भाषावृत्तिः/प्रथमोऽध्यायः/प्रथमः पादः
भाषावृत्तिः प्रथमः पादः पुरुषोत्तमदेव |
द्वितीयः पादः → |
ॐ
महामहोपाध्यायश्रीपुरुषोत्तमदेवकृता भाषावृत्ति:
नमो बुद्धाय, भाषायां यथात्रिमुनिलक्षणम्।
पुरुषोत्तमदेवेन लध्वी वृत्तिर्विधीयते ।।
अथ शब्दानुशासनम्। लौकिकानाम्। प्रकृतिप्रत्ययविभागपरिकल्पनया सामान्यविशेषवता च लक्षणेन। गत्यन्तराभावात्। वर्णानामुपदेशः क्रमान्निवेशानुबन्धासञ्ञ्जनार्थः। तदुभयं संज्ञार्थम्। संज्ञा च लाघवेन शास्त्रप्रवृत्त्यर्था। अकारस्य विवृतोपदेश आकारग्रहणार्थः।
अथ प्रत्याहारप्रकरणम्
1. अइउण्। 2. ऋऌक्। 3. एओङ्। ऐऔच्। 5. हयवरट्। 6. लण्। 7. ञमङणनम्। झभञ्। 6. घढधष्। 10. जबगडदश्। 11. खफछठथचटतव्। 12. कपय्। 13. शषसर्। 14. हल्। इति प्रत्याहारा:।
अकारादीनेतान् वर्णान् क्रमेणोपदिश्यान्ते णकारादीनित्संज्ञकाननुबध्नाति प्रत्याहारार्थम्। तत्र णकाद्यैश्चतुर्दशभिरनुबन्धैर्यथाक्रमम्---
एकं त्रीणि पुनश्चैकं चत्वार्येकं त्रयं त्रयम्।
एकं द्वे षट् तथैवैकं चतु: पञ्च षडेव च।। इति।
अण्। अक्, इक्, उक्। एङ्। अच्, इच्, एच्, ऐच्,। अट्। अण्, इण्, यण्। अम्, यम्, ङम्। यञ्। झष्, भष्। अश्, हश्, वश्, झश्, जश्, पुनर्बश्। छव्। यय्, मय्, झय्, खय्,। यर्, झर्, खर्, शर्। अल् हल्, वल्, रल्, झल्, शल्। इत्येकचत्वारिंशत् प्रत्याहारा भवन्ति। उरण् रपरः ( 1.1.51)। चयो द्वितीया: शरि पौष्करसादेः (8.4.48 वार्त्तिकम्), ञमन्ताड्डः (उणादि. 1.111) इत्येतैश्चतुश्चत्वारिंशदिति।
अथ प्रथमोऽध्यायः
-1-1-1- वृद्धिरादैच् ।।
आद् एकौरः औकारश्च वृद्धिसंज्ञकाः स्युः।
-1-1-2- अदेङ् गुणः ।।
अद् एकारः ओकारश्च गुणसंज्ञकाः स्युः।
-1-1-3- इको गुणवृद्धी ।।
अनुक्तस्थाने ये गुणवृद्धी ते इक एव स्थाने वेदितव्ये। सार्वधातुकार्धधातुकयो: (7-3-84) इत्यङ्गस्य गुणो भवति। चेता, होता, स्तोता, भविता, तरिता। सिचि वृद्धि: परस्मैपदेषु (7-2-1) । अचैषीत् अहौषीत्, अस्तावीत्, अलावीत्, अकार्षीत्।
कथं द्यौः, पन्थाः, स: ? गुणवृद्धिशब्देन अनभिधानात्।
-1-1-4- न धातुलोप आर्धधातुके ।।
धात्वेकदेशो धातुः। धातुलोपनिमित्ते आर्धधातुके ये गुणवृद्धी प्राप्नुतः ते न स्तः। लोलुवः। पोपुवः। मरीमृजः। पचाद्यचि यङो लुक्।
इक इत्येव। अभाजि। रागः।
-1-1-5- क्ङिति च ।।
किति ङिति च निमित्ते ये गुणवृद्धी प्राप्नुतः ते न स्तः। किति--चितम्। स्तुतम्। भुक्तम्। कृतम्। सृष्टः। ङिति--चिनुतः, चिन्वन्ति। कुरुत: कुर्वन्ति। मृष्टः। मृजन्ति। ममृजुः।
कथं मार्जन्ति, ममार्जु ? मृजेरजादौ संक्रमे विभाषा वृद्धिरिष्यते।व्यवस्थितविभाषया नित्यम् -- तुन्दपरिमृजः।
-1-1-6- दीधीवेवीटाम् ।।
दीधीवेव्यौ छान्दसौ। इटो गुणो न स्यात्। अकणिषम्। अरणिषम। लुङि मिपि लघूपधगुणोऽत्र (7.3.86) निषिद्धः।
-1-1-7- हलोऽनन्तराः संयोगः ।।
संलग्ना हलः संयोगः इत्युच्यन्ते। अग्निरिति गनौ। स्त्रीति सतराः।
-1-1-8- मुखनासिकावचनोऽनुनासिकः ।।
मुखसहितया नासिकया यो वर्ण उच्चार्यते सोऽनुनासिकसंज्ञकः स्यात्। अँ। आँ। ओं। ङञणनमाः। दधिं।
-1-1-9- तुल्यास्यप्रयत्नं सवर्णम् ।।
तुल्यमास्यं ताल्वादिस्थानं प्रयत्नः स्पृष्टतादिश्च येषां तेऽन्योन्यं सवर्णसंज्ञकाः स्युः। वर्ग्यों र्वर्ग्येण सवर्णः। अचः सस्थानाः। अनुस्वारस्य ययि परसवर्णः (8.4.58)। शङ्किता। कुण्डिता। अकः सवर्णे दीर्घः (6.1.101)। दण्डाग्रम्। खट्वाग्रम्।
(क) ऋकारलृकारयोः सवर्णसंज्ञा वक्तव्या।
होतृ लृकारो होतॄकारः। लृकारो दीर्घो नास्तीति ऋकार:।
-1-1-10- नाज्झलौ ।।
अज्हलौ परस्परं सवर्णसंज्ञकौ न स्तः। दण्डहस्तः। दधि शीतम्। वैपाशी मत्स्यः। आनडुहं चर्म। यस्येति चेति (6.4.148) लोपो न भवति।
-1-1-11- ईदूदेद् द्विवचनं प्रगृह्यम् ।।
ईदूदेकारान्तं द्विवचनं प्रगृह्यसंज्ञं स्यात्। अग्नी इमौ। वायू अत्र। खट्वे इह। पचेते इह। मणीवादीनां प्रतिषेधो वक्तव्य इत्येके। इवार्थे वकारोऽयमित्यन्ये। मणीव। दम्पतीव।
-1-1-12- अदसो मात् ।।
अदसो मकारात् परमीदूदेत् प्रगृह्यसंज्ञं स्यात्। अमी अत्र। अमू आसाते। मादिति किम् ? अमुकेऽत्र। अदसः किम् ? शम्यत्र।
1-1-13- शे
शे इति सूत्रं छन्दोभागः सुपामादेशः (7.1.39)।
-1-1-14- निपात एकाजनाङ् ।।
एको योऽज् निपातः स प्रगृह्यसंज्ञकः स्यात्। अ अपकर्ष। उ उत्तिष्ठ। आ एवं मन्यसे। आ एवं किलैतत्। अनाङ किम् ? आ उष्णमोष्णम्।
ईषदर्थे क्रियायोगे मर्यादाभिविधौ च य:।
एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित् ।। 1 ।।
-1-1-15- ओत् ।।
ओदन्तो यो निपातः स प्रगृह्यसंज्ञः स्यात्। अहो अहम्। उताहो इति।
-1-1-16- सम्बुद्धौ शाकल्यस्येतावनार्षे ।।
सम्बुद्धावोदन्तं शाकल्यस्य मतेन प्रगृह्यसंज्ञं स्यादितौ परे। भानो इति। अन्येषां भानविति।
सम्बुद्धौ किम् ? गवित्ययमाह। अनार्ष इत्येकवृत्तावुपयुक्तम्।
-1-1-17- उञः ।।
उञ् इतौ शाकल्यस्य मतेन प्रगृह्यसंज्ञः स्यात्। उ इति। अन्येषां विति।
-1-1-18- ऊँ ।।
उञ इतौ ऊँ चादिश्यते शाकल्यस्य मतेन। ऊँ इति। उइति। अन्येषां विति।
-1-1-19- ईदूतौ च सप्तम्यर्थे ।।
ईदूतौ चेति सूत्रंञ्छन्दोभाग:। उक्तं प्रगृह्यम् ।।
-1-1-20- दाधा ध्वदाप् ।।
दाञ्दाण्दोदेङो धाञ् धेटौ च घुसंज्ञकाः स्युः। प्रणिददाति। प्रणिदधाति।
अदाबिति किम् ? दाब्दैपो र्मा भूत्। दातं धान्यम्। अवदातं वस्त्रम्।
-1-1-21- आद्यन्तवदेकस्मिन् ।
असहाये आद्यन्तवत् कार्यमतिदिश्यते। वलादेरिट्। अलाविषुः। अजादावियङुवङौ। श्रियौ। भ्रुवौ। अन्तवत्त्वेऽजन्ताद् यत्। अध्येयम्। व्यपदेशिवदेकस्मिन्निति वक्तव्यम् । एकाचो द्वे प्रथमस्येति (6.1.1) बहुव्रीहिं वक्ष्यति। स यथेह जजागार तथा इयाय। आर। आदेशप्रत्यययोरिति (8.3.59) षत्वं वक्ष्यति। यथेह पक्ष्यति, तथाऽपाक्षीत्।
-1-1-22- तरप्तमपौ घः।
एतौ घसंज्ञकौ स्याताम्। कुमारितरा। कुमारितमा। गौरितमा। घरूपेति (6.3.43) ह्रस्वः।
-1-1-23- बहुगणवतुडति संख्या ।
बहुगणौ प्रचुराथौ। वतुडती प्रत्ययौ। एते संख्यासंज्ञा: स्यु:। बहुकृत्वः। गणकृत्वः। गणशः। तावत्कृत्वः। कतिधा।
-1-1-24- ष्णान्ता षट् ।
-1-1-25- डति च ।
षकारनकारान्ता संख्या डतिप्रत्ययान्ता च षट्संज्ञा स्यात्। षट् सन्ति पश्य वा। पञ्च सप्त नव दश पुरुषा:। एकादश। अष्टादश। कति सन्ति। कति पश्य। षड्भ्यो लुगिति (7.1.22) जश्श सो र्लुक्।
-1-1-26- क्तक्तवतू निष्ठा ।
एतौ निष्ठेत्युच्येते। भिन्नः । भिन्नवान्।
-1-1-27- सर्वादीनि सर्वनामानि ।
सर्वप्रभृतीनि सर्वनामसंज्ञकानि स्युः। सर्वस्मै। सर्वस्मात्। विश्वस्मै। विश्वस्मात्। उभशब्दो नित्यद्विवचनटाब्विषयः। उभयोऽन्यत्र। डतर डतम इतर अन्य अन्यतर। अन्यपर्यायस्त्वत् त्व। नेम--अर्द्धपर्यायो नेमभिन्नः। सम सिम पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व अन्तर् त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम्।
-1-1-28- विभाषा दिक्समासे बहुव्रीहौ ।
दिग्बहुव्रीहौ सर्वनामसंज्ञा वा स्यात्। उत्तरपूर्वस्यै। उत्तरपूर्वायै।
-1-1-29- न बहुव्रीहौ ।
बहुव्रीहौ सा संज्ञा नास्ति। प्रियविश्वाय देहि। स्मैभावो न भवति। त्वत्कपितृकः। मत्कपितृकः।
कुत्साद्यर्थे प्राक् टेरकज् न भवति। प्रागिवात् कः एव भवति।
-1-1-30- तृतीयासमासे ।
अत्र सर्वनामसंज्ञा नास्ति। मासपूर्वाय देहि। पुन: समासग्रहणाद् वाक्येऽपि। मासेन पूर्वाय।
-1-1-31- द्वन्द्वे च ।
द्वन्द्वे सा संज्ञा नास्ति। पूर्वापराणाम्। कतरकतमानाम्।
-1-1-32- विभाषा जसि ।
द्वन्द्वे जसि सा संज्ञा वा स्यात्। कतरकतमे। कतरकतमाः।
-1-1-33- प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ।
एते जसि वा सर्वनामानि स्यु:। प्रथमे प्रथमा:। चरमे चरमा:। तयप्। द्वितये द्वितयाः। द्वये द्वयाः। अल्पे अल्पाः इत्यादि।
-1-1-34- पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ।
इमानि जसि वा सर्वनामानि स्युः। पूर्वे पूर्वाः। परे पराः। व्यवस्थायां किम् ? दक्षिणाश्छात्राः। प्रवीणा इत्यर्थ:। असंज्ञायां किम् ? उत्तराः कुरवः।
-1-1-35- स्वमज्ञातिधनाख्यायाम् ।
जसि स्वं वा सर्वनाम स्यात्। स्वे गावः। स्वा गावः। अज्ञातिधनाख्यायां किम् ? स्वा ज्ञातयः। प्रभूता: स्वा दीयन्ते।
-1-1-36- अन्तरं बहिर्योगोपसंव्यानयोः ।
अन्तरं जसि वा सर्वनामसंज्ञं स्यात्। बहिर्योगे। अन्तरे अन्तरा वा गृहाः। ग्रामबाह्या इत्यर्थ:। उपसंव्यानमधोवस्त्रम्। अन्तरे अन्तरा वा शाटकाः। परिधेया इत्यर्थ:।
(क) अपुरीति वक्तव्यम् । अन्तरायां पुरि वसति। सर्वादित्वात् प्राप्तेः।
(ख) वाप्रकरणे तीयस्य ङित्सूपसंख्यानं कर्तव्यम्। द्वितीयस्मै द्वितीयाय।
-1-1-37- स्वरादिनिपातमव्ययम् ।
स्वरादयो निपाताश्चाव्ययमित्युच्यन्ते। स्वर्। प्रातर्। अन्तर्। उच्चैस्। नीचैस्। दिवा। बहिस्। स्वयम्। मृषा। हे। है। स्वाहा। स्वधा। अद्धा। कम्। शम्। सार्द्धम्। समम्। सह। शुभम्। स्वस्ति। अस्ति। आभीक्ष्ण्ये निपाताः। च। वा। इव। वै। एव। इह। इति। इह स्वरादयो वाचकाश्चादयोः द्योतका इति भेदः।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।।
1-1-38 तद्धितश्चासर्वविभक्तिः।
सर्वा विभक्तिर्यतो नोत्पद्यते स तद्धितोऽव्ययं स्यात्। तत:। यत्र। विना। नाना। तसिलादिरेधाच्पर्यन्त:। कृत्वसुच् सुचौ। शस् तसी। डाच्। थमुथालौ। दार्हिलौ। च्व्यर्था:। किमेत्तिङ्व्ययघादाम्वद्रव्यप्रकर्षे (5.4.11) किन्तराम्। वतिः। ब्राह्यणवत्।
-1-1-39- कृन् मेजन्तः ।
मान्तः कृदव्ययं स्यात्। कर्तुम्। स्वादुङ्कारम्। स्वपोषम् पुष्टः। इर्हाञ्चक्रे। एजन्तः कृच्छान्दसः।
-1-1-40- क्त्वातोसुन्क्वसुनः ।
क्त्वान्तमव्ययं स्यात्। कृत्वा। प्रकृत्य। तोसुन्कसुनौ छान्दसौ।
-1-1-41- अव्ययीभावश्च ।
अव्ययीभावो नाम समासः अव्ययं स्यात्। उपाग्नि प्रत्यग्नि। इह लुगेव संज्ञाप्रयोजनम्। नाकजादिरिति स्मृतिः। उक्तमव्ययम् ।
-1-1-42- शि सर्वनामस्थानम् ।
-1-1-43- सुडनपुंसकस्य ।
जश्शसो: शिः (7.1.20) अनपुंसकस्य सुट् च सर्वनामस्थानमुच्यते। शि। कुण्डानि। दधीनि। सुट्। राजा। राजानौ। राजानः। राजानम्। राजानौ। सीमा। सीमानौ। अनपुं सकस्य किम् ? सामनी। धामनी।
-1-1-44- नवेति विभाषा ।
नवाशब्दयोः अर्थः विभाषासंज्ञः स्यात्। निषेधेन समीकृते विषये विकल्पः प्रवर्त्तते। उभयत्रविभाषा प्रयोजनम्। यथा विभाषा श्वे: (6.1.30) सम्प्रसारणम्।शुशाव। शिश्वाय। शुशुवतुः शिश्वियतुः।
-1-1-45- इग् यण: सम्प्रसारणम् ।।
यण: स्थाने भूतो भावी वा यः इक् स सम्प्रसारणम् उच्यते। इष्टम्। उप्तम्। गृहीतम्। औह्यत। औयत। अथ षष्ठीनिर्देशमधिकृत्याहः --
-1-1-46- आद्यन्तौ टकितौ ।
षष्ठीनिर्दिष्टस्य आदिः टिद् भवति। अन्तः किद् भवति। लविता। भीषयते।
-1-1-47- मिदचोऽन्त्यात् परः ।
अचां मध्येऽन्त्यादचः परो मिद् भवति। पयांसि। सिञ्चति। रुणाद्धि। (क) मस्जेरन्त्यात् पूर्वं नुममिच्छन्ति।। (1) अनुषङ्गसंयोगादिलोपार्थम्। मङ्क्ता। मग्नः।
-1-1-48- एच इग् घ्रस्वादेशे ।
एच: स्थाने ह्रस्वादेश इगेव भवति। अतिरि कुलम्। अतिनु कुलम्। उपगु।
-1-1-49- षष्ठी स्थानेयोगा ।
अयोगा अव्यक्तसम्बन्धा षष्ठी स्थाने वेदितव्या। अस्तेर्भृः (2.4.52) भविता। ब्रुवो वचिः (2.4.53) वक्ता। अयोगा किम् ? ऊदुपधाया गोहः---उपगूहयति। निगूहयति।
-1-1-50- स्थानेऽन्तरतम: ।
स्थाने प्राप्यमाणानां सदृशतम आदेशः स्यात्। अकः सवर्णे दीर्घः (6.1.101) लताग्रम्। कण्ठ्ययोः कण्ठ्य एव दीर्घः। अर्थतः। तरुणयुवतिः। तरुण्यर्थ एव पुंवदुच्यते। गुणतः--पाकस्त्यागो रोगः। अल्पप्राणयोरघोषघोषवतोस्तादृगेव कुत्वम्। प्रमाणतः। अमुष्मै। अमूभ्याम्। ह्रस्वदीर्घयो स्तत्प्रमाण एवोकार ऊकारश्च स्यात्। स्थानग्रहणं स्थानार्थगुणप्रमाणेषु स्थानान्तर्यं बलीयो यथा स्यात्। चेता स्तोता। प्रमाणान्तर्यादकारो मा भूत्। तमब्ग्रहणं बहुष्वन्तरेष्वन्तरतमो यथा स्यात्। वाग्घसति। त्रिष्टुब् भसति।
-1-1-51- उरण् रपरः ।
ऋवर्णस्य स्थानेऽण् रपरो भूत्वा प्रसजति। कर्त्ता। किरति। द्वैमातुरः। कारकः। खर्ट्वश्यः। तवल्कारः।
-1-1-52- अलोऽन्त्यस्य ।
आदेशोऽन्तस्यालः स्थाने वेदितव्यः। इद् गोण्याः (1.2.50) पञ्चगोणिः। हनस्त च (3.1.108)। ब्रह्महत्या। राज्ञ: क च (4.2.140) राजकीयः। रुहः पः (7.3.43) रोपयाति।
-1-1-53- ङिच्च ।
ङिच्चादेशोऽन्त्यस्यालः स्थाने स्यात्। आनङृतो द्वन्द्वे (6.3.25)। मातापितरौ। अनङ् सौ (7.1.93)। सखा। कर्त्ता। तातङो ङित्त्वसार्मथ्यान् नायमन्तविधिः स्मृतः। कुरुतात्।
-1-1-54- आदे: परस्य ।
परस्य कार्यमुच्यमानमादेरलः प्रत्येतव्यं यत्र पञ्चमीनिर्द्देशः। ईदासः (7.2.83) आसीनः। अलोऽन्त्यस्या (1.2.52) पवादोऽयं योगः परत्वादनेकाल्शिदित्यनेन (1.1.55) बाध्यते। अतो भिस ऐस् (7.1.9)। वृक्षैः।
-1-1-55- अनेकाल्शित् सर्वस्य ।।
अनेकालादेश: शिच्च सर्वस्यैव स्थाने स्यात्। अस्तेर्भूः (2.4.52)। भविता। लिट स्तझयोरेशिरेच् (3.4.81)। पेचे पेचिरे। जश्शसोः शिः (7.1.20) कुण्डानि। उक्ताः षष्ठीनिर्देशा:।
-1-1-56- स्थानिवदादेशोऽनल्विधौ ।।
आदेशाः स्थानिवद् भवन्ति। ब्रूञ्। वक्ता। वक्तुम्। वक्तव्यम्। धातोरिति (3.1.91) तव्यदादयः। आवधिष्ट। आङो यमहन इत्यात्मनेपदम् (1.3.28)। अनल्विधौ किम् ? वर्णविधौ मा भूत्। द्यौः पन्थाः सः। हलिति (6.1.68) न सुलोप:।
(क) आहिभुवोरीट्प्रतिषेधो वक्तव्यः। आत्थ। अभूत्। ब्रुव ईडिति। (7.3.93) अस्तिसिचोऽपृक्त इति (7.3.96) च मा भूत्।
-1-1-57- अचः परस्मिन् पूर्वविधौ ।।
अल्विध्यर्थोऽयमारम्भः, नियमार्थो वा। अजादेशः परनिमित्तकः पूर्वस्मिन् विधौ कर्त्तव्ये स्थानिवत्
स्यात्। पटयति। लघयति। अवधीत्। टिलोपस्यातो लोपस्य च स्थानिवद्भावाद् वृद्धि र्न भवति।
-1-1-58- न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु।।
एषु विधिष्वजादेशो न स्थानिवत्। पदान्ते कौ स्तः। आवादेशः स्यात्। द्विर्वचने दध्यत्र मध्वत्र। अनचि चेति (8.4.47) द्विर्वचनं न स्यात्। वरे वरच्यतो लोपे (6.4.48) यायावर:। आतो लोप इटि चेति (6.4.64) स्यात्। सवर्णविधौ---श्नसोरल्लोपः (6.4.111)। शिण्टि पिण्टि। अनुस्वारस्य ययि परसवर्णो (8.4.58) न स्यात्। अनुस्वारे शिंषन्ति। पिंषन्ति। नश्चापदान्तस्य झलीत्यनुस्वारो (8.3.24) न स्यात्। जश्विधौ। अभ्यस्तस्याकारलोपः। धद्ध्वे। धद्ध्वम्। जश्त्वं न स्यात्। चर्विधौ। गमहनेत्युपधालोपः (6.4.48)। जक्षतु। जक्षुः। खरि चेति (8.4.55) चर्त्वं न स्यात्। अतः स्थानिवत्त्वं निषिध्यते।
(क) स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्।
तत्रेह स्वरो नोदाह्रियते। दीर्घविधौ।अल्लोपोऽनः (6.4.134) प्रतिदीवा। हलि चेति (8.2.77) दीर्घो न स्यात्। यलोपे क्तिच्यतो लोप: (6.4.48)। कण्डूतिः। वलि यलोपो न स्यात्। लोपः किम् ? वाय्वोः। यणादेशः स्थानिवदेव। अतो वलि यलोपो न भवति।
(ख)। क्विलुगुपधात्वचङ्परनिर्ह्रसिकुत्वषत्वेषु न स्थानिवत्।।
लावयतेः पावयतेश्च क्विप्। लौः। पौः। क्वौ लुप्तं न स्थानिवदिति णिलोपस्य स्थानिवत्त्वनिषेधादूठ्। लुकि--आमलकं फलम्। मयट्। फले लुक् (4.3.163)। लुक् तद्धितलुकीति (1.2.49) स्त्रीप्रत्ययनिवृत्तौ तस्य स्थानिवत्त्वनिषेधाद् यस्येति चेति (6.4.148) लोपो न भवति। उपधात्वे---पारिखीयम्। चातुरर्थिकाणन्ताद् यस्येति चेति (6.4.148) लोपस्य स्थानिवत्त्वात् खोपधाच्छः (4.2.141)। चङ्परह्रस्वत्वे। अवीवदद् वीणां परिवादकेन। प्रथमस्य णिचोऽस्थानिवत्त्वाण् णौ चङीति (7.4.1) ह्रस्वत्वम्। एवं पापच्यतेः पापक्तिः। पाचयतेः पाक्तिः। यायज्यतेर्यायष्टिः। याजयतेः---र्याष्टिरिति अल्लोपणिलोपयोः स्थानिवत्त्वनिषेधाज् झलीति कुत्वषत्वे भवतः।
-1-1-59- द्विर्वचनेऽचि ।।
द्विर्वचननिमित्तेऽच्यजादेशः स्थानिवद् भवति। स्थानिरूपेणावतिष्ठते। क्व ? द्विर्वचन एव कर्त्तव्ये। कृते द्विर्वचने पुनरादेशरूपं नटवद् गृह्णाति। पपतुः, पपुः। जघ्नतु र्जध्नुः। जक्षतु जक्षुः। अतो लोपस्य (6.4.148) गमहनेत्युपधालोपस्य (6.4.98) च स्थानिवत्त्वादेकाचो द्विर्वचनं सिध्यति। निनाय लुलाव। आयावो: स्थानिवत्त्वान् नैलौशब्दौ द्विरुच्येते। अचोति किम् ? जेघ्रीयते। यङीत्त्वं न स्थानिवत्। उक्तः स्थानिवद्भावः ।
-1-1-60- अदर्शनं लोपः ।।
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्। राजा। भवान्। पचेरन्।
-1-1-61- प्रत्ययस्य लुक्श्लुलुपः ।।
प्रत्ययादर्शनस्य तद्भावितस्य संज्ञात्रयं स्यात्। अदिप्रभृतिभ्यः शपः (2.4.72) अत्ति। जुहोत्यादिभ्य: श्लुः (2.4.75)। जुहोति। जनपदे लुप् (4.2.81) अङ्गा वङ्गा:। द्व्यङ्मगधेत्यण् (4.1.171)।
-1-1-62- प्रत्ययलोपे प्रत्ययलक्षणम् ।
लुप्तेऽपि प्रत्यये तद्धेतुकं कार्यं स्यात्। गोमान्। सर्वनामस्थाने नुम्। अहन्। अग्निचित्। अधोक्। सुप्तिङन्तं पदम् (1.4.14)। अतृणेट्। हलादौ तृणह इमितीम् (7.3.92)। इह प्रत्ययस्ये त्यनुवृत्तौ पुन: प्रत्ययग्रहणं कृत्स्नप्रत्ययलोपे यथा स्यात्। प्रत्ययैकदेशलोपे मा भूत्। आघ्नीयेत्यत्र सीयुट्सकारकलोपे प्रत्ययलक्षणाभावाज् झलादित्वं नास्तीत्यनुनासिकलोपो न स्यात्। तल्लक्षणमिति च वाच्ये पुन: प्रत्ययग्रहणं वर्णाश्रयनिवृत्त्यर्थम्। तेन गवे हितं गोहितम्। राय: कुलं रैकुलमिति। अची ति प्रत्ययलक्षणाभावाद् वर्णाश्रया अवादयो न भवन्ति।
-1-1-63- न लुमताङ्गस्य ।।
लुक्श्लुलुप्शब्दैर्लृप्तेऽङ्गस्य तत् कार्यं न स्यात्। मृष्टः। जुहुतः। गर्गाः। शपि यञि च गुणवृद्धी न भवतः। राजपुरुषः। ङसो भत्वं न भवति। अहर्ददाति। अहर्भुङक्ते। रोऽसुपीति (8.2.69) प्रतिषेधो न भवति। अङ्गस्य किम् ? पञ्च। साम। पयः। समुदायस्य पदत्वं भवत्येव।
(क) उत्तरपदत्वे चापदादिविधौ प्रतृययलक्षणं नास्तीति परमवाचौ परमश्वलिहौ परमगोदुहौ परमदण्डिनौ। समासेऽन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदत्वे कुत्वढत्वघत्वनलोपाः प्राप्ता न स्युः। अपदादिविधौ किम् ? दधिसेचौ। मधुसेचौ। सात्पदाद्यो: (8.3.111) रिति षत्वनिषेधो भवत्येव। सेचयतीति सेक्।
-1-1-64- अचोऽन्त्यादि टि ।
अचां सन्निविष्टानां मध्येऽन्त्यो योऽच् तदादि टिसंज्ञं स्यात्। आताम्। आथाम्। आम्शब्दः। पटत्। दमत्। अच्छब्दः। पचे पचेते इत्यत्रान्तादिवत्त्वं व्यपदेशिवद्भावात्।
-1-1-65- अलोऽन्त्यात् पूर्व उपधा ।
उपान्त्यो वर्ण उपधोच्यते। पाचकः। शिष्टः। भेत्ता। नर्त्तकः।
-1-1-66- तस्मिन्निति निर्दिष्टे पूर्वस्य ।
सप्तम्या निर्दिष्टे पूर्वस्य कार्यं स्यात्। दध्युदकम्। मध्विदम्।
-1-1-67- तस्मादित्युत्तरस्य ।
पञ्चम्या निर्दिष्टे परस्य कार्यं स्यात्। पदात् पदस्य। ग्रामो वः। पुत्रो नः। न पूर्वस्य। युष्माकं ग्रामः। अस्माकं पुत्रः।
-1-1-68- स्वं रूपं शब्दस्याशब्दसंज्ञा ।
शास्त्रे शब्दस्य स्वं रूपं ग्राह्यम्। नार्थः। अग्नेर्ढक् (4.2.33) आग्नेयम्। पावकादेर्न भवति। राज्ञः क च (4.2.140)। राजकीयः। नृपादेर्न भवति। अशब्दसंज्ञा किम् ? टि घु घ:। अर्थ एव गृह्यते। इह तु विभाषा वृक्षमृगेति (2.4.12) प्लक्षन्यग्रोधं रुरुपृषतं स्वे पुष: (3.4.40) स्वपोषं रैपोषं गोपोषमित्यादौ विशेषग्रहणे पर्यायग्रहणे च यत्न आस्थेयः।
-1-1-69- अणुदित् सवर्णस्य चाप्रत्ययः ।
अण् उदिच्च गृह्यमाणः सवर्णस्य स्वरूपस्य च ग्राहक: स्यात्। अस्य च्वौ (7.4.32) । खट्वीस्यात्। यस्येति च (6.4.148) चौङिः। स्वरूपस्य च शुक्लीकरोति। दाक्षिः। उदित् कु चु टु तु पु। अप्रत्ययः किम् ? सनाशंसभिक्ष उः (3.2.168)। अ सांप्रतिके (4.3.9)। इह प्रतीयते विधीयते भाव्यत इति प्रत्यय:। तन्निषेधाद् भाव्यमाणोऽण् सवर्णान् न गृह्णातीत्ययमर्थ इत्याहुः। तेन इदम इश् (5.3.3) अम् सम्बुद्धौ (7.1.99) वलादेरित्यादौ (7.2.35) च सवर्णाग्रहणम्।
-1-1-70- तपरस्तत्कालस्य ।
तपरो वर्ण आत्मना तुल्यकालं ग्राहयति। अतो भिस ऐस्। (7.1.9) वृक्षै:। नेह--खट्वाभि:। ऋत इद् धातो: (7.1.100)। किरति। गिरति।
-1-1-71- आदिरन्त्येन सहेता ।
आदिर्वर्णोऽन्त्येनेता इत्संज्ञकेन सह मिलितो मध्यपतितानां वर्णानां ग्राहकः स्यात् स्वरूपस्य च। अण्। अक्। हल्। अच्। सुप्। तिङ्। सुट्। आप्। तृन्। कृञ्।
-1-1-72- येन विधिस्तदन्तस्य ।
येन विशेषणेन विधिरुच्यते स तदन्तस्य ग्राहकः स्यात्। एरच् (3.3.56)। इकारेण धातोरज्विधिरितीकारस्तदन्तं ग्राहयति। चयो, जय:।
(क) यस्मिन् विधिस्तदादावल्ग्रहणे । अचीत्यजादावियङुवङौ। श्रियौ। भ्रुवः।
उक्तं ग्रहणकशास्रम् ।।
-1-1-73- वृद्धिर्यस्याचामादिस्तद् वृद्धम् ।।
अचां मध्ये यस्यादिर्वृद्धिस्तद् वृद्धसंज्ञं स्यात्। वृद्धाच्छः (4.2.114)। पाणिनीयम्। शैवीयम्। वौद्धीयं मतम्।
(क) वा नामधेयस्य वृद्धसंज्ञा वक्तव्या। देवदत्तीयाश्छात्रा दैवदत्ता वा।
(ख) गोत्रान्तादसमस्तवत् प्रत्ययो वक्तव्यः ।। वृद्धभारद्वाजीयाः। वृद्धकाश्यपीयाः। अजातौल्वलीयाः।
-1-1-74- त्यदादीनि च ।
त्यदादीनि वृद्धसंज्ञकानि स्युः। तदीयम्। इदमीयम्। अदसीयम्। युष्मदीयम्। मदीयम्। अस्मदीयम्। किमीयम्।
-1-1-75- एङ् प्राचां देशे ।
एङ् यस्याचामादिस्तद्वृद्धसंज्ञं स्यात् प्राग्देशे। एणीपचनीयो ग्रामः। भोजकटीयो देशः। देशे किम् ? गोमत्यां भवा गौमता मत्स्याः।
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
।।प्रथमाध्यायस्य प्रथमः पादः ।।1।1।।
।।समाप्तश्च प्रथमपादः ।।