङ्विभकत्यर्थज्ञानवतस्तस्य कर्तृकर्मक्रियावाचिपदत्वनिश्चयद्वारा प्रकृत्यर्थनिश्चयसंभवात्-तथाप्ययमर्थः संभवतीत्यभिप्रेत्यैवमुक्त- मिति द्रष्टव्यम् । "पिकः कूजति' इत्यादौ कूजतिपदार्थनिश्चयेऽपि पिकपदगतप्रथमार्थापरिज्ञाने कारकान्तरशङ्कया पिक-कूजति- पदयोः सामानाधिकरण्याप्रतीतेरर्थानिश्चयात् पदान्तरव्युत्पत्तिविभक्तिव्युत्पत्त्योर्मिलितयोरेव पिकपदार्थन्#िचयकत्वात् । न च "कः कूजति' इति प्रष्टुर्वाक्ये व्युत्पन्नस्य विभकत्यर्तापरिज्ञानेऽपि कूजतिपदव्युत्पत्तिमतः पिकपदार्थनिश्चयः संभवतीति वाच्यम्, "कः' इत्यत्रैव प्रथमाविभकत्यर्थनिश्चयस्यावश्यकतया विभकत्यैक्येन पिकपदविभक्तेरपि निश्चितत्वात् मिलितयोर्हेतुत्वमिति भाष्याभिप्रायः । न चैवं सति "पदान्तरार्थनिश्चयेन प्रकृत्यर्थनिश्चयेन वा' इति भाष्ये पदान्तरार्थनिश्चयोक्तिरयुक्ता स्यादिति वा- च्यम्, लोकप्रसिद्धयनुसारेण पदान्तरार्थनिश्चयेनेत्युकत्वा इत्थमेवानुशयानेन प्रकृत्यर्थनिश्चयेन वेति द्वितीयकल्पोक्तिरिति वद- न्ति । भाष्ये-पदान्तरार्थनिश्चयेन प्रकृत्यर्थनिश्चयेन वेति । पदान्तरार्थनिश्चयदर्शनेन प्रकृत्यर्थनिश्चयदशर्नेन वेत्यर्थः । ततश्च तस्यैवाभिधाक्तिनिश्चयरूपतया हेतुहेतुमद्भावासंगतिरिति न चोदनीयम् । व्युत्पन्नवाक्यस्थकतिपयपददर्शनादिति । ननु कार्य-

वाचिपदसमभिव्याहारदर्शनेन तत्समुदायान्तर्गतपदान्तरस्यापि तदभिधायित्वनिश्चये घयवाचिपदान्तरसमभिव्याहारादितरपद- स्यापि तथात्वप्रसङ्गात् प्रत्युत तस्य पर्यायपदत्वशङ्कावहत्वेन तदर्थकत्वाभावनिश्चय एवहेतुत्वादिति चेत्-न । उपक्रम एव पदजा- तस्य कार्यसामान्यवाचित्वं निश्चितवतः पुंसः प्रसिद्धपदसामानाधिकरण्येनोपपाद्यमानाया वाच्यवाचकभावप्रतीतेः तद्विशेषरूप- त्वेन प्रथमावगतकार्यसामान्यवाचित्वपरित्यागासंभवात् । "तदंशविशेषनिश्चयरूपत्वात्' इति भाष्ये तच्छब्दं कार्यपरतया व्या- ख्याय संनिहितपदसमुदायपरतया व्याचष्टे-यद्वा तदंशविशेष इति । तृतीये च कारकपदेषु व्यभिचार इति । न च कारकान्वित-स्वार्थाभिधायित्वसत्त्वेऽपि कार्यार्थत्वासिद्धेरेतत्पक्षनिरासोव्यर्थ इति वाच्यम्, क्रियाया एव कारकान्वितत्वेन सर्वपदानां कारका-न्वितस्वार्थाभिधायित्वे कार्यवाचित्वस्यावर्जनीयतया तस्यापि प्रतिक्षेष्यत्वात् । ननु कारकान्वितस्वार्थाभिधायित्वे कारकाणां क्रियाविनाभूततया क्रियामात्रवाचित्वसिद्धावपि कार्याभिधायित्वास्य नावश्यंभावः, इतिहासपुराणादौ तथैवोपलब्धेरिति चेत्-

सत्यम् । सिद्धान्तिना सर्वपदानां क्रियावाचित्वस्यापि प्रतिक्षेप्यतया अस्यापि पक्षस्योद्धाट¬ निरसनोपपत्तेः ।

अत्र केचित्-वाचस्पतिना अनेन प्रकारेण सिद्धवस्तुप्रामाण्योपपादनप्रकारः कृतो न दृ#ायते? तत्र हीत्थं वाचस्पतिवा- क्यम्-"अपि च "आम्नायस्य क्रियार्थत्वात्-'इति शास्त्रकृद्वचनम् । तत्रार्थग्रहणं यद्यभिधेयवाचि ततो भूतार्थानां द्रव्यगुणशब्दाना-मानर्थक्यमनभिधेयत्वं प्रसज्येत । न हि ते क्रियार्थाः । यद्युच्येत न क्रियार्थत्वं क्रियाभिधेयत्वम् । अपितु क्रियाप्रयोजनत्वम् । द्रव्य-गुणशब्दानां च क्रियार्थत्वेनैव भूतद्रव्यगुणाभिधानम्; न स्वनिष्ठतया । यथाहुः शास्त्रविदः-"चोदना हि भूतं भवन्तम्' इत्यादि । एतदुक्तं भवति-कार्यमर्थमवगमयन्ती चोदना (तदर्थं) भूतादिकमण्यर्थमवगमयतीति । न तावत् कार्यशेषभूत एवार्थे पदानां संग- तिग्रह इत्येतदुपपादितं भूतेऽप्यर्थे व्युत्पतिं्त दर्शयद्भिः । नापि स्वार्थमात्रपरतैव पदानाम् । तथा सति न वाक्यार्थप्रत्ययः स्यात् । न हि प्रत्येकं स्वप्रधानतया गुणप्रधानभावरहितानामेकवाक्यता दृष्टा । तस्मात् पदानां स्वार्थमभिदधतामेकप्रयोजनवत्पदार्थ-परतयैकवाक्यता । तथा च तत्तदर्थान्तरविशिष्टैकवाक्यार्थप्रत्यय उपपन्नो भवति । तथा च अर्थान्तिरसंसर्गपरतामात्रेण वाक्यार्थ-प्रत्ययोपपत्तौ न कार्यसंसर्गपरत्वनियमः पदानाम्' इति । नास्मिन् वाचस्पतिवचनसंदर्भे एते विकल्पा दृश्यन्ते । नाप्यनेन प्रका- रेण दूषणम् । अस्य हि संदर्भस्यायमर्थः-"आम्नायस्य क्रियार्थत्वात्' इत्यत्र किमभिप्रेतम्? सर्वपदानां कार्यवाचित्वम्? उत कार्या-न्विततच्छेषवाचित्वम्? नाद्यः, "द्रव्यगुणवाचिशब्देषु तदाभावात् । न द्वितीयः, सिद्धार्थेऽपि व्युत्पत्तेरुपपादनात् । नन्वेवमितरा-न्वितार्थकत्वमपि न स्यादिति चेत्-न; स्वार्थाभिधायिशब्दैर्लक्षरयेतरान्वयविशिष्टप्रतीतेरिति । अत्र च श्रुतप्रकाशिकाग्रन्थोक्त-विकल्पत्रयं न दृश्यते । दूषणप्रकारोपि नेदृशो लक्ष्यते । भूतार्थे व्युत्पविदर्शनस्थलेऽपि नायं विकलपः प्रदशिर्तः । एवं हि तत्र वा- क्यम्-।"इदमात्रकूतम्-

कार्यबोधे यथा चेष्टा लिङ्गं हर्षादयस्तथा ।

सिद्धबोधेर्थवत्तै (भवत्वे) वं शास्त्रत्वं हितशासनात् ।।

यदि हि पदानां कार्याभिधाने तदर्थस्वार्थाभिधाने वा नियमेन वृद्धव्यवहारे सामथ्र्यमवधृतं भवेत्, न भवेदहेयानुपादेयभूतब्राहमात्म-तापरत्वमुपनिषदाम्, तत्राविदितसामथ्र्यत्वात् पदानाम् । लोके तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेः । अथ तु भूतेऽप्यर्थे पदानां लोके शक्यः संगतिग्रहः, तत उपनिषदां तत्परत्वं पौर्वापर्यपर्यालोचनया अवगम्यमानमपह्नुत्य न कार्यपरत्वं शक्यं कल्पयितुम्, श्रुतकल्प-नाप्रसङ्गात् । तत्र तावदेवमकार्यार्थे न संगतिग्रहः, यदि तत्परः प्रयोगो लोके न दृश्यते, तत्प्रत्ययो वा व्युत्पन्नस्योन्नेतुं न शक्यते । न तावत् तत्परः प्रयोगो न दृश्यते लोके, कुतूहलभयादिनिवृत्त्यर्थानामकार्यपराणां पदसंदर्भाणां प्रयोगस्य लोके बहुलमुपलब्धेः । तद्यथा-"आखण्डलादिलोकपालचक्रवालाधिवसतिः सिद्धविद्याधरगन्धर्वाष्सरःपरिवारो ब्राहृलोपावतीर्णमन्दाकिनीपयःप्रवाह-पातधौतकलधौतमयशिलातलो नन्दादिप्रमदवनविहारिमणिमयशकुन्तकमनीयनिनदमनोहरः पर्वतराजः सुमेरुः' इति, "नैष भुज- ङ्गो रज्जुः' इत्यादि । नापि भूतार्थबुद्धिव्र्युत्पन्नपुरुषवर्तिनी न शक्या सुमुन्नेतुम्, हर्षादेरुन्नयनहेतोः संभवात् , तथाहि-अविदितार्य-जनभाषार्थो द्रमिडो नगरगमनोद्यतो राजमार्गाभ्यर्णं देवदत्तमन्दिरमध्यासीनः प्रतिपन्नजनकानन्दनिबन्धनपुत्रजन्मावार्ताहारेण सह नगरस्थदेवदत्ताभ्याशमागतः, पटवासोपायनापर्णपुराःसरं "दिष्टया वर्धसे । देवदत्त पुत्रस्ते जातः' इति वार्ताहारव्यवहारश्रव-णसमनन्तरमुपजातरोमाञ्चकञ्चुकं विकासिनयनोत्पलमतिस्मेरमुखमहोत्पलं विलोक्य देवदत्तमुत्पन्नप्रमोदमनुमिमेते; प्रमोदस्य च प्रागभूतस्य तद्वयाहारश्रवणसमनन्तरं भवतस्तद्धेतुकताम् । न चायमप्रतिपादयन् हषर्हेतुमर्थं हर्षाय कल्पत इति अनेन हर्षहेतुरर्थ उक्त इति प्रतिपद्यते । हर्षहेत्वन्तरस्याप्रतीतेः पुत्रजन्मनश्च तद्धेतोरवगमात् तदेव वार्ताहारेणाभ्यधायीति निश्चिनोति । एवं भय-

शोकादयोप्यदुहार्याः । तथा च प्रयोजनवत्तया भूतार्थाभिधानस्य प्रेक्षावत्प्रयोगोऽप्युपपन्नः । एवं च ब्राहृज्ञानस्य परमपुरुषार्थहेतुभा- वात् अनुपदिशतामपि पुरुषप्रवृत्तिनिवृत्ति वेदान्तानां पुरुषहितशासनात् शास्त्रत्वं सिद्धं भवति' इति । अतः कथमिदमुक्तमिति न जानीम इति चोदयन्ति । तत्रेदमुत्तरम्-सत्यं युष्माभिर्न ज्ञायते । नैतावता विषयस्यासत्त्वम्, "न ह्रयं स्थाणोरपराधः, यदेनमन्धो न पश्यति' इति न्यायात्, स्थलान्तरे ग्रन्थान्तरे च प्रतिपादनसंभवात्, एषामपि वाक्यानां तात्पर्यतस्तदर्थप्रतिपादनसंभवाच्चेत्यल-मतिक्षोदेन ।

शब्दस्य प्रवृत्त्यन्वयव्यतिरेकानुविधायित्वज्ञानोत्पाद्यस्य शब्दे प्रवर्तकार्थावबोधित्वावगमस्य कार्यबुद्धिप्रवृत्तिव्याप्तिबल-निष्पाद्यत्वाभावात् कार्यत्वबुद्धिप्रवृत्त्योः कार्यकरणभावाग्रहेऽपि शब्दस्य प्रवृत्त्यन्वयव्यतिरेकग्रहणमात्रेण प्रवर्तकार्थाभिधायित्व- स्य ग्रहणसंभवात् इत्यभिप्रयन्नाह-उत्तरत्र सर्वपदानामिति । अन्यतरांशासिद्धयभिप्रायेणेति । केचित्तु-कृतकर्मविचारस्यावृत्ति-विधानादिना कर्मफलानित्यत्वावगमरूपविशेषणसंभवस्याप्येतदधिकरणप्रदर्शनीयतया अंशद्वयासिद्धेरपि वक्तुं शक्यत्वेन यथा- श्रुतमेव भाष्यं युक्तमिति मन्यन्ते ।

(अधिकरणसिद्धान्तः)

सूत्रकारैः परिहारोऽभिधीयत इति । इदमुपलक्षणम्-सूत्रकृदभिमतः परिहारोऽभिधीयत इत्यपि द्रष्टव्यम् ; "एवं प्राप्ते प्रचक्ष्महे' इत्यादौ तथैव वर्णनीयत्वात् । प्रमाणेनार्थं स्वीकुवन्र्त इति । "तेन दीव्यति खनति जयति जितम्' इति दीव्यत्याद्यर्थे ठक् प्रत्यय इति भावः । ननु "अम्बातातमातुलशशिपशुनरमृगपक्षि' इत्यैकपद्येनैव निर्देष्टव्ये विभज्योपादानं किमर्थमित्याशङ्क्य विभागेनोपादानस्य प्रयोजनमाह-अम्बातातप्रभृतिरिति । भाष्ये-एनमवेहीति । क्वचित् कोशे "अवैहि' इति पाठो दृश्यते । स तु लेखकस्खलनकृतः, "एत्येधत्यूठ्सु' इत्यत्र एचीत्यनुवृत्तेरिहीत्यस्यानिष्पत्तेरिति द्रष्टव्यम् । एनं बोधख शब्दमिति । नन्वादेशाभा- वात् कथमेना । (मन्वा) देशः (ननु अन्वादेशाभावात् कथमेनादेशः) इति चेत्-न । व्युत्पादनस्थले पूर्वमम्बादिशब्दान् प्रयुक्त-वतस्तद्विषयेऽन्वादेशसंभवात् । न च "एनमवेहि' इति कथं शब्दविषये अङ्गुलीनिर्देश इति वाच्यम्, तस्य "इमं चावधारय' इति निर्दिष्टार्थमात्रविषयत्वेनाप्युपपत्तेः । भाष्ये-अवधारयेत्यभिप्रायेणेति । अभिप्रायाकारकथने, बालोऽसावमुमर्थमवधारयतु, इत्य-भिप्रायेणाङ्गुल्या निर्दिश्य'इत्येवं प्रथमपुरुषस्य वक्तुमुचितत्वात् तत्रैव तात्पर्यम् । अमी शब्दाः संकेतिता इति मन्येरन्निति । संबन्धान्तरादर्शनात् सङ्केतयितृपुरुषान्तरदर्शनाच्च' इति भाष्यानुरोधात् शङ्काद्वयव्युत्क्रमो द्रष्टव्यः । ननु-बालस्य व्युत्पत्तिग्रहात् पूवर्मम्बातातमातुलादिशब्दैस्तदर्थबुद्धयुत्पत्तौ न शक्तिग्रहो मूलम्, तस्याः तदानीमनिश्चयात् । अपितु तदर्थाभिमुखाङ्गुलिनिर्देश-साहचर्यलक्षणसंबन्धवशादेव #ाब्दस्यार्थप्रत्यायकत्वमिति वक्तव्यम् । एवं च स्वस्य तदर्थबुद्धयुत्पत्तेरीदृशसंबन्धनिमित्ततां जानन् कथं वाच्यवाचकभावलक्षणसंबन्धान्तरं कल्पयेत्? किं च बालस्य धूल्यक्षराभ्यासदाशायां धूलिरेखाविशेषमङ्गुल्या "अयं ककारः, अयं खकारः' इति बहुशः शिक्षयन्ति । स च पश्चाल्लिपिविशेषदर्शने अक्षरं प्रतिपद्यते । अक्षरविशेषश्रवणे लिपिविशेषं च स्मरति । न तत्र बोध्यबोधकत्वलक्षणसंबन्धान्तरं कल्पयति । एवमिहास्त्विति चेत्, उच्यते,-अर्थविशेषमेवाङ्गुल्या निर्दिश्याम्बादिशब्दं प्रयुञ्जते; नान्यमित्यत्र किंचिन्नियामकं मृगयमाणो बालः तयोरौत्पत्तिकं संबन्धविशेषं निश्चिनोतीत्युक्तौ दोषाभावात् । लिप्यादौ तु संकेतपूर्वकत्वापरिज्ञानदशायामौत्पत्तिकं संबन्धं निश्चि#ानोतु; का नः क्षतिः? संकेतपूर्वकत्वज्ञाने तु तद्व्राध्यत इत्यदोषात् । अन्विताभिधानप्रसङ्ग इति चेदिति । द्विविधं हि वाक्यार्थप्रक्रियाभेदमाहुस्तन्त्रनिष्ठाःउअन्विताभिधानम्, अभिहितान्वय इति ।

"पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ।

न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ।।

इत्यन्विताभिधानम् । अयमत्र श्लोकार्थः-पदानि तावत् श्रूयन्ते । श्रुतानि च व्युत्पत्त्यनुसारेण पदाथस्र्वरूपाणि परस्परानन्वितानि स्मारययन्ति । स्मृतेषु पदार्थेष्वाकाङ्क्षादिपरामर्शः । ततो न्यायप्रवृत्तिः । न्यायप्रवृत्त्या वचनव्यक्तिविशेषाभिव्यक्तिः संपद्यते । ततः सम्यङ्न्यायानुगृहीतानि पदानि नानापदार्थविशिष्टैकप्रधानार्थात्मकं वाक्यार्थमभिदधतीति । अभिहितान्वयावादिनस्त्वेवमभ्यधुः- पदैः पदार्थाः पृथक् पृथगभिधीयन्ते । तच्चाभिधानं पदार्थस्मरणमात्रे पर्यवसितम्, "पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते' इति वचनात् । ते चाभिहिताः पदार्थाः योग्यत्वेन परामृश्यमानाः स्वयमेव विशेषसंसंर्गात्मकं वाक्यार्थमवबोधयन्ति । न तत्र पदाव्यापारः, अर्थैरेवार्थविशेषसिद्धेः । यथा कविभिरालोच्यमानाः पदार्था एव वाक्यार्थमर्थविशेषसंसर्गात्मकवबोधयन्ति । पश्चा- देव प्रतिपन्नार्थानुरोधेन शब्दरचना । एवमर्था एवार्थविशेषं बोधयन्तीति । ततश्च "अस्यायमर्थः' इति व्युत्पत्तावेकैकस्य पदस्य

ततदर्थमात्रपरतया व्युत्पत्तेस्तावन्मात्रस्यैवाभिधेयतया पदान्तरार्थान्वितार्थाभिधानं न सिध्येदिति भावः । प्रातिस्विकव्युत्पत्ते- रिति । प्रतिपदव्युत्पत्तेरित्यर्थः । अत्र तु पूर्वभाविनीति विशेष इति । अयमर्थः- यादृच्छिकव्युत्पत्तिस्थले गवानयने प्रवृत्त्युपल- म्भेन "अस्य वाक्यस्य गवानयनकार्यत्वमर्थः' इति प्रथमतोऽवगत्य तत आवापोद्धारक्रमेण "अस्य पदस्यायमर्थः' इति पदार्थत्वं निश्चिनोति । बुद्धिपूर्वकव्युत्पत्तिस्थले तु "अस्य पदस्यायमर्थः' इति पदार्थत्वबुद्धिपूर्विका वाक्यार्थावगतिरिति । शब्दैरपि परस्प-रान्वययोग्यत्वेन स्वार्थाभिधानमिति । पदानामेव पदार्थेषु संसर्गबोधनशत्त्याधानशक्तिरित्यर्थः । अत्र केचिदाचार्याः-शक्तित्रय- गौरवं नास्त्येव, पदानामेव पदार्थाभिधानशक्तेः स्वीकारत् । अर्थानां संसर्गबोधकत्वस्य संभवात्; इतरथा कविकाव्यमूलज्ञानानु-पपत्तिप्रसङ्गात् । शब्दान्वयव्यतिरेकानुविधानेन शाब्दत्वस्याप्युपपत्तेः । अव्यवहितत्वस्या प्रयोजकत्वात् अभिहितान्वयपक्ष एव भाष्यकृदभिमत इति वदन्ति । बुध्यस्वेति ह्रुक्तं भवतीति । अयं भावः-येन हि यत् सिषाधयिषितं तत् तस्यार्थः, दण्डेन सिषा-धयिषितस्य घटस्य दण्डार्थत्वदर्शनात् । प्रकृते चाम्बादिपदेन बालस्य सिद्धाथर्भूताम्बादिबुद्धिर्हि प्रतिपादयितुः सिषाधयिषिता । तताश्चाम्बादिपदप्रयोजनत्वेनार्थभूताया अम्बादिबुद्धेर्बालगतायाः साध्यत्वेन सिद्धत्वाभावात् कार्यार्थत्वमेव स्यादिति । इयं च शङ्का "कार्यार्थाभिधायित्वम्' इत्यत्रार्थशब्दाभिधेययोरभिधेयप्रयोजनयोर्विवेकाग्रहनिबन्धनेति द्रष्टव्यम् । गां क्रीणीहीति । "विक्रीणीहि' इति क्वचित् कोशे पाठो दृश्यते । तत्र विशब्दो लेककस्खलनकृतः, इतरथा "परिव्यवेभ्यः क्रियः' इत्यात्मनेपदप्रस- ङ्गात् । कीणातेरेव विक्रयार्थत्वमपि संभवति, तथैव "क्रथ्यस्तदर्थे' इति सूत्रे भाष्यप्रदीपे प्रतिपादनात् ।

उत्तरत्रेति । देवताधिकरण इत्यर्थः । ज्ञानेच्छाकृतीनामेव सविष्यत्वेनापूर्वस्य निर्विषयस्या कथम् "उपासनाविषयका-र्याधिकृत' इत्युक्तिरित्याशङ्क्य कअतिसाध्यरूपकार्यशरीरानुप्रविष्यकृतेः सविष्यत्वात् तद्द्वार तस्य सविषयत्वमित्यभिप्रयन्नाह-उपासनावच्छिन्नेति । विसिन्वन् हि विषय उच्यत इति पाठः स मीचीनः । विपूर्वात् निनोतेः निष्पन्नत्वात् विषयशबशब्दस्य ।

"विशब्दो हि विशेषार्थः सिनोति(ते)र्बन्ध उच्यते ।

विशेषेण सिनोतीति विषयोऽतो नियामकः ।।'

इत्यभियुक्तोक्तेः विशिंषन्निति पाठे तु वस्तुव्याख्यानमेतत्; न शब्दव्याख्यानमिति द्रष्टव्यम् । रात्रीरुपेयात् प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्तीति हि श्रुतिरिति । अत्र यद्वक्तव्यम्, तत् पूर्वमेवोक्तम् । विधेयोपकारक इति । विधेयाया अपगोरण- निवृत्तेः निवत्र्यापगोरणगतानिष्टसाधनत्वस्य उपकारकत्वात् । अपगोरणस्यानिष्टसाधनत्वाभावे निवृत्तेरेवासंभवादिति भावः । अपगोरणशतयातनेति । अपगोरणं वधोद्यमः । शतयातना नरकविशेषः । मोक्षविरोधिफलेऽपीति । "उदरमन्तरं कुरुते, अथ तस्य भयं भवति' इत्यादिवाक्येष्विति भावः । कार्योपयोगितयैव सिद्धेरित्युक्त इति । कार्योपयोगित्वमिति शेषः । कार्योपयो-गितया सिद्धेरित्यनेन अतुयायिहेतुः (कार्योपयोगित्वरूपः) कार्योपयोगित्वमित्युक्तमित्यन्वयः । अत एव "चतुमुपदधाति । बृहस्प-तेर्वा एतदन्नम्, यन्नीवाराः' इत्यत्रार्थवादसमर्पितो देवतासंबन्धः स्थण्डिलनिर्वृत्त्यौपयिकचरूपधानविध्यनाकाङ्क्षितत्वान्नादत्तव्य इत्युक्तं द्वितीये, "संयुक्तस्त्वर्थशब्देन' इत्यधिकरणे (2-3-7) ततश्च विध्यपेक्षितसमर्पकोऽर्थवाद आदर्तव्यः; नान्य इति भावः ।

(अपूर्वकार्यत्वखण्डनम्)

अत्रार्थशब्देन प्राधान्यमिति । न्वर्थशब्दस्य प्राधान्यपरत्वे किं प्रमाणम्? न च "कार्यमर्थं प्रधानतया प्रतिपादयति' इति पञ्चिकावाक्यं प्रमाणमिति वाच्यम्, अर्थशब्दस्य प्राधान्यार्थत्वस्यास्मरद्वाक्यादप्रतीतेः । तत्र "कार्यरूपोऽर्थः समभिव्याह्मत-यागाद्यपेक्षया शेषितया प्रतिपाद्यत इत्यस्यैव प्रतातेः । नापि "कृतिसाध्यं प्रधानम्' इति प्रकरणशालिकावाक्यं प्रमाणम्, तत्रापि कृतिसाध्यं प्रधानम्' इति समभिव्याहारात् कृतिप्रधानत्वलाभात्, तस्यैवार्थशब्दनिर्देशार्हत्वादिति भावः । कृतिकर्मत्वं नाम प्रवर्तकत्वमित्यत्राहेति । यत्प्रकारकं ज्ञानं प्रवर्तकम्, तत प्रवतर्कत्वमित्यर्थः । भाष्ये-कृत्युद्देश्यत्वं न किंचिदुपलभ्यते इत्यत्र कृत्युद्देश्यत्वमित्यस्य प्रवर्तकत्वमित्यर्थ इति तु ग्रन्थकृतो भावः । अयं भावः-कृतिभाव भावि कृत्युद्देश्यत्वं तन्मते कार्यत्वम् । कृतिकर्मत्वम् । तच्च प्रवर्तकज्ञानप्रकार इति स्थितम् । प्रवर्तकज्ञानप्रकारश्च कअतिसाध्यत्वे सतीष्टतमत्वमिति सिद्धम् । तत्र च कअतिभावभावीत्यनेनैव सत्यन्तस्य सिद्धत्वात् प्रवर्तकत्वमित्यनेन विवक्षणीयांशस्तु इष्टतमत्वमात्रमेव । ततश्च कृतिभावभावित्वे सति प्रवर्तकत्वं नाम कृतिसाध्यत्वे सतीष्टतमत्वमिति पर्यवसितमिति । तत्र प्रेरकत्वं कृत्युद्देश्यत्वमिति । कार्ये प्रेरकत्वज्ञानात् प्रवर्तते । ततश्च प्रवर्तकज्ञानप्रकारत्वात् कृतिकर्मत्वरूपप्रवर्तकत्वरूपत्वं प्रेरकत्वस्योपपद्यत इत्यर्थः । (इति भावः) । न हि दुःख-निवृत्तिः सुखं भवतीत्यर्थ इति । अत्र केचित्-यथाश्रुतमेव युक्तम्, सुखव्यतिरिक्ताया अपि दुःखनिवृत्तेरनुकूलत्वदर्शनादिति

शङ्काया यथाश्रुतेनैव निवत्र्यत्वादिति वदन्ति । अनिष्टनिवृत्तिरूपतया वेष्टत्वमिति । नन्वनिष्टनिवृत्तेरपि सुखवत् पुरुषार्थान्तर-साधनत्वज्ञानानधीनेच्छाविषयतया कुतो, न स्वत इष्टत्वम्? न च दुःखनिवृत्तित्वप्रकारकज्ञानाधीनत्वात् तदिच्छाया न स्वत इष्टत्वमिति वाच्यम्, तथा सति सुखेऽपीच्छायाः सुखत्वप्रकारकज्ञानाधीनत्वात् स्वत इष्टत्वं न स्यात् । न च इष्टान्तरहेतुत्वा-निष्टनिवृत्तित्वज्ञानमन्तरेणैवेष्टत्वं स्वत इष्टत्वं विवक्षितमिति वाच्यम्, तथा सति पारिभाषिकत्वापत्तेः । "साक्षादिषिविषयभूत-सुखदुःखनिवृविभ्यामन्यत्वात्' इत्युत्तरभाष्ये दुःखनिवृत्तेरपि साक्षादिषिविषयत्वकथनाच्चेति चेत्-अत्र केचित्-दुःखाभावे इच्छा दुःखद्वेषायत्ता । न तु स्वतः । अतो न स्वत इष्टत्वम् । न च, द्वेषो नाम सिद्धान्ते जिहासैव । सैव च निवृत्तीच्छा इति दुःखे द्वेषस्य स्वाभाविकत्वं वदता, द्वेषस्य हानेच्छारूपजिहासारूपत्वं च वदता हानलक्षणनिवृत्तेः स्वत एवेष्टत्वमभ्युपेयमिति वाच्यम्-लोके अभावेच्छायाः प्रतियोगिद्वेषाधीनतयैव दर्शनेन द्वेषस्य हेयत्वप्रकारकज्ञानविशेषरूपत्वस्यावश्यं वाच्यतया तदधीनेच्छाविषयस्य दुःखाभावस्य न स्वत इष्टत्वमिति वदन्ति । ननु-अनुकूलत्वज्ञानं हीच्छाहेतुः । अनुकूलत्वस्येष्टतमत्वरूपे इष्टतमत्वज्ञानमिच्छायां हेतुरिति पर्यवसन्नम् । इष्टतमत्वज्ञानं च उच्छाविषयत्वरूपेष्टतमत्वायत्तमित्यात्माश्रय इति चेत्-न; इच्छाविषयतानिबन्धनस्व-रूपविशेषस्यैवानुकूलाथत्र्वेनात्माश्रयाद्यभावात् । नन्वनुकूलप्रतिकूलान्वयविरहे स्वरूपेणावस्थितिः दुःखनिवृत्तिश्चेत्, प्रतिकूल-निवृत्तेरिवानुकूलनिवृत्तेरपि दुःखनिवृत्तित्वप्रसङ्ग इत्याशङ्कय प्रतिकूलनिवृत्त्यंशे दुःखनिवृत्तेः सामानाधिकरण्यमित्याह-स्वरूपे-णावस्थितिः सुखनिवृत्तिरूपेत्यादिना । दृष्टान्ताभिप्रायेण क्रियाद्युपादानमिति । अत्र केचित्-"गामानयेत्यादिष्वपि वाक्येषु न कार्यार्थे व्युत्पत्तिः' इत्युपक्रमभाष्यानुसारात् क्रियातदतिरिक्तापूर्वसाधारणकार्यत्वस्यैव निर्वचनीयत्वप्रतीतेस्तदनुरोधेन "क्रिया-देरनुकूलत्वं न संभवति' इति भाष्यस्यापि क्रियाऽक्रियासाधारण्येनानुकूलत्वनिषेधपरतया योजयितुं शक्यतया, दृष्टान्ताभिप्राये-णेत्युक्तौ न स्वारस्यं पश्यामः । अत एव "फलभावार्थव्यावर्तकं कृतिप्रधानत्वं वण्र्यते' इत्यत्रापि न मूलं पश्यामः । ततश्चेष्यत्वाति-रिक्तस्येष्टत्वाघटितस्य वा कृतिप्रधानत्वस्याभावात्, सुखदुःखनिवृत्तिभिन्नस्यापूर्वस्य स्वत इष्टत्वाभावात्, अनन्याथर्तया प्रतिप- न्नस्य त्वन्मते सुखदुःखनिवृत्तिसाधनतयापीष्टत्वाभावात् न त्वदभिमतापूर्वे कार्यत्वमित्येवं भाष्याभिप्रायापर्यवसानप्रतीतेः भावा-र्थस्वर्गव्यावृत्तं पराभिमतं कार्यत्वं निराक्रियत इत्यत्र विनिगमकं न पश्याम इत्यपि वदन्ति । "सुखार्थतयेति । न हि दण्डचक्रादि-र्घटोभवती'त्ययं ग्रन्थः "कतु इत्यत्राह-दुःखात्मकत्वात्' इति ग्रन्थात् पूर्वं पठितव्यः । न क्वापि पठितव्यो वा, अनतिप्रयोजन- त्वात् । अतो व्युत्क्रमेण प्रतीकग्रहणशङ्का न कार्या । अयोगव्यवच्छेदो विवक्षित इति । अत्यन्तायोगव्यच्छेदो विवक्षित इत्यर्थः ।

(शेषलक्षणम्)

यथावत् प्रदश्र्यत इति । भाष्यकृतेति शेषः । अस्यार्थ उच्यत इति । मयेति शेषः । सत्तालाभो ह्रतिशय इत्युक्तमिति । न तु सत्तैवातिशय इत्युक्तमिति भावः । ननु परगतातिशयेत्यत्र परशब्दार्थस्याधिकरणकारकत्वप्रतीतेः पूर्ववर्तिन एव कारकत्वात् उत्पाद्यस्थले चोत्पत्तिरूपातिशय प्रति अपूर्ववर्तिनः कथं कारकत्वमित्याशङ्कय-अनुत्पन्नस्यापि बुद्धौ सूक्ष्मरूपेण विपरिवर्तमान- त्वेन कारकत्वं संभवति । एवमेव हि जायमानस्य जनिकर्तृत्वमप्युपपादनीयम् । एवमेव हि नवमे भाविनोऽपूर्वस्य निमित्तत्वं सम-र्थितमित्यभिप्रयन्नाह-स्वरूपस्याविद्यमानत्वेऽपीति । परातिशयः परमप्रयोजनमिति । नन्वेवं स्वर्गस्य पुरुषशेषतेवं न स्यात् । तद्धि कामवशात् विधिवशाच्चावगन्तव्यम्, अन्यार्थस्य काम्यत्वासंभवात् । न ह्रस्वार्थं किंचित् कश्चित् कामयते, तदपि परंपरया स्वार्थमेवा तथा विधिववाच्च । विधिर्हि प्रवर्तनात्मा । स्वर्गस्यात्मार्थत्वाभावे तत्साधने पुरुषस्य प्रवर्तकत्वानुपपत्तेरिति युक्तिद्वय- बलात् स्वर्गस्यात्मार्थत्वं साधनीयम् । यदि च परार्थमेव कार्यत्वं तदर्थं प्रवृत्तिश्च, तर्हि युक्तिद्वयमप्यात्मार्थत्वसाधकं न भवेदिति चेत्-न । यजेतेत्यात्मनेपदबलेन स्वर्गस्य कर्तृगामित्वावगमेन पुरुषार्थत्वप्रतीत्युपपत्तेरिति द्रष्टव्यम् ।

परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपमित्यत्र एव कारस्योपादेयत्वायोगव्यवच्छेदकतया, कादाचित्कोपादे-यत्वप्रयुक्तेषु प्रकृष्टकृपास्तेहान्वितेषु नातिव्याप्तिरिति व्याख्याय, कृपास्नेहान्वितत्वकर्तृत्वादिवेषोपहितेषु शेषत्वं दृष्टतिति मत्वा, एवकारस्य परगतातिशयाधानेच्छयेत्यनेनान्वयमभिप्रेत्यान्ययोगव्यवच्छेदकतया परातिशयैकप्रयोजनकत्वरूपार्थसंभवमभिप्रेत्य- यदा यस्य यदतिशयैकप्रयोजनकत्वम्, तदा स तच्छेष इत्यभिप्रेत्य व्याचष्टे-अथवा केनचिदाकारेणेति । ननु परागतातिशया-धानेच्छयापादेयत्वमेव यस्य (धर्मः), स तच्छेष इत्येवास्तु किं निरूपकधर्मवाचिस्वरूपपदेन; व्याकत्र्याप्रसिद्धरित्यत आह-न च निरूपकशब्दस्येति । स्वरूपशब्दस्य निरूपकधर्मे व्युत्पन्नत्वान्निरूपकेत्युक्तकम्; यदतिशयैकपरमप्रयोजनत्वं यस्य धर्मः, स तच्छेष इत्युक्तऽपि न दोष इति भावः । शेषभूतवस्तुगतातिशयान्तराधायकत्वेनेति । शेषस्य शेष्यनुष्ठाष्यत्वेन शेषवस्तूत्पत्तेरपि

शेषगतातिशयरूपतया शेषिणोऽपि तदाधायकत्वसंभवादिति भावः । परमप्रयोजनत्वं परमशब्दव्युदसनीयमिति । शेषगताति-शयस्येति शेषः । प्रकृष्टकृपान्वितेषु परातिशयस्य स्वरसतः परमप्रयोजनत्वावगतिमुपपाद्य स्नेहान्वितेष्वप्युपपादयति-तथा मित्रा-दिष्वित्यादिना । बन्धविशेषान्वितेष्विति । संबन्धविशेषान्वितेष्वित्यर्थः । पुरुषविशेषं प्रति न नियतं पुरुषभेदेनाप्यनियत चेति । अस्य स्त्रिग्धस्यासु स्त्रिग्धविशेषं प्रति परागतातिशयैकप्रयोजनत्वमस्तीति नियमोऽपि नास्ति । यथा भृत्यादेर्यावज्जीवं यत्किचित् प्रति पाराथ्र्यं नियतम्, एवं स्त्रिग्धव्यक्तिविशेषनियमाभावेऽप्यन्यस्मिन् स्त्रिग्धव्यक्तिविशेष उपकारकतयैवावतिष्ठत इत्यपि न नियमोऽस्तीत्यर्थः । येषां स्वातन्त्र्यबुद्धया परातिशयाधानेऽपि स्वार्थत्वबुद्धिः, तेषामलक्ष्यतया न तत्राव्याप्तिर्दोषायेत्येकं परिहारम्, यदीदृकत्वं न दृश्यते तेषां न भृत्यत्वमिति भाष्येणोकत्वा अलक्ष्यत्वाङ्गीकरणस्यायुक्तत्वं मत्वा परिहारान्तरमाह-यद्वा यद्यपि गर्भदासादय इति । वास्तवं पाराथ्र्यमेव लक्षणम् । न प्रतीयमानमिति भावः । ज्ञायमानत्वं चास्य किंचित्कार इति । लीलारसनिष्पादनं पूर्वोक्तं चशब्देन समुच्छीयते ।

दूषणान्तरमेव दशर्यति-एकपदेन कार्यमित्यादिना । ननु त्रिष्वन्यतममेव कृतिसाध्यत्वेन प्रतीयत इत्ययुक्तम् । यागस्य सुखदु#ा#ःभावेतरत्वात् साधनत्वप्रतीतेश्च प्रथमतोऽभावात् यागे कृतिसाध्यत्वप्रतीतिर्न स्यादित्याशङ्कय, क्रियातिरिक्तस्यापूर्वस्य साक्षात् कअर्तिविषयतया साध्यत्वासंभवात् किंविषयकृतिसाध्यमपूर्वमित्याकाङ्क्षायां यागविषयककृतिसाध्यमिति यागस्या-वच्छेदकतया विषयत्वमात्रं प्रतीयते, न साध्यत्वमितयाह-कृतेः क्रियातिरिक्तगोचरत्वादर्शनेनेति । सुखेत्यादेरेवं वार्थ इति । पूर्वस्मिन् पक्षे कृतिसाध्यत्वे इष्टत्वं प्रयोजकतया नोपन्यस्तम्, अपितु सुखदुःखाभावतत्साधनान्यतमत्वमित्युक्तम् । अÏस्मस्तु पक्षे त्रिष्वप्यनुगतमिष्यत्वमेव कृतिसाध्यत्वप्रयोजकमुच्यत इति विशेषः । संभावितप्रकारान्तरेण प्रयोजनत्वनिराकरणपरतया पौनरुकत्यपरिहारं दर्शयन् । अपिचेत्यादिभाष्यमवतारयति-पूर्वं तृतीयाकाररूपमित्यादिना । पर्यायशब्दबाहुल्यसंभवादिति । नियोगपर्यायमित्युक्ते नियोगशब्द एव पर्यायशब्द इति प्रतीयते । अपरशब्दप्रयोगे तु नियोगवाचिशब्देषु सोऽपि कश्चित् पर्याय इति प्रतीयत इति भावः । भाष्ये-पश्चात्तु भोक्ष्यत इति । परिपाकदशायां सुखत्वेनानुभूयत इत्यर्थः । नियतैहिकानिकारीर्यभिचा-रादीनि । नियतामुष्मिकाणि स्वर्गार्थानि कर्माणि । पशुपुत्राननाद्यर्थानित्वत्रैव जन्मनि कर्मणः परिपाके ऐहिकानि, इतरथा आमुष्मिकाणीत्यतोऽनियतैहिकानीति पूर्वतन्त्रे स्थितम् । ततश्च भाष्ये अनुभूयमानान्नाद्यारोगतादिव्यतिरेकेणेत्यनियतैहिक-फलानामप्युपादा(पपाद) नात्, भाष्ये नियतैहिकशब्दो नियतामुष्मिकस्वर्गादिसाधनकमर्विलक्षणमात्रपर इति नियतैहिक- शब्देन पश्वन्नाध्यर्थकमर्णामपि संग्रहं ह्मदि निधाय तेषु च कर्मसु सति प्रतिबन्धके तदानीमेवेह फलानुभवासंभवात् तदानीमनु-भूयमानान्नाद्यारोगतादिव्यतिरेकेणेति ग्रन्थासामञ्जस्यं मन्वानः सोपस्कारं व्याचष्टे-अप्रस्तुतप्रतिबन्धकस्य कर्मण इत्यथर् इति । इति शेष इत्यर्थः । अन्त्येष्यिसापेक्षेति । परिधीनीये कर्मणि "दक्षिणे हस्ते जुहूं सादयति' इत्यादिवाक्यविहितकर्मोपयुक्त-जुह्वादिपात्रप्रतिपत्तेरपि स्वर्गाद्यर्थकर्माङ्गतया सर्वाङ्गापूर्वसाध्यपरमापूर्वस्य जुह्वादिप्रतिपत्त्यनन्तरभावित्वेन ततः पूर्वमनिष्पत्तेरिति भावः ।

अथावादोक्तत्वात् त्यज्यत इति । अर्थवादप्रामाण्यस्य सिद्धान्तेऽप्यभ्युपगतत्वेनार्थवादोक्तत्वमात्रेण त्यागं न ब्राूम इत्यर्थः । व्युत्पत्तिर्नास्तीति विचार इति । व्युत्पत्तिर्नास्तीति पूर्वपक्ष इत्यर्थः । वैविध्येन बुद्धेः संचारणं हि विचारः । ननु ब्राहृ-विचारारम्भस्य न्यायसिद्धत्वे तद्विधायकं "परीक्ष्य लोकान्' इति वाक्य #ंव्यर्थं स्यादित्याशङ्कयाह-परीक्ष्य लोकानित्यादि वाक्य-मिति । उद्देश्योपादेयविभागवदिति । यद्यपि "तत्त्वमसि' इति वाक्यवदुद्देश्योपादेयविभागशून्यस्यापि वाक्यत्वं संभवति, तथापि सूत्ररूपवाक्यस्य तद्रूपत्वं वक्तव्यामेति भावः । विधेयं ह्रुपादेयमिति । यद्यपि देशकालादिविधौ विधेयस्यापि देशकालादेर्नोपादे-यत्वम्, तथापि प्रायिकत्वमभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । व्युत्पत्तिर्नास्तीति वाक्येनेति । पूर्वपक्षयुक्तिभिरित्यर्थः । अस्य सूत्र-स्याप्रवृत्तप्रवर्तकत्वमपि संभवति । यथा "कृष्णलं श्रपयेत्' इत्यस्य श्रपणे प्रयोजनाभावेन निवृत्तस्य प्रतिप्रसवरूपतया विधित्वमि-त्याह-अत्र हि रागतः प्रवृत्तिमत इति ।

 

1.1.5

प्रथमे सूत्रे उद्देशः कृत इति - अत्रायं विवेकः, प्रथमद्वितीयपक्षयोः तृतीयचतुर्थाधिकरणे लक्ष्यलक्षणस्वभावनिबन्धनपरीक्ष्य-त्वशङ्कानिवर्तकत्वेनैका पेटिका । तत्रापि "यतो वा इमानि' इत्यादिवाक्ये जगत्कारणानुवादेन ब्राहृत्वं विधीयत इति पक्षानुसारेण प्रथमः पक्षः । यतो वा इमानीतिवाक्ये कारणत्वानुवादेन लक्षणत्वं विधेयमितिपक्षानुसारेण द्वितीयः पक्षः । न्यायशास्त्रस्योद्देश-लक्षणपरीक्षारूपत्वस्य आवश्यकत्वेपि अस्य शास्त्रस्य तदनावश्यकत्वात् प्रथमद्वितीयाधिकरणयोर्नोद्देशलक्षणार्थप्रवृत्तत्वम्, अपि तु व्युत्पत्त्यभावप्रतिपत्तिदौस्थ्यमानान्तरदिद्धत्वाफलत्वनिबन्धनानारम्भशङ्कानिवर्तत्वेन चतुर्णामप्यधिकरणानामेकपेटिकात्वमिति तृतीयः पक्षः । क्षेत्रज्ञमात्रमिति - जीवसामान्यमित्यर्थः ।

सविद्याद्वारेणेति - न्यायतौल्यात्तेषां पक्षसमत्त्वमिति भावः । उपनिषदन्तरगतगतिसामान्यादेब्र्राहृविषयत्वं सिद्धवत्कृत्य तस्य

1.1.5

हेतुतयोपन्यासाच्च सद्विद्यावाक्यस्यैव विषयत्वमित्याह - तदनुग्राहकत्वेनेति । सिद्धान्तानुग्राहकत्वेनेत्यर्थः । नचैवं वेदान्तन्तरा-णामपि पक्षतुल्य इति । पूर्वग्रन्थविरोध इति वाच्यम् तस्योत्तरत्र समाधास्यमानत्वादिति द्रष्टव्यम् । उपादानत्वोचितेति - विकारि-त्वादिति भावः । नन्वचेतनत्वशङ्कायाः प्रतिक्षेप्यत्वेपि ब्राहृपदादियुक्तवाक्यस्य विषयत्वमस्वित्यत आह - सद्ब्राहृात्मादीति । सत्त्वस्य ब्राहृत्वापेक्षया साधारणतया तस्यैव विचारो युक्त इति भावः । विशेषे तु प्रतिपन्ने हीति - प्रथमत एवाकाशेन्द्रियादि-पदावलम्बने पूर्वपक्षे निरस्ते सदादिसामान्यशब्दावलम्बनपूर्वपक्षो दण्डापूपन्यायपराहतस्स्यात्, अत एतस्यैव पूर्वप्रवृत्तत्वमुचित- मिति भावः । अतस्संशयसद्भावमाहेति - सच्छब्दयुक्तवाक्य एवेति शेषः । केचित्तु संदिग्धे हि न्यायप्रवृत्तिः, अतो न्यायावतारार्थं संशयसद्भावमाहेत्येकग्रन्थतया योजयन्ति - विप्रतिपत्तिरपीति । परोक्तमित्यनेन स्वोक्तस्याप्याक्षेपाद्विरुद्धाथप्र्रतिपादकवचनद्वयरूप-विप्रतिपत्तिरुपन्यस्ता भवति, अत्र परोक्तमित्यनेन त्रिगुणात्मकत्वस्य सूचितत्वात् कार्यसालक्षण्यरूपहेतुरनुगृहीतो भवति । स्वो-क्तमित्यनेन चेतनत्वस्य सूचनान्मुख्येक्षितृत्वस्यानुग्रहो भवतीति भावः । पादशेषसाधारणो विचार इति - नन्वयं विचारोऽध्याय-मात्रसाधारण एवेति कथं पादशेषमात्रसाधारणत्वमुच्यत इति चेन्न; सर्वाण्यपि वेदान्तवाक्यानि प्रधानादिप्रतिपादनपराणि ? उत तद्विलक्षणत्वपराणीति तदर्थात् प्रथमपादे चिदचिद्विलक्षणास्तित्वस्य सिद्धत्वेन त्रिपाद्या अन्ययोगव्यवच्छेदार्थत्वेन कतिपयवाक्य-मात्रविषयत्वादिति द्रष्टव्यम् । ब्राहृपरत्वविरोधीति - साधको नवेत्यर्थः । ततश्चात्मशब्दस्य तेजःप्रभृतिशब्दब्राहृपरत्वविरोधि-

1.1.5

त्वस्य पूर्वपक्षिणाप्यनभ्युपेतत्वात्कथमियमुक्तिरितिशङ्का परास्ता । एवमुत्तरत्रापि द्रष्टव्यम् । अन्यतरशिरस इति - अनयोर्भध्ये किं वा शिरो युक्तिमत्तया निर्धारणार्हमित्याकाङ्क्षां दर्शयतीत्यर्थः । सुखदुःखमोहान्वयहेतुत्वदर्शनादिति - यथा एकास्त्री रूपयौवनकुल-शीलसम्पन्ना स्वामिन सुखाकरोति, तत्कस्य ह्रेतोः ? स्वामिन् प्रति तस्यास्सुखरूपसमुद्भवान् सैव स्त्री सपत्नी प्रति दुःखाकरोति तत्कस्य ह्रेतोः ? तां प्रति तस्याः दुःखरूपसमुद्भवात्, एवं तामविन्दत्पुरुषान्तरं सैव मोहयति, तत्कस्य ह्रेतोः ? तत्प्रति तस्या

1.1.5

मोहरूपसमुद्भवात्, अतस्सर्वे पदार्थास्सुखदुःखमोहान्वयहेतुत्वात् सुखदुःखमोहरूपाः, अतस्तादृशसत्त्वरजस्तमोमूलका इत्यर्थः । तत एव च कार्यकारणयोरनन्यत्वमिति भाष्ये तत इत्यस्याभिधीयत इत्युक्ताभिधानपरतया व्याख्याय सदेवेति श्रुतिपरतया व्याचष्टे- यद्वा इदमग्रे आसीदिति । अत्रायं प्रयोगो वेदितव्य इत्यस्यानन्तरं प्रयोगस्वरूपप्रतिपादकग्रन्थो लेखकदोषात् पतितः । स तावदित्थम्; इदं जगदेकोपादानविज्ञानविज्ञातम्, कार्यत्वात् सम्पतिपन्नैकमृत्पिण्डारब्धकार्यवदिति । भाष्ये -यस्मिन् शब्द एव प्रमाणं न भवतीति ।

1.1.5

अत्र केचित्, अत्र एवकारो भिन्नक्रमः । शब्दः प्रमाणमेव न भवतीत्यर्थः । साङ्खयमते श्रुतेरनुमानसिद्धानुवादितया श्रुतेरप्रमाणत्वात् अशब्दत्वमस्त्येव । उक्तं च वाचस्पतिना, "प्रधानं जगदुपादानकारणमनुमानसिद्धमनुवदन्त्युपनिषद इति साङ्खयाः' इति । अत एव टीकायां प्रमाणान्तरप्राप्तं शास्त्रं न प्रतिपादयतीति चेदित्यादि चोद्यपरिहारयोरपि नावकाशः,

श्रुतेः प्रमाणत्वाभ्युपगमेपि अशब्द-शब्दात् शब्दभिन्नप्रमाणवचनात् अर्श आद्यचि आनुमानिकमित्यर्थलाभात् । टीकायामप्यानुमानिकादिशब्दवदिति परमतदूषणे वक्ष्यमाणत्वाच्च । शब्द एव प्रमाणं न भवतीत्यवधारणगर्भतया व्याख्यानमतिक्लिष्टम् । तथासति घटपटवति भूतले अघटमिति प्रयो-गोपपत्तेरिति वदन्ति । अन्ये तु एकमात्रकर्तृकत्वरहिते रथगोपुरादौ एककर्तृकं नेति प्रयोगदर्शनात् शब्दमात्रप्रमाणकत्वाभावमादाय अशब्दत्वोक्तयुपपत्तिः । नच तन्मते शब्दस्यानुमानसिद्धानुवादितया शब्दप्रामाणानभ्युपगमात् टीकाकृदाक्षेपपरिहारयोरस्थानविजृ-म्भितत्वमिति युक्तं वक्तुम् अनुवादितयैव पूर्वपक्षः प्रवर्तयितव्य इति निर्बन्धाभावात् । श्रुत्यनुमाने परस्परसहकारिणी प्रतिपादयत इति पूर्वपक्षसम्भवादिति वदन्ति ।

तस्यानुपपन्नताञ्च ज्ञापयितुमिति पूवर्पक्ष्यभिमतं शब्दातिरिक्तप्रमाणकत्वलक्षणशब्दत्वं प्रदर्शयता सूत्रकृता पूर्वपक्षिणो व्या-हतवादित्वमाविष्कृतं भवतीति भावः । वाक्यनिरूपणपरत्वादिति - समन्वयलक्षणस्य सवस्र्यापि वाक्यप्रतिपाद्यत्वविचाररूप-त्वादितिभावः । व्यधिकरणासिद्धीति - हेतोस्स्वरूपासिद्धिव्युदास इत्यर्थः । इक्स्तिपाविति - धातुनिर्देशे धात्वनुकरण इत्यर्थः । शित्वाच्छप् । शित्वसामथ्र्याच्च कर्तृवाचिन्यपि सार्वधातुके शबित्याहुः । ईक्षतेरिति हि वक्तव्यमिति - ननु ईक्षतेर्गुरुत्वात् "गुरोश्च हल' इतिअङि ईक्षेत्येव भाव्यम्, ननु स्त्रियां क्तिन्नितिक्तिन्, स्त्र्यधिकारे च "वासरूप'विध्यभावात् सति च क्तिनि ईक्षतेरिति रूपा-

1.1.5

प्रसङ्गः । तितुत्रेतीटो निषेधात् स्कोरिति कलोपे ईष्टेरित्येव रूपं तदा स्यादिति चेन्न, इतिशब्दः प्रकारार्थः । गुरोश्च हल इति अङि ईक्षेति रूपं स्यात् । स्त्रियां क्तिन्नबादिभ्य इति क्तिन्नत्वेन प्रयोगोऽस्तीति चेत्, आप्तिदीप्त्यादिवत् अत्रापि अङपवादः किं्त स्यात् ? "आङबादयः प्रयोगतोऽनुसर्तव्या' इति वृत्तिकारेणोक्तेः । क्तिनि च इ#ेक्षतेरिति प्रयोगोऽस्तीति चेत् "तितु त्रेष्वगृहादीना'मित्युक्त-त्वान्निगृहीत्यादिवदत्रापीट् स्यात्, अन्यथा ईष्टिरिति स्यात् न कथञ्चिदपीक्षतेरिति स्यादिति । विवक्षितार्थे स्वारस्यं सूचितमिति ईक्षणादित्यर्थस्वरूपानुपादानेन ईक्षतेरिति शब्दरूपोपादानस्य धातुस्वारस्यसूचकत्वादिति भावः । सूत्रविवक्षितमिति - ततश्च सौत्रमीक्षतिपदं षष्ठयन्तम्, श्रवणादिति चाध्याहर्तव्यमिति भाष्यकाराभिप्राय इति न भ्रमितव्यमिति भावः । चेतनमात्रादपीति जीवसामान्यादपीत्यर्थः । तस्य सङ्कल्पप्रतिबन्धेति - अप्रतिबद्धसङ्कल्पत्वमेव सत्यसङ्कल्पत्वमिति भावः । चिदचितोश्शरीरत्वं

1.1.5

कथमिति - इदमुपलक्षणम् । विलक्षणयोः कार्यकारणभावः कथमित्यपि द्रष्टव्यम् । न विलक्षणत्वादित्यस्य तच्छङ्कानिराकरण-प्रवृत्तत्वात् तदभावान्न तद्विवक्षेति भाव इति - नच "तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ' इति कार्यलिङ्गोपन्यासादनुमानविवक्षा प्रतीयत एवेति आनुमानिकमेवेह प्रधानमिह प्रतिपाद्यम्, श्रुत्येकसमधिगम्ये ब्राहृणि लिङ्गोपन्यासासम्भवादिति वाच्यम्, उपन्यस्त-प्रतिज्ञादृष्टान्तानुसारिहेत्वनुपन्यासात् ब्राहृण्यपि श्रुत्यनुग्राहकानुमानप्रवृत्त्यविरोधाच्च । श्वेताश्वतरे "कालस्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माप्यनीशस्सुखदुःखहेतोः' इति मन्त्रेण कालस्वभावकर्ममहाभूत-प्रकृतिपुरुषातिरिक्तब्राहृण्येव कार्यलिङ्गानुमानोपन्यासदशर्नाच्च । नचैवं श्रुतेर्निरपेक्षत्वहानिः, श्रुतितात्पर्यनिर्णयाय मीमांसाशास्त्रग्रथि-तन्यायकलापापेक्षावच्छØतिदर्शितस्वानुग्राहकानुमानापेक्षायामपि निर्णीते तात्पर्येऽर्थसम्वादाय प्रमाणान्तरानपेक्षणात्, उपक्रमोपसं-हाराद्यन्तर्गतोपपत्तिरूपतयानुमानस्य तात्पर्यनिर्णयार्थमपेक्षायास्सम्प्रतिपन्नत्वात्, न चासम्भवाशङ्काव्यावृत्त्यर्थो मृत्पिण्डादिदृष्टान्त एव उपन्यसनीयो नानुमानमिति वाच्यम्, नहि "द्रष्टुर्दृष्टेविर्परिलोपो विद्यते' अविनाशित्वादात्मनः' इत्यादौ अनुमानरूपोपत्तेरपि

1.1.6

दर्शनेन तदसङ्ग्रहायोगात् । ननु तर्हि किमर्थं हेतुवन्निगदादिकरणे "शूर्पेण जुहोति तेन ह्रन्नं क्रियते' इत्यत्र हेतुत्वान्वयनिरास इति चेन्न, अन्नकरणस्य हेतुत्वेनान्वये यद्यदन्नकरणं तेन तेन होतव्यमिति व्याप्त्याक्षेपे दर्वीपिठरादीनामपि होमसाधनत्वानुमानादानु-मानिकैः दर्वीपीठरादिभिः प्रत्यक्षश्रुतस्य शूर्पस्य "अन्याय्यो विकल्पस्सयात्' इति तदर्थं हेत्वन्वयनिरासः । नतु हेत्वन्वये तस्य सा-पेक्षत्वेन प्रामाण्यं स्यादिति तद्य्वावृत्त्यर्थम्; अत एव तत्रैवाधिकरणे न्यायसुधायामातिथ्येष्टौ "चतुर्गृहीतान्याज्यानि भवन्ति नह्रन्यत्रानूयाजा इज्यन्ते' इत्यत्र

चतुर्गृहीतान्तरपरिसङ्खयायामनूयाजाभावस्य हेतूकरणात्, यत्र यत्रानूयाजाभावस्तत्र सर्वत्र चतुर्गृही-तान्तराभाव इति सिध्यतीत्युक्तम् । अप्रामाण्यनिरासार्थं हेत्वन्वयनिराकरणमिति - निबन्धनकारनिर्बन्धमात्रम्, अतः प्रधानानु-मापकत्वेन साङ्खयाभिमतहेतोरिहानुपन्यासान्न प्रधानपरत्वमित्यत्र तात्पर्यम् । सर्वविज्ञानं धर्मैक्यादिति - धर्मैक्याद्वा भवेत् अति-रिक्तवस्तुनोऽभावाद्वा भवेदिति वाक्यार्थः । घटपटादिष्विति - अन्यस्माद्य्वतिरेकेणान्वयेन घटपटादिषु धर्मैक्यस्य समानाकारयोगस्य चाभावादित्यन्वयः । अन्यस्माद्य्वतिरेकेणान्वयेनेत्यनेन वस्त्वन्तरासत्त्वलक्षणवस्त्वन्तरव्यतिरेकस्याभाव उपन्यस्तो भवति । व्यतिरेके-णान्वयेन व्यतिरिक्ततया सद्भावेनेति हि तदर्थः ।

अमुख्येक्षणस्यापि चेतनगतत्वात् चेतनत्वसाधनतया यदीक्षणमुक्तमित्यस्यैवोद्भावनार्हत्वाच्च चेतनगतमित्यस्य चेतनत्वसाधक-मित्यर्थ इति व्याचष्टे - चेतनत्वानुगुणमिति । ऐकरूप्याय प्रधानगतपदमपि तथाचष्टे - अचेतनत्वानुगुणमित्यर्थ इति । अग्रय-प्रायन्यायो बाधकाभावे हीति - श्रेष्ठप्रायलेख्ये लिखितस्य श्रेष्ठत्वम् अग्रयप्रायन्यायः । ननु बाधकाभावे ह्रग्रयप्रायन्यायः, अस्ति चात्र बाधकम् ईक्षणश्रुतेरेव बाधकत्वात् सन्निधिलक्षणाग्रयप्रायन्यायस्येक्षणश्रुतिविरोधे दुर्बलत्वात् "विशये प्रायदर्शना'दितिन्यायेन सन्देह एव प्रायपाठन्यायावतारात्, प्रकृते चेक्षणश्रुतिसत्त्वेन सन्देहाभावादिति चेन्न; सत्त्वादिमयस्य तादृ#ाकारणारब्धत्वं वक्तव्यमित्यनुमा-नविरोधेनेक्षणश्रुतेर्निष्परिपन्थित्वाभावेन प्रकृते संशयस्यैवावतारे प्रायपाठेन निर्णयसम्भवादिति तात्पर्यात् । अनेनैव न्यायेनेति - अग्रयप्रायन्यायेनेत्यर्थः । "हन्ताहमिमास्तिरुाो देवताः अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' "इमास्तिरुाो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्' "यथा तु खलु सोम्येमास्तिरुाो देवताः' इति तेजोबन्नेषु गौणदेवताशब्दानां

1.1.6

बहूनां सत्त्वात् प्रायत्वमुपपद्यत इति द्रष्टव्यम्; अतो यदत्र तूलिकायां "यद्यप्यचेतनविषय एक एव देवताशब्दः श्रूयते तथापि बहु-वचनान्ततया कृतैकशेषत्वाच्छब्दत्रयमस्तीति प्रायत्वमिति भावः' इत्युक्तम्, तस्य न सम्यक्तवमिति ध्येयम् ।

(सू) गौणश्चेन्नात्मशब्दात् आत्मशब्दोपीति "ऐतदात्म्यमिदं सर्वम् स आत्मा' इत्यात्मशब्दाभिप्रायेण मृदात्मको घटः घटस्य मृदात्मेति द्वयमपि निर्दि-ष्टमिति द्रष्टव्यम् । स्वरूपैक्यं सम्भवतीत्यर्थ इति - सिद्धान्ते तु शरीरप्रतिबनधित्वलक्षणमात्मत्वं सम्भव-तीति भावः । अपिशब्दं समुच्चयपरतया व्याख्याय विरोधपरतयापि व्याचष्टे - अतदात्मकत्वेन त्वदभिमतानामपीति वेति । भाष्ये-मुख्य एवेक्षणव्यपदेश इति । ननु तेजोबन्नेषु सृष्टेषु "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इति सङ्कल्पपूर्वकपर-

1.1.7

मात्मानुप्रवेशः कथं तत्पूर्वकालीनतेजोजलकर्तृकेक्षणमुख्यत्वं साधयेदिति चेन्न । नोदाहरणमादर्तव्यमिति न्यायेन परमात्मन आत्म-त्वप्रतिपादकानां प्रमाणानां सत्त्वाच्छरीरवाचिशब्दानां शरीरिपर्यन्तत्वस्य चाकृत्यधिकरणसिद्धत्वादित्यर्थः । इति सूत्राभिप्राय इतीति - सूत्रे अनेकाभिप्रायत्वस्यालङ्कारत्वादिति भावः । मुख्यामुख्यार्थानुग्राहकेष्विति - यद्यपि मुख्यार्थानुग्राहकप्रायपाठस्य सन्निधिरू-पस्य मुख्यानुग्राहकात्मश्रुत्यपेक्षया दुर्बलत्वान्न प्रायपाठानुसारेण ईक्षणस्य गौणत्वमित्येव भाष्ये प्रतीयते, नतु मुख्यार्थानुग्राहकत्वेनै-वानुरोद्धव्यत्वम्, तथापि तस्यापि न्यायस्य व्युत्पादनं सम्भवतीत्यत्र तात्पर्यम् ।।

अवान्तरसाध्यविषयत्वशङ्कामिति - गौणत्वाभावरूपावान्तरसाध्यविषयत्वशङ्कामित्यर्थः । कारणत्वौपयिकेक्षणधर्मनिरू-पणेनेति - ननु प्रधानस्यैव जगत्कारणत्वमितिवदन्तं प्रतीक्षणाभावात् मुमुक्षुध्येयत्वाभावान्न जगत्कारणत्वमित्युक्ते न समीचीन- मुत्तरं स्यात् परेण ईक्षणमुमुक्षुध्येयत्वयोर्जगत्कारणत्वव्यापकत्वानभ्युपगमेन तद्य्वतिरेकेण कारणत्वव्यतिरेकसाधनासम्भवात्, ततश्च न प्रधानं सद्विद्याप्रत्तिपाद्यम् उपक्रमगतेक्षणस्य तत्रासम्भवादुपसंहारश्रुतानामपि तत्रासमवायान्न वाक्यसन्दर्भप्रतिपाद्यत्वमित्ये-वोपन्यसनीयमिति चेन्न; अस्यापि ग्रन्थस्य तत्रैव तात्पर्यात् । ततन्निष्ठस्य मोक्षोपदेशात् अनुसन्धानार्थत्वं कथमवगतमिति - ततश्च सदात्मकत्वानुसन्धानमुपदिश्येत्युक्तमितिभावः । ननु तत्त्वमसीति सदात्मकत्वानुसन्धानमुपदिश्येति भाष्यस्यायमर्थः,

1.1.7

तत्त्वमसीतिप्रतिपन्नस्य सदात्मकत्वस्यानुसन्धानमाचार्यवान् पुरुषो वेदेत्युपदिश्येत्यर्थ इति वक्तव्यम्, अन्यथा तत्त्वमसीत्यनेन सदात्मकत्वोपदेशेपि सदात्मकत्वानुसन्धानोपदेशासम्भवात्, ततश्चैवमर्थे कथिते अनयोश्श-ङ्कापरिहारयोरनुत्थितिरितिचेत्

सत्यम्; वेदशब्दप्रतिपन्नस्यानुसन्धानस्योपासनारूपत्वसमर्थनार्थतया साफल्यसम्भवात् । उपक्रमोपसंहाराभ्यां सफलार्थवादैरुपासनतात्पर्यं वाक्यसन्दभस्र्य प्रतिपादयति - उच्यत इत्यादिना विजज्ञावितिपदमावतिर्तमिति अनेनाभ्यासरूपमुपासनतात्पर्यलिङ्गमुपपादितं भवति । नच द्विरुक्तेरध्यायपरिसमाप्तिद्योतनार्थत्वान्न तस्य द्विरुक्तेरभ्यासतया तात्पर्यलिङ्गत्वमितिवाच्यम्; अध्यायपरिसमाप्तिद्योत-कत्वेपि अभ्यासरूपत्वानपायात् । ननु त्रिवृदेकैका भवति, तन्मे विजानीहि स्वप्नान्तमेव सोम्य विजानीह भूय एव मा भगवान् विज्ञापयत्विति तद्धास्य विजज्ञावितिप्रकरणगतानां विज्ञानशब्दानां शाब्दज्ञानपर त्वमेव, नोपासनपरत्वम् नहि तद्धास्य विजज्ञा-वित्यस्योपासाञ्चक्र इत्यर्थः । येनेदं युक्तं स्यादित्यस्वरसादाह - मध्येऽपि आचा- र्यवान् पुरुषो वेदेति । अनुसन्धेयत्वे लिङ्गमिति - आचार्यवत्ताफलत्वेनोपासनस्य स्तुतिरुपासनतात्पर्ये लिङ्गमित्यर्थः । ननु "यदा स वाङ्मनसि सम्पद्यते' इत्यस्य वस्तुतो देहोत्क्रमण-विषयत्वेपि तत्र देहस्यानुपात्तत्वादित्यस्वरसादाह - अन्यत्र च अस्माच्छरी-रात्समुत्थायेति । शरीरमित्यवगम्यत इति - शरीरा-रम्भकं प्रारब्धकर्मेत्यर्थः । "भोगेन त्वितरे क्षबयित्वा' इति सूत्रभाष्ये "तस्य तावदेव चिरं यावन्न विमोक्ष्ये' इति भोगेन तयोः

1.1.8

कर्मणोर्विमोक्ष इति वक्ष्यमाणत्वात् । वसिष्ठावान्तरतपःप्रभृतीनां विद्यायोनिदेहपातानन्तरमपि ब्राहृसम्पत्त्यभावाच्चेत्यपि द्रष्टव्यम् । विमोक्ष्ये सम्पत्स्ये इत्यत्र पुरुषव्यत्ययश्छान्दसः । विमोक्ष्यते सम्पत्स्यते इत्यर्थः । अचेतनसम्पत्तिरित्यत्र सम्पत्तिशब्दस्य तत्स्वरू-पतासम्पत्तिपरत्वशङ्कां व्यावर्तयितुं व्याचष्टे - अचित्प्राप्तिरिति । सम्पत्तिशब्दस्य प्राप्तिपरत्वनिश्चायकं किमित्यत आह - सम्पत्ति-शब्दस्येति । तापत्रयाभिहतिहेतुत्वप्रतिपादनात् अचित्प्राप्तेरेव तापत्रयाभिहतिहेतुत्वाच्च सम्पत्तिशब्दस्य प्राप्तिवाचित्वं निश्चीयत इत्यर्थः । प्रतिसूत्रं वा सर्वान्ते वा समुच्चयपरशब्दे कायर्मध्ये च शब्दप्रयोगः किं निबन्धन इति शङ्कां परिहरति - एवं तदैक्षतेत्यादिना । उपरिगतवाक्यगतहेतुसमुच्चयार्थो मध्ये मध्ये चशब्दप्रयोग इत्यर्थः । एवं विभज्य समुच्चयप्रतिपादने प्रयोजनमान्द्यात् अन्यथा चशब्द-प्रयोजनमाह - यद्वा उपादेयतोक्तयेत्यादिना ।

चिदंशस्याकार्यतया च ज्ञानसम्भवादित्यत्राहेति - प्रधाने ज्ञाते तदकार्यत्वेन चिदं-शस्य ज्ञानं सम्भवति, प्रधानापरिज्ञाने तदकार्यत्वेन चिदंशस्य ज्ञानासम्भवात्, प्रधानज्ञानस्य तदकार्यत्वप्रकारकचिद्विशेष्यकज्ञानहेतुतया तज्ज्ञाने तदकार्यत्वेन

1.1.10

चिज्ज्ञानमप्युपपद्यत इति भावः । "स्वप्नान्तं मे सोम्य विजानीहि' इति । स्वप्नान्तस्सुषुप्तिः मे उपदिशतो मम वचनात् जानीहीत्यर्थः। अर्थान्तरत्वशङ्कामिति - सता सोम्येत्यत्र सच्छब्दस्य ब्राहृणोऽर्थान्तरभूतजीवपरत्वशङ्कामित्यर्थः । धातुस्वभावभेदादित्यभिप्राय इति - सता सम्पन्न इति कमर्णिनिष्ठान्तप्रयोगवत् सता अपीत इति न वक्तुं शक्यत इत्यादिधातुस्वभावायत्तमिति भावः ।

1.1.10

ननु स्वसच्छब्दयोरेकार्थपर्यव- सायित्वे अन्यतरवैयथ्र्यमित्याशङ्कयाह - जीवेनात्मनेति । यथा अनेन जीवेनात्मनेत्यत्रात्मशब्देन स्वरूपेणोपस्थितस्य परमात्मनो जीवशरीरकत्वप्रतिपत्त्यर्थत्वाज्जीवशब्दस्य नान्यतरवैफल्यम्; एवं सच्छब्देन स्वेन रूपेणोपस्थितस्य परमात्मनो जीवशरीरत्वज्ञापकत्वात् स्वशब्दस्य पदद्वयसाफल्यमिति भावः । स्वेन रूपेणेति - परमात्मरूपेणेत्यर्थः । कार्यकारण-योरनन्यत्वादित्यादिना । नापि निष्कृष्टब्राहृपर इति - स्वशब्द इतिशेषः । स्वरूपेण धारणस्य महाप्रलयेति तुल्यत्वादिति

1.1.10

स्वरूपमात्रबलेनधारकत्वे उच्यमाने महाप्रलयेपि शरीरधारकत्वप्रसङ्ग इत्यर्थः । देहस्य जीवं प्रति अपृथक्सिद्धिः देहलक्षणञ्च न घटत इति । ननु जीवस्य देहे सत्त्वेनापृथक्सिद्धौ काऽनुपपत्तिरितिचेन्न; जीवस्वरूपापृथक्सिद्धिर्नापृथक्सिद्धिः, तथा सति सौभरिशरीरेषु सर्वेषु जीवस्वरूपापृथक्सिद्धयसम्भवात् शरीरत्वानापत्तेः, अपि तु धर्मभूतज्ञानव्याप्तत्वम्, अत एव "यदेकां शाखां जीवो जहाति अथ सा शुष्यति' इति यत्प्रदेशे धर्मभूतज्ञानव्याप्त्यभावः, तदम्शस्य शोषप्रतिपादनात् जीवधर्मभूतज्ञानापृथक्सिद्धिरित्यर्थः । जीवस्य देहा-परित्यागादिति - ज्ञानव्याप्तेस्सत्त्वादित्यर्थः । बहिर्निर्गमने इन्द्रियादिसापेक्षतया बहिर्निर्गमनाभावेपि देहधारणोपयुक्तज्ञानप्राप्ति-मात्रसत्त्वादितिभावः । धारणयोग्यत्वाच्चेति - धार्यमाणत्वादित्यर्थः । ननु

कारणावस्थान्वयिन्यन्तर्भावो लयश्चेत् यावतो लयस्थानत्वं न तावत उपादानत्वम्, यदंशस्योपादानत्वं न तस्य लयाधारत्वम् तदंश एव तस्यान्तर्भावासम्भवादित्याशङ्कयाविरोधमाह - एकस्य परमात्मन इत्यादिना । व्याख्यानान्तरव्यावृत्त्यर्थमिति स्वभाष्यस्य महर्षिप्रणीतव्याख्यानानुरोधित्वलक्षणवैलक्षण्यसूचनार्थं

1.1.10

मध्ये मध्ये वृत्तिकारं कीर्तयतीत्यर्थः । असम्पत्तिशब्दस्य निर्ग-मनपरत्वमस्वरसमित्यन्यथा व्याचष्टे - यद्वा परमात्मनीति । वृत्ति-कारस्य भाव इति - ततश्च स्वाप्ययादितिसूत्रस्य सोप्यर्थ इति वृत्तिग्रन्थसम्वादेन सूचनं तदुदाहरणस्यानन्यथासिद्धं फलमिति

1.1.12

भावः ।। ननु भाष्ये-"आत्मा वा इदमेक एवाग्र आसीत्' इति श्रुत्य-न्तरैकाथ्र्यात् चेतनकारणत्वं वक्तव्यमित्युपसंहारे कर्तव्ये सर्वेश्वर एव कारणमिति विशिष्योपसंहारः कथमचेतनव्यावृत्तिमात्रस्यैव प्रकृतेपेक्षितत्वादित्याशङ्कयाह - पूर्वसूत्रे प्राज्ञेनेत्यादि । भाष्ये-

1.1.12

निश्वसितमेतद्यदृगवेद इति । ऋग्वेदादिनिखिलप्रपञ्चोनिश्वासवदनायासे उत्पन्न इत्यर्थः ।।

नन्वेतत्सूत्रविषयवाक्यत्वेनेति - अत्र केचित्, पूर्वसूत्रे चेतनत्वावगमकगतिसामान्यं विवक्षितम् । इह तु बहूनां परमात्मासा-धारणानां श्रवणमुच्यत इति विशेषः । अयमेव विशेषः पूर्वसूत्रोदाह्मत श्रुतिभ्यः अत्रोदाह्मत श्रुतीनाम्, इतरथा एतदुपनिषद्गतानां गतिसामान्यादित्यनेनापरिग्रहे हेत्वभावादिति वदन्ति ननु श्रुत्यन्तरोदाहरणे प्रथमोक्तनामरूपव्याकरणप्रतिपादकश्रुत्यन्तरे प्रथोदा-हर्तव्ये "न तस्य कश्चित्पतिः' इति गुणान्तरवाक्यस्य कथं पूर्वमुपादानमित्याशङ्कयाह - नात्र क्रमविवक्षेति ।। ब्राहृाज्ञानवादिनोऽन-नुगु-णत्वं पूर्वमुक्तमिति - जन्मादिसूत्रे एवमुत्तरेषामपि सूत्राणामित्येदिनोक्तमित्यर्थः । प्रामाणिकस्याप्रामाणिकत्वाभिमानादिति - प्रामाणिकस्याप्यपसिद्धान्तता दृष्टा, अप्रामाणिकत्वा-भिमानादित्यन्वयः । अपसिद्धान्तता-असिद्धान्तत्वमित्यर्थः । यथा ब्राहृोपादानत्वस्य शास्त्रान्तरसिद्धत्वाभाव इति भावः । सूत्रकार-श्रुत्योर्निर्देश इति - श्रुतिनिर्देशात्सविशेषत्वं

1.1.12

प्रामाणिकं सूत्रकृतोक्तत्वादसिद्धान्तत्वशङ्कापि नास्तीत्यर्थः । अपिशब्दाभिप्राय इति - ज्ञातृत्वसमुच्चयार्थोपिशब्द इति भावः । अत एव "निर्विशेषचिन्मात्र' इत्यादिभाष्यस्यायमर्थः, जिज्ञास्यब्राहृणः पारमार्थिकेक्षणगुणयोगित्वस्थापनात् निर्विशेषब्राहृवादस्सूत्रकृता निरस्तः । न च जिज्ञास्यब्राहृणो गुणयोगेपि परस्य ब्राहृणो न तथात्वमिति वाच्यम्; वेदान्तवेद्यब्राहृण एव जिज्ञास्यत्वं प्रतिज्ञाय तस्य चेतनत्वलक्षणेक्षितृत्वं प्रतिपाद्य तद्वारा प्रधानव्यावृत्तिप्रतिपादनात् । नच चिद्रूपलक्षणचेतनत्वलक्षणमीक्षितृत्वं प्रधानव्यावर्तकतयोच्यत इति वाच्यम्, चेतनशब्दस्यातदर्थत्वात् ततश्च चेतनत्वलक्षणेक्षितृत्वसिद्धौ प्रधानव्यावृत्तिरेव न सिध्येदिति व्यावर्तकसिद्धौ

व्यावृत्त्यसिद्धेरिति । वेदान्तवेद्यमिति भाष्यस्य पूर्ववाक्योक्ताक्षेपपरिहारपरत्वं स्वरसमिति व्याचष्टे - यद्वा स्वरूपमेव साक्षित्वमिति । द्रव्यत्वाभ्युपगमात् द्रव्यभिन्नगुणवचनत्वं नेत्यत आह - गुणशब्दो धर्म पर इति । तत्क्षमत्वमभ्युपगम्येति - तदुपायरूपत्वाभावेपि

1.1.12

तत्क्षमत्वसम्भावनामभ्युपगम्येत्यर्थः । ननु "यत्तु कालान्तरेणापि नान्यसञ्ज्ञामुपैति वै । परिणामादिसम्भूतं तद्वस्तु नृप तच्च किम् ' इति वस्तुत्वस्य परमात्ममात्रनिष्ठस्य न प्रमाणविषयत्वप्रयोज्यत्वं प्रमाणविषयेष्वप्यचिद्वस्तुषु तादृशवस्तुत्वाभावादित्याशङ्कयाह - वस्तुत्वं चिद-चित्साधारणमिति ।।

परैस्त्वित्यादि - जीवं निर्दिश्य सच्छब्दवाच्यस्येति । अनेन जीवेनात्मनानुप्रविश्येति वाक्य इति शेषः । अनेन जीवेनात्मना मम स्वरूपेणानेन जीवेनेति सच्छब्दितायाः देवताया वाक्यमिदमितिभावः । ननु गौणश्चेन्न जीवशब्दादित्युक्तेपि न स्वारस्यम् जीव-स्यात्मत्वव्यपदेशादित्यस्यार्थस्यासिद्धेरित्यस्वरसादाह - स्वरूपपर आत्मशब्दस्सापेक्ष इति । अत एव यद्योन्यां गायति तदुत्तरयो-र्गायतीत्यत्रोत्तरशब्दस्य ग्रन्थविशेषसञ्ज्ञारूपेण रूढत्वात्तस्यैव ग्रहणम्, नतु योन्युत्तरयोः । सम्बन्धिशब्दत्वेन सापेक्षत्वे

विलम्बितप्रतीतिकत्वादित्युक्तम् । "नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयते ' इत्यत्र नावमिकाधिकरणे । ममात्मा भद्रसेन इतिवत् "अनेन जीवेनात्मने'ति आत्मशब्दो गौण इत्याशङ्कय तन्निराकरणार्थं "तन्निष्ठस्य मोक्षोपदेशात्' इति सूत्रमिति परैव्र्याख्यातम्;

1.1.12

तद्दूषयति - चिदचिदात्मकेति । परमसाध्यस्यहेतुवाचीति युक्तमिति - अत एवास्वारस्यात् शङ्करभाष्येपि "अथवा पूर्वसूत्र एवे'- त्यादिना परमसाध्य एव हेतुतया तृतीयसूत्रं योजितमिति द्रष्टव्यम् । यथा सोम्य मधु मधुकृत इत्यादि - मधुकृतो मक्षिकाः । मधु

निस्तिष्ठन्ति निष्पादयन्ति नानात्ययानाम्-नानादिक्कानां वृक्षाणां रसान् समवहारम्-समावृत्य । एकताम्-एकभावं, मधुत्वेन रसं गमयन्ति मधुत्वमापादयन्ति, ते रसाः मधुत्वेनैकीभूताः तत्र-मधुनि, विवेकं न लभन्ते-अयमस्य वकुलस्य रसः, न चूतस्य रसः,

1.1.13

एवं सतैकीभूता अपि प्रजा विवेकं न लभन्त इत्यर्थः ।। इति ईक्षत्यधिकरणम् ।।

प्रत्यगात्मन्यवतरन्ती बुद्धिरिति - कारणत्वबुद्धिरित्यर्थः । ननु नास्मिन्नधिकरणे जगत्कारणं जीव इति पूर्वपक्षीकृत्य तदतिरिक्तं ब्राहृेति सिद्धान्त्यते अपि त्वानन्दमयो जीवः परमात्मा वा ? इति विचार्यानन्दमयो जीव इति पूर्वपक्षं कृत्वा ब्राहृेति सिद्धान्त्यते, इतरथा जगत्कारणं जीव इति पूर्वपक्षे जीवासम्भावितधर्मप्रतिपादकसकलश्रुत्युपन्यासस्यैव युक्ततया आनन्दवल्लीमात्रार्थनिर्णाय-कन्यायग्रथनस्यायुक्तत्वप्रसङ्गात् "श्रुतत्वाच्च' इति पूर्वाधिकरणगुणसूत्रोदाह्मतश्रुतिप्रतिपादितजीवासम्भावितधर्मैरेव जीवातिरिक्त-ब्राहृसिद्धेश्च "अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्' "अधिकं तु भेदनिर्देशात्' इत्यादिभिः कृतकरत्वाच्च अतः आनन्दवल्ली-प्रतिपाद्यानन्दमयः किं जीवः, उत परं ब्राहृ ? इत्येव चिन्तनीयम् नच कारणविषयत्वाभावे समन्वयाध्यायासङ्गतिस्स्यादिति वाच्यम् त्रिपादीविचारवदुपपत्तेः । नच तत्रापि कारणत्वचिन्तात्मकत्वमेवेति वाच्यम् तत्तद्गुणाकरत्वं ब्राहृणः प्रतिपाद्यत इति भाष्योक्तेः । "अधिकरणगुणैस्तद्गुणानुद्गृणाति' इत्यधिकरणसारावल्युक्तेश्च । नतु सामान्यतो जगत्कारणं जीवो वा ब्राहृ वेति चिन्तनीयमिति चेत् सत्यम्, तथैव चिन्त्यते; किन्त्वानन्दमयस्य जीवत्वे जीवातिरिक्तब्राहृकारणत्ववादे किञ्चिच्छ्रद्धावैकल्यं जायेतापीत्येतदभिप्रेत्या-योगव्यवच्छेदोक्तयुपपत्तेः । अत एव ज्योतिरधिकरणे निरूपितमित्याशङ्कय संशयहेत्वभावादिति परिह्मत्य पुनस्तर्हि चिदद्विलक्षण-कारणास्तित्वविषयस्य प्रथमपादस्यानारम्भस्यादिति परिचोद्य बहूनां वेदान्तवाक्यानां प्रकृतिपुरुषकारणमात्रपरत्वे पुरुषसूक्तेपि संशयप्रसङ्गान्न वैयथ्र्यमस्तीति परिहरिष्यति । अन्ये तु अन्ययोग्यवच्छेददार्थायां त्रिपाद्याम् आनुमानिकमप्येकेषामिति चेत्, इत्य-पिशब्देन प्रधानमपि जगत्कारणं भवत्विति प्रदर्शयता सूत्रकृता पूर्वत्रप्रधानाधिकमेव जगत्कारणं ब्राहृेति प्रथमपादपूवर्पक्ष्याशय उन्नीयते अत एव कल्पतरुग्रन्थे आनुमानिकाधिकरणे पूर्वत्र हि प्रधानाद्येव सर्ववेदान्तार्थ इति प्रत्यवस्थितं निषेधेन इह तु तदभ्यु- पेत्य प्रधानाद्यपि कारणमिति प्रत्यवस्थीयते सूत्रकारोप्यपिशब्दं प्रयुञ्जानो ब्राहृाभ्युपगमेन क्वाचित्कोयं विचार इति सूत्रयामासेत्यु-क्तमिति वदन्ति ।

कारणवाक्यविचारपरे अस्मिन्नधिकरणे "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः' इत्यारभ्य श्रूयत इति वक्तव्ये भाष्यकृता किमिति "स वा एष' इत्यादिकमुदाह्मतमित्याशङ्कयाह - कारणविषयस्येति । आत्मशब्दव्याख्यानोपक्रमभूतमिति - ततश्चात्म-

1.1.13

शब्दव्याख्यानानां मध्ये स वा एष इत्यस्योपक्रमभूतत्वात् विषयभूतकारणवाक्योपक्रमत्वाभावेपि प्रकृतेत्युक्तिरुपपन्नेति भावः । चेत-नत्वादावभ्युपगम इति - सर्वज्ञशब्दप्रतिपन्नश्चेतनत्वेऽभ्युपगमः सर्वेश्वरशब्दप्रतिपन्नजीवातिरेकेनाभ्युपगम इत्यर्थः । ततश्च जीवाति-रिक्तत्वादेः प्रागनुक्तत्वात्, अनुक्तांशे कथं सत्यशब्दप्रयोग इति न चोदनीयम्, इदमुपलक्षणम् उक्तांशेऽङ्गीकारः । उक्तस्य वास्तवत्वांशे त्वनङ्गीकारः, सत्यमुक्तमिति ग्रन्थस्वारस्यादित्यपि द्रष्टव्यम् । अस्वारस्यसूचक इति - क्रियासङ्गतैवकारस्यात्यन्तायोगव्यवच्छे-दार्थपरत्वादिति भावः । ननु साङ्खयमते जीवस्य प्रत्ययार्थीभूत कर्तृत्वाभावात् ईक्षित:त्वं अनुपपन्नं इत्याशङ्कय प्रत्ययार्थानुपपत्तावपि पृकृत्यर्थोपपत्तिरितभिप्रयन्नाह - साक्षित्वमेवेति । नन्वस्मिन्नधिकरणे जीवब्राहृाभेदः पूर्वपक्ष्यभिमतः । तद्भेदस्तु सिद्धान्त्यभिमत इति भाष्यकृता

जीवब्राहृाभेदद्वेषानुबन्धवशात्परं व्याख्यायते न त्वेवं सूत्रकृदभिप्रायः, तादृशाभिप्रायज्ञापकाभावादित्यत आह - भेदव्यप-देशाच्चेतीति । जीवव्यतिरेकासिद्धेरिति जीवभिन्नत्वासिद्धेरित्यर्तः । नैकरूपज्ञानस्येति - ज्ञानसङ्कोचयोविकासरूपावस्थायोगि-

1.1.13

त्वादिति भावः । प्राप्यत्वानुगुणेति - अचिद्वियुक्तस्वरूपस्य प्राप्यत्वे आनन्दमयतया पुरुषार्थत्वमित्यभिप्रायः । ज्ञायतेऽनेनेति व्युत्पत्त्येति - मनोबुद्धयहङ्कारभेदेन अन्तः करणत्रैविध्यस्य साङ्खयाभिमतत्वात्, साङ्खयमते बुद्धिशब्दस्यान्तः करणपरत्वेन तत्र विज्ञानशब्दस्य भावव्युत्पत्तिसम्भवादिति भावः । विकारपरत्वाभावाच्चेति - ननु पूर्वपक्षिणा विकारपरत्वप्रत्याख्यानं "विकार-शब्दान्नेति चेन्न प्राचुर्यात्' इति सूत्रविरुद्धम् । तस्मिन् सूत्रे विकारार्थत्वस्यैव पूर्वपक्षहेतुतयोपन्यासात्, मयट्प्रत्ययस्वार्थिकत्व-विकारार्थत्वयोः पूर्वपक्षसाधकत्वस्य तदर्थचिन्ताग्रन्थं एव प्रदर्शितत्वेन स्वोक्तिविरोधाच्चेति चेत् अत्राहुः,-अस्मिन्नधिकरणे पूवर्पक्षो द्विविधः, साङ्खयपक्षावलम्बी पुच्छब्राहृावलम्बी च तत्रानन्दमय इत्यत्र मयट्प्रत्ययस्स्वार्थिकः, सच प्राप्यमुक्तस्वरूपपरः, नतु

1.1.13

विकारार्थो नवा प्राचुर्यार्थः,प्राप्यस्वरूपस्य निर्विकारत्वात्, अतो द्वितीयपूर्वपक्षवादिनः सिद्धान्तिनो वा नावकाश इति प्रथमः । मयट्प्रत्ययो विकारार्थः, नतु स्वार्थिकः प्राचुर्यार्थो वा ततश्च विकारवाचिमयट्प्रत्ययानुरोधेन सुखाकारवृत्तिप्रतिबिम्बिततया तदुपहिततया वा आनन्दविकारत्वेन वा आनन्दमयो जीव एवेत्यपरः । तत्र प्रथमे विकारशब्दान्नेतिचेदित्याक्षेपस्तटस्थकर्तृकः । द्वितीये तु पूर्वपक्षिकर्तृक इति विवेकः, एवञ्च विकारपरत्वाभावाच्चेतिग्रन्थः प्रथमपक्षाभिप्रायेणेति द्रष्टव्यम् । केचित्तु विकारपरत्वाभावाच्चेति विज्ञानमयशब्दस्येत्यर्थः । विकारपरत्वाभावादित्युपलक्षणम् प्राचुर्यार्थकत्वाभावादित्यपि द्रष्टव्यम् विकारप्राचुर्यान्यरार्थत्वे हि विज्ञानमयशब्दस्य जीवपरत्वाशङ्का स्यादिति वदन्ति ।

प्रतिष्ठातद्वद्भावेनेति - प्रतिष्ठारूपस्य ब्राहृणस्तद्वदानन्दमयेन ऐक्यासम्भवादिति भावः । पुरुषविध इति - "तस्य पुरुषविधताम् अन्वयं पुरुषविधः' इति श्रुतिवाक्ये तस्य विज्ञानमयस्य पुरुषविधत्वमनुकृत्य अयमानन्दमयः पुरुषविधः, तदनुकारी पुरुष इत्यर्थः । व्यतिरेकनिर्देशस्वारस्यं सिध्यतीति - आत्मशब्दस्य मध्यभागपरत्वानादरेण स्वरूपपरत्वाङ्गीकारे घटस्य स्वरूपमि त्यादिव-दस्वारस्यं स्यादिति भावः । का नः क्षतिरित्यभिप्रायेण प्रतिवक्ति - ततः किमिति । पुच्छब्राहृत्वस्योभयाभ्युपेतत्वे शान्तो विवाद इत्यभिप्रायेण पृच्छति - किन्तर्हीति । त्वया पुच्छस्यैव ब्राहृत्वं नानन्दमयस्योच्यते, अस्माभिस्तु उभयोरप्यैक्याद्ब्राहृत्व-

1.1.13

मुच्यत इति विवेक इति भावः । अर्थात्परिहरन्निति - ब्राहृशब्दस्यानन्दमयविषयत्वमसिद्धमिति परिहरन्निति भावः । सद्भावेप्या-शङ्कावाद इति - नहि घटं प्रमेयं वेद चेदित्याशङ्कावादो युज्यत इति भावः । किमत्र क्रियत इतीति - रूपणस्यापि इतरव्यावृत्त-स्वरूपप्रतिपत्त्यर्थत्वादित्याशयः । प्रधानप्रतिपाद्यत्वाभावादिति - ननु सर्वपर्यायसाधारण्यं न प्राधान्यविरोधि, अन्तर्यामिब्रााहृणे

1.1.13

"यः पृथिव्यां तिष्ठन्' इत्यादौ सर्वपर्यायसाधारण्येपि सर्वत्र यच्छब्दनिर्दिष्टस्यैव प्राधान्यं प्रतीयते, तद्वदिहापि पञ्चस्वापि पर्यायेषु "तस्यैष एव शारीर आत्मे'ति आत्मशब्दनिर्दिष्टस्यैव प्राधान्यम्, ततश्च पुच्छब्राहृण एवात्मशब्दनिर्दिष्टत्वात् तस्यैव "सोऽकाम-यते'तिपुल्लिङ्गतच्छब्देन परामर्शस्सम्भवतीति चेदुच्यते; "तस्यैष एव शारीर आत्मे'त्यत्र एष इति पुल्लिङ्गस्यानन्दमय एव स्वर-सत्वात्तद्वाक्येपि न ब्राहृणः परामशर् इति भावः । प्रधानपरामर्शित्वस्वारस्यच्चेति - "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षे'त्यत्र आनीयमानेनापि दध्ना व्याप्यमानस्यापि पयसः प्राधान्यात् तस्यैव तच्छब्देन परामर्शो युक्तः, न त्वप्रधानस्य सन्निहितस्यापि दध्नः, अतः पय एव घनीभूतमामिक्षेति पूर्वतन्त्रे चतुर्थाष्टमयोव्यर्वस्थापितत्वादिति भावः । विज्ञानं ब्राहृेति व्यजानादिति - भृगुवल्लयामिति भावः । स्थानप्रमाणेनानन्दमयमात्मानमितयत्रेति - ननु भृगुवल्लयाम्नातानन्दस्थानसाम्यादपि अन्नमयादिषु पञ्चस्वपि मयट्प्रत्य-यसारूप्येणानन्दमयस्थानसाम्यस्यैव प्रबलतया ततोपि भृगुवल्लयाम्नातानन्दमयस्य ब्राहृत्वसिद्धिरि चेत् मैवम्;

आनन्दवल्लयाम्नाता-नन्दमयस्याद्याप्यब्राहृत्वानिश्चयात् अनिश्चितस्थानसाम्यस्याप्रयोजकतया निश्चितब्राहृभावानन्दस्थानसाम्यस्यैवार्थनिर्णायकत्वात् "एतमानन्दमयमात्मान'मिति प्रकृतानन्दपरामर्शकैतच्छब्दश्रुतिबलादपीति भावः । उक्तं हि या तु भार्गवीति - शाङ्करभाष्य इति शेषः।

1.1.13

निर्हरणादिरूपमिति - आदिपदेन परमात्मपक्षेत्रसाद्यत्वं विवक्षितम् । ननु परमात्मपक्षे कथं शोध्यत्वम् ? प्रागशुद्धिमतो हि शुद्धि-राधेया । नच नित्यशुद्धस्य ब्राहृणः प्रागशुद्धिरस्तीति चेत् नात्र शुध्द्यशुद्धिशब्दाभ्यां कोपप्रसादौ विवक्षितौ ब्राहृणः कोपरूपाशुद्धि-सद्भावेपि अपहतपाप्मत्वलक्षणनित्यशुद्धत्वस्याविरोधात् इतरथा गङ्गाजलं कतकैश्शोध्यतामित्युक्तिरपि नोपपद्येत नित्यशुद्धस्य गङ्गाजलस्य प्रागशुध्यभावात् यदि च नित्यशुद्धस्यापि गङ्गाजलस्य कर्दमसम्बन्धादिकृतकालुष्यरूपाशुद्धिरभ्युपेयते तर्हि प्रकृतेपि दीयतां दृष्टिः । ब्राहृविषयस्येति - अन्नमयादिपर्यायेषु प्रधानानां तत्तत्पर्यायगतश्लोकविषयत्वदर्शनेन स्वपर्यायगतश्लोकाविषयस्य तस्य प्राधान्यादिति भावः । प्रकरणस्य स्वस्मादनतिरिक्तैरिति - न च मनोमयशिरः पक्षपुच्छानामृक्सामयजुरथर्वाङ्गिरसां मनोमया-दतिरिक्तत्वदर्शनेन प्रकरणस्य स्वस्मादनतिरिक्तैः स्वावयवैरेव शिरःपक्षादिरूपणपरत्वमसिद्धमिति वाच्यम्; तत्र ऋक्सामादि-

1.1.13

शब्दानां तत्तद्विषयकमनोव्यापारपरत्वेन तेषामपि मनोमयादनतिरिक्तत्वात् - आनन्दमये पर्यवसितत्वादिति । ननु "श्रुतं ह्रेव मे भगवद्दृशेभ्यस्तरति शोकमात्मवित्' इत्यात्मजिज्ञासयोपसेदुषे नारदाय नामादिषूत्तरोत्तरमर्थान्तरोपदेशे "अस्ति भगवो नाम्नो भूय इति वाग्वा नाम्नो भूयसी' इत्यादिप्रश्नप्रतिवचनपरम्परायाः प्राण एव समापनेपि विनैव तादृशप्रश्नप्रतिवचने प्रकृतस्य "एष तु वा अति वदति यस्सत्येनातिवदति' इत्यादेस्तु शब्दश्रुत्या आत्मनः प्राण इति प्राणोत्पत्तिलिङ्गेन च प्राणादर्थान्तरोपदेशपरत्वमिति तत्रैवा-त्मोपदेशपर्यवसानमभ्युपगम्यते, न तु प्राचीने प्राणे; एवमिहापि पूर्वोपन्यस्तप्रमाणैः प्रधानतयाऽवगते पुच्छब्राहृण्येवोपक्रान्तोपदेश-पर्यवसानमभ्युपगन्तुं युक्तमिति चेन्न भूमविद्यायां प्राणोपदेशे नामादिष्वनुक्तस्यातिवादस्योक्तया तत्तत्पर्यन्त एवात्मोपदेशं मत्वा शिष्ये भूयः प्रश्नमकुर्वति स्वयमेवाचार्यः तथा अर्थान्तरसत्त्वमुपचिक्षेपेति युज्यते । इह तूत्तरोत्तरमात्मोपदेशे दृष्टायाः "तस्माद्वा एतस्मात्' इति शैल्याः ब्राहृणि परित्यागे कारणाभावादिति भावः । पुच्छवद्विषयत्वादिति - न च "यतो वाचो निवन्र्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्राहृणो विद्वान् । न बिभेति कदाचनेति' इति मनोमयपर्यायगतस्य श्लोकस्य ब्राहृविषयस्य मनोमयविषयत्वाभावात् प्रकरण-स्थश्लोकानां पुच्छवद्विषयत्वमसिद्धमिति वाच्यम्; यतो ब्राहृानन्दाद्वाचाप्राप्य निवर्तन्ते तं ब्राहृानन्दं कल्याणगुणजातं ब्राहृणा सह परिशुद्धेन मनसा विद्वान् न बिभेतीत्यर्थकतया तस्यापि श्लोकस्य पुच्छवन्मनोमयप्रशंसापरत्वसम्भवात् । नचैवम्; "अमसन्नेव स भवति' इति श्लोकस्यापि स आनन्दमयो जीवः असद्ब्राहृेति वेद चेत् असन्नेव भवति । अस्ति ब्राहृेति वेद चेत् सन् भवतीति पुच्छव-दानन्दमयविषयत्वमस्त्विति वाच्यम्; स इत्यस्यानन्दमयविषयत्वे तत्स्तावकत्वाभावेन तत्परत्वाभावप्रसङ्गात् ।। सिद्धान्तः ।

ननु "ईक्षतेर्नाशब्दम्' "नेतरोनुपपत्तेः' "भेदव्यपदेशाच्चान्यः' इति सौत्रपदानुकर्ष इहाभिप्रेतश्चेत् तदेव पदं प्रयुज्यताम्, किं पर-मात्मशब्दनिर्देशेनेत्याशङ्कयाह - अन्तरात्मपरम्परेति । परमशब्देन निरतिशयत्वप्रतिपादनादिति भावः । साध्यांशे हेत्वाका-ङ्क्षामिति - परमात्मपदानन्तरमेव कुतश्शब्दप्रयोगात्परमात्मत्वरूपसाध्यांश एव हेत्वाकाङ्क्षा प्रदर्शिता भवति, न तु व्यवहिते आन-न्दमयत्व इति भावः । यद्यप्यानन्दमयः परमात्मा अभ्यासिदित्येतावत्युक्तेपि अभ्यासादित्यस्योक्तरीत्या समनन्तरनिर्दिष्टपरमात्मत्व एव हेतुत्वेनान्वय इति सुवचम्, तथाप्युपायान्तरस्योपायान्तरादूषकत्वात् स्थितस्य गतेवक्र्तव्यत्वाच्च तथोक्तमिति द्रष्टव्यम् । स्ववाक्यस्थत्वाच्चेति - अन्योऽन्तर आत्मानन्दमय इत्यस्य विषयवाक्यतया तत्स्थत्वादानन्दमयो भेदव्यपदेशादित्येव सूत्रव्यमिति

भावः । अनुग्राहकयुक्तयपेक्ष इति - मुक्तेपि तादृशानन्दोऽस्त्वितिशङ्काया असम्भावितत्वरूपयुक्तयन्तरेण निवर्तनीयत्वात् "विकार-

1.1.13

शब्दान्नेतिचेत्' इत्यादिसूत्रद्वयसापेक्षत्वाच्चेत्यर्थः । निरतिशयदशाशिरस्कत्वेनाभ्यस्यमान इत्यस्य हेतुगर्भत्वं स्फोरयति - शत-गुणितोत्तरक्रमेणेति । स एको ब्राहृण इति वाक्यस्य प्राजापत्यानन्दपरत्वं वर्णयतां पक्षे सूत्रविरोधं दशर्यति - स एको ब्राहृण आनन्द इति वाक्यस्येति । स यश्चायं पुरुष इतीति - "ब्राहृविदाप्नोति पर'मित्यारभ्य "स एको ब्राहृण आनन्द' इत्येवमन्तेनो-क्तानन्तस्वरूपरूपगुणविभवस्य ब्राहृण एव सयश्चायमिति तच्छब्देन परामर्शादिति भावः । भगवदानन्दप्रसङ्गसापेक्षत्वादिति -

इतरथा अस्य श्लोकस्यापि प्राजापत्यानन्दपरत्वप्रसङ्गादिति भावः । श्रौतार्थं विहाय फलितार्थकथने बीजमाह - तच्च हेतोर्वैयधि-करण्यशङ्काव्युदासाथर्मिति । सदृशवस्त्वेकदेशतयेति - यद्यपि "स एको ब्राहृण आनन्दः' इतिशतगुणितचतुर्मुखानन्दसादृश्यं

1.1.13

ब्राहृानन्दस्यैव कथ्यते, नतु तदेकदेशस्य तथापि "यतो वाचो निवर्तन्ते' इति वाक्यस्यार्थमभिप्रेत्य तथोक्तमिति द्रष्टव्यम् । अ-भ्यासशब्दस्य ब्राहृानन्दे औपचारिकत्वाश्रयणमयुक्तमित्यस्वरसादाह - यद्वा मुहुर्मुरुक्तिरिति । ननु निरतिशयानन्दांशेन मुहुर्मुहुरुक्तिः, आनन्दमात्रे मुहुर्मुहुरुक्तिस्तु आनन्दमात्रतात्पर्ये लिङ्गम्, नतु निरतिशयानन्दतात्पर्ये आनन्दमात्रञ्च जीवव्या-वर्तकमिति चेन्न, "स एको ब्राहृण आनन्दः' "यतो वाचो निवर्तन्ते' इति मनोमयानन्दमयपर्यायोक्तिद्वयस्यापि निरतिशयान-न्दविषयतया निरतिशयानन्दस्य मुहुर्मुहुरुक्तयुपपत्तेः - निवर्तकत्वं विवक्षितमिति । अनन्याधीननिवृत्तिर्विवक्षितेत्यर्थः । उत्तर-ग्रन्थानुसारादिति द्रष्टव्यम् - निरतिशयत्वश्रवणविरोधेनेति । हेत्वधीनत्वे हेतोरेव तदपेक्षया अतिशयिततया हेत्वधीनस्य वस्तु-नस्सातिशयत्वमेव स्यात् यदपेक्षया अतिशयितं नास्ति तस्यैव निरतिशयत्वादित्यर्थः । ननु परमात्मानन्दस्यानन्याधीनत्वेन तस्यैवानन्दस्य "स एको ब्राहृण आनन्दः । श्रोत्रियस्य चाकामहतस्य' इति श्रवणात् मुक्तेष्वनन्याधीनत्वमेवेत्याशङ्कयानन्द-स्यैकरूपत्वेपि ब्राहृणि स आनन्दो निर्हेतुकः । मुक्ते तु सहेतुकः, तत्राकामहतस्येति हेत्वन्तरस्य पृथङ्#िनर्देशादित्याह - श्रोत्रि- यस्य चाकामहतस्येतीति । इति श्रुत्यन्तरमिति - तत्रत्याकामहतशब्दस्याप्येवमेवार्थ इति भावः ।

तस्य वाक्यस्य तादृशतर्क-सूचकत्वमुपपादयति - अत्र हीति । अवयवशक्तया दर्शितमिति - मयट्प्रत्ययस्य प्राचुर्यार्थत्वादिति भावः । भाष्ये-न बुद्धिमात्रमिति । ननु बुद्धिशब्दस्यान्तः करणपरतयैव टीकाकृता व्याख्यातत्वात्, न बुद्धिरित्यनेनैव तत्प्रतिक्षेपसम्भवात्

1.1.13

मात्रपदवैयथ्र्यम् यदि च बुद्धिशब्दस्य ज्ञप्तिपरत्वं तदैव हि केवल ज्ञप्तिपर्यवसायज्ञापनाय मात्रपदं सफलं स्यात् यदि च मात्रपदमनु-जिघृक्षितं तदा तदनन्तरभूताञ्च बुद्धिमिति पूर्वपक्षभाष्यस्थो बुद्धिशब्दो ज्ञप्तिपरतयैव व्याख्येयः । नान्तःकरणपरतयेति चेदुच्यते न बुद्धिमात्रमित्येतत् तन्त्र वृत्त्यैकशेषाणामन्यतमाश्रयणे नान्तःकरणस्य ज्ञप्तेश्च व्युदासकं ततश्च ज्ञप्तिव्युदासपक्षे तद्वत्येव पर्यवसानम्, नतु तन्मात्र इति प्रतिपादनाय मात्रपदं सार्थकम् । केचित्तु सवत्र्र बुद्धिशब्दो ज्ञप्तिपर एव, नतु करणव्युत्पत्त्यान्तःकरणपर इत्याहुः । मयट्प्रत्ययेन व्यतिरेकप्रतीतेरितिभाष्यस्य स्वार्थिकत्वाश्रयणे मयट्प्रत्ययवैयथ्र्यप्रसङ्गादित्येतत्पर्यन्तोऽभिप्राय इति दर्शयति - प्रत्य-यवैयथ्र्यं विशदयतीति । नीलादिशब्दानामपि सङ्ग्रहार्थं व्याचष्टे - अयुतसिद्धधर्मवाचिशब्दा इति । सूत्रन्यायाभ्यामिति याव-दात्मभावित्वाच्चेति शारीरकसूत्रन्यायाभ्यामित्यर्थः । प्रथम पक्षे कर्तृपरत्वं कल्पनीयमिति - अत्यन्तागतिकबाहुलकत्र्रर्थत्वम-

इति वा कत्र्तरि ल्युडाश्रीयते । नन्द्यादित्वं वाऽऽश्रित्य "नन्दिग्रहि' इत्यादिना कत्र्तरि ल्युः । अत एव च "विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च' इति यज्ञादिकर्तृत्वं विज्ञानस्य श्रूयते । बुद्धिमात्रस्य हि न कर्तृत्वं सम्भवति । अचेतनेषु हि चेतनोपकरणभूतेषु विज्ञानमयात्प्राचीनेष्वन्नमयादिषु न चेतनधर्मभूतं कर्तृत्वं श्रूयते । अत एव चेतनमचेतनं च स्वासाधारणैर्निलयनत्वानिलयनत्वादिभिर्धमर्विशेषैर्विभज्य निर्दिशद्वाक्यम् "वि- ज्ञानं चाविज्ञानं च' इति विज्ञानशब्देन तद्गुणं चेतनं वदति । तथाऽन्तर्यामिब्रााहृणे "यो विज्ञाने तिष्ठन्' इत्यस्य

1.1.13

वश्याश्रयणीयमिति भावः । गणान्तर्भाव इति - नन्द्यादिगणे अस्यापठितत्वादिति भावः । प्रत्यक्षानुगुण्यादित्यादि - आत्मनो विज्ञानमयत्वस्य जानामीति प्रत्यक्षसिद्धत्वात्, "योऽयं विज्ञानमय' इति श्रुतिसिद्धत्वात् विज्ञानं यज्ञं तनुत इत्येतदपेक्षया विज्ञा-नमयशब्दस्य प्रथमश्रुतत्वेनासञ्जातविरोधित्वात् ज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानशब्दस्यान्तःकरणपरत्वेपि प्रकृतिप्रत्ययास्वारस्यात्, जीवपरत्वे द्वयोरपि स्वारस्यापरित्यागात् विज्ञानमयशब्दानुरोधेनैव विज्ञानशब्दो नेय इति भावः । चेतनपरत्वादेवेत्यर्थ इति । व्यप-देशाच्च क्रियायामिति सूत्रे विज्ञानं यज्ञं तनुत इति वाक्यस्य जीवकर्तृत्वे प्रमाणतया परैः उपन्यासादिति भावः । बोद्धुरेव हि कर्तृ-त्वमिति - जानामि करोमीति प्रत्यक्षेण "एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः' इत्यादिश्रुतिभिः "कर्ता शास्त्रा-र्थवत्त्वात्' इत्यादिसूत्रैश्चेत्यर्थः । ननु न कर्तृत्वं चेतनैकान्तम्, अचेतनानामपि कर्तृत्वसम्भवात् "शुक्रं यजमानोऽन्वारमत' इत्यादि-विहितशुक्रान्वारम्भणादौ अस्थियागपक्षे अचेतनानामस्थ्नां स्वातन्त्र्यलक्षणकर्तृत्वासम्भवात् शुक्रान्वारम्भणादिकमकर्तव्यमिति पूर्वपक्षं कृत्वा काष्ठानामपि ज्वलनादौ कर्तृत्वसम्भवेन कर्तृत्वस्य चैतन्यानपेक्षत्वेन अस्थ्नां कर्तृत्वं सम्भवतीति दशमे सिद्धान्तित-त्वादित्यभि-प्रेत्याशङ्कते - ननु सर्वेषामिति । विज्ञानशब्दास्वारस्यमुभयोरविशिष्टमिति - विज्ञानं यज्ञं तनुते इत्यत्र विज्ञानशब्द

इत्यर्थः । नतु विज्ञानमयशब्दगतविज्ञानशब्दे । सिद्धान्ते तत्रत्यविज्ञानशब्दस्य ज्ञप्तिपरत्वेनास्वारस्याभावादिति द्रष्टव्यम् । स च प्रकरणानु-वृत्तश्चेदिति - विज्ञानमयात्प्राचीनेष्वन्नमयादिषु-इति भाष्ये सर्वेष्वितिपदमध्याहर्तव्यमिति भावः ।

1.1.13

अनुप्रवेशश्रवणादिति - अनुप्रवेशकर्मत्वश्रवणादित्यर्थः । व्याप्यत्वश्रवणादिति यावत् । आत्मान्तरस्थितिश्रवणादिति - नच 'स्वे महिम्नि प्रतिष्ठितः, इतिवत् भेदस्यौपचारिकत्वमिति वाच्यम् "उभयेपि हि भेदेनैनमधीयते' इति सूत्रे विज्ञानशब्दस्य जीवपरत्वमेव, नतु परमात्मपरत्वम् अभेदेभेदोपचारक्लेशस्यानाश्रयणीयत्वादिति परैरेवोक्तत्वादिति द्रष्टव्यम् । सर्वत्र प्रयुक्तस्येति - "विज्ञानं चावि-ज्ञानञ्च' विज्ञानं यज्ञं तनुते' इत्येवम्भूते सर्वत्र वाक्ये प्रयुक्तस्य विज्ञानशब्दस्य कर्तृवाचिप्रत्ययान्तत्वे नपुंसके "भावे क्तः' 'ल्युट् च' इतिविहितभावार्थल्युडन्तस्यैव नपुंसकतया तदतिरिक्तार्थस्य ल्युडन्तस्य विशेष्यनिध्नतया नपुंसकत्वनियमाभावेनात्मविषयस्य विज्ञा-नशब्दस्य पुल्लिङ्गत्वापत्तिरिति भावः । श्लोकस्य ज्ञातृपरत्वाभावेपीति - वस्तुशब्दस्येहानुपात्ततया तदभिप्रायेण नपुंसकलिङ्गनिर्देशो न युक्तः । अतएव सारस्वत्यां मेष्यां पशुशब्दाभिप्रायेण "प्रास्मा अÏग्न भरत' इति निर्देशो युक्त इति पूर्वपक्षं कृत्वा पशुशब्दस्य प्रागनु-पात्ततया सारस्वत्याश्च मेष्या वस्तुतस्स्त्#ीत्वात् प्रास्या इत्येवं स्त्रीलिङ्गनिर्देशः कर्तव्य इति पूवतन्त्रे नवमे स्थितत्वात् वस्तुशब्दाभिप्रायेण नपुंसकलिङ्गनिर्देशोऽनुपपन्नः, किन्तु "अन्योऽन्तर आत्मा विज्ञानमयः' इत्यात्मशब्देन प्राङ्#िनर्देशात् पुल्लिङ्गनिर्देश एवोचितः, अतो विज्ञानं यज्ञं तनुत इति नपुंसकविज्ञानशब्दे ज्ञप्तेः परामर्श इत्यभ्युपगमेपीत्यर्तः । तन्मयस्तद्विकार इति पदद्वयस्य प्रयोजनमाह - तन्मय इतीति । विरुद्धधर्माध्यासप्रतिपत्त्येति - विरुद्धधर्माश्रयत्वप्रतिपत्त्येत्यर्थः । सहेतुकमविरुद्धमिति - हेयप्रत्यनीकत्वदोषा-

1.1.13

श्रयत्वयोरविरोधसमर्थनं प्रथमशिरःपरिग्रहं हेतूपन्यासपूर्वकं परमुखेन शङ्कत इत्यर्थः । हेयसम्बन्धप्रतिभासो मिथ्यारूप इति-भाष्यं व्याचष्टे- हेयं दुःखं मिथ्याप्रतिभास इति । ननु प्रतिभासो मिथ्यारूप इत्ययुक्तम्, साक्षिरूपस्याविद्यावृत्तिरूपस्य वा स्वरू-पतस्सत्यत्वेन मिथ्यात्वाभावादित्याशङ्कयाह - भ्रान्तिज्ञानमिति । तत्कार्यदुःखप्रतिभासाश्रयत्वं चैव हि हेयसम्बन्धः इति भाष्य-मयुक्तम् तथा हि सति दुःखाश्रयात्वस्य हेयसमबन्धरूपत्वं न स्यादित्याशङ्कयात्रत्यस्यैवकारस्य हेयसम्बन्धत्वरूपविशेषणान्विततया

1.1.13

तदयोगव्यवच्छेदकत्वमेव नान्ययोगव्यवच्छेदकत्वमित्यभिप्रयन्नाह - न केवलं दुःखमेवेति । "क्षणिकस्य यागादेः श्रुतकालान्तर-भाविस्वर्गसाधनतोपपत्तये तावत्पर्यन्तस्थायी अपूर्वलक्षणो व्यापारः परिकल्प्यते, न तु विनष्टस्यासत एव यागस्य कार्यजनकत्वमिति वा तस्यैव फलपर्यन्तस्थायित्वमिति वा कल्प्यते तस्य सर्वप्रमाणविरुद्धत्वात्' इत्यपूर्वाधिकरणे निर्णीतत्वादिति भाष्याभिप्राय इत्यभिप्रयन्नाह - परिहरतीति । अप्राण्यं प्रसजेदित्यर्थ इति - काकदन्तमीमांसासदृश्यां कर्ममीमांसायां कस्याप्यप्रवृत्त्या मीमां-सारूपाङ्गसहकृतस्य च वेदस्याप्रत्यायकत्वात् प्रमितिजनकत्वरूपं प्रामाण्यं न स्यादित्यर्थः । तद्विषयान्तर्गतमिति । ज्ञानान्र्तगत-

1.1.13

त्वोक्तया विषयान्तर्गतत्वं लक्ष्यत इति भावः । सर्वमितिशेष इति - सर्वज्ञानविषयभूतवस्तुजातं सर्वं यद्येकज्ञानविषयान्तर्गतमित्यर्थः । न हि ज्ञातत्वविशिष्टकारेणेति - एकत्वावस्थस्यैव सर्वत्वाभावादिति भावः । सर्वत्वविशिष्टकारेणेति - सर्वत्मुत्पलमित्यादिग्रन्थस्य

सच्छब्दवाच्यस्य ब्राहृणः स्वव्यतिरिक्तनिमित्तान्तरानपेक्षत्वम्, सृष्टिकाले अहमेवानन्तस्थिरत्रसरूपेण "बहु स्याम्' इत्यनन्यसाधारण सङ्कल्पविशेषः, यथासंकल्पमनन्तविचित्रतत्त्वानां विलक्षणक्रमविशेषविशिष्टा सृष्टिः, समस्तेष्वचेतनेषु वस्तुषु स्वात्मकजीवानुप्रवेशेनैवानन्तनामरूपव्याकरणम्, स्वव्यतिरिक्तस्य समस्तस्य स्व-मूलत्वम्, स्वायतनत्वम्, स्वप्रवत्र्यत्वम्, स्वेनैव जीवनम्, स्वप्रतिष्ठत्वमित्याद्यनन्तविशेषाः शास्त्रैकसमधि-गम्याः प्रतिपादिताः । तत्सम्बन्धितया प्रकरणान्तरेष्वप्यहतपाप्मत्वादिनिरस्तनिखिलदोषतासर्वज्ञतासर्वेश्वर-त्वसत्यकामत्वसत्यसङ्कल्पत्वसर्वानन्दकरणनिरतिशयानन्दयोगादयः सकलेतरप्रमाणाविषयाः सहरुाशः प्रतिपादिताः । एवमनन्यगोचरानन्तविशेषविशिष्टप्रकृतब्राहृपरामर्शितच्छब्दस्य निर्विशेषवस्तुमात्रोपदेशप-रत्वम् असङ्गतत्वेनोन्मत्तप्रलपितायेत ।

त्वंपदञ्च संसारित्वविशिष्टजीववाचि । तस्यापि निर्विशेषस्वरूपोपस्थापनपरत्वे स्वार्थः परित्यक्तः स्यात् । निर्विशेषप्रकाशस्वरूपस्य च वस्तुनो ह्रविद्यया तिरोधानं स्वरूपनाशप्रसङ्गादिभिर्न संभवतीति पूर्वमेवोक्तम् । एवञ्च सति समानाधिकरणवृत्तयोः तत् त्वमिति द्वयोरपि पदयोर्मुख्यार्थपरित्यागेन लक्षणा च समाश्रयणीया ।

अथोच्यत - समानाधिकरणवृत्तानामेकार्थप्रतिपादनपरतया विशेषणांशे तात्पर्यासंभवादेव विशेषणनि-वृत्तेर्वस्तुमात्रैकत्वप्रतिपादनान्न लक्षणाप्रसङ्गः । यथा "नीलमुत्पलम्' इति पदद्वयस्य विशेष्यैकत्वप्रतिपादनपरत्वेन नील-त्वोतपलत्वरूपविशेषणद्वयं न विवक्ष्यते । तद्विवक्षायां हि नीलत्वविशिष्टाकारेणोत्पलत्वविशिष्टाकारस्यै-कत्वप्रतिपादनं प्रसज्येत । तत्तु न सम्भवति । न हि नैल्यविशिष्टाकारेण तद्वस्तूत्पलपदेन विशेष्यते, जाति-गुणयोरन्योन्यसमवायप्रसङ्गात् अतो नीलत्वोत्पलत्वोपलक्षितवस्त्वेकत्वमात्रं सामानाधिकरण्येन प्रतिपाद्यते । तथा "सोऽयं देवदत्तः' इत्यतीतकालविप्रकृष्टदेशविशिष्टस्य तेनैव रूपेण सन्निहितदेशवत्र्तमानकालविशिष्टतया प्रतिपादनानुपपत्तेरुभयदेशकालोपलक्षितस्वरूपमात्रैक्यं सामानाधिकरण्येन प्रतिपाद्यते । यद्यपि नीलमित्या-द्येकपदश्रवणे प्रतीयमानं विशेषणं सामानाधिकरण्यवेलायां विरोधान्न प्रतिपाद्यते । तथापि वाच्येऽर्थे प्रधानांशस्य प्रतिपादनान्न लक्षणा, अपि तु विशेषणांशस्याविवक्षामात्रम् । सर्वत्र सामानाधिकरण्यस्यैष

1.1.13

पक्षविषयसङ्ग्रहविधिविस्ताररूपत्वात्पौनरुक्तयशङ्कापि परिह्मता भवतीति भावः । भाष्ये-नहि नैल्यविशिष्टाकारेणेति । इदमुपलक्षणम्, नहि उत्पलत्वविशिष्टाकारेण तद्वस्तुनैल्येन विशेष्यते जातिगुणयोरन्योन्यसमवायप्रसङ्गादित्युत्तरभाष्यानुसारादिति द्रष्टव्यम् । विशेषणान्वये स्फुटेपीति -विशेषणान्वयेऽस्फुटतात्पर्यभावमुदाहरणमुक्तवा स्फुटतात्पर्यभावमुदाहरणान्तरमाहेति पर्यवसितोऽर्थः । तत्र विशेषणान्वयस्यास्फुटत्वादिति - एकस्मिन्नीलत्वदशायामेव उत्पलत्वान्वयादिति भावः । अशक्ये क्वचिद्य्वापाराभावादिति अशक्यविषयकव्यापारस्यैव लक्षणत्वात्, प्रकृते च तदभावान्न लक्षणेति भावः । अशक्यव्यापाराभावमेवोपपादयति - व्यापार-विषयांशेपीति । शक्ये व्यापाराभावादितिपाठे-शक्यैकदेशे क्वचिद्य्वापाराभावमात्रेण न शक्यांशेपि लक्षणेत्यर्थः । ननु नीलमुत्पल-

1.1.13

मानयेत्यत्र उत्पले नीलत्ववैशिष्टयप्रतीतिः न समानाधिकरणवाक्यायत्ता अपितु प्रत्यक्षादेवेतिशङ्कां व्युदसितुं भाष्यकृता विन्ध्या-टव्यामिति परोक्षोदाहरणमुपन्यस्तमित्यभिप्रयन्नाह - प्रत्यक्षविषयं परो - व्यावृत्तिपरत्वकल्पनं परस्यानुपपन्नमिति भावः ।

1.1.13

तदसंभवे व्युत्पत्त्यन्तरकल्पनमिति - शक्तयन्तरकल्पनमित्यर्थः । अनन्यलभ्यस्यैव शब्दार्थतया लक्षणादिलभ्ये शक्तेरकल्पनी-यत्वात्, अत एव गङ्गापदस्य न तीरे शक्तिः कल्प्यते, सैन्धवादौ तु शक्यसम्बन्धाभावान्नानाशक्तिमत्त्वमभ्युपेयत इति भावः । बाह्लीक इति - बाह्लीको नाम देशविशेषः । तत्स्थो जनो गोसदृश इत्यर्थः । विशेषणान्तरप्रतिसम्बन्धित्वाद्विलक्षणमित्यर्थ इति - विशेषणान्तरसमबन्धित्वाद्वयधिकरणमित्यर्तः । तेन धर्मवैलक्षण्येपि धर्मिभेदासिद्धेः नेदं परानिष्टमिति चोद्यं परास्तमिति वेदितव्यम् । केचित्तु विशेषणान्तरप्रतिसम्बन्धित्वादिति भाष्यस्य विशेषणान्तरेण प्रतिसम्बन्धित्वं यस्य स विशेषणान्तरप्रतिसम्बन्धित्वः,