भृगुसंहिता/सप्तत्रिंशो‌ऽध्यायः

← षट्त्रिंशोऽध्यायः भृगुसंहिता
सप्तत्रिंशो‌ऽध्यायः
[[लेखकः :|]]

अथ सप्तत्रिंशोऽध्यायः.
त्रियुगधर्म प्रपञ्चः.
अथ वक्ष्ये लघूक्तेन युगधर्मांस्ततः परं ।
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगं ।। ३७.१ ।।

कृतमेव च कर्तव्यं तस्मिन्काले यदीप्सितं ।
न तत्रधर्माःसीदन्ति न च क्षीयन्तिवै प्रजाः ।। ३७.२ ।।

ततः कृतयुगं प्रोक्तमन्वर्थेन गुणेन वै ।
न तस्मिन्युगसंसर्गेव्यवायो नेन्द्रियक्षयः ।। ३७.३ ।।

नानूया नापि रुदितं न दर्पो न च पैशुनं ।
न विग्रहो न विद्वेषोन मिथ्या नापि वञ्चनं ।। ३७.४ ।।

न भयं न च सन्तापो न लोभो न च मानिता ।
तदा ज्योतिःपरं ब्रह्म वैखानसमनामयं ।। ३७.५ ।।

या गतिर्योगिनामेका ह्यपुनर्भवकाङ्क्षिणां ।
विष्णुस्सर्वात्मको देवः शुक्लो नारायणः स्मृतः ।। ३७.६ ।।

अन्तर्यामिणि तस्मिंस्तु सर्वलोकमये हरौ ।
स्वयं शुक्लत्वमापन्ने सर्वमच्छं भविष्यति ।। ३७.७ ।।

ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च भगवत्पराः ।
स्वकर्मनिरतास्सर्वेभवन्ति मनुजाः कृते ।। ३७.८ ।।

समाश्रमं समाचारं सत्यभूतं तपोरतं ।
विज्ञानभरितं सर्वं जगद्भवति सन्ततं ।। ३७.९ ।।

एक वेदसमायुक्ता एकधर्मविधिक्रियाः ।
पृथग्धर्मास्त्वेक वेदा धर्ममेकमनुव्रताः ।। ३७.१० ।।

चतुराश्रमयुस्तेन कर्मणा कालयोगिना ।
अकामभलसंयोगाः प्राप्नुवन्ति परां गतिं ।। ३७.११ ।।

कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ।
एतत्कृतयुगं नाम त्रैगुण्यगुणवर्जितं ।। ३७.१२ ।।

ततस्त्रेतायुगं नाम यत्र धर्मस्त्री पाद्भवेथ् ।
रक्ततां तु समभ्येति हरिर्नारायणः प्रभुः ।। ३७.१३ ।।

सत्यप्रवृत्ताश्च नराः दानधर्मपरायणाः ।
यजन्ते विविधैर्यज्ञैर्नारायणमनामयं ।। ३७.१४ ।।

ब्राह्मणाद्यास्स्वधर्मेषु प्रवर्तन्ते निरन्तरं ।
यतो धर्मपदे वृद्धा द्वापरं प्रतिपेदरे ।। ३७.१५ ।।

युगं संशीनधर्मत्वाद्द्वापरं परिचक्षते ।
विष्णुः पीतत्वमभ्येति वेदश्चापि विभज्यते ।। ३७.१६ ।।

द्विपाद्भवति वैधर्मो द्वापरे समुपस्थिते ।
द्विवेदाश्चैकवेदाश्च निर्वेदाश्च तथा परे ।। ३७.१७ ।।

विभिन्नशास्त्रनिष्ठाश्च भवन्ति विविधक्रियाः ।
प्रजा दानपरा भूत्वा दानं शंसन्ति सन्ततं ।। ३७.१८ ।।

राजसं भावमाश्रित्य राजसी भवति प्रजा ।
सत्त्वात्प्रच्यवमानानां व्याधयो भृशदारुणाः ।। ३७.१९ ।।

अत्याहितानि चान्यानि भवेष्यन्त्यधरोत्तरं ।
कालस्य ह्रस्वतायोगाच्चतुर्थं स्याद्युगं कलिः ।। ३७.२० ।।

प्रत्यक्षरूपधृग्देवो न कलौ दृश्यते यतः ।
कृतादिष्विव तेनैव त्रियुगः कलिरुच्यते ।। ३७.२१ ।।

पदेनैकेन वै धर्मः प्रवर्तेत कलौ युगे ।
तस्मिंस्तु समनुप्राप्ते न धर्मस्संप्रवर्तते ।। ३७.२२ ।।

तामसं युगमासाद्य हरिः कृष्णत्वमेति च ।
यः कश्चिदत्र धर्मात्मा क्रियोयोगरतो भवेथ् ।। ३७.२३ ।।

नरं धर्मपरं दृष्ट्वा सर्वेऽसूयां प्रकुर्वते ।
वर्णाश्रमाश्रिताचाराः प्रणश्यन्तिन संशयः ।। ३७.२४ ।।

व्रताचाराः प्रणश्यन्ति ध्यानयज्ञादयस्तथा ।
उपद्रवा जनिष्यन्ति ह्यधर्मस्य प्रवर्तनाथ् ।। ३७.२५ ।।

असूयानिरतास्सर्वे दंभाचारपरायणाः ।
प्रजाश्चाल्पायुषस्सर्वे भविष्यन्तिकलौ युगे ।। ३७.२६ ।।

सर्वेधर्माः प्रणश्यन्ति कृष्णे कृष्मत्वमागते ।
यस्मात्कलिर्महाघोरस्सर्वपापस्य साधकः ।। ३७.२७ ।।

ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा धर्मपराङ्मुखाः ।
घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः ।। ३७.२८ ।।

व्याजधर्मपरास्सर्वे वृधाहङ्कार दूषिताः ।
सर्वमाक्षिप्यते नित्यं नरैः पण्डितमानिभिः ।। ३७.२९ ।।

अहमेवाधिक इति सर्वो विवदते जनः ।
अधर्मलोलुपास्सर्वे तथा चैव द्विजातयः ।। ३७.३० ।।

अतस्त्वल्पायुषस्सर्वे भविष्यन्ति कलौ युगे ।
अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं भवेथ् ।। ३७.३१ ।।

विद्याग्रहणशून्यत्वादधर्मस्संप्रवर्तते ।
व्युत्क्रमेण प्रजास्सर्वा म्रियन्ते पापतर्पराः ।। ३७.३२ ।।

ब्राह्मणाद्यास्तथा वर्णास्संकीर्यन्ते परस्बरं ।
कामक्रोधपरा मूढा वृधाहं कारपूरिताः ।। ३७.३३ ।।

बद्धवैरा भविष्यन्ति परस्परवधेप्सवः ।
जनास्सर्वे दयाहीना दाक्षिण्य परिवर्जिता ।। ३७.३४ ।।

शूद्रतुल्या भविष्यन्ति तपस्सत्यविवर्जिताः ।
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ।। ३७.३५ ।।

राजानो द्रव्यनिरता लोभमोहपरायणाः ।
धर्मकञ्चुकसंवीता धर्मविध्वंसकारिणः ।। ३७.३६ ।।

यो योऽश्वरथनागाढ्यस्स स राजा भविष्यति ।
किङ्कराश्च भविष्यन्ति शूद्राणां चद्विजातयः ।। ३७.३७ ।।

म्लेच्छाश्च युनाद्याश्च पालयन्ति वसुंधरां ।
अनावृष्टिभयात्प्रायो गगनादत्तचक्षुषः ।। ३७.३८ ।।

भविष्यन्ति नरास्सर्वे सदा क्षुद्भयकातराः ।
कलौ नराभविष्यन्ति स्वल्पभाग्या बहुप्रजाः ।। ३७.३९ ।।

पतिवाक्यमनादृत्य सदान्यगृहतत्पराः ।
दुश्शीला दुष्टशीलेषु करिष्यन्ति स्पृहां स्त्रियः ।। ३७.४० ।।

परुषानृतभाषिण्यो देहसंस्कार वर्जिताः ।
वाचालाश्च भविष्यन्तिकलौ प्राप्ते सदा स्त्रियः ।। ३७.४१ ।।

नगरेषु च ग्रामेषु प्राकाराट्टादिकान्जनाः ।
चोरादिभयभीताश्च काष्ठयन्त्राणि कुर्वते ।। ३७.४२ ।।

दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ।
गोधूमान्नयवान्नाढ्यान्देशान्प्राप्स्यन्ति दुःखिताः ।। ३७.४३ ।।

स्वकार्यसिद्धिपर्यन्तं स्निह्यन्त्यन्येषु मानवाः ।
भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रिताः ।। ३७.४४ ।।

अन्नोपाधिनिमित्तेन शिष्यान्गृह्णन्ति सर्वतः ।
उभाभ्यामपि हस्ताभ्यां शिरःकण्डूयनं स्त्रियः ।। ३७.४५ ।।

कुर्वन्त्यो भर्तृमुख्यानामाज्ञां भेत्स्यन्त्यानादृताः ।
पाषण्डालापनिरताः पाषण्डिजनसंगिनः ।। ३७.४६ ।।

भविष्यन्ति यदा विप्रा स्तदा वृद्धिमियात्कलिः ।
अल्पोदकास्तथा मेघा अल्पसस्या वसुंधरा ।। ३७.४७ ।।

अल्पक्षीरास्तथा गावः क्षीरात्सर्पिर्न जायते ।
एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च ।। ३७.४८ ।।

नास्ति वर्णान्तरं तत्रलयं यास्यन्ति मानवाः ।
सन्तस्सीदन्त्यसन्तश्च विलसन्तिसमन्ततः ।। ३७.४९ ।।

मैत्री परजने भूयाद्वैरं च स्वजने भवेथ् ।
पुत्राः पितृषु जीवत्सु म्रियन्ते च तदग्रतः ।। ३७.५० ।।

कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।
त्यक्ष्यन्तिहि प्रियान्प्राणान्हनिष्यन्ति स्वबान्धवान् ।। ३७.५१ ।।

पाषण्डप्रचुरेधर्मे दस्युप्रायेषु राजसु ।
चौर्यानृतवृधाहिंसानानावृत्तिषु वै नृषु ।। ३७.५२ ।।

शूद्रप्रायेषु वर्णेषु छागप्रायेषु गोषु च ।
करिष्यन्ति तथा शूद्राः प्रव्रज्यालिङ्गिनौऽधमाः ।। ३७.५३ ।।

काषायपरिनीताश्च जटिला भक्मधूसराः ।
अशौचावक्रमतयः परपाकान्नजीविनः ।। ३७.५४ ।।

देवद्विजनिवासेषु पूजामिच्छन्ति पापिनः ।
भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तथा ।। ३७.५५ ।।

उत्कोच जीविनस्तत्र महापापरतास्तथा ।
भविष्यन्त्यथ पाषण्डाः कापाला भिक्षवोधमाः ।। ३७.५६ ।।

धर्मविध्वंसशीलानां द्विजनां राजवल्लभाः ।
शूद्रा धर्मान्प्रवक्ष्यन्ति प्रव्रज्यालिङ्गिनोऽधमाः ।। ३७.५७ ।।

गीतवाद्यपरा विप्रा वेदवादपराङ्मुखाः ।
भविष्यन्ति कलौ प्राप्ते शूद्रमार्ग प्रवर्तिनः ।। ३७.५८ ।।

हर्तारो न च दातारोभविष्यन्ति कलौ युगे ।
विश्वासहीनाः पिशुना वेददेवद्विजातिषु ।। ३७.५९ ।।

असंस्कृतो क्तिवक्तारो रागद्वेषपरास्तथा ।
परमायुश्चतेषां स्यात्तदा वर्षाणि षोडश ।। ३७.६० ।।

पञ्चमे वाथःवष्ठे वा वर्षेकन्या प्रसूयते ।
सर्त्पवर्षाष्टवर्षाश्च प्रसूयन्ते तथा नराः ।। ३७.६१ ।।

स्वकर्मत्यागिनस्सर्वे कृतघ्ना भिन्नवृत्तयः ।
याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे ।। ३७.६२ ।।

परावमाननिरता आत्मस्तुतिपरायणाः ।
परस्वहरणोपायचिन्तकाः सर्वदा नराः ।। ३७.६३ ।।

निन्दां कुर्वन्ति सततं पितृमातृकुलेषु तु ।
वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः ।। ३७.६४ ।।

छादयन्ति प्रयत्नेन स्वदोषं पापकर्मजं ।
अपापे दुष्कृतं सम्यग्विवृण्वन्ति नराधमाः ।। ३७.६५ ।।

धर्ममार्गप्रवक्तारं तिरस्कुर्वन्ति पापिनः ।
भविष्यन्ति कलौ प्राप्ति राजानो म्लेच्छजातयः ।। ३७.६६ ।।

द्विजाश्च क्षत्रिया वैश्याः शूद्राश्चान्याश्च जातयः ।
अत्यन्तकामिनस्सर्वे संकीर्यन्ते परस्परं ।। ३७.६७ ।।

न शिष्यो न गुरुः कश्चिन्न पुत्रो न तथा पिता ।
न भार्या न पतिस्तत्र भविता सर्वसंकरः ।। ३७.६८ ।।

कलौ च ते भविष्यन्ति धनाढ्या अपि याचकाः ।
रसविक्रयिणश्चापि भविष्यन्ति कलौ युगे ।। ३७.६९ ।।

धर्मपत्नीषु यच्छन्ति पतयो जारलक्षणं ।
द्विष्यन्ति पितरं पुत्रा गुरुं शिष्याद्विषन्ति च ।। ३७.७० ।।

पतिं च वनिता द्वेष्टि कलौ प्राप्तेन संशयः ।
लोभाभिभूतमनसस्सर्वे दुष्कर्मशालिनः ।। ३७.७१ ।।

परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः ।
परस्त्रीनिरतास्सर्वे परद्रव्यपरायणाः ।। ३७.७२ ।।

मर्त्यामिषेण जीवन्ति दुहन्तश्चाप्यजाविकान् ।
सरित्तीरेषु कुद्दालैरोपयिष्यन्ति चौषधीः ।। ३७.७३ ।।

अत्यल्पानि फलान्यासां भविष्यन्ति कलौ युगे ।
वेश्यालावण्यशीलेषु स्पृहां कुर्वन्ति योषितः ।। ३७.७४ ।।

धर्मविघ्ना भविष्यन्ति स्त्रियश्च पुरुषेषु च ।
न कन्यां याचते कश्चिन्न च कन्याप्रदो नरः ।। ३७.७५ ।।

कन्या वरांश्च छन्देन ग्रहीष्टन्ति परस्परं ।
प्रायशः कृपणानां च बन्धूनां च तधा द्विजाः ।। ३७.७६ ।।

साधूनां विविधानां च वित्तान्यपहरन्ति च ।
न यक्ष्यन्ति न होष्यन्तिन तपस्यन्ति वै जनाः ।। ३७.७७ ।।

नैव दास्यन्ति दानादि नार्ऽचयिष्यन्ति वा हरिं ।
न धर्मे निविशिष्यन्ति हेतुवादकथाश्रयाः ।। ३७.७८ ।।

अपात्रेष्वेव दानानि कुर्वन्ति च तथा नराः ।
क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते ।। ३७.७९ ।।

न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः ।
अकालकर्मनिरताः कूटयुक्तिविशारदाः ।। ३७.८० ।।

देवनिन्दापराश्चैव विप्रनिन्दापरास्तथा ।
त्यक्तपुण्ड्रशिखासूत्राश्चरिष्यन्तिद्विजातयः ।। ३७.८१ ।।

विष्णुभक्तिपरं न स्यान्मनः कस्यापि जातु चिथ् ।
देवपूजापरं दृष्ट्वा सर्वे परिहसन्ति च ।। ३७.८२ ।।

शास्त्रोदिताश्च ये देवाःपरिवारा मधुद्विषः ।
तान्परित्यज्य मोहेन नराः कालबलात्कृताः ।। ३७.८३ ।।

हेतुवादपरान्देवान्करिष्यन्त्यपरां स्तदा ।
निर्बध्नन्ति द्विजानेव करार्थं राजकिङ्कराः ।। ३७.८४ ।।

नाद्रियन्ते द्विजानन्ये कलौ पापसमाकुले ।
दानयज्ञ जपादीनां विक्रीणन्ते फलं द्विजाः ।। ३७.८५ ।।

प्रतिग्रहं च कुर्वन्ते चण्डालादेरपि द्विजाः ।
शूद्रस्त्रीमङ्गनिरता विधवासंगलोलुपाः ।। ३७.८६ ।।

रजस्स्वलानां वोढारो भविष्यन्ति कलौ युगे ।
शूद्रान्न पाननिरताः शूद्रप्राया भवन्ति च ।। ३७.८७ ।।

अट्टशूलाजनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ।। ३७.८८ ।।

कुहकाश्च जनास्तत्र हेतुवादविशारदाः ।
पाषण्डिनो भविष्यन्ति तिष्टन्त्याश्रमनिन्दकाः ।। ३७.८९ ।।

न च द्विजातिशुश्रूषां सर्वधर्मनिवर्तिनीं ।
गृहप्रायेष्वाश्रमेषु योगिप्रायेषु बन्धुषु ।। ३७.९० ।।

ततश्छानुदिनं धर्मस्सत्यं शौचं दया क्षमा ।
कालेन बलिना सर्वं नश्यत्यायुर्बलं स्मृतिः ।। ३७.९१ ।।

वीत्तमेव कलौ नॄणां जन्माचारगुणोदयं ।
दांपत्येऽभिरुचिर्हेतुर्मायैव व्यवहारके ।। ३७.९२ ।।

धर्मन्यायव्यवस्थानां कारणं बलमेव हि ।
स्त्रीत्वमेवोपभोगे स्वाद्विप्रत्वे सूत्रमेव हि ।। ३७.९३ ।।

लिङ्गमेवाश्रमख्यातावन्यायो वृत्तिकारणं ।
अवृत्तौ चापि दौर्बल्यं पाण्डित्ये चाफलं वचः ।। ३७.९४ ।।

स्वीकार एव चोद्वाहे स्नानमेवाशुचौ स्मृतं ।
उदरंभरिता स्वार्थेसत्यत्वे धार्ष्ट्यमेव हि ।। ३७.९५ ।।

दाक्ष्ये कुटुंबभरणे यशोर्थे धर्मसेवनं ।
इत्थं कलियुगे प्राप्ते धर्मस्सर्वोऽपि जीर्यते ।। ३७.९६ ।।

यदा मायानृतं तन्द्रा निद्रा हिंसा विषायनं ।
शोको मोहो भयं दैन्यं स कलिस्तामसःस्मृतः ।। ३७.९७ ।।

यदायदा सतां हानिर्वैदिकानां द्विजन्मनां ।
तदा तदा कलिंप्राप्तमवबुद्ध्येत पण्डितः ।। ३७.९८ ।।

अहो दुःखमहोदुःखमहोदुःखमहो महथ् ।
स्वरूपमतिभीमस्य संसारस्य सुदुर्भरं ।। ३७.९९ ।।

विण्मूत्रपूयकलिते गर्भवासे निपीडनाथ् ।
अशुचावतिभीभत्से दुःखमत्यन्तदुस्सहं ।। ३७.१०० ।।

दुःखं च जायमानानां गात्रभङ्गादिपीडने ।
वातेन प्रेर्यमाणानां मूर्छनायातिभीतिदं ।। ३७.१०१ ।।

बालके निर्विवेकानां भूतदैवात्मसंभवं ।
यौवने वार्धके चैव मरणे चाति दारुणे ।। ३७.१०२ ।।

एकौत्तरं मृत्युशतं देहे ज्ञेयं प्रतिष्ठितं ।
तत्रैकः कालसंज्ञः स्याच्छेषास्त्वागन्तुकाःस्मृताः ।। ३७.१०३ ।।

ये चात्रागन्तुकाः प्रोक्तास्ते तु शाम्यन्ति भेषजैः ।
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ।। ३७.१०४ ।।

विविधा व्याधयश्शस्त्रं सर्पाद्याः प्राणिनस्तथा ।
विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनां ।। ३७.१०५ ।।

नौषधं न तपो दानं न मन्त्रान च बान्धवाः ।
शक्नुवन्ति नरं त्रातुं कालमृत्युप्रपीडितं ।। ३७.१०६ ।।

रसायनतपोजप्ययोगसिद्धैर्महात्मभिः ।
कालमृत्युरपि प्राप्तो जीयतेऽनलसैर्नरैः ।। ३७.१०७ ।।

नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयं ।
सद्भार्यां पुत्रमित्राणि राज्यैश्वर्यसुखानि च ।। ३७.१०८ ।।

आबद्धानि च वैराणि मृत्युस्सर्वं विनाशयेथ् ।
यद्दुःखं मरणे जन्तोर्न तस्येह समं क्वचिथ् ।। ३७.१०९ ।।

मण्डूक इव सर्पेण ग्रस्यते मृत्युना जगथ् ।
बान्धवैश्च परिष्वक्तः प्रियैश्च परिवारितः ।। ३७.११० ।।

निश्श्वपन्दीर्घमुष्णं च मुखेन परिशुष्यता ।
चतुर्ष्वन्तेषु खट्वायाः परिवृत्य मूहुर्मुहुः ।। ३७.१११ ।।

सम्मूढः क्षिपतेऽत्यर्धं हस्तपादमितस्ततः ।
खट्वाया वाञ्छते भूमिं भूमेः खट्वां ततो महीं ।। ३७.११२ ।।

विवस्त्रस्त्यक्तलज्जश्च मूत्रविष्ठापरिप्लुतः ।
याचमानश्च सलिलं शुष्ककण्ठास्यतालुकः ।। ३७.११३ ।।

चिन्तयानश्चवित्तानि कस्यैतानिमृतेमयि ।
नखाग्रैश्च स्पृशन्भूमिं कालपाशेन कर्षितः ।। ३७.११४ ।।

म्रियते पश्यतामेव गले खुरखुरायते ।
जीवस्तृणजलूकावद्देहाद्देहं विशेदसौ ।। ३७.११५ ।।

संप्राप्योत्तरवंशे च तनुं त्यजति पौर्विकीं ।
देहभेदेन यः पुंसां वियोगः कर्मसंक्षयाथ् ।। ३७.११६ ।।

मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः ।
जायते म्रियते चैवं कर्मभिः स्वयमार्जितैः ।। ३७.११७ ।।

शीतोष्णतृष्णाक्षुद्रोग्रज्वरादिपरिवारितः ।
सर्वदैवपुमानास्ते यावज्जन्मान्त संस्थितिः ।। ३७.११८ ।।

दुःखातिशयभूतं हि यदन्ते नासुखं नृणां ।
तस्योपमानं नैवास्ति कार्येणैवानु मीयते ।। ३७.११९ ।।

कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुस्सहं ।
दुःखं तत्संस्मृतिं प्राप्तं करोति मम वेपथुं ।। ३७.१२० ।।

ततश्चैव पुनस्तस्य योनिसंक्रमणे च यथ् ।
गर्भस्थस्य च यद्दुःखमतिदुस्सहमुल्बणं ।। ३७.१२१ ।।

पुनश्च जायमानस्य बाल्ययौवनजं च यथ् ।
दुःखान्येतान्यनन्तानि संसारान्तरवर्तिभिः ।। ३७.१२२ ।।

पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः ।
न वै सुखकला काचिदत्रास्त्यत्यन्तदुःखदे ।। ३७.१२३ ।।

संसारसंकटे संगमुपेतानां कदा चन ।
विषयासक्तमनसस्सततं पामरा जनाः ।। ३७.१२४ ।।

न मतिं कुर्वते विष्णौ सर्वलोकेश्वरेश्वरे ।
अथापि नात्र बिभ्यन्ति वैष्णवा भगवत्प्रियाः ।। ३७.१२५ ।।

विष्णुध्यानपरास्सन्तो विष्वर्चनपरायणाः ।
ते विष्णुसदृशा ज्ञेया न हि तान्बाधते कलिः ।। ३७.१२६ ।।

मायेयं वैष्णवी भूयः पातयेत्प्राणिनस्तदा ।
दुस्तरापि भवेत्साध्या यैर्न्यस्तं माधवेमनः ।। ३७.१२७ ।।

असंत्यज्य च गार्हस्थ्यमतप्त्वा चतथा तपः ।
छिनत्ति वैष्णवीं मायां केशवाराधने रतः ।। ३७.१२८ ।।

विषयानविरोधेन सेवमानोऽपि माधवं ।
अर्चयानस्तरन्त्येनां विष्णुमायां दुरत्ययां ।। ३७.१२९ ।।

यत एवमतो लब्ध्वाशरीरं कर्मसाधनं ।
शुभं कर्मैव कर्तद्यं तत्प्रसादाय मानवैः, ।। ३७.१३० ।।

प्रसादितेऽस्मिन्सर्वेषां स्ववर्णाश्रमकर्मभिः ।
सर्वेहस्तगताः कामा मुक्तिश्चान्ते करस्थिता ।। ३७.१३१ ।।

कार्यार्था मूर्तयस्तस्य लोककल्याणकारकाः ।
अतस्साकारमेवेष्ट्वा भक्त्येमं सिद्धिमाप्नुयाथ् ।। ३७.१३२ ।।

इदं च शास्त्रमालंब्य पूजयेद्विष्णुमव्ययं ।
यद्ध्यानं केवलं प्रोक्तं शास्त्रे क्वचिदनाश्रयं ।। ३७.१३३ ।।

न तत्रेन्द्रियदौर्बल्यात्कर्मस्थस्याधिकारिता ।
यथा गिरितटाग्रस्थवनस्पतिफलेच्छया ।। ३७.१३४ ।।

उपाये वर्ततेऽश्रान्तस्तथासौ यत्नमाचरेथ् ।
सर्वत्र क्रमवान्यत्नःकार्यो नैच्छैव केवला ।। ३७.१३५ ।।

तत्कायवाङ्मनोयोगैःक्रमादिच्छेत्परां गतिं ।
निराकारेतु या भक्त्या पूजेष्टा ध्यानमेव वा ।। ३७.१३६ ।।

रमणीयमिवाभाति तदनर्थस्य कारणं ।
स्थूलभावप्रसंदीनि जन्मनास्येन्द्रियाणि तु ।। ३७.१३७ ।।

सूक्ष्माच्छ न प्रपद्यन्ते चिराच्च किमुताचिराथ् ।
न च रूपं विना दोवो ध्यातुं केनापि शक्यते ।। ३७.१३८ ।।

सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति ।
निवृत्ताग्लायते बुद्धिर्निद्रयाहि परीयते ।। ३७.१३९ ।।

तस्माद्विद्वानुपासीत बुद्ध्या साकालमेव तं ।
अस्तितस्य परोक्षं तदिति किञ्चिदनुस्मरेथ् ।। ३७.१४० ।।

सर्वधाकारमुद्दिष्टं न परित्यज्य पण्डितः ।
परं देवमुपासीत मुक्तये वा फलायवा ।। ३७.१४१ ।।

भक्त्याकृतेनार्चनेन तुष्टोदेवः प्रजापतेः ।
पूजाद्यनुग्रहायाऽदावाविर्भूतश्चतुर्भुजः ।। ३७.१४२ ।।

तस्मात्तेनैव रूपेण ह्रिया लक्ष्म्या समायुतः ।
ध्येयस्सेव्योर्ऽचनियश्च सदा नारायणो बुधैः ।। ३७.१४३ ।।

साकारेऽस्मिन्कृता पूजा स्तुतिर्वा ध्यानमेव वा ।
विधिना शास्त्रदृष्टेन तस्मिन्नेव कृता भवेथ् ।। ३७.१४४ ।।

तदेवाराधनं विष्णोरवज्ञातं विशेषतः ।
ख्यापनार्थं कलौ कश्चिद्भविष्यति महामतिः ।। ३७.१४५ ।।

धर्मग्लानिरधर्मस्य वृद्धिर्यावद्भविष्यति ।
तावव्भर्ता महाविष्णुः सृजत्यात्मानमात्मना ।। ३७.१४६ ।।

श्रीनिवासे जनावाने श्रीनिवासः स्वयं हरिः ।
श्रीनिवासस्समाख्यातो भूमाववतरिष्यति ।। ३७.१४७ ।।

उत्पत्स्यमान एवासौ भ्राजमानस्स्वतेजसा ।
जगदावरणं क्रूरं तमः पुञ्जं हनिष्यति ।। ३७.१४८ ।।

पञ्चहायन एवाथ प्राप्तसर्वकलाकुलः ।
संस्कृतोऽखिलसंस्कारैर्ब्रह्मवर्चससेवितः ।। ३७.१४९ ।।

सर्वलोकेश्वरं देवं श्रीनिवाकं श्रियः पतिं ।
चतुर्भुजमुदाराङ्गं दिव्याभरणभूषितं ।। ३७.१५० ।।

श्रीवत्सांकं महाबाहुं शङ्खचक्रगदाधरं ।
किरीटमुकुटोपेतं वरदाभयचिह्नितं ।। ३७.१५१ ।।

हैमोर्ध्वपुण्ड्रलावण्यलसद्वदनपङ्कजं ।
वैखानसैर्महाभागैरर्च्यमानं निरन्तरं ।। ३७.१५२ ।।

कृतास्पदं कलियुगे तदीयं कुलदैवतं ।
"अरायि काणऽऽ इत्याद्यैश्श्रुतिवाक्यैरभिष्टुतं ।। ३७.१५३ ।।

"रयिः ककुद्माऽऽनित्याद्यैर्मन्त्रैर्वैखानसैः परैः ।
इज्यमानं विशेषेण विविधैः पारमात्मिकैः ।। ३७.१५४ ।।

कल्याणगुणसंपूर्णं दिव्यमङ्गलविग्रहं ।
स्वयंव्यक्तं परञ्ज्योतिः परं ब्रह्म परात्परं ।। ३७.१५५ ।।

विधिना शास्त्रदृष्टेन देवमाराधयिष्यति ।
प्रसादसुमुखो देवस्स्वात्मभूते शिशौ स्वयं ।। ३७.१५६ ।।

अवनम्य च मूर्धानं गृहीष्यति गले स्रजं ।
दिव्यैःप्रसन्नैर्ग्रथितां कुसुमैस्तुलसीदलैः ।। ३७.१५७ ।।

स्वयं सार्धं कुमारेण हवींषि च भुजिष्यति ।
संतुष्टेन कुमारेण प्रार्थितः करुणानिधिः ।। ३७.१५८ ।।

वैखानसैर्महाभागैरुपेतैः सह मन्दिरे ।
हवींष्यशिष्यत्यध्यक्षं कुमारं सान्त्वयिष्यति ।। ३७.१५९ ।।

अर्चावतारमहात्म्यं लोकेभ्यःख्यापयिष्यति ।
देवोर्ऽचकपराधीनः सर्वं तेभ्यः करिष्यति ।। ३७.१६० ।।

तथा सम्मानितः प्रेम्णा श्रीनिवासेन सादरं ।
यज्ञैर्बहुविधैरन्यैर्यज्ञेशं संयजिष्यति ।। ३७.१६१ ।।

विशाले बहुसंस्कारसंकुले वसुधातले ।
स्थापयिष्यति विष्ण्वर्चां ग्रामे ग्रामे गृहे गृहे ।। ३७.१६२ ।।

पुराणि च जनावासा गृहाणि गृहिणां तथा ।
मन्दिरैरिन्दिरेशस्य सुन्दरैर्नतिभन्धुरैः ।। ३७.१६३ ।।

मण्डितानि भविष्यन्ति जगत्तत्त्वं भजिष्यति ।
इत आचार्य निर्देश इतश्शिष्योपसर्पणं ।। ३७.१६४ ।।

इहैव गृहिणां भूयः प्रसंग इह मन्त्रणं ।
अचार्यवरणं चेह शिल्पिनामिह मार्गणं ।। ३७.१६५ ।।

इह प्रस्तरसंग्राह इह दारुग्रहस्तथा ।
इह दिक्साथनं चैह वसुधासंपरीक्षणं ।। ३७.१६६ ।।

इतो मङ्गलघोषश्च इतःपुण्याहवाचनं ।
इत आद्येष्टकान्यास इतो मूर्धेष्टकाविधिः ।। ३७.१६७ ।।

इतश्शूलग्रहश्चेत इतो वैरज्जुबन्धनं ।
इतश्च मृत्स्नासंस्कार इतो वर्णविलेखनं ।। ३७.१६८ ।।

इतो मधूच्छिष्टविधिरितोऽलङ्कारकल्पनं ।
इतो ध्वजस्य निर्माणमितो भक्तसमागमः ।। ३७.१६९ ।।

इतःप्रतिष्ठासंकल्प नातो नयनमोक्षणं ।
इतोऽधिवासनं चेतो प्रभूतबलिदापनं ।। ३७.१७० ।।

इतोऽग्निमन्थनं चेतो होम आनन्दवर्धनः ।
इह गीतं नृत्तमिह वाद्यं श्रुतिमनोहरं ।। ३७.१७१ ।।

इह प्रतिष्ठा देवस्य इह च द्विजभोजनं ।
इह कालोत्सवश्चेह धनुषि प्रातरुत्सवः ।। ३७.१७२ ।।

मुद्गान्नस्य गुडान्नस्य प्रसादस्य निवेदनं ।
अद्योत्तिष्ठति वैकुण्ठः शयितः क्षीरसागरे? ।। ३७.१७३ ।।

अद्य व्रतस्यापवर्गो संशितस्स भुवो हरेः ।
अद्य वैवाहिकं देव्याव्रतान्ते लोकमङ्गलं ।। ३७.१७४ ।।

अद्य पौषी पूर्णिमाहोचाद्य चैकादशी शुभा ।
अद्य देवस्य कुर्यन्ति स्नपनं कलशैश्शतैः ।। ३७.१७५ ।।

अद्य दाशरथिर्जातो द्वादशी माघसंभवा ।
अद्य चाता जगन्माता फाल्गुने रेवती तिथौ ।। ३७.१७६ ।।

अद्यकुर्वन्ति देवस्य दमनोत्सवमीश्वराः ।
चैत्रमासस्त देवस्य महाप्रीतिकरः किल ।। ३७.१७७ ।।

कुर्वन्ति मनुजाधीशा वसन्ते दिव्यमुत्सवं ।
जलक्रीडोत्सवो ह्यद्य चैत्रयात्रा हरेःक्वचिथ् ।। ३७.१७८ ।।

केतकीमालतीजातीमल्लिकादोलिकोत्सवः ।
गन्धोत्सवोऽद्य क्रियते पौर्णमासी कदा दिनं ।। ३७.१७९ ।।

कदा चैकादशी पुण्या कदा वा द्वादशीतिधिः ।
कदा नृसिंहस्संजातः स्मृतमद्यत्रयोदशी ।। ३७.१८० ।।

वैशाखे शुक्लपक्षे तु क्रियते वार्षिकोत्सवः ।
कदा भवेत्पौर्णमासी क्रियते चन्द्रिकोत्सवः ।। ३७.१८१ ।।

कदा ज्येष्ठोत्सवो भूयात्कदा वा पूर्णिमा शुभा ।
प्रपोत्सवः कदा भूयादाषाढी च भविष्यति ।। ३७.१८२ ।।

कदा च श्रवणं भूयान्नक्षत्रं यत्र मारुतिः ।
रामसेवाधुरं धृत्वा जातस्साक्षान्महामतिः ।। ३७.१८३ ।।

कदा च श्रावणी भूयाद्यत्र नारायणो हरिः ।
स्वात्मानं जनयामास लोककल्याणहेतवे ।। ३७.१८४ ।।

वैखानसं विखनसं विरिञ्चमिति यं विदुः ।
कदा भाद्रपदो मासस्तत्र चैकादशी भवेथ् ।। ३७.१८५ ।।

कदा वा द्वादशी भूयात्सर्वपाप प्रणाशिनी ।
तिलधेनुं प्रदास्यन्ति यत्र देवस्य सन्निधौ ।। ३७.१८६ ।।

कदाश्विनो भवेन्मासस्तत्रापि दशमी शुभा ।
अश्वयात्रा हरेर्भूयादनुयास्यामहे हरिं ।। ३७.१८७ ।।

कदा भवेदमावास्या यस्यां स नरकोहतः ।
कदा वा कार्तिकोमासो भविष्यति हरिप्रियः ।। ३७.१८८ ।।

दीपारोपो भवेत्तत्र कदा वा कार्तिकी शुभा ।
कदायुगादय स्तद्वत्पुण्यकाला विशेषतः ।। ३७.१८९ ।।

कदा भविष्यति हरे रथयात्रा महात्मनः ।
कदा वा गजयात्रा स्यात्कदा वीशाधिरोहणं ।। ३७.१९० ।।

कदा भ्रमति देवेशो ग्रामवीथिषु सुन्दरं ।
कदा लभिष्टति हरेस्तीर्थं परमपावनं ।। ३७.१९१ ।।

कदा प्रसादं देवस्य कणस्यापि लभिष्यति ।
कदा शङ्खरथाङ्गादिदिव्यलाञ्छनलाञ्छिता ।। ३७.१९२ ।।

पादुका देवदेवस्य संस्करिष्यति मे शिरः ।
कदा वा तुलसीं पुण्यामर्पितां तस्य पादयोः ।। ३७.१९३ ।।

अश्नामि शिरसा चैव धारयिष्यामि वैष्णवीं ।
कदा वा पुण्यपुष्पाणामेकं देवसमर्पितं ।। ३७.१९४ ।।

शिरसा धारयिष्यामि जिघ्रामि भहुगन्धवथ् ।
देवदेवस्य द्रक्ष्यामि कदा सर्वाङ्गसुंदरं ।। ३७.१९५ ।।

आपादमौलिपर्यन्तं लावण्यमधुरं वपुः ।
इत्यादिकाः कथास्तत्र भविष्यन्ति प्रजासु च ।। ३७.१९६ ।।

सर्वे धर्मपरास्सर्वे नारायण परायणाः ।
अर्चने वासुदेवस्य भविष्यन्ति रता नराः ।। ३७.१९७ ।।

इत्येव कालं कालेयं गुरुरुज्जीवयिष्यति ।
श्रीनिवासं श्रियोवासमर्चिष्यति चिरं भुवि ।। ३७.१९८ ।।

पाषण्डोपप्लुतं धर्ममुद्धरिष्यति वैष्णवं ।
इदं च भगवच्छास्त्रं चिरस्थायि करिष्यति ।। ३७.१९९ ।।

सर्वतन्त्रस्वतन्त्रोऽसौ बहून्ग्रन्धान्प्रणेष्यति ।
असंख्येभ्यश्च शिष्येभ्यस्तत्तार्थमुपदेक्ष्यति ।। ३७.२०० ।।

धर्मव्यवस्थां कृत्वैवं कलावतिभयङ्करे ।
समेष्यति परं स्थानं तद्विष्णोः परमं पदं ।। ३७.२०१ ।।

युगान्ते च पुनर्नामहरेर्नैको गृहीष्यति ।
तदा हरिर्महावीरः कल्की नाम भविष्यति ।। ३७.२०२ ।।

अधर्मनिधनं कृत्वा धर्मं संस्थापयिष्यति ।
हरेर्दिव्यावताराणामवतारकथामिमां ।। ३७.२०३ ।।

यः पठेच्छ्रुणुयाद्वापि सोऽपि यास्यति सद्गतिं ।
धन्यास्ते पुरुषश्रेष्ठा दुरन्ते भवसागरे ।। ३७.२०४ ।।

ये नामापि कलौ विष्णोस्स्मरिष्यिन्त्यव्ययात्मवः ।
ध्यायन्कृतयुगे विष्णुं त्रेतायां दापरे यजन् ।। ३७.२०५ ।।

यत्तत्फलमवाप्नोति कलौ स्मरणमात्रतः ।
हरेर्हरति पापानि नामसंकीर्तितं सकृथ् ।। ३७.२०६ ।।

पाषण्डबहुले लोके कलावतिभयङ्करे ।
तन्नामकीर्तयेद्यस्तु तं विद्यात्कृतिनां वरं ।। ३७.२०७ ।।

तस्मात्सर्वप्रयत्नेन भक्त्या परमया युतः ।
समूर्ताराधनं कुर्यान्नान्यथा मुक्तिमाप्नुयाथ् ।। ३७.२०८ ।।

नाथमाद्यैस्तु नवभिरध्यायैरीड्यते क्रमाथ् ।
भूपरीक्षादिकर्माणि विमानानां च कल्पनं ।। ३७.२०९ ।।

विविधानां च बेराणां निर्माणविधिविस्तरः ।
दशमे नांकुरारोपः पश्चाद्द्वाभ्यामुदीरितः ।। ३७.२१० ।।

प्रतिष्ठा विधिरत्यन्त फलदो जगतः पतेः ।
पश्चाद्दशावताराणां चतुर्भिः प्रोच्यते विधिः ।। ३७.२११ ।।

तथा सप्तदशे चोक्त आदिमूर्ति विधिस्ततः ।
अष्टादशेर्ऽचनं सांगमुक्तं मधुविदारिणः ।। ३७.२१२ ।।

द्वाभ्यामुक्तस्ततो पूजाद्रव्य संग्रहण क्रमः ।
एकविंशे विशेषार्चाविधिस्सम्यगुदीरितः ।। ३७.२१३ ।।

द्वाविंशेस्नपनं चोक्तं त्रयोविंशे विशेषतः ।
विधिरुत्सवचक्रस्य प्रोक्तो द्वाभ्यामथोत्सवः ।। ३७.२१४ ।।

ततश्च षड्भिरध्यायैः प्रायश्चित्तस्य विस्तरः ।
प्रोक्तस्ततश्च द्वात्रिंशे संकीर्णंशा उदीरिताः ।। ३७.२१५ ।।

अर्चावतारमहिमा त्रयस्त्रिंशे प्रकीर्तितः ।
स्वयंव्यक्तादिभेदश्च चतुस्त्रिंशे प्रकाशितः ।। ३७.२१६ ।।

पञ्चत्रिंशे तु संप्रोक्तं क्रियायोगाश्रितं फलं ।
षट्त्रिंशेत्वपचाराश्च कथिता देवकोपनाः ।। ३७.२१७ ।।

कलिधर्माश्च संप्रोक्तास्सप्तत्रिंशे विशेषतः ।
सप्तत्रिंशद्भिरध्यायैरेवं गुरुकृपाबलाथ् ।। ३७.२१८ ।।

षड्भिः सहस्रैः श्लोकैस्तु क्रियाङ्गमुपवर्णितं ।। ३७.२१९ ।।


इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां चतुर्विंशत्सहान्रिकायां सहितायां प्रकीर्णाधिकारे सप्तत्रिंशोऽध्यायः

इति श्रीमति प्रकीर्णाधिकारे क्रियापादः.
श्री विखनसमहागुरवे नमः श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितं तस्मै समस्तवेदार्थविदे विखनसे नमः.
जयत्यात्मेश्वरोस्नि द्रध्यान सौधप्रियातिथिः श्रीमत्पत्रपुरीवासः श्रीरामस्सीतया गृही.
श्रीरामचन्द्राय नमः.