भाषावृत्तिः/सप्तमोऽध्यायः/चतुर्थः पादः

← तृतीयः पादः भाषावृत्तिः
चतुर्थः पादः
पुरुषोत्तमदेव

-7-4-1- णौ चङ्युपधाया ह्वस्वः ।।
चङ्परे णावङ्गस्योपधाया ह्रस्वः स्यात्। अचीकरत्। अपीपचत्। मा भवानटिटत्। अत्र ह्रस्वत्वे कृते द्विरुक्तरिष्टा।
उपधायाः किम् ? अचकाङ्क्षत्। अववाङ्क्षत्।
-7-4-2- नाग्लोपिशास्वृदिताम् ।
उपधाया एषां णौ चङि ह्रस्वो नास्ति। अग्लोपिनाम्--मालामाख्यात् अममालत्। भोगिनमाख्यत् अबुभोगत्। क्ष्माभृतमाख्यत् अचक्ष्माभृतत्। शासेः--अशशासत्। ऋदिताम्--बाधृ--अबबाधत। याचृ--अययाचत्। ढौकृ--अडुढौकत्।
-7-4-3- भ्राज्भासभाषदीपजीवमीलपीडामन्यतरस्याम् ।।
एषां णौ चङि ह्रस्वो वा स्यात्। अबभ्राजत्, अबिभ्रजद्वा। अबभासत्, अबीभसद्वा। अबभाषत्, अबीभषद्वा। न्यमीमिलत्, न्यमिमीलद्वा न्यमिमीलदब्जनयनं नलिनी। सवितेवोदमीमिलत्। अदीदिपत्, अदिदीपद्वा। अजीजिवित्, अजिजीवद्वा। अपीपिडत्, अपिपीडद् वा।
। काण्यादीनां च ।। अचकाणत्, अचाकण्द्वा। कणरणवणभणः काण्यदयः।
-7-4-4- लोपः पिबतेरीच्चाभ्यासस्य ।।
णौ चङि पिबतेरुपधाया लोपः स्यादीच्चाभ्यासस्य। अपीप्यत्। ते मुहूर्त्तमथ मूर्त्तमपीप्यन्।
[508]
-7-4-5- तिष्ठतेरित् ।।
चङ्युपधाया तिष्ठतेरित् स्यात्। अतिष्ठिपत्।
-7-4-6- जिघ्रतेर्वा ।।
चङि उपधाया इद् वा स्यात्। अजिघ्रिपत्, अजिघ्रपत्।
-7-4-7- उर्ऋत् ।।
चङि ऋवर्णस्योपधाया ऋद्वा स्यात्। इररारामपवादः। अचकीर्त्तत्,
अचीकृतद् वा। अववर्त्तत्, अवीवृतद् वा। अममार्जत्, अमीमृजद वा।
-7-4-8- नित्यं छन्दसि ।।
छन्दः सूत्रमेककम्।
-7-4-9- दयतेर्दिगिलिट ।।
देङि लिटि दिग्यादेशः स्यात्। अवदिग्यसेऽम्बरं नादः,
द्विरुक्तिरत्र नेष्यते।
-7-4-10- ऋतश्च संयोगादेर्गृणः ।।
ऋदन्तस्य संयोगादेर्गुणः स्याल्लिटि निषेधविषये। सस्मरतुः। सस्मरुः। सस्मारेति पूर्वविप्रतिषेधेन गुणाद् वृद्धिरिष्टा।
संयोगादेः किम् ? चक्रतुः, चक्रुः।
। संयोगोपपधग्रहणं कर्त्तव्यम् ।। सञ्ञ्चस्करतुः। सञ्ञ्चस्करुः।
-7-4-11- ऋच्छत्यॄताम् ।।
ऋच्छति ऋऋतां लिटि गुणः स्यात्। आर्नच्छतुः, आनच्छुः। आरतुः, आरुः। ॠताम्--निचकरतुः, निचकरुः। निजगरतुः, निजगुरुः। तेरतुः, तेरुः।
-7-4-12- शॄदॄप्रां ह्वस्वो वा ।।
एषां पूर्वेण गुणे प्राप्ते लिटि ह्रस्वो वा स्यात्। विशशरतुः, विशश्रतु। विददरतुः, विदद्रतुर्वा। पपरतुः, पप्रतुर्वा।
-7-4-13- केऽणः ।।
कप्रत्ययेऽणो ह्रस्वः स्यात्। ज्ञका। कुमारिका। वधुका। नैषादकर्षुकः। ग्रामणिका।
अणः किम् ? गोका। नौका।
[509]
-7-4-14- न कपि ।।
कपि ह्रस्वो नास्ति। बहुकुमारीकः।
-7-4-15- आपोऽन्यतरस्याम् ।।
आबन्तस्य कपि ह्रस्वो वा स्यात्। बहुमालाकः, बहुमालको वा।
-7-4-16- ऋदृशोरङि गुणः ।।
अनयोरङि गुणः स्यात्। असरत्। आरत्। अदर्शत्। अजरत्। जरा।
-7-4-17- अस्यतेस्थुक् ।।
अस्यतेरङि थुगागमः स्यात्। निरास्थत्।
-7-4-18- श्वयतेरः ।।
श्वयतेरः स्यादङि। अश्वत्, अश्वताम्, अश्वन्।
-7-3-19- पत पुम् ।।
अङि पतेः पुमागमः स्यात्। अपप्तत्, अपप्तताम्।
-7-4-20- वच उम् ।।
वचेरुमागमः स्यादङि। अवोचत्। अवोचत। यदवोचस्तदवैमि कैतवम्।
-7-4-21- शीङः सार्वधातुके गुणः ।।
शीङोऽत्र गुणः स्यात्। शेते, शयाते, शेरते।
-7-4-22- अयङ् यि क्ङिति ।।
यकारादौ क्ङिति शीङोऽयङ् स्यात्। शय्यते। संशय्य। शय्या।
-7-4-23- उपसर्गाद्ध्रस्व ऊहतेः ।।
सोपसर्गस्योहतेर्ह्रस्वः स्याद् यादौ क्ङिति। अत्युह्यते समुह्यते।
अण इत्येव--आ ऊह्यते ओह्यते। प्रोह्यते। समोह्यते।
-7-4-24- एतेर्लिङि ।।
उपसर्गादाशीर्लिङि यादौ क्ङिति एतेर्ह्रस्वः। स्यात्। उदियात्। समियात्।
अण इत्येव--आअः इयात्उएयात्। समेयात्।
एतेः किम् ? प्रचीयात्। सञ्ञ्चीयात्।
-7-4-25- अकृत्सार्वधातुकयोर्दीर्घः ।।
अकृद्यकारे, असार्वधातुकयकारे चाणो दीर्घः स्यात्। श्येनायते। कण्डूयते। स्तूयते। असार्वधातुकयकारे--चीयात्। चीयासुः।
निषेधः किम्  ? विचित्य। प्रचित्य। चिनुयुः।
-7-4-26- च्वौ च ।।
च्वौ ह्रस्वो दीर्धः स्यात्। शुचीभवति। पटूकरोति।
-7-4-27- रीङ् ऋतः ।।
च्वौ अकृद्यकारेऽसार्वधातुकयकारे च ऋतां रीङादिश्यते। मात्रीभवति। चेक्रीयते। मात्रीयते। पित्र्यम्।
तपरः किम् ? चेकीर्यते। निजेगिल्यते।
-7-4-28- रिङ् शयग्लिङक्षु ।।
एषु ऋतां रिङादिश्यते। शः--आद्रियते। यक्--क्रियते। आशीर्लिङि--क्रियात्। क्रियादघानां मघवा विघातम्।
यीत्येव--कृषीष्ट। असार्वधातुक इत्येव--बिभृयात्।
-7-4-29- गुणोऽर्त्तिसंयोगाद्योः ।।
अर्त्तेः संयोगादेश्च ऋतो यकि लिङि च गुणः स्यात्। अर्यते। स्मर्यते। ध्वर्यते।
कथं संस्क्रियते ? कात्पूर्वग्रहणे सुटोऽभक्तत्वज्ञापनाद् परादित्वेनाङ्गस्यासंयोगादित्वात्। लिङि--अर्यात्। स्मर्यात्। ध्वर्यात्।
यीत्येव--स्मृषीष्ट। असार्वधातुक इत्येव--इयृयात्।
-7-4-30- यङि च ।।
यङि चार्त्तिसंयोगाद्योर्गृणः स्यात्। अरार्यते दिशः कीर्त्तिः। सास्मर्यते। दाध्वर्यते।
। हन्तेहिसायां घ्रीभावो वक्तव्यः ।। जेघ्नीयते। हिंसायां किम् ? जङ्घन्यते।
-7-4-31- ई घ्राध्मोः ।।
यङि घ्राध्मोरीकारः स्यात्। जेघ्रीयते। देध्मीयते।
-7-4-32- अस्य च्वौ ।।
अवर्णान्तस्य च्वावीकारः स्यात्। शुक्नीभवति। मालीभवति।
अनव्ययस्य इत्यभिधानाद्--दिवाभूता रात्रिः। दोषाभूतमहः।
-7-4-33- क्यचि च ।।
अवर्णान्तस्य क्यचीकारः स्यात्। पुत्रीयति। भार्यीयति।
-7-4-34- अशनायोदन्यधनाया बुभुक्षापिपासागर्धेसु ।।
एषु निपात्यन्ते अमी क्यचि। अशनायति बुभुक्षुः। उदन्यति। पिपासितः। धनायति गृध्नुः। अन्यत्र--अशनीयति। उदकीयति। धनीयति।
इह छन्दः पञ्ञ्चसूत्री(1)। (1.) सेयं यथा--
-7-4-35 न च्छन्दस्यपुत्रस्य ।।
-7-4-36. दुरस्युद्रविणस्युर्वृषण्यतिरिषण्यति ।।
-7-4-37. अश्वाघस्यात् ।।
-7-4-38. देवसुम्नयोर्यजुषि काठके ।
-7-4-39. कव्यध्वरपृतनस्यर्चि लोपः ।।
-7-4-40- द्यतिस्यतिमास्थामित् ति किति ।।
एषामित् स्यात् तादौ किति। दो--दितम्। षो-अपवसितम्। मा--मितम्। स्था--स्थितम्। स्थित्वा। स्थितिः।
-7-4-41- शाच्छोरन्यतरस्याम् ।।
तादौ किति शाच्छोरिद्वा स्यात्। शो--निशितम्, निशातं वा। छो--छितम्, छातम्।
व्यवस्थितविभाषया नित्यम्--संशितव्रतः।
-7-4-42- दधातेर्हिः ।।
तादौ किति धाञ्ञो हिः स्यात्। अभिहितम्। अभिहितवान्। द्वित्वा। विहितम्। अवहितम्।
दधातेः किम् ? धेट्--धीतम्। धीत्वा।
-7-4-43- जहातेश्च क्तिव ।।
हि स्यात्। हित्वा। ओहाङस्तु--हात्वा।
क्तिव किम् ? हीनः।
-7-4-44- विभाषाच्छन्दसि ।।
-7-4-45- सुधितवसुधितनेमधितधिष्वधिषीय च।।
सूत्रद्वयं छान्दसम्।
-7-4-46- दो दद् घोः ।।
तादौ किति दास्थाने दत् स्यात्। दत्तः। दत्त्वा। दत्तवान्। दत्तिः।
कथं प्रदाय ? बहिरङ्गो ल्यबन्तरङ्गान विधीन् बाधते इत्युक्तम्।
द्योः किम् ? दापृ--दातं धान्यम्। दैप्--अवदातं वस्त्रम्।
-7-4-47- अच उपसर्गात् तः ।।
अजन्तादुपसर्गात् परस्य तादौ किति दाशब्दाकारस्य तकारादेशः स्यात्। दाशब्दस्यैव द्वितकारादेश इत्यन्ये। प्रत्तम्। परीत्तम्। नीत्तम्। वीत्तम्। सूत्तम्।
अचः किम् ? निर्दत्तम्। प्रादेः किम् ?
अवदत्तं निदत्तं च प्रदत्तं चादिकर्मणि।
सुदत्तमनुदत्तं च विदत्तमिति चेष्यते ।।
उपसर्गप्रतिरूपका इमे निपाताः। इह द्यतेरित्त्वम्--दितम्, निर्दितमित्वादौ चरितार्थमनेन बाध्यते। अवत्तो मारः।
-7-4-48- अपो भिः ।।
अपस्तकारादेशः स्याद् भादौ। अद्भि। अद्भ्यः।
भि किम् ? अप्सु।
-7-4-49- सः स्यार्धधातुके ।।
सकारादार्धधातुके सस्य तः स्यात्। वत्स्यति। विवत्सति। अध्यवात्सीत्। जिघत्सा।
सि किम् ? प्रवासः। घासः।
-7-4-50- तासस्त्योर्लोपः ।।
तासेरस्तेश्च सलोपः स्यात् सादौ प्रत्यये। कर्त्तासि त्वम्। व्यतिसे कर्त्तसे । असि।
-7-4-51- रि च ।।
रेफादौ तासस्त्योः सलोपः स्यात्। कर्त्तारौ। कर्त्तारः।
-7-4-52- ह एति ।
एकारे तासस्त्योर्हः स्यात्। अहं कर्त्ताहे। व्यतिहे।
-7-4-53- यीवर्णयोर्दीधीवेव्योः ।।
दीघीवेव्यौ छान्दसौ।
-7-4-54- सनि मीमाघुरभलभशकपतपदामच इस् ।।
सनि एषामचः स्थाने इसादिश्यते। मीञ्ञः, डुमिञ्ञश्च सनि कृतदीर्घस्य ग्रहणम्। मित्सति। माङ्--मित्सते। मेङ--अपमित्सते। घु--दित्सा। धित्सा। दित्सुः। धित्सुः। रम--आरिप्सते। आरिप्समानः। लभ--आलिप्सते। आलिप्समानः। शक--शिक्षते। पत--पित्सति। पद--प्रपित्सते। सीत्येव--पिपतिषति।
सनि किम् ? दास्यति।
। राधो हिंसायामच इस् ।। प्रतिरित्सति। हिंसायां किम् ? आरिरात्सति।
-7-4-55- आब्ज्ञप्यृधामीत् ।।
आप्लृ-ज्ञपि-ऋधामच स्थाने ईत् स्यात् सनि। ईप्सति। ज्ञीप्सति नायं किञ्ञ्चित्। ईर्त्सति।
सीत्येव--जिज्ञपयिति। अर्दिधिषति।
-7-4-56- दम्भ इच्च ।।
दम्भेरच इत् स्याद्, ईच्च सनि। धिप्सति। धीप्सति। सीत्येव--दिदम्भिषति।
-7-4-57- मुचोऽकर्मकस्य गुणो वा ।।
मुचः सनि गुणो वा स्यात्। मोक्षते वत्सः स्वयमेव। मुमुक्षते वा।
अकर्मकस्य किम् ? मुमूक्षति वत्सं गोपः। मुमुक्षति वत्सं देवदत्तः।

                 ।।अथ अभ्यासस्यविधानप्रकरणम्।।
-7-4-58- अत्र लोपोऽभ्यासस्य ।।
अत्र सनीत्यधिकारेऽभ्यासस्य लोपः स्यात्। तथैवोदाहृतम्।
अभ्यासस्य विधानमापादपरिसमाप्तेः।
-7-4-59- ह्वस्वः ।।
अभ्यासस्य ह्रस्वः स्यात्। डुढौकिषते। तुतौकिषते।
-7-4-60- हलादिः शेषः ।।
अभ्यास्यासदिर्हल् शिष्यते। अनादिर्हल् लुप्यते। पपाच। चकार। बभार। जहार। जग्लौ। आर। आट। आश।
-7-4-61- शर्पूर्वाः खयः ।।
शषसपूर्वाः खयो हलः शिष्यन्ते। चुश्चोतिषति। तिष्ठासति। पिस्पन्दिषते।
। खर्पूर्वा. खय इति वक्तव्यम् ।। उचिच्छिषति।
-7-4-62- कुहोश्चुः ।।
कवर्गहकारयोश्चवर्गः स्यात्। चक्रे। चखान। जग्लौ। जघास।जघान। जुहुवे। जुहाव। जहाति।
-7-4-63- न कवतेर्यङि ।।
भौवादिकस्य कुङो यङि चुत्वं नास्ति। कोकूयते खरः। अकोकूयिष्ट तत्सैन्यम्।
इह--
-7-4-64- कृषेश्छन्दसि ।।
-7-4-65- दाधर्त्तिदर्घर्त्तिदर्धषिंबोभूतुतेतिक्तेर्लष्यापनीफणत् संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रद्दविध्वतेदविद्युततरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीन्तीति ।।
छान्दसं सूत्रद्वयम्।
-7-4-66- उरत् ।।
ऋवर्णान्तस्याभ्याभ्यासस्याकारः स्यात्। ववृधे। चकार।
-7-4-67- द्युतिस्वाप्योः सम्प्रसारणम् ।।
अनयोर्यण इक् स्यात्। विदिद्युते। विदिद्योतिषते। स्वापिर्ण्यन्तः।
सुस्वापयिषति।
-7-4-68- व्यथो लिटि ।।
लिटि व्यथः सम्प्रसारणं स्यात्। विव्यथे।
लिटि किम् ? वाव्यथ्यते।
-7-4-69- दीर्घ इणः किति ।।
इणो दीर्घः स्याल्लिटि किति। इर्यतुः। इर्युः।
किति किम् ? इयाय। इययिथ।
-7-4-70- अतः आदेः ।।
अभ्यासस्यादेरतो लिटि दीर्घः स्यात्। आट, आटतुः, आटुः।
-7-4-71- तस्मान्नुड् द्विहलः ।।
दीर्घीभूतात् परस्य द्विहलोऽङ्गस्य नुट् स्याल्लिटि परे। आनञ्ञ्ज। आनञ्ञ्जतुः। आर्नच्छ आर्नच्छतुः।
द्विहलः किम् ? आट। आटतुः।
कथमानृधतुः ? सादृश्यात्।
द्विहल इत्यनेकहल उपलक्षणम्। तेनार्नच्छेति तुकि कृते गुणे च त्रिहलोऽपीष्यते।
-7-4-72- अश्नोतेश्च ।।
लिटि दीर्घात् परस्य अस्य च नुट् स्यात्। अंशू--व्यानशे दिशः कीर्त्तिः। आनशाते।
-7-4-73- भवतेरः ।।
भुवोऽभ्यास्य लिट्यकारः स्यात्। बभूव। अनुबभूवे।
-7-4-74- ससूवेति निगमे ।।
अत्र छन्दःसूत्रमेकम्।
-7-4-75- निजां त्रयाणां गुणः श्लौ ।।
णिजिर्-विजिर्-विषां श्लौ गुणः स्यात्। नेनेक्ति। वेवेक्ति। वेवेष्टि।
-7-4-76- भृञ्ञामित् ।।
भृञ्ञ्-ओहाङ्-मा॰्मित् स्यात् श्लौ। बिभर्त्ति। मिजिहीते। मिमीते। मिमामः।
-7-4-77- अर्त्तिपिर्पत्त्योश्च ।।
अनयोः श्लावित् स्यात्। इयर्त्ति। पिपर्त्ति।
-7-4-78- बहुलं छन्दसि ।।
छान्दसम्।
-7-4-79- सन्यतः ।।
सन्यभ्यासस्यादन्तस्य स्यादित्। पिपक्षति। पिपासति। जगदाख्यातुमिच्छति जिजगयिषति।
अतः किम् ? लुलूषति। सुसुषते। सनि किम् ? पपाच।
-7-4-80- ओः पुयण्ज्यपरे ।।
सन्यभ्यासस्य उवर्णान्तस्य पवर्गे यणि जकारे चावर्णपरे स्यादित्। पूङ्--पिपविषते। भू--बिभावयिषति। यण्--यियावयिषति। रु--रिरावययिषति। लू--लिलावयिषति। जकारे--जिजावयिषति। जु सौत्रौ धातुः। इह णौ कृतं स्थानिवद्भवतीति पूर्वरूपेण द्विरुक्तिः।
अपरे किम् ? बुभूषति।
-7-4-81- स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ।।
एषामवर्णपरे यणि सनि स्यादिद्वा। सिस्रावयिषति, सुस्रावयिषति वा। एवं शृणोत्यादौ। अपर इत्येव--सुस्रूषति जलम्।
-7-4-82- गुणो यङ्लुकोः ।।
यङि यड्लुकि चाभ्यासस्य गुणः स्यात्। लोलूयते। लोलवीति। लोलुवः। बोभूयते। बोभवीति। बोभूतिः। बोभुवः।
यङ्लुकोर्विधानं यावत् सन्वल्लघुनि (7.4.93) इति।
-7-4-83- दीर्घोऽकितः ।।
अकितोऽभ्यासस्य दीर्घः स्यात्। पापच्यते। पापचीति। पापठ्यते। पापठीति। पापठः।
अकितः किम् ? यंयम्यते। रंरम्यते।
नन्वत्र लुकैव दीर्घो बाधिष्यते ? तर्ह्यकित इत्येतज् ज्ञापयति--अभ्यासविकारेष्वपवादा नोत्सर्गान् विधीन् बाधन्ते इति।
-7-4-84- नीग् वञ्ञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ।।
एषामष्टानामभ्यासस्य नीक् स्यात्। वनीवच्यते। वनीवञ्ञ्चः। सनीस्रस्यते। दनीध्वस्यते। बनीभ्रस्यते। चनीकस्यते। पनीपत्यते। पनीपद्यते। पनीपर्दीति। चनीस्कद्यते। चनीस्कन्दीति।
-7-4-85- नुगतोऽनुनासिकान्तस्य ।।
अनुनासिकान्तस्याभ्यासस्य नुक् स्यात्।
। पदान्तवच्चेति वक्तव्यम् ।। नुगनुस्वारोपलक्षणार्थम्। यमिरम्योरझल्यपि यथा स्यात्। यंयम्यते। यंयमीति। जङ्गम्यते, जङ्गमीति। जङ्गमः। एवं चमुतमुदमुभृतयः। वा पदान्तस्य इति परसवर्णः।
तपरकरणं भूतपूर्वदीर्घस्य निवृत्त्यर्थम्। भाम क्रोधे--बाभाम्यते।
-7-4-86- जपजभदहदशभन्जपशां च ।।
एषां नुक् स्यात्। जञ्ञ्जप्यते। जञ्ञ्जपीति। एवं यावत् पम्पश्यते, पंपशीति।
दशेति नलोपनिपातनं यङ्लुगर्थम्। दन्दशः।
पशिः सौत्रो घातुः।
-7-4-87- चरफलोश्च ।।
नुक् स्यात्। चञ्ञ्चूर्यते चञ्ञ्चूरः। पंफुल्यते। पंफुलः।
-7-4-88- उत्परस्यातः ।।
चरफलयोरभ्यासात् परस्यात उत् स्यात्। तथैवोदाहृतम्।
-7-4-89- ति च ।।
तादौ चरफलयोरत उत् स्यात्। चूर्त्तिः। प्रफुल्तम् पुष्पम्।
-7-4-90- रीगृदुपधस्य च ।।
ऋदुपधस्याभ्यासस्यातो रीक् स्यात्। नरीनृत्यते। नरीनृतः। दरीदृश्यते। दरीदृशः।
। रीगृत्वत इति वक्तव्यम् ।। वरीवृश्च्यते। परीपृच्छ्यते। जरीजृम्भयते। जरीजृम्भः।
-7-4-91- रुग्रिकौ च लुकि ।।
ऋदुपधस्य यङ्लुकि रुग्रिग्रीकः स्युः। नर्नर्त्ति,नरिनर्त्ति,नरीनर्त्ति।
-7-3-92- ऋतश्च।।
           ऋदन्तस्य यङ्लुकि रुग्रिग्रीकः स्युः। चर्कर्त्ति। चरिकीर्त्ति। चरीकर्त्ति। चर्क्रः। चरिक्रः। चरीक्रः।
तपरः किम् ? किरतेश्चाकर्त्ति। चाकिरः। जागर्त्ति। जागिरः।
-7-4-93- सन्वल्लघुनि चङ्परेऽनग्लोपे ।।
लघुनि धात्वक्षरे परे योऽभ्यासस्तस्य सन्वत् कार्यं स्याच्चङ्परे णौ। अपीपचत्। अचीकरत्।
लघुनि किम् ? अररक्षत्। अजजागरत्। अनग्लोपे किम् ? अचकथत्। मालामाख्यदममालत्। अददृषत्।
इह कथं पटुमाख्यदपीपटदिति ? णिचि टिलोपात् परत्वेन वृद्धौ कृतायां सन्ध्यक्षरलोप एवेति सन्वद्भावादित्त्वमित्येके।
अनग्लोपे इत्यगिति प्रत्याहारोपादानसार्मथ्यादकृतायामेव वृद्धौ टिलोपोऽग्लोप एवेति सन्वद्भावनिषेधादपपटदित्यपरे।
-7-4-94- दीर्घो लघोः ।।
पूर्वसूत्रविषये लघोरभ्यासस्य दीर्घः स्यात्। अपीपचत्। अचीकरत्। अलीलवत्। अचूचुरत्।
लघोः किम् ? अचिक्षणत्। अचिक्वणत्। लघुनीत्येव--अररक्षत्।
-7-4-95- अत् स्मृद्दृत्वरप्रथम्रदस्तॄस्पशाम् ।।
सप्तानामेषामभ्यासस्य चङ्परे णावत् स्यात्। असस्मरत्। अददरत्। अतत्वरत्। अपप्रथत्। अमम्रदत्। अतस्तरत्। अप्रस्पशत्।
तपरकरणं दीर्घनिरासार्थम्। अददरत्।
-7-4-96- विभाषा वेष्टिचेष्ट्योः ।।
णौ चङ्परे अनयोरद्वा स्याद्। अववेष्टत्, अविवेष्टद्वा। अचचेष्टत्, अचिचेष्टद्वा।
-7-4-97- ई च गणः ।।
चङ्परे गण इर् स्यादच्च। अजगणत्। अजीगणद्वा।
अङ्गाधिकारोऽभ्यासाधिकारश्च पूर्णः ।।
-7-4-97