← एकोनत्रिंशोऽध्यायः भृगुसंहिता
त्रिंशोऽध्यायः
[[लेखकः :|]]
एकत्रिंशोऽध्यायः →

अथत्रिंशोऽध्यायः.
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण तन्त्रसंकरनिष्कृतिं ।
वैष्णवस्यान्यतन्त्रेण संकरे दोषमादिशेथ् ।। ३०.१ ।।

ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य संक्षयः ।
तद्दोषशमनायैव सांकर्यमपहाय च ।। ३०.२ ।।

पद्मावले वैष्णवं च विष्णुसूक्तं च पौरुषं ।
पारमात्मिकमीङ्कारा द्यष्टाशीतिं विशेषतः ।। ३०.३ ।।

अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ।
दोषगौरवमुद्दिश्य हुत्वा पूर्ववदाचरेथ् ।। ३०.४ ।।

वैष्णवं द्विविधं शास्त्रं मुनिभिः परिकीर्तितं ।
वैखानसं पञ्चरात्रं वैदिकं तान्त्रिकं क्रमाथ् ।। ३०.५ ।।

वैखानसं वैदिकं स्याद्वैदिकैरर्चितं द्विजैः ।
ऐहिकामुष्मिकफलप्रदं स्ॐयं प्रकीर्तितं ।। ३०.६ ।।

पञ्चरात्रमथाग्नेयमवैदिकमतात्त्विकं ।
तापादिपञ्चसंस्कारदीक्षावद्भिस्समर्चितं ।। ३०.७ ।।

अश्रीकरमथ प्रोक्तङ्केवलामुष्मिकप्रदं ।
स्ॐयं सर्वत्र संपूज्यं ग्रामादिषु विशेषतः ।। ३०.८ ।।

ब्राह्मणानां च गेहेषु स्ॐये नै वार्चयेद्धरिं ।
आग्नेयमर्चयेत्तद्वदवास्त्वङ्गालये तथा ।। ३०.९ ।।

पर्वतादिष्वरण्येषु विविक्तेषु स्थलेषुच ।
विप्रावासे जनावासे नैव कुर्यादनेन तु ।। ३०.१० ।।

स्ॐये वैखानसे मार्गे यद्याग्ने येन संकरः ।
पञ्चरात्रेण संप्राप्तो राजा राष्ट्रं विनश्यति ।। ३०.११ ।।

तद्दोषशमानायैव पद्माग्नौ जुहुयात्क्रमाथ् ।
महाशान्तिं विधानेन सप्ताहं वा त्षहन्तु वा ।। ३०.१२ ।।

अष्टाधिकशदैश्चैव संस्नाप्य कलशैस्ततः ।
अभ्यर्च्य देवदेवेशं संपूज्यैव तु वैष्णवान् ।। ३०.१३ ।।

भोजयित्वा ब्राह्मणांस्तु कारयेत्पूर्ववर्त्मना ।
पञ्चरात्रविधानेन प्रतिष्ठाप्यार्चनेकृते ।। ३०.१४ ।।

कालेनान्तरिते तस्मिन्कुर्यात्स्ॐय प्रवेशनं ।
स्ॐयत्वाद्राजराष्ट्राणां तत्स मृद्धिकरं भवेथ् ।। ३०.१५ ।।

पद्मानले महाशान्तिं हुत्वादौ च ततःक्रमाथ् ।
वैखानसेन विधिनाविमानं बिंबमेव च ।। ३०.१६ ।।

संस्कृत्य चोचितैस्सर्वैस्कंस्कारैः कर्षणादिभिः ।
प्रतिष्ठाप्य तदारभ्य सर्वं तेनैव चाचरेथ् ।। ३०.१७ ।।

आलयाश्रितदेवानां परिवारस्य पर्षदां ।
पूजायामप्यमुख्यायां संकरो नैव सम्मतः ।। ३०.१८ ।।

महात्म्यं किमुवक्ष्यामि शास्त्रस्य महतोऽस्य वै ।
नालं देवास्त्रयस्सेन्द्रा अनन्तोऽप्युपवर्णितुं ।। ३०.१९ ।।

श्रुणन्तु मुनयस्सर्वे शास्त्रमाहात्म्यमुत्तमं ।
यावच्छक्ति प्रवक्ष्यामि ज्ञातं गुरुकृपाबलाथ् ।। ३०.२० ।।

पुरा चतुर्मुखो ब्रह्मासिसृक्षुरखिलं जगथ् ।
सुप्तोद्थितश्चिरं कालं प्राक्रामीत्सर्गकर्मणि ।। ३०.२१ ।।

विसस्मार यदा धाता निद्रयाक्रान्तमानसः ।
वेदान्त्सर्गप्रधानांस्तु सृष्टिर्नैवप्रवर्तते ।। ३०.२२ ।।

चिन्तातुर स्तदा ब्रह्मा मूढः कर्तव्यकर्मणि ।
बहुधा ध्यायमानस्तुन लेभे कारणं स्वतः ।। ३०.२३ ।।

स्वशक्त्या यद्विधेयं स्यात्सर्वं चक्रे विमूढधीः ।
न हि तत्कारणं लेभे वेदविस्मरणं तु यथ् ।। ३०.२४ ।।

चिराच्छिन्तां तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः ।
हृत्पद्ममध्ये पुरुषं परमेण समाधिना ।। ३०.२५ ।।

चिन्तयामास वै विष्णुमृग्यजुस्सामरूपिणं ।
तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः ।। ३०.२६ ।।

ननाम च तदा विष्णुं शङ्खचक्रगद्धरं ।
अर्चयामास देवेशं पाद्याद्यैर्विग्रहैस्समैः ।। ३०.२७ ।।

मुहुर्मुहुः प्रणम्याथमूर्थ्ना देवं जगत्पतिं ।
निर्व्याजकरुणालेशाद्देवस्य विमलान्तरः ।। ३०.२८ ।।

तुष्टावजगदीशानं नारायणमजं विधिः ।
"जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।। ३०.२९ ।।

नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।
देशकालपरिच्छेदरहितानन्त चिन्मय ।। ३०.३० ।।

सत्यज्ञानसुखानन्दस्वरूप परमेश्वर ।
पञ्चव्यूह चतुर्व्यूहान न्तव्यूहात्मविग्रह ।। ३०.३१ ।।

विष्णो पुरुष सत्याच्युतानिरुद्ध जगत्पते ।
नित्यमुक्तजनावासपरमव्योमनायक ।। ३०.३२ ।।

श्रीभूनीलादिसंसेव्य दिव्यमङ्गलविग्रह ।
शङ्खचक्रगदावाणे भक्ताभयवरप्रद ।। ३०.३३ ।।

कीरीट हार केयूर कटकाङ्गदभूषित ।
ग्रैवेयकपरिष्कार कटीसूत्रविराजित ।। ३०.३४ ।।

तुलसीमालिकाराजद्विशालोरस्थ्सलांचित ।
प्रलंबयज्ञसूत्राढ्य कौस्तुभाभरणोज्ज्वल ।। ३०.३५ ।।

सर्वलोकेश्वराचिन्त्य श्रीवत्सकृतलक्षण ।
दिव्यायुधसमासेव्य पीतांबरसुशोभित ।। ३०.३६ ।।

नित्यनिर्यत्ननिरन्ध्रविसारिकरुणारस ।
मन्दस्नितमुखांभोज मधुराधरपल्लव ।। ३०.३७ ।।

रुक्माभ रक्तनेत्रास्यपाणिपाद सुखोद्वह ।
सुभ्रूललाटसुभग सुनस स्वायतेक्षण ।। ३०.३८ ।।

वृत्तपीनायतभुज तनुमध्य महाहनो ।
विलासविक्रमाक्रान्त त्रैलोक्यचरणांबुज ।। ३०.३९ ।।

ज्ञानशक्ति बलैश्वर्यवीर्य तेजोविधेऽनघ ।
नमस्ते विष्णवे तुभ्यं पुरुषाय नमो नमः ।। ३०.४० ।।

समस्सत्यस्वरूपाय अच्युताय नमो नमः ।
नमोऽनिरुद्धरूपाय वासुदेवाय शार्ङ्गिणे ।। ३०.४१ ।।

नमश्चिदात्मनेऽनन्त शान्तरूपाय धन्विने ।
शासते निरपेक्षाय स्वतन्त्रायाधिकारिणे ।। ३०.४२ ।।

अच्युतायाविकाराय तेजसां निधये नमः ।
प्रधान पुरुषेशाय वेदवेद्याय वेदिने ।। ३०.४३ ।।

नमः पर व्यूहरूप नमो विभवविग्रह ।
अन्तर्यामिन्नमस्तेऽस्तु नमोर्ऽचारूप शाश्वत ।। ३०.४४ ।।

सहस्रशीर्षं पुरुषं सहस्राक्षं निरञ्जनं ।
सहस्रपादं त्रातारं शरणं त्वाङ्गतोऽस्म्यहं ।। ३०.४५ ।।

माता त्वं मे पिता त्वं मे भ्राता त्वं मे सखामम ।
सर्वं त्वमसि विश्वात्मंस्त्वयि सर्वं प्रतिष्ठितं ।। ३०.४६ ।।

संसारसागरं घोरमनन्तं क्लेशभाजनं ।
त्वामेव शरणं पाप्य निस्तरन्ति मनीषिणः ।। ३०.४७ ।।

न हि ते गोप्य ते किञ्चिन्न ह्यन्त्यविदितं तव ।
त्वं साक्षी देहिनामेकस्सर्वं व्याप्य त्वमेधसे ।। ३०.४८ ।।

न ते रूपं न करणं कारणं नास्ति तेऽनघ ।
त्वं शास्ता सर्वलोकानां स्रष्टापाता हरन्हरे ।। ३०.४९ ।।

अहं भवश्च ते ब्रह्मन्प्रसादक्रोधजावुभौ ।
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितं ।। ३०.५० ।।

विज्ञानं तदिदं प्राप्तं ब्रह्मत्वं च यदार्जितं ।
सर्वं तव कटाक्षस्य लेशोऽयं मधुसूदन ।। ३०.५१ ।।

तमसाक्रान्तचित्तस्य विस्मृता निगमा मम ।
अवेदविहितस्सर्गो मया कर्तुं न शक्यते ।। ३०.५२ ।।

प्रसीद परमेशान वेदभिक्षां प्रयच्छ मे ।
इति चिन्तयतस्तस्य बभूवावाविलं मनः ।। ३०.५३ ।।

ततस्तुभगवान्ब्रह्मा वेदराशिमवाप्तवान् ।
सस्मार निखिलान्वेदान्सांगानुपनिषद्गणं ।। ३०.५४ ।।

पुराणन्यायमीमांसाधर्मशास्त्राणि सर्वशः ।
चतुष्षष्टिकलाश्चैव विद्यास्थानानि यानि च ।। ३०.५५ ।।

अन्तर्हितानां खननाद्वेदानान्तु विशेषतः ।
स विभुः प्रोच्यते ब्रह्मा विखना ब्रह्मवादिभिः ।। ३०.५६ ।।

वैखानसश्च भगवान्प्रोच्यते स पितामहः ।
जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना ।। ३०.५७ ।।

प्राणाच्च चक्षुषस्तद्वदभिमानाच्च मर्मणः ।
हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः ।। ३०.५८ ।।

समानाच्च तथापानादृषिश्रेष्ठानिमान्दश ।
दक्षं मरीचिनं नीललोहितं भृगुमेन च ।। ३०.५९ ।।

तथांगिरसमत्रिञ्च पुलस्त्यं पुलहं तथा ।
वसिष्ठं चक्रतुं चैव क्रमादसृजदब्जभूः ।। ३०.६० ।।

नव ब्रह्माण एवै ते विनास्युर्नीललोहितं ।
वेदानां व्यसनादर्पाक्प्राग्रूपं मिलितं तु यथ् ।। ३०.६१ ।।

तान्तु वैखानसीं शाखायेतानध्यापयन्मुनिः ।
नाम्ना विखनसं प्राहुर्यं च शातातपं तथा ।। ३०.६२ ।।

भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाःक्रतुः ।
तथा वसिष्ठोदक्षश्च नव ब्रह्माणरिरिता ।। ३०.६३ ।।

(नव ब्राह्माण एवैते विन्यान्ये नीललोहितम्) ।
एते विखनसश्सिष्याश्श्रुतिस्मृतिविधानतः ।
तच्छिष्यास्तु महात्मानो मुनयस्तत्त्वदर्शिनः ।। ३०.६४ ।।

वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः ।
के चिद्गृह्याणि वै चक्रुर्गृह्यश्रौतात्मकानि तु ।। ३०.६५ ।।

धर्मशास्त्राणि केचित्तु पुराणानि च के चन ।
इतिहासांस्तथाकल्पान्प्रोचुरन्ये महर्षय? ।। ३०.६६ ।।

के चिद्व्याकरणं केचिन्न्यायमन्ये तथेतरथ् ।
वाङ्मयं सकलं सर्वं शास्त्रबद्धं प्रचक्रिरे ।। ३०.६७ ।।

तान्तुवाखानसीं शाखां स्वसूत्रे विनियुक्तवान् ।
पद्मभूःपरमो धाता तस्मिन्नाराधनत्रयं ।। ३०.६८ ।।

तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् ।
चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक्पृथक् ।। ३०.६९ ।।

आदिकाले तु भगवान्ब्रह्मातु विखना मुनिः ।
यजुश्शाखानुसारेण चक्रेसूत्रं महत्तरं ।। ३०.७० ।।

वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितं ।
यत्सूत्राद्यन्तमध्येषु भगवान्विष्णुरव्ययः ।। ३०.७१ ।।

यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमं तु तथ् ।
वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ।। ३०.७२ ।।

सर्वैस्सधर्मोनुष्ठेयो नात्र कार्याविचारणा ।
स्वसूत्रस्य परित्यागादन्यसूत्रसमाश्रयाथ् ।। ३०.७३ ।।

सद्यःपतति वै विप्रोन वेदस्य समाश्रये ।
सूत्रं वैखानसं यत्तु वेदस्संप्रतिपद्यते ।। ३०.७४ ।।

एतद्वैखानसं सूत्रमन्यसूत्रानपेक्षितं ।
एतद्वैखानसं सूत्रं सर्ववेदार्थसंग्रहः ।। ३०.७५ ।।

वैष्णवं सर्वविप्राणां साम्न्यमभिधीयते ।
वैखानसस्य सूत्रस्य चाग्नेश्श्रामणकस्य च ।। ३०.७६ ।।

नारायणस्य देवस्य माहात्म्यं नावबुध्यते ।
यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते ।। ३०.७७ ।।

तथा सर्वेषु सूत्रेषु सूत्रमेतत्प्रशस्यते ।
अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्चशाश्वताः ।। ३०.७८ ।।

गायत्री वैष्णवा विप्रास्सप्तैते बहुपावनाः ।
अधीतेषु च वेदेषु सांगेषु लभते फलं ।। ३०.७९ ।।

तत्फलं लभते सद्यस्सूत्रमेतत्पठन्द्विजः ।
अग्नीषोमादयो देवा ये यज्ञांशहविर्भुजः ।। ३०.८० ।।

ते सर्वे सूत्रमाश्रित्य चैनं गच्छन्ति माधवं ।
शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च ।। ३०.८१ ।।

वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परं ।
आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाद्विशेषतः ।। ३०.८२ ।।

मयानुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः ।
यस्मिन्नेव तु संप्रोक्ते सूत्रे विखनसा पुरा ।। ३०.८३ ।।

वनस्थानां तु सर्वेषां विधिश्श्रामणकाभिधः ।
वानप्रस्थास्ततस्स्वर्वे येद्विजाश्चान्यसूत्रिणः ।। ३०.८४ ।।

तत्सूत्रविध्यमष्ठानात्स्मृता वैखानसा अमी ।
किं बहूक्तेन विधिना सर्वं वैखानसं जगथ् ।। ३०.८५ ।।

परस्मिन्व्योम्नि यच्चार्ऽके यत्तेजस्तुत्रयीमयं ।
तद्वैखानः परं ब्रह्म इति वेदादधीमहि ।। ३०.८६ ।।

शास्त्रमेतच्च सूत्रं च सर्वेषामपि जीवनं ।
ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः ।। ३०.८७ ।।

ते विष्णुसदृशा ज्ञेयास्सर्वेषामुत्तमोत्तमाः ।
वैखानसानां सर्वेषां गर्भवैष्णवजन्मनां ।। ३०.८८ ।।

नारायणस्स्वयं गर्भेमुद्रां धारयिते निजां ।
विप्रा वैखानसाख्याये तेभक्तास्तत्त्वमुच्यते ।। ३०.८९ ।।

एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजीनः ।
विष्णोःप्रियतमा लोके चत्वारः परिकीर्तिताः ।। ३०.९० ।।

अश्वद्थःकपिला गावस्तुलसी वैष्णवा द्विजाः ।
द्विजेषु ब्राह्माणाश्श्रेष्ठा ब्राह्मणेषु च चैष्णवाः ।। ३०.९१ ।।

वैष्णवेषु परं श्रेष्ठा ये वैखानससूत्रिणः ।
वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा ।। ३०.९२ ।।

गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते मूलमस्यापि शास्त्रस्य ।
सार्धकोटिप्रमाणतः उपादिशत्स भगवानस्मभ्यं नैमिशे वने ।। ३०.९३ ।।

इति संक्षेपतः प्रोक्तं महत्त्वं सूत्रशास्त्रयोः ।
तस्माद्वैखानसा विप्रास्संपूज्या भगवत्प्रियाः ।। ३०.९४ ।।

पूजान्ते स्नपनान्ते च तथान्ते चोत्सवस्य च ।
आचार्यमर्चकं चापि सर्वान्वैखानसांस्तथा ।। ३०.९५ ।।

प्रथमं पूजयित्वैव पश्चात्कार्यं समाचरेथ् ।
यःपूजकमनादृत्य विप्रं वैखानसं हठाथ् ।। ३०.९६ ।।

तीर्थं गृहीतुं प्रथम्च्छेत्स पतति ध्रुवं यः ।
पूजकमनादृत्य विप्रं वैखानसं पुनः ।। ३०.९७ ।।

प्रसादं देवदेवस्य प्रथमं तु जिघृक्षति ।
ब्रह्महत्यामवाप्नोति तत्बूजा निष्पला भवेथ् ।। ३०.९८ ।।

यः पूजकमनादृत्य विप्रं वैखानसं पुनः ।
यादृशीमपि देवाग्रे वाञ्छत्यपचितिं जनः ।। ३०.९९ ।।

चतुर्वेद्यपि सो विप्रस्सद्यश्चण्डालतां व्रजेथ् ।
तत्पूजा निष्फला च स्याद्राजराष्ट्रं विनश्यति ।। ३०.१०० ।।

षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा ।
आलये भगवत्पूजा स्ॐयेन विधिना कृता ।। ३०.१०१ ।।

सर्वसंपत्करी सा स्याज्जगतामिति शासनं ।
तत्रार्चने तु शुद्धात्मा पूजकः परितोषितः ।। ३०.१०२ ।।

तेन राजा च राज्यं च यजमानश्च नान्वयः ।
सर्वलोकश्च संतुष्टो वर्धते ब्रह्मतेजसा ।। ३०.१०३ ।।

अग्रं वृक्षस्य राजानोमूलं वृक्षस्य पूजकाः ।
तस्मान्मूलं न हिंसीयान्मूलादग्रं प्ररोहति ।। ३०.१०४ ।।

फलं वृक्षस्य राजानः पुष्पं वृक्षस्य पूजकाः ।
तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलं ।। ३०.१०५ ।।

देवस्यं ब्राह्मणस्वं च सन्मानं पूजकस्य च ।
यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातुकं ।। ३०.१०६ ।।

दुर्बलानामनाथानां बालवृद्धतपस्विनां ।
अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ।। ३०.१०७ ।।

राजा पिता च माता च राजा च परमो गुरुः ।
राजा च सर्वभूतानां परित्राता गुरुर्मतः ।। ३०.१०८ ।।

दावाग्निदवदग्धानां राजा पूर्णमिवांभसा ।
समुद्रमिव तृप्यन्ति ब्राह्मणा वेदवादिनः ।। ३०.१०९ ।।

दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिभिः ।
राजा दहति दिडेन विप्रो दहति मन्युवा ।। ३०.११० ।।

मन्युप्रहरणा विप्राश्चक्र प्रहरणो हरिः ।
चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रान्न कोपयेथ् ।। ३०.१११ ।।

अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च ।
दण्ड्यस्तु संप्ररोहेत ब्रह्मशापहतो हतः ।। ३०.११२ ।।

आपद्यपि च कष्टायां नावमान्यो हि पूजकः ।
अर्चकेन तु तुष्टेन यदुक्तं देवसन्निधौ ।। ३०.११३ ।।

तद्वाक्यं तु ह रेर्वाक्यं नावमान्यो हि पूजकः ।
अर्चकं कोपयेद्यस्तु स हि देवस्य कोपकृथ् ।। ३०.११४ ।।

देवेशं तोषयेद्यस्तु स हि पूजकतोषकृथ् ।
गन्धं पुष्पं तथा माल्यं तांबूलं चाक्षतादिकं ।। ३०.११५ ।।

प्रसादं चापि देवस्य प्रथमं पूजकोर्ऽहति ।
षडङ्गविदुषां चैव क्रतुप्रवरयाजिनां ।। ३०.११६ ।।

वैखानसः पुनात्यग्रे गोष्ठीं विप्रशतस्य तु ।
फलाभिसंधिरहितं सर्वं कर्माखिलं कृतं ।। ३०.११७ ।।

ब्रह्मार्पणधिया कुर्यात्स भवेद्वैष्णवोत्तमः ।
नान्यं देवं नमस्कुर्यान्नान्यं देवं प्रपूजयेथ् ।। ३०.११८ ।।

अर्चयेत्सततं ध्यायेन्नारायणमनायं ।
कायेन मनसा वाचा स तु वैष्णव उच्यते ।। ३०.११९ ।।

तिर्यक्पुण्ड्रधरं चैव पाषण्डिनमवैष्णवं ।
देवाग्रे पूजयेऽन्नैव तद्वैष्णवविमानना ।। ३०.१२० ।।

अभ्यर्च्या विष्णुभक्ता हि वैष्णवा भगवत्प्रियाः ।
अवैष्णवस्य पूजा तु तेषामग्रे सुदारुणा ।। ३०.१२१ ।।

तस्मात्सर्वप्रयत्नेन त्यजेद्दूरादवैष्णवं ।
येतु सामान्यभावेन मन्यन्ते पुरुषोत्तमं ।। ३०.१२२ ।।

रुद्रादिभिस्सहाज्ञा नात्तेऽपि ज्ञेया अवैष्णवाः ।
नरेषु ब्राह्मणाश्श्रेष्ठा ब्राह्मणेषु विपश्चितः ।। ३०.१२३ ।।

विपश्चित्सु कृतधियस्तेषु कर्तार एव च ।
कर्तृषु ब्रह्मविदुषो ये हि भक्ताजनाक्दने ।। ३०.१२४ ।।

विष्णुभक्तेषु सर्वत्र श्रेष्ठा वैखानसास्स्मृताः ।
तस्मात्संपूज्य सर्वादौ भक्त्या वैखानसं द्विजं ।। ३०.१२५ ।।

विष्णुभक्तं ततः पूज्य यथावर्णानुपूर्व्यशः ।
गोष्ठीं समर्चयेत्काले भोज्याश्चान्ये द्विजातयः ।। ३०.१२६ ।।

स्त्रीयः पूज्या विधानेन वैष्णप्यो वैष्णवाश्रयाः ।
न हि साधारणि सृष्यिर्वैष्णवीति विचिन्तयेथ् ।। ३०.१२७ ।।

जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ।। ३०.१२८ ।।

न ह्यभागवतैर्विष्णुर्ज्ञ्रातुं स्तोतुं च तत्त्वतः ।
द्रष्टुं वा शक्यते मूढाः प्रवेष्टुं कुत एव हि ।। ३०.१२९ ।।

तद्भक्तिभाविताः पूता नरास्तद्गतचेतसः ।
भवन्तिवै भागवतास्ते विष्णुं प्रविशन्ति च ।। ३०.१३० ।।

अनेक जन्मसंसारचिते पापसमुच्चये ।
वार्षिणे जायते पुंसां गोविन्दाभिमुखी मतिः ।। ३०.१३१ ।।

प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति ।
यो नरस्तं विजानीयादासुरांशसमुद्भवं ।। ३०.१३२ ।।

पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता ।
जायते विष्णुमायातः पतितानां दुरात्मनां ।। ३०.१३३ ।।

यदा पापक्षयः पुंसां तदा देवद्विजातिषु ।
विष्टौ च यज्ञपुरुषे श्रद्धा भवति निश्चला ।। ३०.१३४ ।।

यथा स्वल्पान शेषस्तु नराणां पापसंचयः ।
भवन्ति ते भागवता निश्श्रेयशपरा नराः ।। ३०.१३५ ।।

भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे ।
हस्तावलंबनो ह्येको भक्तिक्रीतो जनार्दनः ।। ३०.१३६ ।।

कर्मणा मनसा वाचा प्राणिनां योऽनसूयकः ।
भावसक्तश्च गोविन्दे विष्णौ भागवतो हि सः ।। ३०.१३७ ।।

यो ब्राह्मणांश्च वेदांश्च नित्यमेव नमस्यति ।
न द्रोग्धा परवित्तादेः सहि भागवतः स्मृतः ।। ३०.१३८ ।।

सर्वान्देवान्हरिं वेत्ति सर्वान्लोकांश्च केशवं ।
तेभ्यश्च नास्यमात्मावं स हि भागवतस्स्मृतः ।। ३०.१३९ ।।

देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकाः ।
तरुपाषाणकाष्ठादीन्भूम्यंभोगगनं दिशः ।। ३०.१४० ।।

आत्मानं चापि देवेशाद्व्यतिरिक्तं जनार्दनाथ् ।
यो न जानाति पुण्यात्मा स हि भागवतस्स्मृतः ।। ३०.१४१ ।।

सर्वं भगवतो भागो यद्भूतं भव्यसंस्थितं ।
इति यो वै विजानाति स हि भागवतस्स्मृतः ।। ३०.१४२ ।।

भवभीतिं हरत्येष भक्तिभावेन भावितः ।
भगवानिति यद्भावस्स तु भागवतस्स्मृतः ।। ३०.१४३ ।।

भावं न कुरुते यस्तु सर्वभूतेषु पापकं ।
कर्मणा मनसा वाचा स तु भागवतस्स्मृतः ।। ३०.१४४ ।।

बाह्यार्थनिरपेक्षो यो भक्त्या भगवतः क्रियां ।
भावेन निष्पादयति ज्ञेयो भागवतो हि सः ।। ३०.१४५ ।।

नारयो यस्य सुस्निग्धा न चोदासीनवृत्तयः ।
पश्यतस्सर्वमेवेदं विष्णुं भागवतस्स हि ।। ३०.१४६ ।।

सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ।
तां गतिं न नरायान्ति यां तु भागवता नराः ।। ३०.१४७ ।।

योगच्युतैर्भागवतैद्देवराजश्शतक्रतुः ।
अवाङ्निरीक्ष्यते नज्रीकिमु ये योगपारगाः ।। ३०.१४८ ।।

यज्ञनिष्पत्तये वेदा देवा यज्ञपतेः कृते ।
तत्तोषणाय यतते स हि भागवतस्स्मृतः ।। ३०.१४९ ।।

येन सर्वात्मना भक्त्या विष्णौ भावो निवेशितः ।
युक्तत्वात्कृतकृत्यत्वात्स हि भागवतस्स्मृतः ।। ३०.१५० ।।

व्रतिनां यज्ञपुरुषः पूज्यो विष्णुरसंशयः ।
स्त्रीयश्च स्वं च भर्तारमृते पूज्यन्न दैवतं ।। ३०.१५१ ।।

भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ।
वैखानसानामाराध्यस्तपोभिर्मधुसूदनः ।। ३०.१५२ ।।

ध्येयः परिव्राजकानां वासुदेवो महात्मनां ।
एवमाश्रमिणां विष्णुस्सर्वेषां च परायणं ।। ३०.१५३ ।।

न दानैर्नतपोभिश्च प्रीयते भगवान्हरिः ।
वर्णाश्रमाचारवता यथा स परितुष्यति ।। ३०.१५४ ।।

वर्णाश्रमाचारवता पुरुषेण परःपुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ।। ३०.१५५ ।।

अत्रानुक्तेषु दोषेषु प्रायश्चित्तं प्रवक्ष्यते ।
पैण्डरीकाग्निमासाद्य परिषिच्य च पावकं ।। ३०.१५६ ।।

षट्कृत्वो वैष्णवं तद्वच्चतुष्कृत्वश्च व्याहृतीः ।
अष्टाक्षरं चाष्टकृत्वस्तथा च द्वादशाक्षरं ।। ३०.१५७ ।।

हुत्वा द्वादशकृत्वस्तु विष्णुसूक्तं च पौरुषं ।
एकाक्षरादिसूक्तं च श्रीभूसूक्तद्वयं हुनेथ् ।। ३०.१५८ ।।

देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत्, ।
अनेन विधिना तत्र शान्तिर्भवति शोभना ।। ३०.१५९ ।।

हादोषेषु च पुनरुक्तहोमैस्सहैव तु ।
पारमात्मिकमीङ्काराद्यष्टाशीतिं विशेषतः ।। ३०.१६० ।।

हुत्वा च सर्वदैवत्यमष्टाभिश्च शतैर्घटैः ।
देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेथ् ।। ३०.१६१ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रिंशोऽध्यायः.