← पञ्चमोऽध्यायः भृगुसंहिता
षष्ठोऽध्यायः
[[लेखकः :|]]
सप्तमोऽध्यायः →

अथषष्ठोऽध्यायः
मूधेन्ष्टकाविधिः
अथवक्ष्येविशेषेण क्रमंमूर्धेष्टकाविधेः ।
प्रमुखेयागशालाञ्च कृत्वाचैवविचक्षण ।। ६.१ ।।

मध्येवेदिंप्रकल्प्यैव स्थूपिकीलप्रमाणतः ।
सभ्यंप्रकल्प्यचप्राच्या माघारंविधिवद्यजेथ् ।। ६.२ ।।

वेदिमध्येन्यसेद्विद्वान्सुस्निग्धानिर्व्रणादृढाः ।
वैष्णवञ्चजपित्वैवचतस्रश्चेष्टकाःक्रमाथ् ।। ६.३ ।।

किञ्चिदग्रंभवेन्निम्नं मूलेवैकिञ्चिदुन्नतं ।
अधोभागेभवेत्पृष्ट मूर्ध्वभागेमुखंभवेथ् ।। ६.४ ।।

शालिपिष्टमयेनाथ लेखयेदक्षराणितु ।
यकारंपूर्वतोलेख्य रकारन्दक्षिणेन्यसेथ् ।। ६.५ ।।

लकारंपश्चिमेलेख्यवकारे चोत्तरेलिखेथ् ।
लोहजान्दारुजांवाथ स्थूपिन्तत्रन्यसेद्बुधः ।। ६.६ ।।

पादायामसमन्दीघंन्विस्तारंपादसम्मितं ।
अग्रमङ्गुलविस्तार मानुपूर्व्यात्कृशन्तथा ।। ६.७ ।।

चतुरश्रंभवेन्मूलं त्रिभागै कंसमंयथा ।
वृत्तन्तदूर्ध्वतःकुर्याच्छीलीपादमधोन्यसेथ् ।। ६.८ ।।

विस्तारत्रिगुणायामं विस्तारसमविस्तरं ।
तद्द्वयेनसमायोज्य नमंशूलंस्थितंयधा ।। ६.९ ।।

पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपिवाचयेथ् ।
वास्तुजोमञ्चहुत्वैव पर्यग्निकरणञ्चरेथ् ।। ६.१० ।।

मूर्धेष्टकाविधानेन होमङ्कृत्वाविचक्षणः ।
पुनःप्रभातेधर्मात्मा यजमानयुतोगुरुः ।। ६.११ ।।

शिलादीन्संप्रगृह्यैव विमानेरोपयेत्तधा ।
पाणिभ्यांसंप्रगृह्यैव प्राङ्मुखोदङ्मुखोऽपिवा ।। ६.१२ ।।

चतुर्वेदादिमन्त्रैश्च शिला इन्द्रादिषुन्यसेथ् ।
ध्रुवसूक्तञ्जपित्वातु मथ्येस्थूपिंन्यसेत्तधा ।। ६.१३ ।।

कालेशिल्पिनमाहूय पूजयित्वा विशेषतः ।
शिलाद्युपरिविन्यस्य दृढीकरणमाचरेथ् ।। ६.१४ ।।

पादबन्धेगलेचैव विमाने परितःक्रमात्विमानदेवाः ।
प्राच्यां विष्णुं प्रकुर्वीत यस्य गर्भगृहेस्थितिः ।। ६.१५ ।।

दक्षिणेसत्यमूर्तेस्तु पश्चिमेचा च्युतस्य च ।
उत्तरेचानिरुद्धस्य स्थितिमेवं प्रकल्पयेथ् ।। ६.१६ ।।

गलेपुरुषमूर्तिस्तु दक्षिणे नारसिंहकः ।
पश्चिमे तु वराहश्च हयग्रीवस्तथोत्तरे ।। ६.१७ ।।

सुखसनसमालुक्तं सर्वालङ्कारसंयुतं ।
व्यालोद्ध्वकोणकञ्चैव वीशं वाथ मृगेश्वरं ।। ६.१८ ।।

वक्रतुण्डं च दुर्गां चाप्यग्रमण्डपभित्तिषु ।
स्थितमेवं सुसंस्थाप्य यथालाभं समर्चयेथ् ।। ६.१९ ।।

द्वारेषु द्वारपालानां स्थितिमेवं प्रकल्पयेथ् ।
प्रासादलक्षणंप्रोक्तं मण्डपानामथोच्यते ।। ६.२० ।।

स्तंभैष्षोडशभिर्युक्तं मण्डपं श्रीप्रतिष्ठितं ।
द्वादशस्तंभसंयुक्तं बीजासनमिति स्मृतं ।। ६.२१ ।।

द्वात्रिंशद्गात्रसंयुक्तं जयभद्रेतिकीर्त्यते ।
षट्त्रिंशद्गात्रसंयुक्तं नन्द्यावर्तं सुशोभनं ।। ६.२२ ।।

चतुर्भिष्षष्टिभिस्त्संभैर्युक्तंश्रीभद्रकं स्मृतं ।
स्तंभानां तु शतैर्युक्तं विशालमिति संज्ञितं ।। ६.२३ ।।

प्रासादवत्समाख्यातं प्रस्तारं तत्प्रमाणतः ।
वाजिनोपरि कर्तव्यं धारकस्तु कलास्तथा ।। ६.२४ ।।

स्तंभविष्कंभमुत्सेधं चतुर्भागेनविस्तृतं ।
तुलाविस्तारमानेन जयन्तीस्यात्समोन्नता ।। ६.२५ ।।

ततो दण्डार्धबाहुल्य मनुमार्गं तदूर्ध्वतः ।
इष्टकाभिस्तदूर्ध्वं तु छादयेद्गल कान्वितं ।। ६.२६ ।।

पादाधिकमधाध्यर्धं द्विगुणं पादहीनकं ।
चतुर्विधमथायामं कर्तव्यं मण्डपस्यतु ।। ६.२७ ।।

आयामे तु यथायुक्तं स्तंभानां विधिरुच्यते ।
द्विहस्तं वात्रिहस्तं वा चतुर्हस्तमथापिवा ।। ६.२८ ।।

स्तंभान्तरं प्रकर्तव्यं यथायुक्ति विशेषतः ।
एवङ्क्रमात्समाख्यातं प्राकारमधुनोच्यते ।। ६.२९ ।।

पाकारं परितः कुर्यात्प्रासादस्य प्रमाणतः ।
प्राकारस्यतुविस्तारं तस्यदण्डमिहोच्यते ।। ६.३० ।।

अन्तर्मण्डलमित्याहु रध्यर्धं दण्डमानतः ।
अन्तर्भारमितिप्रोस्तं मध्यभारं द्विदण्डत ।। ६.३१ ।।

चतुर्दण्डप्रमाणेन युक्ता मर्यादभित्तिका ।
महामर्यादभित्तिस्स्यात्सप्तदण्डप्रमाणतः ।। ६.३२ ।।

अध्यर्धद्विगुणं वापि त्रिगुणं वा चतुर्गुणं ।
मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः ।। ६.३३ ।।

कपोता न्तंसमुत्सेधं भित्तिहस्तप्रमाणतः ।
कूटशालायुतं वापि कुर्यात्प्राकारसंयुतं ।। ६.३४ ।।

मूलजं तु तलोत्सेधं हस्तमेवं विधीयते ।
यथालाभोन्नतं वापि प्रधमावरणं स्मृतं ।। ६.३५ ।।

षडङ्गुलं क्रमात्कुर्यान्न्यूनप्राकारकंविदुः ।
जलनिर्याणमार्गं स्यात्पदान्ते तटकेऽपिवा ।। ६.३६ ।।

प्रधमावरणद्वारं प्रमुखेकल्पयेत्तथा ।
द्वितीयावरणद्वारो व्यस्तश्छेन्नास्तिदूषणं ।। ६.३७ ।।

विमानोत्सेधतुर्यं वा पोदोनं चार्थमेव वा ।
पृधग्गोपुरसंयुक्त मुच्छ्रितं तु समन्तुवा ।। ६.३८ ।।

पञ्चप्राकारमित्येवं त्रिप्राकारमथापिवा ।
त्रिप्राकारेषडङ्गुल्यं त्रिधाधस्तलनिम्नगं ।। ६.३९ ।।

प्राकारेहुच्छ्रयं विन्द्यात्कपोतान्तं तदुत्तमं ।
मध्यमं चोत्करान्तेन कलशान्तं तथाधमं ।। ६.४० ।।

एवं प्राकारसंगेन तूत्सेधं त्रिविधं क्रमाथ् ।
उत्सेधात्पञ्चभागैकं चतुरंशकमेव वा ।। ६.४१ ।।

षड्भागैकेन वाकुर्यात्त्रिविधं भित्तिविस्तरं अथ वा ।
प्रासादभित्तिस्तु तत्समं भित्तिमेव च ।। ६.४२ ।।

गर्भेऽष्टांशोच्छ्रयं श्रेष्ठं सप्तभागेद्विमध्यमं ।
पञ्चभागैकमधमं बलिपीठं तथाभवेथ् ।। ६.४३ ।।

गर्भपञ्चत्रिभागैकं ... ।
नवांशेषट्चतुर्भागं मध्यमाधममुत्तमं ।। ६.४४ ।।

त्रिधा पैशाचिकं पीठाद्धस्तमात्रं क्रमाद्भवेथ् ।
द्विहस्तान्तं त्रिहस्तान्तं चतुर्हस्तान्तमुच्यते ।। ६.४५ ।।

अधमं मध्यमं श्रेष्ठं त्रिधा पैशाचपीठकं ।
सप्तविंशतिभागैश्च सममेवं समुन्नतं ।। ६.४६ ।।

द्व्यंशं च पादुका ज्ञेयं चतुरंशं जनिं विदुः ।
त्षंशं तु कुंभमित्याहु श्चतुर्थङ्कण्ठमेव च ।। ६.४७ ।।

षड्भागं करणेत्याहुर्द्व्यंशं वलकमेव च ।
चतुरंशे कपोताश्च अंशेचैवाग्रपट्टिका ।। ६.४८ ।।

अध्यर्धं पद्मपुष्पन्तु एकार्धं पद्मपुष्पकं ।
एवं सम्यग्विदित्वातु भागेभागे विनिर्दिशेथ् ।। ६.४९ ।।


इति श्रीवैखानसे भगवच्चास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षष्ठोऽध्यायः.