भावविलासः
भावविलासः रुद्रः १९३२ |
न्यायवाचस्पतिश्रीरुद्रकविकृतो
भावविलासः।
यः फल्गूकृतफाल्गुनो रणभुवि प्रौढप्रतापानल-
ज्वालाभिः प्रतिपक्षपक्षविपिनश्रेणीर्ददाह क्षणात् ।
योऽभूद्भसुरभूरुहोऽत्र भगवदासो निवासः श्रियां
तस्मादाविरभूत्प्रभूतमहिमा श्रीमानसिंहो नृपः ॥ १ ॥
सङ्ग्रामोद्दामघामप्रतिभटपृतनाकण्ठरक्तोपरक्ता
येनाकीर्य खसेनाश्चतुरुदधिजलैः क्षालिता खड्गधारा ।
गाढं शस्त्राभिघातादरिमदकरिणां दानमाच्छिद्य सद्यो
हस्ते न्यस्तं च येन क्षपितरिपुकुले दक्षिणे दक्षिणेन ॥ २ ॥
तत्वद्भाघातजातव्यथरिपुवनितामुक्तवाष्पाम्बुधारा-
सारादारादुदारा दिशि दिशि सरितो नोद्भटाश्चेद्भवेयुः ।
कल्पान्तरसूरप्रकरविजयिनो विस्फुरत्तत्प्रतापा-
पारावारानपारानपि सपदि पराञ्छुप्यतः पूरयेत्कः ॥ ३ ॥
श्रीमाञ्छ्रीमानसिंहक्षितिपतिजलधेरुद्तो भावसिंहः
पूर्णः पीयूषभानुर्विलसति किरणध्वस्तदैन्यान्धकारः ।
स्फारस्फारस्तुषाराचलसुरतटिनीहंसहारानुकाराः
कीर्तिज्योत्स्नाः पिबन्ति प्रतिदिशमनिशं यस्य विद्वच्चकोराः ॥ ४॥
यस्य स्फारासिधाराहतिदलितमुजभ्रष्टखड्गप्रमुष्टि-
प्राच्योदीच्य[प्रतीच्या प्रभृतिनृपतिभिर्दर्शिता पृष्ठलक्ष्मीः ।
हर्श्हादुत्तंसयन्ते दिशि दिशि सुदृशो भूरिशो यस्य नित्यं
व्याकोशं कीर्तिपुष्पं चतुरुदधितटीवृक्षवाटीविलासि ॥ ५ ॥
रिङ्गतुङ्गतुरंगबन्धुरखुरक्षुण्णक्षमामण्डल-
क्षुभ्यद्भलिपरम्पराजलधरध्वस्तार्चिषि व्योमनि ।
दोष्णोर्यस्य करालकालरसनाकल्पा कृपाणीलता
विद्युद्वल्लिरिवानिशं प्रतिदिशं लोकैरलोकि प्रभोः ॥ ६ ॥
यद्गन्धद्विपदानवारिभिरभूत्सवामभूः पतिला
तस्यां वैरिकरीन्द्रमौक्तिकमयं बीजं च येनाहितम् ।
तस्मादाविरभूधशस्तरुरयं तखोदताः कोरका-
स्तारास्तेषु च पूर्णचन्द्रकपटादेकैक उज्जृम्भते ॥ ७ ॥
घूर्णन्ते तूर्णमेते कुलघरणिभृतो दिग्द्विपा दिग्विदिक्षु
क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमुदितो मर्मणा कूर्मराजः ।
प्रस्थाने यस्य गर्जत्करटिघनघटासंभ्रमन्यञ्चदुर्वी-
मूर्वी दीकरेन्द्रः कलयितुमदितश्वासमाति बिभर्ति ॥ ८॥
योऽसौ प्रत्यर्थिनारीनयनजलभरप्रोन्मिषनीरराशि-
प्रोन्मीलत्कीर्तिचन्द्रः क्षितिपकुलमणि नुवंशावतंसः ।
यद्दोरुद्दामचापध्वनिजनितरुषो जामदग्यस्य राम-
ज्यानिर्घोश्हभ्रमेण भ्रमति विचलितस्यारुणा दिक्षु दृष्टिः ॥९॥
खेलन्ती व्योमगर्भे दिशि विदिशि मुहुनिष्पतन्ती हरन्ती
शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं वर्धयन्ती ।
यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोपकण्ठं
प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमाविष्करोति ॥१०॥
यस्याग्निः कोपपुञ्ज्जे वसति खुरपुटे वाजिनां गन्धवाहो
लक्ष्मीः सलेहदृष्टौ कमठकुलमणेर्वाचि वाचामधीशा ।
रूक्षे कौक्षेयकाग्रे क्षपितरिपुगणे कोपनोऽसौ कृतान्तः
कस्तं श्रीभावसिंहं प्रबलमखभुजामाश्रयं नाश्रयेत ॥ ११ ॥
रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराञ्छिश्रिये
इयाङ्के कमलां निधाय विदधौ निदां हरिर्नीरघौ ।
यस्मिन्दित्सति भूरिदातरि नृणां भासस्थले दुर्लिपी-
ब्रीडानम्रशिराः कमण्डलुजलं जग्राह मार्ष्टुं विधिः ॥ १२ ॥
पादे करणमर्पयन्ति करयोमञ्जरीमातन्वते
काञ्चीदाम च कुर्वते कुचतटे हारानितम्धेषु च ।
नेपथ्यग्रहणे बताग्रजनुषामेणीशो भूरिशो
यस्मिन्दानगुरौ महीसुरतरौ विश्वंभरां बिभ्रति ।। १३ ॥
फूत्कारेण कुमूर्च्छितस्य कटुभिः कीटान्तराणां रवै-
र्बालानां रुदितारवैरपि च ये निन्युर्विनिद्रा निशाः ।
यसिन्दातरि यापयन्ति त इमे हेषास्वनैहितै-
र्वामानां करकङ्कणध्वनिभिरप्युज्जागरा यामिनीः ॥ १४ ॥
यस्मिन्दित्सति दातरि द्विजनुषो दर्भाङ्कुराकर्षण-
क्रूरैः पाणितलैर्वधूस्तनतटे बध्नन्ति मुक्तालजः ।
शीतोष्णश्रमकर्कशैरतिकृशैरङ्गैः प्रियालिङ्गितैः
कान्ता रुक्मपरिच्छदाः शशिनिभाः शय्याः समध्यासते॥१५॥
ऐश्वर्यं नहुषस्य विष्णुविषयश्रद्धाम्बरीषस्य सा
पाण्डित्यं धनुषश्च पाण्डुजनुषो गाम्भीर्यमम्मोनिधेः
दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा
तस्य श्रीयुतभावसिंहनृपतेः साम्यं समुन्मीलतु ॥ १६॥
काव्यालापकलाकलापकलनावैदग्ध्यदीक्षागुरो-
भूमीकल्पतरोरशेषजनतासंगीतकीतैरिह ।
तस्याज्ञामधिगत्य यः कविकुलानन्दाय संपादितः
संदर्भस्तममत्सराः कृतधियः कुर्वन्तु कर्णातिथिम् ॥ १७ ॥
जिह्मो लोकः कथयति पुरो हन्त हित्वा गुणौघा-
नम्भः क्षारं गुणगणनिधेस्तस्य रत्नाकरस्य ।
विष्वक्छिद्रानुसरणसमारूढसर्वेन्द्रियाणां
दोषे दृष्टिः पिशुनमनसां नानुरागो गुणेषु ।। १८ ॥
गुणिनां गुणेषु सत्वपि पिशुनजनो दोषमात्रमादत्ते ।
कुसुमे फले विरागी क्रमेलकः कण्टकौघमिव ॥ १९ ॥
सुजनानामपि हृदयं पिशुनपरिष्वङ्गमलिनमिह भवति ।
पवनः परागवाही रथ्यासङ्गे रजस्वलो भवति ॥ २० ॥
लोक एष गतलोचनत्रपः कस्य वा न विवृणोति वाच्यताम् ।
लोचनोत्सवमशेषजीवनं यत्कलङ्कयति चन्द्रमण्डलम् ॥ २१ ॥
पिशुन समारोहसि किं सुजनसमाजानमीष्टसौजन्यः ।
करटोऽपि किं नु लभते कलकण्ठपदं रसालमौलिगतः ॥ २२॥
द्विरदरदनप्रौढाघातान्न तादृशसंभ्रमः
परशुपतनादस्य त्रासो न हन्त तथाविधः ।
अयमविरतं क्रोडे क्रीडन्हताशहुताशनो
दलयति यथा मर्मात्यर्थं तरोन तथापरः ॥ २३ ॥
आपातमलिनिमासौ सहृदयहृदये न दोषाय ।
अङ्गारयोगजन्मा निसर्गशुद्धे यथा स्फटिके ॥ २४ ॥
केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तौ
विश्वं तोयैः नपयितुमसौ केन वा वारिवाहः ।
विश्वानन्दोपचयचतुरो दुर्जनानां दुरापः
श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्गः ॥ २५ ॥
कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगर्भः करैः
कस्माद्वा जलधारयैष धरणिं धाराधरः सिञ्चति ।
भ्रामं भ्राममयं च नन्दयति वा कस्मात्रिलोकी रविः
साधूनां हिं परोपकारकरणे नोपाध्यपेक्षं मनः ॥ २६ ॥
तोयानामधिपतिराकरो मणीनां शैलानामभयपदं महान्महद्भयः ।
अग्राह्यो भवसि यदि त्वमेव तावत्को नु स्याज्जगति तदा जनावलम्बः ॥२७॥
कुम्भोद्भवस्य करपुष्करकोषकोणे
पाथोनिधौ विधिवशाद्विपदं प्रयाते ।
ये दुर्लभाखिदिवलोकविलासिनीनां
ते पङ्कसीमनि महामणयो लुठन्ति ॥२८॥
गरलं यदि जलराशेरिदमुत्पन्नं किमेतेन ।
तेनैवास्य तु महिमा यदभूत्पीयूषपारिजातादि ॥ २९ ॥
पीयूषपारिजाताद्याः के नाभूवन्पयोनिधेः ।
रतैरेव तथाप्येष रत्नाकरपदं गतः ॥ ३० ॥
गुणिनः क इव विशेषो गुणरहिते जननि निरणायि ।
येन विहाय गुणाश्रयमगुणे गाढानुरागासि ॥ ३१ ॥
हरिभामिनि सिन्धुसंभवे कमले किं कथयामि ते गुणान् ।
अनुरज्यसि हा जडे जने गुणगौरे पुरुषे विरज्यसि ॥ ३२ ।।
मधूके माध्वीकं पिबसि शतपत्रेऽभिरमसे
मधूलीपालीभिर्मधुप सहकारे विहरसि ।
वसन्ते वासन्तीमधु मधुरमनासि बहुशो
दुरावेशोऽयं ते तदपि कुटजे यद्विचरसि ॥ ३३ ॥
मंधूलीमन्विप्यन्मलयपचनान्दोलितदले
मुधा मुग्धः कुन्दस्तबकनिकुरम्बे विचरसि ।
ततः कान्तादन्तच्छदनवसुधासारमधुरे
बधान प्रेमाणं मधुकर नवाम्भोजमधुनि ॥ ३४ ॥
निःशङ्कं गजपतिगण्डदानधारामाराध्य भ्रमर दिनान्यमून्यनैषीः ।
यावन्न स्फुरति करालकर्णतालस्तावत्त्वं नवनलिनीवनीमुपेयाः ॥ ३५ ॥
मधु नवसुधास्वादं तावन्निपाय्य निरन्तरं
निशि निशि निजकोडे कामं ययासि निवेशितः ।
स्मरसि किमु तामेतामद्य त्वदेकपरायणां
भ्रमर नलिनी दिक्षु भ्राम्यंल्लताशतलम्पटः ॥ ३६ ॥
इह रूपमात्रसारे चित्रकृते कनककहारे ।
न रसो नापि च गन्धो मधुकर बन्धो मुधा नमसि ॥ ३७ ॥
न चेतश्चाम्पेयस्तवकनिकुरम्बेऽभिरमते
समुत्कण्ठा काचिन्न च विकच'नागमुकुले ।
न मल्लीवल्लीनामपि मधुनि वाञ्छा मधुलिहः
समाघातो नूनं यदवधि लवङ्गीपरिमलः ॥ ३८ ॥
भ्रम खैरं भ्रातर्घमर नवंयूथीषु बहुशो
मधूलीमन्विष्यन्कुमुदवनवीथीषु विचर ।
वसन्तमारम्भस्फुरितमधुसंभारसुभगो
न ते विस्मर्तव्यः क्वचन सहकारव्यतिकरः ॥ ३९ ॥
आस्वाद्यत्र मधूनि षट्पद मदं मा गाः कषायाङ्कुरै-
र्माकन्देन पिकान्प्रतारितवता मूर्धानमध्यासितः ।
प्रत्यासन्नतमे पिकेऽपि भवते येनार्पिता तादृशी
माध्वी तस्य विवेकविच्युतिरियं साद्गुण्यमेतन्न ते ॥ ४० ॥
नीरजान्यपि निषेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि ।
चञ्चलत्वमिह चञ्चरीक ते साहजं कथमिदं विमोक्ष्यसि ॥ ४१ ॥
पीतमत्र मधु यापिता क्षपा भृङ्ग सर्वमचिरेण विस्मृतम् ।
हीयमानसुषमा हिमागमे पद्मिनी यदिह नावलोकसे ॥ ४२ ॥
एणीदृशः श्रवणसीम्नि यदानयन्ति
तेनैव तस्य महिमा नवचम्पकस्य ।
त्वं तत्र नो विहरसे यदि भृङ्ग तेन
नैतस्य किंचिदपि तत्तु तवैव हानिः ॥ ४३ ॥
गलितानि मधूनि सर्वतो विनिकीर्णानि दलानि मारुतैः ।
अधुनापि न हन्त माधवीं मधुपैनामिह नाम मुञ्चसि ॥ ४४ ॥
उपानीतं दूरात्परिमलमुपाघ्राय मरुता
समायासीदस्मिन्मधुरमधुलोभान्मधुकरः ।
परो दूरे लाभः कुपितफणिनश्चन्दनतरोः
पुनर्जीवन्यायाद्यदि तदिह लाभोऽयमतुलः ॥ १५॥
भ्रातर्भ्राम्य लवङ्गवल्लिषु पिब स्वैरं नवाम्भोरुहे
माध्वी माधविकामधूनि मधुराण्याकण्ठमाखादय ।
कस्मादापतितोऽसि केतकमिदं यस्मिन्नुदीर्ण रजो
दृष्टिं लुम्पति सूचयः प्रवितताः कृन्तन्ति मर्माण्यपि ॥ ४६॥
सहसा समये समीयुषो रुचितामङ्गविशेषशून्ययोः ।
इह षट्पदपङ्कजन्मनो मनोग्लानिरसावुपैष्यति ॥४७॥
नालिङ्गिता नवलवङ्गलता न चापि
संभाविता विटपिनः कलगुञ्जितेन ।
आसादिता सपदि काचन रीतिरन्या
माकन्दकोरकमुदीक्ष्य मधुव्रतेन ॥ १८॥
किं न पश्यसि महेन्द्रदिखे शीतदीधितिरसावुदश्चति ।
मीलितैव नलिनीह मा कृथास्तन्मधुव्रत मुधा गतागतम् ॥ १९॥
कुन्दकुमलमुपास्यतां त्वया यत्र शीतसमयोऽतिवाहितः ।
चञ्चरीक परिहीणसौरभा रोचते न भवते सरोजिनी ॥ ५० ॥
अये मधुप मा कृथा बत वृथा मनोदीनतां
तुषारसमये लताशतनिषेवणव्याकुलः ।
इयं पुरत एव ते सरसंपुष्पमासोदये
रसालनवमञ्जरीमधुझरी जरीजृम्भते ॥ ५१ ॥
चञ्चरीक चतुरोऽसि चन्द्रिकावैमवे कुमुदिनी निषेवसे ।
भास्करे जयति पुष्करे करैरुन्मिषन्नवदलेऽनुरज्यसि ॥ ५२ ॥
इतो वसन्तहेमन्तद्वैराज्यादिव दुर्मनाः ।
न कुन्दे नापि माकन्दे पदं बध्नाति षट्पदः ॥ ५३ ॥
मा गाः खेदं कमल किरणैरेष पीयूषगर्भः
प्रालेयांशुर्यदिह कुमुदामोदमाविष्करोति ।
नानुग्राह्यं यदसि महतामीदृशानामयं ते
मन्ये कालादिह परिणतः प्राक्तनो दुर्विपाकः ॥ ५४ ॥
यावत्त्वां न खलु हसन्ति कैरविण्यो यावत्वां तरणिकराः परामृशन्ति ।
यावत्ते मधुविभवो नवोऽस्ति तावन्माध्वीकं वितर सरोज षट्पदेभ्यः ॥ ५५ ॥
रुचिरतिरुचिरा शुचित्वमुच्चैः शिरसि धृतः खयमेव शंकरेण ।
कमलिनि मलिनीकरोषि कस्मान्मुखमिदमिन्दुमुदीक्ष्य लोककान्तम् ।। ५६ ॥
नलिनि निपुणतां वदामि किं ते भ्रमरविलासविशेषलालसायाः ।
त्रिभुवननयनोत्सवं यदिन्दं न नयसि हन्त दृगन्तवम॑सीमाम् ॥ ५७ ॥
न कुले नापि च शीले न चापि रूपेऽस्ति कश्चिदुत्कर्षः ।
यत्पुष्णासि मिलिन्दानरविन्द महत्त्वमेतत्ते ॥ ५८ ॥
वैदग्ध्यं मृगलाञ्छनस्य मनसो निर्माति मे न व्यथां
नो दुये चिरलालिता मधुलिहः सर्पन्ति यन्नान्तिकम् ।
जल्पन्तीव दुरक्षराणि मधुपश्रेणीध्वनिच्छद्मना
यत्कादम्ब कुमुदती हसति मां तन्मे मनस्ताम्यति ॥ ५९॥
मरन्दलोभान्न मिलिन्दमाला भेजे न बाला श्रवणे निनाय |
हा हन्त नालीकमिदं दुरन्तपालेयपाली कवलीचकार ।। ६० ॥
एकस्मिञ्जनिरावयोः समजनि खच्छे सरोवारिणि
भ्रातः किं च सहैव कानिचिदहान्यत्र व्यतीतानि नौ ।
लब्धं तामरस त्वया मृगदृशां कर्णावतंसास्पदं
शेवालं विलुठामि पामरवधूपादाहते पाथसि ॥ ६१ ॥
विभ्रम्य काननमसौ दिवसावसाने
त्वय्येव षट्पदयुवा हृदयं बबन्ध ।
राजीव चेन्मलिनिमानमुरीकरोषि
कः स्यादहो मधुलिहामधुनावलम्बः ॥ १२ ॥
मिलसि मनोज्ञे मनसा मालति मलिनेन वारिवाहेण ।
कुसुमाकरे विरज्यसि मुग्धे वैदग्ध्यमीदृशं कस्मात् ॥ ६३ ॥
सौरभ्येण समावृणोषि ककुभः पुष्णासि पुष्पंधयां-
ल्लूतातन्तुवृतस्तथापि कियतीस्त्वं यापयेर्यामिनीः ।
अस्मिन्दाशपुरे पुरस्तत इतो विन्यस्तचित्रामिषे
मालाकारमृते लवङ्गि ललितान्कस्ते गुणाज्ञास्यति ॥ ६४ ॥
संदर्शयख मधुवैभवमस्ति यत्ते
रे कुन्द किं दुरभिमानमुरीकरोषि ।
एतन्न चेतसि करोषि सरोजबन्धुः
पुष्पंधयोऽपि मयि सौरभमातनोति ॥ ६५ ॥
एष षट्पदयुवा यदायताः कुन्द यापयति यामिनीस्त्वयि ।
दुर्वहा तदपि नापचीयते पद्मिनीविरह वेदना हृदि ॥ ६६ ॥
आखायैष कषायमङ्कुरमुरुप्रेमानुबद्धाशयो
माकन्दस्य यशांसि कोकिलयुवा निर्माति दिग्भित्तिषु ।
माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी
को ब्रूतामसतां सतां द्विजनुषां मर्मातिगं चेष्टितम् ॥ ६७ ॥
न पश्यति लवनिकां न च निषेवते मालती
रसाल रसिकस्तथा न नलिनीवनीमञ्चति ।
भवन्तमयमीहते मधुपलक्षपक्षानिलाः
क्षिपन्ति यदमुं जने जयति तत्तवैवायशः ॥ ६८ ॥
शश्वन्निसर्गमलिनाः सहकार काम
लुण्ठन्ति तान्यपि मधून्यहह द्विरेफाः ।
युक्तं न तत्तव कषायरसप्ररोहै-
रेतान्प्रतारयसि यत्कलकण्ठयूनः ॥ ६९ ॥
स्निग्याग्राः फलिनो दलत्परिमलैः पुष्पैर्मधुस्यन्दिनो
नानन्दाय भवन्ति किं वनभुवां भूमीरुहो भूरिशः।
माधुर्यं मधुनस्तवैव विदितं माकन्द मन्यामहे
माध्वीमर्मविदो दृढं मधुलिहः स्यूता यतो मर्मणि ॥ ७० ॥
विमुक्ता वासन्ती बकुलकुसुमे नापि मिलित
व्यलोकि व्याकोशः क्षणमपि न कोऽपि क्षितिरुहः ।
यमालोक्योत्कण्ठातरलमिह भृङ्गेन चलितं
विदूरान्माकन्दः स खलु दलितो यूथपतिना ॥ ७१ ॥
उन्मीलयन्ति कुसुमानि मनोरमाणि
के नाम नात्र तरवः समयोचितानि ।
कस्येदृशं कथय दोहदमस्ति तस्य
याग्विनिर्मितमशोकमहीरुहस्य ॥ ७२॥
दुदृत्तषट्पदघटाअविभवेन किं नु ।
वामभ्रुवां चरणताडनदोहदानि
किं नाम न स्मरसि तावदशोक तानि ॥ ७३ ॥
करट कलकण्ठशावकमेनं पुष्णासि किं मुधायासैः ।
अयमिह पुरा सपक्षः परिचयमपि ते न जानीते ॥ ७३ ॥
कलयसि मृणालकन्दं विहरसि बिसिनीदलेषु सानन्दम् ।
अयि राजहंस शंस त्यजसि मनोहारि कथमिदं वारि ॥ ७५ ॥
नेदं सरः सरसवारि न वारिजं वा
नैतन्मधूनि मधुपाः सहवासिनो वा ।
हेमारविन्दवनवासविलासभाजो
रे हंस मानसजुषस्तव मानसेऽपि ॥ ७६ ॥
अत्र स्नातमिहोपभुक्तममलं भूयो मृणालीदलं
याभ्यां शश्वदिहान्वभूयत सुखं कल्लोलहिन्दोलजम् ।
कष्टं तावशनिध्वनिप्रणयिभिः प्रौढानिलास्फालितैः
स्फाराम्भोधरमण्डलैविघटितौ चक्राङ्गचक्राह्वयौ ॥ ७७ ॥
दूरादेष निशां निरस्य ककुभामुन्मूल्य गाढं तमः
प्रेमाणं युवयोर्व्यनक्ति तरणिर्विश्लेषदुःखं नुदन् ।
एतस्याङ्ग स्थाङ्ग चण्डमहसो मा गाः समीपं ब्रज-
प्रीति हास्यसि निष्पतिष्यसि पुनर्निर्दग्धपक्षः क्षणात् ॥ ७८॥
आयातैव विभावरी विभजते नो निर्दयोऽयं विधिः
स्रतापाङ्गि स्थाङ्गि पश्यसि मुधा चित्तव्यथां मा कृथाः ।
दैवं संप्रति गर्हयाव बहुशो निर्माय येनावयो-
गांद प्रेम विनिर्मितः प्रतिनिशं विच्छेदखेदो महान् ॥ ७९ ॥
कूपेऽम्भांसि पिबन्तु कूपरसिका वापीषु वापीजुषो
नादेयाश्च पतत्रिणोऽपि नितरामास्वादयन्तां पयः ।
सारङ्गस्य नभोनिवेशितदृशः किं तेन यावन्मही-
मम्भोभिः नपयन्नसावुदयते न प्रावृषेण्यो घनः ।। ८० ॥
तापं लुम्पसि सर्वतो वितनुषे मुक्ताफलं शुक्तिषु
क्षेत्रान्सिञ्चसि किं च पल्लवयसि श्रीखण्डमुख्यान्द्भुमान् ।
क्षारं क्षारमिदं जलं जलनिधेरादाय जीमूत हे
विश्वं जीवयसि ब्रवीतु जगति प्रौढोऽपि कस्ते गुणान् ॥ ८१॥
ऊपरेषु विवरेषु चाम्भसां वीचयोऽपि भवता प्रवर्तिताः ।
क्षेत्रसीम्नि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ॥ ८२॥
संपादिताः सपदि दर्दुरदीर्घनादा
यत्कोकिलाकलरुतानि निराकृतानि ।
निष्पीतमम्बु लवणं न तु देवनद्याः
पर्जन्य तेन भवता न कृतो विवेकः ॥ ८३ ॥
यत्तादृशेषु नलिनेषु न पक्षपातो
जातो बत स्फुटमसौ कुटजानुरागः ।
विश्वैकजीवनपटोरपि वारिवाह
दुर्वारवायुवशगस्य न तद्विचित्रम् ॥ ८४ ॥
नैवामी प्रभवन्ति चातकतृषाविच्छेदसंपत्तये
प्रागल्भ्यं दधते न हन्त हरितां संतापशान्तावपि ।
प्रक्षामास्तरणित्विषोऽपि न तिरोधातुं समर्थाः पुनः
क्षुद्राः पिच्छिलयन्ति केवलमपां लेशैः पथस्तोयदाः ॥ ८५ ॥
उद्दामामणिमयूखमूच्छितानामेतेषामहह महीरुहामिह स्यात् ।
आलम्बः क इव दिवं भुवं पयोभिः सिञ्चन्तं जगति विहाय वारिवाहम् ॥ ८६ ॥
संतापं जगतो विलुम्पसि धरां धाराभिरासिञ्चसि
क्षेत्राण्यङ्कुरयस्यमून्मुकुलयस्यबाय नीपद्रुमान् ।
सारङ्गस्य नभोनिवेशितदृशश्चञ्चूपुटीपूरणे
वैमुख्यं व्रजसि त्वमम्बुद यदि प्रत्येतु को नाम तत् ॥ ८७ ॥
तानि तानि कमलानि तज्जलं तानि षट्पदकुलानि ते खगाः।
सर्वमेकपद एव विच्युतं पङ्कशेषमचिरादभूत्सरः ॥ ८८ ॥
नावों न च तरलास्तरङ्गमाला नेदानी जलरयजा रवाः करालाः ।
सैव त्वं तटिनिद्रुमान्निपात्य प्रौढानामपयशसामिहासि पात्रम् ॥ ८९ ॥
वापी कापि कदापि न श्रुतिचरी को वेद कीदृक्सरो
व्योमाम्भोजवनीव नात्र तटिनी कैर्नाम न ज्ञायते ।
हंहो पान्थ दुरन्तसाहसभरेणेहागतं चेन्मरौ
मण्डूकाकुलपङ्कसंकुलतलादन्धोः कबन्धं पिब ॥९० ॥
मूलं कूलमहीरुजां विरुजति क्लिश्नाति तुङ्गास्तटी-
विश्लेषं च रथाङ्गयोर्वितनुते राजीविनीः कर्षति ।
श्यामाः शैवलवल्लरीवितुदते मनाति वीचीः क्षणा-
त्किं तद्यन्न करोति मारुतवशादम्भोधरः प्रावृषि ॥ ९१ ॥
राजीविनीविपिनसौरभसारगन्धि
योऽभूद्बसन्तदिवसेषु जनैकबन्धुः ।
रथ्यारजांसि विकिरन्विरुजन्नगेन्द्रा-
नुन्मत्तवद्रमति पश्यत सोऽद्य वायुः ॥ ९२ ॥
गन्धवाह गह्नानि गाहसे गन्धजातमिह संचिनोषि च ।
नैपुणच्युतिरियं च तावकी यन्न तत्र सदसद्विवेचनम् ॥ ९३ ॥
निधेः कलानामपि रीतिरेषा मर्माणि मे संस्पृशतीव भूयः ।
कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु ॥ ९४ ॥
रञ्जिता न ककुभो निवेशिता नार्चिषो बत चकोरचञ्चुषु ।
कष्टमिन्दुरुदयन्निपीयते दारुणेन तमसा बलीयसा ॥ ९५ ॥
लक्ष्मीकेलिगृहे कुशेशयदृशां पाणिद्युतिद्रोहिणि
श्यामासूक्तसुधासहोदरमधुप्रस्सन्दसंदोहिनि ।
जीवातुस्त्रिदिवौकसां त्रिजगतामाप्यायनं चन्द्रम-
स्त्वं चेदम्बुरुहे न रज्यसि गुणश्लाघा तदस्तं गता ॥ ९६ ॥
श्रेयान्विधोर्बहुलपक्षपरिक्षयोऽपि
नो पूर्णतापि जलधैरिह वर्णनीया ।
यद्वारि न स्पृशति हन्त पृथग्जनोऽपि
यस्यामृतैर्मखभुजोऽपि मुदं भजन्ते ॥ ९७ ॥
आरोपितः शिरसि यः स्वयमीश्वरेण
सिक्तः सदैव सुरशैवलिनीजलेन ।
न क्षामतां तदपि मुञ्चति सोऽयमिन्दु-
रेतद्व्यनक्ति दुरतिक्रममेव दैवम् ॥ ९८ ॥
इन्दोनिन्दतु नाम धाम नलिनी निन्दन्तु चक्राहृया
नैवानेन सुधाकरस्य सुषमा हानिर्न वा दुर्यशः ।
एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते
यज्योत्स्नासु चिरं चकोरपरिषच्चञ्चूपुटं न्यस्यति ॥ ९९ ॥
या महेशशिरसो विभूषणं या त्रिलोकजनलोचनोत्सवः ।
सेयमिन्दुकलिका दिनागमे तापिता कमिव नातितापयेत् ॥ १०० ॥
उत्साहं वनितासखेषु विरहग्लानेषु दैन्यं शशी
शोकं कोककुटुम्बिनीषु दिशति क्षेमं चकोरीषु च ।
लक्ष्मी लुम्पति पङ्कजस्य कुमुदामोदाय संपद्यते
तद्बीजं ध्रुवमत्र पूर्वविहितं द्वेषस्य रागस्य च ॥ १०१ ॥
धुनोति ध्वान्तानि व्यपनयति नीहारपटलं
कुलं राजीवानां दलयति रथाङ्गं रमयति ।
जगद्व्यापी देवो जनयति जनानां च नयनं
न याति स्थेमानं यदि तदिह दैवं जयतु कः ॥ १०२ ॥
अरविन्दानि विन्दन्ति व्यथा विरहतो रवः ।
तेषां विरहतस्तस्य न जाने कीदृगन्तरम् ॥ १०३ ॥
येन शैशवपदे मदेभराङ्गण्डसीम नखरैर्विखण्डितम् ।
यौवनोत्सवमवाप्य केसरी केषु दर्शयतु सोऽद्य पौरुषम् ॥ १०४ ॥
भूमिपालभवने स केसरी पअरे स्फुरति रुद्धपौरुषः ।
उन्मिपत्सु करटेषु कुम्भिनां कः करोति करजार्पणोत्सवम् ॥ १०५ ॥
एतस्य केसरिपतगिरिकाननानि
तानि स्मरन्ति परमस्य पराक्रमस्य ।
अद्यातिदुर्वहजरा विकलस्य को नु
प्रत्येतु तानि चरितानि चिरंतनानि ॥ १०६ ॥
मग्नं मत्तैः सरसि करिभिर्विद्रुतं द्वीपिमुख्यै-
र्लीनं कुञ्जे शबरपतिभिर्मूर्छितं रङ्कयूथैः ।
आकार्ण्योच्चैरिह मृगपतेर्जुम्भमाणस्य नादा-
न्कैः कैः किं किं न खलु चकितैः काननेऽस्मिन्नकारि ॥ १०७ ॥
स्वैरं सैरिभयूथपैरिह सरः शृङ्गेण विक्षोभितं
तावन्यङ्कुकुलं च हुंकृतितर्विद्द्रावितं द्वीपिभिः ।
हेलाक्षिप्तपदे पराक्रमनिघावुज्जृम्भमाणे हरौ
चित्रं सैव तदैव चित्रलिखितेवासीदरण्यस्थली ॥ १०८ ॥
माद्यत्कुञ्जरकुम्भकूटविगलन्मुक्तावदातान्तराः
किंचित्कोपकषायितेन मनसा येनाद्विपादाः कृताः ।
सोऽयं संप्रति दूषिकाकुलदृशा कष्टां दशामागतः
सिंहः पांसुभिरेणशावकखुरोन्मुक्तैः समाकीर्यते ॥ १०९ ॥
गर्भान्हठेन दलयन्ति करेणुकानां
गण्डूषयन्ति गजगण्डतटीमदाम्भः ।
यद्गर्जितानि जरया मुषितः स एव
कण्ठीरवः परिभवं सहते मृगेभ्यः ॥ ११० ॥
मीलितेक्षणयुगं विगाहसे वारणेन्द्र गहनं न वीक्षसे ।
अन्तिके तृणविमुद्रिताननः कूप एष खलु दुस्तरस्तव ॥ १११ ॥
शैवलानि शिरसा प्रतीच्छतः पद्भिरेव कमलानि लुम्पतः ।
स्वैरिणस्तव सरोविहारिणो वारणेन्द्र विदितो न वो नयः ॥ ११२ ॥
नैवावासमहीरुहं विरयल्लीलासरो न त्यज-
विश्लिष्यन्न करेणुकाभिरभितः श्लिष्यन्न वा कण्टकान् ।
एवं नाम विदूयते मरुमहीमासाद्य मध्यंदिने
संतप्तः कलभैर्यथा करिपतिः कान्तारगस्ताम्यति ॥ ११३ ॥
न स्वां करेणुमपि नापि निजान्किशोरा-
नात्मानमेष परिशोचति वारणेन्द्रः ।
दावाग्निमनतनुरत्र यथोपसन्ना-
न्दानार्थिनो मधुकरानधिरूढभावान् ॥ ११४ ॥
हेलाकुड्मलितेक्षणेन करटं कण्डूयतोन्मूलिताः
शाखाचुम्बितचन्द्रबिम्बवपुषो भूमीरुहो भूरिशः।
छिन्ना कुम्भविघट्टितैर्गिरितटी येनाद्य माद्यन्बला-
देरण्डे स कथं हि गण्डमिभराट् कण्डूयितुं काङ्क्षतु ॥ ११५ ॥
रे यूथनाथ गहनानि विगाहमानो
मनासि पादपशतानि भिनत्सि शैलान् ।
किं पौरुषाणि न वदामि हरेः परोक्षं
किं तत्समक्षमथ तानि पलायितानि ॥ ११६ ॥
लीयन्तां मशकास्तृणेषु विहगा गुच्छेषु गुल्मेषु वा
वल्लीषु भ्रमराः क्षुपेषु सृमराः श्वभ्रेषु च श्वापदाः ।
मध्येऽह्नि द्युमणौ महांसि खदिराङ्गारोपमान्युत्किर-
त्युत्तप्तस्य मरौ परं करिपतेर्नास्त्येव विश्रामभूः ॥ ११७ ॥
सरसि न सहसा विनिष्पतेस्त्वं बहिरमलं कलयन्विसारि वारि ।
द्विरदपरिवृढ प्ररूढपङ्के कति करिणोऽत्र मदालसा न मनाः ॥ ११८॥
आधोरणेन सुतरां च निपीडितोऽसि
धिक्छृङ्खलामपि हठादिह लम्भितोऽसि
श्वभ्रोदरे कलमलुब्धमना निपत्य
रे यूथनाथ सहसे बहुयन्त्रणानि ॥ ११९ ॥
साधो किमाधोरण यूथनाथमङ्गुष्ठकेनातितरां दुनोषि ।
नो चेदयं वेद निजानुभावं तज्ज्ञस्य ते कर्तुमिदं न युक्तम् ॥ १२०॥
तीर्णः कथं वनकिरातशराभिपाता-
न्मुक्तः कथं कथमपि क्षुधितात्तरक्षोः ।
दुर्दैववैभववशान्मृगशावकोऽय-
मुद्दामदावदहने गहने निममः ॥ १२१ ॥
कस्तूरिकाहरिण मुञ्च वनोपकण्ठं
मा सौरभेण ककुभः सुरभीकुरुष्व ।
आस्तां यशो ननु किरातशराभिपाता-
त्रातापि हन्त भविता भवतो दुरापः ॥ १२२ ॥
विलपति तनुते गतागतानि स्पृहयति न व्यथिता कुशाङ्कुरेभ्यः ।
अचकमत निरीक्ष्य रुद्धमेणी हरिणमरुंतुदजालबन्धनानि ॥ १२३ ॥
त्वरितेन तरक्षुदर्शनान्निजशावोऽपि मनाङ् न वीक्षितः ।
अधुना हरिणीषु हन्त ते वलते कोऽपि कुरङ्ग विक्रमः ॥ १२४ ॥
कुरु कुञ्चितचिल्लि पामराणां न समाजे सरसानि कौशलानि ।
स्फुटदर्शनमत्र दृग्विलासो न तु वैदग्ध्यमतिस्फुटैव वाणी ॥ १२५ ॥
सूर्याचन्द्रमसौ घनैरतिघनैरेतौ विलुप्तद्युती
स्वच्छन्दं मलिनाः परं जलमुचो वर्षन्ति गर्जन्ति च ।
तुल्या एव सरित्समुद्रसरसीकुल्या बभूवुः क्षणा-
त्कालः क्रीडति कौतुकं विरचयन्कस्मै किमाचक्ष्महे ॥ १२६ ॥
अतुलरूपगुणोचितयोगयोः कमलिनीशशिनोरसमागमात् ।
अपयशो विधिना निजमर्जितं विनिहिता च जनस्य हृदि व्यथा ॥१२७॥
परेषु लोकेषु विचिन्त्य याचनां परोऽपि को नाम न यातु नम्रताम् ।
त्रिलोकनाथोऽपि यया दुरन्तया हठादयं वामनतामनीयत ॥ १२८ ॥
लभते लघुरप्येष सपक्षो लक्षमाशुगः ।
पक्षहीनतया हन्त न धनुर्गुणवानपि ॥ १२९ ॥
मणिरयमनुष्ण इति ते मनसीलायामुदेतु नाश्वासः ।
अचिरेण तरणिकिरणव्यतिकरमात्रेण दुन्दहीत्येषः ॥ १३० ॥
घनपांसुविधूसरांशुराशि मणे तापयसे मुधावधान ।
अधिचत्वरवीथि पामरीणाममरीदुर्लभ कस्तव प्रकारः ॥ १३१ ॥
दीर्णोऽसि चेत्कनकसूत्रनिवेशनाय
मुक्ताकलाप किमतो भवतो विषादः ।
यत्पञ्चबाणजयमङ्गलहेमकुम्भे
कुम्भस्तनीस्तनतटे भवितानुषङ्गः ॥ १३२ ॥
येनाकारि महीभृतामविरतं कण्ठेषु लीलायितं
येन प्रापि सरोजसुन्दरदृशां तुङ्गस्तनालिङ्गनम् ।
जातं येन गजेन्द्रगण्डयुगले साधारणं गुञ्जया
मुक्तादाम तदेव पामरपुरे नावाप कां कां दशाम् ॥ १३३ ॥
अन्यापदेशविनिवेशविदग्धबुद्धि-
श्रीभावसिंहनरसिंहनियोगयोगात् ।
संपादितो विविधभावविकासभाजां
प्रीत्यै भृशं भवतु भावविलास एषः ।। १३४ ॥
सद्गुणानां समुद्रेण रुद्रेण ग्रथिता गुणैः ।
कण्ठस्था श्लोकमालेयं केषां न कुरुते श्रियम् ॥ १३५ ॥
विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् ।
काव्यालापविदग्धानां मुदं निर्मातु निर्मितिः ॥ १३६ ॥
इति विद्याविलाससूनुन्यायवाचस्पतिश्रीरुद्रकविकृतो भावविलासः समाप्तः ।