भृगुसंहिता/सप्तविंशोऽध्यायः
← षड्विंशोऽध्यायः | भृगुसंहिता सप्तविंशोऽध्यायः [[लेखकः :|]] |
अष्टाविंशोऽध्यायः → |
अथ सप्तविंशोऽध्यायः
प्रायश्चित्तम्
आचार्यस्यर्त्विजां चैव पूजकस्य विशेषतः ।
यथोक्तवरणे हीने शान्तिं कुर्याद्यथाविधि ।। २७.१ ।।
अब्जाग्नौ तु महाशान्तिं दशवारं हुनेत्ततः ।
यथोक्तं वरणं कृत्वा पश्चात्कर्म समाचरेथ् ।। २७.२ ।।
अङ्कुरार्पणकाले तु ब्रह्मादीनामथार्ऽचने ।
हविर्निवेदने वापि हीने शान्तिं समाचरेथ् ।। २७.३ ।।
तद्दैवत्यं वैष्णवं च हुत्वा-भ्यर्च्य निवेदयेथ् ।
अङ्कुरार्पणहीने तु वैष्णवं विष्णुसूक्तकं ।। २७.४ ।।
पुरुषसूक्तं च ब्राह्मं च व्याहृतीश्च हुनेत्तथा ।
पुनरप्यङ्कुरान्कृत्वा पश्चात्कार्यं समाचरेथ् ।। २७.५ ।।
कृत्वांकुरार्पणं पश्चान्नाचरेत्कर्म चेत्ततः ।
राजराष्ट्रविनाशस्स्यान्महाशान्तिं समाचरेथ् ।। २७.६ ।।
"क्षमऽस्वेति प्रणम्यैव पुनरङ्कुंमाचरेथ् ।
अक्ष्युन्मेषात्तु पूर्वं चेत्पीठसंघातकर्मणि ।। २७.७ ।।
अलाभे चैव रत्नानां वैष्णवं विष्णुसूक्तकं ।
सूक्तं तु पौरुषं ब्राह्मं स्ॐयं चैव तु व्याहृतिः ।। २७.८ ।।
हुत्वा सुवर्णं बहुश स्तत्तत्थ्साने विनिक्षिपेथ् ।
अक्ष्युन्मेषणकाले तु गवादीनामसंभवे ।। २७.९ ।।
दर्शनद्रव्यरूपाणां यथालाभं प्रगृह्य च ।
तत्तद्द्रव्याधिदैवत्यं वैष्णवं जुहुयात्क्रमाथ् ।। २७.१० ।।
तत्तद्द्रव्यं च संपाद्य विधिवद्दर्शयेत्पुनः ।
अक्ष्युन्मेषणहीने वा राहुसौरोदयेऽथ वा ।। २७.११ ।।
अन्धकेचैव नक्षत्रे कृते चैवाक्षिमोचने ।
सर्वनाशो भवेत्तस्माद्वैष्णवं विष्णुसूक्तकं ।। २७.१२ ।।
नवग्रहादिमन्त्राश्च हुत्वाक्ष्युन्मीलनं चरेथ् ।
पञ्चगव्यादिषु द्रव्येष्वधिवासे विवर्जिते ।। २७.१३ ।।
हुत्वा वैष्णवमार्षञ्च विष्णुसूक्तं तथैव च ।
जलाधिवासं त्रियहमेकाहं वापि कालयेथ् ।। २७.१४ ।।
यज्ञालये महावेद्यां कृतायामप्रमाणतः ।
अन्यदेशकृतायां वा विहीनायां च शोभनैः ।। २७.१५ ।।
तत्तद्देशाधिदैवत्यं वैष्णवं विष्णुसूक्तकं ।
श्रीभूदैवत्यं च हुत्वैव यथोक्तं पुनराचरेथ् ।। २७.१६ ।।
ध्रुवबेराक्षिमोक्षान्ते यदि बेरं न शोधयेथ् ।
विपरीतेऽपि वा हुत्वा वैष्णवं विष्णुसूक्तकं ।। २७.१७ ।।
पुरुषसूक्तं रौद्रमार्षं वारुणं च पुनश्चरेथ् ।
अग्निकुण्डान्यविधिना कृतान्यालक्ष्य सत्वरं ।। २७.१८ ।।
ब्राह्मं स्ॐयमथाग्नेयं विधिना कारयेत्ततः ।
अप्रमाणेषु कूर्चादिष्वाज्यपात्र स्रुवादिषु ।। २७.१९ ।।
मिन्दाहुती च सावित्रं व्याहृतीश्च हुनेद्बधः ।
पञ्चाग्निषु यथास्थानं प्रोक्षणोल्लेखने कृते ।। २७.२० ।।
मथिताग्नावलाभे तु प्राप्य चाचार्यमन्दिरं ।
अथ वा श्रोत्रियागारादाहृत्याग्निं समाचरेथ् ।। २७.२१ ।।
निधाय गार्हपत्येग्निमाघारं जुहुयाद्बुधः ।
वैष्णवं भूमिदैवत्यमाग्नेयं च हुनेत्क्रमाथ् ।। २७.२२ ।।
तमग्निं वर्धयित्वातु दक्षिणाग्नौ प्रणीय च ।
तत आहवनीयाग्नावावसध्ये ततः परं ।। २७.२३ ।।
सभ्ये पद्मानले चैवं क्रमात्प्रणयनं चरेथ् ।
विपरीते प्रणयने तत्तन्मन्त्रविवर्जिते ।। २७.२४ ।।
वैष्णवं पावकं ब्राह्मंस्ॐयं हुत्वा पुनश्चरेथ् ।
तत्तदग्निषु चाघारात्पूर्वं तेषामथान्तरा ।। २७.२५ ।।
नगच्छेद्यदि गच्छेत्तु तत्तद्दिक्पालदैवतं ।
वैष्णवं पावकं चेति प्रायश्चित्तं हुनैत्क्रमाथ् ।। २७.२६ ।।
उत्पन्ने मथिताग्नौ तु शान्ते तत्र प्रमादतः
आदौ प्रणयनादर्वागथवाग्निषु सर्वशः शान्तिं यथोदितां कुर्यादग्नि सूक्तं सहस्रशः) ।
तण्डुलैरेकजातीयैर्द्विप्रस्थैः पाचयेच्चरुं गव्यं च नवनीतं च लौकिकानलसंस्कृतं ।। २७.२७ ।।
संस्कारकाले संस्कुर्यात्तदग्निं मन्त्रवत्तदा ।
आज्यस्थाल्यामथ चरौ मक्षिकादिः पतेद्यदि ।। २७.२८ ।।
तद्व्यपोह्यान्यदादाय प्राजापत्यं च पावकं ।
वैष्णवं च हुनेदाज्ये त्वलब्धे नूतने पूनः ।। २७.२९ ।।
व्यपोह्य दोषं तं दर्भैरुद्दीप्योत्पूय चाचरेथ् ।
आघारितेऽग्नौ नष्टे तु "अयं ते योनिऽ मुच्चरन् ।। २७.३० ।।
आरोपयेच्च समिधं तद्भस्मनि यथार्हतः ।
"उद्बुद्ध्यऽस्वेति निक्षिप्य विधिना लौकिकेऽनले ।। २७.३१ ।।
विच्छिन्नं मिन्दाहुती च वैष्णवं व्याहृतिपूर्वकं ।
परिस्तरादिद्रव्याणां दाहे भेदेऽथ नाशने ।। २७.३२ ।।
पुनस्तत्तच्च संयोज्य महाव्याहृतिपूर्वकं ।
आग्नेयं मिन्दाहुती च वैष्णवं च हुनेद्बुधः ।। २७.३३ ।।
पात्रेऽनुक्ते स्रुवं पात्रं गृह्णीयाद्धोमकर्मणि ।
हविर्विशेषेऽनु क्तेतु घृतं वा सघृतं चरु ।। २७.३४ ।।
द्रव्ये प्रमाणहीने तु कापिलेन घृतेन वै ।
वैष्णवं विंशतिर्हुत्वा पश्चात्कार्यं समाचरेथ् ।। २७.३५ ।।
प्रायश्चित्तानलेऽनुक्ते छुल्ल्यां नित्यानलेऽपि वा ।
क्रियाहीने विपर्यासे मन्त्राणां संकरेऽपि वा ।। २७.३६ ।।
वैष्णवं व्याहृतीश्चैव व्याहृत्यन्तं हुनेत्क्रमाथ् ।
पुण्याहहीने पुण्याहमन्त्रान्द्वादशशो जपेथ् ।। २७.३७ ।।
वास्तुहोमविहीने तु तन्मन्त्रान्दशशो हुनेथ् ।
प्रायश्चित्तविशेषे यद्यनुक्ते वैष्णवं ततः ।। २७.३८ ।।
विष्णुसूक्तं पौरुषं च सूक्तं हुत्वा समाचरेथ् ।
रत्नप्रतिनिधी रुक्मं धातूनां पारदं तथा ।। २७.३९ ।।
बीजानां च यवाः प्रोक्ताः पूर्वालाभे परस्स्मतः ।
रत्नानां प्रणिधिं गृह्य वैष्णवं विष्णुसूक्तकं ।। २७.४० ।।
दिग्दैवत्यं वैष्णवं च धातूनामथ तत्परं ।
बीजानां प्रणिधिं गृह्य वायव्यं वैष्णवं तथा ।। २७.४१ ।।
हुने द्विंशतिवारं तु प्रत्येकं दोषशान्तये ।
वस्त्रेलक्षणहीने वा युक्ते छेदादिना ततः ।। २७.४२ ।।
तत्त्यक्त्वान्यं समाहृत्य श्रीदैवत्यं च वैष्णवं ।
अण्डजादिद्वलब्धेषु वस्त्रं प्रत्येकमाहरेथ् ।। २७.४३ ।।
वैष्णवं श्रीभूदैवत्यं हुत्वा कार्यं समाचरेथ् ।
प्रमाणहीनेषु पुनस्तोरणादिषु चात्वरः ।। २७.४४ ।।
पृथग्द्वाराधिदैवत्यं जुहुयाद्विंशतिं बुधः ।
दर्भरज्ज्वां विहीनायां हुनैदार्षं च वैष्णवम्, ।। २७.४५ ।।
कुंभे प्रमाणहीने वा दोषयुक्तेऽपि वा तथा ।
वस्त्राभ्यां वर्णचिह्नैश्च हीने नात्रवसेद्धरिः ।। २७.४६ ।।
यत्नेन तानि निक्षिप्य वैष्णवं विष्णुसूक्तकं ।
पुरुषसूक्तं ब्राह्मं च मुनिमन्त्रांश्च पावकं ।। २७.४७ ।।
जुहुयाद्दशकृत्वन्तु विप्राणां भोजनं चरेथ् ।
आचार्यदक्षिणान्दद्यात्सफलं भवति ध्रुवं ।। २७.४८ ।।
भिन्ने तु साधिते कुंभे वैष्णपं विष्णुसूक्तकं ।
पुरुषसूक्तं ब्राह्ममैन्द्रमाग्नेयं चार्षमेव च ।। २७.४९ ।।
हुत्वा विंशतिकृत्वन्तु दद्यादाचार्यदक्षिणां ।
ब्राह्मणान्भोजयित्वैव संपूज्यैव च वैष्मवान् ।। २७.५० ।।
अन्यत्कुंभं समाहृत्य पूर्ववत्साधयेद्बुधः ।
स्पृष्टे तु साथिते कुंभे पतितैः कुक्कुटादिभिः ।। २७.५१ ।।
तद्व्यपोह्यार्यदादाय पूर्ववत्साधयेत्तथा ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २७.५२ ।।
ब्राह्मं सौरमथाग्नेयमष्टाधिकशतं यजेथ् ।
आचार्यदक्षिणां दद्याद्वैष्णवान्पूजयेद्विधिः ।। २७.५३ ।।
स्पर्शदुष्टे तथा बेरे स्नपनं शास्त्रतश्चरेथ् ।
पूर्वोक्तां निष्कृतिं कृत्वा पश्चात्कार्यं समाचरेथ् ।। २७.५४ ।।
न्रुवादीनामलाभेतु स्रुवेणैव हुनेद्धविः ।
श्वकुक्कुटाद्यैस्संस्पृष्टे कुण्डे तं तं व्यपोह्य च ।। २७.५५ ।।
कुण्डं तु पूर्ववत्कृत्वा कृत्वाघारं यथाविधि ।
आग्नेयं वैष्णवं पञ्चवारुणं मूलहोमकं ।। २७.५६ ।।
शतशो जुहुयात्कुर्याद्ब्राह्मणानां च भोजनं ।
अलाभे समिधां कृह्य पालाशीर्वटसंभवाः ।। २७.५७ ।।
आग्नेयं वैष्णवं ब्राह्मं हुत्वाकार्यं समाचरेथ् ।
दर्भान्कुशान्वा समिधो मासातीतान्प्रगृह्य च ।। २७.५८ ।।
वारुणं वैष्णवं ब्राह्मं स्ॐयमाग्नेयमेव च ।
आदित्यं जुहुयाच्चैव दोष शान्तिर्भवेत्तथा ।। २७.५९ ।।
दधि क्षीरं गृहीतं चेदाजं माहिषमेव वा ।
वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृतीर्हुनेथ् ।। २७.६० ।।
अनुक्तदेशादानीता मृदो वा वालुकास्तथा ।
अग्निकुण्डार्थमाहृत्य वारुणं वैष्णवे हुनेथ् ।। २७.६१ ।।
आर्द्रं सधूमं दुर्गन्धं लेपयुक्तं सकण्टकं ।
जन्तुयुक्तं क्षिपेद्वह्नाविन्धनं तत्परित्यजेथ् ।। २७.६२ ।।
अन्यत्प्रक्षिप्य चाग्नेयं वैष्णवं व्याहृतीर्हुनेथ् ।
वस्त्रादिद्रव्ये दर्भेषु प्रपायां कूट एव वा ।। २७.६३ ।।
दग्धायामग्निना ब्राह्मं वैष्णवं सौरमेव च ।
आग्नेयं वैष्णवमिति प्रत्येकं दशशो हुनेथ् ।। २७.६४ ।।
कलशन्यासरचनाविपर्याने तु वैष्णवं ।
पङ्क्तीशदैवत्यं च हुनेत्ततश्शास्त्रवदाचरेथ् ।। २७.६५ ।।
स्नपने तु विपर्याने बेरस्य जुहुयाद्बुधः ।
पञ्चवारुणमन्त्रांश्च वैष्णवं च यथाविधि ।। २७.६६ ।।
शयने चेद्विपर्यासो वैष्णवं श्रीमहीमनून् ।
कलशस्नानशयने प्रत्येकं दशशो हुनेथ् ।। २७.६७ ।।
हीने वा विपरीते वा तत्र हौत्रप्रशंसने ।
ब्राह्मं मुनीन्द्रमन्त्रांश्चहुनेत्पारिषदामपि ।। २७.६८ ।।
अवाहनादावर्चायां विपरीते विवर्जिते ।
वैष्णवं विष्णुसूक्तं च ब्राह्मं रौन्द्रं हुनेद्दश ।। २७.६९ ।।
सर्वेषामुक्तहोमानां विपरीते विवर्जिते ।
पद्माग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ।। २७.७० ।।
शयानमुद्धरेद्देवमकाले चाप्यमन्त्रकं ।
हुत्वा श्रीभूमिदैवत्यं चतुष्कृत्वन्तु शाययेथ् ।। २७.७१ ।।
हीने चाध्ययने सारस्वतमष्टाधिकं शतं ।
प्रायश्चित्तं च हुत्वैव यथाशास्त्रं समाचरेथ् ।। २७.७२ ।।
यथालाभं च गृह्णीयादलाभे षोडशर्त्विजां ।
तन्त्रेण कारयेत्सर्वमेष शास्त्रविधिस्स्मृतः ।। २७.७३ ।।
प्रतिष्ठायामुत्सवेवा तथान्यच्छुभकर्मणि ।
कुर्वतां तु पुरश्चर्यामाचार्यस्य र्त्विजां तथा ।। २७.७४ ।।
आस्नानाद्दीक्षितानां तु नाशौचःपरिकीर्तितः ।
मोहादनुष्ठिताशौचाःपतन्तिनरकेऽशुचौ ।। २७.७५ ।।
गृह्णीया त्संस्कृतांस्तान्वा पुनरन्यानथापि वा ।
आचार्य स्थ्सापकादींस्तु भर्त्सनादिकमाचरन् ।। २७.७६ ।।
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।
ब्राह्मं सारस्वतं हुत्वा ताननुज्ञाप्य चाचरेथ् ।। २७.७७ ।।
आचार्यदक्षिणाकालेऽतीते हुत्वा तु वैष्णवं ।
मुनिमन्त्रञ्च जुहुयात्पृथगष्टोत्तरं शतं ।। २७.७८ ।।
यथोक्तदक्षिणां दद्यादर्थलोभं न कारयेथ् ।
ब्राह्मणानामन्नदाने विहीने शान्तिमाचरेथ् ।। २७.७९ ।।
त्रियहं तु महाशान्ति स्तद्दोषविनिवारिणी ।
हन्त्यल्पदक्षिणो यागः फलं दद्यात्सदक्षिणः ।। २७.८० ।।
यज्ञस्य दक्षिणा जीवस्तस्माद्यत्नेन पालयेथ् ।
इयं तात्कालिकीज्ञेया भूमिमग्रे प्रदापयेथ् ।। २७.८१ ।।
अर्चकस्यार्चनार्धं च कुटुंबार्थं विशेषतः ।
भूमिभोगमकल्प्यैव महाशान्तिं समाचरेथ् ।। २७.८२ ।।
असंकल्पितवृत्तिस्तु देवावासो न वर्धते ।
अर्चकः प्रणिधिर्यस्माद्राज्ञो राष्ट्रस्य कल्पते ।। २७.८३ ।।
तस्मात्समाहितः कुर्याद्यथा पूजा न लुप्यते ।
आपद्यपि च कष्टायां पूजामेतां न लोपयेथ् ।। २७.८४ ।।
यदैव लुप्यते पूजा येन केनापि हेतुना ।
अग्रेर्ऽचकमियाद्दोष आर्द्रमेषोऽपराध्यति ।। २७.८५ ।।
तस्माद्दायेन भूम्यादि स्थिरदानेन सादरं ।
रूढाधिकार एवाग्रे प्रवर्तेतार्ऽचनेर्ऽचकः ।। २७.८६ ।।
यस्मादर्चनहीने तु राजराष्ट्रादिसंक्षयः ।
तद्ग्रामवासिनस्तस्माद्राजा राष्ट्रगता अपि ।। २७.८७ ।।
भगवत्पूजनाहेतो रुपकुर्युः प्रयत्नतः ।
आर्द्रापराधो भवति यस्माद्दोषेषु पूजकः ।। २७.८८ ।।
तं वृत्तिकर्शितं दृष्य्वा राजा च ग्रामवासिनः ।
सुखितं तं तथा कुर्युर्यथा देवस्तथार्चकः ।। २७.८९ ।।
दत्वृत्तिमधिकां चापिन शङ्केयुरसूयवः ।
यथार्हमुपयुञ्जीरन्स्वशक्तिं तत्सुखाय वै ।। २७.९० ।।
प्रतिष्ठान्ते तु विधिवदर्चके त्वप्रकल्पिते ।
आसुरी सा भवेदर्चा कर्ता नैवाप्नु यात्फलं ।। २७.९१ ।।
देवेन सार्थमुद्दिष्टं यत्कुलं पूजकस्य तु ।
तदतिक्रम्य पूजां तु कारयेदितरेण चेथ् ।। २७.९२ ।।
रौरवं नरकं याति कर्ता कारयिता च यः ।
तस्मा त्सर्वप्रयत्नेन शास्त्रोक्तं परिपालयेथ् ।। २७.९३ ।।
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं ।
न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसंग्रहः ।। २७.९४ ।।
न त्य क्तविभवो जातु भवेच्च विभवे सति ।
यथाशक्ति प्रकुर्वीत विभवांश्च न लोभयेथ् ।। २७.९५ ।।
अलाभे कौतुकादीनां सुवर्णं न्यस्य वैष्मवं ।
विष्णुसूक्तं नृसुक्तं च वायव्यं दिगधीश्वरं ।। २७.९६ ।।
सभ्येऽन्तहोमहीने तु वैष्णवं पावकं तथा ।
व्याहृतीश्च हुनेद्विद्वान्दशकृत्वस्समाहितः ।। २७.९७ ।।
अग्निग्रहणहीने तु हुत्वा पूर्वोक्तनिष्कृतिं ।
श्रोत्रियावसथादग्निमाहृत्याघारवूर्वकं ।। २७.९८ ।।
नित्यहोमं च जुहुयात्ततः प्रभृति चाचरेथ् ।
ध्रुवादावाहयेद्यस्मात्कौतुकादि चतुर्ष्वपि ।। २७.९९ ।।
प्रमादात्कुंभतीर्थेन तेषामावाहने कृते ।
"इषेत्वेऽत्यादिना स्नाप्य शीघ्रं शुद्धेन वारिणा ।। २७.१०० ।।
अनुमान्य च देवेशं वैष्णवं विष्णुसूक्तकं ।
जुहुयात्पौरुषंसूक्तं ध्रुवादावाहयेत्पुनः ।। २७.१०१ ।।
अथनित्यार्चनायान्तु प्रायश्चित्तं प्रवक्ष्यते ।
सूर्योदयाच्च मध्याह्नात्पूर्व मस्तमयादपि ।। २७.१०२ ।।
कवाटोद्घाटने हीने नित्याग्नौ वा महानने ।
वैष्णवं धात्रादिदैवत्यं हुत्वा दौवारिकं तथा ।। २७.१०३ ।।
शीघ्रमुद्घाटयेद्द्वारं देवदेवं प्रणम्य च ।
अमन्त्रकमथान्यैर्वा कवाटोद्घाटने कृते ।। २७.१०४ ।।
पूर्वोक्तं जुहुयाच्छान्तिं जपेद्द्वादशसूक्तकं ।
मार्जनादिषु हीनेषु निर्माल्येचाप्यशोधिते ।। २७.१०५ ।।
वैष्णवं वारुणं हुत्वा वायव्यं शान्तमेव च ।
यथावत्कारयेत्सर्वं मन्त्रेणैव पुनर्गुरुः ।। २७.१०६ ।।
द्रव्यप्रतिनिधिस्तोयमलाभे तेन चाचरेथ् ।
देवस्य स्नपने हीने वैष्णवे वारुणं हुनेथ् ।। २७.१०७ ।।
"अपो हिऽष्ठादिभिर्मन्त्रैस्स्नावयेन्निष्कृतिर्भवेथ् ।
पश्नान्नित्यं प्रकुर्वीत स्नानं नित्यार्चनोदितं ।। २७.१०८ ।।
अशक्तौस्नापने प्रोक्ष्यं मन्त्रेण कुशवारिभिः ।
वस्त्रादींश्च व्यपोह्यैव धौतवस्त्रं समर्पयेथ् ।। २७.१०९ ।।
नित्यं स्नानमशक्यं चेद्विष्णुपञ्चदिनेषु वै ।
स्नापयेद्देवदेवेशमिति केचिद्वदन्तिहि ।। २७.११० ।।
ध्रुवपीठेतु निर्माल्यं संशोध्य पुनरेव च ।
पुष्पन्यासं प्रकुर्वीत ध्रुवे नित्यार्चनं भवेथ् ।। २७.१११ ।।
पुष्पन्यासं विनाकुर्यात्कौतुकस्यार्चनं यदि ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तधैव च ।। २७.११२ ।।
हुत्वा च विष्णुगायत्रीं पुष्बन्यासं क्रमाच्चरेथ् ।
संबन्धकूर्चहीनेतु वैष्णवं मुनिमन्त्रकं ।। २७.११३ ।।
हुत्वासन्न्यस्य कूर्चं तु पश्चात्कार्यं समाचरेथ् ।
धात्राद्यर्चनहीने तु तद्दैवत्यं सवैष्णवं ।। २७.११४ ।।
हुत्वार्चयेद्धातृमुखान्तथा परिषदः क्रमाथ् ।
उपचारविपर्यासे "क्षमऽन्वेति प्रणम्य च ।। २७.११५ ।।
अनुमान्यार्चयेद्देवं हीने चैव तु विग्रहे ।
तद्देवतामनुं जप्त्वा वैष्णवं च विशेषतः ।। २७.११६ ।।
पुनस्तदुपचारादि पूजये त्सर्वविग्रहैः ।
उक्तद्रव्ये ष्वलब्धेषु पुष्पं तोयमथाक्षतं ।। २७.११७ ।।
गृहीत्वा चैव तत्सर्वं ध्यात्वा देवं समर्चयेथ् ।
अर्चाकालेऽन्यकालं वा स्मये वा मूषिकादिभिः ।। २७.११८ ।।
मरुता वापि विच्छिन्नमजस्रं दीपमादराथ् ।
द्विगुणं तु समुद्दीप्य सौरं रौद्रं च पावकं ।। २७.११९ ।।
वैष्णवं च तथाहुत्वा पुनरर्चनमाचरेथ् ।
तत्काले सर्वदीपानां नाशे दोषो महत्तरः ।। २७.१२० ।।
देवं शुद्धोदकैस्स्नाप्य कुशोदैरभिषिच्य च ।
पूर्वोक्तां निष्कृतिं हुत्वा द्विगुणं तु निदेवयेथ् ।। २७.१२१ ।।
बहुदीपेषुचैकस्मिन्नष्टे तेनन दुष्यति ।
मन्त्राणां स्खलने मूर्त्याप्रणवेन सहाचरेथ् ।। २७.१२२ ।।
अर्चाकाले यवनिकाहीने चैव प्रजापतिं ।
वैष्णपं चैव हुत्वा तु पटं कृत्वार्ऽचयेत्पुनः ।। २७.१२३ ।।
वेददूषक पाषण्ड पापरोगान्वितैर्जनैः ।
प्रतिलोमादिभिर्ल्मेच्छैरन्त्यजातिभिरेव च ।। २७.१२४ ।।
तत्काले दर्शने हुत्वा वैष्णवं ब्राह्ममेव च ।
रौद्रं च पावकं हुत्वा व्याहृतीश्च ततोर्ऽचयेथ् ।। २७.१२५ ।।
यदि चावरणाद्बाह्ये पञ्चाशद्दण्डकान्तरे ।
मनुष्याणां मृतिस्स्यात्तदुद्धृत्यैवार्चयेद्धरिं ।। २७.१२६ ।।
नैवार्चनं हविर्दानं ततः पूर्वं समाचरेथ् ।
ध्रुवकौतुकयोः कुर्यात्पुष्पन्यासावसानकं ।। २७.१२७ ।।
पश्चात्कालात्यये शान्तिं हुत्वा द्विगुणमर्चयेथ् ।
एककालार्चने हीने द्वितीये द्विगुणं चरेथ् ।। २७.१२८ ।।
तृतीये त्रिगुणं कुर्यादेकाहेर्ऽचाविवर्जिते ।
वैष्णवं विष्णुसूक्तं च पुरुष सूक्तं तथैव च ।। २७.१२९ ।।
हुनेच्छ्रीभूमिदैवत्यं द्व्यहे तु द्विगुणं भवेथ् ।
त्षहे त्रिगुणमेवन्तु द्वादशाहान्तमाचरेथ् ।। २७.१३० ।।
अतीते द्वादशाहेतु संधायौपासनानले ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २७.१३१ ।।
आलये परिषद्देव मन्त्रान्हुत्वा च शक्तितः ।
कलशैस्स्नाप्य देवेशमभ्यर्च्य हविरर्पयेथ् ।। २७.१३२ ।।
मासं हीनेर्ऽचने कुर्यादालयाभिमुखे गुरुः ।
सभ्याग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ।। २७.१३३ ।।
हुत्वा श्रीभूमिदैवत्यं सर्वदैवत्यमेव च ।
कलशैरष्टभिश्च त्वारिंशद्भिस्स्नापयेद्धरिं ।। २७.१३४ ।।
विशेषेण हविर्दद्याद्द्वितीयेद्विगुणं तथा ।
तृतीये त्रिगुणं चैवं वत्सरानन्तु वर्धयेथ् ।। २७.१३५ ।।
अतीते वत्सरे चैवं पद्माग्नौ सप्तवासरं ।
महाशान्तिं तु हुत्वैव कृत्वा वैष्णवपूजनं ।। २७.१३६ ।।
ब्राह्मणान्भोजयित्वैव शताष्टकलशैः पुनः ।
संस्नाप्य देवदेवेशं पुनस्थ्सापन माचरेथ् ।। २७.१३७ ।।
अक्ष्युन्नेषाधिवासौ तु पुनस्थ्सापनकर्मणि ।
हित्वान्यत्सकलं कर्म पूर्ववत्तु समाचरेथ् ।। २७.१३८ ।।
हविर्हीने जनास्सर्वेतद्ग्रामस्थास्समीपगाः ।
पीडिताः क्षुत्पिपासाद्यैर्भवेयुर्व्याधिता अपि ।। २७.१३९ ।।
तस्मादतिप्रयत्नेन हविस्सम्य ङ्निवेदयेथ् ।
हीने हविष्येक काले द्वितीये द्विगुणं भवेथ् ।। २७.१४० ।।
तृतीये त्रिगुणं कुर्यादेकस्मिन्दिवसे गते ।
वैष्णवं श्रीमहीमन्त्रान्मूर्ति होमं तथा हुनेथ् ।। २७.१४१ ।।
देवं शुद्धोदकैस्स्नाप्य प्रभूतं तु निवेदयेथ् ।
सोपदंशमपक्वं च शीतं पर्युषितं तथा ।। २७.१४२ ।।
पात्रान्तरेष्वनिक्षिप्तं सावशेषं च लङ्घितं ।
विवृतं स्रावितं चैव विकृतं दृष्टि दूषितं ।। २७.१४३ ।।
अप्रोक्षितमथास्पृष्ट मगृहीतममुद्रितं ।
हविर्निवेदयेच्चेत्तु वैष्णवं श्रीमहीमनून् ।। २७.१४४ ।।
आग्नेयं वारुणं चैव वायव्यं दशशो हुनेथ् ।
द्विगुणं तु पुनःकृत्वा प्रभूतं तु निवेदयेथ् ।। २७.१४५ ।।
निवेद्य चाशुमिस्पृष्टं देवं संस्नाप्य मन्त्रतः ।
वैष्णवं विष्णुगायत्रीं त्रयस्त्रिंशत्क्रमाद्धुनेथ् ।। २७.१४६ ।।
जुहुयाद्विधिनाशान्तिं प्रोक्षणैरपि प्रोक्षयेथ् ।
पुण्याहं वाचयित्वैव द्विगुणं चार्चनं हविः ।। २७.१४७ ।।
व्रीह्यङ्गारतुषैर्युक्तेशर्करादिविमिश्रिते ।
निवेदिते तु हविषि मन्त्रेणाष्टाक्षरेण तु ।। २७.१४८ ।।
वैष्णप्या चैव गायत्षा मन्त्रैस्संस्तूय वैष्णवैः ।
"क्षमऽस्वेत्यनुमान्यैव प्रणमयैव च याचयेथ् ।। २७.१४९ ।।
मक्षिकाद्यैर्जन्तुभिश्च केशाद्यैरपि दूषिते ।
निवेदिते तु हविषि शुद्धोदैस्स्नाव्यवै हरिं ।। २७.१५० ।।
वैष्णवं विष्णुसूक्तं च श्रीभूदैवत्यमेव च ।
अष्टोत्तरशतं हुत्वा द्विगुणं तु निवेदयेथ् ।। २७.१५१ ।।
महाहविषि चैतैन्तु संयुक्ते तत्र दूषितं ।
पुरुषाशनमात्रं तु व्यपोह्य तदनन्तरं ।। २७.१५२ ।।
भस्मांभसाकुशै "रापो हिरण्य पवमानऽकैः ।
प्रोक्ष्य देवं सुसंप्रार्ध्य तद्गृहीत्वा निवेदयेथ् ।। २७.१५३ ।।
पूर्वमर्कोदयात्पक्व मुपदंशमथो हविः ।
कोष्णं चेदर्पयेत्प्रातरर्चनान्तेन दोषभाक् ।। २७.१५४ ।।
पूर्व मस्तमयात्पक्वं तथा सायं निवेदयेथ् ।
असंस्कृतं तु तांबूलं लेपकेशान्वितं तथा ।। २७.१५५ ।।
जन्तुस्पृष्टं निवेद्यैव वैष्णवंश्रीमहीमनुन् ।
हुत्वा संस्कृत्य तांबूलं पुनरन्यन्निवेदयेथ् ।। २७.१५६ ।।
अर्चनांगेषु चान्येषु पदार्थेष्वेवमेव हि ।
दूषितेष्वध हीनेषु तस्य तस्याधिदैवतं ।। २७.१५७ ।।
मन्त्रं स वैष्णवं हुत्वा पुनरन्यैस्समर्चयेथ् ।
अलाभे चैव सर्वेषां पुष्पं तोयं प्रगृह्यच ।। २७.१५८ ।।
संकल्प्यैव प्रतिनिधिं तत्तत्स्मृत्वा समर्चयेथ् ।
नित्यहोमे विहीनेतु वैष्णवं दशशो हुनेथ् ।। २७.१५९ ।।
यथोक्तहोमं द्विगुणमाचरेत्तदनन्तरं ।
अग्निसंरक्षणेऽशक्ता "वयन्ते योऽनिमुच्चरन् ।। २७.१६० ।।
समिध्यारोपयेत्कुण्डात्पश्चात्संस्थाप्य लौकिके ।
न्यस्य "चोपावरोऽहेतिप्रत्यहं जुहुयात्क्रमाथ् ।। २७.१६१ ।।
सुरर्षिमनुजानां तु बलं यस्मात्पृवर्धते ।
तस्माद्बलिस्समाख्यातस्तदर्थं प्रत्यहं हरिं ।। २७.१६२ ।।
उक्तद्रव्येषु चावाह्य त्रिषु कालेषु देशिकः ।
अभ्यर्च्य भ्रामयेदेवमशक्तः कर्तुमुत्तमं ।। २७.१६३ ।।
यथोक्तपात्रे निक्षिप्य बलिद्कव्यन्तु केवलं ।
तस्योपरि यथोक्तं तु बलिबेरं च विन्यसेथ् ।। २७.१६४ ।।
शिरसा धारयन्पात्रं त्रिर्द्विर्वा सकृदेव वा ।
देने ततः परीयाच्च देवागारं प्रदक्षिणं ।। २७.१६५ ।।
अथ हित्वा बलिद्रव्यं शिबिकादौ गजेऽथवा ।
अरोप्य याने विधिवत्कारयेच्च प्रदक्षिणं ।। २७.१६६ ।।
प्रातर्भ्रमणहीने तु वैष्मवं सौरस्ॐयकं ।
प्राजापत्यं च जुहुयाद्धीने चोक्तप्रदक्षिणे ।। २७.१६७ ।।
वैष्णवं गारुडं हुत्वा बलिभ्रमणमाचरेथ् ।
हीने प्रातर्बलौ कुर्यान्मध्याह्ने द्विगुणं बलिं ।। २७.१६८ ।।
तथा हीने च मध्याह्ने रात्रौ त्रिगुणमाचरेथ् ।
एकाहे तु बलौ हीने नित्याग्नौ वा महानने ।। २७.१६९ ।।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।
दिग्दैवत्यं च हुत्वा तु प्रदक्षिणनुथाचरेथ् ।। २७.१७० ।।
देवालङ्कारहीने तु श्रीदैवत्यं यजेद्बुधः ।
छत्रपिञ्छाद्यलाभे तु वारुणं जुहुयात्तथा ।। २७.१७१ ।।
अलाभे चामरादीनां वायव्यं चैव हूयते ।
दीपालाभे पावकं च व्याहृत्यन्तं यजेत्त्रयं ।। २७.१७२ ।।
द्व्यहे तु द्विगुणं कुर्वात्त्षहे त्रिगुणमेव च ।
द्वादशाहान्तमेवं स्याद्द्वादशाहे गते ततः ।। २७.१७३ ।।
औपासनाग्निमाधाय वैष्णवं विष्णुसूक्तकं ।
पुरुषसूक्तं च श्रीभूमिदैवत्यं ब्राह्म मेव च ।। २७.१७४ ।।
रौद्रं दिग्देवतामन्त्रं हुत्वैव भ्रमणं चरेथ् ।
मानेऽतीते तु पद्माग्नौ वैष्णवं विष्णुसूक्तं ।। २७.१७५ ।।
नृसूक्तं पारमात्मीकमीङ्कारादीं स्तदालये ।
परिषद्देवमन्त्रांश्च हुत्वा भ्रमणमाचरेथ् ।। २७.१७६ ।।
द्विमासे द्विगुणं कुर्यात्त्रिमासे त्रिगुणं चरेथ् ।
वर्धये द्वत्सरान्तं चाप्यतीते वत्सरे पुनः ।। २७.१७७ ।।
सभ्यं संसाध्य देवाभिमुखे वा दक्षिणे नलं ।
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।। २७.१७८ ।।
श्रीभूम्योश्चैव दैवत्यं सर्वदैवत्यमेव च ।
हुत्वा चार्यं च संपूज्य बल्युद्धरणमाचरेथ् ।। २७.१७९ ।।
पतितेऽन्नबलौ भूम्यां भिन्ने जीर्णे च पूर्ववथ् ।
बलिमापाद्य हुत्वा च वैष्णवं गारुडं तथा ।। २७.१८० ।।
प्राजापत्यं तु विधिना ततः कुर्यात्प्रदक्षिणं ।
बल्युद्धरणकाले तु विघ्नश्चेदापतेत्तदा ।। २७.१८१ ।।
सौरं स्ॐयं वैष्णवं च हुत्वा पुनरथाचरेथ् ।
पात्रालाभे हविःपात्रं हुनैदादाय वैष्णवं ।। २७.१८२ ।।
प्रमाणहीनेऽन्नबलौ वैष्णवं च प्रजापतिं ।
जुहुयाद्दोषदुष्टे तु हविर्निष्कृतिमाचरेथ् ।। २७.१८३ ।।
आवाहनं विना चान्नबलौ तु भ्रमणेकृते ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २७.१८४ ।।
हुत्वा श्रीभूमिदैवत्यं विधिना भ्रमणं चरेथ् ।
बल्यग्रखण्डे विधिना शान्ताय त्वनिवेदिते ।। २७.१८५ ।।
वैष्णवं मूर्तिमन्त्रं च हुत्वैव दशशः क्रमाथ् ।
निवेद्य विष्वक्चेनाय प्रदाय मुखवासनं ।। २७.१८६ ।।
पुनश्च बल्युद्धरणं विधिना कारयेत्ततः ।
अकृते बलिदाने तु प्राश्य पादोदकं हरेः ।। २७.१८७ ।।
प्रसादं चापि संप्राश्य पुनर्द्विगुणमर्चयेथ् ।
प्रवृत्तायां तु पूजायां हविर्दानान्तमेव च ।। २७.१८८ ।।
तीर्थप्रसाददानं वा पादुकाग्रहणं तथा ।
नशस्तमन्यथा कृत्वा शान्तिहोमं समाचरेथ् ।। २७.१८९ ।।
पूजान्ते पूजकात्पूर्वमन्यस्तीर्थादिकं पिबेथ् ।
प्रसादं वापि गृह्णीयात्तत्पूजा निष्फला भवेथ् ।। २७.१९० ।।
महाशान्तिं तथा हुत्वा पुनःपूजां समाचरेथ् ।
तीर्थं पुष्पं ततः क्षीरं गन्धं च तदनन्तरं ।। २७.१९१ ।।
सर्वाण्वपि हवींष्यत्र नागवल्लीदलान्यपि ।
यद्यन्निवेदितं देवे दद्यादग्रेर्ऽचकाय च ।। २७.१९२ ।।
अर्चकस्तु हरिस्साक्षाच्चररूपो यतस्स्मृतः ।
नित्ये कर्मणि सर्वत्र पूजकं पूर्वमर्चयेथ् ।। २७.१९३ ।।
आचार्य मर्चकं वाथ तथा नैमित्तिकेर्ऽचयेथ् ।
यद्यवैखानसो विप्रः कदापि हरिमन्दिरे ।। २७.१९४ ।।
समिच्छेदग्रसन्मानं तद्देवस्य विमाननं ।
यजमानो विपन्नस्स्याद्राजराष्ट्रं विनश्यति ।। २७.१९५ ।।
अज्ञानादथ वा मोहादाचले दन्यथायदि ।
द्विगुणं तु समभ्यर्च्य चान्यद्द्विगुण माचरेथ् ।। २७.१९६ ।।
अशुचिर्वाप्यनाचारः सदावैखानस श्शुचिः ।
पिता मृष्यति पुत्राणां विशङ्कं दोषसंचयं ।। २७.१९७ ।।
पिता हि भगवान्विष्णुपुत्रास्स्युः पूजका हरेः ।
तस्मात्तेषु न कुप्येत दीर्घमायुर्जिजीविषुः ।। २७.१९८ ।।
अतःपरं प्रवक्ष्यामि निष्कृतिं स्नपनाश्रितां ।
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नपनं भवेथ् ।। २७.१९९ ।।
विषुवे चायनद्वन्द्वे स्नपनं नित्यमुच्यते ।
चन्द्र सूर्योपरोगे यन्नैमित्तिकमिति स्मृतं ।। २७.२०० ।।
शेषेषु स्नपनं यत्तत्काम्यं तु परिकीर्तितं ।
नित्यस्नापनहीने तु वैष्णवं विष्णुसूक्तकं ।। २७.२०१ ।।
पुरुषसूक्तं वारुणं च दशकृत्वो हुनेत्पुनः ।
स्नपनं विधिवत्कुर्यान्नि त्यस्नपन निष्कृतिः ।। २७.२०२ ।।
ग्रहणे स्नपने हीने पूर्ववन्निष्कृतिं चरेथ् ।
काम्ये च पूर्ववत्कृत्वा शुद्धोदैरभिषेचयेथ् ।। २७.२०३ ।।
अन्यथा चेन्महादोषो यजमानो विनश्यति ।
आलयात्पुरतश्चैव उत्तरे वा मनोरमे ।। २७.२०४ ।।
उत्तमं स्नपनागारमैशान्यां मध्यमं भवेथ् ।
पश्चिमे दक्षिणे चैवमधमं संप्रकीर्तितं ।। २७.२०५ ।।
आग्नेय्यादिषु कोणेषु स्नपने वैष्णवं तथा ।
विष्णुसूक्तं नृसूक्तं च दिगीशानां मनुं हुनेथ् ।। २७.२०६ ।।
स्नपनं कारयेत्पश्चादेषा व्यत्यय निष्कृतिः ।
संध्याकालेतु संप्राप्ते निमित्तस्नपने तथा ।। २७.२०७ ।।
नैमित्तिकं समाप्यैव नित्यपूजं समाचरेथ् ।
अन्यथा वैष्णवं मन्त्रं शतवारं जपेत्सुधीः ।। २७.२०८ ।।
पूर्वरात्रौ प्रतिसरे हीने च शयने तथा ।
वैष्णवं श्रीमहीमन्त्रान्हुत्वा सौदर्शनं तथा ।। २७.२०९ ।।
शय्याधिवासनं हित्वा बन्धयेत्कौतुकं पुनः ।
एमबेरे कौतुके तु कर्तव्ये शयनं विना ।। २७.२१० ।।
बद्ध्वा प्रतिसरं सद्यस्स्नपनं सम्यगाचरेथ् ।
कृतेऽंकुरार्पणे हीने स्नपने वैष्णपं तथा ।। २७.२११ ।।
स्ॐयं श्रीभूमिदैवत्यं वैघ्नं हुत्वाभिषेचयेथ् ।
विनांकुरार्पणं चाथ स्नापयेदिति केचन ।। २७.२१२ ।।
प्रमाणहीनेऽधिके वा पङ्क्तौ स्नानावटेऽपि च ।
वैष्णवं भूमिदैवत्यं पङ्क्तीशस्य मनुं यजेथ् ।। २७.२१३ ।।
हीने शान्ताद्यर्चने च वैष्णवं शान्तमेव च ।
पङ्क्तीशस्यार्चने हीने तन्मन्त्रं च जयादीकान् ।। २७.२१४ ।।
इन्द्राद्यर्चनहीने तु तन्मन्त्रं वैष्णवं हुनेथ् ।
कलशेष्वप्रमाणेषु वैष्णवं वायुदैवतं ।। २७.२१५ ।।
आग्नेयं जुहुयान्मृत्सु हीनास्वत्र च वैष्णवं ।
भूदैवत्यं च जुहुयान्मृत्सु सर्वास्वयं विधिः ।। २७.२१६ ।।
पर्वतेष्यप्रमाणेषु वैष्णवं पावकं हुनेथ् ।
धान्येषु वैष्णवं चैव वायव्यं च हुनेद्बुधः ।। २७.२१७ ।।
अङ्कुरेषु विहीनेषु वैष्णवं गारुडं तथा ।
जुहुयाद्व्याहृतीश्चैव यथार्हं संभरेत्पुनः ।। २७.२१८ ।।
वर्णहीनेष्वमानेषु मङ्गलेषु तु वैष्णवं ।
ऐन्द्रं च जुहुयात्कुर्याद्यथार्हं संभरेदपि ।। २७.२१९ ।।
पञ्चगव्ये मन्त्रहीने विहीने योगकर्मणि ।
जुहुयाद्वैष्णवं रौद्रं मन्त्रेणैव सुयोजयेथ् ।। २७.२२० ।।
उक्तप्रमाणहीनेषु पञ्चगव्यादिषु क्रमाथ् ।
प्रधानेषु जलैःपूर्व द्रव्याधिपमनुं तथा ।। २७.२२१ ।।
वैष्णवेनैव मन्त्रेण सह हुत्वा समाचरेथ् ।
प्राशनं प्रोक्षं वापि शास्त्रेऽस्मिन्यत्र चोद्यते ।। २७.२२२ ।।
अयमेव विधिर्ज्ञेयः पञ्चगव्यस्य सर्वतः ।
साधिते कलशेभिन्ने त्वन्यमादाय पूर्ववथ् ।। २७.२२३ ।।
आपूर्याभ्यर्च्य दशशो वैष्णवं जुहुयात्ततः ।
कलशानां विपर्यामे तद्धृतेनैव चाप्लुते ।। २७.२२४ ।।
वैष्णवं द्रव्यदैवत्यं हुत्वा संशोध्य तत्पुनः ।
शुद्धोदैस्स्नापयेच्चैव यथावच्च पुनर्न्यसेथ् ।। २७.२२५ ।।
कृते तु कलशन्यासे श्वकाकादिभिरेव वा ।
अस्पृश्यैर्वापि संस्पर्शे संसाध्यान्यत्तु पूर्ववथ् ।। २७.२२६ ।।
शान्तिं वैष्णवमन्त्रांश्च हुत्वा कार्यं समाचरेथ् ।
कृमिकीटादिपतने तत्तद्द्रव्यं परित्यजेथ् ।। २७.२२७ ।।
अन्यदादाय जुहुयाद्वैष्णवं द्रव्यदैवतं ।
रत्नालाभे वैष्णवं तु हुत्वा स्वर्णं तु निक्षिपेथ् ।। २७.२२८ ।।
वस्त्रालाभे वैष्णवं च श्रीदैवत्यं च हावयेथ् ।
यथोक्तस्नपने हीने कथं चित्स्नपनं चरेथ् ।। २७.२२९ ।।
अथ वा कारयेच्छुद्धस्नपनं वा विधानतः ।
अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे ।। २७.२३० ।।
कालादिभेदन्तेषां च लक्षणं च पुरोदितं ।
पुरस्कृत्य तिथिं केचित्केचिन्नक्षत्रपूर्वकं ।। २७.२३१ ।।
संकल्पयन्त्यवभृथं वरमृक्षापवर्गकं ।
अकृते नियते कालं कृते वानियते तथा ।। २७.२३२ ।।
कालोत्सवे महान्दोषस्तत्र कुर्यात्तुनिष्कृतिं ।
उत्सवात्पूर्वमुद्दिस्य महाशान्तिं त्षहं चरेथ् ।। २७.२३३ ।।
विज्ञाप्य देवदेवेशं ततः कालोत्सवं चरेथ् ।
अन्यथा तु कृतं कार्यमकृतं स्यादसंशयं ।। २७.२३४ ।।
अन्यस्मिन्वापि मासे तु न कुर्याद्यदि चोत्सवं ।
एष एव विधिः प्रोक्तः परस्मिन्वत्सरे कृते ।। २७.२३५ ।।
एवं त्रिवत्सरेभ्यस्स्यादत ऊर्ध्वं विशेषतः ।
सप्ताहन्तु महाशान्तिं कृत्वा तूत्सव माचरेथ् ।। २७.२३६ ।।
एवे द्वादशवर्षान्तं ततश्चस्थापनं पुनः ।
तत्र देवो न रमते योऽसावुत्सव दैवतं ।। २७.२३७ ।।
यत्र देवालये विष्णुस्थ्साप्यते प्रथमं ततः ।
तेनैव कारयेत्सर्वमाचार्येणार्ऽचकेन च ।। २७.२३८ ।।
तदभावे तु तत्पुत्रैःपौत्रैस्तद्वंशजैस्तथा ।
तन्नियुक्तैस्तदीयैर्वापूर्वाभावे परैश्चरेथ् ।। २७.२३९ ।।
अन्यथा क्रियते चेत्तु यजमानो विनश्यति ।
उत्सवाहस्सु हीनेषु प्रायश्चित्तं समाचरेथ् ।। २७.२४० ।।
वर्धयेद्वैष्णवं कार्यं ह्रासयेन्न कदा चन ।
प्रमादाद्वाप्यशक्तौ वा कृत्वा संप्रार्थयेद्धरिं ।। २७.२४१ ।।
महाशान्तिं तु हुत्वैव शेषं कुर्यात्प्रयत्नतः ।
एष एव विधिर्वृद्धौ स तु श्रेयोऽभिवृद्धिदः ।। २७.२४२ ।।
यदा त्ववभृथेदैवात्कृते विनिमयेन तु ।
असंकल्पितवत्कुर्यात्तत्र पूर्वोक्त निष्कृतिः ।। २७.२४३ ।।
प्रमादाद्बुद्धिपूर्वं वा तत्तद्वेलोत्सवादिषु ।
अकृतेषु यथाशास्त्रं कृत्वा तन्त्रेण वैपुनः ।। २७.२४४ ।।
मन्त्रेण वा पुनस्सूक्ष्मं कालेऽवभृथमाचरेथ् ।
यज्ञस्यापभृथोऽन्तस्स्यान्नोत्सवस्तदनन्तरं ।। २७.२४५ ।।
अकृतोत्सवकार्याणि यथोक्तं पूर्वमाचरेथ् ।
नित्योत्सवं हरेः कुर्यान्नित्यश्री र्नित्यमङ्गलः ।। २७.२४६ ।।
हरिर्नारायणो देवो नालं देवा स्तमर्चितुं ।
आचार्ये यजमाने वा पूजकेऽन्यपदार्थिनि ।। २७.२४७ ।।
नष्टे सद्यस्तदान्यन्तु वरयित्वा समाचरेथ् ।
न दैवं प्रतिबध्नाति कार्यं यत्कर्म मानुषं ।। २७.२४८ ।।
देवेशमनुमान्याथ महाशान्तिं तु पद्मके ।
समृतो ब्रह्ममेधार्ऽहः पूतं तद्गात्रमुच्यते ।। २७.२४९ ।।
सर्वे पदार्थिनः प्रोक्ता गुरुपूर्वाःपदार्थिनः ।
ग्रामान्तरं प्रयाते तु दीक्षामध्ये पदार्थिनि ।। २७.२५० ।।
अस्पृश्यस्पर्शदोषेण सुरापानादिना तथा ।
अनुक्तदोषैर्वा दुष्टे रोगाच्छौचाद्यसंभवे ।। २७.२५१ ।।
शावाद्याशौसयोग्ये वा शवानुगमने तथा ।
वाहने दाहने चैव प्रेतान्नश्राद्धभोक्तरि ।। २७.२५२ ।।
श्राद्धस्य याजके श्राद्धशिष्टभोक्तरिभोक्तरि ।
दोषस्स्याद्विधिना तत्र महाशान्तिमथाचरेथ् ।। २७.२५३ ।।
श्राद्धकर्तिरि नो दोष स्तत्र दाता भवेत्सहि ।
परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहाथ् ।। २७.२५४ ।।
परस्त्रीभिर्मनोदग्धं ब्रह्मशापः कुतः कलौ ।
दीक्षामध्ये नान्यदीक्षां गर्भदीक्षां विना चरेथ् ।। २७.२५५ ।।
विधुरे यजमाने तु दीक्षितः पुरुषो भवेथ् ।
सदारो वा प्यदारोवा दीक्षितस्स्यात्कलत्रवान् ।। २७.२५६ ।।
दंपती यजमानो चेदयमभ्युदयो भवेथ् ।
अनग्निमत्यदारे वा गुरौ तं तु न दीक्षयेथ् ।। २७.२५७ ।।
अन्यस्मिन्पदभाजी स्याद्यथासंभवमादरः ।
वैधुर्यसंभवे त्वेषां मध्ये दुष्यन्ति नैव ते ।। २७.२५८ ।।
वत्सराशौचमितरच्चाशौचं न प्रवर्तते ।
मातापित्रोर्मृतौ यत्तु प्रोक्तमभ्युदये पुनः ।। २७.२५९ ।।
ध्वजारोहणहीने तु कृते निष्फल उत्सवः ।
कृत्वैवारोहणं तस्माद्ध्वजस्योत्सवमाचरेथ् ।। २७.२६० ।।
ध्वजस्यारोहणं कृत्वा नाचरेद्यदि चोत्सवं ।
अज्ञानादर्थलोभाद्वामासेऽ न्यस्मिन्त्समाचरेथ् ।। २७.२६१ ।।
नकुर्याच्चेद्द्वितीये तु मासे कर्ता विनश्यति ।
तस्मान्निष्कृतिमब्जाग्नौ हुत्वा तूत्सवमाचरेथ् ।। २७.२६२ ।।
वैष्णवं विष्णुसूक्तं च नृसूक्तं चैव गारुडं ।
ध्वाजं शान्तं च चक्रं च तथैवोत्सवदैवतं ।। २७.२६३ ।।
व्याहृत्यन्तं च हुत्वा तु वैष्णवान्पूज्य चाचरेथ् ।
ध्वजस्य लक्षणं वक्ष्ये येन मानेन कारयेथ् ।। २७.२६४ ।।
विमानेन समं वाथ पादेनार्ऽधेन वाधिकं ।
पादेनार्धेन हीसं वा पञ्चधापि प्रकल्पयेथ् ।। २७.२६५ ।।
जयश्रीकीर्तिविजयमङ्गलाख्याः प्रकीर्तिताः ।
अर्धहीनं न कुर्वीत तदेवागतिकं भवेथ् ।। २७.२६६ ।।
तस्माच्चहीनं नैव स्यादधिकं स्यात्तु शक्तितः ।
अवक्रमृजुमन्येनासंबद्धं कीलितादिभिः ।। २७.२६७ ।।
श्लक्ष्णं मनोहरं दारु गृहीत्वाखण्डमुत्तमं ।
तं चतुर्दशधा कुर्याम्मालाग्रे तेन कारयेथ् ।। २७.२६८ ।।
भागमेकं विहायाग्रे तत्र कुर्यात्त्रिमेखलाः ।
मेखलानामथायामस्तद्भागेन समो भवेत्, ।। २७.२६९ ।।
त्रितालविस्तृतं कुर्याद्दण्डविस्तृतमेव वा ।
अन्तरं च समं तेषां तिस्रः कुर्यात्तु यष्टिकाः ।। २७.२७० ।।
यष्टी द्वे पुरतः कुर्यात्पश्चादेका विधीयते ।
सर्वत्र किङ्किणीनां तु कुर्याच्छतम शेषतः ।। २७.२७१ ।।
पश्चाच्छेषं त्रिधा कुर्याच्चतुर्धा वा ध्वजं बुधः ।
अष्टाश्रं च षडश्रं च चतुरश्रं च वृत्तकं ।। २७.२७२ ।।
मूलादारभ्य कुर्वीत चतुर्धा विहितं ध्वजं ।
त्रिधा कृते न कुर्यात्तु षडश्रं शेषमाचरेथ् ।। २७.२७३ ।।
आद्यं भागं त्रिधा कृत्वा केचिदेवं प्रकुर्वते ।
शिखरं शिर इत्याहुरर्धेन शिखरं भवेथ् ।। २७.२७४ ।।
प्रमादात्पतितं गृह्य शिखरं स्थापयेद्विधिः ।
स्पुटितेवाथ भिन्ने वा बिंबस्योक्तवदाचरेथ् ।। २७.२७५ ।।
अधिष्टिते तु शिखरे द्विजैर्गृध्रादिभिस्सकृथ् ।
विष्ठादिकरणे वापि उषिते वा निरन्तरं ।। २७.२७६ ।।
वास्तुहोमं च हुत्वैव पर्यग्निकरणं चरेथ् ।
एष एव विधिः प्रोक्तो विमानशिखरादिषु ।। २७.२७७ ।।
अधिष्ठानेन पादेन प्रस्तरेण च संयुतं ।
ध्वजमूले त्विष्टकाभिर्वेदिं कुर्यान्मनोहरां ।। २७.२७८ ।।
न तामप्यधितिष्ठेत नरो दीर्घं जिजीविषुः ।
किं पुनस्तत्र वक्तव्यमालयाद्यवरोहणे ।। २७.२७९ ।।
विमानं विष्णुरूपं स्यान्न तत्पादादिवा क्रमेथ् ।
धामप्रदक्षिणे पूर्वं कुर्यात्तत्र नमस्त्रियाः ।। २७.२८० ।।
न लङ्घयेद्ध्वजछायां प्रदक्षिणविधिं विना ।
गोपुरस्य विमानस्य प्राकारस्यालयस्य च ।। २७.२८१ ।।
प्रमादादतिलङ्घ्यैव प्राणायामशतं चरेथ् ।
शिवदृष्टिं विष्णुवृष्ठं दुर्गायाः पार्श्वतो दृशं ।। २७.२८२ ।।
विघ्नेशस्योर्ध्वदृष्टिं च तीक्ष्णमाहुर्मनीषिणः ।
यावच्छावतरेच्छाया तावती दोषभूमिका ।। २७.२८३ ।।
दोषभूमिं परित्यज्य निवासं परिकल्पयेथ् ।
त्यागे संपत्समृद्धिस्स्यादन्यथा विपरीतकृथ् ।। २७.२८४ ।।
रध्यादिभिर्यथा भूयादन्तरं तन्न दोषकृथ् ।
अथ वा शतदण्डान्तं त्यक्त्वान्वे वसतिं जगुः ।। २७.२८५ ।।
यावद्धामायतं दावत्पृष्ठं वा मुघमेव वा ।
ततोधिकं तच्च तच्च केचिदाहुर्मनीषिणः ।। २७.२८६ ।।
ध्वजं नित्यमुशन्त्येके यत्रैको ह्यनवायिषु ।
तत्रारोहणकर्मादि नेच्छन्ति परमर्षयः ।। २७.२८७ ।।
औत्सवं ध्वजमास्थाप्य तत्र कार्यं प्रकुर्वते ।
ध्वजमेकं तु सर्वत्र केचिदाहुर्मनीषिणः ।। २७.२८८ ।।
अतः परं प्रवक्ष्यामि ध्वजदण्डे तु निष्कृतिं ।
प्रमादात्पतिते भूम्यां ध्वजे वातादिना दृढे ।। २७.२८९ ।।
अभग्ने वाथ भग्ने वा ध्वजं तत्र पूनः क्षिपेथ् ।
अभग्ने तं ध्वजं गृह्य कृत्वा मन्त्रेण तक्षणं ।। २७.२९० ।।
अधिवासादिकं कृत्वा तत्थ्साने स्थापयेद्बुधः ।
भग्ने ध्वजे न सग्राह्यस्तमप्सु विधिना त्यजेथ् ।। २७.२९१ ।।
ततोऽन्यं ध्वजमादाय स्थापयेदविलंबितं ।
चोराद्यैर्बुद्धिपूर्वं वा पातिते पूर्ववद्विधिः ।। २७.२९२ ।।
तत्राधिकं प्रकुर्वीत शिल्पिभिस्तक्षणं पुनः ।
अभग्नध्वजवत्कुर्यादन्यत्पूर्ववदत्वरः ।। २७.२९३ ।।
भागेनानुपयुक्तस्य ध्वजस्य त्याज्यतैव हि ।
दुष्टभागस्य दानेन न कदाचित्परिग्रहः ।। २७.२९४ ।।
अथ वा सुदृडं गृह्य प्रतिष्ठां महतीं चरेथ् ।
दुष्टं भागं व्यपोह्यैव प्रमाणं लक्षयेत्पुनः ।। २७.२९५ ।।
प्रमाणमप्रमाणं वा ध्वजं नान्येन दारुणा ।
संयुतां वर्धितां कुर्यादेष सार्वत्रिको विधिः ।। २७.२९६ ।।
यन्तु ताम्रादिना कुर्याल्लोहेन कवचादिकं ।
बालालयं प्रकल्प्यैव तत्रकार्यं समाचरेथ् ।। २७.२९७ ।।
स्थितमेव ध्वजं कुर्यान्न तु तं चालयेत्क्वचिथ् ।
दग्धं ध्वजं परित्यज्य पुनरन्यं समाहरेथ् ।। २७.२९८ ।।
ध्वजेऽन्त्यजातिभिस्स्पृष्टे महाशान्तिमथाचरेथ् ।
तैस्समीपमुपेतैन्तु सहस्राहुतिमाचरेथ् ।। २७.२९९ ।।
पतिते वात्यया चैवं ध्वजस्य शिखरे तथा ।
मेखलासु च तत्सर्वं नवीकृत्य यथाविधि ।। २७.३०० ।।
ध्वजदण्डे तु संयोज्य प्रतिष्ठां पुनराचरेथ् ।
ध्वजस्य चलने चापि प्रमादाद्व्रश्चने तथा ।। २७.३०१ ।।
भग्नाभग्न ध्वजस्योक्तनिष्कृतिं तु समाचरेथ् ।
एष एव विधिः प्रोक्तो दण्डेष्वन्वेषु सर्वतः ।। २७.३०२ ।।
अशन्यादिनिपातेन धामन्यन्तरिते यदि ।
देवे नष्टे ध्वजे सुस्थे ध्वजस्याराधनं भवेथ् ।। २७.३०३ ।।
आलयं च पुनःकृत्वा तमेवाराधयेद्ध्वजं ।
निरीक्ष्यत्रीणि वर्षाणि देवागारे त्वनिर्मिते ।। २७.३०४ ।।
तत्र देवो न रमते तद्ध्वजं तु त्यजेत्सुधीः ।
अथ वा यत्र कुत्रापि प्रतिष्ठाप्य समर्चयेथ् ।। २७.३०५ ।।
अथ वक्ष्ये ध्वजस्थानं यथाशास्त्रविनिश्चितं ।
पिठगोपुरयोर्मध्ये पञ्चभागं प्रकल्प्य च ।। २७.३०६ ।।
पीठात्त्यक्त्या चतुर्भागं पञ्चमे ध्वजसंस्थितिः ।
तत्संधौ तु प्रशस्तं स्याद्यथा संफवमाचरेथ् ।। २७.३०७ ।।
यदि प्राकारबाह्ये स्याद्ध्वजश्शास्त्रवदाचरेथ् ।
अनुक्तस्थाननिहितं तं च शास्त्रवदाचरेथ् ।। २७.३०८ ।।
अशक्तौ पुनरन्यं च प्राकारं कारयेत्क्रमाथ् ।
देवदृग्विषयं कुर्याद्ध्वजं लैवापरोक्षयेथ् ।। २७.३०९ ।।
यदा चान्यालयैर्वापि गोपुरादिभिरेव वा ।
अभ्यन्तरं भवेच्चेत्तु छिद्रं कुर्यात्तु दृक्पथे ।। २७.३१० ।।
वृक्षाद्यैःपतितैर्नष्टे चालितेऽवनतेऽपि च ।
तद्ध्यजं पूर्ववत्कुर्यात्त्रिमासाभ्यन्तरेऽत्वरः ।। २७.३११ ।।
कृम्यादिभिर्विहङ्गैर्वाकोटरादौ कृते ध्वजे ।
कृत्वा बालालयं पश्चात्समीकृत्यार्चयेत्पुनः ।। २७.३१२ ।।
रज्जुबन्धादिकरणे ध्वजस्यारोहणे कृते ।
बालालयं न तत्र स्याद्वास्तुशुद्धिं समाचरेथ् ।। २७.३१३ ।।
प्राक्षयेत्पञ्चगव्यैस्तु ध्वजमन्त्रेण हूयते ।
अत ऊर्ध्वं प्रवक्ष्यामि निष्कृतावर्चनक्रमं ।। २७.३१४ ।।
उक्तेन विधिना यत्र नष्टे दुष्टेऽपि वा ध्वजे ।
पुनस्थ्सापनपर्यन्तं कुर्याद्वेणुध्वजं शुभं ।। २७.३१५ ।।
अथ वा कारयेद्विद्वान्सुवर्णरजतादिभिः ।
ध्वजं तालोन्नतं स्थाप्य गर्भगेहे तु पूजयेथ् ।। २७.३१६ ।।
अधिवासादि तत्सर्वं प्रतिष्ठोक्तवदाचरेथ् ।
अचलो वेणुदण्डः स्याद्गर्भगेहे भवेच्चलः ।। २७.३१७ ।।
उत्सवादौ तु सर्वत्र वेणुदण्डं समाचरेथ् ।
चलदण्डो वेणुदण्ड इति स्यादुत्सवेद्वयं ।। २७.३१८ ।।
उत्सवादौ प्रवृत्ते तु उक्तदोषे त्वयं विधिः ।
ध्वजस्थं गरुडं तस्मादवमुच्य समाहितः ।। २७.३१९ ।।
नीत्वातु यागशालायां संस्थाप्य तु समर्चयेथ् ।
वेणुदण्डं प्रतिष्ठाप्य सद्यस्तस्मिन्प्रयोजयेथ् ।। २७.३२० ।।
महाशान्तिं तथा कुर्यात्सहस्राहुतिमेव च ।
वैष्णवं विष्णुदैवत्यं गारुडं ध्वाजमेव च ।। २७.३२१ ।।
सौदर्शनं च कूश्माण्डान्शतमष्टाधिकं यजेथ् ।
तथैव दीपदण्डस्य भवेत्सर्वत्र चक्रमः ।। २७.३२२ ।।
ध्वजे नारोपयेद्दीपं दीपदण्डः पृथग्भवेथ् ।
तत्र दीपं समारोप्य न लभेत्फलमव्ययं ।। २७.३२३ ।।
ध्वजे दीपं समारोप्य वैष्णवं शतशो यजेथ् ।
आपत्कल्पं प्रवक्ष्यन्ति ध्वजे दीपावरोहणं ।। २७.३२४ ।।
दीपयुक्ते ध्वजे नष्टे पूर्ववन्निष्कृतिं चरेथ् ।
वीशप्रतिष्ठाहीने तु ध्वजस्यारोहणे कृते ।। २७.३२५ ।।
वैष्णवं विष्णुसूक्तं च नृसूक्तं ध्वाजमेव च ।
गारुडं दशशो हुत्वा प्रतिष्ठां पुनराचरेथ् ।। २७.३२६ ।।
ध्वजदेवस्य चक्रस्य शान्तनन्दीशयोस्तथा ।
हीनेर्ऽचने वैष्णवं च तद्दैवत्यसमन्वितं ।। २७.३२७ ।।
हुत्वैव पुनरभ्यर्च्य पश्चात्कार्यं समाचरेथ् ।
भेरीताडनहीने च रौद्रं च व्याहृतीस्तथा ।। २७.३२८ ।।
हुत्वा महाव्याहृतीश्च भेरीताडनमाचरेथ् ।
अर्चनादिषु सर्वत्र यत्र घण्टानिनादनं ।। २७.३२९ ।।
एष एव विधिः प्रोक्तः प्रायश्चित्तं समाचरेथ् ।
आरोपिते तु गरुडे हीने चैव निवेदने ।। २७.३३० ।।
वैष्णवं ध्वंमेत्रौ च हुत्वा गारुडमेव च ।
निवेदयेत्तुद्विगुणं "क्षमऽस्वेत्यनुमानयेथ् ।। २७.३३१ ।।
मुद्गान्ने तु तथा हीने वैष्णवं वायुदैवतं ।
आग्नेयमीङ्कारादींश्च गारुडं ध्वाजमेव च ।। २७.३३२ ।।
हुत्वा यत्नेन बहुशो मौद्गिकं च निवेदयेथ् ।
वर्षवातातपैस्सम्यगुपघातादिसंभवे ।। २७.३३३ ।।
विष्ठाद्युपहते चैव पक्षिणामसकृत्सकृथ् ।
रज्ज्वादित्रुटने चैव प्रमादात्पतनेऽपि च ।। २७.३३४ ।।
पातिते बुद्धिपूर्वं वा अकालेऽप्यवरोपिते ।
शूद्राद्यैरनुलोमैर्वा स्पृष्टे ध्वजगते पटे ।। २७.३३५ ।।
अशुचिं शोधयित्वान्यत्समीकृत्यासमीकृतं ।
उत्सवाधिपदैवत्यं षड्वारं जुहुयाद्गुरुः ।। २७.३३६ ।।
गारुडं ध्वजमन्त्रं च सहस्तं चैव हूयतां ।
ततश्शेषं समाप्येत विपरीतं न कारयेथ् ।। २७.३३७ ।।
प्रमादाद्बुद्धिपूर्वं वा पटे दग्धेऽन्यमाहरेथ् ।
शान्तिं पूर्वोदितां कृत्वा प्रतिष्ठां पुनराचरेथ् ।। २७.३३८ ।।
अवरोहणमुद्वासन्तं च मन्त्रेण कारयेथ् ।
अवरोहणहीने तु मन्त्रेणोद्वासनं भवेथ् ।। २७.३३९ ।।
ततश्शेषं प्रकूर्वीत अशक्ताववरोहणे ।
अप्रमाणं पटं गृह्य महाशान्तिं समाचरेथ् ।। २७.३४० ।।
पुनरन्यं समादाय कर्मशेषं समाचरेथ् ।
हीने तु चोत्सवारंभस्नपने वैष्णवं तथा ।। २७.३४१ ।।
विष्णुसूक्तं नृसूक्तं च वारुणं चैव हूयते ।
शुद्धोददैरभिषाकस्स्यात्प्रायश्चित्तविधिस्स्मृतः ।। २७.३४२ ।।
हीने कौतुकबन्धे तु वैष्णवं शान्तमेव च ।
सौदर्शनं च हुत्वा तु कौतुकं बन्धयेत्पुनः ।। २७.३४३ ।।
यज्ञागारे कुंभवेद्याहीने वाप्यधिकेऽपि वा ।
वैष्णवं पावकं भूमिदैवत्यं च हुनेद्बुधः ।। २७.३४४ ।।
तोरणानामलाभे तु हुनेद्दौवारिकान्मनून् ।
हीनायां दर्भमालायामार्षं हुत्वेतराङ्क्रियाथ् ।। २७.३४५ ।।
अलङ्कारविहीने तु श्रीदैवत्यं तधा हुनेथ् ।
प्रातर्बलिं तु निर्वाप्य हीने नित्योत्सवे तथा ।। २७.३४६ ।।
वैष्णवं शान्तवीशौ च हुत्वा चोत्सवदैवतं ।
सायं कुर्यादुत्सवं तु द्विगुणं कारयेत्क्रमाथ् ।। २७.३४७ ।।
सायं हीनं तु द्विगुणं प्रातरुत्सवमाचरेथ् ।
एककालोत्सवश्चेत्तु कृत्वा कालद्वयं बलिं ।। २७.३४८ ।।
सायाह्ने चोत्सवं कुर्यात्कालातीतेऽप्ययं विधिः ।
दिग्देवतास्समावाह्य प्रथमेऽहनि पूजयेथ् ।। २७.३४९ ।।
प्राच्यादि बलिदानं स्यादीशानान्तं प्रदक्षिणं ।
देवाह्वाने व्यत्ययस्स्याद्व्यतीहारोऽथ वा भवेथ् ।। २७.३५० ।।
पूर्वोक्तां निष्कृतिं कृत्वा द्विगुणं तु बलिं ददेथ् ।
ब्रह्मणश्च दिगीशानां बलिदानं तु नैत्यिकं ।। २७.३५१ ।।
अदाने निष्कृतिं कृत्वा पूर्वोक्तं षड्गुणं बलिः ।
चतुष्पथाधिदेवानां वृक्षादीनामथेच्छया ।। २७.३५२ ।।
प्रथमावाहनादर्वाग्व्यत्यये पूर्वनिष्कृतिः ।
प्रथमं वास्तुशुद्धिस्स्याद्य वै दीयते बलिः ।। २७.३५३ ।।
अन्तं शुद्ध्यन्ति रथ्यास्ताश्शुर्ध्यन्ति समये पुनः ।
अकृतायां वास्तुशुद्धौ दद्याद्रथ्यासु चेद्बलिं ।। २७.३५४ ।।
शान्तिं कृत्वातु पूर्वोक्तां वास्तुशुद्धिं पनर्बलिः ।
अन्तश्शचे वास्तुनि तु न बलिभ्रमणं चरेथ् ।। २७.३५५ ।।
शवमुद्धृत्य पश्चात्तु पर्यग्नि करणं भवेथ् ।
अकाले बलिदानं स्यादसुरप्रीतिवर्धनं ।। २७.३५६ ।।
अकाले तु बलिं दत्वा काले तु त्रिगुणं बलिः ।
बलिभ्रमणदेशस्स्याद्देवस्य भ्रमणाय हि ।। २७.३५७ ।।
नान्यत्र चर्या देवस्य लघुप्रोक्षण मन्यथा ।
न हि श्रद्धोत्सवे दोषमुशन्त्येनं स हीतरः ।। २७.३५८ ।।
वास्तुवृद्धौ तथा ह्रासे ग्रामसीमानवीकृतौ ।
अनुमान्य च देवेशं शताष्टकलशाप्लवः ।। २७.३५९ ।।
कृत्वा सीमां विनिश्चित्य ततः कार्यं समाचरेथ् ।
अस्तरा चोत्सवं कुर्यात्सहस्रकलशाप्लवः ।। २७.३६० ।।
देवतावाहनं कृत्वा तथैवोत्सव माचरेथ् ।
देवादीनां बलं यस्माद्वर्धते स बलिस्स्मृतः ।। २७.३६१ ।।
श्वसूकरादिभिर्दुष्टैर्नभक्ष्यो बलिरुच्यते ।
बलिभुग्वायसः प्रोक्तो गोमुख्या मेध्यजन्तवः ।। २७.३६२ ।।
विपरीते महान्दोषस्तन्मन्त्रैर्हावयेच्छतं ।
बलिशेषं न शूद्रोऽद्यादर्चको बलिशेषभाक् ।। २७.३६३ ।।
बलावमन्त्रकं क्षिप्ते संक्षिप्ते विधिवर्जिते ।
भक्षिते चानुलोमाद्यैःपूर्वोक्तां निष्कृतिं चरेथ् ।। २७.३६४ ।।
बलौ पर्युषितेऽत्युष्णे तथा चैवानिवेदिते ।
निवेदनात्प्रागर्वाग्वादृष्टे शूद्रादिभिर्बलौ ।। २७.३६५ ।।
पूर्वोक्तां निष्कृतिं कृत्वा सर्वत्र द्विगुणं बलिः ।
देवतावाहनं यत्र देशेप्राक्क्रियते ततः ।। २७.३६६ ।।
तत्रैव बलिदानं स्याद्यावदुद्वासनं भवेथ् ।
मण्डलं च जलं कूर्चमाह्वानाधार उच्यते ।। २७.३६७ ।।
रथ्यासु बलिदानाय पीठं शैलादिभिर्भवेथ् ।
बलिदानं तु गुप्तं स्यान्न तत्बश्यन्त्यवैदिकाः ।। २७.३६८ ।।
तत्थ्सावं तु तिरस्कुर्यात्काले यवनिकादिभिः ।
बलिप्रदानहीने तु वैष्णवं बलिरक्षकं ।। २७.३६९ ।।
हुत्वा तु निष्कृतिं कुर्याद्बलिदानं पुनस्तदा ।
बलिद्रव्येऽथ वा पात्रे पतिते भूतले तथा ।। २७.३७० ।।
भिन्ने नष्टे च पूर्वोक्तं हुत्वान्यं बलिमाहरेथ् ।
बलिदानं तु कृत्वैव भुतपीठे क्षिपेत्ततः ।। २७.३७१ ।।
बलिशेषमनुक्ते तु स्थाने बुद्ध्या तु निर्वपेथ् ।
वैष्णवं चाक्षहमनुं वैष्वक्चेनं च गारुडं ।। २७.३७२ ।।
सौदर्शनं च हुत्वैव भूतपीठे बलि क्षिपेथ् ।
हविर्निवेदने हीनेहीने च द्विगुणार्चने ।। २७.३७३ ।।
शान्तिं च वैष्णवं हुत्वा तथाभ्यर्च्य निवेदयेथ् ।
यथोक्तहोमे हीने तु वैष्णवं विष्णुसूक्तकं ।। २७.३७४ ।।
नृसूक्तं च त्रयस्त्रिंशत्कृत्वो हुत्वा हुनेत्पुनः ।
चक्रवीशामितानां च कुंभस्थानामथापिवा ।। २७.३७५ ।।
देवानामर्चने हीने वैष्णवं विष्णुसूक्तकं ।
नृसूक्तं सान्तमन्त्रौ च गारुडं चाक्रमेव च ।। २७.३७६ ।।
हुत्वा पुनस्समभ्यर्च्य विशेषेण निवेदयेथ् ।
देवालङ्करणे हीने श्रीदैवत्यं च वैष्णवं ।। २७.३७७ ।।
हुद्वालङ्कारमासाद्य विधीना भूषयेद्गुरुः ।
अलङ्कारेषु द्रव्येषु निर्यासं चन्दनं सुमं ।। २७.३७८ ।।
तद्धित्वान्यत्समादाय द्रव्यं प्रक्षाल्यमन्त्रतः ।
पञ्चगव्यैस्समभ्युक्ष्य तेनालङ्कार उच्यते ।। २७.३७९ ।।
नृत्ते गेयेऽथ वा हीने वैष्णवं रुद्रदैवतं ।
स्तोत्रहीने तथा ब्राह्मं हुत्वा सारस्वतं ततः ।। २७.३८० ।।
भक्तबृन्दैः परिवृतौ हीनायां वारुणं तथा ।
वैष्णवं शान्तदैवत्यं हीने पिच्छादिके तथा ।। २७.३८१ ।।
वैष्णवं जुहुयात्तद्वद्धविरक्षमनुं ततः ।
यानात्काले यागशालां देवे न प्रतिगच्छति ।। २७.३८२ ।।
भवेन्नित्यार्चनं तत्र यत्रदेवोऽधिवासितः ।
ध्रुवार्चनं यथा पूर्वं न तत्रास्ति व्यतिक्रमः ।। २७.३८३ ।।
देवं प्रत्यागतं दृष्ट्या पुनरन्योत्सवं चरेथ् ।
दिनव्यपाये कुर्याच्च तत्कालनियतोत्सवं ।। २७.३८४ ।।
अतीतमुत्सवं चापि तन्त्रेणात्र समाचरेथ् ।
तद्दिनेप्यप्रमादाच्चेद्भूयात्कालस्य यापनं ।। २७.३८५ ।।
न जह्या देवकुर्याच्च तत्कालोचितमुत्सवं ।
अत्र प्रमादेतु भवेत्पूर्वोक्तैव हि निष्कृतिः ।। २७.३८६ ।।
दीक्षितो वस्त्रमाल्याद्यैः पञ्चागार्पितभूषणैः ।
चरेन्नित्यं विशुद्धात्मा विपरीते तु दोषकृथ् ।। २७.३८७ ।।
दीक्षाङ्गस्य तु वस्त्रस्य तथा प्रतिसरस्य वा ।
नाशे तत्र महान्दोषस्तदान्यत्पुनराहरेथ् ।। २७.३८८ ।।
सहस्रं विष्णुगायत्रीं हुत्वा शान्तिमथाचरेथ् ।
यावद्दीक्षाभवेत्तावद्दीक्षाङ्गस्य परिग्रहः ।। २७.३८९ ।।
अन्तेतु तद्गताशक्तिस्स्वयमेवावहीयते ।
अथ वा मोचनं कुर्यादिते के चिद्वदन्तिहि ।। २७.३९० ।।
तत्र पूर्णाहुतिं कालं प्रवदन्ति विपश्चितः ।
प्रतिष्ठान्ते तु सा दीक्षा भवेदुत्सवसंगता ।। २७.३९१ ।।
न तत्र दीक्षासांकर्यं द्वयमेकत्र चेद्यदि ।
अन्योन्यं कलहायन्ते यद्याचार्यादयःक्रतौ ।। २७.३९२ ।।
महाननर्थस्तत्र स्यात्प्रतिभूर्गुरुरत्र हि ।
गुरुवाक्यं च राजाज्ञां सममाहुर्महर्षयः ।। २७.३९३ ।।
दीक्षिते वर्तमाने तु नान्यं तत्र प्रवेशयेथ् ।
नह्येकस्मिन्भवेत्कार्य आचार्यद्वय संगतिः ।। २७.३९४ ।।
प्रमादाद्बुद्धिपूर्वं वा कलहे क्षतजस्रुतिः ।
क्षतानि वा भवेयुस्तं विसृज्यान्येन कारयेथ् ।। २७.३९५ ।।
न तस्य तु भवेद्दीक्षा महाशान्तिं तु कारयेथ् ।
स दीक्षितो भवेदेव पूर्वस्य प्कणिधिस्स हि ।। २७.३९६ ।।
यावदाशौचसंक्रान्ति राशौचेत्वशुचिर्भवेथ् ।
पुनरन्यं समादाय शेषं पूर्ववदायरेथ् ।। २७.३९७ ।।
आदौ मध्ये तधान्ते च हीने ब्राह्मणभोजने ।
त्रिवाकं तु महाशान्तिं हुत्वा ब्राह्मणभोजनम्, ।। २७.३९८ ।।
द्विगुणं कारयेच्चैव वैष्णवानां तु पूजनं ।
पुनाति पूजितस्सद्यः पाप्मभ्यो वैष्णपस्सकृथ् ।। २७.३९९ ।।
अवैष्णवैश्च पाषण्डैरूढे देवे द्वनर्थकृथ् ।
तद्दोषशान्तये कुर्यात्सहस्रकलशाप्लवं ।। २७.४०० ।।
अवैष्णवकृतापूजा हन्ति पुण्यं पुरातनं ।
यानात्तु पतिते देवे शीघ्रमुद्धृत्य सादरं ।। २७.४०१ ।।
"क्षमऽस्वेत्यनुमान्यैव शुद्धोदैरभिषिच्यच ।
वैष्णवं विष्णुसूक्तं च नृसूक्तं सहितं क्रमाथ् ।। २७.४०२ ।।
दिनाधिपस्य दैवत्यं हुत्वा चोत्सवमाचरेथ् ।
चक्रवीशाखमितादीनां बिंबाभावे पृथक्पृथक् ।। २७.४०३ ।।
तण्डुलोपरिपात्रेषु कूर्चेष्वावाह्य मन्त्रतः ।
तत्तद्रूपं तु संस्मृत्य समभ्यर्च्य विधानतः ।। २७.४०४ ।।
हुत्वा च तत्तद्दैवत्यं पश्चादुत्सवमाचरेथ् ।
पतने तु तथैतेषामुद्धृत्यैव च पूर्ववथ् ।। २७.४०५ ।।
स्नापयित्वा हुनेत्तत्तद्दैवत्यं वैष्णवं तथा ।
यानात्तु पतिते बिंबे हीनाङ्गे दोषगौरवे ।। २७.४०६ ।।
पद्मानले महाशान्तिं हुत्वा तद्दोषशान्तये ।
ध्रुवबेरे समारोप्य तच्चक्तिं विधिना ततः ।। २७.४०७ ।।
कौतुकं स्नापनं वाथ बलिबेरमथापि वा ।
यथार्हं समलङ्कृत्य समावाह्य यथाविधि ।। २७.४०८ ।।
समभ्यर्च्योत्सवं कुर्यान्न तत्रस्याद्व्यतिक्रमः ।
बेरान्तरस्यालाभे तु रत्नं वा काञ्चनं तथा ।। २७.४०९ ।।
न्यस्य पात्रे समावाह्य समभ्यर्च्य दिने दिने ।
महाशान्तिं च हुत्वैव पुनरुत्सवमाचरेथ् ।। २७.४१० ।।
हीनाङ्गं च पुनर्बेरं संधानविधिना पुनः ।
संधाय चात्वरेणैव प्रतिष्ठां पुनराचरेथ् ।। २७.४११ ।।
पतने गायगादीनां श्रीदैवत्यं च वैष्णवं ।
वादकानां तु पतनै ब्राह्मं रौद्रं तथैव च ।। २७.४१२ ।।
आचार्यादीनां तु पतने संक्षोभे च तथाकृते ।
आर्षभं वैष्णवं तद्वद्ध्वजादीनां च पातने ।। २७.४१३ ।।
ध्वाजं च वारुणं चैव वायव्यं च हुनेद्विधिः ।
वर्षधारासु वात्यायां विद्युद्व्रजसमाहतौ ।। २७.४१४ ।।
काले न चोत्सवं कुर्यात्कुर्याच्चेद्वैष्णवं तथा ।
विष्णुसूक्तं नृसूक्तं च श्रीभूदैवत्यमेव च ।। २७.४१५ ।।
हुत्वोत्सवं प्रकुर्वीत विपरीते तु दोषकृथ् ।
वीथ्यन्तरे वर्षधाराप्रवेशेऽशनिगर्जिते ।। २७.४१६ ।।
तृणपांसु समायुक्तवातस्पर्शे विशेषतः ।
कलहध्वनिसंयुक्ते देवं संस्नाप्य मन्त्रविथ् ।। २७.४१७ ।।
वैष्णवं दिग्दैवत्यं च वारुणं वायुदैवतं ।
यद्देवादींश्च हुत्वैव पुनरुत्सवमाचरेथ् ।। २७.४१८ ।।
कलहे रुधिरस्रावे दाहे चाप्युत्सवे ततः ।
वैष्णपं चाग्निदैवत्यं ब्राह्मं रौद्रं तथैव च ।। २७.४१९ ।।
तद्दिनाधिपदैवत्यं जुहुयात्प्रार्थयेद्धरिं ।
आलयाभ्यन्तरे चैव शस्त्राद्यैर्मरणे सति ।। २७.४२० ।।
तच्छीघ्रमपहायैव पद्माग्नौ जुहुयात्तथा ।
महाशान्तिं तद्दिनाधिदैवत्यं च विशेषतः ।। २७.४२१ ।।
वीथ्यां चेन्मरहणादौतु तच्छीघ्रं तु व्यपोह्य च ।
शान्तिहोमं च हुत्वैव पुनरुत्सवमाचरेथ् ।। २७.४२२ ।।
नाडिकाया अथार्याक्चेत्पुनरुत्सवमाचरेथ् ।
आलयस्याशीतिदण्डाभ्यन्तरे तु शवे सति ।। २७.४२३ ।।
तत्रोत्सवं न कुर्यात्तु कुर्याच्चेत्स विनश्यति ।
तच्छीघ्रमपहायेव प्रायश्चित्तं यथोदितं ।। २७.४२४ ।।
महाशान्तिं पार्षदं च चहुत्वा चोत्सवमाचरेथ् ।
लगरे विधिरेषस्स्याद्ग्रामेनैष विकल्प्यते ।। २७.४२५ ।।
अन्तश्सवेनैव कुर्यादुत्सवं ग्रामवृद्धये ।
ध्वजस्वारोहणादुर्ध्वं यावत्तीर्थदिनं भवेथ् ।। २७.४२६ ।।
अन्यात्सवं शुभं कर्म कुर्याच्चेदाभिचारिकं ।
तद्दोषशमनायैव वैष्णवं विष्णुसूक्तकं ।। २७.४२७ ।।
नृसूक्तं पार्षदं चैव हुत्वा विप्रांस्तु भोजयेथ् ।
तीर्थाहात्पूर्वरात्रौ तु हीने कौतुक बन्धने ।। २७.४२८ ।।
शयने वा वैष्णवं च श्रीभूदैवत्यमेव च ।
सौदर्शनं च हुत्वान्ते यथोक्तं तु समाचरेथ् ।। २७.४२९ ।।
तीर्थस्नाने तु कालस्यातीते हीने च वैष्मवं ।
वारुणं स्कन्ददैवत्यं हुत्वा चौक्तं समाचरेथ् ।। २७.४३० ।।
ध्वजावरोहणे हीने तद्रात्रौ ध्वाजमेव च ।
गारुडं वैष्णवं हुत्वा देवेशं प्रार्थयेद्गुरुः ।। २७.४३१ ।।
अवरोहणकारे तु बलौ हीने विशेषतः ।
ध्वजदेवं सुसंपूज्य वैष्णवं विष्णुसूक्तकं ।। २७.४३२ ।।
तदालयस्थदेवानां मन्त्रांश्चैव विशेषतः ।
हुत्वा देवेशमभ्यर्छ्य ध्वजं समवरोहयेथ् ।। २७.४३३ ।।
उत्सवान्ताप्लवेहीने वैष्णवं विष्णुसूक्तकं ।
पुरुषसूक्तं जयादीनश्च मूर्तिमन्त्राश्च हावयेथ् ।। २७.४३४ ।।
अत्रानुक्तेषु दोषेषु प्रायश्चित्तं भवेदिदं ।
वैष्णवं विष्णुसूक्तं च नृसूक्तं च तथैव च ।। २७.४३५ ।।
हूयते विष्णुगायत्री सर्वपापप्राणाशिनि ।
एवमष्टाविंशतिर्वा शक्तावष्टोत्तरं शतं ।। २७.४३६ ।।
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तविंशोऽध्यायः.