भेदोज्जीवनम्
[[लेखकः :|]]

 ॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
श्रीव्यासतीर्थविरचितं भेदोज्जीवनम्

(1) स्वभावतः स्वतन्त्रत्वप्रमुखैर्निखिलैर्गुणैः ।

विभिन्नो विश्वतो विष्णुर्जयताज्जगदीश्वरः ॥

(1) भगवन्तरायकृतभेदोज्जीवनभावप्रदीपः -
स्वतः स्वातन्त्र्येणासमसुखमुखैः सर्वसुगुणैः
सुपूर्णं निर्दोषं निखिलचिदचिद्भिन्नमनिशम् ।

भजे श्रीमत्पूर्णप्रमतिगुरुराट्स्वान्तकमल-
स्थिरावासं व्यासं चिदभयकराम्भोजयुगलम् ॥1 ॥
प्रणम्य श्रीमदानन्दतीर्थसच्चरणाम्बुजम् ।

जयराजमुनीन्व्यासमुनीनस्मद्गुरूनपि ॥2 ॥
तदनुग्रहतो भेदोज्जीवनं व्याकरोम्यहम् ।

उपजीव्य महद्वाचं यथामति हरेर्मुदे ॥3 ॥
श्रीमद्व्यासतीर्थपूज्यचरणो मायिमतनिकृन्तनं भेदोज्जीवनं वितन्वन् विघ्नविघाताद्यर्थं वर्तिष्यमाणग्रन्थोपक्षेपाय तदुपयोगिविशेषणवत्तया विष्णुं स्तुवंस्तदुत्कर्षज्ञानं प्रार्थयते ॥ स्वभावत इति ॥ जगदीश्वरो विष्णुर्जयतात् ।
 उत्कृष्टो वर्ततामिति योजना ।
 जिधातोः सकर्मकत्वेऽप्यत्रोत्कर्षप्राप्त्यर्थकत्वादकर्मकः प्रयोगः ।
 यथोक्तम् - `जयेर्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः ।
 उत्कर्षप्राप्तिराद्योऽर्थो द्वितीयार्थे सकर्मक' इति ।
 अत्र नित्योत्कर्षवतोऽपि भगवत उत्कर्षप्राप्तिप्रार्थना `जय जय जह्यजामजिते'त्यादाविव तज्ज्ञापकाभिप्रायत्वादुपपन्ना ।
 यथोक्तम् - `सर्वदा जयतो विष्णोर्जयस्तस्य प्रकाशनम् ।
 श्रवणं दृष्टिरित्यादिप्रार्थ्यं तज्ज्ञापनं स्मृतम् ।
 शृणोति पश्यति ह्येष जयतीत्यादिकं स्वतः ।
 जय पश्य शृणुष्वेति तत्तज्ज्ञापनमेव त्वि'ति ।
 एके तु भगवदुत्कर्षस्य नित्यसिद्धत्वेऽपि भाविकालसम्बन्धित्वेन तदिच्छाया भगवत्प्रीतिहेतुत्वेन जयतादिति भाविकालसम्बन्धित्वेनोत्कर्षेच्छार्थकलोट् उपपन्नः ।
 राज्ञ एवमेवोत्कर्ष उत्तरत्रापि स्यादितीच्छावत्सु राज्ञः प्रीतिदर्शनादित्याहुः ।
 तच्चिन्त्यम् ।
 भगवदुत्कर्षस्य नित्यसिद्धत्ववद्राजादीनां भाविकालसम्बन्ध्युत्कर्षस्यानिश्चितत्वात्तदिच्छावत्सु राजप्रीतेर्युक्तत्वेऽपि नित्यसिद्धभगवदुत्कर्षविषये तादृशेच्छायाः प्रीतिहेतुत्वायोगेन तस्या अकर्तव्यत्वात् ।
 अत एव महाभारततात्पर्यनिर्णये श्रीकृष्णसत्यभामाभ्यामदितिदत्ताशीर्वचनस्यासुरावेशात्दज्ञानमूलकत्वमुक्तम् - `तमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू ।
 निर्दोषसौख्यैकतनू शुभाशिषस्ताभ्यां ददौ सोऽदितिरात्मपुत्रवदि'ति ।
 अन्यथाऽदित्याशीर्वचनस्याप्युक्तरीत्या भगवत्प्रीतिहेतुत्वापातात्तेन तस्यासुरावेशादिमूलकत्वोक्त्ययोगादिति ॥ केचित्तु विष्णुर्जगत् दुष्टकृतविघ्नादिकं विश्वं जयतादभिभवत्वित्यर्थ इति व्याचक्षते ।
 अपरे तु जगत् श्रुतितात्पर्यानभिज्ञमद्वैतिवादिजातं जयतान्मत्कृतभेदोज्जीवनेन पराभावयेत् ।
 अन्तर्णीतणिजर्थोऽयमिति व्याचक्रुः ।

ननु कथं विष्णोर्जगदीश्वरत्वं नियम्यनियामकभावस्य भेदव्याप्तत्वात् ।
 तस्य च विलक्षणधर्मयोगनिबन्धनत्वादित्यतो जगद्विलक्षणधर्मवत्त्वेन विष्णोस्ततो भेदं साधयति ।
 स्वतन्त्रत्वप्रमुखैरित्यादिना ।
 निखिला निश्शेषाः खिला अपूर्णा न भवन्तीति निखिलाः प्रत्येकं निरवधिकाश्च ।
 तैर्गुणैर्ज्ञानानन्दबलादिभिर्निमित्तैर्विन्श्वतश्चेतनाचेतनात्मकाज्जगतो विभिन्न इति ।
 भेदाभेदमतनिरासाय वीत्युपसर्गः ।
 अत्यन्तभिन्न इत्यर्थः ।
 भेदस्याविद्याद्युपाधिकृतत्वमतनिरासायोक्तं स्वभावत इति ।
 विभिन्न इति सम्बन्धः ।
 वीत्युपसर्गलब्धार्थकथनमेवैतत् ।
 अत्यन्तभेदस्यानौपाधिकत्वनियमात् ।
 ननु न विष्णुर्निखिलपूर्णगुणश्चेतनत्वाद्देवदत्तवदिति चेन्न ।
 अस्यानुमानस्यास्वतन्त्रत्वरूपोपाधिदुष्टत्वादिति भावेनोक्तं स्वतन्त्रत्वप्रमुखैरिति ।
 स्वतन्त्रत्वस्य निखिलपूर्णगुणत्वोपपादकत्वात्प्रमुखत्वोक्तिः ।
 यथोक्तं न्यायविवरणे -`स्वतन्त्रस्य पूर्णगुणत्वनियमादि'ति ।
 `यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
 कथं तस्य गुणा न स्युः स्युर्दोषाश्च कथं पुनः' इत्यनुव्याख्याने च ।
 स्वतन्त्रत्वं च स्वसत्तादौ परानपेक्षत्वं विवक्षितम् ।
 स्वेच्छामात्राधीनप्रवृत्तिमत्त्वं वा ।
 केचित्त्वनधीनत्वमेव स्वतन्त्रत्वं विवक्षितमित्याहुः ।
 तच्चिन्त्यम् ।
 तस्य स्वतन्त्रशब्देनालाभात् ।
 स्वस्य तन्त्रोऽधीनो हि स्वतन्त्रः ।
 भगवति स्वाधीनत्वस्य सत्त्वेनानधीनत्वाभावादसम्भवापत्त्या पराधीनत्वस्यावश्यं (* `परानधीनत्वस्य-' इति पाठेन भाव्यमिति भाति ।
) विवक्षणीयत्वाच्च ।
 अत एवोक्तमनुव्याख्याने - `स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः' इति ।
 `स्वतन्त्रः स्वेच्छाधीनप्रवृत्तिः' इति तत्त्वोद्योतटीकायां च ।
 एतेन नियम्यनियामकभावस्य भेदव्याप्तत्वेनैकस्मिन्भगवति कथं स्वाधीनत्वरूपस्वतन्त्रत्वोपपत्तिरिति निरस्तम् ।
 स्वेच्छानुसारिप्रवृत्तेरेव स्क्तन्त्रशब्दार्थत्वात् ।
 इच्छाप्रवृत्योश्च भेदाभावेऽपि तत्प्रतिनिधेर्विशेषस्य सद्भावात्तद्बलेन नियन्तृनिरम्यतोपपत्तेरिति ॥ अत्र केचित् ।
 ईशितव्येन जगता सम्बन्धाभावे तदीश्वरत्वं न सम्भवतीत्यत उक्तं विश्वतो विष्णुरिति ।
 विश्वस्मिन्व्याप्त इत्यर्थ इति व्याचक्षते ।
 तदपि चिन्त्यम् ।
 जगत्यस्थितस्यापीश्वरस्य तन्नियमनोपपत्तेः ।
 परं केवललीलयैव जगति स्थितिरीश्वरस्य ।
 यथोक्तमनुव्याख्याने - `तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।
 दूरतोऽप्यतिशक्तः स लीलया केवलं प्रभुः' इति ।

(1) मुद्गलार्यतनूजानन्दतीर्थाचार्यविरचितभेदचिन्तारत्नम्-
निसर्गस्वातन्त्र्यप्रमितिसुखसौन्दर्यकरुणा-
मुखैर्लोकव्रातात्स्वगुणनिचयैर्गाढमितरः ।

हरिः श्रीमानस्मात्स्थिरतरभिदा भिन्नजगत-
स्सदा साक्षादीशो जयति जगति श्रीपरिवृढः ॥1 ॥
पूर्णबोधाञ्जयार्यांश्च व्यासराजगुरूनपि ।

नत्वा तत्कृपया कुर्वे भेदोज्जीवनविस्तृतिम् ॥2 ॥
प्राचीनप्रपञ्चितमपि पञ्चविधं भेदप्रपञ्चं विक्षिप्तं सङ्क्षेपादिना स्फुटीकरिष्यन् जिज्ञासाजननाय तमेवोपक्षिपन् प्रारिप्सितपरिसमाप्तये स्वेष्टदेवताशिषमाशास्ते - स्वभावत इति ॥ अत्र स्वतन्त्रत्वस्य प्रमुखत्वं नाम स्वेतरसकलगुणसाधकत्वम् ।
 यथाऽऽहुराचार्याः - `स्वतन्त्रत्वात्सुखसज्ज्ञानशक्तिपूर्वैर्गुणैः पूर्ण' इति ।
 विश्वतो विभिन्न इति सम्बन्धः ।
 वीत्युपसर्गो भेदाभेदनिषेधाय ।
 विश्वत इत्युक्त्या तत्राप्यवान्तरभेद उपक्षिप्तः ।
 एकस्य विश्वत्वायोगात् ।
 मिथ्यागुणैः सत्यत्वालाभात्स्वभावत इति ।
 प्राप्तेरिति शेषः ।
 स्वभावतो विभिन्न इति वा सम्बन्धः ।
 तदपि भेदस्योपाध्यायत्तत्त्वनिषेधाय ।
 प्रयोगश्च विष्णुर्विश्वप्रतियोगिकपारमार्थिकभेदाधिकरणं विश्वावृत्तिपारमार्थिकगुणाधिकरणत्वात् ।
 यो यदवृत्तियत्सत्ताकगुणाधिकरणं स तत्प्रतियोगिकतत्सत्तासमानसत्ताकभेदाधिकरणम् ।
 यथा घटः पटभिदाधिकरणमिति ।
 गुणपारमार्थ्यं च `सत्यस्सो अस्य महिमा' इत्यादि प्रमाणसिद्धमिति भावः ।
 अप्रसिद्धविशेषणता च न दोष इति वक्ष्यति ।
 जगदीश्वर इति भेदे युक्त्यन्तरोक्तिः ।
 शत्रूनित्यध्याहरेणाभिभावयतादिति वाऽर्थः ।
 त्वमित्यध्याहारेण मध्यमपुरुषो वा ।
 ` आशिषि लिङ्लोटाविति ' स्मरणादाशिषि लोट् ।
 विष्णोर्जय एव स्वस्याशासितेति स्वस्यासीस्त्वं स्वापेक्षया न तु विष्ण्वपेक्षयेति ज्ञातव्यम् ।
 (* `-आशिषि लोटा विष्णोर्जय एव स्वस्याशासिषतेति स्वस्याशीस्त्वं-' मु. ।
 अत्र वाक्यमध्ये एवं पाठः सम्भाव्यते `-विष्णोर्जय एव स्वस्याशासित इति आशीस्त्वं स्वापेक्षया-') तेन पूर्णकामे कथमाशीर्वचनमिति निरस्तम् ।


(1) कुम्भारिवासुदेवाचार्यकृतभेदचन्द्रिका -
प्रमितासहवासिधर्मवासं मयि सम्भावयतेति भावनाय ।

नरसिंहशरीरमादधानो मयि मूढेऽस्तु सरस्वतीं दधानः ॥1 ॥
ब्रह्मण्यतीर्थचरणश्रीपाण्यरणिसम्भवः ।

मध्वोक्तिमारुतेतोऽस्तु व्यासाग्निर्मत्तमश्छिदे ॥2 ॥
मायिमत्तेभकुम्भारिवासुदेवो हदेर्मुदे ।

हर्यालम्बो वितनुते भेदोज्जीवनटिप्पणीम् ॥3 ॥
श्रीमद्व्यासतीर्थपरमहंसो विष्णुविश्वक्षीरनीरभेदोज्जीवनं करिष्यन्विघ्नविघातादिप्रयोजनाय वर्तिष्यमाणग्रन्थसङ्गत्युपयोगिविशेषणविशिष्टत्वेन विष्णुं स्तुवन्नाशास्ते ॥ स्वभावत इत्यादिना ॥ जगदीश्वरो जयतात् उत्कृष्टो वर्तताम् ।
 उत्कर्षप्राप्तावयमकर्मकः ।
 कर्मणो धात्वन्तर्गतेः (* `-गतः' मु.) ।
 `धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् ।
 प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ।
 जयेर्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः ।
 उत्कर्षप्राप्तिराद्योऽर्थो द्वितीयेऽर्थे सकर्मक' इत्युक्तेः ।
 यद्यपि भगवत उत्कर्षेण वर्तनस्य नित्यसिद्धत्वात् असिद्धेष्टप्रार्थनारूपाशीरर्थको लोट् न युज्यते ।
 तथाऽपि दुर्वादिभिर्भगवतो विश्वाभेदस्य साधितत्वेन साधूनां तस्य विश्वोत्कर्षप्राप्तिबुद्धेरसिद्धत्वेन लोकदर्शनभाषया `जय जय जह्यजा'मित्यादविव लोट् युज्यते ।
 अभीष्टार्थकोऽयं वा लोट् ।
 यद्वेश्वरो जगद्गच्छति श्रुतिमार्गादिति श्रुतितात्पर्यानभिज्ञमद्वैतवादिजातं जयतात् ।
 अन्तर्भूतणिजर्थोऽयं जिधातुरभिभावयेत् मत्कृतभेदोज्जीवनेन तत्पराभावयेदिति भावः ।
 एवञ्च लोडपि यथाश्रुत एव सम्बध्यते (* `सम्बन्धः' मु.) ।
 ईशितव्येन जगता सम्बन्धाभावे तदीश्वरत्वं न सम्भवतीत्यत उक्तं विश्वतो विष्णुरिति ।
 सप्तम्यन्तात्तसिः ।
 विश्वस्मिन्व्याप्त इत्यर्थः ।
 यद्वा विष्णुर्जयतादिति सम्बन्धः ।
 जगदीश्वरपदं तत्सद्भावे प्रमाणसूचनपरम् ।
 विष्णुविश्वयोः सति भेदे तत्र व्याप्तिस्तदीश्वरत्वं वा स्यादित्यत उक्तं स्वभावतो न तूपाधितो विभिन्न इति ।
 पञ्चम्यास्तसिः ।
 विश्वत इति देहलीप्रदीपवदुभयत्राप्यन्वेति ।
 तत्र किं मानमत उक्तं स्वभावतः स्वतन्त्रत्वप्रमुखैर्निखिलैर्गुणैरिति ।
 ज्ञप्तिसाधनत्वेन तृतीयाप्रातिपदिकानां ज्ञानेषु लक्षणा वा ।
 तृतीयार्थे तसिः ।
 स्वभावतः स्वरूपभूतैर्न त्वविद्याद्युपाधिप्रयुक्तैः स्वतन्त्रत्वं प्रमुखं मुख्यमेषां सर्वज्ञत्वसर्वशक्तित्वपूर्णानन्दत्वादीनां तैस्तद्गुणसं ज्ञानश्चायम् ।
 तेन स्वतन्त्रत्वस्यापि समासार्थेऽन्तर्भावः ।
 व्यतिरेकिणश्चैते विश्वभेदे हेतवः ।
 चेतनभेदाचेतनभेदयोः प्रत्येकं प्रसिद्ध्योर्विष्णौ साधनान्नासिद्धिः ।
 न चासाधारण्यम् ।
 द्वित्वरूपसाध्यतावच्छेदकावच्छिन्नवत्त्वेन निश्चिताद्धेतोरव्यावृत्तेः ।
 एकाधिकरणान्तर्भावेन साध्यतावच्छेदकावच्छिन्नसाध्याप्रसिद्धावप्यधिकरणद्वयान्तर्भावेन तत्प्रसिद्धेश्च ।
 अन्यथा पृथिव्यां त्रयोदशभेदानां साध्यत्वपक्षः परेषामप्यनुपपन्नः स्यात् ।
 अथवा वक्ष्यमाणरीत्या विश्वतादात्म्याभावस्य साध्यत्वादभावसाध्यके व्यतिरेकिणि साध्याप्रसिद्धेरदूषणत्वात् ।
 साध्यविशेष्यकाया एवानुमितेः प्रथमं सम्भवान्नानुपपत्तिः ।
 अवशिष्टमग्रे वक्ष्यते ।

ननु किमिदं स्वतन्त्रत्वम् ।
 स्वाधीनत्वमिति चेन्न ।
 स्वस्यानुगतस्यैकस्याभावेन भगवदधीनत्वस्य पर्यवसाने नियम्यनियामकभावस्य भेदव्याप्यस्य भेदाभावे एकस्मिन्नयोगेनासिद्धेर्विरोधाच्च ।
 विशेषणानुपादाने च विश्वस्मिन्नपि सत्त्वेन व्यभिचारः ।
 न च स्वतन्त्रत्वं `स्वयं दासास्तपस्विन' इत्यत्र स्वयं दासत्वं स्वातिरिक्तदासशून्यत्वमिव स्वातिरिक्तनियामकशून्यत्वं तच्च भगवत्यस्तीति नासिद्धिर्न वा विरोधः ।
 नास्ति च विश्वस्मिन्निति न व्यभिचार इति वाच्यम् ।
 अब्भक्षो वायुभक्ष इत्यादाविवासाधारण्येन व्यपदेशमाश्रित्य स्वमात्रतन्त्रत्वं स्वमात्राधीनत्वम् ।
 स्वाधीनत्वे सति स्वान्यानधीनत्वमिति स्वशब्दादुपस्थितिसम्भवेन तत्र भावांशस्य वैय्यर्थ्यादविवक्षणेन स्वान्यानधीनत्वस्य शब्दादुपस्थितिसम्भवेऽपि स्वातिरिक्तनियामकशून्यत्वस्य स्वतन्त्रशब्दादुपस्थितेः ।
 न च स्वान्यानधीनत्वमपि तत्तुल्यसत्ताकमितीदमेव स्वतन्त्रत्वमिति वाच्यम् ।
 भगवदन्यानधीनत्वस्यापि भगवतीव विश्वास्मिन्नपि सत्त्वेन व्यभिचारानिरासात् ।
 न च भगवदन्यस्वोत्तमाधीनत्वस्य विश्वास्मिन्नसत्त्वेन व्यभिचार इति वाच्यम् ।
 तथाऽपि लक्ष्म्यां तदपरिहारदिति चेत् ।
 उच्यते ।
 स्वाधीनत्वांशस्येव भगवदन्यानधीनत्वांशस्यापि वैय्यर्थ्येनाविवक्षितत्वात् ।
 अनधीनत्वमेव स्वतन्त्रत्वम् ।
 तच्चास्ति भगवति ।
 नास्ति च विश्वस्मिन्निति न कश्चित्क्षुद्रोपद्रवः ।
 अनेनैव पद्येन विषयादिकं सूचितं भवति ।
 विश्वभिन्नो विष्णुर्विषयः ।
 तज्ज्ञानमवान्तरप्रयोजनम् ।
 मोक्षः परमप्रयोजनम् ।
 तत्कामोऽधिकारी ।
 यथा योग्यं सम्बन्धः ।

(1) हुलगीश्रीनाथाचार्यकृता भेदसञ्जीविनी -
हरिः ओम्
नुमः सत्यवतीसूनुं यत्प्रसादाच्छ्रियं धियम् ।

कीटोऽपि निश्चलां प्राप लोककौतुककारिणीम् ॥1 ॥
नत्वा नन्दजयव्यासमुनिप्रभृतिसद्गुरून् ।

श्रीनाथनामा तनुते भेदसञ्जीवनीं शुभाम् ॥2 ॥
बह्व्यः सन्त्यत्र टिप्पण्यस्तथाऽप्येषा कृतिर्मम ।

नोपेक्ष्या तदनुक्तार्थलेशस्याप्यत्र शंसनात् ॥ 3 ॥
ग्रन्थादौ मङ्गलं कृत्वा निबध्नाति - स्वभावत इति ॥ जयतादित्याशीर्लोटो भाविकालसम्बन्धित्वेनेच्छार्थः (* इच्छापदं हु.पाठे नास्ति ।
)।
 भाविकालस्येदानीमसत्वात् (* `असिद्धत्वात्' - हु.) तत्सम्बन्धित्वेनेच्छायुक्तैव ।
 उक्तेच्छायास्तदकारणत्वेऽपि (* `-युक्तेनैवेत्युक्तेच्छायाः' इति मु.पाठः प्रमादबहुलः ।
) तादृशेच्छावत्सु भगवत्प्रीतिर्भवत्येवेति तादृशेच्छा कर्तव्यैव ।
 `राज्ञ एवमेवोत्कर्षोऽस्तूत्तरत्रापी'तीच्छावत्सु (* `राज्ञ एवमेवोत्कर्षस्तूत्तरत्रापि-' इति मु.पाठः दुर्बोधः ।
 हु.पाठस्यायं भागः त्रुटितः ।
 अतः उत्कर्षस्तु इत्यस्य स्थाने उत्कर्षोऽस्तु इति पाठः सम्भावितः ।
) राज्ञः (राज्ञां) प्रीतिदर्शनात् ।
 अतो भगवदुत्कर्षस्य सर्वदा सिद्धत्वात्कथमत्रेच्छेति शङ्काऽनवकाशः ।
 विभिन्न इत्यत्र वीत्युपसर्गेण भेदे सत्यत्वमनौपाधिकत्वं तत एव मुक्तावप्यनिवर्त्यत्वमभेदासामानाधिकरण्यं च लभ्यते ।
 तदुपपादनाय स्वभावत इत्यादिकमुपात्तम् ।
 स्वभावत एव विरुद्धधर्मवत्त्वे कदाचिदप्यभेदसत्त्वे तत्स्वरूपस्यैव निवृत्त्यापत्त्या कदाऽपि कथमप्यभेदो नास्तीति लभ्यते ।
 स्वतन्त्रस्य सर्वनियामकस्य सर्वज्ञस्योपाध्यधीनभेदादिप्रयुक्तदुःखानुभवोऽत्यन्तासम्भवदुक्तक इति स्फोरणाय स्वातन्त्र्यस्यैव प्रथमतो ग्रहणं कृतम् ।


(1) काशीतिम्मण्णाचार्यकृतटिप्पणी -
जन्माद्यस्य यतः शास्त्रगम्यमन्वयतः पृथक् ।

परमं ब्रह्म विष्ण्वाख्यमधिकं तदुपास्महे ॥
अखिलापेक्षितमोक्षप्रयोजकपरदेवतोत्कर्षप्रतिपत्तिप्रतिवन्धकभेदविप्रतिपत्तिप्रतिषेधपूर्वकविभाद्वयवस्थापनाय प्रकरणमारभमाणः श्रीमद्व्यासतीर्थमुनिर्निरन्तरायपरिसमाप्तये प्रचयाय च परमेश्वरं प्रार्थयते - स्वभावत इति ॥ यद्यपि भगवत्पादैरेव सपरिकरं भेदो व्यवस्थापितः ।
 तथापि तदेवात्र सङ्गृह्य सङ्क्षेपेणोपपाद्यत इत्यवैयर्थ्यम् ।
 विष्णुर्जयतात् विश्वोत्कर्षेण विज्ञातो वर्तताम् ।
 नातो नित्यसिद्धविष्णोः उत्कर्षप्रार्थनानुपपत्तिः ।
 न्वस्य विश्वोत्कर्ष एव कथमत आह - जगदीश्वर इति ॥ नन्वनीश्वरजीवाद्यभिन्नस्य जगदीश्वरत्वमपि कथमत आह - विश्वतो विभिन्न इति ॥ विश्वशब्दो जीवजडार्थः ।
 तद्भेदस्यौपाधिकस्याप्रयोजकत्वात् स्वाभाविकत्वमलाभाय विशब्दः ।
 तादृशभेदवत्त्वे हेतुर्गुणैरित्यन्तम् ।
 गुणैरसाधारणप्रमापकैः ।
 इत्थंभूतलक्षणे तृतीया ।
 तादृशगुणज्ञाप्यविश्वविभेदवानित्यर्थः ।
 कानि तानि प्रमापकाणीत्यतः ॥ स्वतन्त्रत्वप्रमुखैरिति ॥ परानपेक्षसत्ताकत्वादिरूपस्वातन्त्र्यादेः कल्पितस्य स्वाभाविकभेदसाधकत्वायोगादाह - स्वभावत इति ॥ स्वाभाविकैरित्यर्थः ।
 अनेन श्रोतृप्रवृत्त्यङ्गभूतविषयादिकमपि सूचितम् ।
 विश्वविभेदवद्विष्णुरेव विषयः ।
 तस्य विश्वोत्कर्षज्ञानं प्रयोजनम् ।
 तदिच्छमुरधिकारी ।
 यथायोगं सम्बन्ध इति ॥

(1) शर्कराश्रीनिवासाचार्यविरचितटिप्पणी -
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
हरिः ओम् ।

रामं रमापतिं नत्वा श्रीमध्वं जययोगिनम् ।

व्यासतीर्थगुरुं भेदोज्जीवनं व्याकरोम्यहम् ॥
इह खलु सुखमेव मे स्याद्दुःखं मनागपि मा भूदिति निखिलापेक्षितमोक्षस्य
`पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च ॥
निर्दोषत्वं गुणोद्रेकं ज्ञात्वा मुक्तिर्नचान्यथे'ति पञ्चभेदज्ञानसाध्यत्वस्मरणात्तदर्थं प्रवृत्तमपि चिरन्तनशास्त्रमतिविततगम्भीरतया न मन्दानां सुखेन भेदज्ञापकमिति तदुक्तभेदप्रमाणान्येव सङ्गृह्य सङ्क्षिप्य च भेदोज्जीवनाख्यप्रकरणनिर्माणेन भेदज्ञानं जनयित्वा मन्दानुद्दिधीर्षुर्व्यासतीर्थमुनिः प्रारिप्सितपरिसमाप्त्यादिफलकशिष्टाचारादिप्रमाणकेष्टदेवतास्तवनप्रार्थनरूपं मङ्गलं कृत्वा शिष्यान्ग्राहयितुं प्रकरणादौ निबध्नाति - स्वभावत इति ॥ ननु देवदत्तः शत्रून्जयतीत्यादौ जिधातोः सकर्मकत्वदर्शनात्कथमत्र कर्माभाव इति चेन्न ।
 जिधातोरभिभवार्थे सकर्मकत्वेऽप्युत्कर्षार्थे सकर्मकत्वाभावात् ।
 यथोक्तं जयेरित्यादिना ।
 प्रकृते चोत्कर्ष एव विवक्षितः ।
 तथाच विष्णुर्जयतात् उत्कृष्टो भवतादित्यर्थः ।
 यद्यपिभगवान्नित्योत्कृष्टः तथापि व्यक्तिविशेषाभिप्रायेणोत्कर्षप्रार्थनाया अत्र क्रियमाणत्वादाशीरर्थकलोट्प्रयोगोपपत्तिः ।
 यद्वा विवक्षाभेदेन जगत्पदं व्यस्तं समस्तं च तन्त्रन्यायेन पूर्वोत्तराभ्यां सम्बध्यते ।
 तथाच विष्णुर्जगत् दुष्टविघ्नादिकं विश्वं जयतादभिभवत्वित्यर्थः ।
 नन्वनिर्धारितस्वरूपस्य स्तुत्यादिकरणमनुपपन्नं, नच लक्षणेन विना स्वरूपनिर्धारणं भवतीत्यतो विष्णोर्लक्षणमाह - जगदीश्वर इति ॥ अत्र जगच्छब्देन जमुत्पत्तिं गच्छतीति व्युत्पत्त्या चेतनाचेतनात्मकप्रपञ्च उच्यते ।
 पराधीनविशेषावाप्त्यादिरूपोत्पत्तेः सर्वसाधारण्यान्नात्र कश्चित्क्षुद्रोपद्रवः ।
 अनेन जगन्नियामकत्वं लक्षणमुक्तं भवति ।
 ननु नियम्यनियामकभावस्य भेदव्याप्तत्वात्प्रपञ्चेश्वरयोश्चभेदाभावादिदं लक्षणं नसम्भवतीत्यत आह - विभिन्न इति ॥ अत्र विश्वपदं चेतनात्मकविश्वपरम् ।
 अत एव चेतनाचेतनात्मकविश्वभिन्नत्वमित्यनुपदमेव वक्ष्यति ।
 तथाच चेतनाचेतनात्मकप्रञ्चचादत्यन्तभिन्नमित्यर्थः ।
 अत्र वीत्युपसर्गेणात्यन्तभेदोक्त्या भेदाभेदवादियादवप्रकाशो निराकृतः ।
 ननु भेदस्यौपाधिकत्वेन मुक्तावभावान्मुक्तचेतननियामकत्वं भगवतो न स्यादित्यत आह - स्वभावत इति ॥ स्वरूपत इत्यर्थः ।
 विभिन्न इत्यनेनास्य सम्बन्धः ।
 भेदस्य भेदकधर्मनियत्वात्तानाह - गुणैरिति ॥ तेषां प्रपञ्चसाधारण्येन कथं भेदकत्वमित्यतोगुणान्विशिनष्टि - स्वतन्त्रत्वप्रमुखैरिति ॥ सत्तात्रैविध्ये परानधीनत्वं स्वतन्त्रत्वम् ।
 तदेव प्रमुखं प्रधानं येषु ते स्वतन्त्रत्वप्रमुखाः तैरित्यर्थः ।
 नन्वेषां गुणानामौपाधिकत्वेन मुक्तावभावान्न स्वरूपभेदनियामकत्वमित्यतोप्याह(तोवाह) - स्वभावत इति ॥ आद्यादिभ्य उपसङ्ख्यानात्तृतीयार्थे तसिः ।
 स्वरूपभूतैरित्यर्थः ।
 निखिलैरिति स्वरूपसङ्कीर्तनम् ॥ 1 ॥
(2) ननु कथं विष्ण्वाख्यस्य परब्रह्मणः स्वतश्चेतनाचेतनात्मकविश्वभिन्नत्वम् ।
 भेदे प्रमाणाभावात् ।
 तथा हि ।
 न तावज्जीवेश्वरभेदे प्रत्यक्षं सम्भवति ।
 ईश्वरधर्मिकस्येश्वरप्रतियोगिकस्य वा भेदस्येश्वराप्रत्यक्षत्वेनाप्रत्यक्षत्वात् ।

(2) (भ.) यदर्थं विश्वतो विभिन्नत्वं विष्णोर्विशेषणमुक्तं तत्समर्थयितुमाक्षिपति - नन्वित्यादिना ॥ विश्वशब्देन चेतनाचेतनात्मकसर्वजगतो विवक्षितत्वाच्चेतनाचेतनात्मकेत्युक्तम् ।
 एवं विष्णुशब्देन परब्रह्मण एव विवक्षितत्वाद्विष्ण्वाख्यस्य परब्रह्मण इत्युक्तमिति ध्येयम् ।
 कुत एवमाक्षेप इत्यत आह - भेद इति ॥ विष्ण्वाख्यस्य ब्रह्मणो विश्वविभिन्नत्वाङ्गीकारे विश्वस्यापि ततो भेदोऽङ्गीकार्यः ।
 न हि विष्णुर्विश्वभिन्नो विश्वं तु ततोऽभिन्नमिति सम्भवति ।
 एवं चेतनाचेतनात्मकविश्वस्यापि मिथो भेदोऽङ्गीकार्यः ।
 अन्यथा चेतनाचेतनात्मकेति निर्देशस्यैवानुपपत्तेः ।
 एवमेव चेतनानामचेतनानां च परस्परभेदोऽप्यङ्गीकार्यः ।
 अन्यथा समस्तवाचिविश्वशब्दोपादानवैय्यर्थ्यापातात् ।
 तथा च चेतनाचेतनात्मकविश्वप्रतियोगिकविष्णुधर्मिकभेदे वा विश्वधर्मिकविष्णुप्रतियोगिकभेदे वा विश्वस्य परस्परभेदे वा चेतनानामचेतनानामपि परस्परभेदे वा प्रमाणाभावादित्यर्थः ।
 अत एव कथं विश्वविभिन्नत्वमिति विष्णुधर्मिकभेदस्य प्रस्तुतत्वेऽपि सर्वभेदसङ्ग्रहार्थं पुनर्भेदग्रहणम् ।
 अन्यथा तस्य वैय्यर्थ्यापत्तेरिति ध्येयम् ।
 यद्याप्याद्यपद्ये स्वतन्त्रत्वप्रमुखैरित्यनुमानप्रमाणमुक्तम् ।
 तथाऽपि तस्य प्रत्यक्षादिक्रमेणैव दूषणमभिधास्यन् शङ्कोत्थापनार्थमेव मुक्तिः ।
 अभिधास्यति चैतद्दूषणं विमतौ भिन्नावित्यनुमानमाशङ्क्येति ।
 एतदेव क्रमेणोपपादयति - तथा हीत्यादिना ॥ तावच्छब्दः क्रमार्थः ।
 न तावज्जीवेश्वरभेदे न तावत्प्रत्यक्षमित्युभयत्रापि सम्बध्यते ॥ जीवेश्वरभेद इति ॥ जीवादीश्वरस्य भेदे जीवस्येश्वराद्भेदे वेत्यर्थः ।
 प्रत्यक्षं भवति ।
 प्रमाणमिति शेषः ।
 कुतस्तत्र प्रत्यक्षं प्रमाणं नेत्यत आह - ईश्वरधर्मिकस्येति ॥ जीवादीश्वरभेदस्येश्वराज्जीवभेदस्य वेत्यर्थः ।
 भेदप्रत्यक्षे धर्मिप्रतियोगिनोरुभयोरपि प्रत्यक्षत्वं तन्त्रमिति भावः ।
 एतेन विष्णोर्विश्वतो भिन्नत्वं कथमिति विष्णुधर्मिकभेदमात्रस्य शङ्कितत्वेन तत्प्रतियोगिकभेदे प्रमाणाभावकथनमसङ्गतमिति शङ्कानवकाश इति ध्येयम् ।
 केचित्तु जीवेश्वरभेदे इत्येतज्जीवप्रतियोगिक ईश्वरभेदे इति व्याख्याय तर्हीश्वरप्रतियोगिकस्य वेत्यप्रस्तुतकथनं कुत इत्याशङ्क्य दृष्टान्तार्थं तदुक्तिरिति व्याचक्षते ।
 तच्चिन्त्यम् ।
 ईश्वरप्रतियोगिकभेदस्याप्युक्तरीत्या प्रस्तुतत्वसत्त्वात् ।
 किञ्च विश्वविभिन्नत्वं विश्वप्रतियोगिकभेदवत्त्वं वा विश्वनिष्ठभेदप्रतियोगित्वं वा स्यात् ।
 तदुभयमपि न सम्भवति ।
 भेदद्वये प्रमाणाभावादित्याशयेन न तावज्जीवेश्वरभेद इत्वादिग्रन्थो यथाश्रुत एवास्त्विति यदत्र व्याख्यानान्तरं तदपि चिन्त्यम् ।
 विश्वतो विभिन्न इत्युक्ते विश्वप्रतियोगिकभेदस्यैवावभासात् ।
 विश्वनिष्ठभेदप्रतियोगित्वस्यानवभासादिति ।

(2) (मु.) पूर्वपक्षमुट्टङ्कयति - नन्विति ॥ परेण ब्रह्मण एव विश्वाभेदोक्तेर्विष्णुर्विभिन्न इति व्यधिकरणमित्यतो विष्ण्वाख्यस्येति ॥ कथमिति ॥ किं भेदे प्रमाणादैक्ये प्रामाणाभावाद्वा ।
 आद्ये प्रत्यक्षादनुमानादागमाद्वा ।
 द्वितीये प्रत्यक्षाभावादनुमानाभावादागमाभावाद्वेत्यर्थः ।
 चेतनाचेतनेति विश्वपदव्याख्यानम् ।
 तदवान्तरभेदोपक्षेपसूचनार्थं चेतनाचेतनात्मकेति ।
 अन्यथाऽवान्तरभेदभिन्नमित्येवावक्ष्यत् ॥ भिन्नत्वमिति ॥ भेदं प्रति धर्मित्वं प्रतियोगित्वं चेत्यर्थः ।
 अत्र विप्रतिपत्तिः ।
 ईश्वरत्वोपलक्षिता चित् जीवत्वोपलक्षितचित्प्रतियोगिकधर्मिसत्तासमानसत्ताकानौपाधिककेवलभेदवती न वेत्यादिरूह्या ॥ ईश्वराप्रत्यक्षत्वेनेति ॥ ससम्वन्धिकपदार्थप्रत्यक्षे सम्बन्धिप्रत्यक्षं तन्त्रम् ।
 अन्यथा वाय्वाकाशसंयोगस्य वा वायुघटसंयोगस्य वा प्रत्यक्षत्वापातः ।
 अत्रापीश्वरेति शुद्धं ब्रह्मैव विवक्षितम् ।
 ननु तत्त्वविद्भिः सगुणस्य साकारस्य भिन्नत्वमुच्यते ।
 पराभिप्रेतं तु ब्रह्म निर्गुणमिति व्यधिकरणो विवाद इति चेन्न ।
 यत्परस्य निर्गुणं तदेव तत्त्वतः सगुणः साकार ईश्वरो न ततोऽतिरिक्तः कश्चिदिति विशेषैक्येन सामानाधिकरण्यात् ।
 एतेन जीवजडानामतीन्द्रियाणामनतीन्द्रियाणां चान्योन्यभेदे प्रत्यक्षं निरस्तम् ।
 न च सर्वत्र योगिप्रत्यक्षं मानम् ।
 तच्च `जुष्टं यदा पश्यति' इत्यादिप्रसिद्धमिति वाच्यम् ।
 आगमनिरासेनैव निरसिष्यमाणत्वात् ।

(2) (कु.) विश्वभिन्नत्वनिर्वाहार्थमुत्तरग्रन्थ इति निर्वाहकत्वमेव सङ्गतिरित्याशयेन भगवतो विश्वभिन्नत्वमाक्षिपति - नन्वित्यादिना ॥ आक्षेपो न विष्णोः किन्तु भेदस्येत्याह - भेदे प्रमाणाभावादिति ॥ यद्यपि स्वतन्त्रत्वप्रमुखैर्निखिलैर्गुणैरिति प्रमाणमुक्तं तथाऽपि निर्गुणे ब्रह्मणि पक्षीकृते हेतूनां गुणानामसिद्धिः ।
 सगुणपक्षीकारे औपाधिकभेदेनार्थान्तरतेत्यभिसन्धिनैवमुक्तिः ।
 चेतनाचेतनात्मकविश्वभिन्नत्वे प्रमाणाभावं परिशेषेण साधयिष्यन् चेतनभेदे प्रत्यक्षं तावद्दूषयति - न तावदिति ॥ जीवेश्वरभेदे जीवप्रतियोगिकेश्वरभेदे ॥ ईश्वरधर्मिकस्येति ॥ जीवप्रतियोगिकस्येश्वरधर्मिकस्य भेदस्येश्वररूपधर्मिप्रत्यक्षाभावेनाप्रत्यक्षत्वादित्यन्वयः ।
 ईश्वरप्रतियोगिकस्येति दृष्टान्तार्थो वा ।
 वा इवार्थे ।
 ततश्च जीवधर्मिकस्येश्वरप्रतियोगिकस्य भेदस्येश्वररूपप्रतियोगिप्रत्यक्षाभावेन जीवान्तररूपधर्मिप्रत्यक्षाभावेन च यथाऽप्रत्यक्षत्वं तथेत्यर्थः ।
 अन्यथा तस्याप्रस्तुतत्वेन तत्र प्रमाणनिराकरणानौचित्यात् ।
 यद्वा विश्वभिन्नत्वं विश्वप्रतियोगिकभेदवत्त्वं वा विश्वनिष्ठभेदप्रतियोगित्वं वा स्यात् ।
 तदुभयमपि न सम्भवति ।
 भेदद्वये प्रमाणाभावादित्याशयेन `न तावज्जीवेश्वरभेद' इत्यादिग्रन्थो यथाश्रुत एव ।
 अत्र वक्तव्यं परिहारावसरे वक्ष्यते ।

(2) (हु.) उक्तार्थं पूर्वपक्षनिरासादिना दृढीकर्तुमारभ्यते ॥ नन्वित्यादिना ।
 विष्णोर्ब्रह्मत्वोत्कीर्तनं परैर्मायाशबलस्य कस्यचिद्विष्ण्वाख्यस्यास्मदादाविव निखिलप्रपञ्चतादात्म्यानङ्गीकारात्कथं तदभिप्रायेण पूर्वपक्षोत्थितिरिति शङ्कामपाकर्तुम् ।
 विष्णुपदब्रह्मपदयोस्त्रिविधपरिच्छेदराहित्यरूपव्याप्तिवृद्ध्यर्थयोः (-वृद्ध्यर्थकयोः) समानार्थत्वेन तयोरेकत्वात्तदुपरि पूर्वपक्षोत्थितिरिति भावः ।
 उत्तरत्र चेतनाचेतनभेदयोर्विचारयिष्यमाणत्वात्तस्य विश्वपदार्थतया प्रसक्तत्वसूचनाय चेतनाचेतनात्मकमिति विश्वविशेषणम् ॥ ईश्वरप्रतियोगिकस्येति ॥ भेदः संयोगादिवदुभयवृत्तिस्तद्धटकपदार्थ (* `-पद-' मु.)प्रतियोगिकस्तदनुयोगिकश्च भवति ।
 इमौ संयुक्तावयमनेन संयुक्तोऽयमप्यनेन संयुक्त इति प्रतीतीनामिवेमौ भिन्नावयमस्माद्भिन्नोऽयं चास्माद्भिन्न (* `अयमस्माद्भिन्न' मु.) इति प्रतीतीनामबाधितानां सत्त्वात् ।
 एकस्यैव भेदस्य घटप्रतियोगिकत्वं तदनुयोगिकत्वं चाङ्गीक्रियते ।
 घटः स्वस्माद्भिन्न इत्याद्यापत्तिश्च स्वप्रतियोगिकत्वविशिष्टभेदाधिकरणतायास्तादृशप्रतीतौ नियमेन भासमानायाः स्वस्मिन् बाधितत्वादेव न प्रसज्यते ।
 घटः स्वेन संयुक्त इति प्रतीत्यापत्तिवदिति मतेनेदम् ।
 अत एवैतन्मतावष्टम्भेनैव चन्द्रे भेदमाश्रित्य द्वौ चन्द्राविति प्रतीतिमुपपादयिष्यन्दृष्टान्ते साध्यवैकल्यं परिहरिष्यति ।
 तथा चेश्वरप्रतियोगिकत्वेन प्रतीयमानस्य (* इदं पदं मु.पाठे नास्ति ।
) जगद् ईश्वराद्भिन्नमिति प्रतीतौ भासमानस्येश्वरो जीवादिप्रपञ्चाद्भिन्न इति प्रतीतौ भासमानस्य च भेदस्यैकत्वेनेश्वरधर्मिकत्वेनेश्वराप्रत्यक्षत्वेनाप्रत्यक्षत्वमेव ।
 घटगगनसंयोगवत्सम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य कारणत्वादिति भावः ।
 एतेन पूर्वश्लोके जगत्प्रतियोगिकेश्वरभेदस्यैव प्रसक्तत्वेन तत्रैव विचारस्य प्रक्रान्तत्वेनेश्वरप्रतियोगिकभेदस्याप्रत्यक्षत्ववचनमसङ्गतम् ।
 एवं प्रतियोग्यप्रत्यक्षत्वस्य भेदाप्रत्यक्षत्वसम्पादकत्वे स्तम्भः पिशाचो नेति भेदस्य प्रत्यक्षत्वानुपपत्तिरिति परास्तम् ।
 पूर्वोक्तमते ईश्वरप्रतियोगिकस्यापि भेदस्येश्वरधर्मिकत्वाङ्गीकारेणाप्रसक्तविचाररूपत्वाभावादेतन्मते स्तम्भः पिशाचो नेति प्रतीतेरनुमितिशाब्दादिरूपत्वाभ्युपगमेन प्रत्यक्षरूपत्वानभ्युपगमाच्च ।
 वाशब्दः समुच्चये ।
 यद्वा भेदो यत्प्रतियोगिकः नतद्वृत्तिः, किन्त्वनुयोगिमात्रवृत्तिरिति सर्वसिद्धिमतेनेदं वाक्यं प्रवृत्तम् ।
 (* `यदा भेदो न प्रतियोगिवृत्तिः किन्त्वनुयोगिमात्र इति मतेनेदं वाक्यं प्रवृत्तम्' मु.) ।
 तर्हीश्वर (* `तद्धीश्वर-' मु.)प्रतियोगिकभेदस्याप्रत्यक्षत्वोपपादनस्य कथमुपयोग इति चेदित्थम् ।
 यथा भास्करमते घटे मृदा सहात्यन्ताभेदो मृदि तु घटस्यात्यन्तभेद एव ।
 एवं कार्यकारणयोर्भेदाभेदौ व्यवस्थितौ ।
 तथा कारणीभूतेश्वरस्य जगता सहात्यन्ताभेदेऽपि जगदीश्वरेणात्यन्ताभिन्नमिति मतमपाकर्तुं विभिन्न इत्युक्तम् ।
 विशेषतो विभिन्नत्वं (* विशेषतः इति पदस्य प्राक् सत्वात् `भिन्नत्वं' इति पाठेन भाव्यमिति भाति ।
) च स्वात्यन्ताभिन्नजगत्प्रतियोगिकात्यन्तभेदवत्त्वम् ।
 इदं च पूर्वश्लोकप्रसक्तं तदनुसारेण विश्वभिन्नत्वशङ्काग्रन्थस्य भिन्नत्वमित्यस्याप्ययमेवार्थः ।
 तथा च भेदद्वयस्यापि प्रकृतत्वादीदीश्वरप्रतियोगिकभेदस्याप्रत्यक्षत्वोपपादनं युक्तम् ।
 न च प्रतियोग्यप्रत्यक्षत्वेन भेदस्याप्रत्यक्षत्वे स्तम्भपिशाचभेदप्रत्यक्षानुपपत्तिः ।
 इष्टापत्तेः ।
 पूर्वोक्तरीत्या तस्य शाब्दादिरूपत्वोपगमात् ।
 न चात्र बीजाभावः ।
 भेदप्रत्यक्षे प्रतियोगिवृत्तिधर्मविरुद्धधर्मज्ञानस्य कारणत्वानुभवेन प्रतियोगिन एवाप्रत्यक्षत्वे तद्वृत्तिधर्मस्याप्यप्रत्यक्षत्वेन तद्विरुद्धत्वस्यापि धर्मान्तरे ग्रहीतुमशक्यत्वात् ।
 अथवा प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनिर्णयो भेदधीहेतुः (* `निर्णयो भावधीहेतुः' मु.) ।
) ।
 पिशाचादीनां लोकसिद्धव्यवहारादिना निर्णयात्तत्प्रतियोगिकभेदप्रत्यक्षमुपपद्यते ।
 भवदभिमतस्य स्वातन्त्र्यादिविशिष्टेश्वरस्य (* `-ईश्वरे' मु.) नानुमानादिगम्यत्वम् ।
 तस्य सत्प्रतिपक्षादिकबलितत्वेनानिर्णायकत्वात् ।
 आगमानां तूपक्रमालिङ्गैश्चिन्मात्रपरत्वादवशिष्टं प्रत्यक्षमेव (* `अविशिष्टप्रत्यक्षमेव' मु.) ।
 तदप्युक्तेश्वरे नास्तीति प्रतियोगिनिर्णयरूपकारणाभावादुक्तेश्वरभेदप्रत्यक्षं न युक्तमित्याशयः ।
 नन्वीश्वररूपधर्मिणोऽप्रत्यक्षत्वात्तद्वृत्तिभेदस्याप्रत्यक्षत्वकथनमयुक्तम् ।
 गगनस्याप्रत्यक्षत्वेऽपि तद्वृत्त्युद्भूतरूपाभावस्य (* `तदवृत्त्युद्भूतरूपाभावस्य' मु.) प्रत्यक्षविषयतायास्तान्त्रिकैरभ्युपगमात्पुष्पस्य घ्राणाविषयत्वेऽपि (* अपिशब्दः मु.पठे नास्ति ।
) तद्वृत्तिचम्पकगन्धाभावस्य घ्राणजप्रत्यक्षविषयत्वाङ्गीकारादिति चेन्न ।
 अत्यन्ताभावस्थले योग्यप्रतियोग्यनुपलब्धेर्हेतुत्वेन तथात्वसम्भवेऽपि भेदप्रत्यक्षेऽधिकरणप्रत्यक्षस्यैवान्वयव्यतिरेकाभ्यां हेतुत्वमित्याशयेनोक्तसङ्गतेः ।
 यद्वा तादात्म्याभावोऽन्योन्याभाव एव (* एवशब्दः हु.पाठे नास्ति।
) ।
 तत्प्रत्यक्षे योग्यतादात्म्यानुपलब्धिः कारणम् ।
 योग्यत्वं च प्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वम् ।
 तथा च प्रत्यक्षीभूताधिकरणे तन्निष्ठेतरतादात्म्योपलब्धेरापादयितुमशक्यत्वान्न प्रकृते योग्यानुपलब्धिरित्याशय इत्यलम् ।
 केचित्तु वाशब्द उपमायाम् ।
 तथा चेश्वरप्रतियोगिकभेदो दृष्टान्ततयोपात्त (* `दृष्टान्विधया-' हु.) इति नाप्रसक्तकथनम् ।
 सोऽपि परजीवानुयोगिकोऽतीन्द्रियजडानुयोगिकश्च ग्राह्यस्तस्य स्वप्रत्यक्षत्वादिति व्याचक्षते ।
 तत्रेश्वरप्रतियोगिकभेदस्येश्वरातिरिक्तसामान्यनिष्ठस्यैकस्यैवाद्वैतवादिभिर्नैय्यायिकैश्चाङ्गीकृतत्वेन स्वस्मिन् घटादौ चेश्वरभेदस्य प्रत्यक्षविषयत्वविवादस्य (* `-विचारस्य' मु.) सत्त्वेन दृष्टान्तासङ्गतिः ।
 धर्मिभेदेन भेदाङ्गीकारेणैवेदमित्युक्तावपि भेदसामान्यस्य ग्रहणासङ्गतिः ।
 स्वानुयोगिकेश्वरभेदप्रत्यक्षनिराकरणं चेत्यादिकं कथं परिहर्तव्यमिति विभावनीयम् ।
 न च तस्याप्रसक्तत्वादेव न (* नशब्दः मु.पाठे नास्ति।
) तन्निराकरणमपेक्षितमिति वाच्यम् ।
 तथाऽपि स्वकृतद्वितीयव्याख्याने ईश्वरप्रतियोगिकभेदप्रत्यक्षसामान्यस्यापि निराकर्तव्यत्वेन प्रसक्ततया तत्रोक्तदोषापरिहारादिति भेदप्रत्यक्षसामान्ये प्रतियोगिप्रत्यक्षस्यापि कारणत्वमिति शङ्ककस्याभिमानस्थापनेन (* `अभिमानस्यापनयेन' मु.) यथाकथञ्चिद्ग्रन्थसङ्गमनं त्वगतिका गतिः ।
 अथवेति कृतास्मद्व्याख्याने च नैषोऽभिमान इति ।

(2) (का.) अत्राद्वैतवादी शङ्कते - नन्विति ॥ परब्रह्मण इत्यनेन भेदाङ्गीकारे वस्त्वपरिच्छेदरूपपरब्रह्मत्वानुपपत्तिं सूचयति ।
 चेतनाचेतने जीवजडे ।
 स्वभावत इत्यस्य भेद इत्यनेनापि सम्बन्धः ।
 अत्रेश्वरधर्मिकभेदस्यैव प्रकृतत्वेऽपि विश्वशब्दसूचितजीवजडभेदस्यापि सङ्ग्रहाय भेदमात्रग्रहणम् ॥ प्रमाणाभावादिति ॥ उक्तप्रमाणस्याभासत्वादित्यभिमानः ।
 तदेवोपपादयति तथाहीत्यादिना सङ्क्षेप इत्यन्तेन ॥ न तावदिति ॥ नन्विदमसङ्गतम् ॥ स्वतन्त्र्यादिरूपविरुद्धधर्महेतुकानुमानस्यैवाद्यपद्योक्ततया तत्प्रतिक्षेपस्यैव कर्तव्यत्वात् ।
 मैवम् ।
 तत्र प्रमुखपदेन भेदग्राहिप्रत्यक्षागमविषयत्वस्यापि विवक्षितत्वेन प्रमाणत्रयस्यैव लाभात् ।
 स्वभावतः प्रत्यक्षागमयोः प्राबल्येऽपि प्रकृते प्रत्यक्षस्येश्वरीयस्य साध्यतया सविवादत्वादागमस्य चोपपत्तिसापेक्षत्वादनुमानस्यैव प्राधान्येन परिग्रहात्, स्वभावप्राबल्यमेव पुरस्कृत्य प्रत्यक्षस्य प्रथमं प्रतिक्षेपात् ।
 अत एव सिद्धान्तेऽपि प्रत्यक्षादिप्रमाणत्रयं प्रदर्शयिष्यते ॥ जीवेश्वरभेद इति ॥ आत्मधर्मिकात्मान्तरप्रतियोगिकभेद इत्यर्थः ।
 ईश्वरधर्मिकजीवभेदे जीवधर्मिकेश्वरभेदे मिथो जीवभेदे चेति यावत् ।
 अत एव सामान्यत आत्मनानात्साधकानुमाननिराकरणसङ्गतिः ।
 ईश्वरेत्यात्मान्तरोपलक्षणम् ।

यत्तु - विष्णोर्विश्वतो भिन्नत्वं विश्वप्रतियोगिकभेदवत्त्वं विश्वनिष्ठभेदप्रतियोगित्वं वा स्यात्_ ।
 तदुभयमपि न सम्भवतीत्याशयेन भेदद्वये प्रत्यक्षप्रतिक्षेप इति ।
 तन्न ।
 (1) भिन्नशब्दस्य भेदप्रतियोग्यबोधकत्वेन तादृशविकल्पायोगात् ।
 अन्यथा घटो घटभिन्न इति प्रयोगापत्तेः ।
 व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकतदेकदेशप्रतियोगिताकभेदानुपगमेऽपि घटपटोभयं घटभिन्नमिति प्रयोगापत्तेश्च ॥ अप्रत्यक्षत्वादिति ॥ धर्मिप्रतियोगिप्रत्यक्षयोरभावप्रत्यक्षहेतुत्वादिति भावः ।

(2) (श.) विष्णौस्वभावतश्चेतनात्मकविश्वभिन्नत्वं समर्थयितुमाक्षिपति - नन्विति ॥ चेतनाचेतनात्मकेति ॥ अन्योन्यभिन्नचेतनाचेतनात्मकेत्यर्थः ।
 तेनोत्तरत्र क्रियमाणे जीवानां जठानां चान्योन्यभेदनिराकरणसमर्थनेसङ्गच्छेते ।
 अन्यथा तयोः प्रकृतासङ्गतिः स्यादिति ध्येयम् ।
 भेदे स्वभावतोभेदे ।
 एवमग्रेऽपि ।
 भेदेप्रमाणं प्रत्यक्षमनुमानमागमोवेति विकल्पान्मनसि निधायाद्यं दूषयति - नेति ॥ जडभेदेऽपि प्रत्यक्षं निराकरिष्यामीत्याशयेन तावच्छब्दः ।
 उत्तरपक्षद्वयमपि निराकरिष्यामीत्याशयेन वा ॥ जीवेश्वरभेद इति ॥ जीवानामन्योन्यभेदे जीवेश्वरभेदे चेत्यर्थः ।
 प्रत्यक्षं किमीश्वरो जीवो नेतीश्वरधर्मिकजीवप्रतियोगिकभेदविषयमभिधीयते उत जीव ईश्वरो नेति जीवधर्मिकेश्वरप्रतियिगिकभेदविषयकम् ।
 आद्यं निराचष्टे ॥ ईश्वरधर्मिकस्येति ॥ ईश्वरधर्मिकस्य ईश्वराधिकरणस्य भेदस्याप्रत्यक्षत्वादित्यन्वयः ।
 तत्र हेतुमाह - ईश्वराप्रत्यक्षत्वेनेति ॥ धर्मिभूतेश्वरस्याप्रत्यक्षत्वेनेत्यर्थः ।
 अभावप्रत्यक्षेऽधिकरणप्रत्यक्षस्य कारणत्वादिति भावः ।
 नन्वभावप्रत्यक्षे नाधिकरणप्रत्यक्षनियमः ।
 अप्रत्यक्षेऽप्याकाशे शब्दाभावस्य प्रत्यक्षत्वात् ।
 वायौ रूपाभावस्य प्रत्यक्षत्वात् ।
 अतोऽधिकरणज्ञानमात्रस्यापेक्षितत्वेन तस्येश्वरविषयकस्यापि परोक्षस्य सत्त्वात्तद्धर्मिकस्य भेदस्य प्रत्यक्षत्वमक्षतमिति चेन्न ।
 अत्यन्ताभावरूपसंसर्गाभावस्य प्रत्यक्षेऽधिकरणप्रत्यक्षनियमाभावेऽपि भेदाख्यान्योन्याभावप्रत्यक्षेऽधिकरणप्रत्यक्षावश्यंभावात् ।
 अत एवोक्तं रुचिदत्तेनोपाध्यायमतानुवादे `रूपवदन्योन्याभावस्तु योग्योऽपि वायावधिकरणे योग्यताविरहान्न गृह्यते ।
 अन्योन्याभावग्रहे तस्याः प्रयोजकत्वादि'ति ।
 उक्तं च तृतीयाध्याये टीकाकारेण ।
 `संसर्गान्योन्याभावग्रहे प्रतियोग्यधिकरणयोग्यता क्रमेण तन्त्रमि'ति ।
 द्वितीयं निराह - ईश्वरप्रतियोगिकस्येति ॥ ईश्वरप्रतियोगिकस्य भेदस्याप्रत्यक्षत्वादित्यन्वयः ।
 तत्र हेतुमाह - ईश्वराप्रत्यक्षत्वेनेति ॥ प्रतियोगिभूतेश्वराप्रत्यक्षत्वेनेत्यर्थः ।
 अभावप्रत्यक्षे प्रतियोगिप्रत्यक्षस्य हेतुत्वादिति भावः ।
 उपलक्षणमेतत् ।
 जीवान्तरप्रतियोगिकस्य जीवान्तरधर्मिकस्य वा भेदस्य जीवान्तराप्रत्यक्षत्वेनाप्रत्यक्षत्वादित्यपि द्रष्टव्यम् ।
 अत एव यज्ञदत्तप्रतियोगिको विष्णुमित्रधर्मिको भेदो विष्णुमित्रस्य प्रत्यक्ष इत्याद्यूह्यमिति सिद्धान्तग्रन्थे जीवानामन्योन्यभेदस्य प्रत्यक्षत्वसमर्थनं क्रियते ।
 अत एव च नाप्यनुमानमित्यादिनाऽऽत्ममात्रभेदेऽनुमानमाशङ्क्य निराकरणं सङ्गच्छते ।
 अन्यथा जीवेश्वरभेदे प्रत्यक्षं निराकृत्य तत्रैवानुमाननिराकरणस्य सङ्गतत्वेनात्ममात्रभेदसाधकानुमाननिराकरणस्यासङ्गतत्वात् ।
 नचात्ममात्रभेदासिद्धौ जीवेशभेदोऽपि सिध्यतीत्याशयेन तदिति वाच्यम् ।
 तथापि चैत्रशरीरमित्यादिनाऽन्योन्यजीवभेदशङ्कानिरासयोरनुपपत्तिरिति ध्येयम् ।
(3) नाप्यनुमानम् ।
 आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वात् पृथिवीत्ववदित्यस्यासिद्धेः ।
 आत्मैक्यवादिनां(ना) व्यक्तिभेदस्य बाधितत्वेनात्मत्वस्य जातित्वानङ्गीकारात् ।
 आत्मा आत्मप्रतियोगिकभेदाधिकरणं द्रव्यत्वात् घटवदित्यस्याप्यसिद्धेः ।
 आत्मनो निर्गुणस्यास्माभिर्गुणाश्रयत्वलक्षणद्रव्यत्वानङ्गीकारात् ।
 अथ सुखं नानाव्यक्त्याश्रितं गुणत्वात् रूपवत् ।
 सुखत्वं नानाव्यक्त्याश्रिताश्रितं गुणनिष्ठजातित्वाद्रूपत्ववदिति ।
 न च शब्दे शब्दत्वे च (वा) व्यभिचारः ।
 तस्य द्रव्यत्वात् ।
 अद्रव्यत्वपक्षेऽपि तदन्यत्वेन हेतुविशेषणादिति चेन्न ।
 सुखदुःखादीनामन्तःकरणाश्रितत्वेनान्तःकरणानां च नानात्वेन सिद्धसाधनात् ।
 स्वरूपसुखविवक्षायां तु तस्य द्रव्यत्वेनासिद्धेः ।
 चैत्रशरीरं मैत्रशरीरस्वामिभिन्नस्वामिकं तद्विरुद्धचेष्टावत्त्वादित्यत्र व्यभिचारः ।
 एकस्वामिकयोरपि (सकलैकस्वामिकयोरपि) घटपटयोर्विरुद्धचेष्टा(चेष्टाकत्व)दर्शनात् ।
 शरीरत्वेन हेतुविशेषणे दृष्टान्तासिद्धिः ।
 विमतौ भिन्नौ विरुद्धधर्माधिकरणत्वात् दहनतुहिनवदिति चेन्न ।
 पारमार्थिकभेदसाधने अप्रसिद्धविशेषणत्वात् ।
 अपारमार्थिक(व्यावहारिक)भेदसाधने सिद्धसाधनत्वात् ।
 तस्मान्नानुमानमात्मजीवभेदे मानमिति ।

(3) (भ.) ॥ नाप्यनुमानमिति ॥ जीवेश्वरभेदे प्रमाणं भवतीति वर्तते ॥ आत्मत्वमिति ॥ यद्यपीदमनुमानमात्ममात्रभेदसाधकं तथाऽपि तद्विशेषजीवेश्वरभेदोऽप्यनेन सिध्यतीत्याभिप्रायेणेदमभिहितम् ।
 यथा द्रव्यमात्रस्य गुणित्वसिद्धौ तद्विशेषस्य घटस्यापि तत्सिद्धिरिति ॥ जीवेश्वरभेदस्येव परस्परजीवभेदस्यापि प्रस्तुतत्वस्य प्रदर्शितत्वात्तदपेक्षया चेति बोध्यम् ॥ जातित्वादिति ॥ जातेरनेकानुगतत्वलक्षणकत्वादिति भावः ॥ असिद्धेरिति ॥ अन्यतरासिद्धेरित्यर्थः ।
 तामेवोपपादयति - आत्मैक्यवादिनेति ॥ जातित्वानङ्गीकारादिति सम्बन्धः ॥ व्यक्तिभेदस्येति ॥ आत्माख्यव्यक्तिभेदस्य वक्ष्यमाणप्रमाणबाधितत्वेनेत्यर्थः ।
 असिद्धिमेवोपपादयति - आत्मनो निर्गुणस्येति ॥ निर्गुणस्याप्यात्मनो द्रव्यत्वं किन्नाङ्गीक्रियत इत्यत उक्तं गुणाश्रयत्वलक्षणेति ॥ आत्मभेदे पुनरनुमानद्वयमाशङ्कते - अथ सुखमित्यादिना ॥ अनुमानद्वये व्यभिचारमाशङ्क्य निराकारोति ॥ न चेति ॥ आद्यानुमाने शब्दे व्यभिचारः ।
 द्वितीयानुमाने शब्दत्वे व्यभिचार इत्यर्थः ।
 आकाशव्यक्तेरेकत्वेन नानात्वाभावादिति भावः ।
 कुतो न व्यभिचार इत्यत आह - तस्येति ॥ तथा च शब्दस्य गुणत्वाभावाच्छब्दत्वस्य गुणनिष्ठजातित्वाभावाद्धेतोरेवाभावान्न व्यभिचार इति भावः ।
 मीमांसकमते शब्दस्य द्रव्यत्वेऽपि नैय्यायिकादिमते गुणत्वाव्द्यभिचारः सुस्थ इत्यत आह - अद्रव्यत्वपक्षेऽपीति ॥ तदन्यत्वेनेति ॥ आद्यानुमाने शब्दान्यत्वेन द्वितीयानुमाने शब्दत्वान्यत्वेनेत्यर्थः ।
 एवं शङ्कितमनुमानद्वयं दूषयितुं किमत्र सुखशब्देनान्तःकरणधर्मभूतं प्राकृतं सुखं विवक्षितमुत स्वरूपसुखमिति विकल्पं मनसि निधायाद्यं निराचष्टे ॥ सुखदुःखादीनामिति ॥ अत्र दुःखादिग्रहणं दृष्टान्तार्थम् ।
 द्वितीयं निराह - स्वरूपसुखेति ॥ गुणगुणिनोर्भेदे स्वरूपत्वस्यैवानुपपत्तेरभेद एवाङ्गीकार्ये आत्मन इव तदभिन्नसुखस्यापि गुणत्वायोगादसिद्धिरित्यर्थः ।
 एतेन द्वितीयानुमानेऽपि सुखत्वस्यान्तःकरणधर्मनिष्ठत्वे सिद्धसाधनता ।
 स्वरूपसुखवृत्तिधर्मत्वे तस्यागुणत्वेन गुणनिष्ठजातित्वायोगेनासिद्धिरिति दूषणं सूचितं भवति ।
 उपलक्षणमेतत् ।
 अत्र किमेकमेव सुखं नानाव्यक्त्याश्रितमित्युच्यते ।
 उतानेकम् ।
 अद्ये बाधः ।
 दृष्टान्ते साध्यवैकल्यं च ।
 न ह्येकमेव सुखं रूपं वा नानाव्यक्त्याश्रितमनुभवविरोधत्वात् (* `-विरोधात्' इति पाठेन भाव्यमिति भाति ।
) ।
 एकत्वसङ्ख्यायां व्यभिचारश्च ।
 द्वितीये हेतोयप्रयोजकता ।
 एकस्मिन्नेवात्मनि कालभेदेनानेकसुखाश्रयत्वदर्शनात् ।
 पादाद्यवच्छेदकभेदेन युगपदपि तद्दर्शनाच्च ।
 स्वरूपसुखैक्यवादिनस्तद्वृत्तिसुखत्वस्य जातित्वानङ्गीकारादसिद्धिश्च ।
 किञ्चैकस्यैव सुखस्य रूपस्य वा नानाव्यक्त्याश्रितत्वपक्षे जातिवत्पर्याप्त्या नानाव्यक्त्याश्रितत्वमुतानेकतृणाग्रप्रसारितपटवदपर्याप्त्या ।
 नोभयमपि ।
 अनुभवविरोधात् ।
 तथा च सुखस्य नानाव्यक्त्याश्रयत्वानुपपत्तौ (* `-श्रितत्व-' इति पाठेन भाव्यमिति भाति ।
) सुखत्वस्य नानाव्यक्त्याश्रिताश्रितत्वमपि दूरोत्सारितम् ।
 तदधीनसिद्धिकत्वात्तस्य ।
 एतेन स्वाश्रयद्वारकसम्बन्धेन नानाव्यक्त्याश्रितत्वं सुखत्वस्यैव साध्यत इत्यपि निरस्तम् ।
 उक्तरीत्याऽप्रयोजकत्वादित्याद्यपि द्रष्टव्यम् ।
 अत एवैवं बहुदूषणग्रस्तत्वादिदमनुमानद्वयं सिद्धान्तग्रन्थेन समाहितमिति ज्ञातव्यम् ।

अन्योन्यजीवभेदेऽनुमानमशङ्क्य निराह - चैत्रशरीरमिति ॥ मैत्रशरीरेति ॥ मैत्रशररिस्वामी मैत्रस्तद्भिन्नश्चैत्रस्तत्स्वामिकमित्यर्थः ॥ तद्विरुद्धेति ॥ मैत्रशरीरचेष्टाविरुद्धेत्यर्थः ।
 अत्र मिथो युद्ध्यत्पालितमेषकुक्कुटादिदृष्टान्तः ।
 यद्यद्विरुद्धचेष्टाकं तत्तत्स्वामिभिन्नस्वामिकमिति सामान्यव्याप्तिरभिमता ।
 व्यभिचारमुपपादयति - एकस्वामिकयोरिति ॥ अत्र क्वचित्सकलैकस्वामिकयोरिति पाठः ।
 स तु प्रामादिक इति प्राञ्चः प्राहुः ।
 उपलक्षणं चैतत् ।
 पारमार्थिकभेदविवक्षायामप्रसिद्धविशेषणता ।
 अपारमार्थिकभेदसाधने सिद्धसाधनतेति वक्ष्यमाणदूषणमपि ग्राह्यम् ॥ दृष्टान्ताभाव इति ॥ चैत्रमैत्रशब्दयोरुदाहरणमात्रार्थत्वेन विन्यासभेदेन सर्वशरीराणामपि पक्षत्वेन विवक्षितत्वाद्दृष्टान्ताभाव इत्यर्थः ।
 केचित्त्वात्मैक्यवादिनो यज्ञदत्तादिशरीरेऽपि मैत्रशरीस्वामिभिन्नस्वामिकत्वस्यासम्प्रतिपत्तेर्दृष्टान्ताभाव इति व्याचक्षते ।

जीवेश्वरभेदेऽनुमानान्तरमाशङ्कते - विमताविति ॥ विरुद्धधर्माधिकरणत्वादिति ॥ अत्र पक्षे सर्वज्ञत्वासर्वज्ञत्वादिर्विरुद्धो धर्मः ।
 दृष्टान्ते चौष्ण्यशीतत्वादिर्द्रष्टव्यः ।
 विरोधस्वरूपं तु सिद्धान्तग्रन्थे वक्ष्यते ।
 तत्र वक्तव्यमपि तद्व्याख्यानावसर एव वक्ष्यते ॥ अप्रसिद्धविशेषणत्वादिति ॥ पारमार्थिकभेदस्य मया कुत्राप्यनङ्गीकृतत्वादिति भावः ॥ सिद्धसाधनत्वादिति ॥ जीवेश्वरभेदस्य व्यावहारिकतया मयाऽङ्गीकृतत्वादिति भावः ।
 अनुमाननिराकरणमुपसंहरति - तस्मादिति ॥
(3) (मु.) ॥ आत्मत्वमिति ॥ यद्यपि न तावदित्यादिना जीवेश्वरभेदमात्रोपक्षेपः कृतः ।
 तथाऽपि पञ्चविधस्याप्यादावुपक्षेपात्सामान्येनात्मभेदसाधनं प्रसङ्गादत्र चिन्त्यते ।
 ननु कथं भेदस्य पञ्चविधत्वम् ।
 किं धर्मिभेदात्प्रतियोगिभेदाद्धर्मितावच्छेदकभेदात्प्रतियोगितावच्छेदकभेदाद्वा ।
 नाद्यौ ।
 जडजीवेश्वराणां त्रयाणामेव पर्यावृत्त्या प्रतियोगिधर्मित्वात् ।
 अवान्तरभेदग्रहे त्वानन्त्यात्पञ्चत्वायोगः ।
 अत एव नोत्तरौ ।
 जडजीवेश्वरत्वानां त्रयाणामेव पर्यावृत्त्या तथात्वात् ।
 तस्मादत्र त्रय एव भेदा वाच्याः ।
 कथञ्चिद्धर्म्यादिपाञ्चविध्येऽपि दशभेदा इत्येव वाच्यम् ।
 पञ्चप्रतियोगिकानां पञ्चानुयोगिकानां च दशत्वादिति ।
 अत्र चकास्ति प्रतियोगितावच्छेदकभेदादेवाभावभेदः ।
 अत एव घटानन्त्येऽप्यवच्छेदकैक्यान्न भूतले घटाभावानन्त्यम् ।
 प्राक्प्रध्वंसाभावयोस्तु प्रतियोग्यैक्येऽपि पूर्वोत्तरकालरूपावच्छेदकभेदाद्भेदः ।
 प्रकृते चेशत्वं जीवत्वं जडत्वं जडत्वव्याप्यधर्मो जीवत्वव्याप्यधर्मश्चेति पञ्चावच्छेदकाः ।
 यद्यपि व्याप्यधर्मा अनेके तथाऽपि तत्त्वेनैकीकरणान्न दोषः ।
 न हि जीवो जीवाज्जडाज्जडं भिन्नमित्यत्र जीवत्वजडत्वेऽवच्छेदकौ (* `-दको' मु.) धर्मिभूतजीवजडेष्वपि सत्त्वात् ।
 जडं जीवाद्भिन्नमित्यत्र तु जीवत्वादिकमेवावच्छेदकमिति धर्मिप्रतियोगिनां प्रत्येकं पञ्चकाभावेऽपि तदुभयसमुदायपञ्चकाद्भेदपञ्चकोपपत्तिरित्याहुः ।
 विभज्य दशविधत्वं त्वनुमतमेव ।
 धर्मितया प्रतियोगितया वा जीवजडोभयसम्बन्धी भेद इत्याद्येकीकरणसम्भवान्न पञ्चत्वहानिः ।
 ननु तथाऽपि रमायाः पार्थक्यादीशरमयोर्जीवरमयोर्जडरमयोश्चेत्यष्टविधत्वं स्यात् ।
 तच्च (* `न च' इति पाठेन भाव्यम् ।
) दुःखास्पृष्टत्वमीशत्वमिति तस्या अपीशकोटौ प्रवेश इति वाच्यम् ।
 तथा सतीशयोर्भेदम् इति षड्विधः स्यादिति चेन्न ।
 अस्वतन्त्रचेतनत्वं जीवत्वमिति विवक्षया तस्या अपि जीवशब्देन ग्रहणादिति ।
 इहात्मत्वं नाम चित्त्वम् ॥ नानाव्यक्तीति ॥ परस्परप्रयोगिकधर्मिसत्तासमानसत्ताकानौपाधिककेवलभेदाधिकरणनिष्ठमित्यर्थः ।
 एवमुत्तरत्रापि यथासम्भवं ज्ञेयम् ॥ जातित्वादिति ॥ ननु जातित्वं न जातिः किन्तु नित्यैकानेकानुगतत्वम् ।
 तत्रानेकानुगतत्वादित्येवालम् ।
 तावन्मात्रे च साध्यावैशिष्ट्यम् ।
 मैवम् ।
 अनेकानुगतत्वं चैकत्वेतरसङ्ख्यावद्वर्तित्वम् ।
 साध्यं तु भेदवद्वृत्तित्वमिति भेदात् ।
 स्वातन्त्र्येणानुगतधीनियामकत्वं वा जातित्वम् ॥ व्यक्तिभेदस्य बाधितत्वेनेति ॥ अत एवानुगतत्वस्य वाऽनुगतधीनियामकत्वस्य वाऽयोगादिति भावः ।
 ननु तत्त्वविदां जातेरेकमात्रवृत्तित्वेन कथं तेन नानाव्यक्तिनिष्ठत्वं साध्यते ।
 कथं च तान्प्रत्यनेकानुगतत्वासिद्ध्या परिहार इति चेत् ।
 उच्यते ।
 तैरप्याकाशत्वादेरजातित्वाय जातेर्नानाव्यक्तिनिष्ठत्वमनेकानुगतत्वं वाच्यम् ।
 परन्तु यत्पदेन यदभिव्याहृत्य नानाव्यक्तिनिष्ठत्वमुच्यते तत्पदवाच्यतावच्छेदकधर्मेण तत्तत्सदृशान्यान्यतत्तद्धर्माधिकरणान्यान्यतत्तद्व्यक्तिमध्यपतितव्यक्तिविशेषनिष्ठत्वमेव नानाव्यक्तिनिष्ठत्वम् ।
 अनेकानुगतत्वमुक्तधर्मेण स्वसदृशानेकतत्तद्धर्माधिकरणानेकतत्तद्व्यक्तिमध्यपतितव्यक्तिविशेषनिष्ठत्वम् ।
 एवञ्चात्मत्वेन धर्मेणैकात्मत्वसदृशानां तत्तदात्मत्वानां खण्डानुगत्याऽप्यभेदलाभान्न कोऽपिदोषः ।
 आत्मत्वपदेनेत्येवोक्तौ साध्यैवकल्यं स्यादिति यत्तदिति सामान्याश्रयणं कृतम् ।
 आकाशत्वस्याकशत्वेन रूपेण सदृशधर्मान्तराभावान्न तस्य नानाव्यक्तिनिष्ठत्वमिति ।

ननु किमिदं सादृश्यम् ।
 तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वमिति चेन्न ।
 अपसिद्धान्तात् ।
 नापि तद्धर्मसदृशधर्मवत्त्वम् ।
 आत्माश्रयात् ।
 नापि तद्धर्मनिरूपितधर्मवत्त्वम् ।
 गौरिव गवय इत्यादौ गोगताकारादेर्गवयगताकारादिनिरूपितत्वादिति वाच्यम् ।
 देवदत्तगतपितृत्वनिरूपिततत्पुत्रत्ववति यज्ञदत्ते देवदत्तसादृश्यापत्तेः ।
 न च पितृत्वादिभिन्नवद्धर्मनिरूपितधर्माधिकरणं यत्तत्तेन सदृशमिति वाच्यम् ।
 आदिपदेन सादृश्यनिरूपकधर्मस्यापि ग्रहणेऽसम्भवापत्तेः ।
 न च सम्बन्धिभिन्नेत्यादि वाच्यम् ।
 पितृत्वादिवत्सादृश्यस्याप्युभयनिरूप्यतया सम्बन्धविशेषत्वात् ।
 पितृत्वादिमात्रे सम्बन्धत्वस्य दुर्वचत्वाच्चेति ।
 उच्यते ।
 विशिष्टप्रतीत्यनियामकनिष्ठधर्मनिरूपितधर्माधिकरणं यत्तत्तेन सदृशम् ।
 पितृत्वादिधर्मस्य पुत्रवानित्यादिविशिष्टप्रतीतिनियामकत्वान्न तत्रातिव्याप्तिः ।
 सादृश्यस्थले तु गौरिव गवय इत्यादावाकारादेर्न विशिष्टप्रतीतिनियामकत्वम् ।
 गवयवान्गौरित्यादिप्रतित्यभावात् ।
 न च सदृशवान्गौरित्यत्रापि विशिष्टप्रतीतिरस्तीति वाच्यम् ।
 तत्र परस्परपदार्थद्वयगतस्वरूपसम्बन्धविशेषस्यैव तन्नियामकत्वेनाकारादेरनियामकत्वादिति ।
 ननु भवतां मते जातेरखण्डानुगत्यभावेन खण्डानुगतेश्च रूपादावपि सत्त्वेन लाघवात्तेनैव घटादावनुगतप्रतीत्युपपत्तौ किं जात्यङ्गीकारेण ।
 नन्वस्त्वनतिप्रसक्तयत्किञ्चिद्धर्म एव जातिपदार्थ इति वाच्यम् ।
 गुणक्रियाजातिपूर्वेत्यादिपृथग्ग्रहण विरोधादिति चेन्न ।
 न हि वयं प्रयोजनवशाज्जातिं कल्पयामः ।
 घटादौ गुणाद्यतिरिक्ता जातिः प्रत्यक्षत एव सिद्धा ।
 अयं घट इत्यत्र घटप्रतीतिविषयभूतं घटत्वं न तावद्रूपादि ।
 पटादावपि सत्त्वेन तत्रापि घटत्वप्रतीत्यापत्तेः ।
 नापि जलाधारत्वम् ।
 एतदननुसन्धानेऽपि तत्प्रतीतेः ।
 ह्रदादावपि तत्प्रतीत्यापत्तेः ।
 छिद्रघटे तदयोगापत्तेश्च ।
 नापि पृथुबुध्नोदराकारत्वम् ।
 चित्रलिखितप्रतिकृतौ पेटिकाविशेषादौ च तत्प्रतीत्यापत्तेः ।
 न च मृज्जन्यत्वे सतीति विशेषणीयम् ।
 सुवर्णघटादौ तत्पतीत्ययोगापत्तेः ।
 एतदननुसन्धानेऽपि तत्प्रतीतिदर्शनाच्च ।
 एतेषामेव घटपदप्रवृत्तिनिमित्तत्वे उक्तशब्दानां घटपदेन पर्यायत्वापत्तेश्च ।
 यद्वा न्यायमतानुसारेणैतदनुमानप्रवृत्तिरित्यदोषः ॥ आत्मेति ॥ न च प्रतिज्ञा व्याहतिरिति वाच्यम् ।
 आत्मनानात्वसन्देहदशायां तदभावात् ।
 असिद्धिं दर्शयति - आत्मन इति ॥ न च तर्हि द्रव्यत्वं नाम समवायिकारणत्वमिति वाच्यम् ।
 अविक्रियस्य निष्क्रियस्यात्मनो गुणं प्रत्येव तस्य वक्तव्यत्वात् ।
 नापि गुणादिषट्कभिन्नत्वं द्रव्यत्वमिति वाच्यम् ।
 भिन्नत्वसम्पादकस्य गुणाश्रयत्वस्याभावेन तद्वचनस्य रिक्तत्वात् ।
 न च तर्हि द्रव्यत्वमेव हेतुरस्त्विति वाच्यम् ।
 आत्मप्रतियोगिकभेदे व्यभिचारात् ।
 स्वस्यैव स्ववृत्तित्वायोगेन साध्याभावसत्त्वात् ।
 पक्षदृष्टान्तानुगतवस्तुत्वस्यानङ्गीकाराच्च ।

॥ सुखुमिति ॥ अस्यात्माश्रितत्वेन पक्षधर्मताबलादात्मनानात्वसिद्धिरिति भावः ।
 नन्वत्रैकात्मसुखपक्षीकारे बाधः ।
 अनेकात्मसुखपक्षीकारे पक्षविशेषणासिद्धिः ।
 सामान्यतः सुखपक्षीकारेऽपि बाध एव ।
 यावद्विशेषवृत्तिनः सामान्येऽप्यभावौचित्यात् ।
 अतः खण्डानुगत्या समाधानसम्भवेऽपि तुष्यत्विति जातेरखण्डानुगतिमभ्युपेत्य प्रकारान्तरेण प्रयुङ्क्ते ॥ सुखत्वमिति ॥ एवञ्चैकैकत्र विद्यमानतत्तत्सुखानुगतसुखत्वस्य नानाव्यक्त्याश्रिताश्रितत्वं सूपपादमिति भावः ॥ शब्दे शब्दत्वेति ॥ यथासङ्ख्यमुक्तहेतुद्वयस्येति शेषः ।
 तदाश्रयस्याकाशस्यैकत्वादिति भावः ॥ द्रव्यत्वादिति ॥ वर्णभागस्येति शेषः ।
 अतः शब्दत्वस्य द्रव्यनिष्ठत्वादित्यपि ग्राह्यम् ॥ अद्रव्यत्वेति ॥ ध्वनिभागस्येति शेषः ।
 द्रव्यत्वादित्येकदेशविवक्षया प्रौढवादः ॥ तदन्यत्वेनेति ॥ शब्दमात्रस्यापि तथात्वाङ्गीकार इत्यपि द्रष्टव्यम् ॥ चैत्रशरीरमिति ॥ यो यद्विरुद्धचेष्टाश्रयः स तत्स्वामिभिन्नस्वामिको यथा चैत्रघटो मैत्रघटस्वामिभिन्नस्वामिक इत्युदाहर्तव्यम् ।
 ननु शरीरवद्घटपटयोरपि तत्स्वामिभिन्नस्वामिकत्वासिद्ध्या साध्यविकलोऽयम् ।
 न च व्यावहारिकभेदोऽस्तीति वाच्यम् ।
 तथात्वे तेनैव सिद्धसाध्यतापत्तेः ।
 न चात्र व्यतिरेकदृष्टान्त एवोदाहर्तव्य इति ( उदाह्रियतामिति ) वाच्यम् ।
 दृष्टान्ताभावादित्युत्तरग्रन्थविरोधादिति चेन्न ।
 सामान्यतो भिन्नस्वामिकत्वस्यैव साध्यत्वेन साध्यवैकल्याभावात् ।
 प्रकृते च शरीरोपहितयोरेव शरीरस्वामित्वे आत्माश्रयादनुपहितभेदस्य स्वाभाविकत्वावश्यम्भावेन पक्ष एव पर्यवसाने पारमार्थिकभेदस्यैव लाभान्न सिद्धसाधनता ।
 न चान्तःकरणोपहितयोरेव शरीरस्वामिकत्वमिति शुद्धात्मभेदालाभ इति वाच्यम् ।
 तत्रापि चैत्रान्तःकरणं मैत्रान्तःकरणस्वामिभिन्नस्वामिकमिति साधनात् ।
 न चान्योपहितयोरेवान्तःकरणस्वामित्वमिति वाच्यम् ।
 तदुपाधेरपि भिन्नोपाधेयकत्वसाधनात् ।
 शरीरपक्षीकारस्तु तस्यैवाद्योपाधित्वाङ्गीकार इति ध्येयम् ।
 उपाध्यानन्त्यकल्पने चानवस्था ।
 शरीरोपलक्षितयोरेव शरीरस्वामित्वान्न शुद्धात्मभेदो नाप्यात्माश्रय इति चेन्न ।
 उपलक्षकस्य तटस्थत्वे उपलक्ष्यैतत्समार्थितयत्किञ्चिद्विशेषो वाच्यः ।
 यथा काकस्य ताटस्थ्येऽपि तत्समार्थितो तृणत्वतत्संयोगध्वंसादिविशिष्टस्यैव गृहस्योपलक्षकम् ।
 एवञ्च तादृशविशेषपक्षीकारेण भिन्नाश्रयत्वसाधने शुद्धात्मभेदसिद्धिः ।
 न च स विशेषोऽप्युपलक्षकत्वान्न शुद्धाश्रय इति वाच्यम् ।
 अनवस्थापत्तेरिति ।
 व्यभिचारं व्यनक्ति ॥ सकलेति ॥ सकला एके भिन्नाः स्वामिनो ययोस्तौ तयोर्ये घटस्वामिनस्ते सकला अपि पटस्य स्वामिन इत्येवमभिन्नस्वामिकयोरित्यर्थः ।
 अवान्तरस्वामिभेदादिनाऽपि रहितयोरिति ।
 एकस्वामिकयोरित्येवोक्ते प्रधानस्वाम्यैक्यैऽप्यवान्तरस्वामिभेदान्न व्यभिचार इत्युच्येतेति सकलेत्युक्तम् ॥ दृष्टान्ताभावादिति ॥ शरीरमात्रस्य पक्षतुल्यत्वमिति भावः ॥ अप्रसिद्धेति ॥ अस्यादूषणत्वेऽपि स्वरीत्याऽभिधानमिति ज्ञेयम् ॥ पारमार्थिकेति ॥ पारमार्थिकत्वविशेषणाघटितभेदमात्रेत्यर्थः ।

(3) (कु.) ॥ आत्मत्वमिति ॥ ननु जातित्वं नाम नित्यैकत्वे सत्यनेकसमवेतत्वम् ।
 तच्च नानाव्यक्तिनिष्ठत्वसन्देहदशायामात्मत्वे सन्दिग्धं निश्चये चानुमनवैफल्यम् ।
 नित्यैकत्वे सतीत्यस्य वैय्यर्थ्याच्चेति चेन्न ।
 जातित्वस्याखण्डोपाधित्वात् ।
 व्यक्त्यभेदादिबाधकषट्करहितधर्मत्वं वा तत् ।
 न चात्रापि व्यक्त्यभेदराहित्यमात्रस्यैव गमकत्वे विशेषवैय्यर्थ्यमिति वाच्यम् ।
 अखण्डाभावघटकतयाऽवैय्यर्थ्यात् ।
 तावन्मात्रस्यैव प्रकृते हेतुत्वाच्च ।
 न च तत्रापि सन्दिग्धासिद्धिः सिद्धसाधनता वेति वाच्यम् ।
 अस्यैवाग्रेऽभिधानात् ॥ धटवदितीति ।
 यद्यपि परो घटेऽप्यात्मप्रतियोगिकभेदाधिकरणत्वं न मन्यत इति दृष्टान्तः साध्यविकलः ।
 तथाऽपि घटो नाहमिति निर्बाधप्रत्यक्षेण घट इव तत्सिद्धिरित्याशयेनेदम् ।
 यद्वा प्रसिद्धेऽरित्यस्य दृष्टान्ते साध्यासिद्धेरित्यप्यर्थमङ्गीकृत्येदमपि दूषणमुत्तरत्र वक्ष्यमाणमेवेति बोध्यम् ॥ आत्मन इति ॥ यद्यपि निर्गुणस्यात्मनो गुणाश्रयत्वरूपद्रव्यत्ववत्तायोगेऽपि जातिरूपं तद्युज्यते ।
 तथाऽपि निर्धर्मके तद्द्रव्यत्वं न सम्भवति ।
 गुणाश्रयत्वस्य तद्व्यापकत्वात् ।
 तन्निवृत्तौ तदपि न सम्भवतीत्याशयेनेदम् ।
 एकस्य नानाव्यक्त्याश्रितत्वं बाधितम् ।
 एवं दृष्टान्ते साध्यवैकल्यमित्यस्वरसादाह - सुखत्वमिति ॥ यद्यप्यत्रैकस्यापि सुखस्य रूपस्य वा जातिपर्याप्त्या नानातृणाग्रप्रसारितपटवदपर्याप्त्या वा न नानाव्यक्त्याश्रितत्वं बाधितम् ।
 एवं रूपस्यापीति दृष्टान्ते साध्यवैकल्यमित्यस्वरसादाह - सुखत्वमिति ॥ यद्यप्यत्रापि कस्यापि सुखस्य रूपस्य वा जातिवत्पर्याप्त्या नानातृणाग्रप्रसारितं पटवदपर्याप्त्या वा न नानाव्यक्त्याश्रितत्वमिति पुनरपि बाधो दृष्टान्ते साध्यवैकल्यं च ।
 तथाऽपि स्वाश्रयद्वारकसम्बन्धेन व्यक्त्याश्रितत्वं सुखत्वे साध्यमिति न कश्चित्क्षुद्रोपद्रवः ॥ गुणनिष्ठेति ॥ तद्रूपत्वे व्यभिचारवारणाय जातित्वादिति ।
 मनस्त्वे व्यभिचारवारणाय गुणनिष्ठेति ।
 शब्द इत्याद्यानुमाने शब्दत्व इत्युत्तरानुमाने तदन्यत्वेनेति ।
 शब्दान्यत्वेनाद्यानुमाने शब्दत्वान्यत्वेन द्वितीये ।
 आद्यानुमाने सुखमन्तःकरणवृत्तिरूपं स्वरूपसुखं वा ।
 द्वितीयेऽन्तःकरणवृत्तिधर्मो वा स्वरूपसुखवृत्तिधर्मो वा पक्षत्वेन विवक्षितमिति विकल्पं मनसि निधायाद्ययोराह - सुखदुःखादीनामिति ॥ दुःखग्रहणं दृष्टान्तार्थम् ।
 दुःखपक्षकानुमानेऽपि एवमेव दूषणं बोध्यमित्याशयेन च ।
 अन्त्ययोराह - स्वरूपेति ॥ द्वितीयानुमाने स्वरूपसुखैक्यवादिनस्तद्वृत्तिधर्मस्य जातित्वाभावेनाप्यसिद्धिर्बोध्या ।
 तद्विरुद्धेत्यत्र तत्पदेन चैत्रशरीरचेष्टा गृह्यते ।
 तच्चेष्टाविरुद्धचेष्टाकत्वादिति पाठः साधुः ॥ सकलैकस्वामिकयोरिति ॥ चेष्टाशब्देन स्पन्दनमात्रं कथ्यत इत्याशयः ।
 अत एव शरीरत्वेन विशेषणेन हेतुशङ्काऽपि युज्यते ।
 अत्र सकलपदं प्रामादिकम् ।
 एकस्वामिकयोरित्यनेन साध्याभावस्य विरुद्धचेष्टादर्शनादित्यनेन हेतुसद्भावस्योपपादनात् ।
 यद्वा ययोर्घटपटयोर्मुख्यः स्वाम्येकोऽवान्तरस्वामिनौ च प्रत्येकं द्वौ तयोर्घटपटयोः साध्यमप्यस्तीति न व्यभिचारः स्यादतः सकलेति ।
 सकलो मुख्योऽवान्तरो वा एक एव स्वामी ययोरिति ॥ दृष्टान्ताभाव इति ॥ आत्मैक्यवादिनो यज्ञदत्तादिशरीरेऽपि मैत्रशरीरस्वामिभिन्नस्वामिकत्वस्यासम्प्रतिपत्तेः ।
 विशेषव्याप्तौ शरीरत्वविशेषितस्य हेतोर्दृष्टान्ताभाव इत्यर्थः ।
 एवं सामान्यव्याप्तावपि शरीरत्वविशेषितहेतोद्द्रष्टान्ताभावो बोद्धव्यः ।
 एवमविशोषितहेतोरपि व्याप्तिद्वयेऽपि दृष्टान्ताभावो बोध्यः ।
 एवञ्च शरीरत्वेन हेतुविशेषणे व्यभिचारवारणेऽपि दृष्टान्ताभावो दुरुद्धर (* `दुर्धर' मु. तथा कु1।
 कु2.पाठे एव अयं पाठः ।
) एवेति ग्रन्थार्थः ।
 नत्वविशेषणे दृष्टान्तसत्त्वं विशेषणे दृष्टान्ताभाव इति भ्रमितव्यम् ॥ विरुद्धधर्माधिकरणत्वादिति ॥ अत्र विरोधो वध्यघातुकभावश्चेन् `न जात एकोऽन्यं हन्ति नाप्यन्याधार' इति न्यायेन समानाश्रययोरपि ज्ञानेच्छयोर्वध्यघातुकभावेनानैकान्त्यम् ।
 प्रतियोग्यनुयोगिभावश्चेत्समानाश्रययोरपि ज्ञानतत्प्रागभावयोस्तत्सम्भवेनानैकान्त्यम् ।
 सहानवस्थाननियमश्चेदेकात्मवादेऽसिद्धिरिति दूषणे सत्येव दूषणान्तरमाह - पारमार्थिकेति ॥
(3) (हु.) ॥ आत्मत्वमिति ॥ आत्मेतरावृत्तित्वमात्रं पक्षतावच्छेदकं न सकलात्मवृत्तित्वमपि ।
 आत्मबहुत्वस्यासिद्धत्वेन प्रतिवादिन आश्रयासिद्धिप्रसङ्गात् ।
 उक्तपक्षतावच्छेदकानुसारेण तु सामानाधिकरण्येन साध्यसिद्धिमात्रेणात्मनानात्वसिद्ध्या (* `साध्यासिद्धि-' मु.)कृतार्थत्वेनावच्छेदकावच्छेदेन साध्यसिद्धेरनपेक्षणात् आत्मेतरावृत्तित्वरूपोक्तपक्षतावच्छेदकाक्रान्तसुखदुःखादौ हेतुसाध्ययोरभावेऽपि न भागासिद्ध्यंशेबाधौ ।
 निखिलात्मवृत्तित्वं वाऽऽत्मवृत्तिभेदप्रतियोगितावच्छेदकत्वाभाववत्त्वे सति वृत्तिमत्त्वरूपं (वा) पक्षतावच्छेदकमतो न पक्षासिद्धिः ।
 द्रव्यत्वादिकमादाय सिद्धसाधनतावारणायावच्छेदकावच्छेदेन साध्यं साधनीयम् ।
 अवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वेऽप्यंशे सिद्धतादोष इति मताश्रयणे आत्मेतरावृत्तित्वमपि पक्षतावच्छेदककोटौ निवेश्यम् ।
 नन्वेतत्पक्षे (* `न चैतत्पक्षे' मु.) सकलात्मवृत्तित्वमात्रस्य पक्षतावच्छेदकत्वपक्षे वा सकलात्मवृत्तिबहुत्वस्यापि (* सकलात्ममात्रवृत्ति-' मु.) पक्षकोटिनिविष्टत्वात्परिष्क्रियमाणजातित्वस्याप्यसम्भवात् भागासिद्धिः स्यात् ।
 स्वमते तस्य बहुत्वस्य सिद्धत्वाद्विषयतासम्बन्धावच्छिन्नात्मत्ववृत्त्यवच्छेदकताकभेदस्यात्मनि सत्त्वेन तत्सङ्ग्रहाय भेदप्रतियोगितावच्छेदकतायां समवायसम्बन्धावच्छिन्नत्वस्यावश्यकत्वेनोक्तबहुत्वस्यावारणादिति चेन्न ।
 आत्मनिष्ठसमवायसम्बन्धावच्छिन्नप्रतियोगिताकात्यन्ताभावाप्रतियोगित्वस्यैव सकलात्मवृत्तित्वपदार्थत्वेन बहुत्वस्य वारणात् ।
 स्वोत्पत्तिपूर्वक्षणे तदत्यन्ताभावस्याप्यात्मनि सत्त्वात् ध्वंसप्रागभावयोरत्यन्ताभावविरोधात् ॥ नानाव्यक्तिनिष्ठमिति ॥ स्वप्रतियोगिवृत्तित्वस्वानुयोगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टमिति वा (* `स्वप्रतियोगिवृत्तित्वस्वानुयोगिवृत्तित्वमिति वा' मु.) स्वव्यापकत्वसम्बन्धेन द्वित्वविशिष्टमिति वाऽर्थः ।
 तेन द्वित्वाश्रयवृत्तित्वस्य वा भेदवद्वृत्तित्वस्य वा साध्यत्वे घटात्मद्वित्वादिकं घटादिभेदमात्मनिष्ठं चादायात्मैक्येऽप्यात्मत्वे साध्यसम्भवेन सिद्धसाधनमर्थान्तरता वेति निरस्तम् ॥ जातित्वादिति ॥ अनवच्छिन्नसमवायसम्बन्धावच्छिन्नप्रकारताशालित्वादित्यर्थः ।
 न तु नित्यत्वे सत्यनेकसमवेतत्वादित्यर्थः ।
 अनेकवृत्तित्वस्यैवेदानीं साध्यत्वेन हेतुशरीरेऽधिकप्रवेशेऽपि साध्यावैशिष्ट्यापरिहारात् ।
 न च साध्यावैशिष्ट्यं पक्षे साध्यसन्देहदशायां हेतौ सन्दिग्धासिद्धत्वपर्यवसायि, (* `हेतोरसन्दिग्ध-' मु.) तद्दोषं च जातित्वासिद्धेरिति स्वयमेव वक्ष्यतीति नेदानीं तदनुसन्धेयमिति वाच्यम् ।
 आदावतिनिरभिप्रायकशङ्काया एवानुत्थानात् निश्चितासिद्धेरेव स्वमतमालम्ब्य उत्तरत्र (* इदं पदं मु.पाठे नास्ति ।
) वक्ष्यमाणतया सन्दिग्धासिद्धेरकथनाच्च ।
 नापि जातित्वेन व्यवहारविषयत्वं तदर्थः ।
 असदुत्तरेऽपि(-रेष्वपि) तथा तान्त्रिकाणां व्यवहारेण तत्र व्यभिचारानिस्तारात् ।
 नापि मुख्यतया तथात्वम् ।
 कोशाद्यभावेन जातिपदमत्र मुख्यं तत्रामुख्यमिति निर्णयायोगात् ।
 नापि व्यक्त्यभेदादिबाधकषट्करहितत्वे सति धर्मत्वं तदर्थः ।
 गगने व्यभिचारवारणाय धर्मत्वमितीति, गगनत्वादौ बाधकषट्कस्याप्यभावेन तत्र व्यभिचारात् ।
 नापि बाधकाभावषट्कस्य(-षट्कवत्त्वस्य) हेतुत्वमात्मैक्यवादिन एकव्यक्तित्वाभावस्यासिद्ध्या तद्धटितषट्कस्याप्यसिद्ध्यनिस्तारात् ।

अस्मदुक्तार्थेऽन्त्यविशेषेषु स्वांशे तादात्म्येनानवच्छिन्नप्रकारताशालिषु घटरूपनिष्ठतद्व्यक्तित्वादीनामखण्डतया स्वरूपसम्बन्धे(-संसर्गेण) स्वरूपतो भानपक्षे तेषु (च) व्यभिचारवारणाय प्रकारतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशः ।
 उक्तहेतुश्च घट इत्यनुभवबलाद्घट इवात्मेत्यनुभवबलादात्मत्वे(-बलादेवात्मत्वे) उक्तसाध्यसन्देहदशायामपि सिद्ध इति शङ्ककाभिमानः ।
 समवायसंसर्गेण तदनुभवापलापेनोत्तरत्रासिद्धिरिति (* `-अपलापेनैवोत्तरत-' हु.) ध्येयम् ॥ आत्मन इति ॥ आत्मनो निर्गुणत्वेनेति पाठः ।
 निर्गुणत्वमात्मनो (* `पाठे निर्गुणत्वम्-' हु.) व्यक्तिभेदस्य बाधितत्वे हेतुत्वेनोक्तम् ।
 निर्गुणे परस्परव्यावर्तकधर्मरूपगुणाभावेन परस्परभेदो न घटते ।
 अन्यथा घटः (* `घटोऽपि' हु.) स्वस्माद्भिद्येतेति भावः ।
 नानाव्यक्तिभेदस्य बाधितत्वेनेत्यत्र नानेति प्रामादिकं जातित्वानङ्गीकारात् ।
 समवेतत्वानङ्गीकारात् ।
 तद्रूपत्वादाविव तस्य समवायावच्छिन्नानवच्छिन्नप्रकारता न सिद्धेति भावः ।
 ॥ आत्मप्रतियोगिकेति ॥ व्यासज्यवृत्तिधर्मावच्छिन्नभेदस्तदाश्रये नास्तीति (* `नास्तीति' इत्यस्य स्थाने `नास्ति ।
' इति पाठेन आभ्व्यमिति भाति ।
) प्रतियोग्यवृत्तित्वं वा भेदे विशेषणं देयम् ।
 अतस्तादृशं घटत्मोभयभेदमादाय न सिद्धसाधनतेति भावः ॥ घटवदिति ॥ आत्मन्यात्मभेदसाधनवेलायां तन्मात्रे विवादो नान्यत्रातो घटवदिति दृष्टान्तसङ्गतिः ।
 अन्यथा सिद्धान्तग्रन्थस्थानामनुमानानां प्रायशो भेदघटितत्वादनुत्थितिरिति भावः ।
 गुणाश्रयत्वरूपद्रव्यत्वस्य तज्ज्ञाप्यद्रव्यत्वस्य चासिद्धिरिति भावः ।
 विकल्पपूर्वकमुभयविधद्रव्यत्वरूपहेतुदूषणपरत्वादेतत्फक्किकास्थलक्षणपदं स्वरूपज्ञापकोभयार्थ(क)त्वेनापि योज्यम् ॥ सुखमिति ॥ अत्र नानाव्यक्तित्वरूपयथाश्रुतसाध्यस्य (* `नानाव्यक्तिवृत्तित्वरूप-' मु.) पूर्वोक्तरीत्या सिद्धसाधनतावारणाय पूर्वोक्तनिष्कर्षकरणे कस्मिंश्चिदपि रूपे सुखे चाभावेन दृष्टान्तासिद्धिर्बाधश्च स्यातामिति न शङ्क्यम् ।
 जगति नीलपीतादय एकैकाः सामग्रीबलात्तत्तद्व्यक्तिषु सम्बध्यन्ते वियुज्यन्ते च, तन्न्यायः सुखादावपीति मतमाश्रित्यैतदनुमानप्रवृत्तिः (* `-प्रवृत्तेः' मु.) ।
 यद्वाऽत्र नानावृत्तित्वं नाम यत्किञ्चिद्द्वित्वव्यापकतावच्छेदकगुणत्वन्यूनवृत्तिजातिमत्त्वरूपं सुखत्वजातिमादाय सुखे साध्यमुपपादनीयम् ।
 रूपे च रूपत्वमादायेदं चात्मभेदं विना न पर्यवस्यतीत्यात्मभेदसिद्धिः ।
 गुणत्वसत्ते आदाय सिद्धसाधनतावारणाय गुणत्वन्यूनवृत्तीति ।

लाघवमनुसृत्यानुमानान्तरमाह - सुखत्वमिति ॥ स्वसमवायिसमवेतत्वसम्बन्धेन (* `स्वसमवायिसमवायित्वादिसम्बन्धेन' हु.) यत्किञ्चिद्द्वित्वव्यापकमित्यर्थः साध्यपदस्यातो न कश्चित्क्षुद्रोपद्रवः ।
 मनस्त्वे व्यभिचारवारणाय गुणनिष्ठेति ।
 जातिपदं समवेतमात्रार्थकम् ॥ तदन्यत्वेनेति ॥ आद्यानुमाने शब्दान्यत्वेन द्वितीयानुमाने शब्दत्वादन्यत्वेनेत्यर्थः ।
 यद्यप्येवमपि कत्वादिनिष्ठव्यभिचारो (* `कत्वादिजातिषु व्यभिचारः' हु.) दुर्वारस्तथाऽपि शब्दवृत्तिभिन्नत्वे तात्पर्यान्न कश्चिद्दोषः ।
 शब्दान्यगुणसमवेतत्वादिति पर्यवसितो हेतुरितरांशस्य वैय्यर्थ्यात् ।
 किमन्तःकरणरूपं सुखं पक्षः उतात्मरूपं सुखमिति (* `किमात्मसुखमिति' मु.) स्वमते (* `स्वमतेन' हु.) विकल्पंहृदि कृत्वा क्रमाद्दूषयति - सुखमिति ॥ गुणत्वेनानेनासिद्धेरिति (* अनेनेति पदं हु.पाठे नास्ति ।
) ॥ गुणत्वप्रकारकसिद्ध्यविषयत्वादित्यर्थः ।
 तथा च गुणत्वरूपहेतुस्तत्रासिद्ध इति भावः ।
 तस्यागुणत्वेनासिद्धेरिति पाठः सुगमः ।

॥ चैत्रशरीरमिति ॥ ननु चेतनस्यैव किञ्चित्स्वामित्वेन चैतन्यैक्यवादिनां चैत्रशरीरस्वामिभिन्नस्वामिघटितसाध्याप्रसिद्धिः ।
 न च व्यावहारिकभेदमादाय तत्प्रसिद्धिरिति वाच्यम् ।
 हन्त तर्हि तत एव सिद्धसाधनतापत्तिः ।
 तद्वारणाय भेदे पारमार्थिकत्वविशेषणदाने पुनरप्रसिद्धविशेषणतेति चेन्न ।
 चैत्रमैत्रपिण्डयोर्भेददर्शनेऽप्यन्तर्गतचेतनानां भेदादर्शनेन तत्र पारमार्थिकत्वाविशेषितभेदमात्रे विवादवेलायामुक्तानुमानप्रवृत्तेर्न पारमार्थिकत्वघटनाप्रयुक्तसाध्या(प्र)सिद्धिः ।
 न च तथाप्यप्रसिद्धविशेषणतोक्तेति वाच्यम् ।
 स्वभिन्नस्वामिकत्वसम्बन्धेन मैत्रशरीरस्वामिन एव साध्यत्वात्सम्बन्धकोटौ स्वत्वस्य परिचायकतया भिन्नस्वामिकत्वमात्रस्य घटादिसम्बन्धतया प्रसिद्धत्वात् ॥ तद्विरुद्धचेष्टावत्त्वादिति ॥ तच्चेष्टाविरुद्धचेष्टावत्त्वादिति तदर्थः ।
 नन्वत्र (* `ननु तत्र' - हु.) विरुद्धत्वं तदधिकरणावृत्तित्वम् ।
 चैत्रीयबाल्ययौवनकालीनयोः (* `तच्चैत्रीय-' हु.) शरीरयोः परस्परं भिन्नत्वेन परस्परविरुद्धचेष्टावत्त्वादुक्तसाध्याभावाद्व्यभिचारः ।
 परिणामवादमवलम्ब्य तयोरभेदाङ्गीकारेऽपि पूर्वापरजन्मीयशरीराण्यादाय व्यभिचारः ।
 चैत्रशरीरत्वरूप (* `-शरीरस्वरूप-' मु.) सामान्यधर्मपुरस्कारेण हेतुशरीरघटकत्वे चिदैक्यवादिनां चैत्रशरीरस्यापि मैत्रशरीरत्वेन तद्धटितहेत्वसिद्ध्यापत्तेः ।
 तदतिरिक्तं तु प्रकृतोपयोगि (* `प्रकृतानुपयोगि' इति पाठेन भाव्यमिति भाति ।
) न निर्वचनार्हम् ।
 किञ्च तद्देहावृत्तिमत्त्वमात्रं हेतुरस्तु ।
 व्यभिचारस्तु न शङ्कार्हः ।
 चेष्टात्वेन तस्या निवेशेऽपि व्यभिचारस्य वक्ष्यमाणत्वात् तस्येदानीमननुसन्धेयत्वादिति चेन्न ।
 मैत्रशरीरस्य परिदृश्यमानशरीरत्वेनैव निवेशो न तु सामान्यरूपेणातो न प्रतिवाद्यसिद्धिः (* हु.पाठे `सन्दिग्धासिद्धिः' इति विलिख्य `= =' इति चिह्नयित्वा उपरि प्रतिवाद्यसिद्धिरिति ऋजूकृतम् ।
) ।
 परिदृश्यमानशरीरचेष्टाकाल एव तदधिकरणावृत्तिचेष्टावत्त्वं हेतुस्ततो न पूर्वजन्मशरीरबाल्यशरीरयौवनावस्थापन्न (* `-अवस्थानापन्न-' मु.।
)शरीराण्यादाय व्यभिचारः ।
 अयोगिन (* `-चारो योगिन' इत्यवग्रहरहितः मु.पाठः ।
) एव मैत्रस्य हेतुशरीरनिविष्टत्वाद्योग्यवस्थापन्नतदीयैककालिकशरीरद्वयक्रियोपादानेन (* `-अवस्थानापन्नतदीयैकैकशरीरक्रियोपादानेन' - मु.पाठः ।
) न व्यभिचारः ।
 
 चेष्टात्वेनानिवेशे तद्वृत्तिधर्माधिकरणवृत्तिधर्मत्वेन (* `-अधिकरणावृत्तित्व-' मु.) निवेशेऽसिद्धिः ।
 तच्छरीर(वृत्ति)प्रमेयत्वगगनाभावाद्याश्रयत्वस्य चैत्रशरीरे सत्त्वाच्चैत्रशरीरक्रियायास्तत्र सत्त्वात् (* `सत्त्वादसिद्धिः स्यात् ।
)।
 तदवृत्तिमात्रस्य हेतुत्वे मैत्रशरीरावृत्तिरूपादिशालिषु बहुषु मैत्रवसनादिषु (* `मैत्रादिवसनादिषु' मु.) स्फुटतरव्यभिचारवतो हेतूकरणायोगेन चेष्टात्वेन तन्निवेशः ।
 तथात्वे शरीरद्वारा प्रयत्नसाध्यक्रियास्वेव तादृशचेष्टात्वं (* `-चेष्टावत्त्वं' हु.) वर्तते ।
 ताश्च शरीरातिरिक्तेषु न सन्त्येव ।
 शरीरान्तराणि तु पक्षतुल्यानीति न कुत्रापि व्यभिचार इति अनुमानप्रयोक्तुरभिप्रायः ।
 तदवृत्तिचेष्टावत्त्वमात्रनिवेशे हेतुरप्रयोजकः स्यात् ।
 एतच्छरीरक्रियाया अपि तदात्मना निष्पादयितुं शक्यत्वादित्याशङ्का स्यादतस्तत्काल एव तच्चेष्टाधिकरणावृत्तित्वरूपविरोधस्य हेतुभूतचेष्टायां निवेशः (* `निवेश्यः' मु.) ।
 विरुद्धक्रिययोरेकदैकप्रयत्नेनोत्पादायोगादात्मनि युगपज्जीवनयोनियत्नं (* `-योनित्वं' मु.) विना विशेषगुणद्वयानुत्पादे तत्क्रियानुकूलप्रयत्नाश्रयोऽन्यो जीवात्मा सिध्यति ।
 ईश्वरप्रयत्नस्य साधारण्यान्न तमादाय पर्यवस्यत्यतो न जीवभेदरूपोद्देश्यासिद्धिरित्यनुमानं कर्तुं हृदयं (* `-अनुमानकर्तुर्हृदयम्' इति पाठेन भाव्यमिति भाति ।
)।
 भवतु भवदभिमतशरीरक्रियैव (* `-अभिमता शरीर-' हु.) तथाऽपि सा केन रूपेण हेतुशरीरे निवेश्यते ।
 वैजात्येन तन्निवेशे मानाभावः ।
 क्रियात्वेन निवेशे च यत्किञ्चित्क्रियाविरुद्धक्रियावत्त्वं (* यत्किञ्चिदिति पदं हु.पाठे नास्ति ।
) यत्र तत्स्वामिभिन्नस्वामिकत्वं तत्रेति सामान्यव्याप्तिः प्रकृतेऽभिमता ।
 अथवा मैत्रशरीरवृत्तिक्रियाविरुद्धक्रियावत्त्वं यत्र तत्र तत्स्वामिभिन्नस्वामिकत्वमिति विशेषव्याप्तिः ।
 नोभयमपि सम्भवति व्यभिचारादित्याह (* `सम्भवतीत्याह' मु.) - अत्रेति ॥ व्यभिचारमुपपादयति - सकलैकेति ॥ सकलस्य एकस्वामी ययोरिति विग्रहः ।
 एकपदं मुख्यस्वामिपरम् ।
 तथा चेश्वरमात्रस्वामिकतया मतद्वयसिद्धयोरित्यर्थः पर्यवस्यति ।
 न च विशेषव्याप्तौ कथं व्यभिचारस्तत्रेति वाच्यम् ।
 परमते सर्वं प्रत्यप्येकजीवस्यैव स्वामित्वाद् भिन्नस्वामिनः कस्याप्यभावात् व्यभिचारज्ञानाभावः ।
 (* `सकलैकेति' इति प्रतीकधारणानन्तरं मुद्रितपाठे एवं दृश्यते - `सकलस्यैक इति विग्रहः ।
 एकपदं मुख्यस्वामिपरम् ।
 सकलस्यैकस्वामी ययोर्घटपटयोरीश्वरमात्रस्वामिकयोरित्यर्थः ।
 परमते च सर्वं प्रत्येकजीवस्य स्वामित्वाद्भिन्नस्य स्वामिनः कस्याप्यभावाद्व्यभिचार इति भावः ।
 एतन्न्यायेनैव मैत्रस्वामिकघटपटादौ व्यभिचारो विशेषव्याप्तावनुसन्धेयः' - इति ।
) नन्वप्रसिद्धविशेषणतावारणाय (* `न त्वप्रसिद्ध-' मु.) स्वभिन्न स्वामिकत्वसम्बन्धेन मैत्रशरीरस्वामिनः साध्यत्वाङ्गीकारान्न विशेषव्याप्तौ व्यभिचार ईश्वररूपस्वामिनमादाय साध्योपपादनसम्भवादिति चेन्न ।
 परस्यैकजीववादिनो मते ईश्वरस्यापि स्वप्नदृष्टराजादिवत्स्वरूपत एव कल्पितत्वेन तन्मतरीत्यैव विशेषव्याप्तौ व्यभिचारस्याभिमतत्वात् ।
 दृष्टान्ताभावस्तु परमतरीत्या क्रियात्वेन निवेशात् (* `निवेश्यः' मु.) सामान्यव्याप्तौ विशेषव्याप्तौ वा शरीरवृत्तिक्रियात्वेन निवेशे (* `-क्रियात्वेनानिवेशे' हु.) वा दुरुद्धर एव ।
 स्वमते च यथाकथञ्चिदीश्वररूपस्वामिनमादाय दृष्टान्तः सम्भवतीत्याशयेनैतदनुमानस्य शङ्काविषयता सम्भवति ।
 अन्यथा स्वमतेऽपि (* `स्वमते' मु.) कथमपि दृष्टान्तरहितस्य निर्दलतया शङ्काऽनर्हतैव स्यात् ।
 तर्हीश्वररूपस्वामिनमादाय सिद्धसाधनताकवलितत्वात्कथमस्य शङ्कागोचरत्वमिति वाच्यम् ।
 विरुद्धचेष्टा(द्वय)जनकासाधारणप्रयत्नयोर्युगपदेकात्मन्युत्पत्त्यसम्भवरूपात्पूर्वोक्तरीत्येतरबाधरूपपक्षधर्मताबलाज्जीवमादाय पर्यवस्यति ।
 अतो जीवमादाय नोद्देश्यासिद्धिरित्याशयाच्छरीरक्रियात्वेन (* `नोद्देश्यसिद्धि-' हु.) हेतुत्वेऽपीश्वररूपस्वामिनमादाय वा चैत्रशरीरमात्रस्य पक्षतावेलायां डित्थादिशरीरेषु साध्यं सूपपादमित्याशयेन वाऽनुमानस्य शङ्कापथारोहितत्वम् ।
 वादिना त्वीश्वरानङ्गीकाराच्छरीरान्तरेष्वप्युक्तसाध्यनिश्चये (* `-शरीरान्तरेषु उक्त-' हु.) बीजाभावाच्च दृष्टान्ताभावः स्थिर एवेत्याशयेन तस्यैव दृष्टान्ततया कथनमिति न कोऽपि दोषः ।
 न चैवमनुमानशङ्ककस्य साध्यप्रसिद्धावपि स्वरीत्या भ्रमसम्भवेन (* `श्रम-' मु.) यथाश्रुतसाध्यनिर्देशसम्भवात्तत्र (* `-निर्देशासम्भवात्' हु.) भवदुक्तसाध्यपरिष्कारोऽकिञ्चित्कर इति वाच्यम् ।
 स्फुटतरप्रतिज्ञादोषं प्रथममेव वक्तव्यं विहाय (* `-दोषमेव वक्तव्यं तद्विहाय' मु. ।
 तद्विहायेति पदं हु.पाठे नास्ति ।
 तत्रापि तच्छब्दः अनन्वित इति त्यक्तः ।
) व्यभिचारादिकथनस्यात्यन्तसन्दर्भविरुद्धत्वेन साध्यस्यास्मदुक्तपर्यवसानपर्यन्तं ग्रन्थकाराभिमतत्वात् ।
 अथवाऽनुमाने ईश्वरे (* `ईश्वरमादाय' हु.) सिद्धसाधनतावारणाय स्वामिपदेन स्वनिष्ठस्वत्वनिरूपकत्वप्रयुक्तसुखदुःखान्यतरवत्त्वरूपस्वामित्वावच्छिन्नमेव (* `-निरूपकत्वसुख-' मु. ।
 प्रयुक्तपदं नास्ति ।
 एवं `-स्वामित्वावच्छिन्नमेव' मु.) साध्ये तत्सम्बन्धे च घटकं दृष्टान्तासिद्धिस्तु (* `दृष्टान्तसिद्धिस्तु' मु.) शरीरान्तरेषु जीवान्तरं वर्तत इति स्वमतमात्रावलम्बनत्वभ्रमेण (* `-श्रमेण' मु.)।
 तथात्वे चेश्वरमात्रनियम्यघटादौ स्वमते(ऽपि) विशेषव्याप्तेर्व्यभिचारो द्रष्टव्यः ।
 अथवाऽप्रसिद्धविशेषणतावारणाय चैत्रशरीरे स्वस्वामिकत्वरूपपक्षविशेषणमुपादाय मैत्रशरीरस्वामिनिष्ठस्वामितानिरूपकत्वाभाव एव साध्यः ।
 पक्षे साध्यं च निविष्टं स्वामित्वमीश्वरव्यावृत्तमुक्तरूपं ग्राह्यम् ।
 ईश्वरस्वामिकत्वेन पर्यवसानवारणाय बाधवारणाय (* इदं पदं मु.पाठे नास्ति ।
) च पक्षे तद्विशेषणानुपादाने निःस्वामिकत्वेन पर्यवसानापत्त्याऽर्थान्तरता स्यादतस्तन्निवेशः ।
 ग्रन्थोक्तसाध्यं तूक्तरीत्या पक्षविशेषणज्ञानरूपसामान्यज्ञान (* सामान्यज्ञानेति हु.पाठे नास्ति ।
)सहकृतेतरविशेषबाधग्रहात्मकपरामर्शाधीनानुमितिविषयसाध्यपर्यवसानमादाय ।
 उक्तं चैतत्प्रत्यक्षमणौ `बहुसाध्यकानुमाने वह्निव्याप्यवद्विशेष्यकत्वावच्छिन्नवह्नित्वप्रकारकव्यापकदाहाजनकत्ववद्विशेष्यकत्वावच्छिन्नवह्नित्वप्रकारकत्वस्य बाधग्रहरूपा वह्नित्वाभाववत्पुरोवृत्तिविशेष्यकत्वावच्छिन्नवह्नित्वप्रकारकत्वाभावस्य व्यतिरेकिमुद्रयाऽनुमितिसामग्रीव्यापकत्वावच्छेदकत्वेनागृहीतेनापि वह्नित्ववद्विशेष्यकत्वावच्छिन्नवह्नित्वप्रकारकत्वेन प्रामाण्यं गृह्णाति ।
 एकविशेषबाधग्रहसहितसामान्यानुमितिसामग्र्या अपरविशेषानुमितिजननेन स यथा सिध्यति तद्वत्सामान्यवत्ताज्ञानसहितैकविशेषाभावानुमितिसामग्र्या अपि व्यापकत्वेनागृहीतोऽप्यपरविशेषः (* `व्यापकत्वेन गृहीतः-' मु.) सिध्यति ।
 विशेषान्तरसंशयानुत्पादस्योभयस्थलेऽप्यनुभवसिद्धत्वा'दिति ।
 इदं च दीधित्याद्युक्तं सर्वमनूदितं ज्ञेयम् ।
 इत्थं च चैत्रशरीरवच्छरीरान्तरेऽपि विप्रतिपत्तिसम्भवात्तेषां दृष्टान्तत्वायोगेन चेष्टापदेन किं क्रियामात्रं विवक्ष्यते ।
 तथात्वे चारण्यस्थानानां (* `चारण्यास्थानां' हु.) मैत्राद्यस्वामिकानामद्वैतमतेऽपि दृष्टान्तत्वासम्भवात् ।
 किं वा शरीरवृत्तित्वं विशेषणं निवेश्य वेति विकल्पौ हृदि निधायाद्ये सामान्यव्याप्तौ विशेषव्याप्तौ च चैत्रमैत्रादिस्वामिकघटपटादाविव व्यभिचारः स्वमतेनैकजीववादिनोक्तः सकलैकस्वामिकयोरिति ।
 तत्र हेतुगर्भविशेषणमनुमानदूषकेण दत्तमनुमानप्रयोक्तृमतेनापि सामान्यव्याप्तावीश्वरैकस्वामिकघटादौ व्यभिचारस्तन्निरूपितदुःखित्वघटितोक्तसाध्य(शरीर)निविष्टस्वामितावतोऽप्रसिद्धेः ।
 विशेषव्याप्तौ च मैत्रशरीरक्रियाविरुद्धक्रियावति मैत्रस्वामिके घट एव व्यभिचार उक्तवाक्येनोपपादितप्राय एव ।
 द्वितीयकल्पानुसरणे च शरीरवृत्तिक्रियायाः शरीरातिरिक्तेष्वभावादितरशरीराणां पक्षतुल्यत्वान्न व्यभिचारः किन्तु दृष्टान्तासिद्धिः ।
 क्रियामात्रनिवेशे च व्यभिचार एव न दृष्टान्तासिद्धिरिति न पूर्वोत्तरग्रन्थसन्दर्भविरोध इति ॥ शरीरत्वेनेति ॥ शरीरत्वे सतीति हेतुविशेषण इत्यर्थः ।
 विशेष्यांशानुपादाने मैत्रशरीर एव व्यभिचार इति भावः ।
 क्वचित्पुस्तके एकस्वामिकयोरिति पाठो दृश्यते ।
 स च सुगमः ।
 (* क्वचिदित्यादिवाक्यद्वयं हु.पाठे नास्ति ।
)
॥ विमताविति ॥ ननूभयोर्भेदसिद्धेः प्राक् कथं द्वित्वेन पक्षता ? प्रतिवादिनः पक्षाप्रसिद्ध्यापातादिति चेन्न ।
 (चैत्र)मैत्रशरीरवृत्तिद्वित्वस्य प्रत्यक्षसिद्धत्वेन (* `-सिद्धत्वे' मु.) स्वाश्रयावच्छिन्नभोगवत्त्वसम्बन्धेन पक्षतावच्छेदकत्वानुसरणात् ।
 तस्य चोभयशरीरावच्छेदेनैक एवात्मेति मतेऽपि बाधितत्वाभावात् ॥ विरुद्धेति ॥ विरुद्धत्वं च नैकाधिकरणावृत्तित्वं भेदसिद्धेः प्राक् हेतोरुभयसिद्धत्वानुपपत्तेः ।
 किन्तु परस्पराभावात्मकत्वं परस्पराभावव्याप्यत्वं वा ।
 तच्च सुखविशेषतदभावदुःखादीनां लौकिकप्रतीतिबलात्परेणाप्यङ्गीकृतम् ।
 अन्यथा (सर्व)लौकिकव्यवहारोच्छेदप्रसङ्गात् ।
 तस्य च नासिद्धिर्मतद्वयेऽपीति भावः ॥ अपारमार्थिकेति ॥ पारमार्थिकत्वविशेषणं परित्यज्य भेदत्वसामान्यरूपेण साध्यत्वे व्यावहारिकत्वघटितरूपेण साध्यत्वे चेत्यर्थः ।
 भेदसाधकसकलानुमानसाधारण्यज्ञापनायानुमानदूषणावसान एव (तद्)दूषणोक्तिरिति ध्येयम् ।
 न चैवं सति पूर्वानुमाने साध्यपरिष्कारस्यात्रानुमाने पक्षपरिष्कारस्य भवत्कृतस्य वैय्यर्थ्यमुक्तदूषणा(न)नुसन्धानेनैवापाततस्तदुक्तिसम्भवादिति वाच्यम् ।
 तथा सति पूर्वानुमाने साध्यप्रसिद्धिमात्रेणानुमाने पक्षप्रसिद्धिमात्रेण कृतार्थतयाऽनुमानप्रवृत्तेरेव वैय्यर्थ्यापत्त्योक्तरीत्या परिष्कारस्यावश्यकत्वात् ।
 तदुत्तरं त्वन्तःकरण एव दुःखादिसत्त्वान्निर्धर्मिकात्मनि हेत्वसिद्धि(रिति )दूषणस्यैकजीववादबहुजीववादोभयरीत्या स्फुटत्वात्तदनुक्त्वा बहुजीववादमतेनेदं दूषणम् ।
 चेतनभेदजडभेदसाधकसर्वानुमानसाधारणमुच्यते ।
 कथञ्चिच्चेतनभेदसाधनमात्रेण तन्मात्रविषये एकजीववादनिरासेऽपि न भवदभिमतविश्वभिन्नत्वसिद्धिरिति ज्ञापनायेति सर्वं समञ्जसम् ।

(3) (का.) यद्यप्याद्यपद्योक्तमीश्वरधर्मिकविश्वप्रतियोगिकभेदसाधकानुमानमेवादौ प्रतिक्षेप्यम् ।
 तथापि सामान्यतश्चेतनभेदसाधकानुमानस्याभासत्वे विशेषतस्तत्साधकस्य सुतरामाभासत्वमित्येतत्सूचनाय सामान्यतश्चेतनभेदसाधकानुमानानि तावद्दूषयति - आत्मत्वमिति ॥ आत्मपदप्रवृत्तिनिमित्तमित्यर्थः ।
 तेनात्मत्वस्य जातिरूपस्य पक्षत्वे पक्षाप्रसिद्धिः ।
 तद्व्यक्तित्वरूपस्य तथात्वे च बाध इति शङ्कानवकाशः ॥ नानाव्यक्तिनिष्ठमिति ॥ अनेकसमवेतमित्यर्थः ।
 स्वाश्रयप्रतियोगिकभेदवद्वृत्तीति यावत् ।
 न चैवमात्मत्वस्यात्मघटोभयसमवेतत्वसिद्ध्याऽर्थान्तरमिति वाच्यम् ।
 आत्मत्वे घटादिसमवेतत्वस्य बाधितत्वेनासिद्धेः ।
 सिद्धौ वाऽत्मत्वाश्रयनानात्वसिद्ध्योद्देश्यसिद्धेः ।
 एतच्च तार्किकरीत्या ।
 सिद्धान्ते जातेरननुगतत्वादिति ध्येयम् ।

वस्तुतो निरुक्तभेदवद्वृत्तित्वं तादृशभेदवद्वृत्तिभेदप्रतियोगितायां स्वरूपतोऽनवच्छेदकत्वम् ।
 आत्मत्वस्य च प्रतिव्यक्तिभिन्नत्वेऽप्ययमात्मा नात्मेत्यादिप्रतीत्यभावेन स्वरूपतस्तत्तदात्मवृत्तिभेदप्रतियोगितानवच्छेदकत्वान्न दोषः ।
 स्वरूपत इति विशेषणात्तत्तद्व्यक्तित्वेनात्मत्वस्यात्मान्तरवृत्तिभेदप्रतियोगितावच्छेदकत्वेऽपि न क्षतिः ।
 एवमग्रेऽप्यूह्यम् ।
 हेतूकृतं जातित्वं च न नित्यानेकसमवेतत्वम् ।
 नित्यत्ववैयर्थ्यात् ।
 साध्याविशिष्टत्वाच्च ।
 किं त्वखण्डोपाधिर्जातिपदवाच्यत्वं वेति ध्येयम् ॥ इत्यस्यासिद्धेरिति ॥ इति न्यायप्रतिपाद्यहेतोरसिद्धेरित्यर्थः ।
 व्यक्तिभेदस्य स्वाभाविकात्मभेदस्य ।
 गगनत्वादेर्जातित्ववारणाय स्वाभाविकव्यक्तिभेदस्य जातिनियामकत्वादिति भावः ।
 इदमुपलक्षणम् ।
 साध्यशरीरे पारमार्थिकत्वविशेषितभेदनिवेशे साध्याप्रसिद्धिः ।
 तदविशेषितभेदनिवेशे चापारमार्थिकभेदमादाय सिद्धसाधनमित्यपि बोध्यम् ।

॥ आत्मेति ॥ अत्र घटादिभेदसिद्ध्याऽर्थान्तरवारणायाऽत्यमप्रतियोगिकेति ॥ आत्मत्वव्याप्यरूपावच्छिन्नप्रतियोगिताकेत्यर्थः ।
 तेनात्मघटोभयभेदमादाय नार्थान्तरम् ।
 आत्मप्रतियोगिकप्रतियोग्यवृत्तिभेदः साध्य इत्यप्याहुः ।
 यद्यप्यत्र प्रमेयत्वादेरपि हेतुत्वं सम्भवति ।
 तथापि तद्धेतुकानुमानस्य दव्याद्रव्यसाधारणबहुतरभूयोदर्शनाधीनतया न सुकरत्वमित्याशयेन द्रव्यत्वस्यैव हेतुत्वमनुसृतम् ।
 द्रव्यत्वस्य जातित्वे विवादात् ।
 गुराश्रयत्वलक्षणेत्युक्तम् ।
 गुणाश्रयत्वस्याश्रयत्वापेक्षया गुरुतया हेतुत्वानङ्गीकारे तु आश्रयतया गुणस्यैव हेतुत्वं बोध्यम् ।
 गुणाश्रयत्वं लक्षणमभिव्यन्जकं यस्येत्यर्थाद्द्रव्यत्वजातेरेव हेतुत्वमित्यपि वदन्ति ॥ अनङ्गीकारादिति ॥ यद्यपि स्वभावतो निर्गुणस्याप्यारोपितगुणाश्रयत्वान्न सिद्धिः ।
 आरोपितधूमत्वस्यैवाग्निसाधकत्वाभ्युपगमात् ।
 तथापि सिद्धसाधनतावारणाय पारमार्थिकभेदस्यैव साध्यतया आरोपितगुणाश्रयत्वस्याप्रयोजकतया तदपि पारमार्थिकमेव वाच्यमित्यसिद्धिरिति भावः ।

॥ सुखं नानाव्यक्त्याश्रितमिति ॥ यद्यपि रूपादेः प्रत्येकं नानाव्यक्त्याश्रितत्वभावात् दृष्टान्ते साध्यवैकल्यम् ।
 संयोगादेर्दृष्टान्तत्वसम्भवेऽपि रूपादावनैकान्त्यम् ।
 तथापि जात्या नानाव्यक्त्याश्रितत्वस्य स्वाश्रयाश्रयनिष्ठभेदप्रतियोगितावच्छेदकवृत्तिगुणत्वव्याप्यजातिमत्त्वरूपस्य साध्यत्वान्न दोषः ।
 रूपत्वादेः स्वाश्रयनीलघटादिनिष्ठभेदप्रतियोगितावच्छेदकपीतरूपवृत्तेर्दृष्टान्ते सत्त्वात् ।
 पक्षे च सुखत्वमादाय साध्यपर्यवसाने तदाश्रयाश्रयाणामात्मनां भेदसिद्धिः ।
 गुणत्वादिजातिमादायार्थान्तरवारणाय गुणत्वव्याप्येति ।
 न च गुणत्वस्यापि गुणत्वाभाववदवृत्तितया गुणत्वव्याप्यत्वादर्थान्तरतादवस्थ्यमिति वाच्यम् ।
 गुणत्वव्याप्येत्यनेन गुणत्वन्यूनवृत्तित्वस्य गुणनिष्ठभेदप्रतियोगितावच्छेदकत्वपर्यवसितस्य विवक्षितत्वात् ।
 सुखत्वादेर्गन्धादिगुणनिष्ठभेदप्रतियोगितावच्छेदकत्वेन गुणत्वव्याप्यत्वादिति न कश्चिद्दोषः ।

एतत्पक्षे साध्यगौरवादाह - सुखत्वं वेति ॥ नानेत्यादेः स्वाश्रयाश्रयनिष्ठभेदप्रतियोगितावच्छेदकवृत्तीत्यर्थः ।
 तेन नानाव्यक्त्याश्रितं यत्संयोगादिकं तदाश्रितत्वस्य रूपत्वादावभावेऽपि न पूर्ववद्देषः ।
 जातित्वमात्रस्य मनस्त्वादौ व्यभिचारित्वाद्गुणनिष्ठेति ।
 तावन्मात्रस्य तद्रूपत्वादौ व्यभिचारित्वाज्जातीति ।
 गुणसमवेतत्वोक्तौ तु तल्लाभायैवजातिपदमित्यवधेयम् ॥ व्यभिचार इति ॥ शब्दाश्रयीभूतगगनस्यैकत्वेन शब्दे प्रथमसाध्यस्य, शब्दत्वे च द्वितीयसाध्यस्याभावादिति भावः ।
 मीमांसकमतेनाह - तस्येति ॥ शब्दस्येत्यर्थः ।
 तथाच शब्दे शब्दत्वे वा हेत्वाभावादेव न व्यभिचार इति भावः ।
 नैयायिकनयेऽप्याह - अद्रव्यत्वपक्ष इति ॥ तदन्यत्वेनेति ॥ प्रथमे शब्दान्यत्वेन द्वितीये शब्दत्वान्यत्वेन चेत्यर्थः ।
 न च द्वितीये कत्वादिजातौ व्यभिचारः ।
 तत्कल्पेतदन्यत्वपदेन तद्वदवृत्तित्वस्य विवक्षित्वात् ।
 कत्वाद्यन्तत्वेनापि हेतुर्विशेषणीय इत्यप्याहुः ।
 वस्तुतः कल्पद्वयेऽपि तदन्यत्वेनेत्यस्य शब्दान्यत्वेनेत्येवार्थः ।
 हेतुविशेषणादित्यस्य हेतुघटकगुणविशेषणत्वादित्यर्थकतया शब्दमात्रवृत्तिशब्दत्वादेः शब्दान्यगुणवृत्तित्वाभावान्नोक्तदोष इति भावः ।

अत्र वृत्तिसुखत्वं स्वरूपसुखत्वं वा पक्षतावच्छेदकम् ।
 उभयानुगतसुखत्वजातेर्द्रव्यत्वादिना सङ्करेणासम्भवादिति भावेनाद्यं दूषयति - सुखदुःखादीनामिति ॥ वृत्यात्मकेत्यादिः ।
 अत्र सुखस्यैव प्रकृतत्वेऽपि दुःखादिग्रहणं दुःखेच्छादिपक्षकानुमानान्तराणामपि निराससूचनाय ॥ अन्तःकरणाश्रितत्वादिति ॥ तेषामन्तःकरणपरिणामत्वादिति भावः ॥ सिद्धसाधनत्वादिति ॥ यद्यपि सुखदुःखादीनामात्माश्रितत्वपक्षेऽप्यनिर्वचनीयात्मभेदमादाय सिद्धसाधनत्वं सम्भवत्येव ।
 पारमार्थिकत्वेन भेदविशेषणे च साध्याप्रसिद्धेः ।
 अन्तःकरणाश्रितत्वपक्षे सिद्धसाधनानुपपत्तेश्च ।
 तद्भेदस्याप्यपारमार्थिकत्वात् ।
 तथापि वस्तुगतिमनुरूद्ध्यैवान्तःकरणाश्रितत्वमुक्तम् ।
 वस्तुतो वक्ष्यमाणरीत्या धर्मिसत्तासमसत्ताकभेदस्य साध्यशरीरघटकतायामात्माश्रितत्वपक्षे सिद्धसाधनानवकाशादन्तःकरणाश्रितत्वपक्ष एव तदुक्तिः ।
 द्वितीयपक्षं दूषयति - स्वरूपेति ॥ आत्मस्वरूपेत्यर्थः ।
 द्रव्यसमवेतस्यैव गुणत्वेन स्वरूपसुखस्यातथात्वात् स्वरूपासिद्धिरिति भावः ।
 सिद्धान्ते तु तस्य स्वरूपत्वेऽप्यात्मविशेषतया गुणत्वमस्त्येवेति ध्येयम् ।

॥ चैत्रशरीरमिति ॥ अत्र तत्स्वामित्वं न तदवच्छिन्नभोगभोक्तृत्वम् ।
 एकस्वामिकयोर्घटपटयोरित्यग्रिमग्रन्थविरोधात् ।
 घटाद्यवच्छिन्नभोगाप्रसिद्धेः ।
 किन्तु स्वस्वामिभावव्यवहारनियामकः तत्सत्तानियामकत्वादिलक्षणो धर्मविशेषः ।

यद्यपि तत्स्वामिभिन्नस्वामिकत्वं परमतेऽप्रसिद्धम् ।
 तथापि प्रसिद्धघटादिसाधारणस्य तत्स्वामिभिन्नत्वस्यैव साध्यतावच्छेदकत्वान्न दोषः ।
 साध्यता च स्वस्वामिकत्वसम्बन्धेन ।
 अतः फलतश्चैत्रमैत्रात्मनोर्भेदसिद्धिः ।
 घटादेस्तादृशसम्बन्धेन सिद्ध्ययोगात् ।

अत्र तद्विरुद्धचेष्टावत्त्वं तदवृत्तिक्रियावत्त्वं, तत्क्रियाविजातीयक्रियावत्त्वं वेति मन्वानो दूषयति - इत्यत्रेति ॥ व्यभिचारमुपपादयति - एकस्वामिकयोरिति ॥ मैत्रस्वामिकयोरित्यर्थः ।
 तथाच मैत्रशरीरविरुद्धचेष्टावति घटादौ तत्स्वामिभिन्नस्वामिकत्वाभावात्, यो यद्विरुद्धचेष्टाश्रयः स तत्स्वामिभिन्नस्वामिक इति सामान्यव्याप्तौ घटविरुद्धचेष्टावति पटादौ तत्स्वामिभिन्नस्वामिकत्वाभावादपि व्यभिचार इति भावः ।
 ननु शरीरत्वे सति तद्विरुद्धचेष्टावत्त्वमेव हेतुः ।
 अतो नोक्तव्यभिचार इत्यत आह - शरीरत्वेनेति ॥ शरीरत्वविशिष्टनिरुक्तचेष्टावत्त्वस्य हेतुत्वेऽपीत्यर्थः ।
 यद्यपि साक्षात्प्रयत्नजन्यक्रियारूपचेष्टापदार्थविवक्षयैवोक्तदोषवारणसम्भवात् तादृशक्रियाश्रयत्वरूपशरीरत्वस्य पृथगुपादानमनुचितम् ।
 न च शरीरत्वस्य जातित्वान्न गौरवमिति वाच्यम् ।
 पृथिवीत्वादिना सङ्करात् ।
 तथापि साङ्कर्यस्य जातिबाधकत्वानङ्गीकारे लाघवसम्भवाच्छरीरत्वं पृथगुपात्तम् ॥ दृष्टान्ताभाव इति ॥ तथाच व्याप्तिग्रहविरोधिव्यभिचारग्रहाभावेऽपि तत्कारणीभूतसहचारग्रहासम्भवेन व्याप्तिग्रहासम्भवान्नानुमानसम्भव इति भावः ।

विप्रतिपन्नाशेषभेदसाधकानुमानप्रकारमाशङ्कते - विमताविति ॥ भिन्नत्वाभिन्नत्वाभ्यां विप्रतिपन्नौ जीवेश्वरावित्यर्थः ।
 अत्र द्वित्वमविवक्षितम् ।
 विमतत्वमात्रस्य पक्षतावच्छेदकत्वात् ॥ भिन्नाविति ॥ मिथोभिन्नावित्यर्थः ।
 विमतत्वव्याप्यधर्मावच्छिन्नप्रतियोगिताकभेदवन्ताविति यावत् ।
 विरुद्धधर्माधिकरणत्वात् परस्परवृत्त्यभावप्रतियोगिधर्मवत्त्वात् ।
 विमतत्वसमानाधिकरणाभावप्रतियोगिधर्मवत्त्वादिति यावत् ।
 अत्र यो यद्धर्मसमानाधिकरणाभावप्रतियोगिधर्मवान् स तद्धर्मव्याप्यधर्मावच्छिन्प्रतियोगिताकभेदवानिति सामान्यव्याप्त्या दहनतुहिनोभयत्वाधिकरणदहनादिवृत्यभावप्रतियोगिशेत्यादिवत्तुहिनादेस्तदुभयत्वव्याप्यदहनत्वाद्यवच्छिन्नप्रतियोगिताकभेदवत्त्ववत् प्रकृतस्येश्वरादेरुक्तविमतत्वाधिकरणजीवादिवृत्त्यभावप्रतियोगिस्वातन्त्र्यादिमत्त्वेन तादृशविमतत्वव्याप्यजीवत्वाद्यवच्छिन्नप्रतियोगिताकभेदवत्त्वं सिद्ध्यतीत्याशयः ।
 यद्वा , अयं तद्भिन्नस्तन्निष्ठाभावप्रतियोगिधर्मवत्त्वात् ।
 स चैतद्भिन्न एतन्निष्ठाभावप्रतियोगिधर्मवत्त्वात् ।
 यो यन्निष्ठाभावप्रतियोगिधर्मवान् स तद्भिन्नो दहननिष्ठाभावप्रतियोगिशैत्याधिकरणतुहिनवदिति समूहालम्बनानुमाने तात्पर्यम् ।
 तेन जीवेश्वरोभयं पक्षीकृत्य भेदमात्रसाधने घटादिभेदमादायार्थान्तरं, परस्परभेदसाधनेऽपि तस्य प्रत्येकं जीवभेदादिरूपत्वादंशे बाधः, एवं जीवविरुद्धधर्मवत्त्वादेः प्रत्येकं भागासिद्धिः, पक्षदृष्टान्तयोः साध्यहेत्वननुगमश्चेत्यादिदोषानवकाशः ।

अत्र पारमार्थिकत्वविशेषितस्तदविशेषितो वा भेदः साध्यः ।
 आद्ये दोषमाह - पारमार्थिकेति ॥ अन्त्ये दोषमाह - अपारमार्थिकेति ॥ पारमार्थिकत्वाविशेषितेत्यर्थः ।
 न त्वपारमार्थिकत्वविशेषतितेत्यर्थः ।
 उभयाविशेषितभेदसाधनपक्षाप्रतिक्षेपेण न्यूनतापत्तेः ।
 स चापरमार्थिकत्वविशेषितो न वेत्यन्यदेतत् ।
 आत्मभेदसाधकानुमाननिराकरणमुपसंहरति - तस्मादिति ॥ उक्तरीत्या भेदसाधकानुमानमात्रस्याभासत्वादित्यर्थः ।
 भेदे जीवेश्वरभेदेऽनुमानं न प्रमाणमित्यर्थः ।
 
(3) (श.) द्वितीयनिराकरणं प्रतिजानीते ॥ नापीति ॥ जीवेश्वरभेद इति वर्तते तत्र तावदात्ममात्रभेदसाधकानुमानद्वयमनूद्य दूषयति - आत्मत्वमित्यादिना ॥ अत्रात्मत्वस्य नानव्याक्तिनिष्ठत्वमात्मनानात्वं विना न सम्भवतीत्यात्मभेदसिद्धिः ॥ असिद्धेरिति ॥ अन्यतरासिद्धेरित्यर्थः ।
 तामेवोपपादयति - आत्मैक्यवादिनामिति ॥ मत इति शेषः ।
 वादिनेति पाठे अनङ्गीकारादित्यन्वयः ॥ व्यक्तिभेदस्येति ॥ आत्माख्यव्यक्तौ भेदस्य नानात्वस्य प्रमाणबाधितत्वेनेत्यर्थः ।
 आत्मनां भेदे ह्यनेकसमवेतत्वेनात्मत्वस्य जातित्वं स्यात् ।
 भेदाभावे च व्यक्त्यभेदाख्यबाधकसद्भावादाकाशत्ववन्नात्मत्वं जातिरिति भावः ॥ निर्गुणस्येति ॥ `साक्षी चेता केवलो निर्गुणश्चे'ति श्रुतेरिति भावः ॥ गुणाश्रत्वलक्षणेति ॥ समवायिकारणत्वरूपं तु निर्विकारत्ववादिना नाङ्गीक्रियत इति भावः ।
 आत्मभेदेऽनुमानद्वयमाशङ्कते - अथेत्यादिना ॥ अनुमानद्वये व्यभिचारमाशङ्क्य निराकरोति ॥ नचेति ॥ आकाशस्यैकत्वेन शब्दस्य नानाव्यक्त्याश्रितत्वं नास्तीति तत्राद्यानुमानस्य व्यभिचारात् ।
 अत एव शब्दत्वस्य नानाव्यक्त्याश्रिताश्रितत्वाभावेन द्वितीयानुमानस्य तत्र व्यभिचार इत्यर्थः ।
 मीमासकमतमवलम्ब्याह - तस्येति ॥ नैयायिकमतमवलम्ब्याह - अद्रव्यत्वेति ॥ तदन्यत्वेनेति ॥ गुणत्वहेतौ शब्दभिन्नत्वे सतीति गुणनिष्ठजातित्वे शब्दत्वभिन्नत्वे सतीति विशेषणान्न व्यभिचार इत्यर्थः ।
 किं प्राकृतसुखस्य नानाव्यक्त्याश्रितत्वं साध्यते उत स्वरूपसुखस्य ।
 आद्ये दोषमाह - सुखदुःखादीनामिति ॥ `एतत्सर्वं मन एवे'ति श्रुतेरिति भावः ।
 सुखमात्रपक्षीकारेऽप्यत्र दुःखादिग्रहणमुक्तरीत्या दुःखादिपक्षकानुमाननिरासार्थमिति ध्येयम् ।
 द्वितीयमाशङ्क्य निराकरोति ॥ स्वरूपसुखेति ॥ स्वरूपसुखस्य गुणत्वे आत्मनस्सगुणत्वापत्त्या निर्गुणश्रुतिव्याकोपादिति भावः ॥ अन्योन्यजीवभेदेऽनुमानमाशङ्क्य दूषयति - चैत्रशरीरमिति ॥ मैत्रशरीरेति ॥ मैत्रशरीरस्वामी मैत्रः तद्भिन्नो यस्तत्स्वामिकमित्यर्थः ।
 अनेन चैत्रशरीरस्वामिनि चैत्रे मैत्रभेदः सिध्यति - तद्विरुद्धेति ॥ मैत्रशरीरचेष्टाविरुद्धचेष्टेत्यर्थः ।
 अत्र यत् यच्चेष्टाविरुद्धचेष्टाश्रयं तत् तत्स्वामिभिन्नस्वामिकं यथा पटचेष्टाविरुद्धचेष्टाश्रयो घटः पटस्वामिकुविन्दभिन्नकुलालस्वामिक इति सामान्यव्याप्तिर्द्रष्टव्या ।
 व्यभिचारमुपपादयति - एकस्वामिकयोरपीति ॥ शरीरत्वेनेति ॥ भोगायतनत्वेनेत्यर्थः ।
 दृष्टान्तासिद्धिः ।
 दृष्टान्तस्यैवासिद्धिरित्यर्थः ।
 दृष्टान्ताभावादित्यपि पाठः ।
 जीवेश्वरभेदेऽनुमानमाशङ्कते - विमताविति ॥ पक्षे सर्वज्ञत्वाल्पज्ञत्वादिरूपविरुद्धधर्मो दृष्टान्ते तूष्णत्वशीतत्वरूपौ द्रष्टव्यौ ।
 दहनो वह्निः तुहिनं हिमम् ।
 किमत्र पारमार्थिकभेदः साध्यः उत व्यावहारिकः ।
 आद्ये आह - पारमार्थिकेति ॥ साध्यत्वेनाभिमतस्य पारमार्थिकभेदरूपस्य धर्मिविशेषणस्य मन्मतेऽप्रसिद्धत्वादिति भावः ।
 द्वितीय आह - व्यावहारिकेति ॥ व्यावहारिकभेदस्य मयाऽभ्युपगमादिति भावः ।
 अनुमाननिराकरणमुपसंहरति - तस्मादिति ॥ आत्मजीवभेद इति ॥ परमात्मजीवभेदे जीवानामन्योन्यभेदे चेत्यर्थः ।

(4) `द्वा सुपर्णा' `द्वे ब्रह्मणी' इत्याद्यागमो लोकसिद्धभेदानुवादकः ।
 अनुवादश्च `नेह नानाऽस्ती'ति निषेधाय ।
 एतेन घटपटादिभेदेऽपि प्रत्यक्षं प्रमाणं निरस्तं द्रष्टव्यम् ।
 प्रत्यक्षस्य भ्रान्तित्वेनाप्रामाण्यात् ।
 अत एव तन्मूलानुमानमपि न प्रमाणम् ।
 अभेदे तु प्रत्यक्षं तावत्सुलभमेव ।
 अहमित्येकाकारेणानुभवात् (आत्मनोऽनुभवात्) ।
 अनुमानं च विमता आत्मानः परमार्थतः परमात्मनो न भिद्यन्ते आत्मत्वात् परमात्मवदिति ।

(4) (भ.) एवं भेदे प्रत्यक्षानुमाने निराकृत्यागममपि प्रमाणत्वेनाशङ्क्य निराकरोति ॥ द्वा सुपर्णेति ॥ जीवेश्वराख्यौ द्वौ सुपर्णावित्यर्थः ॥ द्वे ब्रह्मणी इति ॥ परापररूपे ईशजीवरूपे द्वे ब्रह्मणी ज्ञातव्य इत्यर्थः ॥ लोकसिद्धभेदानुवादक इति ॥ लोकव्यवहारसिद्धो यो जीवेश्वरभेदस्तस्यानुवादक एव न प्रतिपादको लोकव्यवहारस्तु अन्धपरम्पराप्राप्तो न प्रमाणमूलक इति भावः ।
 नन्वधिकविधानाद्यमावेन वृथाऽनुवादायोगात्प्रतिपादकत्वमेवास्येत्यत आह - अनुवादश्चेति ॥ यथा कथायां वाद्युक्तस्य दूषणाय प्रतिवादिनोऽनुवाद इत्यर्थः ।
 इदानीमचेतनानामपि परस्परभेदं प्रतिक्षिपति - एतेनेति ॥ नेह नानेति श्रुत्या भेदमात्रस्य निराकृतत्वेनेत्यर्थः ।
 केचित्तु जडानां परस्परभेदस्याप्रस्तुतत्वाद्धटादिभेद इत्येतद्धटपटादिभेदप्रतियोगिकेश्वरनिष्ठभेदे घटपटादिनिष्ठेश्वरप्रतियोगिकभेदे वेति व्याख्याय प्रसङ्गात्परस्परजडभेदप्रमाणनिरासोऽप्ययमिति वदन्ति ।
 तच्चिन्त्यम् ।
 जडानां परस्परभेदस्यापि प्रस्तुतत्वस्य प्राक् प्रदर्शितत्वादिति ।
 घटपटादिभेद इत्युपलक्षणम् ।
 चेतनाचेतनयोर्भेद इत्यपि द्रष्टव्यम् ॥ प्रत्यक्षस्येति ॥ घटः पटो नेति वा नाहं घट इत्यादेर्वा प्रत्यक्षस्येत्यर्थः ॥ भ्रान्तित्वादिति ॥ निर्दोषश्रुतिविरुद्धस्य प्रामाण्यायोगादिति भावः ॥ अत एवेति ॥ मूलभूतप्रत्यक्षस्यैव भ्रान्तित्वादित्यर्थः ॥ अनुमानादिरिति ॥ आदिपदेनागमग्रहः ।
 तत्रानुमानं प्रत्यक्षसिद्धधर्म्यादिकत्वात्तन्मूलम् ।
 आगमस्तु प्रत्यक्षसिद्धभेदानुवादित्वात्तन्मूल इति विवेकः ।
 न केवलं विष्णोर्विश्वभिन्नत्वमुक्तरीत्याऽप्रामाणिकं किन्त्वभेदग्राहकप्रमाणविरुद्धं चेति भावेनाभेदे प्रमाणत्रयं क्रमेणाह - अभेदे त्विति ॥ जीवात्मपरमात्माभेदे त्वित्यर्थः ।
 तावच्छब्दोऽत्रापि योज्यः ।
 जडाभेदे प्रमाणस्य वक्ष्यमाणत्वात् ॥ अहमित्येकाकारेणेति ॥ सर्वेषामात्मा ह्यहमित्येकत्वेनानुभूयते ।
 यदि परमात्माऽपि जीववत्प्रत्यक्त्वेन जीवेन सह विद्येत तर्ह्यावामित्यनुभवः स्यात् ।
 न चैवमस्ति ।
 तस्मादात्मनां परमात्मनो भेदाभावरूपाभेदसिद्धिरिति भावः ॥ अनुमानं चेति ॥ अभेद इति वर्तते ।
 व्यावहारिकभेदस्य स्वेनाप्यङ्गीकृतत्वाद्बाधादिवारणाय परमार्थत इत्युक्तम् ।

(4) (मु.) ॥ अनुवादक इति ॥ निषेध्यकोटिसमर्पक इत्यर्थः ।
 अप्राप्तनिषेधायोगाल्लोकसिद्धेत्युक्तम् ।
 भ्रान्तप्रत्यक्षादिभिः सिद्धेत्यर्थः ।
 यद्वा भेदवाक्यस्यापूर्वताराहित्यज्ञापनायैतत् ॥ एतेनेति ॥ पूर्ववद्दोषग्रासेनेति सामान्यतः परामर्शः ।
 घटादिभेद इतीश्वराज्जीवात्परस्परं चेति ज्ञेयम् ।
 यद्यपि जडे धर्मिसत्तासमानसत्ताककृतो (* `-सत्ताको' इति पाठेन भाव्यम् ।
) भेदोऽङ्गीक्रियते ।
 तथाऽपि धर्मधर्मिणोरुभयोः पारमार्थ्यनिरासे तात्पर्यमिति ज्ञेयम् ॥ भ्रान्तित्वेनेति ॥ एकत्र व्यभिचरितत्वेनाविश्वविषयत्वेनेत्यर्थः (* `-विश्वसनीयविषय-' इति पाठेन भाव्यम् ।
) ।
 प्रबलागमविरुद्धत्वेनेति वा ।
 ॥ अत एवेति ॥ मूलप्रत्यक्षस्य भ्रान्तित्वादित्यर्थः ॥ अनुमानमपीति ॥ घटः पटप्रतियोगिकभेदाधिकरणं पटावृत्तिधर्माधिकरणत्वात् व्यतिरेकेण पटवदित्यनुमानम् ।
 `भिन्ना प्रकृतिरष्टधे'त्यागमश्चेत्यर्थः ।
 ऐक्ये प्रमाणाभावादिति द्वितीयं पक्षं निराह - अभेदे त्विति ॥ एकेति ॥ सर्वेषामहमित्येवोल्लेखेन वैचित्र्यानुपलम्भादिति भावः ॥ विमता इति ॥ व्यावहारिकभेदेन वा पररीत्या वा ग्राह्यसन्देहस्यादूषणत्वात्सन्दिग्धेन वा भेदेन वा बहुवचनं पक्षदृष्टान्तादिभावश्चेति ज्ञेयम् ।
 बाधापसिद्धान्तवारणाय परमार्थत इति ।

(4) (कु.) ननु `विरोधे गुणवादः स्यादनुवादोऽधारिते ।

 भूतार्थवादस्तत्त्वानामनुवादस्त्रिधा मत' इत्युक्तेरधिकविधानार्थानुवादस्थले अर्थाबाधरूपप्रामाण्यदर्शनाच्चानुवादत्वेऽप्यर्थाबाधः किन्न स्यादित्यत आह - अनुवादश्चेति ॥ तथा च निषेधार्थानुवादेनार्थाबाध इत्याशयः ।
 एवं चेतनरूपविश्वभिन्नत्वं निरस्याचेतनभिन्नत्वं निरस्यति - एतेनेति ॥ घटपटादिभेदे घटपटादिप्रतियोगिकेश्वरनिष्ठभेदे घटपटादिनिष्ठेश्वरप्रतियोगिकभेदे वा प्रसङ्गात्परस्परप्रतियोगिकपरस्परनिष्ठभेदप्रमाणनिरासोऽप्ययम् ॥ प्रत्यक्षस्येति ॥ अहं घटो नेति घटोऽयं नेति घटः पटो नेति च प्रत्यक्षस्येत्यर्थः ॥ अत एवेति ॥ प्रत्यक्षस्याप्रमाणत्वाद्व्याप्तिग्राहकत्वेन पक्षग्राहकत्वे चैतन्मूलानुमानस्य शब्दस्वरूपादिग्राहक्त्वेन तन्मूलशब्दस्य च न मानतेत्यर्थः ।
 ननु भेदो नाम तादात्म्यनिषेधः ।
 तादात्म्यं चाभेदस्तत्र प्रमाणाभाव एव भेदे प्रमाणं भविष्यति ।
 न प्रमाणान्तरं वक्तव्यमित्यत आह - अभेदे त्विति ॥ एवञ्च न तत्र प्रमाणाभाव इति भावः ।
 एतेन विश्वभेदाक्षेपस्य तत्र प्रमाणाभावसमर्थनेन सिद्धत्वादभेदे प्रमाणानां कथनमसङ्गतमिति शङ्का परास्ता वेदितव्या ।
 ननु घटो घटोऽयमित्येकाकारेणानुभूतानामपि घटानां भेदवदहमित्येकाकारेणानुभूतानामात्मनामपि भेदः स्यात् ।
 आकारमात्रस्याहन्त्वस्य घटत्ववत्परमैक्यं स्यात् ।
 तत्र घटत्वावच्छिन्नप्रतियोगिताकभेदाभाववदिहाप्यात्मत्वावच्छिन्नप्रतियोगिताकभेदाभावेऽपि तत्तदात्मत्वेन भेदस्तु स्यादित्यरूचेराह - अनुमानमिति ॥ व्यावहारिकभेदाङ्गीकारेण बाधवारणाय परमार्थत इति ।

(4) (हु.) ॥ द्वा सुपर्णेति ॥ ननु कथमस्य भेदे प्रमाणत्वम् ।
 द्वित्वस्योक्तावपि भेदस्यानुक्तत्वात् ।
 न च द्वित्वं भेदव्याप्तमिति तदुक्त्या भेदः सिध्यतीति वाच्यम् ।
 तथात्वेऽस्यानुमानोत्थापकत्वापत्त्याऽऽगमतया प्रमाणत्वेनोपन्यासायोगात् ।
 न च तयोरन्य इत्यंशेन भेदः शाब्दविषयो भवतीति वाच्यम् ।
 तर्हि तदंशस्यैवोदाहरणीयत्वेनानुपयुक्तांशोदाहरणासङ्गतिः ।
 द्वे ब्रह्मणीत्युदाहरणस्य सर्वथाऽसङ्गतिरिति चेन्न ।
 अत्र द्वौ द्वे इति शब्दस्यैव (परस्पर)भेदविशिष्टबोधकत्वमन्यथा सुपर्णाविति ब्रह्मणीति द्विवचनेनैतत्पदयोरन्यतरवैयर्थ्यापत्तेः ।
 अन्यतरस्यानुवादकत्वाश्रयणस्यागतिकागतित्वादित्यभिप्रायेणैतदुदाहरणसङ्गतेः ।
 न च कया वृत्या द्विशब्दस्य भेदविशिष्टबोधकत्वमिति चेन्न निरूढलक्षणया शक्त्या वा ।
 शक्तिस्तु `द्विशब्दो द्वित्वसङ्खयायां भेदे चापि प्रयुज्यत' इति नानार्थरत्नमालोक्तेरिति ब्रूमः ।
 तत्कथमिति चेत् ।
 द्वैतशब्दघटकद्विशब्दस्य भेदवदर्थकतयैवानादिव्यवहारात् ।
 अन्यथा द्विशब्दस्य भावप्रधानतया द्वीतिशब्दस्य भेदविशिष्टार्थकत्वेन तदुत्तरभावार्थकाण्प्रत्ययेन भेदबोधानुपपत्तेः ।
 भावप्रत्ययस्य प्रकृत्यर्थतावचछेदकबोधकत्वनियमेन द्वित्वबोधकत्वस्यैवापत्तेः ।
 व्याख्यातश्चायंशब्दो `यत्र द्वैतमिव भवति' इति श्रुतिव्याख्यावसरे विष्णुतत्त्वविनिर्णयटीकादावुक्तरीत्या भेदपरतयैवेति न किञ्चिदत्रासमञ्जसम् ॥ नेह नानेति ॥ इह ब्रह्मणि नाना भेदविशिष्टं किमपि नास्तीति निषेधः भेदसामान्यनिषेधपर्यवसायी सन् प्रपञ्चस्य (* `यस्तत्प्रपञ्चस्य' मु.) ब्रह्मण्यध्यस्तत्वरूपं तदात्मकत्वं गमयतीति भावः ॥ एतेनेति ॥ निर्दोषागमेन समस्तभेदस्य निषिद्धत्वेनेत्यर्थः ।
 ननु कथं प्रमाणनिरासः ? प्रत्यक्षस्य, तन्मूलकविरुद्धधर्माधिकरणत्वरूपानुमानानां च सत्त्वात्प्रत्युत तद्विरोधेन (* `तत्तद्विरोधेन' मु.) श्रुतिरेव न स्वार्थपरेत्यत आह - प्रत्यक्षस्येति ॥ प्रत्यक्षरूपज्ञानस्येत्यर्थः ॥ भ्रान्तित्वेनेति ॥ भ्रान्तत्वेनेति पाठे भावे क्तः ।
 भ्रान्तत्वसम्भावनाविषयत्वेनाप्रमाणत्वात् (* `भ्रान्तत्वं सम्भावना-' मु.) प्रमाणत्वेन निश्चेतुमशक्यत्वात् ।
 तथा च शुक्तिरजतादिप्रत्यक्षस्य करणदोषादिमूलत्वेन भ्रान्तित्वस्य दृष्टत्वादन्यत्रापि दोषसम्भावनया प्रमाणत्वेन निश्चयायोगात् ।
 आगमस्यापौरुषेयत्वेन निर्दोषत्वेन निश्चितप्रामाण्यकत्वात्तेन प्रत्यक्षस्यैव बाधस्तन्मूलभूतानुमानस्य तु सुतरामेवेति भावः ।
 एतेनेत्यस्योक्तार्थकत्वानङ्गीकारे वक्ष्यमाणस्यैव तद्विवरणरूपत्वाङ्गीकारे प्रमाणसामान्यनिरासं प्रतिज्ञाय प्रत्यक्षानुमानयोरुभयोरेव निराकरणे न्यूनताप्रसङ्गा(ङ्गता)पत्तेरिति ध्येयम् ।
 घटपटभेदादौ प्रमाणनिराकरणं च प्रासङ्गिकतया वा परस्परं घटपटादीनामत्यन्तभेदे (तादृश)जगता सह कथं ब्रह्मणो भेदाभावः परस्परमत्यन्तभिन्नयोरेकवस्तुरूपत्वस्यानुभवविरुद्धत्वादिति शङ्कानिरासाय वेति बोध्यम् ।
 ननु विश्वस्माद्ब्रह्मणो भेदे कथं प्रमाणाभावः ।
 तयोरभेदे प्रमाणाभावरूपहेतुबलादेव भेदसिद्धेरित्याशङ्कामपाकर्तुमभेदे प्रमाणान्याह (* `प्रमाणमाह' मु.) ॥ अभेदे त्विति ॥ यद्वा (* इदं वाक्यं हु.पाठे नास्ति ।
) पूर्वपक्षी परपक्षे प्रमाणानि निराकृत्य स्वमते प्रमाणान्याह - अभेदे त्विति ॥ चैतन्यैक्यादावित्यर्थः ॥ अहमित्येकाकारेणेति ॥ अनुगतप्रतीतेरेकविषयकत्वं विनाऽनुपपत्तेः सर्वत्र तादृशप्रतीतौ भासमानचैतन्यैक्यं युक्तं विशेष्यांशे बाध एव ।
 घट इत्यादिप्रतीतीनामिव प्रकारैक्यमादायानुगताकारत्वं वक्तव्यम् ।
 प्रकृते च न तथा ।
 प्रत्यक्षादीनां भेदविषये निरस्तत्वादिति भावः ।
 (ब्रह्मणोऽपि) `तदात्मानमेवावेदाहं ब्रह्मास्मी'त्यादिश्रुतिभिर्यस्मात्क्षरमतीतोऽहमित्यादिस्मृतिभिश्चाहमिति प्रतीतेः सिद्धत्वात्तच्चेतनैक्यमतेऽपि प्रत्यक्षम् (एव) प्रमाणमिति भावः ॥ विमता इति ॥ व्यावहारिकभेदस्याङ्गीकृतत्वात्तदभावसाधने बाधवारणाय तत्त्वत इति पारमार्थिकत्वेनेत्यर्थः ।
 न च व्यावहरिकभेदसत्त्वेऽपि तस्य मिथ्यात्वानुरोधेन तदभावस्याप्यङ्गीकृतत्वात्कथं बाध इति वाच्यम् ।
 अव्याप्यवृत्तित्वमादायार्थान्तरतासिद्धसाधनतावारणाय भेदाभावे प्रतियोगिवैय्यधिकरण्यस्यावश्यमेव निवेशनीयतया बाधानिस्तारात् ।
 यद्वा मिथ्यात्वशरीरनिविष्टोऽभावो न प्रतियोगिनो व्यावहारिक(सत्व)ज्ञानविरोधी ।
 तस्येदानीमव्यावृत्तत्वान्न (* `-आवृतत्वान्न' मु.) तमादाय लोके विप्रतिपत्त्यादिप्रसक्तिः ।
 इत्थं च परमात्मप्रतियोगिकभेदतदभावकोटिकविप्रतिपत्तेर्लोकसिद्धभेदविरोध्यभावावलम्बनत्वात् तादृशभेदाभावस्य साध्यत्वेन तद्विरोधिव्यावहारिकभेदसत्त्वाद्बाधो भवत्येव ।
 अन्यथा वह्निरनुष्ण इत्यादीनामबाधितत्वप्राप्त्याऽभावसाध्यकबाधितहेतुमात्रोच्छेदप्रसङ्गात् ।
 अतस्तत्परास इति वक्तव्यमेव ।
 न च पारमार्थिकत्वविशिष्टभेदरूपप्रतियोग्यप्रसिद्ध्या तदभावकोटेरप्रसिद्धिरेव ।
 तार्किकादिवत्स्वमतेऽपि (* `तार्किकवत्स्वमते' मु.) प्रतियोगिसत्त्व एवाभावसत्त्वमित्यद्वैतसिद्धितट्टीकादावुक्तत्वादतः कथं तस्य विप्रतिपत्तिविषयता साध्यता चेति वाच्यम् ।
 व्यधिकरणधर्मावच्छिन्नाभावस्यैवाभ्युपगमेन पारमार्थिकत्वावच्छिन्नभेदवृत्तिप्रतियोगिताकाभावस्य विप्रतिपत्तिविषयतायाः साध्यतायाश्च सम्भवात् ।
 एतत्पक्षे (स्व)प्रतियोगितावच्छेदकावच्छिन्नस्वप्रतियोगिवृत्त्यवच्छेदकताकभेदवद्वृत्तित्वमेव प्रतियोगिवैय्यधिकरण्यं व्यधिकरणधर्मवच्छिन्नावच्छेदकताकभेदोऽभ्युपगम्यत इति ज्ञातव्यम् ।
 तदनङ्गीकारे तु वक्ष्यमाणविप्रतिपत्तिविषयतावच्छेदकाक्रान्तेषु जीवात्मसु पारमार्थिकनिरूपितत्वपरमात्मप्रतियोगिकभेदनिरूपितत्वोभयाभाववत्स्ववृत्त्यधिकरण(ता)सामान्यकत्वं तदभावकोटिका विप्रतिपत्तिः ।
 प्रथमकोटिरद्वैतिनां जीवनिष्ठाधिकरण(ता)सामान्यस्योभयाभाववत्त्वे जीवे परमात्मप्रतियोगिक(पारमार्थिक)भेदो निराकृत एव भवति ।
 घटाभावादिनिरूपितजीवनिष्ठयत्किञ्चिदधिकरणतामादाय सिद्धसाधनतावारणाय सामान्यनिवेशः ।
 पारमार्थिकनिरूपितत्वं ब्रह्मधर्मशुद्धत्वादिनिष्ठाधेयतादिष्वद्वैतमते प्रसिद्धम् ।
 अभावकोटिर्भेदवादिनां तादृशाधिकरणतासामान्यकत्वाभावस्य जीवे परमात्मप्रतियोगिकपारमार्थिकभेदाधिकरणतां विना पर्यवसानायोगात् ।
 तथा चोक्तसामान्यकत्वमेव साध्यमिति न कश्चिद्दोषः ।
 यदि चात्र स्वत्वस्याननुगतत्वात्साध्यस्याननुगम इति विभाव्यते तदा परमार्थत्वनिरूपितत्वपरमात्मप्रतियोगिकभेदनिरूपितत्वोभयस्य स्वावच्छिन्ननिरूपकताधिकरणतानधिकरणत्वसम्बन्धावच्छिन्नप्रतियोगिताकाभावः साध्यः ।
 जीवे परमात्मप्रतियोगिकपारमार्थिकभेदसत्त्वे तादृशोभयत्वावच्छिन्ननिरूपकताकाधिकरणता तदुभयनिरूपिततादृशभेदाधिकरणतानिष्ठाधिकरणता तद्वदधिकरणता जीवनिष्ठतादृशभेदाधिकरणता भवति ।
 तत्सम्बन्धेनोभयत्वसत्त्वात्तत्सम्बन्धावच्छिन्नप्रतियोगिताकतादृशोभयत्वाभावरूपसाध्यं पक्षे दुरुपपादं स्यादतस्तस्मिंस्तादृशभेदनिराससिद्धिः ।
 सम्बन्धकोटौ स्वत्वस्य परिचायकत्वान्नाननुगमः ।
 उक्तसम्बन्धो द्वैतिनां मते उक्तोभयत्वस्य व्यधिकरण एव ।
 घटनिरूपितत्वपटनिरूपितत्वोभयत्वादेर्भूतलादौ सम्बन्धतया प्रसिद्धिः ।
 न च परमात्मप्रतियोगिक(निरूपित)पारमार्थिकभेदस्य जीवे सत्त्वेऽप्युक्तसाध्योपपत्तिः ।
 भेदस्यैव परमार्थत्वेन निरूपितत्वद्वयस्य भेदाधिकरणतायामभावेन तादृशोभयत्वाभावस्य पक्षे सम्भवादिति वाच्यम् ।
 पारमार्थिकत्वावच्छिन्नभेदत्वावच्छिन्ननिरूपकताकत्वयोर्भेदात् ।
 अभेदे वा पारमार्थिकत्वावच्छेद्यत्वतादृशभेदत्वावच्छेद्यत्वैतदुभयत्वस्यैव स्वविशिष्टाधिकरणतावन्निरूपकतानिरूपिता(पका)धिकरणतासम्बन्धावच्छिन्नप्रतियोगिताकाभाव एव साध्यमित्यदोषः ।
 यद्वा जीववृत्त्यधिकरणतावच्छेदेन पारमार्थिकत्वावच्छिन्ननिरूपकताकत्वपरमात्मप्रतियोगिकभेदत्वावच्छिन्ननिरूपकताकत्वैतदुभयाभावसाधनेऽस्य तात्पर्यम् ।
 तदनुसारेण हेत्वादिकमूह्यम् ।
 एवमन्यत्रापि द्रष्टव्यम् ।

(4) (का.) अस्तु तर्हि द्वा सुपर्णेत्याद्यागम एवाऽत्मभेदे प्रमाणम् ।
 तत्र जीवेश्वराख्यपक्षिणोर्द्वे ब्रह्मणीत्यत्र परापरब्रह्मतया उक्तयोः तयोरेव भेदव्याप्तद्वित्वश्रवणात् ।
 तयोरन्यः, अनश्नन्नन्य इति साक्षादपि तयोर्भेदाभिधानात् ।
 बह्वीः प्रजाः पुरुषात् सम्प्रसूता इति जीवानामपि नानात्वावगमादित्याशङ्क्याह - द्वा सुपर्णेति ॥ द्वौ सुपर्णावित्यौकारस्याकारादेशः ।
 ननु भेदस्य मानान्तरासिद्धताया उक्तत्वात् कथमागमस्य तदनुवादकत्वमित्यतो लोकसिद्धेत्युक्तम् ।
 लोकव्यवहारसिद्धेत्यर्थः ।
 स च वक्ष्यमाणप्रमाणविरोधादप्रमाणमेवेति भावः ।
 नन्वनुबाधमात्रेण कथं भेदस्य निरासः ।
 अन्यथा दध्यादिरूपगुणविधानाय दध्ना जुहोतीत्यनूद्यमानयागादेरपि निरासप्रसङ्गादत आह - अनुवादश्चेति ॥ निषेधायेति ॥ ब्रह्मणि पारमार्थिकत्वाकारेण भेदनिषदायेत्यर्थः ।
 तथाच भेदानुवादस्य तन्निषेध एव तात्पर्यान्न तत्रागमस्य प्रामाण्यमिति भावः ।

एवमात्मभेदं निरस्य भेदमात्रस्यापारमार्थिकत्वसिद्ध्यर्थमात्मानात्मनोरनात्मनां च मिथो भेदं दूषयति - एतेनेति ॥ भेदमात्रस्य नेह नानास्तीति निषिद्धत्वेनेत्यर्थः ॥ घटपटादिभेद इति ॥ घटपटादिभिरात्मनस्तेषां च मिथो भेद इत्यर्थः ।
 तर्हि घटपटौ भिन्नवित्यादिप्रत्यक्षस्य का गतिरत आह - प्रत्यक्षस्येति ॥ सम्भावितदोषस्य प्रत्यक्षस्य निर्दुष्टागमविरोधे सत्यप्रामाण्यस्यैव युक्त्वादिति भावः ॥ अत एव ॥ भेदग्राहिप्रत्यक्षस्य भ्रान्तित्वादेव ॥ तन्मूलकेति ॥ तादृशप्रत्यक्षसंवादसापेक्षेत्यर्थः ॥ अनुमानादिरित्यादिना पौरूषेयागमपरिग्रहः ।
 केवलस्यानुमानादेः शङ्किताप्रामाण्यकत्वेनासाधकत्वात्, प्रत्यक्षादिप्रमाणसम्वादेनैव प्रामाण्यं वाच्यम् ।
 तस्य च प्रत्यक्षादेरप्रामाण्ये तत्समानविषयानुमानादिप्रामाण्यस्य दुर्लभत्वादिति भावः ।

व्याप्तिग्राहकसहचारप्रत्यक्षस्य भ्रमत्वान्न तन्मूलकानुमानादिः प्रमाणमित्यपि व्याचक्षते ।
 तत्र यद्यति वह्निवारिणोः सहचारभ्रमेऽपि पर्वतादौ वारिलिङ्गकवह्न्यनुमानस्य प्रामाण्यमस्ति ।
 तथापि व्याप्तिपक्षधर्मताविरहे प्रामाण्यं दुरवधारणमित्याशयः ।

एवमभेदे बाधकप्रमाणं नियस्य दार्ढ्याय त्रिविधमपि साधकप्रमाणं दर्शयति - अभेद त्विति ॥ यत्त्वभेदे प्रमाणाभाव एव भेदे प्रमाणं भविष्यतीत्यत आह - अभेदे त्वितीति ॥ तच्चिन्त्यम् ।
 तुल्यन्यायेन भेदे प्रमाणाभाव एवाभेदे प्रमाणमिति वक्तुं शक्यत्वात् ।
 अभेदे प्रमाणाभावस्यानुमानविधयैव भेदसाधकतया तन्निरासावसर एव निरसनीयत्वाच्च ।
 नन्वात्मान्तरप्रतियोगिकभेदस्य प्रतियोग्यप्रत्यक्षेणाप्रत्यक्षत्वस्योक्तत्वात् कथं तदभावरूपाभेदस्य प्रत्यक्षत्वमित्यत आह - एकाकारेणेति ॥ एकवस्तुतादात्म्येनेत्यर्थः ।
 अयं भावः ।
 भेदाभावो हि प्रतियोगितादात्म्यम् ।
 तथाचाहमित्येकाकारानुभवानामेकवस्तुविषयकत्वे लाघवेनैकचित्तादात्म्यावगाहिनोऽहमिति प्रत्यक्षस्य कथमभेदे प्रामाण्यसम्भव इति ।

॥ विमता आत्मान इति ॥ बहुवचनमवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वसूचनाय ।
 अन्यथा सर्वात्मनामैक्यासिद्धेः ।
 जीवपरमात्मनोर्व्यावहारिकभेदाभ्युपगमात् सामान्यतो भेदनिषेधे बाधः स्यादतः ॥ परमार्थत इति ॥ न चैवं पारमार्थिकभेदाप्रसिद्ध्या साध्याप्रसिद्धिरिति वाच्यम् ।
 पारमार्थिकत्वेन भेदाभावस्य साध्यत्वात् ।
 तन्मते व्यधिकरणधर्मावच्छिन्नाभावसत्त्वेन साध्यप्रसिद्धेः ।
 एतेन पारमार्थिकत्वमभेदविशेषणमित्यपास्तम् ।
 उक्तबादानिस्तारात् ।
 न च प्रतिभासिकाभेदसिद्ध्याऽर्थान्तरमिति वाच्यम् ।
 पारमार्थिकाभेदस्यैव साध्यत्वात् ।
 परमार्थतो न भिद्यन्त इत्यनेन पारमार्थिकतादात्म्यस्यैव साध्यत्वं विवक्षितमिति तु न सत् ।
 व्यवहारतोऽपि न भिद्यन्त इति वक्ष्यमाणाभाससाम्याननुगुणत्वात् ।
 तत्र व्यावहारिकस्य परमात्मतादात्म्यस्य दृष्टान्ते परमात्मन्यसत्त्वेन साध्यत्वासम्भवात् ।
 सामान्यतः पारमार्थिकभेदाभावस्य सिद्धान्तिनं प्रत्यसिद्धिरतः परमात्मप्रतियोगिकत्वं भेदविशेषणम् ।

(4) (श.) तृतीयं पक्षं निराकरोति ॥ द्वा सुपर्णेति ॥
`सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल'
छन्दसि विषये सुपां स्थाने सुश्च लुक्च पूर्वसवर्णश्च आ च आत् च शे च या च डा च ड्या च याज्च आल्च इत्येते आदेशाः स्युरिति सूत्रार्थः ।
 उदाहरणन्तु ।
 `ऋजवः सन्तु पन्था' इत्यादि ।
 अत्र द्वावित्यौकारस्याकारादेशे द्वा इत्यादिभवति ।
 ततश्चायमर्थः ।
 सयुजौ संयुक्तौ ।
 सखायौ मित्रे ।
 द्वौसुपर्णौ वृक्षाश्रितत्वेन पक्षिरूपौ जीवेशौ ।
 समानम् एकम् ।
 वृक्षं देहाख्यमश्वत्थम् ।
 परिषस्वजाते आलिलिङ्गगतुः ।
 तयोः सुपर्णयोर्मध्ये ।
 अन्यो जीवः ।
 पिप्पलरूपं देहजनितकर्मफलम् अस्वाद्वेव स्वादुत्वेनात्ति ।
 अन्य ईश्वरः ।
 तदनश्नन् ।
 अभि अभितः ।
 चाकशीति प्रकाशते ।
 नतु स्वस्थित्यै तदपेक्षत इति ।
 `द्वे ब्रह्मणी वेदितव्ये' इत्यस्य परापरब्रह्मशब्दावाच्ये ज्ञातव्ये इत्यर्थः ।
 भेदानुवादको नतु भेदप्रतिपादकः ।
 येनास्यागमस्य भेदेप्रामाण्यं स्यादिति भावः ।
 ननु सिद्धस्यानुवादः सम्भवति ।
 अत आगमस्यानुवादकत्वसिद्धये भेदस्य यत्प्रमाणसिद्धत्वमङ्गीक्रियतेतदेवास्माकं भेदसाधकप्रमाणमित्यत आह - लोकसिद्धेति ॥ लोकव्यवहारसिद्धेत्यर्थः ।
 लोकव्यवहारस्तु न प्रमाणमिति भावः ।
 नन्वधिकविधानार्थमनुवादः क्रियते यथा दध्नाजहोतीत्यत्राग्निहोत्रं जुहुयादित्यनेन प्राप्तयागं जुहोतीत्यनूद्य दध्नेति दधिलक्षणगुणो विधीयते ।
 यज्जुहोति तद्दध्नेति नचात्राधिकविधानमस्ति येनागमस्य भेदानुवादकत्वं युज्यत इत्यत आह - अनुवादश्चेति ॥ चशब्दस्तुशब्दार्थः निषेधार्थमपि क्वचिदनुवादः क्रियते यथा नास्तीति निषेधाय इह भूतले घट इत्यनुवादः ।
 तथाचेहापि नेहनानेत्यनेनेह जगति ब्रह्मणि वा किञ्चन किञ्चित्पदार्थप्रतियोगिकोऽपि नाना भेदो नास्तीत्येवं निषेधाय द्वासुपर्णेत्यागमेन लोकसिद्धभेदानुवादः क्रियत इत्यर्थः ।
 एवमात्मभेदे प्रमाणं निराकृत्यानात्मभेदे तन्निराकरोति ॥ एतेनेति ॥ नेहनानेति वाक्यस्य भेदनिषेधकत्वकथनेनेत्यर्थः ।
 कथमित्यत आह - प्रत्यक्षस्येति ॥ यत्प्राप्तं प्रमाणेन बाध्यते तज्ज्ञानं भ्रान्तिः ।
 यथेदं रजतमित्यनेन प्राप्तरजतस्य रजतमित्याप्तवाक्येन (* `नेदं रजत-' इति पाठेन भाव्यमिति भाति ।
) बाधितत्वात्तस्य भ्रान्तित्वम् ।
 प्रकृते च घटः पटो नेत्यनेन प्राप्तस्य घटपटादिभेदस्य नेह नानेत्यनेन बाधितत्वात्तस्य भ्रान्तित्वं दुर्वारमिति भावः ।
 भ्रान्तत्वेनेति पाठे भावे क्तः ।
 भ्रान्तित्वेनेत्यर्थः ॥ अत एवेति ॥ उपजीव्यप्रत्यक्षस्याप्रामाण्यादेवेत्यर्थः ।
 न केवलमप्रामाणिकत्वेन भेदाभावः किन्तु प्रामाणिकतयाऽभेद एवाभ्युपगम्यत इत्याशयेनाभेदे प्रमाणत्रयमाह - अभेदे त्विति ॥ एकाकारेण एकत्वेन ।
 भेदे आवां वयमिति वाप्रत्ययः स्यादिति भावः ।
 परमात्मनः सकाशात्व्यावहारिकभेदस्य स्वेनाङ्गीकृतत्वेन परमार्थत इत्युक्तम् ।

(5) ननु किमत्र पक्षतावच्छेदकम् ।
 न तावदात्मत्वम् ।
 परमात्मनोऽपि पक्षत्वापत्त्या अंशे सिद्धसाधनात् ।
 नापि परमात्मेतरत्वविशिष्टम् ।
 साध्येन साकं पक्षतावच्छेदकस्य विरोधात् ।
 नापि भ्रान्त्या परमात्मेतरतया प्रतीयमानत्वविशिष्टम् ।
 परमात्मन्यपि तदितरत्वभ्रान्तिसम्भवेनाद्यपक्षोक्तदोषानिस्तरादिति चेन्न ।
 परमात्मनो भिद्यन्ते न वेति विप्रतिपत्तिगोचरत्वस्यैव पक्षतावच्छेदकत्वात् ।
 अन्यथा तवापि परमात्मनो भिद्यन्त इति भेदसाधनस्यासम्भवात् ।
 आत्मत्वं च न जातिः ।
 किन्तर्हि स्वप्रकाशत्वम् ।
 तेन हेतुसाध्ययोर्न विरोधः ।

(5) (भ.) नन्वत्रात्मान इत्यनेनैव धर्मिविशेषसिद्धौ विमतपदग्रहणं व्यर्थमित्यतस्तत्कृत्यं वक्तुमाक्षिपति - नन्विति ॥ अंशे सिद्धसाधनादिति ॥ पक्षैकदेशे परमात्मनि परमात्मप्रतियोगिकपारमार्थिकभेदाभावस्य सिद्धत्वादिति भावः ॥ परमात्मेतरत्वविशिष्टमिति ॥ आत्मत्वमिति वर्तते ।
 तथा च परमात्मनि परमात्मेतरत्वस्याभावेन पक्षत्वानापत्त्या नोक्तदोष इति भावः ॥ साध्यपक्षतावच्छेदकयोरिति ॥ साध्यं परमात्माभिन्नत्वं पक्षतावच्छेदकं च तद्भिन्नात्मत्वं तद्विरोधादित्यर्थः ॥ भ्रान्त्येति ॥ परमात्मेतरत्वप्रकारकभ्रान्तिरूपप्रतीतिविषयत्वमित्यर्थः ।
 तथा च साध्यस्य पारमार्थिकत्वात्परमात्मेतरत्वस्य भ्रान्तिकल्पितत्वान्न विरोध इति भावः ॥ आद्यपक्षोक्तदोषेति ॥ अंशे सिद्धसाधनतारूपदोषेत्यर्थः ।
 यदर्थमित्थमाक्षेपस्तदिदानीं वक्ति ॥ परमात्मन इति ॥ नान्यत्पक्षतावच्छेदकमत्र गवेषणीयमित्येवशब्दः ।
 इदं च परमात्मन्यस्तीति नांशे सिद्धसाधनत्वं नापि विरोध इति भावः ।
 गौरवान्नेदं पक्षतावच्छेदकं युक्तमित्यत आह - अन्यथेति ॥ आत्मत्वस्य पक्षतावच्छेदकत्वेंऽशे परमात्मनि बाधात् ।
 तदतिरिक्तत्वेन विशेषणे तस्य सिद्धौ सिद्धसाधनात् ।
 असिद्धौ पक्षाप्रसिद्धेरित्यर्थः ।
 केचित्तु नात्मत्वमंशे बाधात् ।
 नापि परमात्मेरत्वविशिष्टम् ।
 तस्याधुनाऽप्यसिद्धेः ।
 नापि परमात्मेतरतया भ्रान्त्या प्रतीयमानत्वम् ।
 परमात्मनि पूर्ववदंशे बाधादिति भावमाहुः ।
 तच्चिन्त्यम् ।
 परमात्मेतरतया भ्रान्त्या प्रतीयमानत्वस्य पक्षतावच्छेदकत्वे परमात्माभिन्नत्वप्रतीतेरेव प्रमात्वापत्त्या साध्यपक्षतावच्छेदकयोर्विरोधस्यैवापत्तेरिति ।
 अत्र हेतूकृतस्यात्मत्वस्य जातित्वे आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वादिति प्राक् शङ्कितानुमानेऽसिद्धिकथनायोगात्प्रकारान्तरेणात्मत्वं निर्वक्तुमाह - आत्मत्वं चेति ॥ स्वप्रकाशत्वमिति ॥ अवेद्यत्वे सत्यपरोक्षव्यवहारगोचत्वरूपमित्यर्थः ।
 आत्मत्वस्य जातिरूपत्वाङ्गीकारे किं बाधकं येन स्वप्रकाशत्वं तदित्युच्यत इत्यत आह - तेनेति ॥ यद्यात्मत्वं जातिः स्यात् तर्हि जातेरनेकानुगतत्वे वाच्येऽनेकात्मव्यक्तीनामङ्गीकार्यतापत्याऽनेकत्वस्य भेदव्याप्तत्वेन हेतुसाध्ययोर्विरोधः स्यात् ।
 अतो जातिरूपं नेदमात्मत्वमिति भावः ।
 हेतुसाध्ययोर्न विरोध इत्युपलक्षणम् ।
 प्राक् शङ्कितानुमाने जातित्वस्यासिद्धिकथनविरोधोऽपि नेत्यपि ग्राह्यम् ।

(5) (मु.) विमतग्रहणसाफल्यं वक्तुमाह - नन्विति ॥ अंशे सिद्धसाधनादिति ॥ अत्र केचित् परमात्मनः परमात्मत्वेन रूपेण परमात्माभेदसिद्धावप्यात्मत्वेनासिद्धत्वान्नायं दोषः ।
 पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरेव दोषत्वात् ।
 अन्यथा यत्र हेतुस्तत्र साध्यमिति व्याप्तिग्रहणदशायामेव पक्षीयसाध्यस्यापि सिद्धेरनुमानमात्रोच्छेदप्रसङ्गात् ।
 अतः पक्षतावच्छेदकनानात्वस्थल एव स दोष इत्याहुः ।
 तन्न ।
 पक्षतावच्छेदकवत्तद्व्याप्यव्यापकान्यतरधर्मपुरस्कारेण सिद्धिरपि दूषणमेव ।
 वैय्यर्थ्यरूपदूषकताबीजसत्त्वात् ।
 तत्र व्याप्यधर्मपुरस्कारेण चेदंशे सिद्धसाधनता ।
 पर्वतत्वादिकं प्रति न धूमवत्त्वादिकं व्याप्यं व्यापकं वेति नातिप्रसङ्गः ।
 पृथिवी इतरेभ्यो भिद्यत इत्यादौ तु घटादिषु घटत्वादिविशेषेण जलादिभेदसिद्धावपि धटत्वादेः पृथिवीत्वेन सह व्याप्यव्यापकभावाज्ञानदशायां पृथिवी जलादिभिन्ना न वेति विप्रतिपत्तिसत्त्वात्पृथिवीत्वेन पक्षीकारः सङ्गच्छते ।
 तज्ज्ञाने तु घटादीतरस्थल एव विमतिरिति सामान्यतः पक्षीकारे दोष एव ।
 इह च नात्मत्वविशेषेण विमतिः किन्तु जीवाः ॥ परमात्मनो भिद्यन्ते न वेति ।
 एवेति ।
 परमात्मनोऽपि प्रवेशे दोष एवेति विरोधादिति ।
 (* `किन्तु जीवाः परमात्मनो भिद्यन्ते न वेत्येवेति परमात्मनोऽपि प्रवेशे दोष एवेति ॥ विरोधादिति ॥' इति पाठेन भाव्यम् ।
) तदितरत्वेन विशिष्य तदभेदसाधने विरोधादिति ज्ञेयम् ॥ आद्यपक्षोक्तदोष एवेति ॥ सिद्धसाध्यतेत्यर्थः ॥ विप्रतिपत्तीति ।
 अत एवादौ विमतपदप्रयोग इति ज्ञेयम् ।
 ननु विमतिविषयतावच्छेदकं किमप्यस्ति न वा ।
 आद्ये तदेव पक्षतावच्छेदकमस्तु ।
 द्वितीये तदीयतानवगमेन सिद्धसाध्यताद्यापातात् ।
 न चाननुगतावच्छेदिका तृणारणिमणिन्यानेनाननुगतधर्म्याश्रया विमतिः सा सुग्रहेति वाच्यम् ।
 तर्हि पक्षतावच्छेदकस्य वैय्यर्थ्यात् ।
 मैवम् ।
 पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे तदनुक्तावुद्देश्यासिद्धिप्रसङ्गेन तस्यावश्यं वाच्यत्वाद्विमत्यवच्छेदकानुक्तावपि परमात्मादेर्विमतिविषयत्वव्याहत्यादिप्राप्त्या तदितरत्रैव सा सुग्रहेति नातिप्रसङ्गः ।
 ननु तथाऽपि न विमतिः पक्षतावच्छेदिका ।
 तस्या एव पक्षतात्वात् ।
 यथाऽऽहुः ।
 `सन्दिग्धसाध्यवान्पक्ष' इति ।
 सन्दिग्धपदस्य विमतार्थतावश्यम्भावादिति ।
 मैवम् ।
 साध्यवत्तया सिषाधयिषितत्वस्येह पक्षत्वात् ।
 आत्मत्वमिति हेतूकृतमिति शेषः ॥ न विरोध इति ॥ जातित्वेऽनेकानुगतत्वनियमेन तदभेदरूपसाध्यविपरीतव्याप्तत्वरूपविरोधो नेत्यर्थः ।
 यद्यप्यत्रात्मत्वस्य न विशेषरूपेण साध्यात्यन्ताभावव्याप्तिरवसितेति कथं विरोध इति भवति शङ्का ।
 तथाऽपि साधनतावच्छेदकधर्मपुरस्कारेण साधानसाध्यात्यन्ताभावव्याप्तेरपि विरोधपदार्थत्वेन यत्र जातिस्तत्र व्यक्त्यभेदाभाव इति सामान्यतो विरोधः स्यादिति भावः ।

(5) (कु.) विमतिविशेषास्फोरणे विमता इत्यव्यावर्तकमिति मन्वानः शङ्कते - ननु किमत्रेति ॥ अंशे विद्धसाधनादिति ॥ यद्यपि पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वे परमात्मनि परमात्मप्रतियोगिकभेदाभावसिद्धावप्यात्मत्वावच्छेदेन तदसिद्धेर्नांशे सिद्धसाधनता ।
 पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे तु सम्पूर्णैवेति नोभयथाऽप्यंशे सिद्धसाधनता ।
 पक्षतावच्छेदकनानात्वे तु तदवकाशो न तु पक्षतावच्छेदकाभेद इति नेदं युज्यते ।
 तथाऽपि यत्र पक्षतावच्छेदकव्यापकत्वं साध्यतावच्छेदकसम्बन्दश्च साध्यांशे संसर्गमर्यादया भासते सा पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिः ।
 यत्र च पक्षतावच्छेदकवति साध्यतावच्छेदकसम्बन्धेन साध्यं भासते पक्षतावच्छेदकवति सर्वत्र नोद्देश्यं सा पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिः ।
 एतदुभयभिन्ना या पक्षतावच्छेदकरूपेण सकलपक्षविशेष्यका साध्यतावच्छेदकसम्बन्धेन साध्यप्रकारिका सिद्धिर्यत्रोद्देश्या तत्रैकस्मिन्पक्षे साध्यसिद्धावप्यंशतः सिद्धसाधनता भवतीति प्राचीनाशयात् ।
 एतादृशस्थलेऽप्यंशतः सिद्धसाधनता युज्यत एवेति भावः ॥ साध्येन साकं पक्षतावच्छेदकस्य विरोधादिति ॥ अभेदरूपसाध्यस्य भेदगर्भपक्षतावच्छेदकविरोधादित्यर्थः ।
 साध्यो यः परमात्माभेदो यत्परमात्मेतरत्वं पक्षतावच्छेदकमनयोर्विरोधादित्यर्थः ।
 क्वचित्तु साध्यभेदेन साकं पक्षतावच्छेदकस्य विरोधादिति पाठः ।
 षण्णिग्रहादिपक्षे (* षट् निग्रहेति पदच्छेदः ।
) तु प्रतिज्ञाविरोधोऽयं विरोधान्तर्भूतः ।
 परपक्षे तु बाध एवायम् ।
 वचनदोषस्तु व्याघातः ।
 विमता इति पदोक्तं विमतिं स्फोटयति (* `स्फुटयति' इति `स्फोरयति' इति वा पाठेन भाव्यमिति भाति ।
) ॥ परमात्मनो भिद्यन्ते न वेति ॥ अन्यथेति ॥ आत्मत्वस्य पक्षतावच्छेदकत्वेंऽशे बाधात् ।
 परमात्मेतरत्वविशिष्टस्य तत्त्वे विशेषणसिद्धौ सिद्धसाधनता ।
 तदसिद्धौ पक्षाप्रसिद्धिरित्यर्थः ।
 ननु हेतूकृतमात्मत्वं यदि जातिस्तदा तेनानेकाश्रयेण भवितव्यम् ।
 तेन चाश्रयैक्यसाधने विरोध इत्यत आह - आत्मत्वं चेति ॥ स्वयंप्रकाशत्वमवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वादिरूपमित्यर्थः (* `-व्यवहाराविषयकत्वादिरूप-' मु.) ।

(5) (हु.) ॥ अंशे सिद्धसाधनादिति ॥ अवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वेऽपि अंशे सिद्धसाधनता दोष एव ।
 पक्षसाध्याद्यंशेऽधिकावगाहिन्याऽनुमितेर्न्यूनावगाहिसिद्ध्यप्रतिबद्धत्वं (* `-गाहिन्या अनु-' इति पाठेन भाव्यम् ।
) न तु यत्किञ्चिदधिकपदार्थावगाहित्वमात्रे ।
 तथात्वे सिद्ध्यात्मकधूमपरामर्शबलाद्घटपरामर्शकाले घटवह्न्युभयानुमानापत्तेः ।
 तथा च पक्षतावच्छेदकावच्छेदेनानुमितौ पक्षतावच्छेदकाश्रयनिखिलव्यक्तयो भासन्ते न तु (साध्यांशे) पक्षतावच्छेदकव्यापकत्वादिकं भासते ।
 सामानाधिकरण्येनानुमितौ (तु) कतिपयव्यक्तय एव भासन्ते ।
 एतावता तयोर्वैलक्षण्यमिति प्राचीनमताभिप्रायेणेदम् ।
 नव्यमते तु साध्यकोटावधिकभानात्स न दोष इति ध्येयम् ॥ साध्याभेदेति ॥ साध्यभूतोऽभेदः साध्याभेदः स च पक्षतावच्छेदकं चेत्यनयोर्विरोधादित्यर्थः ।
 व्यावहारिकभेदादेरद्याप्यप्रसिद्ध्या परमात्मेतर इत्युक्ते परमात्मप्रतियोगिकापारमार्थिकभेदस्यैव प्राप्त्या विरोध इत्यर्थः ॥ विप्रतिपत्तिगोचरत्वस्यैवेति ॥ अनतिप्रसक्ततयाऽनिर्वचनेनेति शेषः ।
 पक्षतावच्छेदकत्वात् पक्षतावच्छेदकताया वक्तुं शक्यत्वात् ।
 ननु विप्रतिपत्तेः पक्षतावच्छेदकत्वं न परमात्मभेदाभेदप्रकारकविप्रतिपत्तित्वेन ।
 परमात्मन्यपीदन्त्वादिविशिष्टे उक्तोभयप्रकारकविप्रतिपत्तिसम्भवेनोक्तदोषानिस्तारात् ।
 नापि तद्व्यक्तित्वेन ।
 इतरव्यावृत्तत्वेन तद्वृत्तेः परिचयायोगात् ।
 तथा च तस्याः पक्षतावच्छेदकत्वोक्तिरयुक्तैवेत्यत आह - अन्यथेति ॥ एतादृशदूषणेन तस्याः पक्षतावच्छेदकत्वखण्डने ॥ तवापीति ॥ अपिशब्दो न केवलं ममाभेदसाधनसम्भव इत्यर्थं वक्ष्यमाणसम्भवे समुच्चिनोति ॥ भेदसाधनस्यापीति ॥ अभेदसाधनसमुच्चायकोऽपिशब्दः ।
 तथा हि ।
 आत्मत्वस्य (* `तवाप्यात्मत्वस्य' इति `तथा हि'शब्दरहितः मु.पाठः) भेदसाधने पक्षतावच्छेदकत्वे तत्सामानाधिकरण्येन साध्यसाधने सर्वजीवेषु परमात्मभेदासिद्ध्योद्देश्यासिद्धिः ।
 अवच्छेदकावच्छेदेन तत्साधने परमात्मनि परमात्मभेदाभावादंशे बाधः ।
 परमात्मेतरत्वस्य पक्षतावच्छेदकघटकत्वे उक्तानुमानात्प्राक् तदसिद्ध्या पक्षतावच्छेदकविशिष्टपक्षाप्रसिद्धिरन्यथाऽनुमानवैयर्थ्यापत्तेः ।
 परमात्मभिन्नत्वेन प्रतीयमानत्वं भ्रान्त्या परमात्मन्यपीति पुनरंशे बाधः स्यात् ।
 अतस्त्वया दुःखिबद्धत्वाद्युपलक्षितचेतनत्वावच्छिन्नधर्मिकोक्तभेदप्रकारकविमतेरनुगतोक्तरूपेण वा तद्व्यतिरिक्तत्वेन वा पक्षतावच्छेदकत्वमुपगन्तव्यम् ।
 तत्तुल्यं ममापीति भावः ।
 यद्यपि तादृशदुःखित्वादेरेव पक्षतावच्छेदकत्वसम्भवः ।
 तथाऽप्यनुमानप्रवृत्तेस्तदवच्छिन्ने अन्यतरकोटिनिश्चयदशायामयोगात्तादृशविप्रतिपत्तिसाध्यसंशयस्य नियमेनावश्यकत्वे लाधवात्तस्यैव तद्व्यक्तित्वेन पक्षतावच्छेदकत्वमुचितमिति हृदयम् ।
 ॥ स्वप्रकाशत्वमिति ॥ अवेद्यत्वे सत्यपरोक्षव्यवहारगोचरत्वरूपम् ।
 यद्वा स्वातिरिक्तसंविदनधीनस्वविषयकयत्किञ्चिद्व्यवहारकत्वं मतद्वयेऽपि सुषुप्त्युत्तरकालीनव्यवहारमादाय सिद्धमित्यभिमानस्तेन पूर्वपक्षवादिमते आत्मनः स्वविषयकज्ञानरूपत्वाभावादसिद्धिरिति निरस्तम् (* `स्वविषयकयत्किञ्चिद्व्यवहारकत्वं मतद्वयेऽपि सुषुप्त्युत्तरकालीनव्यवहारमादाय सिद्धमित्यभिमानस्तेन पूर्वपक्षवादिमते आत्मनः स्वप्रकाशत्वमिति ।
 अवेद्यत्वे सत्यपरोक्षव्यवहारगोचरत्वरूपम् ।
 यद्वा स्वातिरिक्तसंविदधीनस्वविषयकज्ञानरूपत्वाभावादसिद्धिरिति निरस्तम् ।
' इति स्वप्रकाशत्वमितीति प्रतीकधारणमारभ्य निरस्तमिति पर्यन्तस्य मु.पाठः ।
)॥ न विरोध इति ॥ अन्यथाऽऽत्मत्वं जातिरित्यङ्गीकारेण हेतूकरणे व्यक्त्यैक्येन साध्येन तस्य विरुद्धत्वं स्यादिति भावः ।


(5) (का.) अत्रानुमाने पक्षतावच्छेदकं दुर्निरूपमित्याशङ्कते - नन्विति ॥ आत्मत्वस्य वक्ष्यमाणरीत्या पक्षतावच्छेदकत्वे दूषिते तद्व्यापकस्य सामान्यतो विवादविषयत्वरूपविमतत्वस्य तद्विशिष्टात्मत्वस्य च तद्दूषितप्रायमित्यभिप्रायेणात्मत्वस्यैव तद्दूषयति - न तावदिति ॥ पक्षत्वापत्त्या पक्षतावच्छेदकाक्रान्तत्वापत्त्या ॥ अंशे सिद्धसाधनादिति ॥ यद्यप्यवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतायामंशतः सिद्धसाधनं न दोषः ।
 न्यूनविषयकसिद्धेरनुमित्यविरोधित्वात् ।
 न चावच्छेदकावच्छेदेन साध्यतदभावकोटिकसन्देहलक्षणपक्षताविघटकत्वेन तस्य दोषत्वम् ।
 अंशतः सिद्धिसत्त्वेऽप्यवच्छेदकावच्छेदेन साध्यं सामानाधिकरण्येन तदभावं चावगाहमानसन्देहसम्भवेन तस्यैव तत्र पक्षतात्वात् ।
 न चैवमनित्ये वाङ्मनसे इत्यादौ वाङ्मात्रे साध्यसिद्धेरविरोधित्वप्रसङ्ग इति वाच्यम् ।
 पक्षतावच्छेदकावच्छेदेन सिद्धेस्तदवच्छेदेनानुमितिविरोधितया वाक्त्वावचछेदेन सिद्धेस्तदवच्छेदेनानुमितिविरोधित्वसम्भवात् ।
 अत एवाऽह मणिकारः `पक्षतावच्छेदकनानात्वे ह्यंशतः सिद्धसाधनं दोष' इति ।
 तथापि तद्विषयकानुमितौ तद्विषयकसिद्धिसामान्यस्य विरोधित्वमिति मतमनुसृत्येदमुक्तम् ।

अस्तु तर्हि परमात्मव्यावृत्तं तदन्यत्वविशिष्टात्मत्वमेव पक्षतावच्छेदकमित्याशङ्कां निरस्यति - नापीति ॥ विरोधादिति ॥ भेदाभेदायोर्विरोधान्न पक्षतावच्छेदकसाध्यभावसम्भवः ।
 स्वविरोधिधर्मधर्मितावच्छेदककस्वप्रकारकपरोक्षज्ञानानभ्युपगमादिति भावः ।
 यद्यपि तन्मते भेदसामान्यस्य न पारमार्थिकभेदाभावेन विरोधः ।
 तथापि प्रातिभासिकभेदस्याव्यावर्तकत्वाद्व्यावहारिकभेदस्य च परं प्रत्यसिद्धेः पारमार्थिकभेदस्यैव पक्षकुक्षौ निवेश्यतया ध्रुवो विरोधः ।
 वस्तुतः सिद्धान्ते सत्तात्रैविध्यानभ्युपगमेन भेदमात्रस्यैवाभेदविरोधितया तद्रीत्यैतदभिधानमिति ध्येयम् ।

विमतपदेन विमतिविशेषविषयत्वस्यैव विवक्षिततया तावन्मात्रस्य पक्षतावच्छेदकत्वं नानुपपन्नमित्याह - परमात्मन इति ॥ चैत्राद्या इत्यादिः ।
 अत्र चैत्रत्वादीनामननुगतत्वात्तदवच्छिन्नधर्मिकसमूहालम्बनविमतिविषयत्वस्य पक्षतावच्छेदकत्वानुसरणम् ।
 नन्वेवमात्मत्वादिकमेव पक्षतावच्छेदकीकृत्य परमात्मभेदवादिनं प्रति तदन्यधर्मावच्छिन्ने तदभेदसाधनमसङ्गतमत आह - अन्यथेति ॥ भेदवादिनाऽऽत्मत्वादिपक्षतावच्छेदकीकरण इत्यर्थः ॥ असम्भवादिति ॥ परमात्मभेदस्यात्मत्वसामानाधिकरण्येन साधने यावज्जीवेषु तदसिद्धेस्तदवच्छेदेन साधने परमात्मनि बाधात्तदितरत्वेन पक्षविशेषणे च परं प्रत्यसिद्धेस्तदितरत्वेन प्रतीयमानत्वोक्तौ पुनरुक्तबाधप्रसङ्गाद्भेदवादिनाऽप्युक्तविमतिविषयत्वमेव पक्षतावच्छेदकीकर्तव्यमिति भावः ।

नन्वात्मत्वजातेर्व्यक्तिभेदनियतत्वेन व्यक्त्यभेदपर्यवसितनिरुक्तसाध्यव्याप्यत्वासम्भव इत्यत आह - आत्मत्वमिति ॥ स्वप्रकाशत्वमित्यवेद्यत्वमभिमतम् ।
 न तु स्वविषयप्रकाशत्वम् ।
 स्वस्यैवासिद्धेः ।
 परस्यासिद्धिस्तु वक्ष्यते ।
 नन्वीदृशानुमानेन जीवपरमात्माभेदसिद्धावपि कथं मिथो जीवाभेदसिद्धिरिति चेन्न ।
 सर्वेष्वेकाभेदस्य सर्वैक्यपर्यवसायित्वात् ।
 एतच्चोपलक्षणम् ।
 विमता आत्मानश्चैत्रात्मनो न भिद्यन्ते आत्मत्वाच्चैत्रात्मवदित्याद्यनुमानमपि ग्राह्यम् ।

(5) (श.) विमतपदप्रयोगप्रयोजनं वक्तुमाक्षिपति - नन्विति ॥ अंशे सिद्धसाधनादिति ॥ ननु यत्रानित्ये वाङ्मनसे इत्यत्र पक्षतावच्छेदकनानात्वं तत्रानित्या वागिति बुद्धेरुद्देश्यायाः सिद्धेरंशतः सिद्धसाधनमिति मणिकारेणोक्तत्वादत्रात्मत्वमेकमेव पक्षतावच्छेदकमिति कथमंशतः सिद्धसाधनमिति चेत् अत्र प्रष्टव्यम् ।
 किं पक्षतावच्छेदकनानात्वमेवांशे सिद्धसाधने प्रयोजकमुतोद्देश्यप्रतीतिसिद्धिरपीति ।
 नाद्यः ।
 अन्वयतो व्यतिरेकतश्च व्यभिचारात् ।
 तथाहि ।
 न तावत् यत्र पक्षतावच्छेकनानात्वं तत्रांशे सिद्धसाधनमिति नियमः ।
 वनपर्वतौ वह्निमन्तौ धूमादित्यत्र वनपर्वतत्वरूपपक्षतावच्छेदकनानात्वेऽप्यंशतः सिद्धसाधनाभावात् ।
 नापि यत्र पक्षतावच्छेदकनानात्वाभावः तत्रांशे सिद्धसाधनाभावः इति नियमः ।
 द्रव्याण्यनित्यानि गुणाश्रयभावात् ।
 नापि यत्र पक्षतावच्छेदकनानात्वाभावः तत्रांशे सिद्धसाधनाभावः इति नियमः ।
 द्रव्याण्यनित्यानि गुणाश्रयत्वात् घटवदित्यत्र पक्षतावच्छेकस्य द्रव्यत्वस्यैकत्वेऽपि पृथिव्यादिकार्यद्रव्ये अनित्यत्वस्य सिद्धत्वेनांशतः सिद्धसाधनसद्भावात् ।
 द्वितीये तूद्देश्यप्रतीतिसिद्धेरेव प्रयोजकत्वमस्तु ।
 आवश्यकत्वाल्लाघवाद्व्यभिचाराभावाच्च ।
 नतु पक्षतावच्छेदकनानात्वस्यापि ।
 अनावश्यकत्वाद्गौरवाद्व्यभिचाराच्च ।
 नन्वत्रोद्देश्यप्रतीतिसिद्धिरपि नास्ति ।
 तथाहि ।
 किमत्रात्मत्वसामानाधिकरण्येन सर्वत्रात्माभेदविषया समूहालम्बनरूपैका बुद्धिरुद्देश्या उत सार्वत्रिकत्वाद्युदासीना ।
 द्वितीये परमात्मनि तदभेदसिद्धौ सिद्धसाधनमेव ।
 नांशतः सिद्धसाधनं सार्वत्रिकत्वाद्युदासीनाया एव बुद्धेरुद्देश्यत्वेन तस्या एकदेशसिद्धावपि सिद्ध(साधन)त्वात् ।
 आद्ये कथमंशतः सिद्धसाधनम् ।
 एकदेशसिद्धावप्युद्देश्यायाः सर्वत्र समूहालम्बनबुद्धेरसिद्धेरिति चेत् उच्यते ।
 उद्देश्यप्रतीतिसिद्धिरपि हि न स्वरूपेण सिद्धसाधनप्रयोजिका ।
 किन्तु पक्षताविघटनद्वाराऽनुमितिप्रतिबन्धकत्वेनैव ।
 तच्च क्वचित्साध्यसिद्धेरप्यस्ति ।
 क्वचित्साध्यनिश्चये तदंशे सन्देहसिध्यभावयोरसम्भवेन तदुभयघटितपक्षताविरहात् ।
 अत्र च परमात्मनि साध्यसिद्धौ तदंशे पक्षताविरहेण न सर्वात्मविशेष्यका परमात्माभेदविशेषणका एका समूहालम्बनरूपाऽनुमितिरित्यनुमितिप्रतिबन्धकतया भवत्येवांशे सिद्धसाधनं दोषः ।
 न च सिषाधयिषादशायां साध्यसिद्धेरनुमित्यप्रतिबन्धकत्वान्न तदंशेऽनुमितिप्रतिबन्ध इति वाच्यम् ।
 सिषाधयिषाभावदशायामेतदनवतारात् ।
 अन्यथोक्तरीत्या सिद्धसाधनस्यापि दोषत्वं न स्यात् ।
 नच परमात्मनि परमात्मत्वरूपेण परमात्माभेदे निश्चितेऽप्यात्मत्वेन तत्सन्देहादिः सम्भवतीति वाच्यम् ।
 विशेषनिश्चयस्य सामान्यतः संशयादिविरोधित्वेन तादृशनिश्चयेसतितथाविधसन्देहाद्ययोगात् ।
 अन्यथैतत्पर्वतत्वेन वह्निमत्तया निश्चिते पर्वतत्वेन तत्सन्देहापत्त्या तत्र वह्न्यर्थिनो निःशङ्कप्रवृत्तिर्न स्यात् ।
 व्यक्तमेतत्सर्वं तर्कताण्डव इति सङ्क्षेपः ।

॥ विशिष्टमिति ॥ आत्मत्वमिति वर्तते ।
 अत्र तु न पूर्वोक्तदोष इति भावः ॥ साध्येनेति ॥ साध्येनाभेदेन सह पक्षतावच्छेदकीभूतपरमात्मेतरत्वे सत्यात्मत्वस्य विरोधादित्यर्थः ।
 तथाच वह्न्यादिसमानाधिकरणस्यैव पर्वतत्वादेः पक्षतावच्छेदकत्वदर्शनेन परमात्माभेदासमानाधिकरणस्य परमात्मेतरत्वे सत्यात्मत्वस्य न पक्षतावच्छेदकत्वमिति भावः ॥ भ्रान्त्येति ॥ तथाच परमात्मेतरत्वस्यावास्तवत्वान्न तस्य वास्तवाभेदेन विरोध इति भावः ॥ भ्रान्तिसम्भवेनेति ॥ उक्तभ्रान्तिकारणस्य परमात्मनः सकाशात्पृथगुपलभ्यमानत्वस्य तद्रूपेषु मत्स्यादिष्वपि साम्यादिति भावः ।
 विमतपदप्रयोगलब्धमाह - परमात्मन इति ॥ ननु परमात्मनो भिद्यन्ते न वेति विप्रतिपत्तिगोचरत्वं न पक्षतावच्छेदकं गौरवादिति चेन्न ।
 लघुभूतावच्छेदकान्तरे सत्येव गौरवस्य दोषत्वात् ।
 यथा धूमत्वे लघुभूते सति गुरूभूतं नीलघूमत्वं न हेतुतावच्छेदकम् ।
 न चात्रावच्छेदकान्तरं लघुभूतमस्ति येनास्य गौरवेण परित्याग इति भावः ।
 इदमेव विपक्षे बाधकेन द्रढयति - अन्यथेति ॥ उक्तपक्षतावच्छेदकानङ्गीकार इत्यर्थः ।
 तत्ववादिना हि विमता आत्मानः परमार्थतो भिद्यन्ते तद्विरुद्धधर्मवत्त्वादिति साधनीयम् ।
 तत्र प्रष्टव्यं किमत्रपक्षतावच्छेदकमिति ।
 यद्यात्मत्वं तर्हि तदवच्छिन्नपरमात्मनोऽपि पक्षत्वापत्तौ तत्र परमात्मभेदाभावेनांशे बाधः ।
 नापि परमात्मेतरत्वविशिष्टम् ।
 परमात्मेतरत्वस्याधुनाप्यसिद्धेः ।
 नापि भ्रान्त्या परमात्मेतरतया प्रतीयमानत्वम् ।
 परमात्मन्यपि परमात्मेतरत्वभ्रान्तिसम्भवेन तस्यापि पक्षत्वेनाद्यपक्षोक्तदोषतादवस्थ्यात् ।
 तस्मात्तेनापि परमात्मनो भिद्यन्ते न वेति विप्रतिपत्तिगोचरत्वस्यैव पक्षतावच्छेदकत्वमभ्युपेत्य उक्तरीत्या तत्र प्राप्तदोषः परिहरणीयः ।
 एवमत्रापीति दोषपरिहारयोरुभयत्र साम्ये एकत्र पक्षपातायोगात् ।
 यथाहुः `यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
 नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण' इति ।
 नन्वात्मत्वजातेरनेकसमवेतत्वनिर्वाहायात्मनामनेकत्वमङ्गीकार्यम् ।
 अनेकत्वाभावश्च साध्यते ।
 अतो हेतुसाध्ययोरन्योन्यविरोधेन व्याप्तिग्रहोऽनुपपन्न इत्याशङ्कां परिहर्तुमाह - आत्मत्वेति ॥ जातिर्न चेत् तर्हि किमिति पृच्छति - किन्तर्हीति ॥ उत्तरमाह - स्वप्रकाशत्वमिति ॥ आत्मनः स्वप्रकाशत्वमवेद्यत्वरूपमभिमतम् ।
 नतु स्वविषयप्रकात्वरूपम् ।
 कर्तृकर्मविरोधेन मायावादिभिरात्मनः स्वविषयप्रकाशत्वानङ्गीकारादिति ध्येयम् ।
 ततः किमित्यत आह - तेनेति ॥ आत्मत्वस्य जातित्वानङ्गीकारेणेत्यर्थः ।

(6) किञ्च विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वाद्देवदत्तशरीरवत् ।
 अत्र भोगायतनत्वात्यन्ताभावानधिकरणत्वं साध्यम् ।
 तेन सुप्तमूर्च्छितमृतशरीरादिषु न बाधः ।
 नापि व्यभिचारः ।
 (न बाधो न व्यभिचारः) ।
 ननु दैवदत्तस्यैवेत्यत्र भोक्तृत्वेनाप्रसक्तस्याचेतनस्यैवकारेण व्यवच्छेदायोगाच्चेतनान्तरं तद्व्यावर्त्यं वाच्यम् ।
 तेनात्मान्तरसिद्धिः ।
 एवकारपरित्यागे च सर्वेषां शरीराणां प्रतिनियतभोक्तृकाणामपि देवदत्तभोगायतनत्वस्याप्युपपत्त्याऽर्थान्तरादिति चेन्न ।
 परमतप्राप्तस्यैव भोक्त्रन्तरस्यैवकारेण व्यावर्त्यत्वात् ।

(6) (भ.) आत्माभेदेऽनुमानान्तरमप्याह - किञ्च विमतानीति ।
 अत्र देवदत्तशरीरे सिद्धसाधनातावारणाय विमतानीत्युक्तम् ।
 तथा च देवदत्तशरीरातिरिक्तशरीराणीति लभ्यते ।
 तेषां च देवदत्तमात्रभोगायतनत्वसाधने यज्ञदत्तादिसर्वात्मनां देवदत्तेनाभेदलाभ इति भावः ।
 ननु सुप्तमूच्छ्रितमृतशरीराणां पक्षत्वे तत्र भोगायनत्वाभावेन बाधः पक्षातिरिक्तत्वे व्यभिचार इत्यत आह - भोगायतनत्वात्यन्ताभावेति ॥ सुप्त्यादिदशायां भोगायतनत्वाभावेऽपि तत्पूर्वं वा तदुत्तरं वा भोगायतनत्वसम्भवेन तदत्यन्ताभावानधिकरणतायास्तेष्वपि सद्भावेन पक्षकोटिप्रविष्टेष्वपि तेषु न बाधः ।
 पक्षकोटिप्रविष्टत्वादेव व्यभिचारोऽपि नेत्यर्थः ।
 नन्वात्मनामभेदसाधनार्थमिदमनुमानम् ।
 तत्र देवदत्तस्यैवेत्येवकारेणैव तद्व्यावर्त्यं देवदत्तातिरिक्तचेतनसिद्धिर्भवति ।
 अतः स्वव्याहतमेतदित्याशङ्कते - नन्विति ॥ अचेतनमेव तद्व्यावर्त्यं किन्न स्यादित्यत उक्तं भोक्तृत्वेनाप्रसक्तस्येति ॥ अचेतनस्येति शेषः ।
 तर्ह्येवकारः परित्यज्यत इत्यत आह - एवकारेति ॥ प्रतिनियतभोक्तृकाणामपि भूतावेशन्यायेन देवदत्तभोगायतनत्वस्याप्युपपत्त्याऽर्थान्तरत्वमित्यर्थः ॥ परमतप्राप्तस्येति ॥ परमतप्रसक्तस्यैव चेतनान्तरस्य व्यावर्तनान्न स्वव्याघात इति भावः ।
 
(6) (मु.) विमतानीति ।
 यज्ञदत्तादिशरीराणीत्यर्थः ।
 पक्षधर्मताबलादभेदसिद्धिरिति भावः ।
 देवदत्तस्य परकायप्रवेशेनार्थान्तरवारणायैवकारः ॥ न बाधो नापि व्यभिचार इति ॥ पक्षत्वे बाधो न चेद्व्यभिचारश्च नेत्यर्थः ।
 एवकारप्रयोगेऽप्यनुमानं दूषयति - नन्विति ॥ आत्मान्तरसिद्धिरिति ॥ अन्यथा स्वतो व्यावृत्ततद्व्यावर्तकैवकारायोगादिति भावः ।
 निषेधप्राप्तिरेव तन्त्रं न स्वरूपसत्त्वमिति भावः ।

(6) (कु.) ॥ किञ्च विमतानीति ।
 यद्यप्यनेनानुमानेन जीवानां परस्पराभेदसिद्धावपीश्वराभेदसिद्धौ न प्रकृतोपयोगः ।
 तथाऽपि प्रसङ्गागतं बोध्यम् ।
 यद्वा `शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत्' इत्युक्तेर्भगवतस्तच्छरीरावच्छिन्नसारभोक्तृत्वमात्मभेदवादिभिरङ्गीकार्यम् ।
 अनेन चानुमानेन देवदत्तमात्रभोगायतनत्वसाधने ईश्वराभेदः सिध्यतीति भावः ॥ भोगायतनत्वात्यन्ताभावेति ॥ यद्यप्यत्र व्याप्तिर्दैशिकी ।
 तथा च सुप्तमूर्छितमृतशरीरेषु पक्षीकृतेषु सपक्षीकृतेषु च तत्तदवस्थायां भोगाभावे कदाचिद्भोगायतनत्वस्य विद्यमानत्वान्न बाधो न व्यभिचारः ।
 न च वाच्यं परिमाणभेदेन द्रव्यभेदात्सुप्तादिशरीराणां पूर्वोत्तरशरीरभेदात्तेषां कदाऽपि भोगायतनत्वाभावात् भवति बाधो व्यभिचारश्चेति ।
 तथात्वे विवक्षयाऽप्यनिस्तारात् ।
 तेषां शरीराणां भोगतत्प्रागभावध्वंसाधिकरणत्वेन तदत्यन्ताभावानधिकरणत्वात् ।
 तथाऽपि व्याप्तिद्वयेन प्रवृत्तमिदमनुमानमित्याशयेनेदम् ॥ नन्विति ॥ एवकारेण भोक्तृत्वेनाप्रसक्तस्य जडव्यावर्तनायोगेन (* `जडस्य व्यावर्तन-' इति पाठेन भाव्यम् ।
) भोक्तृत्वेन प्रसक्तचेतनान्तरमेव व्यावर्तनीयम् ।
 तथा च देवदत्तातिरिक्तचेतनभोगानायतनत्वे सति देवदत्तभोगायतनत्वं साध्यार्थः फलितः ।
 एवञ्च तादृशसाध्यस्य प्रसिद्धिसम्पादकेन प्रकृतानुमानेन वा (* `-मानेनैव' इति पाठेन भाव्यम् ।
) देवदत्तातिरिक्तचेतनसिद्धिः स्यात् ।
 एवकारपरित्यागे च प्रतिनियतभोक्तॄणामपि भूतावेशन्यायेन देवदत्तभोगायतनत्वसम्भवादभेदं विनाऽपि साध्यपर्यवासानादर्थान्तरतेत्यर्थः ॥ परमतेति ॥ तथा च देवदत्तातिरिक्तत्वेन पराभिमतचेतनान्तरभोगानायतनत्वे सति देवदत्तभोगायतनत्वं साध्यार्थ इति नोभाभ्यां देवदत्तातिरिक्तचेतनसिद्धिः ।
 परमतावच्छेदकत्वेन (* `पक्षता-' इति पाठेन भाव्यम् ।
@) साध्यकोटिनिवेशस्यायमेव वदतीत्यादेरिवार्थसत्तापर्यन्तत्वाभावादिति भावः ।

(6) (हु.) एवं परमात्मना सर्वजीवानामभेदं बहुजीववादेन प्रसाध्यैकजीववादमवलम्ब्य सर्वशरीरस्य जीवैक्यं साधयति - विमतानीति ॥ परिदृश्यमानदेवदत्तपिण्डव्यतिरिक्तनिखिलशरीराणीत्यर्थः ।
 देवदत्तीयजन्मान्तरीयशरीरेषूक्तसाध्यस्य सिद्धत्वेऽप्यवच्छेदकावच्छेदेन साधने सिद्धसाधनता न दोष इत्याशयेनेदम् ।
 अथवा देवदत्तसम्बन्धिपूर्वापरनिखिलशरीरव्यतिरिक्तान्यदीयसर्वशरीरसाधारणस्य रूपस्य ज्ञानिमुखादिना कथञ्चिदवगमे तद्रूपं वा तदवच्छिन्नधर्मिका विप्रतिपत्तिर्वा पक्षतावच्छेदिकाऽतो नांशे सिद्धसाधनताऽवकाशः ।
 अज्ञानिनां तु न तादृशधर्मो बुद्धिपथमारोढुमर्हति ।
 सर्वशरीरिणां देवदत्तशरीरत्वपक्षे देवदत्तकर्मानिर्मितत्वादिधर्माणां पक्षीभूतशरीरेष्वपि सम्भवात् ।
 अथवैकजीववादपक्षे हिरण्यगर्भनामकशरीराभिमान्येक एव जीवः सर्वशरीराभिमान्यनादितोऽनुवर्तते ।
 एतावत्कालपर्यन्तं न कस्यापि मुक्तिस्तस्य मुक्त्यनन्तरं न किमपि जगदवशिष्यत इत्येकजीववादस्थितिः ।
 तथा च देवदत्तपदेन न शरीराभिमानी प्रकृते विवक्षितः ।
 (* `देवदत्तपदेन हिरण्यगर्भशरीराभिमानी प्रकृतेऽपि विवक्षितः ।
' हु.) तथा च हिरण्यगर्भशरीररूपपिण्डमनादितः स्थितमिति शास्त्रसिद्धम् ।
 तदन्यशरीरत्वावच्छेदेन हिरण्यगर्भस्यैव भोगायतनत्वं साध्यत इति नांशे सिद्धसाधनताऽवकाश इति ध्येम् ।
 एतेनैतत्प्रकारेण पूर्वापरग्रन्थेष्ववच्छेदकावच्छेदेन साधनेऽप्यंशे सिद्धसाधनताया दोषत्वोपगमस्यैव सत्त्वान्मध्येऽत्रैव तदनङ्गीकारे सन्दर्भविरोध इति निरस्तम् ॥ देवदत्तस्यैवेति ॥ भोगायतनत्वं भोगावच्छेदकत्वम् ।
 भोगोऽन्यः सुखादिभूतावेशन्यायेन देवदत्तेतरभोगावच्छेदकेऽपि शरीरे देवदत्तभोगसम्भवेन नोद्देश्यसकलजीवैक्यसिद्धिरित्यर्थान्तरवारणायैवेति ।
 देवदत्तेतरभोगायतनत्वाभावविशिष्टत्वं तदर्थः ।
 ननु देवदत्तेतरचेतनाभावाज्जडकर्तृकभोगाप्रसिद्धेरितरकर्तृकभोगरूपप्रतियोग्यप्रसिद्ध्याऽनुमातृमते तदभावाप्रसिद्धिः ।
 न च देवदत्तेतरचेतनत्वप्रकारकप्रतिवाद्यभिमतविषयीभूतचेतनत्वेन निवेश्य तत्कर्तृकभोगायतनत्वाभावो निवेश्यः ।
 पराभिमत्यवच्छेदकतया साध्यकोटिनिवेशस्यायमिह वदतीतिवदर्थसत्तापर्यन्तत्वाभावादिति वाच्यम् ।
 पराभिमतेर्भ्रमत्वेऽपि तद्विषयता चेतने वा जडे वा वाच्या ।
 आद्ये देवदत्तचेतनस्यैव स्वातिरिक्तत्वभ्रमगोचरतया तद्भोगायतनत्वाभावसाधने बाधानिस्तारात् ।
 द्वितीये जडकर्तकभोगाप्रसिद्धेरिति चेन्न ।
 स्वकर्तृकभोगवत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकेतराभाववैशिष्ट्यस्यैव निविष्टत्वात् ।
 न च तस्य व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताक(काभाव)तया केवलान्वयितयाऽव्यावर्तकत्वमिति वाच्यम् ।
 परेषां देवदत्तेतरकर्तृकभोगमङ्गीकुर्वतां तस्य व्यधिकरणसम्बन्धत्वाभावेन तन्मतप्रसक्तार्थान्तरनिरासकतया सार्थक्यादित्यनुपदमेव ग्रन्थकृता वक्ष्यमाणत्वात् ।
 लोकायतमतरीत्यैकजीववाद्येकदेशिमते एकस्यैव शरीरस्य सजीवत्वमन्येषां स्वप्नदृष्टशरीरवन्न जीवत्वमित्यङ्गीकारात्तद्रीत्या वा निश्चेतनत्वेन पर्यवसानवारणाय विशेष्यभागः सार्थकः ।
 नन्वेवमप्यर्थान्तरवारणमशक्यमेव ।
 देवदत्तेतरभोगावच्छेदकेऽपि शरीरे समयविशेषे तदभावेन तद्घटितसम्बन्धावच्छिन्नतदभावोऽपि वर्तत एवेति तद्विशिष्टभोगायतनत्वरूपसाध्यस्य तत्राबाधात् ।
 न च वाच्यमुक्तसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽत्यन्ताभाव एव प्रागभावादीनां प्रतियोगितायाः सम्बन्धानवच्छिन्नत्वात् ।
 तस्य प्रतियोगिवत्तत्प्रागभावध्वंसाभ्यामपि विरुद्धत्वस्याग्रे ग्रन्थ एव स्फुटतया कदाचिदन्यभोगावच्छेदकत्वसत्त्वेन(सत्त्वे) तदत्यन्ताभावासत्त्वेन तद्घटितसम्बन्धावच्छिन्नेतरात्यन्ताभावः कथं तत्र वर्तेतेति भोगात्यन्ताभावस्य तत्रासम्भवेऽपि भोगस्यैव सम्बन्धघटकतया तत्प्रागभावध्वंसयोः सम्बन्धाघटकत्वेन तद्घटितसम्बन्धावच्छिन्नात्यान्ताभावस्यापि भोगानधिकरणकालदेशावच्छेदेन सत्त्वात् ।
 घटसंयोगप्रागभावध्वंसादिमत्यपि भूतले संयोगशून्य(ता)दशायां संयोगेन घटो नास्तीति प्रतीत्यनुरोधेन घटात्यन्ताभाववत्संयोगसम्बन्धावच्छिन्नेन्धनत्वाद्यवच्छिन्नप्रागभावस्यापि पूर्वपक्षग्रन्थादौ गदाधरप्रभृतिभिरुपपादितत्वेन प्रागभावध्वंसयोरपि धर्मसम्बन्धावच्छिन्नत्वसत्त्वाच्च ।
 तथाचार्थान्तरता दुर्वारे(रैवे)ति चेन्न ।
 यावत्स्वाधिकरणकालावच्छिन्नत्वस्य साध्ये विशेषणत्वाङ्गीकारेण वा कालानवच्छिन्नस्वरूपसम्बन्धेन साध्यताङ्गीकारेण वोक्तविशिष्टसाध्यस्य वोक्तसम्बन्धेन साध्यस्य वा यत्किञ्चित्काले विशेषणसत्त्वेऽसम्भवेनार्थान्तरप्रसक्तेरभावादित्याशयात् ।
 तर्हि विशेष्यस्य सार्वकालिकत्वाभावाद्बाधो देवदत्तशरीरे व्यभिचारश्च ।
 हिरण्यगर्भविवक्षायामपि तस्य प्रलये सुप्ततया भोगाभावाद्व्यभिचारश्चेत्यत आह - भोगायतनत्वेति ॥ भोगावच्छेदकत्वात्यन्ताभावस्य ध्वंसप्रागभावयोरत्यान्ताभावविरोधितामते कथमप्यसम्भवात्साध्यस्य तत्सम्बन्धस्य वा सार्वकालिकत्वेन न बाधव्यभिचारयोः प्रसक्तिः ।
 उक्तविवक्षायामप्येवकारार्थरूपविशेषणं देयमेव ।
 अन्यथाऽन्यकर्तृकभोगदशायामप्युक्तविशेष्यभागस्या(प्य)क्षततयाऽर्थान्तरानिस्तरात् ।
 यद्वा देवदत्तस्यैव भोगायतनत्वमित्यत्रैवकारार्थाप्रसिद्धिपरिहाराय स्वावच्छिन्नभोगत्वव्यापकदेवदत्तवृत्तिकत्वं साध्यार्थः ।
 स्वावच्छिन्नत्वस्वावच्छिन्नभोगवृत्तिभेदप्रतियोगितानिरूपिताधेयतासम्बन्धावच्छिन्नावच्छेदकतासम्बन्धावच्छिन्नस्ववृत्तिप्रतियोगिताकाभाववद्देवदत्तकत्वैतदुभयसम्बन्धेन शरीरविशिष्टभोगोऽवच्छेदकतासम्बन्धेन साध्यमिति पर्यवसितम् ।
 कदाचिदन्यभोगावच्छेदकत्वे तदीयभोगे तत्र देवदत्तवृत्तित्वाभावेन व्यापकताभङ्गापत्त्याऽर्थान्तरतानिरासः ।
 ननु देवदत्तादिसुप्त्यादिदशायां तादृशशरीरावच्छिन्नभोगाभावेन तद्धटितसाध्याभावेन बाधव्यभिचारौ स्यातामित्याशङ्कां परिहरति - भोगायतनत्वेति ॥ तादृशभोगायतनत्वात्यन्ताभावानधिकरण(त्व)मेव तदर्थः ।
 तच्चोक्तरीत्या कालिक(का)व्याप्यवृत्तीति न बाधव्यभिचाराविति भावः ।
 यद्यपि पक्षे हेत्वधिकरणे च यदा कदा वा साध्यसत्त्वमात्रेण न बाधव्यभिचारयोः प्रसक्तिर्बाधशरीरे व्यभिचारशरीरे वा साध्याभावे प्रतियोगिवैय्यधिकरण्यस्य निविष्टत्वात् ।
 अन्यथा कपिसंयोग्येतद्वृक्षत्वादित्यस्यापि दुष्टत्वापत्तेः ।
 तथाऽपि प्रतियोगिवैय्यधिकरण्यादिप्रयोजनोक्तिपूर्वकं तच्छङ्कानिरासे गौरवं स्यादित्युक्तशङ्कामभ्युपेत्यैव व्याप्यवृत्तिसाध्ये पर्यवसानपूर्वकमुक्तशङ्कानिरासः कृत इत्यवधेयम् ।
 अन्ये तु साध्यं साध्यतुल्यं साध्यसमनियतमित्यर्थः ।
 तथा च गन्धवती पृथिवीत्वादित्यादेर्बाधितत्ववारणाय बाधव्यभिचारयोरत्यन्ताभावस्यैव निविष्टतया कदाचिदुक्तसाध्यरूपप्रतियोगिमति तदत्यन्ताभावसम्भवान्न बाधव्यभिचारौ ।
 साध्यं तूक्तभोगायतनत्वरूपं यथाश्रुतमेवेति भाव इत्याहुः ।
 केचिद् भोगायतनत्वात्यन्ताभावेति यद्यप्यत्र व्याप्तिर्दैशिकी ।
 तथा च मूर्छितत्वादिदशायां भोगायतनत्वासत्त्वेऽपि कदाचित्पक्षसपक्षयोः सत्त्वादेव न बाधो न व्यभिचारश्च ।
 न चावयवपरिमाणभेददर्शनादिना पूर्वापरशरीरभेदमङ्गीकृत्येदमिति वाच्यम् ।
 तादृशेष्वेव कतिपयशरीरेषु भोगतत्प्रागभावतद्ध्वंसानां त्रयाणामप्यभावेनात्यन्ताभावस्यावश्यकतयोक्तसाध्यविवक्षायामप्येतद्दोषतादवस्थ्यात् ।
 तथाऽपि व्याप्तिद्वयेन प्रवृत्तमिदमनुमानमित्याशयेनेदमित्याहुः ।
 अत्रेदं विवेचनीयम् ।
 द्वितीयव्याप्तिर्न कालिकी ।
 अत्र शरीरत्वभोगायतनत्वयोः कालिकसम्बन्धेन हेतुसाध्यभावानापन्नतया तत्सम्बन्धेन व्याप्तेः प्रकृतानुपयोगात् ।
 न च कालिकेन साध्यहेतुभावोऽप्यस्तीति वाच्यम् ।
 शरीरे कालत्वाभावेन तत्र हेतुसाध्ययोः कालिकेनाभावात् ।
 यथाकथञ्चित्तत्र कालोपाधित्वमङ्गीकृत्य तस्यापि कालिकसम्बन्धेन किञ्चिदधिकरणत्वमाश्रित्य तत्र कालिकसम्बन्धेन साध्यहेत्वङ्गीकारे घटादेरपि पक्षतासम्भवेन तत्परित्यागे बीजाभावः ।
 कालिकसम्बन्धेन शरीरत्वस्य हेतुत्वे भोगतत्प्रागभावतद्ध्वंसानधिकरणत्वेन तदत्यन्ताभावाधिकरणे घटादिरूप(काले)निष्कृष्टसाध्यस्यापि व्यभिचारः ।
 संसारस्यानादितयाऽनादिकालतः प्राप्तदेवदत्तभोगध्वंसादेः कालिकसम्बन्धेन सत्त्वेन न तदत्यन्ताभावस्तत्रेत्युच्यते तदा शरीररूपकाले देवदत्तेतरकर्तृकभोगसत्त्वेऽप्युक्तसाध्याबाधाच्चेतनैक्यासिद्ध्याऽर्थान्तरतैव ।
 देवदत्तेतरभोगतद्ध्वंसादेः सत्त्वे तदत्यन्ताभावस्य कालेऽयोगेनैवकारार्थतया तदितरकर्तृकभोगात्यन्ताभावस्य साध्यकोटौ निवेशादेवार्थान्तरवारणमित्यङ्गीकारेऽपि तावतैवेष्टसिद्धौ विशेष्यभागवैय्यर्थ्यं निश्चेतनवादिनाऽप्यनुभवसिद्धभोगस्य कालेऽपलापस्य कर्तुमशक्यत्वेन भोगसामान्याभावमादाय पर्यवसानायोगात् ।
 किञ्च शरीरस्य कालत्वाङ्गीकारेणानुमानप्रवृत्तौ कालरूपेषु सर्वशरीरेषु चेतनैक्यवादिनां यदा कदाचित्कालिकसम्बन्धेन देवदत्तभोगस्य सत्त्वात्कथं बाधप्रसक्तिः ।
 ननु भोगसामान्यानधिकरणकालमात्रवृत्ति शरीरं प्रसिद्धं येन तत्र बाधप्रसक्तिः ।
 सुप्तमूर्च्छादिदशापन्नतच्छशीरेषु बाधोद्भावनं ग्रन्थकृतामत्यन्तासमञ्जसं च स्यात् ।
 अपि च काले ध्वंसप्रागभावाभ्यां सहात्यन्ताभावस्य विरोधेन सत्त्वेऽनित्यवस्तुप्रतियोगिताकात्यन्ताभावसामान्यस्य कालासंस्पर्शप्राप्त्या तेषामलीकत्वप्राप्त्या तादृशमतस्य विचारासहत्वेन साध्यपरिष्कारायोगः ।
 न हि विमतानि शरीराणीति न्यायवाक्ये कालिकसम्बन्धेन हेतुसाध्यभावज्ञापकं किमप्यस्ति ।
 नापि परकीयैः स्वग्रन्थेषु तथोक्तमपि (।
) येन ग्रन्थकृतां तदनुसारेण शङ्कासमाधानयोः प्रसक्तिरित्यपि वक्तुं शक्येत ।
 अत एव यद्यत्कालावच्छेदेन शरीरत्वाधिकरणत्वं यत्र तत्कालावच्छेदेन देवदत्तस्यैव भोगायतनत्वं तत्रेति बलात्सेत्स्यमाने सर्वकालावच्छेदेनोक्तभोगायतनत्वरूपसाध्ये बाधोद्भावनं व्याप्तौ व्यभिचारोद्भावनं (च) युक्तमिति परास्तम् ।
 हेतुसाध्यशरीरे कालाप्रवेशेन तद्घटितसामान्यव्याप्तेर्वक्तुमशक्यत्वात् ।
 अस्मदुक्तरीत्याऽर्थान्तरवारणाय साध्यस्य कालघटितत्वेऽपि हेतौ तन्निवेशे प्रयोजनाभाव एव ।
 हेतौ तन्निवेशे वैकस्या एव दैशिकव्याप्तेरनुमानाङ्गत्वप्राप्त्या व्याप्तिद्वयेन प्रवृत्तमिदमनुमानमित्यादेरसङ्गतिरेव ।
 तस्मादेतदाशयं वयं न विजानीमः किन्तु महान्तः प्रष्टव्या इति ।
 अत्रेदं प्रतिभाति ।
 प्रतियोगिवैय्यधिकरण्यधटिताघटितव्याप्तिद्वयेनेत्यर्थः ।
 साध्यस्य व्याप्यवृत्तित्वे व्याप्तिद्वयमपि घटत इति प्रतियोगिवैय्यधिकरण्याघटितव्याप्तौ व्यभिचारशङ्काबाधोक्तिरपि साध्याभावमात्रं पक्षे बाधो न तु तल्लक्षणे प्रतियोगिवैयधिकरण्यं निवेशनीयमित्याशयेनेति स्वरीत्यैवकारवैय्यर्थ्यमाशङ्क्य वादिप्रतिवादिनोरन्यतरमते प्रयोजनसद्भावमात्रेण तस्य प्रयोजनत्वमित्याशयेन प्रतिवादिमतरीत्याऽर्थान्तरवारणरूपं प्रयोजनं दर्शयति - नन्वित्यादिना ॥ चेतनैक्यसाधना(का)नुमानेन चेतनभेदस्यैव सिद्धावत्यन्तानभिमतपदार्थस्यैव सिद्ध्याऽभिमतासिद्ध्याऽर्थान्तरतैवेति भावः ।
 यद्यप्येतदनुमानं जीवैक्यसाधकत्वाज्जीवेश्वरयोरैक्यासाधकत्वात्प्रकृताननुगुणमिव प्रतिभाति ।
 तथाऽपि रामकृष्णादिशरीराणां लीलागृहीतेश्वरशरीराणामपि पक्षकोटिप्रविष्टत्वादभिमतार्थसिद्ध्या प्रकृतोपयोग इति हृदयम् ।

(6) (का.) अत्रैवानुमानान्तरमाह - किं चेति ॥ भोगोऽनुभवः ।
 आयतनमवच्छेदकम् ।
 तथाच देवदत्तभिन्नभोगानवच्छेदकत्वे सति देवदत्तभोगावच्छेदकानीत्यर्थः ।
 सत्यन्तव्यावृत्तिः स्वयमेव वक्ष्यते ।
 भोक्तुर्देवदत्तत्वसिद्धये विशेष्यभागः ।
 अथैवं भोक्त्रैक्यसिद्धावपि कथमभोक्तुरीश्वरस्य जीवाभेदसिद्धिरिति चेदत्राह ।
 ईश्वरस्यापि तत्तच्छरीरावच्छिन्नरसभोक्तृत्वात्तदैक्यसिद्धिरिति ।
 तच्चिन्त्यम् ।
 अस्मदादिशरीरस्येश्वरभोगं प्रति साधनविशेषत्वरूपावच्छेदकत्वासम्भवात् ।
 अन्यथा देवदत्तशरीरस्याप्युभयभोक्तृकत्वेन दृष्टान्तत्वानुपपत्तेः ।
 वस्तुतश्चैतनैक्ये लाघवरूपानुकूलतर्कबलात् सकलचेतनैक्यसिद्धावुद्धेश्यसिद्धिर्बोध्या ।
 जीवैक्यसिद्धिमात्रमत्रोद्देश्यमित्यप्याहुः ।

नन्वत्र विमतत्वावच्छेदकचैत्रादिशरीरत्वं विमतत्वमात्रं वा पक्षतावच्छेदकम् ।
 आद्ये सुप्तिमूर्च्छावस्थाविशिष्टशरीरे बाधः ।
 तत्काले साक्ष्यधीनसुखदुःखानुभवाङ्गीकारेऽपि शरीरस्य तदवच्छेदकत्वे प्रमाणाभावात् ।
 मृतशरीरे बाधतादवस्थ्याच्च ।
 एवं देवदत्तीयमृतशरीरे व्यभिचारः ।
 न च विशिष्टस्य विशेष्यानतिरिक्ततया विशेष्यीभूतशरीरे च कदाचित् साध्यसत्त्वान्नोक्तदोष इति वाच्यम् ।
 विशिष्टस्यौपाधिकत्वेन केवलविशेष्यानतिरिक्तत्वायोगात् ।
 न चैवं वृक्षः कपिसंयोगी एतत्वादित्यादावपि मूलावच्छिन्नवृक्षादौ साध्याभावसत्त्वाद्बाधादिप्रसङ्ग इति वाच्यम् ।
 वृक्षत्वावच्छेदेन साध्यतायामिष्टापत्तेः ।
 सामानाधिकरण्येन साधने तस्यादोषत्वात् ।
 द्वितीये तु विशिष्टस्य विमत्यविषयत्वेन पक्षबहिर्भूततया बाधानवकाषेऽपि तत्रैव व्यभिचारः ।
 न च मृतशरीरादौ चेष्टावत्त्वरूपशरीरत्वाभावादेव न व्यभिचार इति वाच्यम् ।
 चेष्टाशून्यसुप्तादिशरीरेऽसिद्धिवारणाय पूर्ववज्जातिरूपस्य चेष्टात्यन्ताभावानधिकरणत्वरूपस्य वा शरीरत्वस्य हेतुत्वावश्यकत्वादित्यत आह - भोगायतनत्वेति ॥ न बाध इति ॥ सुप्तादिशरीराणां भोगायतनत्वध्वंसाधिकरणत्वेन तदत्यन्ताभावानधिकरणत्वादिति भावः ।

स्यादेतत् ।
 देवदत्तयज्ञदत्तादीनां मिथो व्यावहारिकभेदाभ्युपगमेन यज्ञदत्तादिशरीराणां देवदत्तादिभिन्नभोगानवच्छेदकत्वाभावाद्बाधः ।
 न च पारमार्थिकत्वेन भेदो विशेषणीयः ।
 तथासति परमार्थतो देवदत्तभिन्नयज्ञदत्तादिसिद्धिप्रसङ्गेनापसिद्धान्तात् ।
 न च वस्तुतो देवदत्तभिन्नघटादिभोगानवच्छेदकत्वेनापि साध्यपर्यवसानान्न जीवभेदसिद्धिप्रसङ्ग इति वाच्यम् ।
 घटादिभोगस्य केनाप्यनभ्युपगतत्वेन तदवच्छेदकत्वस्याप्रसक्ततया तत्प्रतिषेधपर्यवसानानुपपत्तेरित्याशङ्कते - नन्विति ॥ ननूक्तसाध्ये सत्यन्तानुपादानान्नैतद्दोषावकाश इत्यत आह - एवकारेति ॥ प्रतिनियतभोक्तृकाणां मिथो विभिन्नभोक्तृकाणाम् ।
 तथाचैकैकशरीरे भोक्तृद्वयसिद्ध्याऽप्यनुमानपर्यवसानान्न तदैक्यसिद्धिरित्यर्थः ।
 न च सत्यन्तोपादानेऽपि शरीरानवच्छिन्नसौषुप्तिकभोगभोक्तुर्देवदत्ताभिन्नत्वासिद्ध्याऽर्थान्तरतादवस्थ्यमिति वाच्यम् ।
 सुप्तोत्थितस्य सुखमहमस्वाप्समित्यैक्यानुसन्धानविरोधेन तद्भेदासिद्धेरिति भावः ॥ परमतप्राप्तस्येति ॥ अयमाशयः ।
 सत्यन्तघटकभेदस्य पारमार्थिकत्वेन विशेषणेऽपि न जीवान्तरसिद्धिप्रसङ्गः ।
 निषेध्यत्वात् ।
 पारमार्थिकशुक्तिरजत नास्तीतिवत् ।
 न च भोगावच्छेदकत्वमात्रमत्र निषिध्यते, न तु भोक्त्रन्तरमिति वाच्यम् ।
 भोगावच्छेदकत्ववति विशिष्टनिषेधस्य भोक्त्रन्तरनिषेध एव पर्यवसानात् ।
 निषेधश्च परमतप्राप्तभोक्त्रन्तरप्रतीतिनिरासार्थमिति ॥ यत्तु देवदत्तातिरिक्तत्वेन पराभिमतचेतनभोगानायतनत्वे सति देवदत्तभोगायतनत्वमिह साध्यार्थ इति ।
 तन्न ।
 देवदत्तचेतनस्यैव तदतिरिक्तत्वेन पराभिमतत्वमङ्गीकर्तुर्मायावादिनो बाधप्रसङ्गात् ।
 उक्तरीत्यैवोपपत्तौ पराभिमतत्वपर्यन्तनिवेशवैयर्थ्याच्च ।

(6) (श.) - अभेदसाधकानुमानान्तरं प्रतिजानीते ॥ किञ्चेति ॥ अन्यच्चाभेदसाधकानुमानमुच्यत इत्यर्थः ।
 किं तदनुमानमित्यत आह - विमतानीति ॥ अत्र शरीरमात्रस्य पक्षत्वेदेवदत्तशरीरस्यापि पक्षत्वापत्त्यांऽशे सिद्धसाधनम् ।
 अतो विमतानीति ।
 अत्र विमतानां शरीराणां देवदत्तभोगसाधनत्वं देवदत्तस्य विमतशरीरगतत्वं विनानोपपन्नम् ।
 तच्चैकस्मिन् शरीरे भोक्तृजीवद्वयायोगेन तच्छरीरगतात्मैक्यं विना नोपपद्यत इति तत्सिद्धिः ।
 ननु सुप्तमूर्छितमृतशरीराणां पक्षत्वं वा न वा ।
 आद्ये तेषां भोगायतनत्वाभावेनांशे बाधः ।
 द्वितीये साध्याभाववत्सुतेषु हेतुवृत्त्या व्यभिचार इत्याशङ्कां परिहर्तुमाह - अत्रेति ॥ न बाधो न व्यभिचार इति ॥ पक्षत्वे बाधोऽपक्षत्वे व्यभिचार इति विवेकः ।
 तेषां तदानीं भोगायतनत्वाभावेऽपि कालान्तरे तत्सत्त्वेन तेषु भोगायतनत्वा भावाभावेन तदनधिकरणत्वरूपसाध्यस्य सत्त्वादिति भावः ।
 ननु सुखदुःखान्यतरसाक्षात्कारो भोगः ।
 स च मृतशरीरेऽनुपपन्नोऽपि सुप्तमूर्छितयोरुपपन्न एव ।
 एतावन्तं कालं सुखमहमस्वाप्समिति परामर्शेन सुप्तौ सुखसाक्षात्कारावगमात् ।
 `मोहस्तु परिशेषतः ।
 अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृते'रिति मोहे दुःखसाक्षात्कारावगमादिति चेन्न ।
 मुक्तियोग्यसौषुप्तिकसुखस्यात्मस्वरूपतया अन्यस्य प्राज्ञालिङ्गनमात्रजन्यत्वेन शरीरस्य तत्र हेतुत्वाभावात् ।
 एवं मौर्छिकदुःखस्य प्राक्तनताडनादिजन्यत्वेन मूर्छावस्थापन्नशरीरस्य तत्राहेतुत्वात् ।
 नन्वथाप्यंशे बाधस्य कथं दोषत्वम् ।
 वृक्षः कपिसंयोगीद्रव्यत्वादित्यत्र बाधितांशमूलभागमविहायाबाधितांशेऽग्रभागेऽनुमित्युत्पत्तिदर्शनादिति चेन्न ।
 तत्र वृक्षत्वसामानाधिकरण्येन क्वचिद्वृक्षांशे संयोगबुद्धेरुद्देश्यतया तदविघटकत्वेनांशे बाधस्यादोषत्वेऽपि प्रकृते विमतशरीरत्वसामानाधिकरण्येन सर्वशरीरेषु देवदत्तभोगसाधनत्वबुद्धेरुद्देश्यतया मृतादौ बाधस्य तदंशेऽनुमितिप्रतिबन्धकत्वेनोद्देश्यविघटकतया दोषत्वादिति ध्येयम् ।
 देवदत्तस्यैवेत्यत्रैवकारस्यावश्यकत्वमुतानावश्यकत्वम् ।
 आद्ये आह - नन्विति ॥ एवकारोहिदेवदत्तान्यस्य भोक्तृत्वं व्यावर्तयति ।
 तत्रान्यो नाचेतनः ।
 तस्य सर्वथाऽभोक्तृत्वेनाप्रसक्तत्वात् ।
 अप्रसक्तस्य प्रतिषेधायोगात् ।
 अतश्चेतन एवदेवदत्तान्य एवकारेण व्यावर्त्यो वाच्यः ।
 नच तद्युक्तम् ।
 अपसिद्धान्तादित्यर्थः ।
 इत्यत्र विद्यमानैवकारेण ।
 तद्व्यावर्त्यम् एवकारव्यावर्त्यम् ।
 तेन एवकारव्यावर्त्यचेतनान्तरकथनेन ।
 द्वितीये त्वाह - एवकारेति ॥ एवकारपरित्यागे चार्थान्तरादित्यन्वयः ।
 तदुपपादनाय सर्वेषामित्यादि ।
 तत्तच्छरीराणां तत्तदात्मभोगसाधनत्वेऽपि देवदत्तभोगसाधनत्वमप्युपपद्यते ।
 स्त्रीशरीराणां पुरुषभोगसाधनत्वस्य अश्वादिशरीणाणां साद्यादिभोगसाधनत्वस्य (* सादी = अश्ववाहः) च दर्शनादिति भावः ॥ प्रतिनियतभोक्तृकाणामिति ॥ प्रतिशरीरं भोक्तृत्वेन नियता य आत्मानस्तद्वतामपीत्यर्थः ॥ परमतप्राप्तस्यैवेति ॥ तत्ववादिमतेप्राप्तं यद्विमतभोक्तृशरीराणां भोक्त्रन्तरं देवदत्तान्योभोक्ताचेतनस्तद्व्यावर्तनादित्यर्थः ।
 चेतनान्तरस्य मयाऽनङ्गीकारान्नापसिद्धान्त इति भावः ।

(7) अपि च भेदो मिथ्या भेदत्वाच्चन्द्रभेदवत् ।
 मिथ्यात्वं चाधिष्ठानयाथात्म्यज्ञाननिवर्त्यत्वम् ।
 ननु प्रामाणिकाप्रामाणिकयोरनुगतसामान्याभावादसिद्धो हेतुरिति चेन्न ।
 भेदत्वेन प्रतीयमानत्वस्यैव हेतुत्वात् ।
 एवञ्च नोक्तदोषावकाशः ।
 प्रतीयमानत्वं हि प्रतीतिविषयत्वम् ।
 तच्च प्रतीतिसम्बन्धित्वम् ।
 प्रतीतिसम्बन्धश्च स्वरूपमेवेत्यत्र प्रामाणिकत्वानपेक्षणात् ।
 ननु प्रतीयमाने चन्द्रे चन्द्रान्तरस्यारोपितत्वेनारोपितानारोपितचन्द्रयोर्भेदस्य सत्यत्वेन (सत्त्वेन) साध्यविकलो दृष्टान्त इति चेन्न ।
 चन्द्रे भेदारोपमात्रेण (चन्द्रारोपमात्रेण) द्वित्वप्रतीत्युपपत्तौ चन्द्रान्तरस्यारोपाङ्गीकारे गौरवात् ।
 तर्हि शुक्तिकायां रजताभेदारोपमात्रेणेदं रजतमिति प्रतीत्युपपत्तौ रजतारोपाङ्गीकारो व्यर्थ इति चेन्न ।
 तत्राधिष्ठानस्यारजतत्वेन रजतोपस्थित्यर्थं रजतारोपाङ्गीकारात् ।
 रजतानुपस्थितौ रजताभेदारोपासम्भवात् ।
 नैवं प्रकृते ।
 अधिष्ठानस्य चन्द्रत्वात् ।

(7) (भ.) अनुमानान्तरं चाह - अपि चेति ॥ विमतः सर्वोऽपि भेद इत्यर्थः ।
 तथा च भेदाभेदयोर्विरुद्धत्वाभेदमात्रस्य मिथ्यात्वे सिद्धे जीवेश्वरादीनामभेद एव सिध्यति ।
 ततश्चाभेदे प्रमाणोपन्यासं प्रतिज्ञाय भेदमिथ्यात्वे प्रमाणोपन्यासोऽसङ्गत इति शङ्कानवकाश इति ध्येयम् ।
 नन्वत्र किन्नाम मिथ्यात्वम् ।
 असत्त्वं चेदपसिद्धान्तः ।
 अनिर्वाच्यत्वं चेदप्रसिद्धविशेषणता ।
 दृष्टान्ते साध्यवैकल्यं चेत्यत आह - मिथ्यात्वं चेति ॥ इदं चन्द्रभेदे सम्प्रतिपन्नमेवेति नोक्तदोषावकाश इति भावः ।
 नन्वात्मत्वशरीरत्वादिवन्नेदं भेदत्वं हेतूकर्तुं शक्यते ।
 तत्र पक्षदृष्टान्तयोरुभयोरपि प्रामाणिकत्वेनानुगतसामान्यसम्भवात् ।
 अत्र विमतभेदस्य व्यावहारिकत्वेन प्रामाणिकत्वेऽपि दृष्टान्तभूचन्द्रभेदस्य प्रातिभासिकतयाऽप्रामाणिकत्वेनोभयानुगत भेदत्वरूपसामान्यासम्भवादित्याशङ्क्य निषेधति ॥ प्रामाणिकाप्रामाणिकयोरिति ॥ भेदत्वेन प्रतीयमानत्वस्येति ॥ भेदत्वादित्यस्य भेदत्वेन प्रतीयमानत्वादित्यर्थस्य लक्षणया विवक्षितत्वादित्यर्थः ।
 कथमनेनापि कथितदोषनिरास इत्यत आह - प्रतीयमानत्वं हीति ।
 नन्वेवमप्युक्तदोषतादवस्थ्यमेव ।
 प्रतीतिविषयतायाः प्रतीतिजनककरणसन्निकर्षाश्रयताऽसम्भवादित्यत आह - तच्चेति ॥ सम्बन्धश्च स्वरूपमेवेति ॥ नातिरिक्तः संयोगरूपः किन्तु प्रतीतिव्यावर्तकतामात्ररूपः प्रतीत्युल्लेख्यत्वलक्षण एव विवक्षित इत्यर्थः ।
 एतच्च प्रामाणिकाप्रामाणिकयोः साधारण एवेति भावः ।
 शङ्कते - प्रतीयमानस्येति ॥ आरोपितानारोपितचन्द्रयोः प्रातिभासिकव्यावहारिकचन्द्रयोः ॥ भेदस्य सत्त्वेनेति ॥ मिथ्यात्वे तयोरन्योन्यतादात्म्यापातादिति भावः ।
 स्यादिदं साध्यवैकल्यं यदि चन्द्रान्तरमारोपितं पृथक् स्यात् ।
 न चैवम् ।
 चन्द्रान्तरारोपस्यैवाभावात् ।
 इमौ चन्द्रावित्यादिद्वित्वप्रतीतिस्त्वेकस्मिन्नेव चन्द्रे भेदारोपमात्रेणोपपद्यते ।
 चन्द्रान्तरारोपमङ्गीकुर्वताऽपि तयोर्भेदप्रतीतिरवश्यमङ्गीकरणीया ।
 इमौ भिन्नाविति प्रतीतेरप्यनुभवसिद्धत्वात् ।
 ततो वरमेकस्यैव भेदारोपस्य कल्पनम् ।
 अन्यथा गौरवप्रसङ्गात् ।
 तस्य च भेदस्य मिथ्यात्वात्क्वास्ति साध्यवैकल्यमिति परिहरति - चन्द्रे भेदारोपमात्रेणेति ॥ प्रतिबन्द्या शङ्कते - तर्हीति ।
 तथा च तत्र यथा रजताभेदवद्रजतस्याप्यारोपमङ्गीकृत्य प्रामाणिकत्वाद्गौरवं न दोषायेत्युच्यते ।
 तद्वदत्राप्युभयारोपाङ्गीकार एवोचितः ।
 तथा चारोपितानारोपितयोर्भेदस्य सत्यत्वात्साध्यवैकल्यं दुष्परिहरमिति भावः ।
 न चैवं भेदाङ्गीकारे आरोपितस्य मिथ्यात्वनियमात्क्वास्ति साध्यवैकल्यमिति वाच्यम् ।
 एकस्मिंश्चन्द्रे आरोपितभेदस्य मिथ्यात्वेऽप्यारोपितचन्द्रान्तरप्रतियोगिकानारोपितचन्द्रधर्मिकभेदस्य सत्यत्वात्तद्विवक्षयैवात्र साध्यवैकल्यकथनात् ।
 चन्द्रे आरोपितभेदस्यैवात्र दृष्टान्तत्वेन विवक्षितत्वान्न तत्र साध्यवैकल्यशङ्कावकाश इति चेत् तर्हि माऽस्त्वारोपितभेदे साध्यवैकल्यम् ।
 आरोपितानारोपितचन्द्रभेदे त्वनैकान्त्यं ब्रूम इत्याशयात् ।
 नन्वेवं चन्द्रान्तरारोपाङ्गीकारे तस्याधिष्ठानादिकं वाच्यम् ।
 ` अधिष्ठानं च सदृशतथ्यवस्तुद्वयं विना ।
 न भ्रान्तिर्भवति क्वापि स्वप्नमायादिकेष्वपि' इति वचनात् ।
 न चात्राधिष्ठानं तावदस्ति ।
 चन्द्रस्यारोप्याद्भिन्नतया दृश्यमानत्वात् ।
 न ह्यारोप्याद्भिन्नतया दृश्यमानस्याधिष्ठानत्वं सम्भवति ।
 न हि शुक्तिभ्रान्तौ रजताद्भिन्नतया दृश्यते ।
 न च चन्द्रातिरिक्तमधिष्ठानं सम्भवति ।
 नाप्यत्र प्रधानमस्ति ।
 सत्यस्य चन्द्रान्तरस्याभावात् ।
 परिदृश्यमानचन्द्रस्य च प्रधानत्वेऽधिष्ठानस्य पृथगवाच्यत्वात् ।
 तस्य चाभावात् ।
 अतः कथं चन्द्रान्तरारोपाङ्गीकार इति ।
 मैवम् ।
 तादात्म्यभ्रमस्यैवाधिष्ठानादिनियमेन भ्रमे तदभावात् ।
 अनवष्टब्धनयनरश्मिभिर्गृहीत एव चन्द्रोऽवष्टब्धनयनरश्मिभिर्व्यत्यस्तैः स्थानव्यत्यासेन पुनर्गृहीतो भवति ।
 एवं नयनद्वयेनैकचन्द्रविषय एव ज्ञानद्वये जाते प्रत्येतुः पुरुषस्येमौ चन्द्रावित्यादिभ्रान्तिर्जायते ।
 तत्र का नामाधिष्ठानाद्यपेक्षा ।
 न च ज्ञानद्वये विवदितव्यम् ।
 अनवष्टब्धनयननिमीलने चन्द्रद्वयप्रतीत्यभावात् ।
 तदनिमीलन एव तद्भावात् ।
 न चैवं प्रतीतिद्वयस्यापि सत्यचन्द्रविषयत्वेन प्रमात्वात्कथं भ्रान्त्यवकाश इति वाच्यम् ।
 उभयप्रतीतिप्रतिसन्धातुरविवेकेन जायमानाया अस्याः प्रतीतेस्ताभ्यां भिन्नत्वेन भ्रान्तित्वोपपत्तेः ।
 अत एव तृतीयप्रतीतौ भिन्नतया भासमानस्यारोपितत्वं तत्प्रतियोगिकसत्यचन्द्रानुयोगिकभेदस्य सत्यत्वेन साध्यवैकल्याद्युक्तिरपि युज्यत इत्यलम् ।
 प्रतिबन्दीं मोचयति - नेति ॥ तत्र इदं रजतमिति भ्रान्तिस्थले रजतारोपस्थितिरेव कुतोऽभ्युपेयेति चेत् ।
 तदभावे इदं रजतमिति सामानाधिकरण्यप्रतीतिरेव न स्यादिति ब्रूमः ।
 रजताभेदारोपेणैव तदुपपत्तिरित्युक्तमेवेति चेत्तत्राह - रजतानुपास्थिताविति ॥ अधिष्ठानस्य चन्द्रत्वादिति ॥ तथा चाधिष्ठानदर्शनेनैव चन्द्रोपस्थितिसम्भवेन तदर्थं चन्द्रान्तरारोपो नाङ्गीकार्यः ।
 भेदमात्रारोपस्तु चन्द्रान्तरारोपं विनाऽप्यधिष्ठानत्वेनोपस्थिते चन्द्रे युज्यत एवेति कथं साध्यवैकल्यचोद्यावकाश इति भावः ।

(7) (मु.) ॥ भेद इति ॥ किमत्र मिथ्यात्वम् ।
 व्यावहारिकत्वं चेत्साध्यवैकल्यं दृष्टान्तस्याप्रातिभासिकत्वं चेद्बाध इत्यतोऽनुगतसाध्यं निर्वक्ति ॥ मिथ्यात्वमिति ॥ हेतुश्च मिथ्याभेदत्वं चेदसिद्धिः सत्यभेदत्वं चेत्साधनवैकल्यम् ।
 न च सामान्यं हेतुः ।
 मिथ्यासत्ययोरनुगतसामान्याभावादित्याशङ्क्य समाधत्ते ॥ प्रामाणिकेति ॥ ननु प्रतीयमानत्वं प्रतीतिकर्मकारकत्वम् ।
 तदसतो न युक्तमित्यत आह - प्रतीयमानत्वं हीति ।
 तदपि करणसन्निकर्षगोचरत्वं नासतो युक्तमित्यत आह - विषयत्वं चेति ॥ सम्बन्धित्वं सम्बन्धाश्रयत्वम् ।
 तदप्ययुक्तमित्यत आह - सम्बन्धश्चेति ॥ असतः सकलशक्तिवैधुर्येऽपि ज्ञानं स्वसामग्रीमहिमायत्तस्वरूपसम्बन्धेन तद्विषयतयोच्यते ।
 तदेवासतः प्रतीयमानत्वमिति भावः ॥ आरोपितानारोपितचन्द्रयोरिति ॥ प्रातिभासिकव्यावहारिकयोरित्यर्थः ॥ सत्त्वेनेति ॥ अप्रातिभासिकत्वेनेत्यर्थः ॥ साध्यविकल इति ॥ व्यावहारिकभेदस्य सर्वस्य पक्षतावच्छेदकावच्छिन्नतया सन्दिग्धसाध्यक इत्यर्थः ॥ द्वित्वप्रतीत्युपपत्ताविति ॥ प्रतीतेर्द्वावित्याकारकत्वोपपत्तावित्यर्थः ।
 एवञ्च भेदस्यैवारोप्यत्वात्तस्यैव प्रातिभासिकत्वान्नोक्तदोष इति भावः ॥ गौरवादिति ॥ धर्मधर्मिणोर्धर्मिकल्पनस्य गुरुत्वादिति भावः ।
 यद्वा द्वित्वप्रतीत्युपपत्तौ द्वित्वमात्रस्य तन्त्रत्वोपपत्तौ द्वित्वविशिष्टधर्मिद्वयस्य तन्त्रत्वे गौरवादित्यर्थः ॥ इदं रजतमिति प्रतीत्युपपत्ताविति ॥ प्रतीतेरिदं रजतमित्याकारकत्वोपपत्ताविति व्याख्येयम् ।
 तेनाभेदारोपस्यैवेदं रजतमिति प्रतीतित्वेन तदुपपत्तावित्युक्तिः कथमिति शङ्कानवकाशः ॥ उपस्थित्यर्थमिति ॥ आरोपोपस्थित्योरेकत्वेऽपि तदर्थाङ्गीकारादित्युक्तिः सामान्यविशेषाभिप्रायेणेति ध्येयम् ।
 ननु स्मृत्युपस्थापितरजतस्य तादात्म्यारोपः किन्न स्यादिति चेन्न ।
 तादात्म्यापरोक्षे प्रतियोग्यपरोक्षस्यैव तन्त्रत्वात् ।

(7) (कु.) ॥ अपि चेति ॥ भेदमात्रस्य मिथ्यात्वे विश्वविष्णुभेदस्यापि मिथ्यात्वसिद्ध्या प्रकृतोपयोगः ।
 ननु मिथ्यात्वमसत्त्वं प्रातिभासिकत्वं वा यदि तदा बाधः ।
 विमतभेदस्य व्यावहारिकत्वाङ्गीकारात् ।
 आद्ये दृष्टान्ते साध्यवैकल्यं चेत्यत आह - मिथ्यात्वं चेति ॥ इदं च प्रातिभासिकव्यावहारिकसाधारणमिति नोक्तदोषावकाश इति भावः ।
 प्रामाणिकाप्रामाणिकयोर्व्यावहारिकप्रातिभासिकयोर्भेदत्वेन प्रतीयमानत्वमपि कथमुभयानुगतमित्यत आह - प्रतीयमानत्वं हीति ।
 भेदत्वेन प्रतीतिस्तत्सम्बन्धित्वं वा व्यावहारिक इव प्रातिभासिके सम्भवतीति भावः ॥ प्रतीयमान इति ॥ इमौ चन्द्रावित्यादौ प्रतीयमानस्य व्यावहारिकचन्द्रान्यचन्द्रस्य प्रातिभासिकत्वेन प्रातिभासिक व्यावहारिकयोः प्रतिवादिमते भेदस्य सत्त्वाद्दृष्टान्तः साध्यविकल इत्यर्थः ॥ चन्द्राभेदारोपमात्रेणेति ॥ इमौ चन्द्रावित्यत्र चन्द्रान्तरारोपं विनैव परिदृश्यमानचन्द्रे भेदारोपमात्रेण द्वित्वप्रतीत्युपपत्तौ न तत्कल्पना ।
 तथा प्रतिवादिमतेऽपि तत्र भेदो मिथ्येति न तद्दृष्टान्तः साध्यविकलः ।
 इदमत्र बोध्यम् ।
 अङ्गुल्यवष्टम्भादिनेमौ चन्द्रावयं चन्द्रो नेति स्थले चन्द्रत्वावच्छिन्नप्रतियोगिताको भेदस्तु नारोप्यते ।
 चन्द्रो नेत्यप्रतीतेः ।
 तादृशभेदारोपेणेमौ चन्द्राविति द्वित्वारोपोपपादानायोगाच्च ।
 किन्तु तत्तच्चन्द्रत्वावच्छिन्नप्रतियोगिताकस्तत्र तत्र प्रदेशविशेषवृत्तिचन्द्रवृत्तिव्यावहारिकचन्द्रांशे चन्द्रोपस्थितिसद्भावेऽपि प्रदेशान्तरवृत्तिचन्द्रांशे चन्द्रोपस्थित्यर्थं चन्द्रान्तरारोपोऽङ्गीकर्तव्य एव ।
 व्यर्थश्चायं चन्द्रान्तरारोपनिरासप्रयासः ।
 विरुद्धोत्पादे चन्द्रभेदारोपादेः (* `विरलादेश्चन्द्र एव चन्द्रारोपादेः' मु.) प्रसिद्धत्वेन चन्द्रभेदे मिथ्यात्वस्य प्रतिवादिनः सम्प्रतिपत्तेः ।
 न हि प्रतिवादी कस्मिन्नपि भेदे मिथ्यात्वं नाङ्गीकरोतीति युज्यते ॥ तर्हीति ।
 इदमापाततः ।
 यतो द्वैतवादिनस्तत्त्ववादिनश्च रजताभेदस्य रजतात्मकत्वेन तदारोपाङ्गीकारे रजतारोपो दुर्वारः ।
 नैय्यायिकस्य तु रजताभेदो रजतभेदाभावो वा रजतत्वं तदारोपेण रजतारोपस्य नान्यथासिद्धिः ।
 रजतत्वप्रकारकरजतोपस्थितिसमवहितभ्रमसामग्र्_या रजतत्वारोपः ।
 रजतत्ववृत्तिधर्मप्रकारकरजतोपस्थितिसमवहिततत्तत्सामग्7या रजतत्वारोपः ।
 उभयसत्त्वे उभयारोप इत्यङ्गीकारात् ।
 तेनारोपितानारोपितयोर्भेदस्य सत्यत्वानङ्गीकारेण तस्यैतद् ग्रन्थप्रवेशायोगाच्च ॥ तत्राधिष्ठानस्येति ॥ इदमपि पूर्वन्यायेनापाततः ॥ रजतानुपस्थिताविति ॥ इदमपि स्थवीयः ।
 व्यावहारिकरजतोपस्थित्यैव रजताभेदारोपसम्भवेन तदर्थं प्रातिभासिकरजतारोपानपेक्षणात् ।

(7) (हु.) भेदसामान्यमिथ्यात्वसाधकैकानुमानेनैव सर्वस्वाभिमतसिद्धिर्भवतीत्याशयेनाह - भेद इति ॥ अत्र चन्द्रभेदादिकमादायांशे सिद्धसाधनतावारणाय विमत इति पूरणीयम् ।
 पक्षतावच्छेदकं तु ब्रह्मज्ञानेतराबाध्यभेदत्वं बोध्यम् ।
 अवच्छेदकावच्छेदेन तस्यादोषत्वे तु भेदत्वमात्रं पक्षतावच्छेदकं बोध्यम् ।
 ननु मिथ्यात्वमसत्त्वं चेदपसिद्धान्तोऽर्थक्रियाकारित्वाद्बाधश्चेत्यत आह - मिथ्यात्वं चेति ॥ अधिष्ठानेति ॥ याथात्म्यस्वनिवर्तकज्ञानविषयोऽ(या)साधारणाकारो (* `याथात्म्यं स्वनिवर्तकज्ञानविषयोऽसाधारणाकारः ।
' इति पाठेन भाव्यमिति भाति ।
') ब्रह्मणि स्वरूपमेव तादृशमन्यत्र शुक्तित्वादिः(दि) ।
 तथा च ज्ञानत्वघटितधर्मावच्छिन्नकारणताकध्वंसप्रतियोगित्वं मिथ्यात्वमन्यत्स्वरूपकथनम् ।
 शुक्तिज्ञानाद्रजतमुत्सन्नमित्यादिप्रतीतिबलाद्रजतस्य नाशस्वीकारान्नासम्भवः ।
 मुद्गरपातादिना घटादेः कारणात्मनाऽवस्थानरूपतिरोभाव एव न ध्वंसः ।
 स तु ब्रह्मज्ञानेनैवेत्यङ्गीकारान्न तत्राव्याप्तिः ।
 आत्मविशेषगुणत्वेनोत्तरज्ञाननिवर्त्यपूर्वेच्छादौ मिथ्यात्वव्यवहारवारणाय ज्ञानत्वेत्यादि ।
 अधिकं तु द्वैतद्युमणिनामकतत्त्वोद्योतटिप्पण्यां मत्कृतायामनुसन्धेयम् ॥ भेदत्वेन प्रतीयमानत्वस्यैवेति ॥ ननु प्रतीयमानत्वं (प्रतीतिकर्मत्वं ) कथमप्रामाणिकस्य (* `प्रथमं प्रामाणिकस्य' मु.) घटते ? तस्य सकलसामर्थ्यरहितस्य कारकत्वगर्भोक्तकर्मत्वायोगादित्यत आह - प्रतीयमानत्वमिति ॥ भेदत्वप्रकारकप्रतीतेर्विषयतया हेतुत्वाङ्गीकारादित्यर्थः ।
 असतो भानाङ्गीकारान्नासिद्धिरिति भावः ।
 ननु प्रागभावादिषु भेदत्वभ्रमसम्भवात्तत्र व्यभिचारः ।
 न च तत्रापि मिथ्यात्वसत्त्वान्न व्यभिचार इति वाच्यम् ।
 तथात्वे प्रतीतिविषयत्वादित्येतावता पूर्तेरिति वैयर्थ्यादिति चेन्न ।
 तादात्म्यसंसर्गावच्छिन्नभेदत्वप्रकारतानिरूपितविषयताशालित्वस्य विवक्षितत्वात् ।
 भेदत्वेन प्रागभावादेरन्यत्रारोपमादाय व्यभिचारस्तदवस्थ इति न शङ्क्यम् ।
 तत्राप्यारोप्यमाणोऽयं भेद इति व्यवहारनिर्वाहाय तत्र (* `यत्र' इति भाव्यमिति भाति ।
) भेदत्वेन तादत्म्येन भेदभ्रमस्तत्रैव भेदत्वभानस्य स्वीकारात् ।
 तत्र चारोप्यमाणभेदस्य मिथ्यात्वेन व्यभिचारप्रसक्तेः (* `-अपिरसक्तेः' इति भाव्यमिति भाति ।
)।
 यत्र प्रागभावो मुख्यविशेष एव भासते तत्र तादात्म्येन भेदत्वं भेद एव भासते ।
 तादृशभ्रमेऽपि भेदानवगाहित्वं न स्वीक्रियते किन्त्वयं भेद इति व्यवहारबलाद्भेदस्य(स्यैव) प्रागभावे भ्रमः ।
 तत्रैव भेदत्वं भासत इत्याद्यभ्युपगमान्न कथमपि व्यभिचारशङ्का कालिकविषयत्वादिना भेदत्वेन ध्वंसज्ञानादिभेदमादाय (* `अध्यक्षज्ञानादिभानमादाय' हु.)व्यभिचारवारणाय तादात्म्यसंसर्गावच्छिन्नेति भेदत्वप्रकारतायां निवेशः ।
 विषयत्वं च ज्ञानासाधारणकारणकरणसन्निकर्षाश्रयत्वं कथमसतस्तद्युज्यत इत्यत आह - तच्चेति ॥ एतदपि तादृगेवेत्यत आह - स्वरूपमेवेति ॥ ज्ञानस्वरूपमेवेत्यर्थः ।
 अप्रामाणिकस्य स्वरूपायोगाद्विषयताज्ञानस्वरूपमेव तन्निरूपकत्वमेव विषयस्यायं विषय इति व्यवहारहेतुरिति मतेनेदम् ।
 तत्रेति बुद्धिस्थतन्निरूपकत्वपरामर्शः प्रामाणिकत्वानपेक्षणादित्याकरे तथा व्यवस्थापितत्वादिति भावः ।
 अप्रामाणिकत्वं च परमतेऽनिर्वचनीयस्यापीति न (* `मतेन' मु.) तस्यापसिद्धान्त इति भावः ॥ भेदस्य सत्त्वेनेति ॥ अन्यथाऽऽरोपितानारोपितयोरभेदापत्तेरित्यर्थः ।
 आरोपिते प्रतीयमानानारोपितभेदस्तदतिरिक्तोऽतः सत्य एवेत्यन्यत्र व्यवस्थापितम् ॥ चन्द्रभेदारोपमात्रेणेति ॥ चन्द्रस्वरूपमात्रसम्बन्धितया प्रतीयमानभेदमात्रारोपेण चन्द्रस्वरूपप्रतियोगिकभेदमात्रारोपेण चेत्यर्थः ।
 भेदो व्यासज्यवृत्तिरुभयधर्मो भवत्युभयत्र प्रतियोग्यनुयोगिभावोऽपीति (* `भावेति' मु.) पक्षे चन्द्रस्वरूप एव व्यासज्यवृत्तिभेदरूपधर्मस्य तत्प्रतियोगिकत्वानुयोगिकत्वयोरारोपे इमौ चन्द्रावयमस्माद्भिन्न इति प्रतीत्युपपत्तिश्चन्द्रान्तरारोपं विनैव घटते ।
 अव्यासज्यवृत्तितया भेदभाव(भान)पक्षेऽपि दोषवशात्प्रतियोगिकभेदव्यक्तेरन्यत्रानुभूयमानायाः तच्चन्द्रसंसृष्टतयाऽऽरोपितत्वमात्रेण तादृशव्यवहाराद्युपपत्तेर्न प्रदेशान्तरे चन्द्रस्यारोप इति भावः ।
 नन्वेतस्मिन्नेवैतद्भेदस्यारोपेऽयमेतस्माद्भिन्न इति प्रतीत्यापत्तिर्न चन्द्रतद्व्यक्तिकत्वेऽपि (* `-व्यक्तित्वेऽपि' हु.) तदानीं दोषवशाद्भेदस्य भासमानत्वेन रूपद्वयस्य प्रतियोगितावच्छेदकत्वानुयोगितावच्छेदकत्वाभ्यां पृथगुल्लेखात् चन्द्रस्वरूपधर्मस्य (* `चन्द्रत्वरूप-' मु.) (उक्त)प्रतियोगितावच्छेदकत्वेनाभानान्नायं चन्द्र इति न चन्द्रश्चन्द्र इति प्रतीत्यापत्तिः ।
 न च चन्द्रान्तरस्यारोपः प्रदेशविशेषे कुतो न स्वीक्रियत इति वाच्यम् ।
 तथात्वेऽनुभूयमानचन्द्रस्यारोपो वा स्मर्यमाणस्यारोपो वा ।
 नाद्यः ।
 अत्र भासमानचन्द्रस्य देशान्तरे संसर्गारोप एव वाच्यः ।
 अनुभूयमानस्थले संसर्गारोपेण सर्वव्यवहारसम्भवे उभयारोपकल्पने गौरवात् ।
 तत्र चात्र चैकचन्द्रस्यैव दीर्घतया भानप्रसङ्गाच्च ।
 समीपस्थयोराम्रपनसयोरेक एवायं महाचूत इतिवत् ।
 किञ्च नेमौ चूतौ किन्त्वनयोरन्यतरश्चूतोऽयं तु पनस एवेति प्रकारे बाधाभावस्य चूततादात्म्यमात्रे बाधस्य ग्रहवत् न तत्र चन्द्रः किन्त्वत्रैवेति बाधोदयापत्तिर्नत्वेक एवायं चन्द्रो न द्वाविति भेदमात्रस्य बाधोत्पत्तिः ।
 स्मर्यमाणारोपोऽपि संयोगेन न घटते ।
 चन्द्रानुभवसामाग्र्या बलवत्यास्तत्र सत्त्वे तत्र स्मृतिरूपारोपहेतोरेव दुर्घटत्वात् ।
 स्मृतिरूपसन्निकर्षाधीनारोपस्थले आरोप्यविषयताया(याम्) इमं साक्षात्करोमीत्यनुव्यवसायनिर्वाहकत्वादर्शनेन चन्द्रौ साक्षात्करोमीति प्रतीत्यनिर्वाहप्रसङ्गश्च ।
 स्मर्यमाणरजतारोपस्थले तत्तादात्म्येन प्रतीयमाने विद्यमाना लौकिकविषयतयैव (* `-विषयतैव' इति पाठेन भाव्यमिति भाति ।
) रजतं साक्षात्करोमीति प्रतीतेर्निर्वाहिका ।
 न चात्र स्मर्यमाणचन्द्रतादात्म्येन प्रतीयमानं चाक्षुषविषयभूतं किञ्चिद्वर्तते ।
 शुद्धप्रदेशविशेष एव चन्द्रान्तरभानात् (* `चन्द्रान्तराभावात्' मु.) ।
 तस्य चन्द्रभिन्नत्वेनानुभवात् ।
 तदुपपत्तिश्चन्द्राधिकरणप्रदेशेऽप्यङ्गुल्यवष्टम्भेन भेदभ्रमात् ।
 एतेन दोषविशेषबलादेव तादृशप्रतीतिनिर्वाहकविषयता कल्प्यते ।
 अन्यथा भेदस्वरूपमिथ्यात्वसिद्धये स्मर्यमाणारोपस्यैव वक्तव्यतया तवाप्यगतेरिति निरस्तम् ।
 तादात्म्येन चन्द्रान्तराभानेऽधिष्ठानानिरूपणात् प्रदेशान्तरे चन्द्रप्रतीतेरुक्तरीत्यैवोपपत्तौ तदारोपे बीजाभावाच्च पूर्वोक्तबाधानुपपत्तिश्च ।
 तस्माद्भेदारोपमात्रादेव सम्भवे चन्द्रान्तरारोपकल्पना वृथैव ।
 अत्र यद्यप्येतच्चन्द्रभेदस्य चन्द्रभिन्नेष्वनुभूयमानस्य चन्द्रे संसर्गारोप एव वाच्यः ।
  इत्थं च तस्य सत्यतया दृष्टान्तत्वायोगेन कथं तत्पक्षोत्कीर्तनमिति भाति ।
 तथाऽपि संसृष्टरूपेण तस्य मिथ्यात्वदृष्टान्ततोपपत्तिः ।
 वस्तुतस्तु व्यासज्यवृत्तिभेदमात्रमारोप्यते ।
 स च दोषविशेषवशात्साक्षात्कारित्वप्रतीतिनिर्वाहकविषयतावान्स्वरूपतो मिथ्या च भवतीत्यत्रैव ग्रन्थकृतो निर्भर इति द्रष्टव्यम् ।
 यद्यपि पूर्वदृष्टचैत्रे कालान्तरे नायं चैत्र इति भेदभ्रमाणां निर्विवादतया तद्विषयाणां दृष्टान्तत्वसम्भवादुक्तप्रयासवैफल्यं भाति ।
 तथाऽपि सति सम्भवे कण्ठोक्तपरित्यागे बीजाभावाच्छिष्यव्युत्पादनार्थत्वाच्च न प्रयासवैफल्यम् ।
 विरहिणश्चन्द्रे चन्द्रभेदभ्रमे निर्विवाद इत्युक्तप्रयासवैफल्यमित्येके ॥ तर्हीति ।
 ननु द्वैताद्वैतवादिनोर्मते रजताभेदस्य रजतस्वरूपत्वेन तदारोपे तदारोपः प्राप्त एवेति निर्दलेयं शङ्केति वाच्यम् ।
 रजतस्याभेद इत्यादिप्रतीतिनिर्वाहाय कल्पितभेदस्य विशेषस्य वा यथामतं स्वीकृत्वेनोक्तशङ्कोपपत्तेः ।
 तत्राप्यारोप्यस्य रजतस्याधिष्ठानत्वेनेति, तत्र रजतस्याधिष्ठानत्वेनेत्यपि क्वचित्पाठः ।
 तत्रायमर्थः ।
 इदं रजतं रजतमिदमित्याकारद्वयोल्लोखाच्छुक्तिकायां रजततादात्म्यस्येव रजते शुक्तितादात्म्याध्यासोऽप्यावश्यकः ।
 तथा चोक्तं सङ्क्षेपशारीरके `इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतवस्त्विद'मिति ॥ तथा च शुक्तितादात्म्याधिष्ठानतया रजतभानार्थं भ्रमे रजतस्यापि शुक्त्यंशे आरोप इत्यर्थः ।
 उपस्थितिपदार्थो भानम् ।
 रजतस्यानधिष्ठानत्वेति, तत्रारजतस्याधिष्ठानत्वेऽपीति च पाठो युक्तः ।
 तथात्वे चायमर्थो युक्तः ।
 चन्द्रान्तरारोपानङ्गीकारस्तत्र चन्द्रस्यैवाधिष्ठानत्वेन तत्रोक्तरीत्या भेदारोपादिना द्वौ चन्द्रावित्यादिप्रतीतिसम्भवात् ।
 प्रकृते च रजतस्यानधिष्ठानत्वेन शुक्तेरेवाधिष्ठानतया लौकिकसन्निकर्षेण तज्ज्ञानायोगात् ।
 इदं रजतमिति व्यवहारानिर्वाहकज्ञानस्य तत्काले सिद्ध्यर्थं तत्काले रजतारोपाङ्गीकारस्य आवश्यकत्वान्न तत्प्रतिबन्दिरिति भावः ।
 रजतारोपानङ्गीकारे न केवलमिदं रजतमिति व्यवहारानुपपत्तिः किन्तु भवदभिमतरजततादात्म्यत्वावच्छिन्नारोपोऽपि न सिद्ध्यतीत्याह - रजतानुपस्थिताविति ॥ उक्तभ्रमस्थले रजतविषयकज्ञानाभावेऽङ्गीक्रियमाणे भ्रमस्य रजताविषयकत्वेति यावत् ॥ रजताभेदेति ॥ रजतप्रतियोगिकाभेदत्वेन तज्ज्ञानासम्भवादित्यर्थः ।
 न चेष्टापत्तिः ।
 केवलतादात्म्यादिज्ञानेन रजतार्थिप्रवृत्त्यनुपपत्तिः(त्तेः) ।
 न च तर्ह्यभेदांश एव प्रतियोगितया भासते(तां) शुक्तिकायां तदारोपो निष्फल इति वाच्यम् ।
 भ्रमे रजतभानस्यावश्यकत्वे शुक्तिकायामेवाभेदसंसर्गेण भानकल्पन एव लाघवमधिकविषयत्वाकल्पनात् ।
 लाघवेन तस्य (एव) रजतार्थं प्रवृत्तौ हेतुत्वाच्च ।
 न तादात्म्यस्य शुक्त्यंशे प्रकारत्वमङ्गीकृत्य तत्र रजतस्य प्रकारत्वकल्पने लाघवम् ।
 रजततदभेदयोरभेदशुक्तिकयोश्च संसर्गभानावश्यकतयाऽधिकविषयताकल्पनाप्रयुक्तगौरवं तादृशस्य प्रवृत्तकत्वानुपपत्तिश्चेति (* `प्रवर्तकत्व-' इति पाठेन भाव्यम् ।
) भावः ।
 एतद्वाक्यस्य पूर्वं रजतानुपस्थितौ रजताभेदारोपासम्भवात्पूर्वं रजतारोपावश्यक इत्यर्थभ्रान्त्या पूर्वं रजतारोपाभावेऽपि व्यावहारिकरजतोपस्थितिमात्रेण तादृशतादात्म्यभानसम्भवान्न रजतारोप आवश्यक इति दूषणभ्रमेण मनःखेदो न कार्यः ।
 अस्मदुक्तवाक्यार्थे उक्तदूषणासंस्पर्शात् ।
 रजतार्थिप्रवृत्त्यादिहेत्वारोपे रजतप्रतीतिर्नास्तीति वदन्तं प्रति तत्पूर्वं रजतारोपोपपादनस्याकिञ्चित्करत्वादप्रसक्तत्वाच्चोक्तवाक्यस्य तादृशार्थकत्वतात्पर्यभ्रमस्यैवातिसाहसिकत्वादिति दिक् ।

(7) (का.) सर्वाभेदसिद्धये भेदमात्रमिथ्यात्वानुमानमाह - भेद इति ॥ विमत इत्यादिः ।
 तेन न पूर्ववदंशतश्चन्द्रभेदे सिद्धसाधनम् ।
 नन्वत्र मिथ्यात्वमसत्त्वं चेदपसिद्धान्तः, जगतः सदसद्विलक्षणत्वाङ्गीकारादथ आह - मिथ्यात्वं चेति ॥ यद्वा सदसद्विलक्षणत्वरूपमिथ्यात्वसाधने परं प्रति साध्याप्रसिद्धिरत आह - मिथ्यात्वं चेति ॥ यद्वा यदि सत्त्वानधिकरणत्वं मिथ्यात्वं तदा निर्धर्मकब्रह्मवत् सद्रूपस्यापि भेदस्य सत्त्वाधिकरणत्वनिषेधसम्भवादर्थान्तरमित्यत आह - मिथ्यात्वं चेति ॥ यद्वा बाध्यत्वमेव हि मिथ्यात्वम् ।
 तच्चान्याथा विज्ञातस्य सम्यग्विज्ञातत्वमेवेति सिद्धसाधनम् ।
 क्षणिकत्वादिना विज्ञातस्य जगतः स्थायित्वादिना विज्ञातत्वाभ्युपगमादत आह - मिथ्यात्वं चेति ॥ यद्वाऽज्ञानतत्कार्यान्यतरत्वरूपमिथ्यात्वे साध्ये परं प्रति दृष्टान्तस्य साध्यवैकल्यं, तन्मतेऽत्यन्तासतश्चन्द्रभोदादेरज्ञानतत्कार्यन्तर्भावाभावादत आह - मिथ्यात्वं चेति ॥ निवर्त्यत्वमात्रस्य मुद्ररप्रहारदिना घटादेरिव सत्त्वपक्षेऽप्युपपत्तेर्ज्ञाननिवर्त्यत्वमिति ॥ एतदप्युत्तरज्ञाननिवर्त्यपूर्वज्ञानवत् सत्त्वाविरोधीत्यधिष्ठानपदम् ।
 अधिष्ठानयाथात्म्यज्ञाननिवर्त्यस्य शुक्तिरजतादेः सत्त्वादर्शनेऽपि तद्भ्रमनिवर्त्यस्य सत्त्वसम्भवादर्थान्तरमित्यतोयाथात्म्येति ॥ न च मायिमते चन्द्रभेदादेः प्रातिभासिकत्वेन निवृत्तिसम्भवेऽपि विद्धां तिमते तुच्छत्वेन तस्य निवृत्त्ययोगाद्दृष्टान्तवैकल्यमिति वाच्यम् ।
 यस्तन्निवर्त्यत्वं तदधीनसिद्धिकाभावप्रतियोगित्वम् ।
 चन्द्रभेदादेरभावश्चन्द्रैकत्वज्ञानाधीनसिद्धिक इत्यदोषः ॥ प्रामाणिकेति ॥ सिद्धान्ते सदसत्साधारणभेदत्वधर्मस्याप्रसिद्धत्वेनेत्यर्थः ॥ असिद्धो हेतुरिति ॥ उभयानुगतभेदत्वस्य हेतुत्वे हेत्वप्रसिद्धिः ।
 सन्मात्रवृत्तिभेदत्वस्य हेतुत्वे दृष्टान्तासिद्धिः ।
 दृष्टान्तवृत्तिभेदभ्रमविषयत्वरूपभेदत्वस्य हेतुत्वे च स्वरूपासिद्धिरित्यर्थः ।

ननु प्रतीयमानत्वं हि प्रतीतिकर्मत्वम् ।
 तस्य च प्रतीतिजन्यफलाश्रयत्वरूपस्य न सदसत्साधारण्यमत आह - प्रतीविषयत्वमिति ॥ एतदेव प्रतीतिकर्मत्वं, न तूक्तरूपम् ।
 ज्ञाततारूपफलस्य निरस्तत्वेनासम्भवादिति भावः ।
 ननु प्रतीतिजनकसन्निकर्षादिमत्त्वरूपं तद्विषयत्वमपि न सदसत्साधारणमित्याशङ्क्याह - तच्चेति ॥ ननु सम्बन्धस्य सम्बन्धिसत्तासापेक्षत्वात् कथमसतश्चन्द्रभेदादेः प्रतीतिसम्बन्धित्वमत आह - सम्बन्धश्चेति ॥ स्यादेवं यद्यन्यः सम्बन्धः स्यात् ।
 अयं तु प्रतीतेः स्वरूपमेव ।
 तस्य तु विषयसत्तानिरपेक्षत्वान्न दोष इति भावः ।

स्यादेतत् ।
 परमते चन्द्रभेदस्य पारमार्थिकत्वाद्दृष्टान्तस्य साध्यवैकल्यम् ।
 न चैवं चन्द्रभेदप्रतीतेः प्रमात्वप्रसङ्गः ।
 चन्द्रभिन्नत्वेन भासमानचन्द्रस्यारोपितत्वेन विशिष्टविषयबाधात् ।
 चन्द्रभेदस्यैवारोपितत्वे चन्द्रद्वित्वप्रतीतेरनुपपत्तेः ।
 तस्या विभिन्नवस्तुविषयकापेक्षाबुद्धिसापेक्षत्वादित्याशङ्कते - नन्विति ॥ सत्यत्वेनेति ॥ अन्यथाऽरोपितानारोपितयोरैक्यप्रसङ्ग इति भावः ।
 द्वित्वप्रतीतिं प्रति न वस्तुतो विभिन्नवस्तुविषयकबुद्धिर्हेतुः ।
 दूरस्थवृक्षयोर्भेदाग्रहेऽपि द्वित्वप्रतीत्यापत्तेः ।
 अपि तु भेदग्रह एवेति चन्द्रेचन्द्रभेदारोपाङ्गीकारे नानुपपत्तिः ।
 न च चन्द्रान्तरस्यारोपाङ्गीकारेऽपि बाधकाभावः ।
 चन्द्रश्चन्द्रसिन्न इत्यादौ चन्द्रभेदस्यैव साक्षाद्धर्मिविशेषणत्वापेक्षया तादात्म्येन चन्द्रभिन्नस्य तथात्वे विषयताधिक्येन गौरवादित्याशयेन समाधत्ते ॥ चन्द्रभेदारोपमात्रेणेति ॥ अत्र प्रतिबन्दीमाशङ्कते - नन्विति ॥ यद्यपि रजतारोपापेक्षया विषयताधिक्येन रजताभेदारोप एव गौरवन्नैतत्प्रतिबन्द्यवकाशः ।
 न च धर्मिकल्पनातो धर्मकल्पना लधीयसीति शङ्क्यम् ।
 धर्मिघटितधर्मकल्पनायाः लघुत्वायोगात् ।
 तथापि रजताभेदस्य रजतत्वरूपत्वेन तद्विशिष्टारोपात् तदारोपे लाधवमित्यभिप्रायः ।
 रजतत्वस्य च न स्वरूपेणारोप्यत्वम् ।
 मिथ्यैव रजतं प्रत्यभादित्यनुस्मृमिविरोधात् ।
 रजताभेदत्वेनारोपे च रजतारेपस्यावश्यकतेत्याह - तत्रेत्यादिना ॥ रजताभेदारोपाङ्गीकारेऽपि तत्कारणीभूतप्रतियोग्युपस्थित्यर्थरजतारोपोऽवश्यमङ्गीकार्यः ।
 न चैवं चन्द्रान्तरारोपस्याप्यावश्यकता ।
 अधिष्ठानभूतचन्द्रप्रतीतेरेव प्रतियोगिज्ञानत्वात् ।
 न चैवमिहाप्यापणस्थरजतोपस्थित्यैव निर्वाहः ।
 तथासति तदभेदस्यैवारोप्यत्वापत्त्या दर्शितानुस्मृतिविरोधात् ।
 तथाचावश्यकरजतारोपेणैवोपपत्तौ तदभेदारोपाङ्गीकारे वैयर्थ्यं गौरवं चेत्याशयः ।

(7) (श.) अपिचेत्येतत्किञ्चेतिवत् व्याख्येयम् ॥ भेद इति ॥ विमतभेद इत्यर्थः ।
 अन्यथा चन्द्रभेदस्यापिपक्षत्वापत्त्यांशे सिद्धसाधनात् ।
 अत्र भेदस्य मिथ्यात्वे सिद्धे तद्विरुद्धोऽभेद एव सिध्यतीति ध्येयम् ।
 ननु किमिदं मिथ्यात्वम् ।
 असत्त्वमनिर्वचनीयत्वं वा ।
 नाद्यः ।
 अपसिद्धान्तात् ।
 नद्वितीयः ।
 तस्य कुत्राप्यप्रसिद्धत्वेनाप्रसिद्धविशेषणत्वादित्यत आह - मिथ्यात्वं चाधिष्ठानेति ॥ आरोपाधिष्ठानशुक्तिविषययथार्थज्ञाननिवर्त्यत्वं शुक्तिरजते प्रसिद्धमिति भावः ।
 नन्वत्र विमतभेदत्वं हेतुश्चन्द्रभेदत्वं वा ।
 नाद्यः ।
 दृष्टान्ते विमतभेदत्वाभावेन साधनवैकल्यापातात् ।
 न द्वितीयः ।
 हेतोः पक्षे अभावेन स्वरूपासिद्धेः ।
 ननु यथा पर्वतीयधूमस्य हेतुत्वे साधनवैकल्यं महानसीयधूमस्य हेतुत्वे स्वरूपासिद्धिरिति शङ्कापरिहरायोभयधूमानुगतं धूमत्वसामान्यं हेतूक्रियते तथेहापि विमतभेदचन्द्रभेदानुगतं भेदत्वसामान्यं हेतुरिति चेन्न ।
 तत्रोभयोरपि धूमयोः प्रामाणिकत्वेनोभयधूमानुगतसामान्यसम्भवात् ।
 प्रकृते च विमतभेदस्य प्रामाणिकत्वेन चन्द्रभेदस्याप्रामाणिकत्वेन प्रामाणिकाप्रामाणिकानुगतभेदत्वसामान्याभावेनासिद्धिप्रसङ्गादित्याशङ्क्य निराकरोति ॥ नन्विति ॥ व्यावहारिकत्वेन वा तत्ववादिरीत्या वा विमतभेदस्याप्रामाणिकत्वोक्तिः ॥ एवं चेति ॥ भेदत्वेन प्रतीमानत्वस्योभयसाधारण्यादिति भावः ।
 ननु प्रतीयमानत्वं नामप्रमारूपप्रतीतिगोचरत्वम् इदमेव प्रामाणिकत्वमित्यप्रामाणिकचन्द्रभेदेकथमेतत्सम्भवतीत्यत आह - प्रतीयमानत्वं हीति ॥ प्रतीतिविषयत्वं नतु प्रमारूपप्रतीतिविषयत्वम् ।
 येनोक्तदोष इति भावः ।
 ननु यत्सन्निकृष्टकरणेन यज्ज्ञानं जायते स तस्य विषयो भवति ।
 तथाचात्र प्रतीतिविषयत्वं प्रतीतिजनककरणसन्निकृष्टत्वं वाच्यम् ।
 करणसन्निकर्षश्च संयोगादिरूपः ।
 स च प्रामाणिकस्यैवेत्यप्रामाणिकेकथमेतत्सम्भवतीत्यत आह - तच्चेति ॥ प्रतीतिसम्बन्धित्वं नतु प्रतीतिजनककरणसन्निकृष्टत्वम् ॥ येनोक्तदोष इति भावः ।
 ननु प्रतीत्यासाकं सम्बन्धस्य संयोगसमवाययोरन्यतरत्वावश्यंभावादुक्तदोषतादवस्थ्यमित्यत आह - सम्बन्धश्चेति ॥ स्वरूपमेव नातिरिक्तः संयोगादिः ।
 अतिरिक्तसम्बन्धमनपेक्ष्य विशिष्टधीनियामकत्वं स्वरूपसम्बन्धत्वम् ।
 नन्वप्रामाणिकत्वेऽसत्त्वापत्त्या स्वरूपसम्बन्धोऽपि कथमिति चेन्न ।
 प्रतीयमानचन्द्रभेदस्य प्रातिभासिकत्वाङ्गीकारेणासत्त्वानङ्गीकारादिति भावः ॥ इत्यत्रेति ॥ एवं निरुक्तभेदत्वेन प्रतीयमानत्वे उक्तरीत्या प्रामाणिकत्वानपेक्षणादित्यर्थः ।
 चन्द्रयोर्भेदस्य सत्यत्वं कुत इत्यत आह - आरोपितानारोपितेति ॥ आरोपितानारोपितचन्द्रयोर्भेदस्य मिथ्यात्वे तयोरन्योन्यं तादात्म्यं स्यात् ।
 नचैतद्विरुद्धधर्माधिकरणयोः सम्भवतीति भावः ।
 उभयोरप्यारोपितत्वं किं नाङ्गीक्रियत इत्यत उक्तम् ॥ प्रतीयमाने चन्द्रे चन्द्रान्तरस्यारोपितत्वेनेति ॥ चन्द्रान्तरस्यानारोपितत्वेऽङ्गुल्यवष्टम्भाभावेऽपि प्रतीतिः स्यादिति भावः ।
 स्यादिदं यदि चन्द्रान्तरस्यारोपितत्वं स्यात् ।
 नचैतदस्ति ।
 नच तथात्वे इमौचन्द्राविति द्वित्वप्रतीत्यनुपपत्तिः ।
 चन्द्रान्तरस्यारोपितस्यैवानङ्गीकारादिति वाच्यम् ।
 एकस्मिन्नेव चन्द्रे भेदारोपमात्रेण द्वित्वप्रतीत्युपपत्तेः ।
 नच चन्द्रान्तरस्यैवारोपः किं नस्यादिति वाच्यम् ।
 धर्मिकल्पनातोवरं धर्मकल्पनमिति न्यायेन सिद्धेचन्द्रे भेदरूपधर्ममात्रारोपाङ्गीकारेण द्वित्वप्रतीत्युपपत्तौ चन्द्रान्तराख्यधर्म्यारोपे गौरवादिति परिहरति - चन्द्रे भेदारोपमात्रेणेति ॥ चन्द्रे चन्द्रप्रतियोगिकभेदारोपमात्रेणेत्यर्थः ।
 प्रतिबन्द्या शङ्कते - तर्हीति ॥ यदि चन्द्रे भेदारोपमात्रेण द्वित्वप्रतीत्युपपत्त्या चन्द्रान्तरारोपो नाङ्गीक्रियते तर्हि शुक्तिकायां रजतारोपो न स्यात् ।
 नच तथात्वे इदं रजतमिति प्रतीत्यनुपपत्तिः ।
 शुक्तिकायां रजताभेदारोपमात्रेण तदुपपत्तेः ।
 नच रजतस्यैवारोपः किं नस्यादिति वाच्यम् ।
 धर्मिकल्पनातोवरं धर्मकल्पनमिति न्यायेन सिद्धेशुक्तिकाशकलेरजताभेदाख्यधर्मारोपमात्रेण तादृशप्रतीत्युपपत्तौ रजताख्यधर्म्यारोपाङ्गीकारे गौरवात् ।
 यदि तत्र प्रामाणिकत्वेन गौरवस्यादोषत्वमङ्गीकृत्य रजतारोपोऽङ्गीक्रियते तर्ह्यत्रापि तथैवाङ्गीकृत्य चन्द्रे चन्द्रान्तरस्यैवारोपोऽङ्गीकार्य इति भावः ।
 प्रतिबन्दीं मोचयति - नेति ॥ तत्र उदाहृतस्थले ।
 अधिष्ठानज्ञानेनैवरजतोपस्थितिः किं न स्यादित्यत उक्तमधिष्ठानस्यारजतत्वेनेति ।
 आरोपाधिष्ठानस्य शुक्तित्वेन तद्दर्शने रजतोपस्थित्ययोगादित्यर्थः ।
 रजतोपस्थितिरेव कुत इत्यत आह - रजतानुपस्थिताविति ॥ सप्रतियोगिकपदार्थज्ञानेप्रतियोगिकज्ञानस्य कारणत्वेन रजतरूपप्रतियोगिज्ञानाभावेतत्प्रतियोगिकाभेदारोपासम्भवादित्यर्थः ।
 यद्यभेदस्य सप्रतियोगिकपदार्थत्वेन प्रतियोग्युपस्थित्यर्थं रजतारोपोऽङ्गीक्रियते ।
 तर्हि भेदस्यापि तथात्वेन प्रतियोग्युपस्थित्यर्थं चन्द्रान्तरारोपोऽङ्गीकार्य इत्यत आह - नैवमिति ॥ यथा रजतोपस्थित्यर्थं रजतारोपोऽङ्गीकार्यः तथा चन्द्रोपस्थित्यर्थं चन्द्रान्तरारोपोऽङ्गीकार्यो नेत्यर्थः ।
 कुत इत्यत आह - अधिष्ठानस्येति ॥ तत्र ह्यधिष्ठानस्य शुक्तित्वेन तद्दर्शने रजतोपस्थितेरसम्भवाद्रजतारोपोऽङ्गीक्रियते ।
 अत्र तु भेदारोपाधिष्ठानस्य चन्द्रत्वेन तद्दर्शने चन्द्रस्योपस्थितत्वेन तदर्थं चन्द्रातरारोपो व्यर्थ इति भावः ।

(8) अपि च ।

 विमतं (तत्त्वतः) तात्विकस्वान्तर्भेदहीनं मतत्वतः ।
 यदित्थं तत्तथा यद्वत्खं तथेदं ततस्तथा ॥
यथा गगनमन्योन्यपारमार्थिकभेदशून्यैर्घटमठाद्याकाशैः परमार्थतो न भिद्यते ।
 तथा जगदाख्यः पदार्थोऽप्यन्योन्यं पारमार्थिकभेदशून्यैः स्वैकदेशैर्घटादिभिः परमार्थतो न भिद्यत इति ।
 ननु घटमठाद्याकाशानामन्योन्यं पारमर्थिकभेदाङ्गीकारात्साध्यविकलो दृष्टान्त इति चेन्न ।
 तेषां स्वभावतो भिन्नत्वे घटादिसम्बन्धात्प्रागपि भेदप्रतीतिः स्यात् ।
 घटादीनां व्यञ्जकत्वाददोष इति चेन्न ।
 दीपादिव्यञ्जकाभावेऽपि कदाचित्स्पार्शनेन घटप्रतीतिदर्शनात् ।
 कुङ्कुमगन्धस्य घृतमिवैतद्व्यञ्जकम् ।
 तथा च घटाद्यभावेऽपि न प्रतीयते भेद इति चेन्न ।
 तत्र पृथिवीत्वेन गन्धसिद्धावनुद्भूतगन्धाङ्गीकारे गौरवात् घृतमभिव्यञ्जकमङ्गीक्रियते ।
 न चैवं प्रकृते ।
 आकाश भेदे मानाभावात् ।

(8) (भ.) अथाचेतनानां परस्परभेदाभावेऽनुमानं कारिकया सङ्गृह्णाति ॥ विमतमिति ॥ केचित्तु चेतनाचेतनजातं सर्वमपि विमतपदार्थ इत्याहुः ।
 तच्चिन्त्यम् ।
 पूर्वपक्षग्रन्थे वा सिद्धान्तग्रन्थे वाऽचेतनवाचकघटादिपदानामेव श्रवणेनोभयवाचकपदाश्रवणात् ।
 असङ्गतिपरिहारस्य च सङ्गतत्वप्रदर्शनेन प्रागेव दर्शितत्वादिति कारिकां व्याचष्टे ॥ यथा गगनमिति ॥ एतेन विमतं जकदाख्यवस्तु तात्त्विकस्वान्तर्भेदहीनम् ।
 अन्योन्यं तात्त्विकभेदशून्यं स्वैकदेशिभूतघटादिमत् ।
 मिथस्तात्त्विकभेदशून्यैः स्वैकदेशिभिर्घटादिभिः परमार्थतो न भिद्यत इति यावत् ।
 कुतः ।
 मतत्वतो दृश्यत्वात् ।
 यदित्थं दृश्यं तत्तथा तादृशं यद्वस्तु स्वम् ।
 गगनमन्योन्यपारमार्थिकभदेशून्यैर्घटमठाद्याकाशैः परमार्थतो न भिद्यते ।
 इदं च जगत्तथा दृश्यम् ।
 ततो दृश्यत्वात्तथा तत्त्वतः स्वान्तर्भेदहीनमिति कारिकार्थः स्पष्टीकृतो भवति ।
 तेषां स्वभावतो भिन्नत्वे ।
 घटाद्युपाधिकत्वाभाव इति यावत् ।
 न चाकाशांशानां स्वाभाविकत्वेऽपि घटादिसम्बन्धसत्त्व एव हि प्रतीतिः ।
 तेषां प्रदीपवद्व्यञ्जकत्वाङ्गीकारादिति भावेन शङ्कते - घटादीनामिति ॥ दीपादिव्यञ्जकाभावेऽपीति ।
 तथा च तद्वदेवात्रापि कदाचिद्धटाद्यभावेऽप्याकाशांशप्रतीतिः स्यात् ।
 न चैवम् ।
 अत एतेन व्यञ्जकाः किन्तूपाधय एवेति भावः ।
 नन्वेते दीपादिवन्नानियतव्यञ्जकाः किन्तु कुङकुमगन्धादिव्यञ्जकघृतवन्नियतव्यञ्जका एव ।
 अतस्तदभावे आकाशे विद्यमानोऽपि भेदो न प्रतीयत इत्याशङ्क्य निषेधति ॥ कुङ्कुमगन्धस्येति ॥ युक्तं घृतस्य कुङ्कुमगन्धं प्रति नियताभिव्यञ्जकत्वकल्पनम् ।
 तत्र गन्धस्य सत्त्वेन तदनुपलब्धेः कारणान्तरादर्शनात् ।
 न च कुङ्कुमे गन्ध एव नास्ति ।
 सत्त्वेऽपि पाषाणादाविवानुद्भूतोऽस्तु ।
 अतो घृतसम्बन्धात्तन्निष्ठगन्ध एव कुङ्कुमेऽवभासत इति वाच्यम् ।
 पृथिवीत्वेन हेतुना कुङ्कुमे गन्धस्य सिद्धत्वात् ।
 तस्यानुद्भूतत्वकल्पने मानाभावात् ।
 घृतसम्बन्धेन कुङ्कुमे उद्भूतगन्धस्यैवोपलभ्यमानत्वेन तस्य घृतमात्रनिष्ठत्वकल्पनत्वस्याप्यप्रामाणिकत्वात् ।
 न चैवं प्रकृते ।
 आकाशे स्वाभाविकभेदसद्भावे प्रमाणाभावात् ।
 येन घृतवद्धटादेर्नियतव्यञ्जकत्वेन तदभावे भेदस्यानुपलब्धिः स्यादिति भावः ।

(8) (मु.) ॥ विमतमिति ॥ जगदित्यर्थः ।
 बाधवारणाय तात्त्विकेति ॥ सर्वस्यापि जगत्त्वेन जगति जगद्भेदानधिकरणत्वस्य सिद्धत्वेन सिद्धसाधनत्वात् ।
 तद्वारणाय स्वान्तरिति ॥ मतत्वतो ज्ञातत्वात् ।
 यद्वत्खं यथाऽऽकाशस्तथेदमित्युपनयः ।
 ततस्तथेति निगमनम् ।
 दृष्टान्तं विवणोति - यथेति ॥ भेदेति ॥ एकदेशिरीत्या (* `दृष्टान्तं विवणोति - भेदेत्येकदेशरीत्या' मु. ।
 हस्तलिखितपुस्तके `यथेति' इति प्रतीकधारणभागो न दृश्यते ।
) तु भेदशब्दो विशेषपर इति ज्ञेयम् ॥ प्रागिति ॥ उपाध्यभावकालोपलक्षणमेतत् ॥ व्यञ्जकत्वादिति ॥ एवञ्च भेदप्रतीतेरुपाध्यन्वयव्यतिरेकानुसरणनियमेऽपि न भेदस्योपाधिजन्यत्वरूपौपाधिकत्वसिद्धिः ।
 अन्वयव्यतिरेकयोरन्यथासिद्धत्वादिति भावः ॥ स्पार्शनेनेति ॥ तथा च दीपाद्यभावकालेऽपि घटसत्त्वं प्रमाणान्तरवशादङ्गीक्रियते ।
 प्रकृते उपाध्यभावकालीनभेदे प्रमाणाभावादुपाधिना तदुत्पत्तिरेवेति भावः ॥ कुङ्कुमेति ॥ यथा स्वाभाविकोऽपि कुङ्कुमगन्धो न कदाऽपि घृताख्यव्यञ्जकं विनोपलभ्यते ।
 तथा भेदोऽप्यस्तु ।
 अन्यथा सोऽपि न स्वाभाविकः स्यादिति भावः ॥ पृथिवीत्वेनेति ॥ एवञ्च तद्व्यञ्जकाभावकालेऽपि गन्धस्य प्रत्यक्षानुपलम्भेऽप्युपलम्भोऽस्त्येवेति भावः ।
 नन्वस्तु पृथिवीत्वेन गन्धः स च पाषाणादाविवानुद्भूत एवास्तु ।
 घृतसम्बन्धात्प्रतीयमानस्त्वन्य एव तात्कालिकोपाधिजन्यः ।
 एवञ्च तत्रापि न स्वाभाविकस्योपाध्यनुसरणापत्तिरित्येवं कुतो नाङ्गीक्रियत इत्यत उक्तमनुदभूतेति ॥ धर्मिकल्पनातो धर्मकल्पना वरेति न्यायेन स्थितस्यैव व्यक्तिमात्रतो गन्धान्तरोत्पत्तेर्गुरुत्वादिति भावः ।

(8) (कु.) ॥ विमतमिति ॥ तात्त्विकस्वान्तर्भेदतदभावकोटिकसंशयविषयीभूतं सर्वचेतनाचेतनजातमित्यर्थः ।
 अत्र गगनस्य पक्षान्तर्भावेऽपि पृथिवीत्वावच्छिन्नपक्षकेतरभेदानुमाने घटस्यैव दृष्टान्तत्वोपपत्तिः ।
 तद्वदेवांशतः सिद्धसाधनत्वाभावोऽपि पञ्चावयवोपन्यासस्तु न्यायदिशा तथा जगदाख्यपदार्थ इति जगद्रूपसमुदायस्य समुदायिप्रतियोगिकभेदाभावः प्रसङ्गात्साधितः ।
 समुदायिना विष्णुजीवजडानां तात्त्विकभेदाभावस्तु प्रकृतोपयुक्त इति बोध्यम् ।
 अनियतं नियतं वा व्यञ्जकं घटमठादीति विकल्पं मनसि निधाय नाद्य इत्याह - दीपादीति ।
 तथेहापि व्यञ्जकाभावेऽपि कदाचिद्भेदप्रतीतिप्रसङ्गादिति शेष इति ।
 द्वितीयमाशङ्कते - कुङ्कुमगन्धस्येति ॥ तत्र पृथिवीत्वेनेति ॥ इदमुपलक्षणम् ।
 प्रकृते औपाधिकभेदप्रतीतिवत्कुङ्कुमगन्धप्रतीतिरौपाधिकी नाङ्गीकर्तुं शक्या ।
 उपाधौ घृते तादृगन्धाभावादिति बोध्यम् ।

(8) (हु.) जगन्निष्ठभेदसामान्यमिथ्यात्वसाधनं प्रकारान्तरेणाह - विमतमिति ॥ सत्यताशून्यस्वघटकपदार्थप्रतियोग्यनुयोगिकभेदसामान्यकत्वतदभावाभ्यां विप्रतिपत्तिविषयीभूतचेतनाचेतनघटितजगत्समुदायः पक्षः ।
 समुदायश्च समुदायिभ्यो भिन्नाभिन्नः कश्चिदपेक्षाबुद्धिविषयत्वविशिष्टः ।
 अतो गगनस्य तादृशविशिष्टरूपत्वाभावेन पक्षबहिर्भावाद्दृष्टान्तत्वोपपत्तिः ॥ तात्त्विकेति ॥ पूर्वोक्तरीत्या परमार्थ इत्यर्थः ।
 अनुमानस्य भास्कराभिमतत्वे तन्मते चापारमार्थिकभेदाभावेन तस्याव्यावृत्तत्वापत्त्याऽनौपाधिकत्वेनेत्यर्थः ।
 मतद्वयेऽपि व्यधिकरणधर्मावच्छिन्नाभाव एव साध्यम् ।
 भास्करमतेऽनौपाधिकभेदस्याप्रसिद्धेः ॥ स्वान्तरिति ॥ स्वांशप्रतियोग्यनुयोगिकभेदेत्यर्थः ।
 घटं प्रति तन्तूनामिव जगद्रूपविशिष्टरूपसमुदायस्य समुदायिनां घटादीनामवयवस्थानीयानामंशत्वमेव महाकाशं प्रत्यौपाधिकघटाद्यवच्छिन्नाकाशानामेवेति हृदयम् ।
 घटादिना भेदस्य गगने प्रतिवादिभिस्तात्त्विकस्य स्वीकाराद्दृष्टान्तासिद्धिवारणाय स्वांशप्रतियोगिकेति ॥ समुदायरूपे विशिष्टैकदेशभेदानङ्गीकारात्सिद्धसाधनतावारणाय स्वांशानुयोगिकेति ॥ स्वांशप्रतियोगिकस्वांशानुयोगिकभेदा यावन्तस्तत्तन्निष्ठतात्त्विकत्वावच्छिन्नभेदाभावकूटवदिति साध्यार्थः ।
 उद्देश्यसर्वभेदमिथ्यात्वसिद्धये कूटस्य साध्यत्वानुसरणम् ।
 घटे आरोपितस्य स्वभेदस्योक्तधर्मावच्छिन्नाभावस्य महारजनाद्युपाधिकभेदस्योक्तरूपाभावस्य (* `महारजताद्यौपाधिक-' मु.) च सिद्धत्वेन सिद्धसाधनं स्यात् ।
 अतस्तद्वारणं वा (तत्)प्रयोजनम् ।
 मतत्वत इति दृश्यत्वादित्यर्थः ।
 ब्रह्मण्यप्युक्तसाध्यं वादिप्रतिवादिनोः सम्मतमिति नोक्तसाध्यं प्रति दृश्यत्वहेतौ(तोः) व्यभिचारप्रसक्तिः ।
 विषयतया ज्ञानमेव हेतुरतो न ज्ञानविषयत्वरूपहेतुघटकज्ञानवैय्यर्थ्यशङ्का ।
 यदित्थं तत्तथेत्युदाहरणम् ।
 गगने उक्तसाध्यं साधयित्वा तद्दृष्टान्तीकरिष्यामीत्यर्थः ।
 तथेदमित्युपनयः ।
 ततस्तथेति निगमनम् ।
 कारिकां विवणोति - यथेत्यादिना ॥ भेदप्रतीतिप्रसङ्गादिति ॥ इन्द्रियसन्निकर्षसद्भावे तदप्रतीतौ बीजाभावादिति भावः ।
 गगनस्य चक्षुरवेद्यत्वेऽपि साक्षिवेद्यत्वादापादनं युक्तमेव ।
 पटादेश्चक्षुर्वेद्यत्वेन तुल्यन्यायेन तत्रापि पटांशानां स्वाभाविकत्वाङ्गीकारे चाक्षुषत्वापादनसम्भवस्तत्र द्रष्टव्यः ।
 व्यञ्जकत्वात्तत्प्रत्यक्षसामग्रीघटकत्वाद् व्यञ्जकस्यानुगतस्याभावेन यत्किञ्चिद्व्यञ्जकाभावस्तत्प्रत्यक्षाभावं प्रति प्रयोजकतया तं प्रति व्याप्य उत स्वव्यञ्जकसामान्याभाव इति विकल्पौ हृदि निधायाद्यं दूषयति - दीपेति ॥ द्वितीयंशङ्कते - कुङ्कुमेति ॥ घृतमेव यद्व्यञ्चकं तद्विना तत्प्रत्यक्षाभाव इत्यन्ववव्यतिरेकसिद्धव्यञ्जकताकघृताभावे स्वव्यञ्जकसामान्याभावप्राप्त्या तदभावकाले यथा न गन्धप्रत्यक्षं तथेहापि परिमाणविशेषवद्द्रव्यत्वेनांशविशेषप्रत्यक्षत्वावच्छिन्नं प्रति नियमेन हेतुत्वाङ्गीकाराद्धटाद्यभावे स्वव्यञ्जकत्वावच्छिन्नाभावसत्त्वात्प्रत्यक्षाभावो युक्त एवेति भावः ।
 प्रत्यक्षकारणीभूतपदार्थप्राक्काले तस्य पूर्वं सत्त्वेन दृढतरप्रमाणसत्त्वे व्यञ्जकसमवधानात्प्रत्यक्षव्यञ्जकस्य तदुत्पत्तिप्रयोजकत्वबाधाद्व्यञ्जकस्य तत्प्रत्यक्षजनकत्वं कल्पयति ।
 तदभावे तु तज्जनकत्वमेव कल्पयति ।
 अन्यथा दण्डादिसामग्र्या घटप्रत्यक्षोत्पत्तिहेतुत्वमेव स्यान्न घटोत्पादकत्वम् ।
 तथा च घटादिसम्बन्धात्पूर्वमंशसत्त्वे प्रमाणाभावाद्धटादिसम्बन्धकालेंऽशप्रत्यक्षम् ।
 अंशस्य घटादिजन्यत्वमेव कल्पयतीत्याह - तत्रेत्यादिना ।

(8) (का.) सर्वाभेदसाधकानुमानान्तरं प्रदर्शयंस्तत्प्रयोगप्रकारज्ञापनाय तार्किकरीत्या पञ्चावयवप्रयोगरूपां प्राचीनकारिकामुदाहरति - विमतमिति ॥ तां विवणोति - यथेति ॥ तथाच विमतं जगत् परस्परप्रतियोगिकपारमार्थिकभेदशून्यस्वैकदेशप्रतियोगिकपारमार्थिकभेदशून्यं दृश्यत्वात् ।
 यद् दृश्यं तत्तादृशसाध्यवत् ।
 यथा भूताकाशम् ।
 दृश्यं च जगत् ।
 तस्मात्तादृशसाध्यवदिति प्रयोगार्थ उक्तो भवति ।
 अत्र सामान्यतो भेदशून्यत्वमप्रसिद्धम् ।
 अतः स्वैकदेशप्रतियोगिकेति ।
 तादृशव्यावहारिकभेदसत्त्वाद्बाधवारणाय पारमार्थिकेति ।
 मिथो विभिन्नैकदेशैरभेदसिद्ध्याऽर्थान्तरवारणाय शून्यान्तमेकदेशविशेषणम् ।
 पूर्ववदप्रसिद्धिवारणाय परस्परेत्यादि ।
 न च पारमार्थिकभेदाप्रसिद्ध्या साध्याप्रसिद्धिः ।
 प्रतियोगिनः परप्रसिद्धिमात्रेण निषेधसाधनस्योक्तत्वात् ।
 यदि तु मिथः स्वैकदेशभेदस्य यः पारमार्थिकत्वेनाभावस्तद्विशिष्टस्वैकदेशभेदस्य पारमार्थिकत्वेनाभावः साध्यस्तदा नाप्रसिद्धिशङ्काऽपि ।
 व्यधिकरणधर्मावच्छिन्नभेदाभावप्रसिद्धेः ।
 न च निरंशे गुणादौ व्यभिचारः ।
 निरंशपदार्थस्यैवानभ्युपगमात् ।
 अभ्युपगमे वा सांशत्वेन मतत्वस्यैव हेतुत्वात् ।

नन्वाकाशांशानां घटादिसम्बन्धात् पूर्वं भेदरूपविषयसत्त्वेऽपि कारणान्तराभावादेव न भेदप्रतीतिप्रसङ्ग इत्याशङ्कते - घटग्रहणे दीपादीनामिवेति ॥ दीपादिव्यञ्जकाभावेऽपीति ॥ एककारणाभावेऽपि कारणान्तरेण कार्योत्पत्तिदर्शनाद्धटादिव्यञ्जकाभावेऽपि कदाचिद्भेदप्रतीतिः स्यादिति भावः ।

 व्यञ्जकत्वपदेन न प्रतीतिविशेषकारणत्वमात्रं विवक्षितम् ।
 किन्तु तत्सामान्यकारणत्वम् ।
 अतो नोक्तदोष इत्याशयेन शङ्कते - कुङ्कुमेति ॥ स्यादेवं बाधकपरिहारो यदि कुङ्कमगन्धादाविव भेदे प्रमाणं स्यात् ।
 तदेवतु नास्तीत्याह - तत्रेति ॥ यद्यपि पृथिवीत्वं सुरभ्यसुरभ्यवयवारब्धावयविनि गन्धं व्यभिचरति ।
 तथापि गन्धप्रतिबन्धकशून्यत्वे सति पृथिवीत्वस्य हेतुत्वं बोध्यम् ।
 दर्शितस्थले च विरुद्धगन्धरूपप्रतिबन्धकसत्वान्न व्यभिचारः ।
 नन्वेवं गन्धमात्रसिद्धावपि घृताभिव्यङ्ग्योद्भूतगन्धस्य कथं प्रमाणसिद्धत्वमत आह - अनुद्भूतेति ॥ गौरवादिति ॥ घृतसम्बन्धे सति पूर्वगन्धविनाशस्योद्भूतगन्धोत्पादस्य च कल्पनीयतया गौरवादित्यर्थः ।
 न चाविद्यमान एवोद्भूतगन्धो घृतोपाधिसम्बन्धात् प्रतीयतामिति वाच्यम् ।
 बाधकं विना प्रतीतेर्भ्रमत्वायोगात् ।
 अत्र `परिशेषेणोद्भूतगन्धस्यैव सिद्ध्या घृतसम्बन्धात् प्रागपि तत्प्रतीतिवारणाये'ति पूरणीयम् ॥ मानाभावादिति ॥ न च घटमठाद्याकाशभेदप्रतीतिरेव तत्र मानमिति वाच्यम् ।
 तस्य भ्रमत्वेनाप्युपपत्तेर्वस्त्वन्तरकल्पने गौरवादिति भावः ।

(8) (श.) - इदानीमनात्मभेदसाधकं पञ्चावयवोपेतानुमानं बुद्ध्यारोहाय कारिकया सङ्गृह्णाति ॥ विमतमिति ॥ आत्माकाशाभ्यामन्यदित्यर्थः ।
 तत्वतः स्वान्तर्भेदहीनं परमार्थतोऽन्योन्यभेदरहितैकदेशैः परमार्थतो भेदरहितम् ।
 मतत्वतो दृश्यत्वात् ।
 यदित्थं यद्दृश्यम् ।
 तत्तथा तत्वतः स्वान्तर्भेदरहितम् ।
 यद्वत्खं यथाऽऽकाशम् ।
 तथेदम् आकाशवदिदं दृश्यम् ।
 ततो दृश्यत्वात्तथा तत्वतः स्वान्तर्भेदहीनम् ।
 कारिकां विवणोति - यथेति अङ्गीकारात् भेदवादिना मया ।
 घटमठाकाशयोः परमार्थतो भिन्नत्वे परमार्थतोऽन्योन्यभेदशून्यस्वैकदेशैः परमार्थतो भेदराहित्यरूपसाध्यस्याकाशेऽभावात्साध्यविकलो दृष्टान्त इत्यर्थः ॥ घटादिसम्बन्धात्प्रागिति ॥ घटाकाशभेदस्य घटौपाधिकत्वे खलु घटाख्योपाधिसम्बन्धः प्रतीयते तदभावे तु नेति वक्तुं शक्यते ।
 स्वाभाविकत्वे तूपाधिसम्बन्धानपेक्षणात्तदभावेऽपि प्रतीतिरनिवार्येति भावः ।
 ननु घटाकाशभेदस्य घटौपाधिकत्वाभावेऽपि घटाधीनप्रतीतिकत्वं युज्यते ।
 घटस्य तद्व्यञ्जकत्वात् ।
 व्यङ्ग्यप्रतीतेः व्यञ्जकाधीनत्वात् ।
 यथा घटस्य प्रदीपोपाधिकत्वाभावेऽपि प्रदीपाद्यभिव्यङ्ग्यत्वेन तदधीनप्रतीतिकत्वमिति शङ्कते - घटादीनामिति ॥ अदोष इति ॥ तदभावेऽपि प्रतीतिप्रसङ्गाख्यदोषो नेत्यर्थः ।
 अस्तु घटस्याकाशभेदव्यञ्जकत्वम् ।
 तथापि घटाभावेऽपि तत्प्रतीतिः स्यादेव ।
 नच व्यञ्जकाभावे कथं व्यङ्ग्यप्रतीतिरिति वाच्यम् ।
 प्रदीपाख्यव्यञ्जकाभावेऽप्यन्धकारे त्वगिन्द्रियेण घटाख्यव्यङ्ग्यप्रतीतिदर्शनेन तादृशनियमाभावादिति परिहरति - नेति ॥ ननु द्विविधं व्यजकं नियतमनियतञ्च ।
 व्यङ्ग्यप्रतीतौ यन्नियमेन वर्तते तन्नियतम् ।
 यथा कुङ्कुमगन्धप्रतीतौ नियमेन स्थितं गोघृतम् ।

व्यङ्ग्यप्रतीतौ यन्नियमेन न वर्तते तदनियतम् ।
 यथा घटस्य प्रदीपादिकम् ।
 तत्र कुङ्कुमगन्धस्य गोघृतमिव घटकाशभेदस्य घटो नियतव्यञ्जकत्वेनाङ्गीक्रियते ।
 अतस्तदभावेऽपि न तत्प्रतीतिप्रसङ्ग इति शङ्कते - कुङ्कुमगन्धस्येति ॥ भेदः घटाकाशभेदः ।
 परिहरति - नेति ॥ सम्भवत्येव घृतस्य कुङ्कुमगन्धनियताभिव्यञ्जकत्वं तदभावे तस्यानुपलब्धेः ।
 नच न घृताभावात्कुङ्कुमगन्धानुपलब्धिः किन्तु कुङ्कुमे गन्धस्यैवाभावादिति वाच्यम् ।
 कुङ्कुमं गन्धवत् पृथिवीत्वादित्यनुमानेन तत्र गन्धस्य सिद्धत्वेन गन्धाभावाद्गन्धानुपलब्धिरिति वक्तुमयुक्तत्वात् ।
 नच कुङ्कुमगन्धस्यानुमानसिद्धत्वेऽपि तस्य पाषाणगन्धवदनुद्भूतत्वेन तदनुपलब्धिरपि सम्भवतीति वाच्यम् ।
 घृतसम्बन्धेन गन्धप्रतीतेरनुभवसिद्धत्वेन गन्धस्यानुद्भूतत्वाङ्गीकारे प्रामाणिकपरित्यागाप्रामाणिककल्पनाख्यगौरवप्रसङ्गादित्यर्थः ।
 नन्वत्राकाशभेदस्य प्रमाणसिद्धत्वेन घटस्याभिव्यञ्जकत्वं कल्प्यत इत्यत आह - नचेति ॥ येन घटस्य व्यञ्जकत्वं स्यादिति भावः ।

(9) ननु कथमाकाशभेदे प्रमाणाभावः ।
 इह पक्षी नेह पक्षीति प्रतीतिरेव मानमिति चेन्न ।
 आलोकमण्डलविषयत्वात्तस्याः ।
 इहाऽलोक इत्यत्रालोकावयवानामिहेति निर्देशात् ।
 नेहाऽलोक इत्यत्र गगनस्य निर्देशात् ।
 इहाऽलोक इति प्रतीतिरिह गगनमिति प्रतीतिवदौपचारिकी वा ।

(9) (भ.) ॥ इह पक्षीति ।
 तथाच पक्ष्याश्रय (* `पक्षाश्रय' मु.) एको भागस्तदभावाश्रय एको भाग इति भागभेदः सिध्यतीति भावः ॥ आलोकमण्डलेति ॥ तथा चेहेति नाकाशभागप्रतीतिः किन्त्वालोकमण्डलमेवेहप्रतीतिविषय इति भावः ।
 एवं तर्हीहाऽलोक इत्यत्रेहप्रत्ययस्य का गतिः ।
 नहि तत्राप्यालोकमण्डलमेवेहेति प्रतीयत इति वक्तुं शक्यम् ।
 आत्माश्रयप्रसङ्गात् ।
 अतस्तत्राकाशभाग एवेहप्रत्ययगोचर इति वाच्यम् ।
 तद्वदिह पक्षीत्यत्रापि स एव विषयः किन्नाङ्गीक्रियत इत्याशङ्क्य तस्याप्यन्यथोपपत्तिमाह - नेहाऽलोक इतीति ।
 इह तन्तुषु पट इतिवदिहाऽलोकावयवेष्वालोक इति प्रतीतिरुपपद्यत इति भावः ।
 तर्हि नेहाऽलोक इत्यालोकाभावः प्रतीयते ।
 न च तत्राप्यालोकावयवा इहप्रत्ययविषयः (* `-वयवेहप्रत्यय' मु.) ।
 आलोकावयवेषु भासमानेषु सत्सु नेहाऽलोक इति प्रतीत्यनुपपत्तेः ।
 अतस्तत्राकाशभाग एवेहप्रत्ययविषय इत्यङ्गीकार्यमित्यत आह - नेहाऽलोक इति ॥ तत्र गगनमेवेहप्रत्ययविषयो न तद्भाग इत्यर्थः ।
 नन्विहाऽलोक इत्यत्रालोकावयवानां विषयता ।
 नेहाऽलोक इत्यत्र गगनस्य विषयतेति द्वैविध्यकल्पने न किञ्चिन्मूलम् ।
 विना स्वदृष्टिपक्षपातादित्यस्वरसादाह - इहाऽलोक इति प्रतीतिरिति ॥ यथा गगनस्य गगनाश्रयताभावेऽपीह गगनमिति गगनाश्रयताप्रतीतिरौपचारिकी एवमालोकस्यालोकाश्रयत्वाभावेऽपीहाऽलोक इत्यालोकस्यैवालोकाश्रयत्वेन प्रतीतेरौपचारिकत्वोपपत्त्या नानया प्रतीत्या गगने भागभेदसिद्धिरिति भावः ।
 अत्र प्रतीतेरौपचारिकत्वं नाम भेदाभावेऽप्याधाराधेयभावावगाहित्वेनामुख्यार्थविषयकत्वम् ।
 आधाराधेयभावो हि भेदसमानाधिकरणो मुख्यः ।
 तदसमानाधिकरणस्त्वमुख्यो विवक्षितः ।
 एवञ्चोपचारस्य शब्दधर्मत्वेन प्रतीतेरौपचारिकत्वं कथमिति शङ्कानवकाशः ।
 केचित्त्वौपचारिकशब्दप्रयोगजनकीभूता बुद्धिरौपचारिकीत्युपचर्यत इत्याहुः ।
 तन्न प्रतीतिसमानाकारस्य प्रयोगस्यौपचारिकत्वायोगेन तज्जनकबुद्धेरौपचारिकतायाः सुतरामयोगात् ।

(9) (मु.) ॥ तस्या इहेति प्रतीतेरित्यर्थः ।
 यद्यप्यौपाधिकविषयत्वादित्येव वक्तव्यम् ।
 परेण पक्षितदभावोपलक्षितयोरुपाधित्वाङ्गीकारात् ।
 तथाऽप्यप्रत्यक्षत्वस्यापि घटनाय केषाञ्चिदुत्प्रेक्षावादोऽयमित्यदोषः ॥ इहाऽलोक इति ॥ अत्र पूर्ववदालोकप्रवेशे आत्माश्रयादिति भावः ।
 नन्विहाऽलोकावयव इत्यत्रानुपपत्तिरित्यस्वरसादाह - इहेति ॥ औपचारिकीति ।
 इदं च स्वरीत्या वस्तुत'स्त्वीशो दिशश्च कालश्च स्वगता एव सर्वदे'ति वचनात्सा प्रतीतिर्मृख्यैवेति ज्ञातव्यम् ।

(9) (कु.) आकाशभेदे मानमाशङ्कते - ननु कथमिति ॥ यद्यप्यनया प्रतीत्याऽऽकाशे पाक्षितदभावौ गृह्येते न तद्भेद इति कथमियं भेदे प्रमाणम् ।
 तथाऽपि प्राचीनमते द्रव्यस्य स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपाव्याप्यवृत्तित्वाभावात् ।
 एकत्र पक्षितदभावाधारत्वासम्भवात् अनुमानमुद्रयाऽनया भेदसिद्धिः ।
 न चेयं पक्षिसंयोगतदभावविषयेति वक्तुं युक्तम् ।
 शब्दस्येव प्रतीतेर्व्याख्यानायोगात् ।
 इदं पक्षिमन्नेदं पक्षिमदिति भेदप्रतीतिरपि बोध्या ॥ आलोकमण्डलेति ॥ अधिकरणतयाऽऽलोकमण्डलविषयत्वादस्या नानया आकाशभेद इति भावः ।
 नन्विहाऽलोको नेहाऽलोक इति प्रतीतिराकाशभेदसाधिका ।
 न चात्रेहेत्यालोकनिर्देशः सम्भवति ।
 आत्माश्रयादित्यत आह - इहाऽलोक इति ॥ अत्रापि न गगनमधिकरणतया विषयः ।
 गगनस्य नीरूपत्वेन चाक्षुष्यामस्यां विषयताऽयोगात् ।
 नियतोपनायकाभावेनोपनयकल्पनायोगात् ।
 आलोकावयवानामेव विषयता (* `विषयतया' मु.) युज्यत इति भावः ॥ औपचारिकीति ।
 ननूपचारो गौणी वृत्तिर्लक्षणा तदतिरिक्ता तदन्तर्भूता वा ।
 सा तु शब्दवृत्तिः कथं प्रतीतौ स्यादिति चेन्न ।
 यत औपचारिकशब्दप्रयोजकीभूता बुद्धिरौपचारिकीत्युपचर्यते ।
 एवं नेह पक्षीत्यादौ गगनस्याधिकरणत्वं वदत इह गगनमिति प्रतीतावत्माश्रयेण गगनस्य गगनाधिकरणत्वासम्भवेन यथाकथञ्चिद्भेदेऽप्याधाराधेयभावोऽमुख्यो वक्तव्यस्तद्वदेव प्रकृत इति भावः ।

(9) (हु.) ॥ इह पक्षीति ।
 पक्षितदभावयोर्विरोधेनैकप्रतीतावेकदेशभानानुपपत्तेरियं प्रतीतिराकाशांशरूपदेशयोर्भेदं विषयीकृत्य तत्र भावाभावौ विषयीकरोतीत्यंशभेदे प्रत्यक्षमेव मानमिति भावः ।
 ननूक्तप्रतीतेरंशभेदविषयकत्वेऽपि न स्वाभाविकांशभेदविषय(क)त्वं सिध्यति ।
 पक्षिरूपोपाधिकृतांशे भेदस्यैव विषयीकरणसम्भवात् ।
 मैवम् ।
 पक्षिसम्बन्धभागे पक्षिरूपोपाधिकृतभेदभानाङ्गीकारेऽपि तद्रहितभागे मूर्तद्रव्यसम्बन्धाभावेन तत्रैतद्देशभेदस्य वक्तुमशक्यत्वात्तत्राविद्यमानस्य तद्भेदकत्वेऽतिप्रसङ्गात् ।
 न च पक्ष्यभाव एव भेदकः ।
 पूर्वमपि तत्र सत्त्वेन तदापि (* `तदा' मु.) त्वन्मते भेदप्रसङ्गेन पूर्वमेव भिन्नतद्भानापत्तेः ।
 न चेष्टापत्तिः ।
 अनादितस्तत्सत्त्वे उपाधिकृतत्वकल्पने गौरवप्रसङ्गेन स्वाभाविकत्वसिद्धेरित्याशयात् ॥ आलोकमण्डलेति ॥ प्रतीतेश्चाक्षुषत्वानुभवेन चक्षुर्गोचरालोकविषयकत्वस्यैव युक्तत्वाद्गगनस्याचाक्षुषत्वात् ।
 न चैतत्प्रतीत्याऽऽलोके स्वाभाविकांशसिद्धौ गगनेऽपि तन्न्यायेन तत्सिद्धिरिति वाच्यम् ।
 आलोकमण्डलस्य तज्जन्यत्वेन तदंशानां पटांशानामिव स्वांश्यालोकमण्डलजनकाधीनत्वादिति भावः ।
 नन्वेवमपीहाऽलोको नेहाऽलोक इत्यत्र गगनांशभेदभानं विना गत्यभावः ।
 आलोके आलोकस्य वृत्तित्वाभावादालोकभेदमादाय तदुपपादनेनेहाऽलोक इति प्रतीत्यनुपपत्तिरित्याशङ्क्याधिकरणतया भासमानविषयभेदं दर्शयति - इहाऽलोक इत्यादि ॥ ननु आलोकावयवे (* `न चालोकावयवे' मु.) आलोकस्य समवायेन भासमानत्वेनेत्यत्र (* `भासमानत्वेन नेहेत्यत्र' इति पाठेन भाव्यमिति भाति ।
) गगनं निर्दिश्य तत्सम्बन्धावच्छिन्नाभावो भासत इति वाच्यम् ।
 तथा चालोकमण्डलसम्बद्धगगनेऽप्युक्तसम्बन्धावच्छिन्नालोकाभावसत्त्वान्नेहाऽलोक इति प्रतीत्यापत्तिः ।
 गगनस्याचाक्षुषत्वेनाधिकरणांशे चाक्षुषत्वानुभवविरोधश्चेत्यत आह - इह गगनमितिवदिति ॥ प्रतीतिस्तु शाब्दी वा मानसी वेति अन्यदेतत् ।
 सर्वथा स्वस्य स्वाधिकरणताया आत्माश्रयप्रसङ्गेन बाधिततया तद्देशस्थमूर्तान्तरसम्बन्धं विषयीकरोतीति वक्तव्यम् ।
 तद्वदिहाऽलोक इति प्रतीतिरिति भावः ।
 औपचारिकी मुख्याधिकरणत्वाविषयिणी घटे ज्ञानं वटे गाव इति शब्दोल्लेखिप्रतीतिवदमुख्यसम्बन्धान्तरविषयिणीत्यर्थः (* `-णीत्याहुः' हु.) ।
 तेनोपचारपदार्थभूतामुख्यवृत्त्योः शब्दाश्रितत्वेन प्रत्यक्षे तदसम्भवेऽपि न क्षतिः ॥
(9) (का.) मानमित्यस्याकाशभेद इत्यादिः ।
 यद्यपीह पक्षी, नेह पक्षीति प्रतीतेः पक्षितदभावयोराकाशवृत्तित्वावगाहितया नाकाशभेदे मानत्वम् ।
 तथापि तादृशप्रतीतिर्विभिन्नदेशवृत्तित्वविषया, विरुद्धधर्मविषयत्वात् ।
 इह घटत्वं नेह घटत्वमिति प्रतीतिवदित्यनुमानोत्थापकतया मानत्वं बोध्यम् ।
 वस्तुतः पक्ष्यभावस्य पक्षिमद्देशभेदसमनियततया तदभिन्नत्वात्तदवगाहिप्रतीतेस्तत्र मानत्वमित्यवधेयम् ।

अत्र यद्यपि अविद्यमानमेवाकाशभेदमालोकाद्युपाधिर्भासयतीति वक्तुं शक्यम् ।
 तथापि लाघवमनुसृत्याह -
॥ आलोकेति ॥ नन्वेवमपीहाऽलोको नेहाऽलोक इति प्रतीतिरेव मानान्तरमास्ताम् ।
 स्वस्य स्वाधारत्वानुपपत्त्या तस्याः पूर्ववदालोकमण्डलविषयत्वासम्भवादित्यत आह - इहाऽलोक इति ॥ गगनस्यालोकाधारत्वाभावेन तद्विषयत्वासम्भवादिति भावः ॥ गगनस्येति ॥ आलोकावयवानाम् आलोकाभावाधारत्वासम्भवेन तद्विषयत्वायोगादिति भावः ।
 नन्वेवमिहाऽलोक इति सम्योगसंसर्गावगाहिप्रत्ययो न स्यात् ।
 अवयवावयविनोस्तदभावात् ।
 न च गगनस्यैव तद्विषयत्वम् ।
 गगनालोकयोः सम्योगसत्त्वेऽपि सम्योगेनाधाराधेयभावाभावादत आह - औपचारिकी वेति ॥ गगनसम्बन्धित्वरूपेह शब्दगौणार्थविषयणीत्यर्थः ।
 प्रयोजनाभावे कथमोपचारिकप्रयोग इत्यत उक्तम् ॥ इह गगनमिति प्रतीतिवदिति ॥ यथा तत्रेदमित्यर्थ इहेति प्रयोगो रूढोपचारत्वान्न प्रयोजनविशेषमपेक्षते तथेहापीत्यर्थः ।
 यद्वा , नन्ववयवावयविनोराधाराधेयभावव्यवहारोऽनुभवविरुद्धः ।
 कपाले घट इत्यादिप्रतीतेरसिद्धेः ।
 अतः कथमालोकावयवानामिहेति निर्देश इत्यत आह - औपचारिकी वेति ॥ अस्याप्ययमालोक इत्येवार्थ इति भावः ।

(9) (श.) कथमित्याक्षेपे ।
 आकाशभेदे मानाभावः कथं न कथमपि ।
 किं त्वस्त्येवेत्यर्थः ।
 किं तन्मानमित्यत आह - इह पक्षीति ॥ इयं हि प्रतीतिरिहेति निर्दिष्टाकाशे पक्षितदभावौ गृह्णाति ।
 नह्येकस्मिन्नाकाशे तयोः सत्त्वं युक्तम् ।
 प्रतियोगितदभावयोरेकत्र विरोधात् ।
 अत आकाशप्रदेशे भेदसिद्धिरिति भावः ।
 इयं प्रतीतिरालोकमण्डले पक्षितदभावौ गृह्णात्यतो नाकाशभेदे मानमित्याह - आलोकेति ॥ नन्विहाऽलोको नेहाऽलोक इति प्रतीतिरिहेति निर्दिष्टाकाशे आलोकतदभावौ गृह्णाति ।
 न चात्रापीहेत्यालोकमण्डलनिर्देश इति वाच्यम् ।
 तथात्वे आलोके आलोक इत्यापत्त्याऽऽत्माश्रयात् ।
 अतोऽनया प्रतीत्याऽऽकाशभेदसिद्धिरित्यत आह - इहाऽलोक इति ॥ गगनस्येत्यनन्तरमिहेतीत्यनुवर्तते ।
 ननूभयत्रापीहेत्येकनिर्देशस्यानुभवसिद्धत्वेनोक्तरीत्या व्यावस्थाभ्युपगमेऽनुभवविरोध इत्यपरितोषादाह - इहाऽलोक इति ॥ नेहाऽलोक इतिवदिहाऽलोक इत्यत्रापीहेति गगनस्यैव निर्देशः ।
 नच प्रतियोगितदभावयोरेकाधिरणत्वानुपपत्तिः ।
 गगनस्यालोकाधिकरणत्वानङ्गीकारात् ।
 नचेहाऽलोक इति प्रतीत्यनुपपत्तिः ।
 गगने गगनाभावेऽपीह गगनमितिवद्गगने आलोकाभावेऽपीहालोक इत्यौपचारिकप्रतीत्यङ्गीकारे बाधकाभावादिति भावः ।
 यद्वेहाऽलोक इति प्रतीताविहेत्यालोकावयवनिर्देश इति वक्तुं न शक्यते ।
 लौकिकानामवयवाश्रिततयाऽवयविबुद्धेरभावात् ।
 नहि लोका हस्तादिषु शरीरमिति व्यवहरन्ति ।
 किन्तु तदात्मतामेवेत्यत आह - इहाऽलोक इति ॥ इहाऽलोक इत्यत्रापीहेत्यालोकस्यैव निर्देशः ।
 नचात्माश्रयः ।
 अस्याः प्रतीतेरौपचारिकत्वाङ्गीकारात् ।
 उपचारप्रयोजनं वाच्यमित्यत उक्तमिह गगनमिति प्रतीतिवदिति ।
 गगने गगनाभावेऽपि यथेह गगने गगनमिति प्रतीतिस्तथेत्यर्थः ।
 रूढोपचारत्वान्न प्रयोजनापेक्षेति भावः ।

(10०) नन्वथाऽपि घटादिरूपोपाधिः किं गगनमात्रं स्पृशति उत गगनैकदेशम् ।
 नाद्यः सर्वोऽपि घटाकाशः स्यात् ।
 द्वितीये स्वाभाविकांशसिद्धिरिति चेन्न ।
 सर्वोऽप्याकाशो घटाकाशः स्यादिति कोऽर्थः ।
 किं घटसम्बन्धी स्यादिति उत घटपरिमाणसदृशपरिमाणः स्यादिति, सर्वोऽपि महाकाशः घटाकाशः स्यादिति वा ।
 नाद्यः ।
 इष्टापत्तेः ।
 न द्वितीयः ।
 उपाधेः प्रतिबिम्बपक्षपातित्वेन (प्रतिबिम्बपक्षपातित्वावश्यम्भावेन) घटस्योपाधेः प्रतिबिम्बस्थानीयाकाशे स्वगतपरिमाणप्रतीत्याधानात् ।
 महाकाशं तु बिम्बस्थानीयमिति (बिम्बस्थानापन्नमिति) न तत्र स्वधर्मोपरञ्जकः ।
 अत एव न तृतीयः ।
 उपरञ्जितघटधर्मत्वस्य घटाकाशपदप्रवृत्तिनिमित्तस्य परिच्छिन्नाकाश इव महाकाशेऽभावेन तत्र तदव्यवहारात् ।
 संयोगस्य स्वात्यन्ताभावसमानाधिकरणत्वं प्रमाणबलादङ्गीक्रियते ।
 प्रमाणमेव विरोधं शमयिष्यति ।
 `संविदेव हि भगवती विषयसत्त्वोपगमे नः शरण'मिति न्यायादिति ।

(10) (भ.) ॥ अथापीति ॥ उक्तरीत्या गगने स्वाभाविकांशसिद्धावपि विकल्पद्वये द्वितीयविकल्पेऽङ्गीक्रियमाणे सति स्वाभाविकांशसिद्धिरिति योजना ॥ गगनमात्रमिति ॥ कृत्स्त्रगगनमित्यर्थः ।
 तत्र प्रथमपक्षं तावत्कक्षीकृत्य तत्रोक्तं दूषणं परिहर्तुं विकल्पेन पृच्छति - सर्वोऽप्याकाश इति ॥ सर्वोऽपि घटाकाशो महाकाशः स्यादिति वेति ॥ सर्वोऽपि महाकाशो घटाकाशः स्यादिति योजना ।
 क्वचित्तु तथैव पाठः ।
 घटाकाशः स्यादित्यस्य घटाकाशपदेन व्यवह्रियमाणः स्यादित्यर्थः ॥ स्वगतपरिमाणप्रतीत्याधानादिति ॥ स्वगतवितस्त्यादिपरिमाणं घटाकाशे आदाय तत्प्रतीतिजनकत्वादित्यर्थः ।
 अत एव न तत्र स्वधर्मोपरञ्जक इति वक्ष्यति ।
 वितस्त्यादिपरिमाणत्वरूपस्वधर्मासञ्जक इत्यर्थः ।
 अत एवेत्युक्तमेव विवणोति - उपरञ्जितघटधर्मत्वस्येति ॥ आसञ्जितवितस्त्यादिपरिमाणरूपघटधर्मकत्वस्येत्यर्थः ।
 ॥ तत्र तदव्यवहारादिति ॥ महाकाशे घटाकाशपदव्यवहाराभावादित्यर्थः ।
 यद्यप्याद्यपक्षो नाद्वैतवादिनः सम्मतस्तथाऽपि तत्रोक्तदूषणमलग्नकमित्युपपादनार्थं तत्कक्षीकरणमिति ज्ञातव्यम् ।
 अत एव द्वितीयपक्षमभ्युपेत्य तत्रोक्तं दूषणं परिहरति - संयोगस्येति ॥ अयमाशयः ।
 घटद्युपाधिर्गगनैकदेशं स्पृशतीति पक्षमेवाङ्गीकुर्मः ।
 न च तर्हि स्वाभाविकांशसिद्धिरिति सन्तोष्टव्यम् ।
 गगनैकदेशं स्पृशतीत्यस्य गगनैकदेशेन संयोगवानित्यर्थानङ्गीकारात् ।
 किन्तु घटसंयोगो गगने स्वात्यरन्ताभावसमानाधिकरण इत्यत्र तात्पर्यम् ।
 न च तथात्वेऽपि स्वाभाविकांशसिद्धिर्दुर्वारा ।
 प्रतियोगितदत्यन्ताभावयोर्विरुद्धत्वेन सामानाधिकरण्यासम्भवेन विरोधपरिहारार्थमंशभेदस्यावश्यमङ्गीकार्यत्वादिति वाच्यम् ।
 वृक्षे कपिसंयोगतदत्यन्ताभावयोरिव गगनेऽपि घटतदत्यन्ताभावयोर्युगपदेव प्रत्यक्षेण दर्शनात् ।
 प्रमाणसिद्धे चार्थे विरोधशङ्कानवकाशादिति ।
 अत्र नैय्यायिकन्यायसम्मतिमाह - संविदेवेति ॥ भगवती मान्या ।
 अपलापानर्हेति यावत् ।

(10) (मु.) स्वाभाविकभेदेऽनुपपत्तिमुक्त्वौपाधिकभेदवतामैक्यं परिहरति - नन्विति ॥ घटस्याकाशो घट इवाकाशो घटस्यैवाकाश इति त्रेधाऽभिप्रेत्य पृच्छति - घट इत्यादिना ।
 तृतीयपक्षस्य घटाकाशो मठाकाश इति व्यवहारभेदो न स्यादित्यर्थः ॥ प्रतिबिम्बेति ॥ इदमत्र रहस्यम् ।
 उपाधिरेकमेव बिम्बं द्वेधा प्रदर्शयति ।
 अत्र प्रतिबिम्बपरिमाणादिकमादधाति ।
 एवञ्च एक एव महाकाशो घटाकाशतया प्रतिबिम्बतामाकाशान्तरत्वमापद्यते ।
 स एव घटपरिमाणतयोच्यत इति ॥ अत एवेति ॥ प्रतिबिम्बपक्षपातित्वादेवेत्यर्थः ॥ प्रवृत्तिनिमित्तस्येति ॥ एवञ्च घटसम्बन्धमात्रस्यानिमित्तत्वान्न व्यभिचार इति भावः ।
 सर्वाकाशस्यापि घटसम्बन्धित्वे प्रदेशान्तरे तदभावधीर्न स्यादित्यत आह - संयोगस्येति ॥ तत्र प्रदेशे आकाशो घटसंयोगी अत्र तु नेति सामानाधिकरण्ये प्रमाणाभावादित्यर्थः ।
 न चात्र भिन्नाधिकरणत्वमेव दृश्यत इति वाच्यम् ।
 आकाशः संयोगी आकाशो न संयोगीत्युभयत्राकाशस्य विशेष्यतया भानात् ।
 अत्र तत्रेत्यवच्छेदकमात्रत्वादिति ॥ प्रमाणमेव विरोधंशमयिष्यतीति ।
 वैय्यधिकरण्यप्रमाणेन किल विरोधो ग्राह्यः ।
 यदि तदेव सामानाधिकरण्यग्राहि तदा कथं विरोध इति भावः ।

(10) (कु.) गगनमात्रं कृत्स्त्रगगनम् ॥ स्वाभाविकांशसिद्धिरितीति ।
 तथा च दृष्टान्ते साध्यवैकल्यमिति भावः ।
 ॥ सर्वोऽपि घटाकाशो महाकाशः स्यादिति वेति ॥ सर्वोऽपि महाकाशो घटाकाशो घटाकाशपदवाच्यः स्यादिति योजना ।
 क्वचित्तथैव पाठः ॥ उपाधेः प्रतिबिम्बपक्षपातित्वेति ॥ दर्पणाद्युपाधेः स्वगतमालिन्यादेः प्रतिमुख एवोन्मज्जनदर्शनेन तथा स्वभावकल्पनमिति भावः ।
 स्वधर्मोपरञ्जको घट उपाधिरिति विभक्तिविपरिणामेनावृत्त्याऽन्वयः ।
 ननु परिच्छिन्नाकाशमहाकाशयोर्न मुखप्रतिमुखन्यायेन बिम्बप्रतिबिम्बभावः ।
 घटस्यास्वच्छद्रव्यत्वेनाकाशस्य च नीरूपत्वेन तत्र तस्य प्रतिबिम्बत्वायोगात् ।
 योगे वा दर्पणस्थमालिन्यं यथा समस्तमुखप्रतिबिम्बे भासते न तु तदेकदेशे कर्णादौ तथाऽत्रापीति सर्वं मुखं मलिनमितिवत्सर्वाकाशो घटपरिमाण इति बुद्धिः स्यात् ।
 तस्माद्धटसम्बन्ध आकाशैकदेशवृत्तिरिति वक्तव्यम् ।
 तस्याप्येकदेशस्यौपाधिकत्वेऽनवस्थानात्स्वाभाविक इति वक्तव्यम् ।
 तथा च दृष्टान्ते साध्यवैकल्यमित्यत आह - संयोगस्येति ।

(10) (हु.) ॥ गगनमात्रमिति ॥ क्लृप्तं गगनमित्यर्थः ॥ घटपरिमाणेति ॥ महाकाश इत्यादिः ।
 महाकाशे घटपरिमाणसमानपरिमाणत्वप्राप्तौ तस्य महत्त्वाभावाद्धटातिरिक्ते तत्प्रतीत्यभावापात इति भावः ॥ महाकाशः स्यादिति वेति ॥ घटावच्छिन्नाकाश एव महत्त्वबुद्ध्यापात इति भावः ।
 स्वनिमित्तकाकाशांश एव स्वधर्माधायकत्वेन घटपरिमाणस्य महाकाशे प्राप्तौ बीजाभावः ।
 तयोर्भेदस्यैवोपाधिना कृतत्वादिति समाधिं दृष्टान्तप्रदर्शनपूर्वकं वक्ति ॥ उपाधेरिति ॥ प्रतिबिम्बेति ॥ बिम्बप्रतिबिम्बयोरैक्येऽप्युपाधिना तत्र भेदावभासपूर्वकं (* `-पूर्वके' मु.) प्रतिबिम्ब एव स्वकीयमालिन्यादिधर्मावभासकत्वदर्शनेनोपाधेः प्रतिबिम्बपक्षपातित्वस्वाभाव्येनेत्यर्थः ।
 भवतु प्रकृते किमायातम् ।
 महाकाशघटाकाशयोर्बिम्बप्रतिबिम्बभावाभावाद्घटादेरस्वच्छत्वादित्यत आह - प्रतिबिम्बस्थानीयेति ॥ स्वनिमित्तकभेदवत्त्वादिना प्रतिबिम्बसदृश इत्यर्थः ।
 तथा चोपाधेर्भेदवत्त्वेन स्वकल्पितत्वावच्छेदेन स्वधर्माधायकत्वं लाघवात्स्वीक्रियते न तु तद्विशिष्टप्रतिबिम्बत्वावच्छेदेन गौरवात् ।
 न तु प्रतिबिम्बत्वावच्छेदेन स्वाकल्पितप्रतिबिम्बेष्वपि तथात्वापातादिति भावः ॥ स्वाधर्मोपरञ्जक इति ॥ उपाधेरित्यतः प्रथमान्ततयाऽनुवर्तते ॥ उपरञ्जितघटधर्मत्वस्येति ॥ घटेनोपरञ्जित उपरञ्जितघटः ।
 राजदन्तादिवत्तृत्तीयातत्पुरुषेऽपि परनिपातः ।
 स चासौ धर्मश्चेति विग्रहः ।
 अथवोपञ्जितघटको घटो यस्मिन्धर्मे घटाकाशत्वादौ स उपरञ्जितघटः स चासौ धर्मश्चेति विग्रहः ।
 तथा च घटरूपोपाध्युपरागात्प्रतीयमानस्य घटाकाशपदार्थतावच्छेदकीभूतघटवृत्तित्व(घटित)घटाकाशत्वरूपधर्मस्य महाकाशेऽभावेन घटाकाशत्वमहत्त्वयोः सामानाधिकरण्याभावेन घटाकाशो महान्स्यादित्यापादनमयुक्तमिति भावः ।
 कुतो महाकाशे तदभावः ।
 उपाधेः प्रतिबिम्बपक्षपातित्वेन बिम्बे स्वधर्मानाधायकत्वस्योक्तत्वात् ॥ तत्र तदव्यवहारादिति ॥ घटाकाशे महत्त्वव्यवहाराभावादित्यर्थः ।
 अ(त)त्रैव पूर्ववाक्योपपादितो महत्त्वघटाकाशत्वयोः सामानाधिकरण्याभावो हेतुः ।
 (* `यद्वा' इति मु.पाठे वाक्यादौ पठ्यते ।
) पूर्ववाक्यैतावत्पर्यन्ताभिप्रायो (* `-वाक्यस्यैतावत्-' इति पाठेन भाव्यमिति भाति ।
) वक्तव्यः ।
 महाकाशे घटाकाशत्वं कुतो न स्वीक्रियत इत्यत आह - तत्रेति ॥ महाकाशे घटाकाशत्वव्यवहाराभावादित्यर्थः ।
 व्यवहारपदं व्यवहारतन्मूलप्रतीत्यादिप्रमाणोपलक्षणम् ।
 स्वाभाविकांशानङ्गीकारे आकाशे घटासंयोगदशायामेव प्रतीयमानतदभावो न घटेत ।
 एकत्र भावाभावयोर्विरोधादंशभेदस्य स्वाभाविकस्याङ्गीकारे व्यवस्थया तदुभयसत्त्वसम्भवादित्यत आह - संयोगस्येति ॥ केचित्तु परिच्छिन्नाकाशमहाकाशयोर्न मुखप्रतिमुखन्यायेन बिम्बप्रतिबिम्बभावः ।
 आकाशस्य नीरूपत्वाद्घटस्यास्वच्छत्वात् ।
 योगे वा सर्वं मुखं मलिनमितिवत्सर्वाकाशे घटपरिमाणधीः स्यादतो घटस्याकाशसम्बन्धित्वमेव वक्तव्यम् ।
 तस्य चांशवृत्तित्वासिद्ध्यर्थं (* `-वृत्तित्वसिद्ध्यर्थम्' इति पाठेन भाव्यमिति भाति ।
) स्वाभाविकांशोऽपेक्षित इत्यत आह - संयोगस्येति ॥ (तथा च) संयोगस्य प्रदेशवृत्तित्वानङ्गीकारान्नांशापेक्षेति भाव इत्याहुः ।
 प्रथमपक्षमाशङ्क्येष्टापत्तेरिति ।
 घटसंयोगाङ्गीकारे त्वेतद्दूषणेन (* `-अङ्गीकारादेतत्-' मु.) तद्व्यवस्थापनमप्रयोजनम् ।
 प्रतिबिम्बस्थानीयत्वस्य तल्लक्षणस्यैवोक्तत्वेन (* तल्लक्षणस्येति मु.पाठे नास्ति ।
) प्रतिबिम्बत्वानुक्त्या तद्दूषणासङ्गतिः ।
 अङ्गीकृत्योपाघेर्दूषणपक्षे च (* `अङ्गीकत्यदूषणपक्षे चोपाधेः' हु.) प्रतिबिम्ब एव सर्वमुखं मलिनमिति व्यवहारादिजनकत्ववदत्रापि घटाकाशे तत्परिमाणप्रतीतिजनकत्वं वर्तत एव महाकाशे तदापादकं तु नास्त्येव ।
 आलोकस्थदर्पणे आलोकत्वप्रतिबिम्बदर्शनेन तत्प्रतिबिम्बकत्वस्य तत्सम्बन्धाविरोधितया तत्सम्बन्धव्यवस्थापनाय तत्प्रतिबिम्बकत्वनिराकरणं चानुपयुक्तमित्यादिकमत्र कथं परिहर्तव्यमिति चिन्त्यम् ।
 स्वात्यन्ताभावेत्याद्यंशभेदं विनाऽपीत्यादिर्विरुद्धद्वयं कथं प्रमाणबलादङ्गीक्रियते ।
 स्वविषयीभूतार्थविरुद्धार्थावगाहिनः (* `-भूतार्थस्य विरुद्ध-' मु.) प्रमाणत्वस्यैव (* `प्रमाणस्यैव' मु.) दुर्घटत्वादित्यत आह - प्रमाणमेवेति ॥ शमयिष्यति निराकरिष्यति ।
 विरोधो नामैकाधिकरणावृत्तित्वं तच्च न सिध्यति ।
 एकज्ञाने उभयोः सामानाधिकरण्याभानात् ।
 तथा च तयोर्विरुद्धत्वमेव नास्तीत्यर्थः ।
 तर्हि निर्वह्निर्वह्निमानित्येकज्ञाने भानादेतत्प्रतीत्या सर्वाभावयोर्विरोधोच्छेदापत्तिरित्यत आह - संविदेव हि भगवतीति ।
 अबाधितसंविदित्यर्थः ।
 तथा चाबाधितबुद्धिरेव वस्तुव्यवस्थापिका न बुद्धिमात्रम् ।
 निर्वह्निर्वह्निमानित्यादेरुत्तरत्रैकतरबाधप्रमादर्शनेन नाविरोधोपपादकत्वमत्र तूभयांशेऽप्युत्तरत्र बाधादर्शनादविरोध एवेति भावः ।

(10) (का.) स्यादेतत् ।
 घटादेर्घटाकाशादिव्यवहारहेतुत्वान्यथानुपपत्त्यैवाकाशभेदः सेत्स्यति ।
 तथाहि -- आकाशासम्बद्धस्य सर्वाकाशसम्बद्धस्य वा घटादेर्घटाकाशादिव्यवहारहेतुत्वे सर्वाकाशस्य घटाकाशत्वापत्तेरेकदेश सम्बद्धस्यैव तथात्वं वाच्यम् ।
 एकदेशस्यौपाधिकत्वे चैवमेवानवस्थानात् स्वाभाविकत्वस्यैव वाच्यतया तन्निर्वाहकस्वाभाविकभेदसिद्धिरित्याशङ्कते - नन्विति ॥ अथाति उक्तप्रतीत्याभेदसिद्ध्यनङ्गीकारेऽपि ।
 उपाधिर्घटाकाशादिव्यवहारहेतुः ।

गगनमात्रं स्पृशतीत्यस्य किमखिलं गगनं स्पृशतीत्यर्थः किं वा निखिलावयवेषु गगनमित्युत निखिलोपाध्यवच्छेदेन गगनमित्याहोस्विदुपाध्यनवच्छिन्नं गगनमिति ? नाद्यः ।
 गगनस्यैकत्वात् ।
 न द्वितीयः ।
 निरवयवत्वात् ।
 न तृतीयः ।
 अनुभवविरोधात् ।
 चतुर्थस्तावदन्गीक्रियते ।
 तत्र च नोक्तदोष इत्यत आह - नेति ॥ धटपरिमाणसमानपरिमाणः स्यादिति ॥ तादृशपरिमाणवत्त्वेन व्यवहर्तव्यः स्यादित्यर्थः ।
 उपाधेः स्वोपहिते स्वधर्मव्यवहारहेतुत्वादिति भावः ॥ महाकाशो घटाकाशः स्यादिति ॥ उपाध्यनवच्छिन्नोऽपि घटाकाशत्वेन व्यवहर्तव्यः स्यादित्यर्थः ।
 व्यवहारनिमित्तस्योपाधिसम्बन्धस्य महाकाश एव प्राप्तेरिति भावः ।
 ननु बिम्बप्रतिबिम्बभावस्थले ह्युपाधेः प्रतिबिम्बपक्षपातित्वम् ।
 दर्पणादिना प्रतिमुख एव स्वगतमालिन्याधानदर्शनात् ।
 प्रकृते च तदभावात् महाकाशेऽपि घटपरिमाणाधानापत्तिरित्याशङ्क्योक्तम् ॥ प्रतिबिम्बस्थानीयेति ॥ उपाधेः काल्पितभागमात्रपक्षपतित्वस्वाभाव्यादिति भावः ॥ अत एवेति ॥ घटाद्युपाधेः स्वोपहित एव स्वधर्माधायकत्वादित्यर्थः ।
 एतदेव विवणोति - उपरञ्जितेति ॥ तथाच तत्पदप्रवृऽत्तिनिमित्ताभावादेव तदव्यवहारः इति भावः ॥
नन्वेवमाकाशे घटादिसंयोगस्याव्याप्यवृत्तित्वं न स्यात् ।
 तस्य स्वात्यन्ताभावसमानाधिकरणत्वरूपस्य प्रदेशभेदनिर्वाह्यत्वादित्यत आह - संयोगस्येति ॥ प्रमाणबलादिति ॥ इह घटसंयोगो, नेहेति प्रतीतिबलाद्धटगगनसंयोगः स्वाधिकरणयावन्निष्ठाभावप्रतियोगी संयोगत्वात्, वृक्षवानरसंयोगवदित्यनुमानबलाच्चेत्यर्थः ।

एवमुपाधिर्गगगनमात्रं स्पृशतीत्याद्यपक्षाङ्गीकारेण समाधाय गगनैकदेशमिति द्वितीयपक्षाङ्गीकारेण तद्विवरणमेव स्वात्यन्ताभावेत्यादिना कृतमिति तूपचिन्त्यम् ।
 गगनावयवसम्बन्धित्वरूपमुख्यार्थाभिप्रायेण गगनैकदेशं स्पृशतीति विकल्पितत्वात् ।
 निरुक्तगोणार्थाङ्गीकारमात्रेण तत्पक्षाङ्गीकारायोगात् ।
 प्रथमपक्षेऽप्येतदङ्गीकारेणैतस्य पक्षान्तरत्वासम्भवाच्च ।
 नन्वेवं सति यो यत्प्रतियोगी स तद्विरोधीति सामान्यतः प्रतियोग्यभावयोर्विरोधग्राहकमानविरोध इत्यत आह - प्रमाणमेवेति ॥ विरोधंशमयिष्यति - तद्ग्रहं निवर्तयतीत्यर्थः ।
 विशेषप्रमाणेन सामान्यव्याप्तेराभासीकरणादिति भावः ।
 इममेव वृद्धसम्मत्या द्रढयति - संविदेव हीति ॥ भगवतीत्यबाधितत्वेनादरणीयत्वमाह ।
 शरणं हेतुः ।

(10) (श.) प्रकारान्तरेणाऽकाशभेदं शङ्कते - नन्विति ॥ अथापि उक्तरीत्याऽऽकाशभेदासिद्धावपि वक्ष्यमाणप्रकारेण सिध्यतीत्यर्थः ।
 कोऽयं वक्ष्यमाणप्रकार इत्यत आह - घटेत्यादि ॥ असम्बद्धस्य भेदकत्वे पटासम्बद्धमहारजनस्यापि तथात्वापत्त्या सम्बद्धस्यैव भेदकत्वं वाच्यम् ।
 तथाच घटाख्योपाधियोगः किं सर्वाकाशवृत्तिः उतैकदेशवृत्तिरित्यर्थः ॥ सर्वोऽपीति ॥ उक्तमहारजनस्य सर्वपटसम्बन्धित्वे सर्वस्यापि रक्तपटत्वदर्शनादिति भावः ॥ स्वाभाविकांशसिद्धिरिति ॥ ननु मास्तु गगने स्वाभाविकांशः नच तथात्वे घटस्य गगनैकदेशं सम्बध्य भेदकत्वायोगः ।
 औपाधिकांशाङ्गीकारेण तं सम्बध्य भेदकत्वोपपत्तेरिति चेन्न ।
 औपाधिकांशाङ्गीकारेऽनवस्थाप्रसङ्गात् ।
 तथाहि ।
 उपाधिकृतो ह्यंश औपाधिकः ।
 तत्र प्रष्टव्यं किमयमुपाधिः सर्वाकाशं स्पृशत्युतैकदेशमिति ।
 नाद्यः ।
 सर्वस्याप्याकाशस्यौपाधिकत्वप्रसङ्गात् ।
 द्वितीये प्रष्टव्यं स चैकदेशः स्वाभाविक उतौपाधिकः ।
 नाद्यः ।
 अनङ्गीकारात् ।
 द्वितीये सोऽप्युपाधिस्सर्वमुतैकदेशमिति विकल्पदूषणपरम्परापर्यवसानादिति भावः ।
 प्रथमविकल्पमङ्गीकृत्य तत्रोक्तदूषणं निराकर्तुं पृच्छति - सर्वोऽपीति ॥ घटाकाश इति आकाशो घटाकाशपदेन व्यवहर्तव्यः स्यादित्यर्थः ॥ इष्टापत्तेरिति ॥ आकाशे एकदेशानङ्गीकारात् घटसम्बन्धः सर्वाकाशवृत्तिरिति भावः ॥ उपाधेः प्रतिबिम्बेति ॥ प्रतिबिम्ब एव स्वधर्मासञ्जकत्वं ह्युपाधेः स्वभावः ।
 यथा दर्पणरूपोपाधिः प्रतिबिम्बे प्रतिमुखे स्वगतमलिनत्वादिधर्ममासञ्जयति ।
 दर्पणस्य मलिनत्वे प्रतिमुखेऽपि मलिनतत्वप्रतीतेः ।
 दर्पणस्य मलिनत्वेऽपि मुखे स्वच्छत्वप्रतीतेः ।
 तथात्रापि घटोपाधिः प्रतिबिम्बे घटाकाशे स्वगतपरिमाणमासञ्जयति ।
 नतु बिम्बे महाकाशे ।
 अतो न तस्य घटसमानपरिमाणत्वमिति भावः ।
 आधानात् आसञ्जनात् ।
 तत्र महाकाशे ॥ अत एवेति ॥ घटस्योपाधेर्महाकाशे स्वगतपरिमाणासञ्जकत्वाभावादेवेत्यर्थः ।
 ननु घटेनोपाधिना महाकाशे स्वगतपरिमाणानासञ्जनेऽपि महाकाशपदव्यवहारः किं न स्यादित्यत आह - उपरञ्जितघटधर्मत्वस्येति ॥ उपरञ्जितः आहितः घटधर्मः परिमाणरूपो यस्य स तथा तस्य भावस्तत्वम् ।
 तस्येत्यर्थः ।
 परिच्छिन्नाकाशे घटाकाशे ।
 तत्र महाकाशे ।
 तद्व्यवहारात् घटाकाशपदव्यवहाराभावात् ।
 अयमर्थः ।
 पदव्यवहारो हि पदप्रवृत्तिर्निमित्तं कारणम् ।
 यथा हि परिच्छिन्नाकाशे घटाकाशपदप्रवृत्तिनिमित्तस्य घटाहितपरिमाणाख्यधर्मस्य सत्त्वेन तत्र घटाकाशशब्दव्यवहारः ।
 नच महाकाशे आहितघटधर्मरूपं घटाकाशपदप्रवृत्तिनिमित्तमस्ति ।
 येन महाकाशे घटाकाशपदप्रयोगः स्यादिति ।
 एवमाद्यपक्षमङ्गीकृत्य समाधायेदानीं घटसंयोगस्याकाशैकदेशवृत्तित्वमिति द्वितीयपक्षमङ्गीकृत्य नैयायिकरीत्या समाधत्ते ॥ संयोगस्येति ॥ धटसंयोगस्यैकदेशवृत्तित्वं हि नैकदेशे विद्यमानत्वम् ।
 किन्तु स्वात्यन्ताभावसमानाधिकरणत्वम् ।
 अस्यार्थः ।
 स्वः संयोगः तत्प्रतियोगिको योऽत्यन्ताभावः संयोगात्यन्ताभावः ।
 तेन समानमेकमधिकरणं यस्य स तथोक्तः तस्य भावस्तत्वमिति ।
 समानपदस्यैकार्थकत्वं `समानं वृक्ष'मित्यत्र दृष्टम् (* `द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
' इत्याथर्वणमन्त्रे इत्यर्थः ।
) ।
 ननु प्रतियोगितदत्यन्ताभावयोरेकत्र विरोधात्कथमेतदित्यत उक्तं प्रमाणबलादिति ।
 इह घटाकाशसंयोगो नेह मूले कपिसंयोगो नाग्रे इत्यादिप्रतीतिरूपप्रमाणबलादित्यर्थः ।
 प्रमाणप्रमितेविरोधाप्रसरादिति भावः ।
 अत्र नैयायिकन्यायसम्मतिमाह - संविदेव हीति ॥ नोऽस्माकम् ।
 विषयसत्त्वोपगमे पदार्थसत्वाङ्गीकारे ।
 भगवती पूज्या ।
 संविदेव प्रतीतिरेव ।
 शरणं रक्षकम् ।
 प्रमाणमिति यावदिति न्यायार्थः ।
 एवमाकाशभेदे मानाभावान्न घटस्याकाशभेदव्यञ्जकत्वमिति स्थितम् ।

(11) ननु विद्यमान एव भेदो घटादिभिर्नाभिव्यज्यते चेत्तर्ह्युत्पद्यत इति वक्तव्यम् ।
 तच्चायुक्तम् ।
 भेदस्यौत्पत्तिकत्वेनानागन्तुकत्वादिति चेत् तर्हि दोषद्वयपरिहारायाविद्यमानमेव भेदं घटाद्युपाधिः (घटादिः) प्रतिभासयतीत्यस्तु ।
 एवं चेद्वयं चरितार्थाः ।
 श्रुतयश्च (श्रुतयस्तु) नेह नानाऽस्तीत्याद्या अभेदबोधिकाः ।
 तस्मान्न स्वभावतो विष्णोर्विश्वभिन्नत्वमिति पूर्वपक्षसङ्क्षेपः ।

(11) (भ.) एवं घटाद्युपाधेर्गगने विद्यमाने भेदे व्यञ्जकत्वमुपपद्यत इत्युक्तम् ।
 तत्राशङ्कते - नन्विति ॥ अत्र यदीत्यध्याहार्यं तर्हीति श्रवणात् ॥ उत्पद्यत इति वक्तव्यमिति ॥ अभिव्यक्त्युत्पत्ती विनोपाधेः कार्यान्तरादर्शनादिति भावः ॥ औत्पत्तिकत्वेनेति ॥ धर्मिसमसत्ताकत्वेनेत्यर्थः ।
 अनागन्तुकत्वात् मध्ये प्राप्तत्वाभावात् ।
 तथाचाभिव्यक्तिपक्षमेवाश्रित्य तत्रोक्तदोषः कथमपि परिहरणीय इति भावः ।
 पक्षद्वयोक्तदोषस्याप्यपरिहार्यत्वात्तृतीयपक्षावलम्बेन शङ्कां समाधत्ते ॥ तर्हीति ॥ दोषद्वयेति ।
 अभिव्यञ्जकत्वपक्षे कदाचिद्धाटादीनामभावेऽपि भेदप्रतीतिप्रसङ्गः ।
 उत्पत्तिपक्षे भेदस्यानागन्तुकत्वभङ्गप्रसङ्ग इति दोषद्वयेत्यर्थः ।
 न च तथैवास्त्विति वक्तुं शक्यमित्याशयेनाह - एवं चेदिति ॥ अविद्यमानस्यैव भेदस्य प्रतिभासाङ्गीकारे शुक्तिरूप्यवन्मिथ्यात्वस्यैव सिद्ध्या दृष्टान्ते साध्यवैकल्याभावेनोक्तानुमानमस्मदीयं निर्दुष्टमेव जातमिति भावः ।
 एवमाद्यानुमानद्वयेन जीवेश्वरयोर्जीवानां चाभेदं प्रसाध्य तत्स्थेम्ने तृतीयेन भेदमात्रस्य मिथ्यात्वमभिधाय चतुर्थेनाचेतनानामपि मिथो भेदाभावमभिधायेदानीं तत्रैव श्रुतीरपि प्रमाणयति - श्रुतयश्चेति ॥ इह चेतनाचेतनवर्गे किञ्चन नाना भिन्नं नास्तीत्यर्थः ॥ अभेदबोधिका इति ॥ जीवेश्वरयोर्जीवानां जडानां च मिथः पारमार्थिकभेदाभावबोधिका इत्यर्थः ।
 उपसंहरति - तस्मादिति ॥ भेदे मानाभावादभेदे तद्भावाच्चेत्यर्थः ।

(11) (मु.) नन्वेवमपि पक्षे दृष्टान्ते च भेदस्यौपाधिकत्वमेवायातम् ।
 न मिथ्यात्वमित्येतच्छङ्कासमाधिव्याजेन वदिष्यन्नाह - नन्वित्यादिना ॥ दोषद्वयेति ।
 उपाध्यभिव्यङ्ग्यत्वे तदनुसरणनियमायोगः ।
 तदुत्पन्नत्वे औत्पत्तिकत्वहानिरिति दोषद्वयेत्यर्थः ॥ प्रतिभासयतीति ।
 शुक्तिरजतवत्प्रातिभासिकत्वान्मिथ्यात्वमिति भावः ॥ चरितार्था इति ॥ मिथ्यात्वसाधनायास्माभिर्न यतितव्यमित्यर्थः ।

(11) (कु.) उपाधिघटसम्बन्धस्य गगनेऽव्याप्यवृत्तित्वमेवाङ्गीक्रियते ।
 नत्वेकदेशवृत्तित्वं येन गगने तात्त्विकस्वान्तर्भेदः स्यात् ।
 किन्तु स्वात्यन्ताभावसमानाधिकरणत्वम् ।
 न च प्रतियोगितदभावयोरवच्छेदकभेदं विनैकत्र विरोध इति वाच्यम् ।
 भगवत्याः प्रतीतेरेव विरोधशामकत्वादित्यर्थः ।
 औत्पत्तिकत्वेन कालतो धर्मिव्यापकत्वेन ॥ श्रुतयश्चेति ॥ तथाचाभेदे प्रमाणबाहुल्यादभेदे प्रमाणाभाव एव भेदे प्रमाणमिति नाशङ्कनीयमिति भावः ।

(11) (हु.) ॥ औत्पत्तिकत्वेनेति ॥ स्वाभाविकत्वेनेत्यर्थः ॥ अनागन्तुकत्वादिति ॥ अजन्यत्वादित्यर्थः ।
 अत्यन्ताभावाभिन्नत्वे (* `अत्यन्ताभावभिन्नत्वे' इति पाठेन भाव्यमिति भाति ।
) सति नित्याभावत्वस्य तल्लक्षणत्वादिति भावः ॥ दोषद्वयेति ।
 उपाधिकाल एव प्रतीयमानत्वेन पूर्वं स्थित्ययोगरूपदोषो नित्यत्वादुत्पत्तिदोष (* `उत्पत्यनुपपत्तिदोषः' हु.) इति दोषद्वयेत्यर्थः ।
 अविद्यमानमाने प्रकृते किमगतमित्यत आह - एवञ्चेति ॥ प्रतीयमानत्वे सति त्रैकालिक निषेधप्रतियोगित्वरूपमस्मदभिमतमिथ्यात्वं सर्वभेदानां प्राप्तमिति सिद्धमेवास्मदभिमतमिति भावः ।
 शुष्कयुक्तीनामसाधकत्वमिति नाशङ्कनीयमित्याह - श्रुतयश्चेति ॥ आद्यपदेन `यत्र द्वैतमिव भवति' `विभेदजनके ज्ञान' इत्यादीनां ग्रहणम् ।
 पूर्वपक्षं निगमयति - तस्मादिति ॥ इति पूर्वपक्षव्याख्यानं समाप्तम् ।

(11) (का.) भेदस्यौपाधिकत्वपक्षेऽनुपपत्तेः स्वाभाविकत्वसिद्धिरित्याङ्कते - ननु यदीति ॥ औत्पत्तिकत्वेन यावदाश्रयप्रतीतिभावित्वसिद्धान्तेन ।
 अनागन्तुकत्वात् उपाधिजन्यत्वायोगादित्यर्थः ।
 यद्युक्तानुपपत्त्या भेदस्यौपाधिकत्वासिद्धिस्तर्हि तत एव स्वाभाविकत्वस्याप्यसिद्धौ मिथ्यात्वमेव सिद्ध्यतीत्याह - तर्हीति ॥ दोषद्वयपरिहारायेति ॥ अतिप्रसङ्गापसिद्धान्तरूपदोषद्वयपरिहारयेत्यर्थः ।
 ततः किमित्यत आह - एवं चेदिति ॥ यद्याकाशभेदस्य मिथ्यात्वं तर्हीत्यर्थः ।
 चरितार्थाः सिद्धस्वपक्षाः ।
 प्रागुक्तानुमानस्य दृष्टान्ते साध्यवैकल्याद्यभावेन स्वान्तर्भेदहीनत्वरूपसाध्यसाधकत्वसम्भवादिति भावः ।

एवमभेदे प्रत्यक्षानुमाने उपापाद्यागममप्याह - श्रुतयस्त्विति ॥ `नेह नानास्ति किञ्चन', `एकमेवाद्वितीय'मित्यादिश्रुतीनां निषेधपरतया प्रागुक्तत्वात्तत एव प्राबल्याद्भेदश्रुतिबाधकत्वं सेत्स्यतीत्यभिप्रायेण तन्नोपपादितम् ।
 पूर्वपक्षमुपसंहरति - तस्मादिति ॥ उक्तरीत्या परपक्षे साधकस्य बाधकाभावस्य चाभावात्स्वपक्षे तद्भावाच्चेत्यर्थः ।
 पूर्वपक्षसङ्क्षेप इत्यनेन निरसनीययुक्त्यन्तरसत्त्वं सूचितम् ।
 तच्चाद्वैतश्रुतीनाम् उपक्रमादिषड्विधतात्पर्यलिङ्गयुक्तत्वादिरूपमुपरिष्टात् प्रपञ्चयिष्यामः ॥ इतिर्पूपक्षग्रन्थः ॥

(11) (श.) इदानीं विपक्षे बाधककथनेन घटस्याकाशभेदव्यञ्जकत्वं शङ्कते - नन्विति ॥ तर्हीत्यनन्तरं घटादिभिरित्यनुवर्तते ।
 प्रकारान्तराभावादिति भावः ।
 औत्पत्तिकत्वेन स्वाभाविकत्वेन ।
 अनागन्तुकत्वात् मध्ये प्राप्तत्वाभावात् ॥ दोषद्वयेति ॥ घटादीनां भेदव्यञ्जकत्वे तदभावेऽपि कदाचित्प्रतीतिप्रसङ्गरूपो मयोक्तः अनभिव्यञ्जकत्वे उत्पत्यनुपपत्तिरूपस्त्वयोक्तः एवं दोषद्वयेत्यर्थः ।
 घटाद्युपाध्यपेक्षया पूर्वं भेदानङ्गीकारादाद्यदोषपरिहारः ।
 घटादीनामुपत्त्यनङ्गीकारान्न द्वितीयदोष इति भावः ।
 न केवलमेवमङ्गीकारे दोषद्वयपरिहारमात्रं किन्तर्हीत्यत आह - एवं चेदिति ॥ अविद्यमानं भेदं प्रतिभासयतीत्यङ्गीकारे भेदस्य मिथ्यात्वं प्राप्तं तथाचाभेदवादिनो वयं चरितार्थाः ।
 भेदस्य पारमार्थिकत्वाभावेन दृष्टान्ते साध्यवैकल्याभावादिति भावः ।
 एवमभेदे प्रत्यक्षानुमाने अभिधायागमं चाह - श्रुतय इति ॥ उपसंहरति - तस्मादिति ॥ भेदे मानाभावादभेदे तत्सद्भावाच्चेत्यर्थः ।

(12) अत्रायं परिहारः ॥ यत्तावदुक्तं प्रत्यक्षं न जीवेश्वरयोर्भेदे प्रमाणमिति तत्र ब्रूमः ।
 ईश्वरधर्मिको जीवप्रतियोगिको भेद ईश्वरस्य प्रत्यक्षः ।
 ( ईश्वरस्य) तस्य तादृशप्रत्यक्षसद्भावे ` उत्तमः पुरुषस्त्वन्य' इति तद्वचनं प्रमाणम् ।
 ईश्वरस्य जीवाध्यक्षीकरणक्षमत्वान्न (जीवाध्यक्षीकरणे क्षमत्वान्न) चोद्यावकाशः ।
 ईश्वरप्रतियोगिको जीवाधिकरणकस्तु (जीवधर्मिको भेदो) जीवस्य प्रत्यक्षः ।
 सप्रतियोगिकपदार्थप्रत्यक्षे न प्रतियोगिप्रत्यक्षं प्रयोजकम् (तन्त्रम्) ।
 इयं गौर्गवयसदृशी, इह स पटो नास्ति (इह घटो नास्ति), स्तम्भः पिशाचो नेत्यादौ व्यभिचारात् ।
 एतेनाभावप्रत्यक्षयोग्यतायाः (अन्योन्याभावप्रत्यक्षयोग्यतायाः) प्रतियोगिप्रत्यक्षयोग्यताधीनत्वादयोग्येश्वरप्रतियोगिकान्योन्याभावस्य कथं प्रत्यक्षयोग्यतेति निरस्तम् ।
 स्तम्भः पिशाचो न भवतीत्यादौ व्यभिचारात् (स्तम्भः पिशाचो न भवति इत्यनुभवात्)।
 अन्योन्याभावविषयत्वाच्च तस्याः (अन्योन्याभावविषयत्वात्तस्य) ।
 एवं यज्ञदत्तप्रतियोगिको विष्णुमित्रधर्मिको भेदो विष्णुमित्रस्य, विष्णुमित्रप्रतियोगिको देवदत्तधर्मिको भेदो देवदत्तस्य प्रत्यक्ष इत्याद्यूह्यम् ।

(12) (भ.) एवं प्राप्तं पूर्वपक्षं प्रतिषेद्धुमुपक्रमते ॥ अत्रायमिति ॥ भेदप्रमाणविषये दूषणोद्धाररूपपरिहारोऽभेदप्रमाणविषये दूषणरूपपरिहारश्चायं वक्ष्यमाणो द्रष्टव्य इत्यर्थः ।
 तत्र ब्रूम इति इश्वरधर्मिकस्येश्वरप्रतियोगिकस्य वा भेदस्येश्वराप्रत्यक्षत्वेनाप्रत्यक्षत्वादिति यद्दूषणमुक्तं तत्रोत्तरं ब्रूम इत्यर्थः ॥ ईश्वरस्य प्रत्यक्ष इति ॥ ईश्वरप्रत्यक्षस्यास्माद्यप्रत्यक्षत्वेऽपि स्वं प्रति प्रत्यक्षत्वादिति भावः ।
 नन्वीश्वरस्य तादृशप्रत्यक्षसद्भाव एव कुतः ।
 परबुद्धेरप्रत्यक्षत्वादित्यत आह - तस्येति ॥ `यस्मात्क्षरमतीतोऽह'मित्युत्तरवाक्यमप्यत्रोदाहर्तव्यम् ।
 तेन जीवादहमन्य इतीश्वरप्रत्यक्षसिद्धिः ।
 नन्वीश्वरस्य धर्मिभूतस्वप्रत्यक्षसद्भावेऽपि प्रतियोगिभूतजीवप्रत्यक्षाभावात्कथं तत्प्रतियोगिकस्वधर्मिकभेदप्रत्यक्षमित्यत आह - ईश्वरस्येति ॥ अन्यथा तस्य सार्वज्ञासिद्धेरिति भावः ।
 यद्यपि वक्ष्यमाणरीत्या भेदप्रत्यक्षे धर्मिमात्रप्रत्यक्षं तन्त्रं न प्रतियोगिप्रत्यक्षमपि ।
 तथाऽपि तुष्यत्विति न्यायेनाभ्युपेत्योक्तिरियम् ॥ जीवधर्मिक इति ॥ भेद इति वर्तते ॥ जीवस्येति ॥ प्रत्यक्ष इति वर्तते ।
 ननु जीवस्येश्वरप्रत्यक्षाभावत्कथं तत्प्रतियागिकस्वधर्मिकभेदः प्रत्यक्ष इत्यत आह - सप्रतियोगिकेति ॥ अयं भावः ।
 लोके सप्रतियोगिकाः पदार्थाः सादृश्यसंयोगादयो बहवस्सन्ति ।
 तत्र संयोगप्रत्यक्षे प्रतियोगिप्रत्यक्षस्यावश्यकत्वेन सादृश्यादिप्रत्यक्षे तदावश्यकता नास्ति ।
 तथा हि ।
 इयं गौर्गवयसदृशीति तावत्सादृश्यप्रत्यक्षं जायते ।
 न तत्र प्रतियोगिप्रत्यक्षमस्ति ।
 वने प्राग्दृष्टस्य गवयस्य तदा व्यवहितत्वेन स्मृतिमात्रेणोपयोगितया प्रत्यक्षाभावात् ।
 एवमिह न घटोऽस्तीति घटाभावप्रत्यक्षं जायते ।
 न च तत्र प्रतियोगिभूतघटप्रत्यक्षमस्ति ।
 तथा स्तम्भः पिशाचो नेति स्तम्भे पिशाचप्रतियोगिकभेदः प्रतीयते ।
 न च तत्र पिशाचप्रत्यक्षमस्ति ।
 किन्तु तद्विषयकपरोक्षज्ञानेनैव ।
 अत एवं व्यभिचारदर्शनान्नेश्वरप्रतियोगिकभेदप्रत्यक्षे ईश्वरप्रत्यक्षं तन्त्रं किन्तु तज्ज्ञानमात्रम् ।
 तत्तु `यः सर्वज्ञः स' इत्याद्यागमेन सिध्यतीति ।
 क्वचित्त्विह न स पट इति पाठः ।
 अत एव पटस्याप्रत्यक्षत्वस्फोरणाय स इति प्रयोग इत्याहुः ।
 एवं गवयसदृशीत्यत्रापि तद्गवयसदृशीति बोध्यमित्यप्याहुः ।
 अत्र यद्यपि स्तम्भः पिशाचो नेत्येकत्रैव व्यभिचारोद्भावनमुपयुक्तम् ।
 भेदप्रत्यक्षमात्रे प्रतियोगिप्रत्यक्षस्य तन्त्रत्वेन शङ्कितत्वात् ।
 नान्यत्र सादृश्यादिविषये प्रतियोगिप्रत्यक्षस्य तन्त्रत्वेनानाशङ्कितत्वात् ।
 तथाऽपि शिष्यव्युत्पादनार्थं वा दृष्टान्तत्वेन वा तदुद्भावनमिति ज्ञातव्यम् ।
 नन्वभावप्रत्यक्षे प्रतियोगिप्रत्यक्षमेव तन्त्रमिति न ब्रूमः ।
 येनेह न घट इत्यादौ व्यभिचारः स्यात् ।
 किन्तु प्रतियोगिनः प्रत्यक्षयोग्यतामात्रम् ।
 न च नेह घट इत्यादौ घटस्य तदानीं प्रत्यक्षत्वाभाववत्प्रत्यक्षयोग्यताऽपि नास्ति ।
 प्रकृते चेश्वरप्रतियोगिकान्योन्याभावरूपभेदस्य प्रत्यक्षत्वाङ्गीकारे प्रतियोगिभूतेश्वरस्य प्रत्यक्षयोग्यत्वमङ्गीकार्यम् ।
 न च तदस्ति ।
 अतः कथं प्रत्यक्षायोग्येश्वरप्रतियोगिकभेदस्य प्रत्यक्षत्वं सम्भवेदित्याशङ्कामतिदेशेन निरस्यति - एतेनेति ॥ प्रतियोगिप्रत्यक्षयोग्यताधीनत्वादिति ॥ प्रतियोगिप्रत्यक्षयोग्यताधीनत्वादित्यर्थः ॥ अयोग्येश्वरेति ॥ प्रत्यक्षायोग्येश्वरेत्यर्थः ॥ कथं योग्यतेति ॥ प्रत्यक्षयोग्यतेत्यर्थः ।
 एतेनेत्युक्तमेव विशदयति - स्तम्भः पिशाचो नेति ॥ न हि पिशाचस्य घटादिवत्प्रत्यक्षयोग्यताऽस्तीति भावः ।
 ननु नायमनुभवोऽभावविषयकः किन्तु पिशाचप्रतियोगिकभेदविषय एव ।
 अतः कथमत्र तदुदाहरणामिति मन्दाशङ्कां निराह - अन्योन्याभावेति ॥ अन्योन्याभाव एव हि भेदो नाम ।
 अतः कथमयमनुभवोऽभावविषयो न भवेदिति भावः ।
 एवमुभयविधजीवेश्वरभेदस्य प्रत्यक्षसिद्धत्वमुपपाद्येदानीं परस्परजीवभेदोऽपि प्रत्यक्षसिद्धो मन्तव्य इत्याह - एवमिति ॥ चेष्टालिङ्गेन परदेहस्य सात्मत्वे साधिते तद्विरुद्धचेष्टावतो विष्णुमित्रस्य नाहं देवदत्त इत्यनुभवसद्भावादिति भावः ।

(12) (मु.) सिद्धान्तयति - अत्रेति ॥ तद्वचनं प्रमाणमितीश्वरावतारेण कृष्णेनोत्तमः पुरुषस्त्वन्य इत्युत्तमत्वमुक्त्वा यस्मात्क्षरमतीतोऽहमित्युक्तत्वात्स्वभेदः स्वस्य प्रत्यक्ष इति भावः ।
 न च वाच्यं तस्यापि भेदः श्रुतोऽनुमितो वा कि स्यादिति ॥ धर्मिप्रत्यक्षतादिप्रत्यक्षसामग्र्_या बलवत्याऽनुमित्यादिप्रतिबन्धात् ।
 वस्तुतस्त्वीश्वरस्य परोक्षज्ञानमेव नास्तीति तत्त्वविदः ॥ न चोद्येति ॥ प्रतियोगिप्रत्यक्षाभावात्कथं प्रत्यक्षमिति चोद्येत्यर्थः ।
 यद्यपि प्रतियोगिप्रत्यक्षं न तन्त्रमित्यनुपदमेव वक्ष्यति ।
 तथाऽप्यङ्गीकारवादोऽयमित्यदोषः ।
 किञ्च भेदो योगिनामपि प्रत्यक्षो `जुष्टं यदा पश्यत्यन्यमीशमस्य महिमान'मिति वचनात् ।
 यद्यपीश्वरादिप्रत्यक्षं भेदमात्रे प्रमाणीकर्तुं शक्यते ।
 तथाऽप्युक्तभेदस्यास्मदाद्यप्रत्यक्षत्वज्ञापनायैवमुक्तिः ॥ जीवस्येति ॥ तत्तज्जीवस्येत्यर्थः ।
 नाहमीश्वरो न निर्दुःख इत्याद्यनुभवादित्यर्थः ।
 ईश्वरवज्जीवस्य प्रतियोगिप्रत्यक्षाभावात्कथमित्यत आह - सप्रतियोगिकेति ॥ गवयेति ॥ तस्य तत्कालाप्रत्यक्षत्वादिति भावः ।
 गवयप्रतियोगिकसादृश्यस्य भावत्वात्तदुपपत्तावप्यभावस्य नोपपद्यत इत्यत आह - इहेति ॥ नन्वन्योन्याभावस्यैवायं नियमः ।
 किञ्च गवयादेस्तत्कालाप्रत्यक्षत्वेऽपि तद्योग्यतैव तन्त्रम् ।
 ईश्वरे तु साऽपि नास्तीत्यत आह - स्तम्भ इति ॥ नन्वेवं वाय्वाकाशसंयोगस्याप्रत्यक्षत्वेऽपि वायुघटसंयोगस्य प्रत्यक्षत्वं स्यात् ।
 वायुनिरूपितस्य घटधर्मिकस्य तस्य प्रत्यक्षयोग्यधर्मिकत्वात् ।
 न ह्यस्माकं मते द्वयोरपि धर्मित्वमङ्गीकृतम् ।
 `भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपी'ति वचनादिति चेत् ।
 सत्यम् ।
 संयोगो ह्यन्यप्रतियोगिकोऽन्यधर्मिकोऽपि पदार्थद्वयसत्ताधीनसत्ताकः ।
 अन्यतरनाशे संयोगनाशात् ।
 सादृश्यादिकं नैवम् ।
 नष्टेनापि गवयेन सदृशी गौरिति प्रतीतेः ।
 किन्तु धर्मिसत्तामात्रसापेक्षसत्ताकम् ।
 एवञ्च संयोगस्य धर्मिप्रतियोगिद्वयसत्तासापेक्षसत्ताकत्वात्तद्वयप्रत्यक्षस्यापि तद्वयप्रत्यक्षाधीनत्वम् ।
 सादृश्यादिप्रत्यक्षं धर्मिमात्रप्रत्यक्षाधीनमिति न तत्प्रतिबन्दी ॥ एतेनेति ॥ पिशाचान्योन्याभावे व्यभिचारेणेत्यर्थः ॥ अभावप्रत्यक्षयोग्यताया इति ॥ भेदस्यान्योन्याभावरूपत्वादिति भावः ।
 अनेनेयंशङ्का निरस्ता ।
 तथाहि ।
 न तावत्पृथक्त्वं विभागोऽनेकत्वं वैलक्षण्यं वा भेदः ।
 तेषां भावत्वाच्च भेदस्य घटः पटो नेत्यादिनिषेधधीवेद्यत्वात् ।
 नाप्यन्योन्याभावस्तादात्म्यप्रतियोगिकाभावत्वं वा तादात्म्यावच्छिन्नप्रतियोगिताकाभावत्वं वा संसर्गानवच्छिन्नप्रतियोगिताकाभावत्वं वा ।
 नाद्यः ।
 तादृशतादात्म्यात्यन्ताभावेऽतिव्याप्तिः ।
 घटः पटो नेत्यत्र पटस्यैव निषेधविशेषत्वेन प्रतियोगित्वधीविरोधाच्च ।
 समानन्यायेन संसर्गाभावेऽपि संसर्गस्यैव प्रतियोगित्वापत्तेः ।
 न द्वितीयः ।
 तदात्मना नास्तीति बोध्यमानात्यन्ताभावेऽतिव्याप्तेः ।
 पटो न भवतीत्यत्र प्रतियोगिशरीरे पटपटत्वातिरिक्ततादात्म्यानुल्लेखाच्च ।
 प्रतियोगिवृत्त्युल्लेख्यमानस्यैव प्रतियोगितावच्छेदकत्वात् ।
 घटतादात्म्यस्य पटावृत्तित्वेन तस्यावच्छेदकत्वानुपपत्तेश्च ।
 न्यायसाम्येन संसर्गाभावेऽपि संसर्गस्यैवावच्छेदकत्वप्राप्त्या घटत्वादेरनवच्छेदकतापाताच्च ।
 न तृतीयः ।
 घटः संसृष्टः पटो न भवतीति बोध्यमानान्योन्याभावेऽव्याप्तेः ।
 उक्तन्यायेन संसर्गाभावेऽपि संसर्गस्यानवच्छेदकत्वेनातिव्याप्तेः ।
 नापि तत्र प्रमाणम् ।
 घटः परो नेत्यादिप्रतीतेर्लाघवात्सविशेषणे हीति न्यायानुग्रहाच्च ।
 घटे पटत्वस्य योऽत्यन्ताभावस्तेनैव चारितार्थ्यमिति तद्भेदशून्यस्यापि तन्निष्ठधर्मात्यन्ताभावाधिकरणत्वं धर्माणां स्वात्यन्ताभावसामानाधिकरण्यवादिनामनिष्टम् ।
 अपि च पटान्योन्याभावस्य पटः पटत्वं तादात्म्यं वा प्रतियोगि ।
 नाद्यः ।
 तस्य पटसामानाधिकरण्याविरोधात् ।
 विरोधित्वस्यैव प्रतियोगिशब्दार्थत्वात् ।
 यत्किञ्चित्सम्बन्धमात्रेण प्रतियोगित्वेऽधिकरणादेरपि तथात्वप्राप्तेः ।
 न द्वितीयतृतीयौ ।
 पटस्यैव निषेध्यत्वप्रतीतेरित्युक्तदोषानिस्तारादिति ॥ अत्र चकास्ति ।
 अन्योन्याभावो हि भेदः ।
 तत्त्वं तादात्म्यारोप्यसम्बन्धकाभावत्वम् ।
 संसर्गारोप्यकश्च संसर्गाभावः ।
 तादात्म्येन नास्तीत्यत्र तादात्म्यस्याव्छेदकत्वेऽपि नारोप्यसम्बन्धता संसर्गस्यैव ।
 एवं संसृष्टो न भवतीत्यत्रापि वैपरीत्यमूह्यम् ।
 तादात्म्यं च न प्रतियोगि नापि तत्रावच्छेदकं संसर्गान्योन्याभावयोश्चारोप्यसम्बन्धभेदाद्भेदः ।
 अन्योन्याभावस्य प्रतियोगितावच्छेदकेनैव विरोधो न प्रतियोगिना ।
 प्रतियोगित्वं चान्योन्याभावासमानाधिकरणधर्माधिकरणत्वमिति नातिप्रसङ्गः ।
 यद्वाऽऽरोप्यभूततादात्म्यसम्बन्धेन प्रतियोगी न वर्तते तदन्योन्याभाव एव भेद इत्यस्त्येव प्रतियोगिना विरोधः ।
 तादात्म्यं वा पटादेर्धर्मः संसर्गतुल्ययोगक्षेमः ।
 तदुल्लेखश्च घटः पटो न भवतीत्यत्र पदद्वयसामानाधिकरण्येन व्युत्यत्तिवशात्संसर्गाभावेऽपि संसर्गस्य संसर्गत्वेनाभानेऽपि संसर्गमर्यादया भानमात्रेणैवात्रापि तादात्म्येनाभानेऽप्यारोप्यसम्बन्धत्वोपपत्तेः ।
 नापि तत्र प्रमाणाभावः ।
 घटे पटत्वं नास्तीति बोध्यमानस्य पटत्वत्वावच्छिन्नपटत्वसंसर्गारोप्यकत्वेन घटः पटो न भवतीति बोध्यमानस्य पटत्वावच्छिन्नपटतादात्म्यारोप्यकत्वेन प्रतियोग्यवच्छेदकारोप्यकाणां त्रयाणां भेदो नास्य तेनैव चारितार्थ्यात् ।
 अङ्गीकृतश्चैकैकभेदेन घटाभावात्पटाभावस्य द्रवत्वावच्छिन्नघटाभावाद्धटत्वावच्छिन्नाभावस्य च (* चकारः मु.पाठे न दृश्यते ।
) भेदो न स्यादित्यलम् ।

यदत्र वल्गितमाधुनिकेन भेदप्रत्यक्षे बाधकम् ।
 `न प्रमाणं मनोऽस्माकमयोग्यानुपलब्धिगम् ।
 औपाधिकस्थो भेदोऽयं नाध्यक्षमतिगोचरम् ।
 प्रमाणसहकारित्वाद्विषयस्याप्यभावतः ।
 अप्रमाणं मनोऽस्माकं प्रमादेराश्रयत्वत' इत्यादिना ।
 तस्यायं निष्कर्षः ।
 मनो नैवमतत्वेऽपि नेश्वरभेदग्राहि ।
 तथात्वेऽपि भेदो नासौ शुद्धचैतन्यगत इति ।
 तत्तुच्छम् ।
 मनसोऽप्रामाण्ये आत्माद्यसिद्धिप्रसङ्गात् ।
 तस्य साक्षिवेद्यत्वे तद्भेदोऽपि तथैवेति किं मनःप्रामाण्यनिरासविस्तरेण ।
 कुतश्च तदप्रामाण्यं प्रमाणसहकारित्वात्कालवदिति चेन्न ।
 उपनीतप्रत्यक्षसहकार्युपनायके वाक्यसहकार्युपक्रमादिलिङ्गे च व्यभिचारात् ।
 यावत्प्रमाणसहकारित्वादिति वाच्यम् ।
 साक्षिणं स्वं प्रत्यन्यथात्वेनासिद्धेः ।
 न च यावद्बाह्यप्रमाणसहकारित्वादिति वाच्यम् ।
 त्वदीयसाक्षिणि व्यभिचारात् ।
 किञ्चाप्रसिद्धोऽयं हेतुः ।
 अनिन्द्रियत्वं चोपाधिः ।
 यच्चोक्तं मनसः क्वचिज्ज्ञानकारणत्वे लाघवाद्रूपादिज्ञाने तस्य कारणत्वापत्त्या चक्षुरादेरालोकवत् (* `चाक्षुषालोकवत्' मु.) सहकारिमात्रतापत्त्या तत्प्रामाण्यं न स्यादिति ।
 तन्न ।
 प्रत्यक्षत्वव्याप्ययत्किञ्चिद्धर्मावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकजातिमत्त्वरूपातिशयस्य चक्षुरादावेव सत्त्वेन तस्यैव कारणत्वौचित्यात् ।
 आलोकादेरपि चाक्षुषज्ञानं प्रत्यकारणत्वेन तदयोगात् ।
 उक्तातिशयाभावेऽपि कारणत्वव्यवहारमात्रापादने शब्दकलह एवेत्युपेक्षणीयम् ।
 यच्चाभाणि ।
 `संयोगादेरयुक्तत्वात्तदन्यस्याप्रसिद्धितः ।
 सन्निकर्षस्य तेनेदं भेदसंज्ञेव मान'मित्यादिना मनोभेदयोर्न सान्निकर्ष इति ।
 नैतज्ज्यायः ।
 साक्षिणैव भेदग्रहणेनोभयोरात्मस्वरूपत्वेन तादात्म्यस्यैव सन्निकर्षत्वात् ।
 तादात्म्यं च न प्रत्यासत्तिमपेक्षत इति तदुक्तेश्च ।
 माऽस्तु तादात्म्यसन्निकर्षः ।
 आत्मनि साक्षिणा सुखाभावग्रहणे यो विशेषणतादिः सन्निकर्षस्तदेव तादात्म्याभावरूपभेदग्रहेऽप्यस्तु ।
 अस्तु वा मनसैव भेदग्रहस्तत्र संयुक्तविशेषणतादिः सन्निकर्षः ।
 यदुक्तं विशेषणतादेः प्रत्यासत्तित्वे मानाभावादिति ।
 तन्न घटादिग्रहे संयोगादेरिवान्वयव्यतिरेकाभ्यां तथात्वसिद्धेः ।
 यच्चात्र प्रलपितम् ।
 योग्यानुपलब्धिरूपसहकार्यभावान्न प्रत्यक्षस्येश्वरान्योन्याभावग्राहकत्वमिति ।
 तदसारम् ।
 योग्यानुपलब्धेर्हेतुत्वेऽतीन्द्रियार्थोल्लेखविकल्पानां सामान्याभावप्रमाभावापत्तेः ।
 परमाण्वाद्यनुपलब्धेर्योग्यानुपलब्धित्वाभावात् ।
 तस्मादनुपलब्धिमात्रं हेतुः ।
 प्रतियोग्यनुपलम्भेऽप्यधिकरणस्य प्रतियोग्याधारत्वयोग्यताज्ञानस्य प्रतिबन्धकत्वान्नातिप्रसङ्गः ।
 संसर्गाभावग्रहे तथात्वेऽप्यन्योन्याभावग्रहेऽप्यनुपलब्धिमात्रस्यैव हेतुत्वान्न दोषः ।
 अन्यथा स्तम्भः पिशाचो नेत्यनुमितिर्नेति चेन्न ।
 प्रत्यक्षे धर्मिणि संसर्गरूपारोप्यसम्बन्धेन वस्तुसत्त्वेऽप्ययोग्यतया क्वचिदनुपलब्धिवृत्तितादात्म्यारोपसम्बन्धकस्थले धर्मिणस्तदात्मना क्वचिदनुपलम्भाभावेनात्र योग्यताविशेषणस्य वैय्यर्थ्यात् ।
 घटादिप्रत्यक्षे तदात्मनः स्वस्यैव पुनरप्रत्यक्षतादर्शनात् ।
 न च वाच्यं पर्वतस्य प्रत्यक्षत्वेऽपि तदात्मनो वह्विमतो योग्यतया प्रत्यक्षानुपलब्धिर्दृश्यत इति ॥ पर्वतवह्विमतोर्जीवेश्वरवदत्यन्तभेदानङ्गीकारात् ।
 न च रामग्रहे कृष्णग्रहो दृश्यत इति वाच्यम् ।
 नेन्द्रियाणि नानुमानम् ।
 शुक्लमत्पक्षस्यैवेश्वरग्रहे पटुत्वावधारणात् ।
 रामकृष्णयोस्तादात्म्यग्रहप्रतिबन्धकविशेषस्य सत्त्वात् ।
 जाम्बुवत्कर्तृकप्रत्यक्षं तूत्तेजकसमवधानान्न तत्प्रतिबन्धः ।
 न चैवं निर्विशेषितचैतन्यवादिनः परस्यातो लाघवादनुपलब्धिकत्वमेवावच्छेदकम् ।
 संसर्गाभावे त्वतिप्रसङ्गाद्योग्यताप्रवेश इति ॥ अस्तु वा तत्प्रवेशः ।
 तत्र योग्यस्यानुपलब्धिरित्यर्थः ।
 परमाणौ पृथिवीत्वाभावस्य प्रत्यक्षतापत्तेः ।
 न चाधिकरणयोग्यताऽपि हेतुरिति वाच्यम् ।
 गौरवात् ।
 किं स्वप्रतियोगिसन्निकर्षेतरयावदुपलम्भयोग्यतासामग्रीसमानकालीनत्वमनुपलब्धियोग्यत्वम् ।
 उपलम्भनयोग्यत्वं चातर्कितप्रतियोगिसत्त्वप्रसञ्जितोपलम्भतात्वम् ।
 अत्र यदि जीव एवेश्वरो जीवग्राहि मन इश्वरतयैव गृह्णीयादिति तर्कितोपलम्भताकमनः समानकालीनैवोपलब्धिरिति ।
 यद्वा प्रतियोगिसत्त्वविरोधित्वमनुपलब्धियोग्यत्वम् ।
 विरोधित्वं यदि प्रतियोगी स्यात् तर्हि स्वयं न स्यादित्यापादनीयाभावप्रतियोगित्वम् ।
 यच्चोक्तमसतः प्रतियोगिसत्त्वस्य कथमापादकत्वमिति ।
 तन्मन्दम् ।
 तर्कमात्रेऽपि तथात्वात् ।
 यच्चोक्तमसत आपादकत्वमर्थमहिम्नोत तद्व्याप्त्यादिज्ञानमहिम्ना ।
 नाद्यः ।
 असतः शक्तिमात्रविकलत्वात् ।
 द्वितीये प्रतियोगी न तत्रानुपलब्धिरिति व्यतिरेकज्ञानपूर्वकत्वनैय्यत्येनानुपलब्धिरनुमानतयैवाभावज्ञापकेति न तत्र भेदप्रत्यक्षमिति ॥ तत्तु विभीषकामात्रम् ।
 योग्यतालक्षणघटनाय व्याप्त्यादिस्वीकारेऽप्यनुपलब्धीयाभावबोधने तदनपेक्षणात् ।
 अनुपलब्धौ ज्ञानकरणत्वे विवादात् ।
 अङ्गीकृत्येदमुदितम् ।
 वस्तुतस्तु प्रत्यक्षेणाभावग्रहे नानुपलब्धेः कृत्यमुपलभ्यते ।
 न च प्रतियोगितदुपलम्भे (* अग्रे चकारदर्शनात् `प्रतियोगिनि तदुपलम्भे' इति पाठः सम्भाव्यते ।
) चाभावधीः स्यादिति (* `चाभावधीर्न स्यादिति' मु.।
) वाच्यम् ।
 विषयस्यैवाभावात् ।
 न च त्वन्मते विषयस्याकारणत्वात्किन्तेनेति वाच्यम् ।
 विषयाभावेनेन्द्रियस्य सन्निकर्षरूपसामग्रीविघ्नात् ।
 न च वाच्यं प्रतियोगिरहितस्थले प्रतियोगिप्रमादशायामभावाधीस्स्यादिति (* `प्रतियोगिप्रमादशायामभावाधीनः स्यादिति' मु.।
 अत्र `प्रतियोगिभ्रमदशायाम्' इति पाठः सम्भाव्यते ।
) योग्युपलम्भस्य प्रतिबन्धकत्वादिति ।
 न चैवं प्रतिबन्धकाभावत्वेनानुपलब्धहेतुत्वं (* `-अनुपलब्धिहेतुत्वम्' इति पाठः सम्भाव्यते ।
) प्राप्तमिति वाच्यम् ।
 प्रतिबन्धकाभावस्य मन्मते हेतुत्वासम्मतेः ।
 पूर्ववृत्तितानियमस्यैव कारणत्वशब्दार्थत्वात् (* `पूर्ववृत्तितानियमस्यैवकारत्वशब्दार्थत्वात्' मु.) ।
 कथं तस्य कारणत्वमिति चेन्न ।
 कार्यजनकशक्तिवैषम्यस्यैव तदर्थत्वात् ।
 अन्यथा तन्तुरूपादेरपि तत्त्वप्रसङ्गात् ।
 न च तदन्यथासिद्धमिति वाच्यम् ।
 अस्यापि तथात्वं वक्तुं शक्यत्वात् ।
 ननु कारणतया सम्मतेन येन सहैव यस्य यं प्रति पूर्ववृत्तिग्रहस्तत्तेनान्यथासिद्धम् ।
 अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तत्तेनान्यथासिद्धम् ।
 अन्यत्र क्लृप्तनियतपूर्ववृत्तिन एव कार्यसम्भवे तत्सहभूतमन्यथासिद्धमित्यन्यथासिद्धत्रयमध्येऽस्य काऽन्यथासिद्धिरिति चेदेषैवेति ब्रूमः ।
 मण्यभावसमवहितो वह्निर्दाहपूर्ववृत्ती मण्यभावादेर्वह्न्यादिना सहैव पूर्ववृत्तिताग्रहणात् ।
 मण्यभावो दाहकारणमिति पृथग्ग्रहणाननुभवात् ।
 किञ्च प्रकृते भावग्रहे क्लृप्तेन्द्रियसन्निकर्षादिनैवाभावस्यापि ग्रहोपपत्तौ तत्सहभूतानुपलब्धेस्तृतीयान्यथासिद्धत्वं युज्यते ।
 अन्यथा तत्राप्यभावानुपलब्धेः कारणत्वं स्यात् ।
 अपि च प्रक्रियामात्रस्य निर्मूलत्वेनोक्तान्यथासिद्ध्ययोगे कार्याभावप्रयोजकीभूतं यद्वस्तु प्रतियोगिकत्वाभावत्वेन यस्य यं प्रति पूर्ववृत्तित्वग्रहस्तत्तेनान्यथासिद्धमिति चतुर्थान्यथासिद्धत्वं कल्प्यताम् ।
 किं प्रतिबन्धकाभावस्य कारणगतशक्त्यावरणापसरणतामात्रं च तेन कार्यभावप्रयोजकीभूतावरणापसरणे कर्माभाववस्थाने स्वत एव कार्योत्पत्तिसम्भवे प्रतिबन्धकाभावस्यापि कारणत्वे गौरवम् ।
 कारणगतशक्त्युत्तेजकत्वेनान्यथासिद्धश्च ।
 तस्माद्योग्यानुपलब्धेरहेतुत्वेन प्रकृते तदभावेऽपि प्रतियोग्युपलम्भरूपप्रतिबन्धकाभावादन्योन्याभावप्रत्यक्षोपपत्तिरित्युक्तम् ।
 यच्चोक्तं पुरुषग्रहेऽपि सहकार्यभावाद्ब्रह्मणत्वस्यैवैक्यमात्रोपपत्तिरिति ।
 तदसङ्गतम् ।
 ऐक्यग्रहानुपपत्त्या भेदनस्य साधनात् ।
 किन्तु नाहमीश्वर इति प्रत्यक्षेणेत्युक्तं भवति ।
 प्रतीतजीवतन्मात्रैक्यवादिनस्तद्दृष्टान्तोऽप्ययुक्तः ।
 एतेनैक्यान्तस्योपनिषदत्वादज्ञातत्वाद्वाऽनुपलब्धिरिति निरस्तम् ।
 यच्चोक्तमहमित्यौपाधिकप्रतीतेः नायं भेदोऽपरिच्छिन्नशुद्धात्मगत इति ।
 तन्न ।
 जडेशवृत्तित्वस्यैव जीवस्वभावत्वात् ।
 नन्वत्रोक्तानुभवस्यैव मानत्वात् ।
 न चापरिच्छिन्नब्रह्मात्मनः कथमयं स्वभाव इति वाच्यम् ।
 तद्भावस्याप्यद्याप्यप्रसिद्धेः ।
 यच्च प्रलपितं नाहमीश्वर इति अहङ्कारधीरिति तदिदमतिमान्दम् ।
 अहं ब्रह्मास्मीत्यादिविलयापत्तेः ।
 नाहमीश्वर इति वन्नामीश्वरेण स्थीयत इत्यादावहमुल्लेखाभावाच्च ।
 अहमिति प्रयोक्त इत्यादिप्रयोगसिद्धोऽहंशब्दस्यास्मच्छब्दाभिन्नार्थकत्वप्रसिद्धेश्चेत्यलं दुर्बलहिंसया ॥ एवमिति ॥ देवदत्तस्य योगेन परजीवाध्यक्षीकरणदशायामिति शेषः ।
 एवं देवदत्तोऽहं न यज्ञदत्तो नाहं जडो घटो नेश्वर इत्याद्यूह्यम् ।

(12) (कु.) तस्माद्भेदे प्रमाणाभावादीश्वरधर्मिकभेदस्यास्मत्प्रत्यक्षाविषयत्वेऽपि तत्प्रत्यक्षविषयत्वं भविष्यतीत्यत आह - ईश्वरधर्मिक इति ॥ ईश्वरस्येति ॥ इदं प्रौढिवादेन ।
 वस्तुतस्तु जन्यलौकिकप्रत्यक्षे प्रतियोगियोग्यतादेस्तन्त्रत्वेनेश्वरप्रत्यक्षस्यानेवंविधत्वेनात्र न तदपेक्षा ।
 अपेक्षायामपि वक्ष्यमाणरीत्या स्तम्भे पिशाचान्योन्याभावप्रत्यक्षदर्शनेन तर्कितप्रतियोगिसत्त्वसञ्जनप्रसञ्जितप्रतियोगिकानुपलब्धेरेवापेक्षितत्वेन तस्याश्च जीवाद्यक्षाभावेनापि सम्भवेन चोद्यानवकाशात् ।
 जीवस्य प्रत्यक्ष इत्यनुषज्यते ।
 नन्वीश्वरस्यायोग्यत्वेन तत्प्रतियोगिकभेदः कथं प्रत्यक्ष इत्याशङ्क्य प्रतियोगिप्रत्यक्षत्वस्य किं सति प्रतियोगिकपदार्थप्रत्यक्षत्वे कारणता किं वाऽभावप्रत्यक्षे उतान्योन्याभावप्रत्यक्षे इति विकल्पं मनसि निधायात्र क्रमेण व्यभिचारानाह - सप्रतियोगिकेति ॥ इदमुपलक्षणम् ।
 वस्तुतस्तु विकल्पद्वयमपि बोध्यम् ।
 स पट इति पटस्य प्रत्यक्षत्वस्फोरणार्थम् ॥ स इति ॥ ` इदमः प्रत्यक्षगतं समीपतरवृत्ति चैतदो रूपम् ।
 अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयादि'त्युक्तेः ।
 एवं गवयसदृशीत्यत्रापि तद्गवयसदृशीति बोध्यम् ।
 ननु यस्य पुंसोऽभावप्रत्यक्षं तत्पुरुषीयप्रत्यक्षयोग्यत्वं प्रतियोगिनस्तदभावप्रत्यक्षतायां तन्त्रम् ।
 परोक्षघटाभावप्रत्यक्षे तु तदस्ति ।
 नास्ति च जीवधर्मिकेश्वरभेदस्थल इति कथं प्रत्यक्षमित्याशङ्कामन्तिमपक्षोक्तदोषेण परिहरति - एतेनेति ॥ प्रतियोगिप्रत्यक्षयोग्यता प्रतियोगिनः प्रत्यक्षयोग्यता ।
 अत एवोत्तरत्रायोग्येश्वरेति ॥ एतेनेत्युक्तं दर्शयति - स्तम्भ इति ।

(12) (हु.) भेदस्य व्यासज्यवृत्तित्वादिपक्षमवलम्ब्य पूर्वपक्षावसरे (* `पूर्वपक्षे' मु.) दूषणकथनेऽपि सिद्धान्तकथनावसरे वस्तुस्थितिमालम्ब्यैव समाधानमाह - ईश्वरधर्मिक इत्यादिना ।
 कस्यचित्प्रत्यक्षसत्त्वमात्रेण भेदे प्रत्यक्षं प्रमाणमित्युक्तेर्युक्तत्वान्न सर्वेषां तदसत्त्वं बाधकमिति भावः ।
 अस्माकं तन्निश्चायकप्रमाणप्रश्ने तत्प्रत्यक्षोपन्यासोऽकिञ्चित्कर इति चेन्न ।
 आप्तवाक्यसिद्धतत्प्रत्यक्षेण देशान्तरस्थवस्तुनिश्चयवदत्राप्युपपत्तेः ।
 तत्प्रत्यक्षं नास्माकं प्रत्यक्षविधया घटप्रत्यक्षवत्संशयोच्छेदहेतुः किन्तु लिङ्गविधयेति चेत् ।
 अत्रापि तथाऽस्तु का क्षतिः सभायां वस्तुविशेषे लौकिकप्रत्यक्षस्य मध्यस्थं प्रति प्रमाणत्वेनोपन्यासवदत्रापि तथोक्तौ बाधाभावात् ।
 ईश्वरस्य प्रत्यक्षसद्भावे किं मानमित्यत आह - ईश्वरस्येति ॥ तद्वचनमिति ॥ आप्तवाक्येन तत्प्रत्यक्षसिद्धिवदत्रापि तथेति भावः ।
 ननु जन्यभेदलौकिकप्रत्यक्षे (* अत्र जन्यपदं हु.पाठे नास्ति ।
) प्रतियोगिप्रत्यक्षस्य कारणत्वं भेदस्य व्यासज्यवृत्तित्वेनैकस्यैवोभयवृत्तित्वपक्षे यावदाश्रयप्रत्यक्षं विना तत्प्रत्यक्षं न (सं)भवतीत्येव वक्तव्यम् ।
 अन्यथा गगनघटद्वित्वसंयोगादिप्रत्यक्षापत्तेः ।
 प्रतियोग्यवृत्तित्वेन धर्मिमात्रवृत्तित्वपक्षेऽप्यनुभवसाम्याय प्रतियोग्यनुयोगिप्रत्यक्षयो रूपान्तरेण कारणतयाऽवश्यं पूर्वं सत्त्वमावश्यकम् ।
 अत एव स्तम्भे पिशाचभेदोऽपि न प्रत्यक्षः ।
 मतान्तरे पिशाचरूपाश्रयप्रत्यक्षाभावेन तत्प्रत्यक्षाभावस्यावश्यकत्वेनैतन्मतेऽपि तादृशानुभवसाम्याय (* `-वश्यकत्वेनानुभवसाम्याय' मु.) तथाङ्गीकारौचित्यात् ।
 तथैव भेदलौकिकप्रत्यक्षं प्रति तद्धर्मितत्प्रतियोग्युभयनिष्ठलौकिकविषयताशालिप्रत्यक्षत्वं (* `तद्धर्मितत्प्रतियोग्युभयनिष्ठलौकिकविषयताशालिप्रत्यक्षत्वं' हु. ।
 `तद्धर्मिप्रतियोग्युभयलौकिकविषयताशालित्वं' मु. ।
 अयम् उभयोः समावेशेन लब्धः पाठः ।
  व्यापकम् ।
 अव्यभिचरितसहचारदर्शनेन वह्नेर्धूमव्यापकताया इव तस्य निश्चयात् (* `तन्निश्चयात्' मु.) ।
 एवञ्चेश्वरज्ञानस्य मायावृत्त्यात्मकत्वस्य जन्यत्वात्तं प्रति जीवेश्वरोभयप्रत्यक्षस्य पूर्वं सत्त्वमावश्यकम् (* `पूर्वसत्वम्' मु.) ।
 तस्य नित्यत्वेऽप्युक्तव्याप्यव्यापकभावनिर्वाहाय तत्प्रत्यक्षेऽप्युभयोर्लौकिकविषयत्वमावश्यकम् ।
 तच्चात्र न घटते ।
 अणुत्वेन लौकिकचाक्षुषायोग्यस्य (* `-चाक्षुषविषयत्वायोग्यस्य' हु.) जीवस्य परमात्मचाक्षुषेऽपि भानासम्भवात् ।
 परमात्मनः परमानसविषयत्वादर्शनेनेश्वरमानसगोचरत्वस्याप्यसम्भवादित्यत आह (* `परमात्मचाक्षुषेऽपि' इति पूर्ववाक्यस्थपदादारभ्य इतः पर्यन्तं हु.पाठे एवं दृश्यते - ` लौकिकविषयता ईश्वरचाक्षुषेऽपि लौकिकभानासम्भवात् परमानसविषयत्वस्य परमात्मदर्शने नेश्वरमानसगोचरत्वस्याप्यसम्भवादित्यत आह' इति ।
) ॥ ईश्वरस्य जीवाध्यक्षीकरणक्षमत्वादिति ॥ क्षमत्वात्समर्थत्वादित्यर्थः ।
 अन्यथाऽघटितघटनाशक्तिमत्त्वरूपेश्वरत्वस्यैव हानिप्रसङ्गात् ।
 अत एवेश्वरस्येति हेतुगर्भविशेषणम् (* `हेतुगर्भम्' हु.) ।
 हन्त तर्हि चेतनमपि घटं कुर्याज्जीवमपि स्वात्मानं कुर्यात् ।
 मैवम् (* `इति चेन्न' हु.)।
 प्रमाणसिद्धस्य लोकरीत्या घटनावैधुर्येण (* `घटनौवधुर्येण' मु.) प्रतीयमानस्य घटकतया `विचित्रशक्ति'रित्यादिप्रमाणैस्तच्छक्तौ सिद्धत्वात् ।
 परमात्मनश्च `सर्वपदार्थविषयकसाक्षाद्द्रष्दृत्वं ' `साक्षी चेता केवलो निर्गुणश्च' यः सर्वज्ञः स सर्वविदित्यादिश्रुतिस्मृतिसहस्रसिद्धमिति भावः ॥ न चोद्यावकाश इति ॥ इदानीमीश्वरप्रत्यक्षे जीवाविषयकत्वमवलम्ब्य चोद्यस्योत्थाने खलु तन्निरासाय प्रतियोगिप्रत्यक्षकारणत्वखण्डनस्यान्यत्र (* `-प्रत्यक्षस्य कारणत्व-' मु. ।
 अत्र एतद्वाक्यस्थ अन्यत्रेति पदमारभ्य अग्रिमवाक्यस्थम् आदौ इति पदं यावत् हु.पाठे एवं पठ्यते - `वा ईश्वरज्ञाननित्यत्वादिविचारपूर्वकं तन्निरासोऽपेक्षितः' इति ।
) तादृशकारणत्वमङ्गीकृत्येश्वरप्रत्यक्षनित्यत्वविचारपूर्वकं तत्र प्रतियोगिप्रत्यक्षानुपयोगस्य वा कथनावसरः ।
 आदौ तच्छङ्कैव नावतरति ।
 तस्य मायिकसर्वज्ञत्वे वा स्वाभाविकसर्वज्ञत्वे वा तत्प्रत्यक्षाविषयवस्तुनः केनापि वादिनाऽनङ्गीकृतत्वात् ।
 अत एवोक्तेश्वरवचनात् (तस्य) स्वव्यवहारप्रयोजकज्ञानसिद्धावपि तस्य प्रत्यक्षरूपत्वमसिद्धमिति निरस्तम् ।
 प्रथमतस्तस्यैव प्राप्तत्वेन तत्परित्यागे बाधकाभावात् ।
 तथा च तन्निरासार्थं प्रतियोगिप्रत्यक्षकारणत्वादिखण्डनस्यानाकाङ्क्षितत्वात्तन्निराकरणं न क्रियते किन्तु जीवस्य भेदप्रत्यक्षव्यवस्थापनावसर एवानुपदं क्रियते ।
 तत इदानीमेवाकाङ्क्षितमकृत्योत्तरत्र (* `-आकाङ्क्षितमकृत्वा-' इति पाठेन भाव्यमिति भाति ।
) तत्करणे सन्दर्भाशुद्धिरिति मनः खेदो न कार्य इति भावः ।
 केचित्तु जन्यप्रत्यक्षे प्रतियोगिज्ञानस्य कारणत्वेनेश्वरप्रत्यक्षे तस्य कारणत्वाप्रसक्त्या वक्ष्यमाणन्यायेन तस्य खण्डितत्वेन च चोद्यप्रसक्तिविरहेण जीवविषयकप्रत्यक्षरूपकारणकथनेन तदनवकाशकथनं प्रौढिवादमात्रमित्याहुः (* `तदनवकाशः कथं तत्प्रौढिवादमात्रमित्याहुः' मु.) ।
 अस्मदुक्तरीत्यैतत्पङ्क्त्युथानसम्भवेनोत्तरग्रन्थे तत्कारणताखण्डनेऽपीदानीमीश्वरप्रत्यक्षस्य जन्यत्वभ्रमेण प्राप्तशङ्कामङ्गीकृत्य समाधिसौकर्येण परिहारकरणस्य च सम्भवेन चाविमर्शपूर्वकोक्तिपर्यवासायि प्रौढिवादत्वं कथमस्य ग्रन्थस्येति त एव प्रष्टव्याः ।
 (* `अस्मदुक्तरीत्या तदुक्त्युपयोगेन पूर्वग्रन्थे तस्य कारणत्वाखण्डनेनेश्वरप्रत्यक्षे जन्यत्वभ्रमेण चोद्यस्याभ्युपगमवादेन परिहारस्य सम्भवाच्च कथमस्य प्रौढिवादत्वमिति त एव प्रष्टव्याः ।
' हु. ।
) ॥ ईश्वरप्रतियोगिक इति ॥ जीवस्येति ॥ जीवस्यापीत्यर्थः ।
 ननु पूर्वपक्षोक्तरीत्या प्रतियोगिप्रत्यक्षकारणताया व्यवस्थापितत्वाज्जीवस्य तदभावात्कथं तत्प्रत्यक्षसम्भव इत्याशङ्क्य किं सप्रतियोगिक इति प्रत्यक्षमात्रे प्रतियोगिप्रत्यक्षकारणत्वमुताभावप्रत्यक्ष इति विकल्पौ हृदि निधायाद्ये व्यभिचारमाह - इयं गौरिति ॥ सन्निकृष्टगवि स्मृतारण्यकगवयसादृश्यप्रत्यक्षे व्यभिचारान्नेदं युक्तमिति भावः ।
 द्वितीये दार्ढ्यायात्यन्ताभावस्थलेऽन्योन्याभावस्थलेऽप्युभयत्र व्यभिचारमाह - इह स पट इति ॥ पटस्य तत्काले परोक्षत्वद्योतनाय स इति निर्देशः ।
 तेन (प्रतियोगि)प्रत्यक्षरूपकारणाभावस्य तत्काल उपपादनम् ।
 सप्रतियोगिकप्रत्यक्षे वाऽत्यन्ताभावप्रत्यक्षेऽथवाऽन्योन्याभावप्रत्यक्ष इति विकल्पान् हृदि निधाय क्रमान्निराकरोतीति नावतरणं कार्यम् ।
 अत्यन्ताभावप्रत्यक्षे प्रतियोगिप्रत्यक्षकारणत्वाकारणत्वयोः पूर्वपक्षसिद्धान्तयोरनुपयोगेनात्यन्ताभावप्रत्यक्षत्वेन विकल्पकोटौ निवेशासङ्गतेः ।
 अभावप्रत्यक्षत्वेन द्वितीय(विकल्प)कोटिं परिकल्प्यान्योन्याभावप्रत्यक्षत्वेन तृतीयकोटिं निवेश्य क्रमान्निराहेत्यवतरणमपि युक्तम् ॥ स्तम्भ इति ॥ नन्वेतत्प्रत्यक्षरूपं न भवतीत्युक्तमेवेति वाच्यम् ।
 यत एकस्यैव घटप्रतियोगिकत्वेन तदितरसर्वानुयोगिकत्वेनास्मदभ्युपगतभेदस्य व्यासज्यवृत्तित्वे द्वित्ववत्प्रतियोगिन्यनुयोगिकव्यक्तावेको भेदः ।
 एवं प्रतियोगिनि तदन्यापरानुयोगिव्यक्तावेको भेद इत्युच्यते ।
 उक्तप्रतियोगिनि (तदन्य)सर्वानुयोगिष्वेक एव भेद इत्युच्यते ।
 आद्ये घटप्रतियोगिकभेदस्यैवानुयोगिकभेदेन नानात्वस्याप्रामाणिकस्यैव कल्पनाप्रसङ्गः ।
 द्वितीये घटभेदस्याप्रत्यक्षत्वापत्तिः ।
 जन्मसहस्रेणापि तदाश्रययावद्व्यक्तीनां युगपत्प्रत्यक्षासम्भवात् ।
 पक्षद्वयेऽपि घटः स्वस्माद्भिन्न इति प्रतीतिवारणाय पूर्वोक्तरीत्या विलक्षणाधिकरणत्वादिकल्पनागौरवं चेत्याद्युक्त्या तन्मतस्य हेयत्वेन तन्मताङ्गीकृतानुभवसाम्यस्याकिञ्चित्करत्वेन स्तम्भे पिशाचभेदप्रत्यक्षस्य सर्वानुभवसिद्धस्यापलापानर्हत्वात् ।
 तथा च प्रतियोगिप्रत्यक्षस्य भेदप्रत्यक्षहेतुत्वाभावात्तज्ज्ञानमात्रस्य हेतुत्वादीश्वरप्रत्यक्षं विनाऽप्यागमजन्यज्ञानेन तत्स्मरणसम्भवान्नाहं सर्वज्ञः सर्वेश्वर इत्यादिरूपमीश्वरभेदप्रत्यक्षं युक्तमेव(मेवेति भावः) ।
 आगमस्य चिन्मात्रपरत्वान्नेश्वरनिश्चयः सम्भवतीति न युक्तम् ।
 उत्तरत्रागमस्य भेदपरत्वव्यवस्थापनेन तस्य निरसनीयत्वात् ।
 आगमतात्पर्यनिर्णयात्प्रागेव सार्वज्ञादिवैदिकपदैस्तज्ज्ञानमात्रेणाप्युक्तप्रतियोगिस्मृतिसम्भवाच्च ।
 माऽस्तु तर्हि प्रतियोगिप्रत्यक्षमभावप्रत्यक्षत्वावच्छिन्नेऽन्योन्याभावप्रत्यक्षत्वावच्छिन्ने वा कारणम् ।
 तथाऽप्यभावप्रत्यक्षत्वावच्छिन्नं प्रति लौकिकप्रत्यक्षविषयप्रतियोगिज्ञानत्वेन हेतुता वाच्या ।
 अन्यथा भूतलादौ पिशाचाभावप्रत्यक्षापत्तेः ।
 तथा चेश्वरस्य प्रत्यक्षाविषयत्वात्तज्ज्ञानेन न तद्भेदप्रत्यक्षमित्याशङ्क्यात्यन्ताभावप्रत्यक्षस्थले तथा कार्यकारणभावो नान्योन्याभावस्थले स्तम्भे पिशाचभेदप्रत्यक्षादौ व्यभिचारात् ।
 किन्त्वधिकरणप्रत्यक्षत्वेन प्रतियोगिज्ञानत्वेन च कारणता ।
 अनुभवानुसारेण सर्वपदार्थव्यवस्थाङ्गीकारात्प्रकृते न काऽप्यनुपपत्तिरित्याह - एतेनेत्यादिना ।
 एतेन पिशाचभेदप्रत्यक्षे व्यभिचारेण ।
 अभावप्रत्यक्षयोग्यताया अभावनिष्ठप्रत्यक्षयोग्यतायाः ।
 योग्यता च विषयता वा यावद्द्रव्यपदार्थान्तरं (* `विषयतैव वा तदन्या यावत्स्वकालं विद्यमानं पदार्थान्तरं' हु.) वेत्यन्यदेतत् ।
 प्रतियोगिप्रत्यक्षाधीनत्वात् उक्तरीत्या प्रतियोगिप्रत्यक्षयोज्यत्वात् ।
 प्रत्यक्षविषयप्रतियोगिज्ञान (*नि)त्वेन हेतुत्वे प्रतियोगिप्रत्यक्षस्य कारणतावच्छेदकघटकतया परम्परया भावविषयतारूपकार्यतावच्छेदके तत्समशीलयोग्यतया (*ता) वा प्रयोजकत्वमव्याहतम् ॥ स्तम्भ इति ॥ तस्याः = प्रतियोगिनिष्ठप्रत्यक्षयोग्यतायाः ।
 चशब्दः पूर्वोक्तव्यभिचारसमुच्चायकः ।
 अन्योन्याभावाविषयत्वात् अन्योन्याभावप्रत्यक्षेऽप्रयोजकत्वाभावात् (* `-प्रत्यक्षेऽप्रयोजक-' मु.) ।
 तत्रैवानुभवादित्यन्तं हेतुः ।
 तथा च पूर्वोक्तव्यभिचारादनुभवानुसारेणान्योन्याभावस्थले तथा कार्यकारणभावाकल्पनाच्च तदवष्टम्भेन शङ्का निरस्तेति भावः ।
 अन्योन्याभावविषयत्वाच्च तस्या इति स्त्रीलिङ्गान्तं प्रामादिकं, बहुपुस्तके पुल्लिङ्गान्तपाठदर्शनात् ।
 (* `इति स्त्रीलिङ्गान्तः क्वचित्तस्येति क्वचित्पुल्लिङ्गान्तस्तत्र स्त्रीलिङ्गान्तपाठो लेखकदोषायत्तोऽसमवेतार्थत्वात्क्वाचित्कत्वाच्च ।
' मु.) तत्पक्षे चायमर्थः ।
 एतेनेत्युक्तं विवणोति - स्तम्भ इति ॥ तादृशानुभवसत्त्वेऽपि प्रकृते किमायातमित्यत आह - तस्येति ॥ तस्य चेत्यन्वयः ।
 चस्त्वर्थः ।
 तथा च व्यभिचारान्नेदं युक्तमिति भावः ।
 योग्यानुपलब्धेरभावप्रत्यक्षे हेतुत्वपक्षेऽप्यहं यदि सर्वज्ञः स्यात् (*तर्हि) तथाऽनुभूतः स्यामित्यापादनयोग्योपलब्धिप्रतियोगिकानुपलब्धिरत्राक्षतैवेति न भेदप्रत्यक्षस्यानुपपत्तिः ।
 अनुपलब्धिस्वरूपं तु द्वैतद्युमणौ प्रत्यक्षयोग्यसत्त्वनिरुक्त्यवसरे विचारितं तत्रैवानुसन्धेयम् ।
 एवं जीवधर्मिकेश्वरभेदेश्वरधर्मिकजीवभेदयोर्मुख्यतः प्राप्तयोर्विषये प्रत्यक्षं समर्थ्य प्रसङ्गतो वा परम्परया वा यथाकथञ्चित्तदुपयोगित्वेन (वा) प्राप्ते जीवप्रतियोगिकजीवधर्मिके भेदे तदुपपादयति - एवमिति ॥ एवं यज्ञदत्तप्रतियोगिकदेवदत्तधर्मिको भेदो देवदत्तस्य प्रत्यक्ष इत्याद्यूह्यमिति पाठः सार्वत्रिकः सुसङ्गत एव ।
 क्वचित्तु विष्णुमित्रधर्मिकः यज्ञदत्तप्रतियोगिकः भेदः इत्याद्यूह्यमिति पाठः ।
 (* `इत्याद्यूह्यमिति दाक्षिणात्यपुस्तकपाठः सुलग्न एव ।
 देशान्तरस्थेषु बहुषु कोशेषु विष्णुधर्मिको यज्ञदत्तप्रतियोगिको भेदो देवदत्तस्याध्यक्ष इत्याद्यूह्यमिति पाठो दृश्यते ।
 तत्र' मु.) यद्यपि देवदत्तपरिदृश्यमानयोर्यज्ञदत्तविष्णुमित्रशरीरयोरेव भेदोऽनुभूयते न तच्चेतनयोर्भेदः साक्षात्क्रियते ।
 चक्षुराद्ययोग्यत्वेन तच्चाक्षुषत्वायोगात् ।
 तदीयजीवस्य देवदत्तसाक्ष्यवेद्यत्वेन साक्षिणोऽपि तत्राप्रवृत्तेः ।
 तथा चेदमयुक्तमिति भाति ।
 तथाऽपि तदिन्द्रियजन्याभावप्रत्यक्षे प्रतियोगिसत्त्वप्रसञ्चनप्रसञ्चिततत्तदिन्द्रियजन्यप्रत्यक्षरूपप्रतियोगिकानुपलब्धिरेव हेतुरिति न ।
 किन्तु यत्र यस्य प्रतियोगिनो यज्जन्यज्ञानयोग्यत्वं तत्सत्तयाऽऽपादनयोग्यतान्निश्चयरूपप्रतियोगिप्रतियोगिकाभाव एव योग्यानुपलब्धिपदार्थः ।
 स एवाभावप्रत्यक्षे हेतुः ।
तत्सत्तायामपि तज्जन्यनिश्चयाभावस्तत्र तदभावप्रत्यक्षहेतुः ।
 (* इदं वाक्यं मु.पाठे नास्ति ।
) एवञ्च यज्ञदत्तशरीरस्थचेतनस्य पूर्वकालोपलक्षितस्यैतत्कालीनस्य च तदनुभूतस्मरणादिभिः(दिना) तदाभिसंहितफलविरोधिचेष्टाभावादिलिङ्गैश्चाभेदो (* `तद्विरुद्धचेष्टादिलिङ्गैश्चाभेदो' हु.) निश्चीयते ।
 न च (* इतस्तृतीयवाक्यगत`धरम्यंशे'तिपदपर्यन्तं मु.पाठे एवं दृश्यते - `न च तथा यज्ञदत्तविष्णुमित्रशरीरावच्छिन्नचेतनयोरभेदानुमापकलिङ्गान्यनुभूयन्ते ।
 ततश्च घटोऽत्र यदि स्यात्तर्ह्युपलभ्येतेतिवदनयोरभेदो यदि स्यात्तत्कार्यलिङ्गकतन्निश्चयापत्तिः ।
 यज्ञदत्तीयशरीरावच्छिन्नचेतनाभेदस्येत्यापादिततत्तन्निश्चयाभावसहकृतेन तन्निष्ठभेदेन सह धर्म्यन्तरघटितसंयुक्तविशेषणतारूपसन्निकर्षवता धर्म्युपस्थितिसहितेन चक्षुषैव' ।
) यज्ञदत्तविष्णुमित्रयोरभेदोऽस्ति ।
 अभेदे तादृशानुमापकलिङ्गानि तज्जन्यानुमितिश्च स्यादित्यापाद्यमानानुमित्यभावसहकृतचक्षुषैव तन्निष्ठभेदेन सह यथाकथञ्चित् संयुक्तविशेषणतासन्निकर्षसहितेन धर्म्युपस्थितिसहितेन धर्म्यंशे उपनयरूपं भेदांशे लौकिकं विष्णुमित्रचेतने यज्ञदत्तचेतनभेद इत्याकारकं प्रत्यक्षं भवतीति भावः ।
 अधिकरणस्याप्रत्यक्षत्वेऽपि गगने उद्भूतरूपाभाव इति प्रत्यक्षानुभवबलेनात्यन्ताभावप्रत्यक्षे नाधिकरणस्य योग्यत्वं तन्त्रं किन्तु योग्यानुपलब्धिमात्रमिति स्वीकारवद्गगने उद्भूतरूपवद्भेद इति प्रत्यक्षानुभवबलेनात्रापि तथा(त्वा)ऽङ्गीकारस्यावश्यकत्वात् ।
 न च तत्रोद्भूतलिङ्गकानुमितिविषय एवोद्भूतरूपवद्भेदो न प्रत्यक्षविषय इति वाच्यम् ।
 विनिगमकाभावेन वैपरीत्यस्यापि वक्तुं शक्यत्वात् ।
 व्याप्यवृत्तिधर्मात्यन्ताभावतदवच्छिन्नप्रतियोगिताकभेदयोः समनियतत्वेनैक्यपक्षे तस्यावर्जनीयत्वाच्च ।
 यद्वा यज्ञदत्तपिण्डे विष्णुमित्रपिण्डे च चेष्टालिङ्गेन सात्मकत्वसिद्ध्यनन्तरं तत्तदात्मविशिष्टपिण्डयोः परस्परं (भेदस्य) लौकिकप्रत्यक्षे विशेषणतावच्छेदकयोरुभयोर्भेदोऽप्यलौकिकसन्निकर्षेण भासते ।
 तदुत्तरं स्वात्मतदात्मनोरिव तयोरपि परस्परमभेदसंशयानुदयानुभवात् ।
 अन्यथा लौकिकानां त्वच्छास्त्रजनिताप्रामाण्यशङ्कां विना संशयादिना व्यवहारोच्छेदप्रसङ्गात् ।
 तथा च तयोर्भेदेऽपि देवदत्तप्रत्यक्षं प्रवर्तत एव ।
 परन्तु तदंशे लौकिकत्वशून्यम् ।
 तच्चानुपयुक्तमस्माभिर्लौकिकमेवेत्यप्रतिज्ञानात् ।
 न चालौकिकप्रत्यक्षस्याप्यर्थसाधकत्वे गगने कालत्वसिद्धिरपि स्यात् कदाचित्तादृशोपनीतभानस्यापि सम्भवादिति वाच्यम् ।
 प्रबलप्रमाणान्तरबाधे स्यादेव ।
 न च तथाऽस्ति ।
 प्रकृते तु प्रबलप्रमाणान्तरबाधो नास्त्येव ।
 प्रत्युताहमेतस्माद्भिन्न इत्यादितद्वाक्यैर्विरुद्धधर्मवत्त्वादिलिङ्गैश्च भेदस्यैव सिद्ध्या तत्संवादस्यैवात्र सत्त्वात् ।
 यद्वा देवदत्तो योगी चेत् चेतनद्वयभेदविषयकं प्रत्यक्षं युक्तमेव ईश्वरवत् ।
 (* `यद्वा शेषधर्मादौ कथितो देवदत्तो योगी ग्राह्यः ।
 तस्येश्वरभेदवच्चेतनद्वयभेदद्वयविषयकं प्रत्यक्षं युक्तमेव ।
' मु.) योगिप्रत्यक्षस्यापि साक्षात्करोमीति तदीयव्यवहारनिर्वाहकत्वात् ।
 लौकिकप्रत्यक्षतुल्यत्वमेवेतीश्वरप्रत्यक्षवत्तस्यापि प्रकृते प्रमाणत्वेनोपन्यासो युक्तः ।
 स्वात्मधर्मिकान्यात्मप्रतियोगिकभेदस्तु सर्वेषां (स्वीय)लौकिकप्रत्यक्षविषयो भवत्येवेति नोपपादनापेक्षाऽत्रेत्याशयवानाह - इत्याद्यूह्यमिति ॥

(12) (का.) सिद्धन्तं प्रतिजानीते ॥ अत्रायमित्यादिना ॥ अत्र पूर्वपक्षेऽयं वक्ष्यमाणः परिहारो दूषणोद्धार इत्यर्थः ।
 पूर्वपक्षक्रमेणैव सिद्धान्ताभिधानमिति ज्ञापनाय प्रथमतः प्रथमदूषणोद्धारं प्रतिजानीते ॥ यत्तावदिति ॥ ईश्वरधर्मिक इति ॥ यद्यपि भेदसामान्यमीश्वरप्रत्यक्षविषयः ।
 तत्प्रत्यक्षे च `द्वाविमौ पुरुषौ लोक' इत्यादि तद्वचनमेव प्रमाणम् ।
 तथापि `स्वधर्मिकस्वेतरप्रतियोगिकभेदः स्वप्रत्यक्ष' इति सामान्यतो नियममभिप्रेत्येदं निदर्शितम् ।
 प्रथमश्लोक ईश्वरधर्मिकभेदस्यैव प्राधान्येन प्रस्तुतत्वाद्वा ।
 यद्यपि तत्र जडप्रतियोगिकभेदोऽपि प्रकृतः ।
 तथापि प्रथमं जीवेश्वरभेद एव प्रत्यक्षप्रमाणाभावस्य शङ्कितत्वाज्जीवप्रतियोगिक इत्येवोक्तम् ।
 एवमुत्तरत्रेश्वरप्रतियोगिकादिग्रहणस्य सङ्गतिरवसेया ।

नन्वीश्वरस्यैतादृशभेदप्रत्यक्षसद्भावे प्रमाणभावः ।
 परबुद्धेरप्रत्यक्षत्वात् ।
 न चेश्वरः स्वधर्मिकस्वेतरभेदप्रत्यक्षवान्, आत्मत्वात् अस्मदादिवदित्यनुमानं मानमिति वाच्यम् ।
 अनुकूलतर्काभावेनाप्रयोजकत्वात् ।
 नाप्यागमः ।
 तस्य तादृशार्थे प्रामाण्यानवधारणादित्यत आह - ईश्वरस्येति ॥ तद्वचनमिति ॥ कृष्णरूपेश्वरवचनमित्यर्थः ।
 तथाचेदं वाक्यं वाक्यार्थ विषयकेश्वरीयप्रत्यक्षपूर्वकम् ।
 ईश्वरीयप्रमाणवाक्यत्वात् ।
 तादृशवाक्यान्तरवत् ।
 परोक्षज्ञानरहित ईश्वरो वैतद्वाक्यार्थज्ञानवान् ।
 एतद्वाक्यप्रयोक्तृत्वात् ।
 यो यद्वाक्यप्रयोक्ता स तदर्थज्ञानवान् ।
 यथा यज्ञदत्त इत्याद्यनुमानमीश्वरस्या जीवपकृतिभिन्नत्वरपवाक्यार्थप्रत्यक्षसद्भावे प्रमाणम् ।
 एतद्वाक्यप्रामाण्यं चोभयवादिसिद्धम् ।
 एतादृशगमानुगृहीतत्वादुक्तानुमानमपि प्रमाणमेवेत्यातशयः ।
 यद्यपि भेदप्रतिपादकतद्वाक्येन तत्प्रत्यक्षं प्रसाध्य तेन भेदसाधनापेक्षया तद्वाक्येनैव भेदसाधने लाघवम् ।
 तथापि परेण जीवेश्वरभेदे प्रत्यक्षप्रमाणासम्भवस्योक्ततया तन्निषेधाय परम्पराश्रयणम् ।

अथ व्यावहारिकभेदस्यैवेश्वरीयप्रत्यक्षविषयत्वान्न ततः पारमार्थिकभेदसिद्धिरिति चेत् स किं पारमार्थिकत्वेन प्रतीयते व्यावहारिकत्वेनैव वा ।
 नाद्यः ।
 ईश्वरस्यापि भ्रान्तत्वापातात् ।
 द्वितीये च तद्व्यावहारिकत्वं बाध्यमबाध्यं वा ।
 आद्ये बाध्यार्थग्राहित्वात्स एव दोषः ।
 तत्त्वतो भेदस्य व्यावहारिकत्वापत्तिश्च ।
 अन्ते त्वपसिद्धान्तः ।

किञ्चोक्तवचनानां वक्ष्यमाणरीत्या व्यावहारिकभेदपरत्वानुपपत्तौ तदनुमेयतदर्थभूतभेदप्रत्यक्षस्य कथं व्यावहारिकविषयत्वमिति दिक् ।

ननु प्रतियोग्यादिप्रत्यक्षाभावेन जीवेश्वरभेदप्रत्यक्षं प्रागेव दूषितमतः कथमेतदित्यत आह - ईश्वरस्येति ॥ अन्यथा सर्वज्ञत्वानुपपत्तेरिति भावः ।
 एतच्चाभ्युपेत्यैवोक्तम् ।
 उक्तप्रतियोगिप्रत्यक्षापेक्षाया अनुपदमेव दूष्यत्वादीश्वरप्रत्यक्षस्य कारणानपेक्षत्वाच्चेति सूचनाय न दोषावकाश इत्यनुक्त्वा न चोद्यावकाश इत्युक्तम् ।
 जीवधिकरणकस्तु भेदो जीवस्य प्रत्यक्ष इति सम्बन्धः ।
 नाहं सर्वज्ञो नाहं निर्दुःख इत्यनुभवादिति भावः ।

नन्वीश्वरस्याप्रत्यक्षत्वात्कथं तत्प्रतियोगिकभेदस्य प्रत्यक्षत्वमिति चेत् तत्किं प्रतियोगिप्रत्यक्षं सप्रतियोगिकपदार्थप्रत्यक्षमात्रेऽभावप्रत्यक्षमात्रेऽन्योन्याभावप्रत्यक्ष एव वा कारणम् ? किं वा योग्यानुपलब्धेरभावप्रत्यक्षहेतुत्वादभावयोग्यत्वे प्रतियोगियोग्यतायाः प्रयोजकत्वमिष्यते ? आद्यपक्षत्रयं दूषयति - सप्रतियोगिकेति ॥ इत्यादौ प्रत्यक्षे व्यभिचारात् ।
 पूर्वक्षणे प्रतियोगिभूतगवयादिप्रत्यक्षाभावेऽपि तादृशप्रत्यक्षजननादिति भावः ।
 चतुर्थं तृतीयदोषातिदेशेन दूषयति - एतेनेति ॥ एतदेव विवणोति - स्तम्भ इति ॥ प्रतियोगिनः पिशाचस्यायोग्यत्वेऽपीत्यादिः ।
 इत्यनुभवात् इत्याकारकप्रत्यक्षजननात् ।
 तथाच तत्र व्यभिचारेण योग्यानुपलब्धेरभावप्रत्यक्षसामान्यहेतुत्वासम्भवान्नाभावयोग्यतायाः प्रतियोगियोग्यताधीनत्वमिति भावः ।

यद्वा, ननु पिशाचभेदप्रत्यक्षमेव नास्तीति नोक्तव्यभिचार इत्यत आह - स्तम्भ इति ॥ इत्यनुभवात् इति प्रत्यक्षस्यानुभवसिद्धत्वात् ।
 अन्यथाऽनुभवविरोध इति भावः ।
 ननु पिशाचो न भवतीति प्रतीतिस्तद्विरोधविषयैवास्तु ।
 विरोधस्यापि नञर्थत्वादत आह - अन्योन्याभावेति ॥ अर्थान्तरानुपस्थितावपि तस्यानुभवसिद्धत्वादिति भावः ।
 नन्वभावयोग्यतायाः प्रतियोगियोग्यतानधीनत्वे गुरुत्वाद्यभावप्रत्यक्षापत्तिः ।
 न च संसर्गाभावप्रत्यक्षे प्रतियोगियोग्यत्वम्, अन्योन्याभावप्रत्यक्षे चाधिकरणयोग्यत्वं प्रयोजकमिति वाच्यम् ।
 स्तम्भे पिशाचत्वात्यन्ताभावस्य वायावुद्भूतरूपवद्भेदस्य च प्रत्यक्षानुपपत्तेरिति चेन्न ।
 अनुभवानुसारेण तत्तदभावत्वस्यैव तत्तद्योग्यताप्रयोजकत्वात् ॥ विष्णुमित्रस्येति ॥ नाहं यज्ञमित्र इत्याद्यनुभवादिति भावः ।
 इत्यादीत्यादिना सर्वस्यापि स्वधर्मिकस्वेतरप्रतियोगिकभेदः स्वप्रत्यक्ष इत्येतत्परिग्रहः ।

(12) (श.) सिद्धान्तयति - अत्रेति ॥ अत्र भेदप्रमाणदूषणविषये ।
 अयं वक्ष्यमाणः ।
 परिहारः दूषणोद्धारप्रकारः ।
 अत्राभेदसाधकप्रमाणविषये परिहारो निराकरणप्रकार इति चार्थः ।
 तत्र तावद्भेदप्रमाणदूषणपरिहारप्रकारं दर्शयति - यत्तावदित्यादिना ॥ ईश्वरस्य प्रत्यक्ष इति ॥ तस्य नाहं जीव इत्यनुभवसिद्धत्वादिति भावः ।
 नन्वीश्वरबुद्धेरप्रत्यक्षत्वेनेश्वरस्य तादृशप्रत्यक्षं वर्तत इत्यस्माभिः कथं ज्ञातव्यमित्यत आह - तस्येति ॥ कृष्णरूपेणेशेन `द्वाविमौ पुरुषौ लोक' इत्यादिना क्षराक्षरपुरुषद्वयं निरूप्य उत्तमः पुरुष आभ्यामन्यो न त्वेनयोरन्यतर इत्यभिहितम् ।
 नच तस्यातादृशप्रत्यक्षाभावे एवंविधवचनप्रयोगः सम्भवति ।
 अतो ज्ञायते अस्तीशस्यैतादृशप्रत्यक्षमितीति भावः ।
 जीवस्याणुत्वेनाप्रत्यक्षात्कथं तत्प्रतियोगिकभेदस्य प्रत्यक्षत्वमित्यत आह - ईश्वरस्येति ॥ क्षमत्वात् समर्थत्वात् ।
 सर्वज्ञत्वादिति भावः ।
 इदं चाभ्युपेत्योक्तम् ।
 सप्रतियोगिकेत्यादिनाऽनुपदमेव तादृशनियमनिराकरणादिति ध्येयम् ॥ जीवस्येति ॥ तस्य नाहं सर्वज्ञो न निर्दुःख इत्यनुभवसद्भावादिति भावः ।
 प्रतियोगिभूतेश्वरस्याप्रत्यक्षत्वे कथं तत्प्रतियोगिकभेदस्य प्रत्यक्षत्वमित्यत आह - सप्रतियोगिकेति ॥ प्रतियोगिनिरूप्येत्यर्थः ॥ इयमिति ॥ वने गवयमनुभूय नगरगतस्य गोदर्शने इयं गौर्गवयसदृशीति गवयप्रतियोगिकसादृश्यप्रत्यक्षं जायते ।
 नच तत्र प्रतियोगिभूतगवयप्रत्यक्षमस्ति ।
 तस्य वनस्थितत्वेन व्यवहितत्वात् ।
 अतोऽत्र व्यभिचारान्नोक्तनियम इत्यर्थः ।
 नन्वभावरूपसप्रतियोगिकपदार्थप्रत्यक्षे प्रतियोगिप्रत्यक्षनियमोऽङ्गीक्रियते ।
 सादृयस्य भावरूपत्वान्न तत्प्रत्यक्षे व्यभिचार इत्यत आह - इह घटो नेति ॥ इह भूतले घटो नास्तीति घटप्रतियोगिकाभावप्रत्यक्षं जायते ।
 नच तत्र प्रतियोगिभूतलघटप्रत्यक्षमस्ति ।
 भूतले घटाभावेन तत्सन्निकर्षाभावात् ।
 अतोऽत्र व्यभिचारान्नोक्तनियम इति भावः ।
 नन्वन्योन्याभावरूपसप्रतियोगिकापदार्थप्रत्यक्षे प्रतियोगिप्रत्यक्षनियमोऽङ्गीक्रियते ।
 इह घटो नास्तीति प्रत्यक्षं च घटसंसर्गाभावविषयमतो न तत्र व्यभिचार इत्यत आह - स्तम्भ इति ॥ स्तम्भः पिशचो नेति पिशाचप्रतियोगिकान्योन्याभावप्रत्यक्षं जायते ।
 न च तत्र प्रतियोगिभूतपिशाचप्रत्यक्षमस्ति ।
 तस्यातीन्द्रियत्वात् ।
 अतोऽत्र व्यभिचारान्नोक्तनियम इत्यर्थः ।
 नन्वभावप्रत्यक्षयोग्यतायां प्रतियोगिप्रत्यक्षयोग्यता प्रयोजिका ।
 यथा घटस्य प्रत्यक्षयोग्यत्वेन तदभावस्य प्रत्यक्षयोग्यत्वं परमाणोः प्रत्यक्षायोग्यत्वेन तदभावस्य प्रत्यक्षायोग्यत्वम् ।
 अतः प्रतियोगिभूतेशस्य प्रत्यक्षायोग्यत्वात्कथं तत्प्रतियोगिकान्योन्याभावस्य प्रत्यक्षयोग्यत्वम् ।
 प्रत्यक्षयोग्यताभावे च कस्य प्रत्यक्षत्वमित्याशङ्क्यातिदेशेन दूषयति - एतेनेति ॥ अयोग्येति ॥ प्रत्यक्षायोग्येत्यर्थः ।
 एतेनेत्युक्तं विवणोति - स्तम्भ इति ॥ पिशाचप्रतियोगिकान्योन्याभावस्य तावत्प्रत्यक्षयोग्यत्वमस्ति ।
 नच तत्र पिशाचस्य प्रत्यक्षयोग्यताऽस्ति ।
 अतोऽत्र व्यभिचारान्नोक्तनियम इत्यर्थः ।
 ननु तर्हि परमाण्वभावप्रत्यक्षं स्यादिति वाच्यम् ।
 किं परमाणुसंसर्गाभावस्य प्रत्यक्षत्वमापाद्यते उतान्योन्याभावस्य ।
 नाद्यः ।
 संसर्गाभावप्रत्यक्षयोग्यतायां प्रतियोगिप्रत्यक्षयोग्यतायाः कारणत्वेन तत्र तदभावात् ।
 न द्वितीयः ।
 इष्टापत्तेः ।
 घटः परमाणुर्नेति परमाण्वन्योन्याभावप्रत्यक्षाभ्युपगमादिति भावः ।
 परस्परं जीवभेदस्यापि प्रत्यक्षसिद्धत्वमाह - एवमिति ॥ विष्णुमित्रस्य नाहं यज्ञदत्त इत्यनुभवसद्भावादिति भावः ।

(13) ननु नाहं निर्दुःखो न सर्वज्ञ इति निर्दुःखत्वादिसंसर्गाभाव एवात्मन्यनुभूयते नेश्वरप्रतियोगिकान्योन्याभाव इति चेन्न ।
 मयि निर्दुःखत्वं सर्वज्ञत्वादिकं नास्तीत्यनुभव एव तत्संसर्गाभावविषयकः ।
 निर्दुःखत्वस्यैव प्रतियोगितया तत्रोपादानात् (प्रतियोगितयोपादानात्)।
 न चास्य निर्दुःखत्वात्यन्ताभावो विषयः ।
 धर्मिप्रतियोगिनोस्तादात्म्यं सामानाधिकरण्येन प्रसज्य तस्यैव निषेधात् ।
 प्रत्यक्षप्रामाण्यं तु सुदृढमन्यत्रोपपादितमस्माभिः ।

(13) (भ.) नन्वीश्वरप्रतियोगिको जीवधर्मिको भेदस्तु जीवस्य प्रत्यक्ष इति यदुक्तम् ।
 तन्न ।
 नाहमीश्वर इति कस्याप्यनुभवाभावात् ।
 न च नाहं निर्दुःखो न सर्वज्ञ इत्यस्ति तावत्सर्वेषामनुभवः ।
 स एव हि नाहमीश्वर इत्यनुभवः ।
 तल्लक्षणत्वादीश्वरस्येति वाच्यम् ।
 अस्यानुभवस्य निर्दुःखत्वादिसंसर्गाभावविषयकत्वेन निर्दुःखादिरूपेश्वरप्रतियोगिकान्योन्याभावविषयकत्वाभावादित्याशङ्कते - नन्विति ॥ एवं शङ्कमानो न लौकिको नापि परीक्षक इति भावेन समाधत्ते ॥ मैवमिति ॥ इह घटो नास्तीतिवन्मयि निर्दुःखत्वं सर्वज्ञत्वं वा नास्तीति निर्दुःखत्वादिकं प्रतियोगितयोपादाय यद्ययमनुभवः प्रवर्तेत स्यात्तदा संसर्गाभावविषयकः ।
 न चैवम् ।
 कित्वहं निर्दुःख सर्वज्ञ इति सामानाधिकरण्येन धर्मिप्रतियोगिनोर्जीवोश्वरयोस्तादात्म्यं प्रसज्य तन्निषेधविषयत्वादन्योन्याभावविषयक एवेति भावः ।
 अत्र सामानाधिकरण्यं नामाहन्त्वनिर्दुःखत्वयोरेकाधिकरण्यं न त्वेकविभक्त्यन्तत्वम् ।
 प्रतीतौ विभक्त्यादेरभावात् ।
 तस्य शब्दधर्मत्वात् ।
 तथाऽपि केचिदेकविभक्त्यन्तत्वमेव सामानाधिकरण्यमत्र विवक्षितमिति व्याचक्रुः ।
 ननु नाहं निर्दुःख इत्याद्यनुभवस्य भेदविषयत्वेऽपि नानेन तत्सिद्धिः ।
 तस्याभेदसाधकबहुप्रमाणविरुद्धत्वेन प्रामाण्याभावादित्यत आह - प्रत्यक्षप्रामाण्यं त्विति ॥ अन्यत्र न्यायामृते प्रथमपरिच्छेदे प्रत्यक्षस्य जात्योपक्रमादिन्यायैश्च प्राबल्यव्युत्पादनवादमारभ्य प्रत्यक्षस्य पारमार्थिकसत्वग्राहित्वव्युत्पादनवादपर्यन्तं नवप्रकरणेषु निपुणतरमुपपादितमित्यर्थः ।
 तत्रायं विवेकः ।
 बाह्यप्रत्यक्षस्य बलवत्प्रत्यक्षेतरेण न बाधः ।
 साक्षिप्रत्यक्षस्य न केनापि बाध इति ॥ तत्र नाहं निर्दुःखो न सर्वज्ञ इति तु साक्षिप्रत्यक्षमेव ।
 अतो न केनापि तस्य बाधोऽस्तीति ।
 निर्बाधसाक्षिप्रत्यक्षप्रामाण्यस्य नियतत्वात्तेन जीवेशभेदः सिध्यत्येवेति भावः ।

(13) (मु.) ॥ संसर्गाभाव इति ॥ सविशेषणे हीति न्यायानुग्रहात् दुःखाभावादिरूपयोग्याप्रतियोगित्वेन प्रत्यक्षवत्त्वसम्भवादभावैकविध्यरूपलाघवाच्चेति भावः ।
 नन्वेवमपीश्वरीयधर्मादभेदः प्राप्त इति वाच्यम् ।
 तथाऽपि भेदप्रत्यक्षताभङ्गात् ।
 वस्तुतस्तु तद्धर्माणां स्वात्यन्ताभावसमानाधिकरणताङ्गीकारेण न कश्चिद्दोषः ।
 तादात्म्यं सामानाधिकरण्येन प्रसज्येत ।
 नाहं निर्दुःख इत्यत्राहंनिर्दुःखपदयोः समामानाधिकरण्येन तयोस्तादात्म्यमारोप्येत्यर्थः ।
 एवञ्च मयि निर्दुःखत्वं सर्वज्ञत्वं वा नास्तीत्यत्र व्यधिकरणान्वयस्य संसर्गव्युत्पन्नतयाऽस्य संसर्गारोप्यकत्वेन संसर्गज्ञापकत्वं युक्तम् ।
 उक्तप्रतीतेस्तु तादात्म्यारोप्यकत्वेन तद्विलक्षणाभावविषयत्यमेव वाच्यमित्यदोषः ।
 भेदप्रत्यक्षं भ्रान्तमित्युक्तमित्यत आह - प्रत्यक्षेति ॥ अन्यत्रेति ।
 न्यायामृत इत्यर्थः ।
 तथा हि ।
 प्रत्यक्षप्रामाण्यं बाधकं तूष्णीं वा ।
 आद्ये प्रत्यक्षेणानुमानेनागमेन बाधकशङ्कामात्राद्वा ।
 नाद्यः ।
 तदभावात् ।
 भावे वा वैपरीत्यसम्भवात् ।
 आद्यस्यासञ्जातविरोधित्वेन बलवत्त्वाच्च ।
 न द्वितीयः ।
 कालात्ययापदिष्टमात्रोच्छेदापत्तेः ।
 प्रत्यक्षस्य धर्मिग्राहकत्वेनोपजीव्यत्वाच्च ।
 न तृतीयः ।
 यजमानः प्रस्तर इति श्रुत्या तद्भेदप्रत्यक्षबाधोपपत्तेः ।
 चन्द्रपादेशप्रत्यक्षं त्वागमविरोधात्प्रागेवान्यत्र क्लृप्तपरिणामसामग्रीविरहादपटुतया जातं पश्चादागमेन बाध्यते ।
 न तुर्यः ।
 अतिप्रसङ्गात् ।
 अत एव न द्वितीयः ।
 वर्तमानमात्रग्राहिप्रत्यक्षेणोत्तरकालिकसत्ता न सिध्यतीति चेन्न ।
 तावताऽपि त्रिकालनिषेधरूपमिथ्यात्वासिद्धेरिति ।

(13) (कु.) ॥ मयीति ।
 अनुयोगिनि सप्तम्याः संसर्गाभावोल्लेक्षनियतत्वादिति भावः ।
 ननु नाहं निर्दुःख इत्यादिकमस्तु भेदविषयकं तथाऽपि नानेन तत्सिद्धिरस्याप्रमाणत्वादित्यत आह - प्रत्यक्षप्रामाण्यमिति ॥ साक्षिरूपत्वादस्य प्रत्यक्षस्य साक्षिणश्च प्रमाणरूपत्वाद्बाधकाभावाच्च ।
 नेह नानाऽस्ति तत्त्वमसीत्याद्यागमस्य त्वन्मतेऽखण्डार्थ परत्वेनाबाधकत्वात् ।
 उपजीव्यप्रत्यक्षविरोधेन यजमानः प्रस्तर इत्याद्यागमवद्गौणार्थतासम्भवात् ।
 `भिन्ना जीवाः परो भिन्नस्तथाऽपि ज्ञानरूपतः ।
 प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः' ।
 `तद्गुणसारत्वात् तद्व्यपदेश' इति स्मृतिसूत्रयोर्गौणार्थताया उक्तत्वाच्चेत्यादिना न्यायामृते प्रत्यक्षप्रामाण्यमुपपादितमित्यर्थः ।
 ननु प्रतियोगिप्रत्यक्षस्य व्यभिचारेणाहेतुत्वेऽभावप्रत्यक्षे किं प्रयोजकम् ।
 इन्द्रियसम्बद्धविशेषणतादिकमेवेति चेन्न ।
 पिशचाभावादेः प्रत्यक्षतापातात् ।
 न च योग्यप्रतियोगिकत्वं संसर्गाभावे तन्त्रम् ।
 योग्याधिकरणत्वं चान्योन्याभावप्रत्यक्षे तेन न पिशाचाभावादेः प्रत्यक्षत्वम् ।
 न वा स्तम्भे पिशाचान्योन्याभावस्याप्रत्यक्षत्वमिति वाच्यम् ।
 घटे मनस्त्वात्यन्ताभावादेरप्रत्यक्षतापातात् ।
 घटे परमाणु भेदादेः प्रत्यक्षतापातात् ।
 किञ्च यत्किञ्चित्प्रतियोगियोग्यत्वं यावत्तद्योग्यत्वं वा तन्त्रम् ।
 आद्ये मूर्तसामान्याभावप्रत्यक्षापातः ।
 द्वितीये महति वायौ रूपसामान्याभावप्रत्यक्षापातः ।
 एवमधिकरणयोग्यतायामपि विकल्पः ।
 आद्य मूर्तसामान्ये पिशाचान्योन्याभावप्रत्यक्षप्रसङ्गः ।
 द्वितीये महति वायौ रूपवदन्योन्याभावप्रत्यक्षापात इति चेत् ।
 अत्रोदयनाचार्याः ।
 प्रतियोगितद्व्याप्येतरयावत्प्रतियोग्युपलम्भकसमवधानं संसर्गाभावे योग्यता ।
 तेन नातीन्द्रियान्योन्याभावाप्रत्यक्षापातः ।
 न वा पिशाचाभावादेः प्रत्यक्षताप्रसङ्ग इति वदन्ति ।
 तन्न ।
 अन्योन्याभावप्रत्यक्षे योग्यतान्तरस्यानुक्तत्वेन तत्रेन्द्रियसम्बन्धविशेषणादेरेव हेतुत्वाङ्गीकारे गुरुत्ववदन्योन्याभावाप्रत्यक्षतापत्तेः ।
 किञ्च यावत्तदुपलम्भकसमाधाने सम्भवति यावत्तदुपलम्भकतावच्छेदकं यत्तदवच्छिन्नसमवधानमपि तथा ।
 भूतले घटाभावप्रत्यक्षस्थले यावद्धटोपलम्भकतावच्छेदकानां तत्तत्परामर्शत्वतत्तच्छब्दज्ञानत्वतत्तसंस्कारत्वादीनामाश्रयाणामभावात् ।
 किञ्च प्रतियोगिव्याप्यत्वं कालिकेन दैशिकेन वा सम्बन्धेन ।
 नाद्यः ।
 घटसन्निकर्षस्य घटाव्याप्यतापातात् ।
 घटनाशोत्तरं तन्नाशात् ।
 कालिकेन नित्यव्याप्येतराप्रसिद्ध्या नित्यप्रतियोगिकसंसर्गाभावात्प्रत्यक्षतापाताच्च ।
 न द्वितीयः ।
 घटेन्द्रियसन्निकर्षस्यापि घटाव्याप्यत्वापत्त्या तत्समवधानाभावेन घटाभावस्याप्रत्यक्षतापत्तेः ।
 प्रतियोगिमदसाधरणकारणं व्याप्यपदेन विवक्षितमिति चेन्न ।
 आलोकादिव्यावृत्तासाधारण्यस्य दुर्वचत्वात् ।
 किञ्च यावत्तदुपलम्भकसमवहिताभावत्वेन वा ।
 अभावसमवहितयावत्तदुपलम्भकत्वेन वा हेतुत्वमित्वत्र विनिगमनाभावः ।
 इन्द्रियादेरभावप्रत्यक्षहेतुतया योग्यतारूपकारणतावच्छेदककुक्षिनिक्षेपायोगात् ।
 संयोगिनाशजन्यनाशाप्रत्यत्यक्षता च संयोगिनोस्तत्प्रक्षस्य वा संयोगाद्व्याप्यत्वेन संयोगोपलम्भकत्वेन समवधानाभावादिति दिक् ।
 मणिकृतस्तु ।
 प्रतियोगिसत्त्वप्रसञ्जन प्रसञ्जितप्रतियोग्युपलम्भकाभाववत्त्वं संसर्गाभावान्योन्याभावसाधारणी योग्यता ।
 यत्राधिकरणे संयोगतादात्म्यादिसम्बन्धावच्छिन्नप्रतियोगिसत्त्वेनापादितेन तत्सम्बन्धेन प्रतियोग्युपलम्भो यस्याभावस्यापादायितुं शक्यते सोऽभावोऽत्राधिकरणे योग्य इत्यर्थः ।
 प्रतियोगिसत्त्वं चाविनश्यदवस्थप्रतियोगिसत्त्वं तेन संयोगिनाशजन्यसंयोगनाशप्रत्यक्षोपपत्तिः ।
 पिशाचान्योन्याभावतदत्यन्ताभावयोः प्रत्यक्षाप्रत्यक्षोपपत्तिश्चेति वदन्ति ।
 तदपि न ।
 तथा हि ।
 प्रतियोगिसत्त्वस्य प्रतियोग्युपलम्भप्रसञ्जकत्वं तदुपहितत्वं तद्योग्यत्वं वा ।
 नाद्यः ।
 तर्करूपस्य तस्याभावप्रत्यक्षात्पूर्वं नियमेनाभावात् ।
 न द्वितीयः ।
 व्याप्यत्वातिरिक्तस्य तस्यानिरुक्तेः ।
 अस्तु तदेव किं बाधकमिति चेत् ।
 उच्यते ।
 शुद्धं प्रतियोगिसत्त्वं व्याप्यविशेषितं (* `-सत्त्वम् ।
 व्याप्य-' मु.पाठः ।
) वाऽभिमतम् ।
 आद्ये पटाद्यभावप्रत्यक्षं न स्यात् ।
 केवलसत्त्वस्योपलम्भाव्याप्यत्वात् ।
 द्वितीये जलपरमाणौ पृथिवीत्वाभावाप्रत्यक्षापत्तेः ।
 तत्रापि महत्त्वविशिष्टपृथिवीत्वस्योपलम्भव्याप्यत्वात् ।
 न च धर्म्यवृत्तिविशेषणावच्छिन्नप्रतियोगिसत्त्वं व्याप्यं विवक्षितं महत्त्वादिकं च परमाण्ववृत्तीति नोक्तदोष इति वाच्यम् ।
 इन्द्रियसन्निकर्षपार्थिवाणुभिन्नत्वादिसमवहितपृथिवीत्वसत्त्वस्य तथात्वेनोक्तदोषानिवृत्तेः ।
 न च तत्राधिकरणे यत्प्रतियोग्युपलम्भकं तदतिरिक्तानवच्छिन्नं तत्तथा ।
 पार्थिवाणुभिन्नत्वादेस्तदतिरिक्तत्वान्नोक्तदोष इति वाच्यम् ।
 तत्राधिकरणे प्रतियोग्युपलम्भातिरिक्तानवच्छिन्नंशुद्धं प्रतियोगिसत्त्वं तु न तथेति यावत्प्रतियोग्युपलम्भकावच्छिन्नं व्याप्यं वाच्यम् ।
 तत्रापि यत्किञ्चित्प्रतियोग्युपलम्भकावच्छिन्नं न तथेति यावत्प्रतियोग्युपलम्भकावच्छिन्नतया वाच्यम् ।
 एवञ्च प्राप्ताप्राप्तविवेकेन यावत्प्रतियोग्युपलम्भकसमवाधानमेव योग्यतेत्युक्तं स्यात् ।
 स च प्राचीनैर्योग्यताऽत्र च दोषाणामुक्तत्वात् ।
 किञ्चापाद्योपलम्भो लौकिकोऽलौकिको वा ।
 नाद्यः ।
 स्तम्भे पिशाचान्योन्याभावाप्रत्यक्षतापातात् ।
 तत्र तादृशोपलम्भासिद्धेः ।
 न द्वितीयः ।
 तादात्म्येन पिशाचसत्त्वस्यालौकिकोपलभ्भाव्याप्यत्वात् ।
 न द्वितीयः ।
 तादात्म्येन पिशाचसत्त्वस्य लौकिकोपालम्भाव्याप्यत्वात् ।
 न चालौकिकोपालम्भकसमवहितं तत्सत्त्वं तथेति वाच्यम् ।
 पिशाचात्यन्ताभावप्रत्यक्षापत्तेरिति दिक् ।
 तस्मादिन्द्रियसन्निकर्षाद्यविशेषे कश्चिदेवाभावः कस्यचित् (* `कश्चित्' मु.पाठः ।
) प्रत्यक्ष इत्यत्र नियामकं दुर्वचनीयमितीश्वरान्योन्याभावप्रत्यक्षे का प्रत्याशेति चेत् ।
 उच्यते ।
 अनुगतनियामकमभावेषु नास्त्येव ।
 किन्तु भावेष्विव तत्तदभावप्रत्यक्षे भिन्नभिन्नैव सामग्री नियामिका ।
 गुरुत्वादिवत् केषाञ्चिदभावानां स्वरूपेण प्रत्यक्षायोग्यत्वादेवाप्रत्यक्षत्वम् ।
 सामग्री चान्वयव्यतिरेकाभ्यां यथायथमुन्नेया ।
 स्तम्भः पिशाचो नेति वन्नाहं सर्वज्ञ इत्यनुभावान्नेश्वरान्योन्याभावस्याप्रत्यक्षत्वसम्भावना ।
 इतरथा घटान्योप्याभावप्रत्यक्षत्वेऽपि का प्रत्याशेति सर्वं सुस्थम् ।

(13) (हु.) ॥ न चास्येति ॥ इदानीमहं न शिखीति प्रतीतेरिवानुयोगिनः सप्तम्यन्तपदेनानुपादानेऽपि (* `सप्तम्यन्तपदेनानभिलापेऽपि' हु.) प्रतियोगिन आश्रयां (*श)शे भानेन प्रतियोगितया प्रथमान्तपदेनानुपादानेऽपि तत्संसर्गाभावविषयकत्वसम्भवात् ।
 न च दृष्टान्ते विवादः ।
 भेदस्य व्याप्यवृत्तितया शिखिभेदस्य तत्र भानायोगादित्याशयः ॥ तादात्म्यमिति ॥ सामानाधिकरण्येन समानविभक्तिकपदेनोल्लेखबलेन ।
 निषेधात् निषेधानुभवात् ।
 तृतीयान्तमत्रैव हेतुः ।
 तादात्म्याभाव एव हि भेदः ।
 दृष्टान्ते त्वगत्या तत्र तादृशव्यवहारस्य पारिभाषिकत्वं वा यथाकथञ्चिदत्यन्ताभावबोधकत्वं वा भेद(स्य )व्याप्यवृत्तित्वं स्वीकृत्य तद्बाधकत्वं वाऽभ्युपगम्यत (* `भेदव्याप्यवृत्तित्वं वा स्वीक्रियते' हु.) इति भावः ।
 ननु सर्वमपि प्रत्यक्षं श्रुतिविरोधादप्रमाणमेवेति न साधकम् ।
 ईश्वरप्रत्यक्षस्यापि विक्षेपशक्तिमन्मायारूपदोषमूलकत्वादित्यत आह - प्रत्यक्षप्रामाण्यमिति ॥ प्रत्यक्षस्य श्रुतिं प्रत्युपजीव्यत्वनिरवकाशत्वस्वभावप्राबल्यादिभिस्तत्प्रामाण्यं सुदृढतया न्यायामृते उपपादितमित्यर्थः ।

(13) (का.) स्यादेवमुक्तभेदस्य प्रत्यक्षत्वं, यदि नाहं निर्दुःख इत्यादि प्रत्यक्षं भेदविषयं स्यात्, न त्वेवमित्याशङ्कते - नन्विति ॥ प्रतियोगितयोपादानादिति ॥ अभावांशे प्रतियोगितासंसर्गेण विशेषणत्वादित्यर्थः ।
 अस्य = नाहं निर्दुःख इत्यादिप्रत्यक्षस्य ॥ धर्मिप्रतियागिनोरिति ॥ नाहं निर्दुःख इति वाक्येनेत्यादिः ।
 धर्मिणि जीवे प्रतियोगिन ईश्वरस्य तादात्म्यं धर्मिप्रतियोगिपदयोः समानविभक्तिकत्वेनारोप्य ।
 तादृशतादात्म्यारोपजनक समानविभक्तिकधर्मिप्रतियोगिपदे समुल्लिख्येति यावत् ।
 तस्य तादात्म्यस्यैव निषेधात् अभावबोधनादित्यर्थः ।
 अयमाशयः ।
 यादृशशब्दाद्यादृशार्थस्य बोधस्तादृशशब्दोल्लिखितप्रतीतौ तादृशार्थ एव भासते ।
 नञसमभिव्याहारे यत्र यादृशधर्मः प्रतीयते नञ्समभिव्याहारे तत्र तदभावो बुध्यते ।
 तथाच मयि निर्दुःखत्वमस्तीत्यादौ धर्मिणि निर्दुःखत्वभानात्तदभावस्यैव निर्दुःखत्वं नास्तीत्यादौ भानसम्भवः ।
 न च मयि निर्दुःखत्वमस्तीत्यादिशब्दान्निर्दुःखत्वादौ धर्मिनिरूपितास्तित्वस्यैव बोधात् कथमुक्तप्रतीतौ धर्मिणि निर्दुःखत्वभानमिति वाच्यम् ।
 निर्दुःखत्वे धर्मिनिरूपितास्तित्वभाने धर्मिणि निर्दुःखत्वभानस्याप्यनुभवसिद्धत्वात् ।
 एवमहं निर्दुःख इत्यादौ धर्मिणि निर्दुःखतादात्म्यभानात्तदभावस्यैव नाहं निर्दुःख इत्यादौ भानमित्युक्तान्योन्याभावस्य प्रत्यक्षत्वमावश्यकम् ।
 तादात्म्यनिषेधस्यैवान्योन्याभावत्वात् ।
 न च निर्दुःखतादात्म्यस्य निर्दुःखत्वरूपतया तदत्यन्ताभाव एवायमिति वाच्यम् ।
 तादात्म्यत्वेन तादात्म्यनिषेधस्यान्योन्याभावत्वात् ।
 एवं नाहं निर्दुःख इत्यादौ निर्दुःखप्रतियोगिकत्वेन भासमानभेदे तत्तादात्म्यप्रतियोगिकत्वमपि भासते ।
 निर्दुःखत्वं नास्तीत्यादौ तु न तथेति नैकविषयत्वमिति ध्येयम् ।

नन्वस्तु जीवेश्वरभेदप्रत्यक्षम् ।
 किं त्वप्रमाणमेव ।
 दर्शितप्रमाणबाधितत्वादित्यत आह - प्रत्यक्षप्रामाण्यमिति ॥ सुदृढमुपपादितं मानान्तराबाध्यत्वेनोपपादितं न्यायामृतादौ ।
 अन्यथा वह्निरनुष्णः कृतकत्वादित्यादौ बाधोच्छेदापत्तेरिति भावः ।
 अस्यार्थस्य पूर्वाचार्यैरेवोक्तत्वादुक्तमित्यनुक्त्वोपपादितमित्युक्तम् ।
 जीवेशाभेदप्रत्यक्षं तु नास्त्येवेति वक्ष्यते ।
 यद्वा , प्रकृतस्य जीवेश्वरभेदप्रत्यक्षस्यैव प्रामाण्यं सुदृढमव्यभिचार्युपपादितम् ।
 अस्य साक्षिप्रत्यक्षत्वात् साक्षिणश्च नियतप्रामाण्यकत्वादिति भावः ।

(13) (श.) यदुक्तमीशप्रतियोगिको जीवधर्मिको भेदो जीवस्य प्रत्यक्ष इति तन्न ।
 तस्य तादृशप्रत्यक्षाभावात् ।
 नच नाहं सर्वज्ञो न निर्दुःख इति प्रत्यक्षमेवेशभेदावगाहीति वाच्यम् ।
 तस्य जीवे निर्दुःखत्वात्यन्ताभावविषयकत्वेन निर्दुःखेशान्योन्याभावविषयकत्वाभावादिति शङ्कते - नन्विति ॥ यद्युक्तप्रत्यक्षस्य निर्दुःखत्वात्यन्ताभावविषयकत्वं स्यात् तर्हि मयि निर्दुःखत्वमिति निर्दुःखत्वं प्रतियोगित्वेनापाद्य तन्निषेधः क्रियेत ।
 नचैवम् ।
 किन्त्वहं निर्दुःख इत्यस्मच्छब्दवाच्यजीवस्य निर्दुःखशब्दावाच्येनेशेनैक्यं प्रतियोगित्वेनापाद्य नेति निषिध्यते ।
 तादात्म्यनिषेधरूपश्चान्योन्याभाव एव ।
 अत ईशप्रतियोगिकान्योन्याभावविषयकत्वमेवास्येति ॥ परिहारति ॥ मयीति ॥ अस्य नाहं निर्दुःख इति प्रत्यक्षस्य ॥ धर्मिप्रतियोगिनोरिति ॥ धर्मी अस्मच्छब्दवाच्यो जीवः ।
 प्रतियोगी निर्दुःखशब्दाभिधेय ईशः ।
 तादात्म्यप्रसञ्जनज्ञापकमुक्तम् ॥ सामानाधिकरण्येनेति ॥ अत्र सामानाधिकरण्यमेकविभक्त्यन्तत्वम् ।
 तथाच शुक्लः पट इत्यादिवदहं निर्दुःख इत्यनयोरपि प्रथमान्तत्वेन तादात्म्यप्रतिपादकत्वमिति भावः ।
 ननु नीलं नभ इति नभोनैल्यग्राहिप्रत्यक्षस्य नभो नीरूपं विभुत्वादात्मवदित्यनुमानविरुद्धत्वेन प्रादेशपरिमितश्चन्द्रमा इति चन्द्रप्रादेशपरिमितत्वावगाहिप्रत्यक्षस्य `अष्टाशीतिसहस्त्राणि विस्तीर्णो योजनानि तु ।
 प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तु ।
' इत्याद्यागमबाधितत्वेन यथाऽप्रामाण्यं तथा जीवेशभेदग्राहिप्रत्यक्षस्य विमता आत्मानः परमात्मनस्तत्वतो न भिद्यन्ते आत्मत्वात् परमात्मवदित्यनुमानबाधितत्वेन नेहनानेत्यागमबाधितत्वेन चाप्रामाण्यमित्यत आह - प्रत्यक्षप्रामाण्यमिति ॥ प्रत्यक्षस्यानुमानागमाबाध्यत्वं कुत्रापि न दृष्टम् ।
 नभोनैल्यचन्द्रप्रादेशत्वावगाहिप्रत्यक्षं तु दूरस्थत्वादिदोषयुक्तत्वादपट्वेवोत्पन्नम् ।
 अनन्तरं प्रवृत्तावनुमानागमौ तेन दत्तावकाशौ तद्बाधकाविवोच्येते ।
 नच भेदावगाहिप्रत्यक्षस्यापटुत्वे मानमस्ति येनोक्तरीत्याऽप्रामाण्यमित्यन्यत्र न्यायामृते समर्थितमित्यर्थः ।

(14) अनुमानानि च ।
 जीवः ब्रह्मप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं ब्रह्माननुसंहितदुःखानुसन्धातृत्वात् व्यतिरेकेण ब्रह्मवत् ।
 ब्रह्म वा जीवप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं जीवानुसंहितदुःखाननुसन्धातृत्वात् व्यतिरेकेण जीववदिति ॥ अत्र जीवब्रह्मप्रतियोगिकभेदयोः घटसत्तया व्यावहारिकया समानसत्ताकयोर्व्यावहारिकयोर्भेदयोर्घटे प्रसिद्धत्वान्नाप्रसिद्धविशेषणत्वम् ।
 जीवब्रह्मणोश्च पारमार्थिकत्वात्तत्सत्तासमानसत्ताकत्वेन सिद्ध्यन् भेदः पारमार्थिक एव सिद्ध्यतीति न सिद्धसाधनम् ।
 दुःखादीनामन्तःकरणाश्रितत्वेऽपि जीवस्यानुसन्धातृत्वात् ।
 ब्रह्मणो दुःखानुसन्धातृत्वे तदभावलक्षणमुक्तेरपुरुषार्थत्वप्रसङ्गात् निरञ्जन(त्व)श्रुतिविरोधाच्च तदभावावश्यम्भावान्नासिद्धिः ॥
(14) (भ.) एवं जीवेशयोर्जीवानां च मिथो भेदे प्रत्यक्षं प्रमाणमभिधायानुमानान्यप्याह - अनुमानानि चेति ॥ जीवेश्वरयोर्जीवानां जडानां च भेदे प्रमाणत्वेनोपन्यस्यत इति शेषः ॥ धर्मिसत्तासमानसत्ताकेति ॥ धर्मी स्वयं जीवस्तत्सत्तासमसत्ताकेत्यर्थः ॥ ब्रह्माननुसंहितेति ॥ अत्रानुसन्धानं नाम न साक्षात्कारमात्रं येन सर्वज्ञत्वाद्ब्रह्मणः कथं दुःखस्य तदननुसंहितत्वमिति शङ्कावकाशः ।
 किन्त्वहं सुखी दुःखीत्यनुभव एव ।
 न हीश्वरस्यैतादृशो दुःखानुभवोऽस्ति ।
 किन्नाम घटगतरूपादिकमिव जीवगतं सुखादिकं साक्षात्करोति ।
 अतो ब्रह्माननुसंहितेति युक्तम् ।
 केचित्तु दुःखादौ स्वात्मीयत्वाभिमानेनात्मनि तत्कृतनीचोच्चत्वलक्षणा विक्रियैवानुभव इति वदन्ति ।
 तच्चिन्त्यम् ।
 विक्रियाया अनुभवानन्तरिकत्वात् ।
 न हि तज्जन्यस्य तत्त्वं सम्भवति ।
 नाप्यहं सुखीत्यादौ सुखादिवन्नीचोच्चताऽवभासते ।
 अनुभववद्विक्रियायाः सकर्मकक्रियात्वाननुभवाच्च ।
 न हि दुःखं सुखं वाऽनुभवामीत्यनुव्यवसायविषयानुभवस्येव नीचोऽस्मीत्यादिज्ञानविषयनीचत्वादिविक्रियायाः सकर्मकता चकास्ति ।
 `नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयत' इति वचनं तु `त्रपुसं प्रत्यक्षो ज्वर' इतिवद्गौणम् ।
 ज्ञानिनां दुःखाद्यनुभवेऽपि कदाचिन्नीचोऽस्मीत्यादिज्ञानानुदयाच्च ।
 यथोक्तम् ।
 `ब्रह्मणोऽप्यल्पदुःखं स्यात्तदप्यनभिमानतः ।
 नास्त्यात्मसम्बद्धतये'ति ।
 `निद्रा रतिर्मन्युरहं मदश्च देहेन जातस्य हि मे न सन्ती'ति भागवते जडभरतवचनाच्च ।
 देहेन जातस्य देहाभिमानिन इत्यर्थः ।
 नन्वहं सुखादिमानित्यनुसन्धानमीश्वरस्यापि सम्भवति ।
 सुखादिमानित्यस्य सुखादिस्वामित्वमेवार्थः ।
 न तु तत्समवायः ।
 तेषामन्तःकरणधर्मत्वेन जीवेऽपि तदभावात् ।
 अस्ति च तत्स्वामित्वं भगवतः ।
 प्रत्युत जीवापेक्षया मुख्यं च ।
 अतः कथं ब्रह्माननुसंहितेति विशेषणमिति चेन्न ।
 अहं सुखीत्याद्यनुसन्धानं नाम मभेदं सुखमनुकूलं मभेदं दुःखं प्रतिकूलमित्यनुभवः ।
 ` अन्यानन्दादिसादृश्यमानुकूल्यादिना पर'मित्युक्तेः ।
 न चैतादृशं दुःखानुसन्धातृत्वमीश्वरस्यास्ति ।
 जीवदुःखस्येशं प्रति प्रतिकूलत्वाभावात् ।
 तस्माद्युक्तं ब्रह्माननुसंहितेति दुःखविशेषणम् ।
 केचित्तु परतन्त्रदुःखानुसन्धानस्य वाऽसर्वविषयदुःखानुसन्धानस्य वाऽमुख्यस्वामितासम्बन्धेन दुःखकृतनीचतावत्त्वस्य वा हेतुत्वं विवक्षितमित्याहुः ।
 तदपि चिन्त्यम् ।
 अनुसन्धानशब्दस्योक्तरीत्याऽनुभवविशेषार्थकत्वेन पारतन्त्र्यादिविशेषणकृत्यादर्शनात् ।
 ननु सपक्षभूते जडे लक्ष्म्यां चास्य हेतोरभावादसाधारण्यमिति चेन्न ।
 अनुकूलतर्कसद्भावे तस्य प्रतिपक्षानुन्नायकत्वेनादोषत्वात् ।
 अनुकूलतर्काणां चात्र वक्ष्यमाणत्वात् ।
 ननु चात्र दुःखानुसन्धातृत्वमात्रस्य हेतुत्वोपपत्तौ ब्रह्माननुसंहितेति विशेषणं व्यर्थमिति चेन्न ।
 हेतोरप्रयोजकतापरिहारार्थमनुकूलतर्कस्फोरणार्थत्वात् ।
 यथा ` ईक्षतेर्नाशब्द'मित्यत्रास्त्वीक्षणीयत्वं माऽस्तु वाच्यत्वमित्यप्रयोजकताशङ्कायां प्रत्यक्षाद्यवेद्यत्वे सतीति विशेषणं हेतूच्छित्तिरूपानुकूलतर्कव्युत्पादनार्थम् ।
 तद्वदत्रापि यदि दुःखानुसन्धातृत्वेऽपि जीवस्य ब्रह्मभेदो न स्यात् तर्हि जीववत्तदभिन्नस्य ब्रह्मणोऽपि दुःखानुसन्धानं स्यादिति ॥ जीवमात्रस्य पक्षीकृतत्वादन्वयदृष्टान्ताभावादाह - व्यतिरेकेणेति ॥ एवं जीवधर्मिकब्रह्मप्रतियोगिकभेदेऽनुमानमभिधाय ब्रह्मधर्मिकजीवप्रतियोगिकभेदेऽनुमानमाह - ब्रह्म वेति ॥ एवमनुमानद्वयेऽपि किं पारमार्थिकभेदः साध्यते ।
 उत व्यावहारिकः ।
 नाद्यः ।
 अप्रसिद्धविशेषणत्वात् ।
 न द्वितीयः ।
 सिद्धसाधनत्वादिति शङ्कपरिहाराय साध्यद्वये धर्मिसत्तासमानसत्ताकेति विशेषणमुपात्तम् ।
 तेन कथं दोषद्वयपरिहार इत्यतः क्रमेण तदुभयपरिहारं दर्शयति - अत्रेति ॥ जीवब्रह्मणोश्चेति ॥ धर्मिभूतयोरिति शेषः ।
 ननु दुःखादेरन्तःकरणधर्मत्वात्कथं जीवस्य तदनुसन्धातृत्वम् ।
 ब्रह्मणो वा कुतस्तदननुसन्धातृत्वम् ।
 जीववद्दुःखानुसन्धातृत्वाङ्गीकारे बाधकाभावात् ।
 अतोऽनुमानद्वयेऽपि हेत्वोरसिद्धिरित्यत आह - दुःखादीनामिति ॥ आदिपदेन सुखादीनां क्षुत्तृडादिदेहेन्द्रियादिधर्माणां च ग्रहणम् ।
 अन्तःकरणादीत्यत्रादिपदेन देहेन्द्रियादिग्रहणम् ।
 दुःखस्यैकदेशस्यैव प्रकृतत्वेऽपि सुखादीनां दृष्टान्तत्वेन ग्रहणम् ॥ जीवस्यानुसन्धातृत्वादिति ॥ नाद्यानुमानेऽसिद्धिरित्युत्तरेणान्वयः ।
 न हि जीवगतमेव जीवेनानुसन्धेयं नान्यगतमिति नियमोऽस्ति ।
 मभेदं प्रतिकूलमित्याद्यनुभवमात्रस्यानुसन्धानशब्दार्थत्वात् ।
 तस्य चान्तःकरणगतदुःखादावपि सम्भवादिति भावः ॥ तद्भावलक्षणेति ॥ दुःखाद्यनुसन्धातृब्रह्मभावलक्षणेत्यर्थः ।
 मायिमते ब्रह्मभावापत्तेरेव मोक्षत्वेनाङ्गीकारादिति भावः ॥ तदभावेति ॥ दुःखाद्यनुसन्धातृत्वाभावेत्यर्थः ॥ नासिद्धिरिति ॥ द्वितीयानुमानेऽपीत्यर्थः ।

(14) (मु.) ॥ जीवो ब्रह्मप्रतियोगिकेति ॥ जीवत्वोपलक्षिता चिद् ब्रह्मत्वोपलक्षितचित्प्रतियोगिकेत्यर्थः (* `ब्रह्मत्वोपलक्षिता चित्प्रतियोगिकेत्यर्थः' मु.) ।
 अप्रस्तुतजडभेदेऽर्थान्तरतावारणाय ब्रह्मप्रतियोगिकेति ॥ सिद्धसाधनातावारणाय धर्मीत्यादि ।
 धर्मी जीवचित् तत्सत्ता पारमार्थिकी तत्समानेत्यर्थः ।
 समानसत्त्वं च सत्तात्वसाक्षाद्व्याप्यधर्मेणेति ज्ञेयम् ।
 तेन व्यावहारिक्याः सत्तायाः पदार्थत्वेन धर्मेण तत्समानत्वात्सिद्धसाधनतेति निरस्तम् ।
 पारमार्थिकेत्यप्रसिद्धिरित्येवमुक्तिः ।
 तथाऽपि पक्षधर्मताबलात्पारमार्थ्यसिद्धिः ।
 उपलक्षणमेतत् ।
 धर्मिसत्तासमानसत्ताकेति पदस्थाने धर्मिज्ञानाकार्येति वा ।
 धर्मिज्ञानाबाध्येति यावद्धर्मिकालमनुवर्तमानेति वाऽनौपाधिकेति वा पदप्रक्षेपेऽप्युक्तभेदसिद्धिरिति ज्ञेयम् ।
 ब्रह्माननुसन्धातृत्वादित्येव हेतुः ।
 दुःखपदं पक्षधर्मतास्फुरणार्थम् ।
दुःखाननुसन्धातृत्वादित्येव हेतुः ।
 शिष्टपदं प्रयोजकतास्फुरणार्थम् ।
 अनुमानद्वयाभिप्रायेणैवमुक्तिः ।
 यद्वाऽत्रानुसन्धानं नाम साक्षात्कारमात्रं विवक्षितम् ।
 एवञ्च दुःखानुसन्धातृत्वं सर्वज्ञे ब्रह्मण्यस्मद्रीत्या व्यभिचरितम् ।
 ब्रह्माननुसंहितं यथा तथा दुःखानुसन्धातृत्वादिति क्रियाविशेषणम् ।
 ब्रह्मज्ञानविजातीयनीचताहेतुभूतज्ञानवत्त्वादित्यर्थः ।
 एवमपि दुःखपदं व्यर्थमिति चेन्न ।
 हेतुवाक्यपर्यवसितस्य दुःखभोक्तृत्वस्य विवक्षितत्वात् ।
 एवमुत्तरप्रयोगेऽपि ।
 यद्यपि द्वितीयप्रयोगे घटादावन्वयव्याप्तिरेव सुग्रहा ।
 तथाऽपि कदाचित्पारमार्थिकेति विशेषणदानेऽप्यप्रसिद्धविशेषणताया न व्याप्तिविघटकत्वम् ।
 व्यतिरेकव्याप्तिग्रहसम्भवादिति सूचयितुं व्यतिरेकप्रदर्शनम् ।
 धर्मीत्यादिविशेषणाभिप्रायमाह - अत्रेत्यादिना ।
 ननु तर्हि प्रथमप्रयोगे ब्रह्मप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदवति घटे हेतोरभावादसाधारण्यमिति चेन्न ।
 वादिविप्रतिपत्तेः ।
 असाधारण्यं न हेत्वाभास इत्येके व्याप्यत्वासिद्धावन्तर्भवतीति केचित् ।
 अन्ये त्वविद्यमानसपक्षस्यैव तथात्वेन विद्यमानसपक्षस्तु व्यभिचारी ।
 अनुचितस्थलवृत्तित्ववदुचितस्थलावृत्तेरपि व्यभिचारपदार्थत्वात् ।
 एके तु सत्यप्यन्यत्र साध्यतत्सम्बन्धादर्शनेन व्याप्तिसन्देहजनकत्वात्पृथग्घेत्वाभास इत्याहुः ।
 वस्तुतस्तु नायं हेत्वाभासो व्यतिरेकमुखेन व्याप्तिसम्भवात् ।
 नापि संशयजनकत्वमनुकूलतर्केण तन्निश्चयोपपत्तेः ।
 अन्यथा धूमादेः कतिपयसपक्षवर्तिनोऽपि व्याप्तिसन्देहतौल्यादिति ॥ अस्तु वाऽयं दोषः ।
 दुःखानुसन्धातृत्वं नाम दोषाधिकरणत्वं विवक्षितम् ।
 तच्च घटेऽस्तीति न कश्चिद्दोषः ।
 ननु जीवब्रह्मणोरभेदवादे जीवगतानुसन्धानस्यैव ब्रह्मगतत्वेनासिद्धिरिति चेन्न ।
 एवं सति कुत्रापि तुहिनदहनादौ विरुद्धधर्मेण व्यावहारिकभेदसाधनमपि न स्यात् ।
 तत्रापि दहनगतोष्णत्वस्य तुहिनगतत्वादिति ॥ किञ्च प्रकृतहेतुर्न निश्चितासिद्धः किन्तु साध्यभूतसन्देहाहितसन्देहग्रस्तः ।
 एवञ्च साध्यसन्देहानाहितस्वारसिक एव ।
 तथाच साध्यसन्देहाहितसंशये हेतुरसंशयादिविषयत्वं हेतोरसिद्धिर्नाम ।
 अन्यथा वह्निसंशयाहितो धूमसंशयोऽपि तथा स्यात् ।
 तत्रापि कारणीभूतवह्निसन्देहैतत्कार्यधूमसन्देहस्य न्याय्यत्वात् ।
 ननु सन्दिग्धोऽपि वह्निर्न प्रत्यक्षप्रमितधूमसन्देहस्येष्टे ।
 किन्तु हेतुनिश्चयबलात्तत्सन्देह एव लीयत इति केचित्तर्ह्यत्रापि निरनिष्टादिश्रुतिबलादभेदसन्देह एव लीयत इति ॥ ननु द्वितीयप्रयोगेऽननुसन्धानात्यन्ताभावरूपहेतोर्जीवे व्यभिचारः ।
 अनुसन्धानस्य स्वात्यन्ताभावसमानाधिकरणत्वादिति चेन्न ।
 प्रतियोग्यसमानाधिकरणात्यन्ताभावस्य विवक्षितत्वात् ॥ नासिद्धिरिति ॥ जीवस्यानुसन्धातृत्वादित्युक्त्याऽऽद्यनुमाने हेतुस्वरूपस्य हि द्वितीये तद्विशेषणस्य ब्रह्मणश्च तदभावावश्यम्भावादित्युक्त्याद्यविशेषणस्य द्वितीये तत्स्वरूपस्य नासिद्धिरित्यर्थः ।

(14) (कु.) ॥ अनुमानानि चेति ॥ मुख्ये जीवेश्वरभेदे प्रासङ्गिके जीवानां परस्परभेदे जडानां च परस्परभेदे च प्रमाणानीत्यर्थः ॥ जीव इति ॥ पक्षविचारस्तु मूल एवाग्रे भविष्यति ।
 ब्रह्माननुसंहितेति हेतावनुकूलतर्कस्फोरणार्थम् ।
 न तु हेतुशरीरान्तर्गतं वैय्यर्थ्यात् ।
 न तु ब्रह्मणि व्यभिचारः ।
 तस्य सर्वज्ञत्वेन सर्वदुःखानुसन्धातृत्वात् ।
 न च तस्य दुःखानुसन्धातृत्वे तद्भावलक्षणमुक्तेरपुरषार्थत्वापत्तिः ।
 भवन्मते तद्भावस्यामुक्तित्वेन भवन्मतेऽनैकान्त्यात् ।
 न च `निरनिष्टो निरवद्य' इति श्रुतिविरोधादस्माभिर्दुःखानुसन्धातृत्वं ब्रह्मणो नाङ्गीक्रियत इति वाच्यम् ।
 `यः सर्वज्ञ' इत्यादिश्रुतिविरोधादपसिद्धान्ताच्च ।
 न च भगवतः सर्वदुःखानुसन्धातृत्वेऽपि न मम दुःखमिति स्वामित्वसम्बन्धेन दुःखानुसन्धातृत्वं विवक्षितं तथाभूतं च जीव इति न व्यभिचारो न वाऽसिद्धिरिति वाच्यम् ।
 भवन्मते परमेश्वरस्यैव मुख्यं सर्वस्वामित्वं तद्दत्तममुख्यं `जीवानामिति ज्योतिराद्यधिष्ठानं तु तदामननादि'त्यधिकरणे निरूपितत्वात् ।
 न च `नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।
 नीचोच्चता हि दुःखादेर्भोग इत्यभिधीयते ।
 नासौ नीचोच्चतां याति पश्यत्येव सदा प्रभुः' इति वचनाद्दुःखादिकृतनीचोच्चतारूपदुःखादिभोक्तृत्वं दुःखानुसन्धातृत्वं जीवमात्रनिष्ठमिति न व्यभिचार इति वाच्यम् ।
 नीचोच्चताया (* `-तायाम्' इति मु.पाठः असाधुः, देहादिनिष्ठाया इत्यग्रे विशेषणात् ।
) अपीन्द्रियदेहादिनिष्ठायाः साक्षात्सम्बन्धेन जीवेऽभावात् ।
 स्वामित्वसम्बन्धेन भगवत्यपि सत्त्वात् ।
 किञ्चेन्द्रगतशचीसंयोगादिजन्यसुखाननुसन्धातु (* `-सुखानुसन्धातु-' मु.)रप्यर्जुनस्येन्द्राभेदवज्जीवगतदुःखानुसन्धानवतोऽपि ब्रह्मणो जीवाभेदः किन्न स्यादित्यप्रयोजकता ।
 किञ्च जडं लक्ष्मीश्च पक्षः सपक्षो वा ।
 नाद्यः ।
 तयोर्दुःखानुसन्धातृत्वाभावेन भागासिद्ध्यापत्तेः ।
 न द्वितीयः ।
 असाधारण्यापत्तेः ।
 न चासाधारण्यस्यान्वयव्याप्तिग्रहे प्रतिबन्धकत्वेन दोषत्वान्न व्यतिरेकिणि दोषतेति वाच्यम् ।
 यत्र साध्यं तत्र हेत्वभावे एतस्याः साध्याभावीयव्यतिरेकव्याप्तित्वेन सत्प्रतिपक्षोत्थापकत्वेन तत्रापि दोषत्वादिति चेत् ।
 अत्रोच्यते ।
 परतन्त्रदुःखानुसन्धानरूपत्वस्यासर्वविषयदुःखानुसन्धानरूपत्वस्य वाऽत्र हेतुत्वम् ।
 न च परतन्त्रत्वमसर्वविषयत्वं वा हेतुरस्तु विशेष्येण कृतमिति वाच्यम् ।
 परतन्त्रासर्वविषयपदाभ्यां दुःखानुसन्धाननिष्ठवैजात्योपलक्षणात् ।
 यद्वाऽमुख्यस्वामित्वसम्बन्धेन दुःखकृतनीचतावत्त्वं हेतुः ।
 तदपि जीव एवेति न व्यभिचारः ।
 प्रपञ्चितं चेदमस्माभिर्मध्वतन्त्रमुखालोके प्रथमाधिकरणे ।
 न चाप्रयोजकता ।
 अर्जुनस्य त्वन्मतेऽपीन्द्रावतारत्वेनेन्द्रजीवापादकोपाध्याक्रान्ततावश्यकत्वेन व्यावहारिकैकजीवतायास्त्वया वक्तव्यत्वेन शचीभोगादिजन्यसुखाननुसन्धानस्य मानुषान्नोपभोगभूतसम्बन्धादिप्रयुक्ततावश्यकी ।
 न चात्र ब्रह्मणो दुःखाननुसन्धानमुपाधिकृतं वक्तुं शक्यते ।
 सर्वोपाधिविनिर्गलितत्वात्तस्य ।
 किञ्चेन्द्रगतोपासनादिजन्यं दुःखमर्जुनेन नानुभूयत एवार्जुनगतं च सर्वमिन्द्रियेणानुभूयते ।
 न चैवं प्रकृत इति कथमभेदः ।
 न चासाधारण्यम् ।
 अनुकूलतर्काणां वक्ष्यमाणत्वेन व्यतिरेकिण्यसाधारण्योन्नीतसत्प्रतिपक्षानवतारात् ।
 अत एवासाधारण्यं दशाविशेषे दोष इति वदन्ति वृद्धाः ।
 असाधारण्यभयाद्वाऽऽह ॥ ब्रह्म वेति ॥ अत्रापि जीवानुसंहितेत्यनुकूलतर्कस्फुरणार्थम् ।
 पूर्वोक्तव्यभिचारपरिहारवदत्र स्वमते स्वरूपासिद्धिपरिहारः ।

(14) (हु.) ॥ अनुमानानि चेति ॥ पूर्वोक्तभेदेष्वित्यादिः ॥ ब्रह्मप्रतियोगिकेति ॥ स्वस्मिन्व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगि(ताक)भेदानङ्गीकारेणेदम् ।
 अतो नोद्देशस्य ब्रह्मवृत्तितद्व्यक्तित्वब्रह्मत्वाद्यवच्छिन्नप्रतियोगिताकभेदस्यासिद्धिप्रसङ्गेनार्थान्तरापातः ।
 ब्रह्मप्रतियोगिकभेदस्य केवलान्वयितया तत्साधारणसाध्यतावच्छेदकावच्छिन्नाभावप्रसिद्ध्या व्यतिरेकव्याप्त्यनवकाशश्च ।
 सिद्धसाधनता तु नास्ति ।
 वक्ष्यमाणजीवत्वोपलक्षितचैतन्ये स्वसमानसत्ताकस्य (* `वक्ष्यमाणजीवपदार्थे तत्समानसत्ताकस्य' हु.) कस्यापि (भेदस्य) परेण नङ्गीकृतत्वेन साध्यस्योभयसिद्धत्वाभावात् ॥ ब्रह्माननुसंहितेति ॥ दुःखानुसन्धातृत्वमात्रस्य व्यभिचाराद्यभावेऽपि ब्रह्माननुसंहितेति दुःखादिस्वरूपकथनमैक्ये जीवानुसंहितदुःखे ब्रह्मणोऽनुसन्धानाभावानुपपत्तिरित्यनुकूलतर्कोत्थापनाय ।
 एवमुत्तरत्रानुमानेऽपि ।
 अथवा तस्य व्यभिचारवारकत्वेऽप्युक्तानुकूलतर्कोत्थापनद्वारा (* `व्यभिचारावारकत्वेन' इति पाठेन भाव्यमिति भाति ।
 ) व्याप्तिग्रहोपयोगित्वात् हेतुशरीरे निवेशो युक्त एव ।
 तदनुपयोगिविशेषणमात्रस्य तु वैय्यर्थ्येन हेतुशरीरे निवेशो नास्तीति नव्यमताभिप्रायेणेदम् ।
 प्रपञ्चितं च गुर्वद्वैतचन्द्रिकादौ सत्यत्वसाधकानुमानभङ्गावसरेऽस्माभिश्च तत्त्वोद्योतटिप्पण्यां द्वैतद्युमणौ मुक्तत्वहेतुविचारावसरे ।
 धर्मिसत्तासमानसत्ताकत्वस्य साध्यद्वये निवेशस्तु जीवब्रह्मणोः परस्परव्यावहारिकभेदमादाय परं प्रति सिद्धसाधनतावारणाय ।
 साध्यप्रसिद्धिर्घटादावेवेति स्वयं वक्ष्यति ।
 (* इतो वाक्यद्वयं हु.पाठे नास्ति ।
) व्यतिरेकेण जीववदितीति ।
 अत्र घटादावन्वयव्याप्तेः सम्भवेऽपि सा शिष्यैरेव ज्ञातुं शक्येत्याशयेनानुक्त्वा पूर्वोत्तरानुमानसाहचर्यानुरोधाद्व्यतिरेकव्याप्तिरेवोक्ता ।
 यद्वोक्तहेतोरसति सत्त्वेऽपि स्वधर्मिसत्ताघटितसाध्याप्रसिद्ध्या व्यभिचारवारणाय हेतौ चेतनत्वं लाघवान्निवेशनीयमतो नान्वयसम्भव इति व्यतिरेकव्याप्तिरेवोक्तेति द्रष्टव्यम् ।
 ननु दुःखादेरन्तःकरणधर्मत्वात्स्वाश्रितदुःखज्ञातृत्वरूपं वा तत्प्रत्यक्षरूपं वा तदनुसन्धातृत्वं प्रथमानुमाने जीवेऽभावादसिद्धम् ।
 द्वितीयानुमाने च जीवानुसंहितदुःखानुसन्धातृत्वाभावस्य जीवेऽपि सत्त्वाद्व्यभिचार इत्यत आह - दुःखादीनामिति ॥ अन्तःकरणाश्रितत्वेऽपि तादात्म्येन तन्निष्ठत्वेऽपि ॥ जीवस्येति ॥ तदनुसन्धातृत्वादिति ॥ अनुसन्धातृत्वशरीरे तादात्म्येन खाश्रितत्वस्य दुःखादावनिष्टत्वादिति भावः ।
 ननु तदनुसन्धातृत्वं नाम तत्प्रत्यक्षवत्त्वमित्युक्तं स्यात् ।
 ज्ञानत्वेन तन्निवेशस्यातिप्रसक्तत्वात् ।
 इत्थं च ब्रह्मपदार्थभूतभवदीयेश्वरस्यापि साक्षाद्दर्शित्वात्तदननुसंहितदुःखाप्रसिद्ध्या प्रथमानुमाने हेतुस्वरूपस्यैवासिद्धिः ।
 ब्रह्माननुसंहितेति विशेषणस्य हेतुशरीरनिवेशपक्षे तदभावपक्षे ब्रह्मण्येव व्यभिचारः ।
 दुःखानुसन्धातृत्वस्य ब्रह्मण्यपि सत्त्वात् ।
 द्वितीयानुमाने त्वसिद्धिरिति चेन्न ।
 अनुसन्धानस्य तत्प्रत्यक्षापेक्षयाऽतिरिक्तत्वात् ।
 तत्त्वं च तत्प्रत्यक्षप्रयुक्तनीचत्वादिविक्रियावत्त्वम् ।
 तच्च जीवस्वरूप एव वर्तते न परमात्मनि ।
 तदुक्तं भाष्ये ।
 `नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयत' इति ।
 सुधायां `मिथ्यात्वं यदि दुःखादे'रित्यनुव्याख्यानविवरणावसर एव `सत्ये एव नीचोच्चत्वलक्षणे विकृती अनुभवति ।
 तादृशविक्रियायाश्च न जीवस्वरूपहानिसम्पादकत्व'मिति (* अर्थानुवादोऽयं न शब्दानुवादः ।
)।
 नन्वेतावता हेतुशरीरे कथं निवेशः ।
 न च ब्रह्मवृत्तिविक्रियाजनकत्वाभावाद्दुःखप्रत्यक्षाधीनविक्रियावत्त्वं हेतुर्निष्पद्यत इति वाच्यम् ।
 तन्मते ब्रह्मवृत्तिविक्रियाप्रसिद्ध्या प्रामाणिकप्रतियोगिकाभावानङ्गीकारेण तज्जनकत्वाभावघटितहेतोरप्रसिद्धिः ।
 स्ववृत्तिविक्रियाजनकत्वं संसर्गावच्छिन्नाभावं निवेश्य वा स्वजन्यविक्रियात्वावच्छिन्नाभाववद्ब्रह्मकत्वेन दुःखप्रत्यक्षं वा निवेश्य हेतुपरिष्कारे जीवस्वरूपे मया तदनङ्गीकारादसिद्धिरिति चेन्मैवम् ।
 त्वन्मतेऽप्युपास्यब्रह्मरूपस्य सविशेषस्य रामकृष्णादेर्नित्यनिर्दुःखत्वस्य (*त्वेन) श्रुतिपुरणादिशतसिद्धत्वेन जीवानां दुःखितायाश्चानुभवसिद्धत्वेन तद्व्यवस्थायास्त्वयाऽप्यङ्गीकर्तव्यत्वेन मयाऽपि त्वत्सिद्धं निवेश्यैव हेतु(शरीर)परिष्कारस्य कर्तुं शक्यत्वात् ।
 न च मया दुःखादिविषयकान्तःकरणवृत्त्यात्मकप्रत्यक्षवत्त्वं तदनुसन्धातृत्वम् ।
 तच्च जीवानां वर्तते ।
 ईश्वरप्रत्यक्षं तु मायावृत्त्यात्मकमिति न तस्यानुसन्धातृत्वमिति (* `तच्च जीवानां वर्तते ईश्वरस्य तु तद्वृत्तेर्मायारूपत्वात् तदनुसन्धानमिति' हु.) तस्यानुसन्धातृत्वमिति व्यवस्था क्रियत इति वाच्यम् ।
 तस्योक्तिसहत्वे मया (मयापि) हेतुशरीरे तथैव निवेशः कर्तुं शक्य एव तदेव न सम्भवति ।
 दुःखादेः साक्षिवेद्यत्वेन त्वया मयाऽपि तत्रान्तःकरणवृत्तेरनङ्गीकारात् ।
 अङ्गीकारे वा योगिनामपि परदुःखविषयकान्तःकरणवृत्तिरूपसाक्षात्कारादिव्यवहारभाजनस्य प्रत्यक्षस्य सत्त्वेन तेषामपि दुःखानुभवित्वापत्तेः ।
 न च प्रत्यक्षे लौकिकविषयतां वा तदतिरिक्तवैजात्यं वा (किञ्चित्) योगीश्वरादिप्रत्यक्षव्यावृत्तं दुःखानुभवितृप्रत्यक्षे स्वीकृत्य तदवच्छिन्नमेवानुसन्धानमुच्यत इति वाच्यम् ।
 दुःखादेः साक्षिवेद्यत्वमिति निष्कृष्टसिद्धान्ते गत्यभावात् ।
 अङ्गीकारवादपक्षेऽप्यन्तःकरणवृत्तेरन्तःकरणधर्मत्वेन जीवस्य तद्वत्त्वरूपतदनुसन्धातृत्वायोगाच्च ।
 (* `स्वीकृत्य' इति इतः प्राक्तनतृतीयवाक्यगतपदमारभ्य एतावत्पर्यन्तं हु.पाठे किञ्चिद्व्यत्यासेन एवं पठ्यते - `स्वीक्रियते ।
 तदवच्छिन्नत्वमेवानुसन्धानमुच्यत इति वाच्यम् ।
 तेषां साक्षिवेद्यत्वरूपनिष्कृष्टसिद्धान्ते तदसम्भवात् ।
 तस्यान्तःकरणधर्मत्वेन जीववृत्तित्वसमाभवाच्च ।
' - इति ।
) स्वामितासम्बन्धेन तद्वत्त्वस्यैव तथात्वे सर्वस्य वशी सर्वस्येशान इत्यादिश्रुतिरीश्वरस्य स्वामिताया भवदङ्गीकृततया तस्य दुःखित्वं दुर्वारम् ।
 अन्याधीनस्वामित्वमेव तथात्वं चेन्ममापि हेतुशरीरे तदेव निविष्टमस्तु ।
 दुःखादावन्तःकरणवृत्तिरूपप्रत्यक्षस्य मयाऽनङ्गीकारेऽप्यन्यायत्तस्वामितासम्बन्धेन दुःखप्रत्यक्षवत्त्वस्यैव मया हेतुशरीरे निवेश्यत्वात् ।
 न च लक्ष्म्यास्त्वन्मते दुःखित्वापत्तिः ।
 तत्स्वरूपभूतपरकीयदुःखप्रत्यक्षस्येश्वराधीनस्वरूपभूतस्वामितासम्बन्धेन लक्ष्म्यामपि जीव इव विशेषबलेन सत्त्वादिति वाच्यम् ।
 तवापि कथम् ? अनेकश्रुतिपुराणसिद्धेश्वराधीनेतरस्वामित्वनिर्दुःखत्वयोर्हातुमशक्यत्वात् ।
 ननु परमार्थतो मया किमपि नासत्यापातत (* `नास्त्यापातत' इति पाठेन भाव्यमिति भाति ।
) एव सर्वव्यवस्थाऽङ्गीक्रियत इति नातिक्षोदो मद्व्यवस्थायामिति वाच्यम् ।
 तथात्वे सर्वत्रापि क्षोदस्य परित्यागापत्त्या तव विचारस्यैव वैय्यर्थ्यापातात् ।
 भास्करेण सर्वप्रपञ्चसत्यतामभ्युपगच्छताऽवश्यं व्यवस्थायाः कर्तव्यत्वाच्च ।
 उक्तानुमानयोस्तु तं प्रत्येव मुख्यतः प्रवृत्तिः ।
 उक्तं ह्यन्यत्र टीकाकारैः - `मायावादिना सर्वस्य कल्पितत्वङ्गीकारात्काल्पनिकी व्यवस्था घटेतापि न तु भास्करस्यातस्तं प्रतीदं दुःखानुसन्धानाद्यापादन'मित्यादि ।
 उपाधिखण्डनेऽपि भस्करमतनिरासावसर एवेदं दूषाणमभिहितम् ।
 एवं तत्त्वोद्योते ।
 एवमनुव्याख्यानेऽपि जगत्सत्यत्वमभ्युपेत्य जीवपरमात्मनोर्भेदाभेदमतनिरासाय प्रवृत्तस्यात एव चोपमा सूर्यकादिवदिति सूत्रस्य व्याख्यावसर एवेदमुदितम् ।
 गीतातात्पर्येऽपि सत्योपाधिपक्ष एवापरस्य सुखदुःखाद्यनुसन्धानप्रसङ्गादिदूषणान्युक्त्वा मिथ्योपाधिपक्षेऽप्येते दोषा भवन्त्येवेत्युक्तत्वात्तदनुसारेण मिथ्यात्ववादिनं प्रत्यपि दुःखानुसन्धानादिव्यवस्थायात्रापादनप्रसक्तिः ।
 तथा च व्यावहारिकदशसिद्धव्यवस्थायास्तेनापि कर्तव्यत्वादुक्तानुपपत्तिर्वर्तत एवेति ॥ न च परमात्मतद्भार्यारूपशक्त्युभयाधीनस्वामितासम्बन्धेन दुःखप्रत्यक्षवत्त्वमेव तदनुसन्धातृत्वं तच्च जीव एव वर्तत इति चेत् ।
 तर्हि (मम) हेतुशरीरे तदेव घटकमस्तु ।
 तावताऽपि मदिष्टसिद्धेः ।
 वस्तुतस्तु परायत्तस्वामितासम्बन्धेन दुःखप्रत्यक्षं दुःखं वा हेतुरस्तु ।
 लक्ष्म्यामुक्तसम्बन्धेन जैवदुःखप्रत्यक्षस्य वा तद्दुःखस्य वा सत्त्वेऽपि नास्माकं काचित्क्षतिः ।
 सिद्धान्ताभिमतदुःखानुसन्धानाभावेन तस्या दुःखास्पृष्टचेतनत्वोपपत्तेः ।
 न च दुःखप्रत्यक्षस्य हेतुत्वपक्षे प्रत्यक्षे दुःखविषयकत्वविशेषणं व्यर्थम् ।
 उक्तसम्बन्धेन प्रत्यक्षमात्रस्य व्यभिचारासंस्पर्शात् (इति वाच्यम्)।
 दुःखस्यैव परायत्तस्वामिताकप्रत्यक्षकत्वसम्बन्धेन हेतुत्वाङ्गीकारेण यथासन्निवेशे वैय्यर्थ्याभावात् ।
 यद्वा स्वसाक्षात्कारप्रयोज्यापकर्षवत्त्वसम्बन्धेन दुःखं हेतुरस्तु ।
 मन्मते तादृशापकर्षस्तत्काले (* `तादृशविक्रियारूपापकर्षः-' हु.) जायते नित्यसिद्धाद्विलक्षणः ।
 परैरपि दुःखित्वादिनाऽपकर्षस्याविद्यकस्य यस्मात्क्षरमतीतोऽहमित्यादिप्रमाणानुसारेणेङ्गीकर्तव्यतयोभयसाधारणापकर्षत्वरूपेण हेतुतावच्छेदकसम्बन्धशरीरे निवेशान्न तं प्रति प्रत्यक्षसिद्धिः ।
 वस्तुतस्तु प्रमाणबलेन परं प्रत्यपीश्वरव्यावृत्तमस्मदभिहि(म)तं विक्रियावत्त्वरूपं हेतुं प्रसाध्यैतदनुमानस्य प्रयोक्तव्यत्वान्न कोऽपि दोष इति तत्त्वम् ।
 नन्वेवमपीन्द्राननुसंहितदुःखानुसन्धातृत्वमर्जुने वर्तते ।
 अर्जुनाननुसंहितदुःखानुसन्धातृत्वमिन्द्रस्य वर्तते ।
 तयोर्भेदस्याभावात्कथभेतद्युज्यते ।
 मैवम् ।
 अनेन किमुक्तं भवति ।
 प्रकृतानुमित्यौपयिकव्याप्तिविघटनाय व्यभिचारश्चेत् ।
 स नास्त्येव ।
 यो यदननुसंहितदुःखानुसन्धाता स तस्माद्भिन्न इति सामान्यव्याप्त्यनुसरणे हि सा स्यान्न चैवं प्रकृते ।
 प्रकृतसाध्यहेतुघटितव्यतिरेकव्याप्तेरेवोक्तत्वात् ।
 तद्रीत्याऽयं हेतुरप्रयोजक इत्यभिप्रायश्चेत् ।
 दृष्टान्त एवासिद्धः ।
 इन्द्रस्यार्जुनशरीरावच्छिन्नसकलसुखदुःखानुसन्धानवत्त्वात् ।
 अर्जुनस्यापीन्द्रशरीरावच्छिन्नोपासनादिसाध्यमहाफलरूपसुखादिभोक्तृत्वसत्त्वात् ।
 तदीययत्किञ्चिदल्पसुखदुःखाद्यननुसन्धानं तु मानुषान्नोपभोगादिना भगवतोऽघटितघटकेश्वरशक्त्युपबृंहितेन भवतीत्येतावतोत्सर्गतः प्राप्ता तदीयदुःखाद्यनुसन्धानस्य तद्भेदनिरूपिताव्याप्तिः किं भज्यते ।
 व्यभिचारस्य सोपाधिकत्वात्तस्यादूषणताया `उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।
 व्यभिचार्यपवादेन मानमेव भविष्यती'ति भक्तिपादीयानुव्याख्यानेन तद्विवरणावसरे सुधायां चाभिहितम् ।
 (* अग्रे (*पुटसङ्ख्यॆयन्नु सेरिसबेकु) `ननु तथापीदमनुमानमयुक्तम्' इत्यारभ्य भेदस्याश्रयभेदेन भेदानङ्गीकारे पटवृत्तिघटभेदे जीवादिवृत्तित्वस्यापि सत्त्वेन तादृशोभयाभावस्य तत्रासत्त्वेऽप्यचेतनमात्रवृत्तिचेतनभेदे पारमार्थिकवृत्तित्वाभावादुभयाभावत्वं प्रसिद्धम् ।
' इतिपर्यन्तो भागः हु.पाठे अत्र पठ्यते ।
) ननु सुधोक्तमपि सोपाधिकव्यभिचारस्यादूषकत्वं कथमुपपद्यते ।
 व्यभिचारस्य सोपाधिकत्वेऽपि व्याप्तिविघटकताया दुर्वारत्वात् ।
 अन्यथा निरुपाधिकस्याप्यदूषणं स्यादविशेषात् ।
 मैवम् ।
 यतोऽत्रेत्थं प्रतिभाति ।
 व्याप्तिर्नाम साहचर्यनियमः ।
 पद्धतौ तथैवोक्तत्वात् ।
 साध्याभाववदवृत्तित्वाधिकरणतायोग्यतावत्त्वं यादृशहेतुतावच्छेदकाश्रयसामान्ये तादृशहेतुतावच्छेदकवत्त्वं व्याप्तिरिति पद्धत्यर्थः ।
 यादृशदेशादिवृत्तित्वविशिष्टहेतुना यादृशदेशादिषु साध्यानुमितिरानुभाविकीतत्तत्स्थलीयव्याप्तिस्तादृऽशदेशादिकं निवेश्य निर्वाच्या ।
 (* `यादृशसाध्यहेतुकानुमितौ यद्देशादिकं भासते तादृश देश एव व्याप्तिशरीरे निविष्टः ।
' हु.) यत्र केवलान्वयिनि साध्याभावोऽप्रसिद्धस्तत्स्थले तद्धटिता व्याप्तिरप्रामाणिकप्रतियोगिकाभाववादिनां सुलभैव ।
 सद्धेतुस्थले सर्वत्र तादृशयोग्यता वर्तते ।
 व्यभिचाराद्यनुपलम्भादनुकूलतर्कसहितप्रत्यक्षादिप्रमाणैस्तन्निश्चयस्य सर्वलोकानुभवसिद्धत्वात् ।
 क्वचिद्ब्रलवन्मन्त्रौषधादिकारणविशेषाद्धेतुव्यक्तिविशेषस्य साध्याभाववद्वृत्तित्वप्राप्तावपि प्रमाणेन (हेतुसामान्ये) सिद्धा तादृशयोग्यता नापनीयते ।
 यद्यपीयं व्यक्तिः साध्याभावाधिकरणावृत्तित्वसम्बन्धयोग्यैव तथाऽपि बलवत्कारणवशादस्याः साध्याभावसम्बन्धः प्राप्तः सर्वलोकानुभवात् ।
 अन्यथा भोजनादिरूपसामग्रीसत्त्वेऽपि बलवन्मन्त्रौषधादिवशात् (* `कारणविशेषवशात्' हु.) तृप्त्यभावेऽपि तृप्तियोग्यमेवेदं बलवन्मन्त्रोषधादिबलात्तृप्त्यनुपाधायकं जातमिति सर्वव्यवहारस्याप्यप्रामाण्यापातात् ।
 न चोक्तप्रतीतिव्यवहारयोः प्रामाण्ये (* `-प्रतीतिर्व्यवहारप्रामाण्ये' मु.) बलवद्बाधकमस्ति येनेष्टापत्तिः स्यात् ।
 योग्यता च तत्तत्स्वभावभूतस्तत्तन्निष्ठपदार्थविशेषः ।
 स च तत्तन्निष्ठतादृशवृत्तित्वाधिकरणतां प्रति प्रयोजको भवति ।
 कुतो धूमस्यैव वह्न्यभाववदवृत्तित्वं न घटादीनामिति प्रश्ने तत्स्वभाव एव नियामक इति सर्वैरपि वक्तव्यत्वात् ।
 स्वभावस्य च `स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रिया ।
 (* `द्रव्यं कर्म च कालश्च स्वभावो जीव एव च' हु.) यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षये'ति प्रमाणबलादीश्वराधीनत्वात् ।
 न चोक्ताधिकरणता साक्षादीश्वरनियम्याऽस्तु किं (मध्ये) स्वभावरूपशक्तेर्मध्येतन्नियामकत्वमल्पनेनेति वाच्यम् ।
 भगवच्छक्तेर्बाह्यकारणद्वारैव पदार्थप्रयोजकस्य (* `-कत्वस्य' इति पाठेन भाव्यमिति भाति ।
) बहुशो दर्शनात् ।
 अन्यथा दण्डेऽपि घटानुकूलशक्तेरप्येवं प्रत्याख्यानप्रसङ्गात् ।
 न च धूमत्वमेव तादृशयोग्यतारूपमस्त्येवेति वाच्यम् ।
 धूमत्वस्यालोकादिनिष्ठतादृशाधिकरणतान्यूनवृत्तित्वेन तत्प्रयोजकत्वाभावात् ।
 प्रत्युताधूमत्वादयं तादृशावृत्तित्वयोग्य इति प्रतीत्या तादृशयोग्यताज्ञापकतयैव प्रतीतेस्ततोऽतिरिक्तत्वात् ।
 इत्थं च स्व(स्वा)भावमप्यभिभूय बलवत्कारणाधीनतादृशवृत्तित्ववत्यपि (हेतौ) तादृशयोग्यतासत्त्वान्न सम्भवः ।
 तत एव व्याप्तिज्ञानस्य न प्रतिबन्धो विरोध्यविषकत्वात् ।
 तादृशयोग्यताभावज्ञानस्यैव विरोधित्वात् ।
 विषयाबाधाच्च न तत्स्थलीयव्याप्तिज्ञानस्य भ्रमत्वम् ।
 न च तस्य प्रमात्वे बाधानवतारदशायामपवादविषये जायमानानुमितिः प्रमा स्यात् ।
 सलिङ्गपरामर्शस्य (* अग्रे एवं दर्शनात् अत्रापि `सल्लिङ्गकपरामर्शस्य' इति पाठेन भाव्यम् ।
) भ्रमानुमितिजनकत्वाभावादिति वाच्यम् ।
 साध्याभाववद्विषयकत्वरूपदोषाहितभ्रमजननशक्त्या भ्रभजनकत्वसम्भवात् ।
 नैय्यायिकैः पृथिवीत्वरूपसल्लिङ्गकपरामर्शजन्याया (* `पृथिवीत्वरूपसलिङ्गपरामर्शजन्याया' मु.) अप्युत्पत्तिक्षणावच्छिन्नघटे गन्धानुमितेर्भ्रमरूपाया अङ्गीकृतत्वात् ।
 नन्वपवादविषयहेतुभिन्नत्वमेव व्याप्यतावच्छेदककोटौ निवेश्यतां किमुक्तप्रयासेनेति चेन्न ।
 ऐन्द्रियकानैन्द्रियकमन्त्रौषधादिरूपापवादानां भाविकालीनानां वर्तमानकालीनानां चाभावस्य निश्चयायोगेन तत्समवहितभेदविशिष्टत्वावच्छिन्नस्य निश्चेतुमशक्यत्वेन तद्रूपावच्छिन्नहेतौ व्याप्तिग्रहानुपपत्तेः ।
 अपवादादिस्फूर्त्यभावकाले व्याप्तिप्रमानुत्पत्त्यापत्तेश्च ।
 यत्र यत्रापवादस्य प्रवृत्तिस्तत्तद्भेदकूटस्यासर्वज्ञदुर्ग्रहतया तदज्ञानिनामसर्वज्ञानां व्याप्तिप्रमाविलयापातात् ।
 न चेष्टापत्तिः ।
 केषुचिद्भोजनेषु दृष्टिदोषादिना मरणादिजनकत्वदर्शनात्केषुचिन्मन्त्रौषधादिबलात्तृप्त्यजनकत्वदर्शनाच्च (भोजनमात्रस्य) बलवदनिष्टाजनकत्वविशिष्टेष्टसाधनत्वव्याप्यवत्ताज्ञानाद्भोजने तदनुमितिपूर्वकं प्रवर्तमानानामेवं भोजनमात्रस्य तृप्तिव्याप्यताज्ञानात् (*ज्ञानेन) भोजनलिङ्गेन तृप्त्यनुमितिमतामसर्वज्ञानां भ्रमत्वप्रसङ्गः ।
 न च तत्रेष्टापत्तिः ।
 प्रेक्षावता स्वोक्तनिर्वाहार्थमेव कर्तुं शक्यते ।
 नानाभेदकूटविशिष्टहेतुज्ञानत्वेन (* `-ज्ञानस्य' मु.) कारणत्वे कारणतावच्छेदकस्यातिगुरुशरीरत्वं स्यादित्युक्तरीतिरेव सम्यक् ।
 स्वरसव्यभिचारस्थलेऽप्येवं स्यादिति नापाद्यम् ।
 प्रमाणबलेनोक्तयोग्यतारूपव्याप्तिसिद्ध्यनन्तरमेवोक्तरीत्याश्रयणात् ।
 तस्मात्सुधोक्तं युक्तमेव ।
 तद्वाक्यस्थव्यभिचारपदमपि साध्याभाववद्वृत्तित्वपरमेव न तूक्तयोग्यत्वाभावपरम् (* `तूक्तयोग्यतावत्त्वपरम्' मु.) ।
 अतोऽपवादविषये व्यभिचार एव नास्तीति तदङ्गीकारेण दूषणत्वकथनमसङ्गतमिति शङ्कानकाश इति ।
 ननु तथाऽपीदमनुमानमुयुक्तम् ।
 आश्रयत्वरूपधर्मित्वेनानुगतरूपेण निविष्टत्वेन घटरूपधर्मिसमानसत्ताकव्यावहारिकभेदस्य जीवादौ सिद्धत्वेनानुमानद्वयेऽपि सिद्धसाधनतैव ।
तत्तद्धर्मिणां विशिष्य साध्यशरीरे निवेशे पुनः सिद्धसाधनतैव ।
 (* इदं वाक्यं मु.पाठे नास्ति ।
) ब्रह्मरूपधर्मिणो विशिष्य निवेशे तत्समानसत्ताकभेदाप्रसिद्ध्या पुनरप्रसिद्धविशेषणतैव ।
 स्वधर्मीति निवेशेऽपि स्वपदेन ब्रह्मजीवमात्रधर्मिकजडभेद (*दादि)ग्रहणे पूर्ववदप्रसिद्धविशेषणतैव ।
 घटादिमात्रधर्मिकचिद्भेदग्रहणे जीवेषु ब्रह्मणि चाभावेनानुमानद्वये बाध एव ।
 चेतनजडोभयसाधारणभेदमादाय सिद्धसाधनता दुर्वारैवेति चेन्न ।
 प्राचीनमते यथाकथञ्चित्स्वत्वस्यानुगतत्वेन स्वत्वेन (भेद)निवेशे साध्याप्रसिद्धिविरहात् ।
 परन्तु ब्रह्मजडोभयसाधारणभेदमादाय सिद्धसाधनता(दि)वारणाय तत्तद्धर्मिकभेदस्य वस्तु (*तत्)स्वरूपतयोभयनिष्ठैकभेदो नास्तीति स्वपक्ष एवाश्रयणीयः ।
 स्वत्वेन साध्ये निवेशस्थलेऽप्रसिद्धस्यापि साध्यस्य पक्षे सिद्धिप्रकारस्तु द्वैतद्युमणौ दर्शितस्तत्रैवानुसन्धेयः ।
 आधुनिकनैय्यायिकादिमनःसमाधानं तु स्ववृत्तित्वसत्तासमानसत्ताकत्वोभयसम्बन्धेन धर्मिविशिष्टभेद एव साध्यः ।
 घटवृत्तिभेदे उभयसम्बन्धेन घटरूपधर्मिवैशिष्ट्यस्य सत्त्वेन साध्यप्रसिद्धिः ।
 सपक्षे चोक्तसाध्यसिद्ध्या पारमार्थिकभेदस्य सिद्धिः ।
 अन्यवृत्तित्वविशिष्टस्यान्यत्रावृत्तित्ववदाधेयतासम्बन्धेनान्यविशिष्टस्याप्यन्यत्र वृत्तेरभावादुभयसम्बन्धेन धर्मिविशिष्टसाध्यस्य पक्षे सत्तायाः पक्षीभूतजीवब्रह्मरूपधर्मिणमादायैवोपपानीयतया पारमार्थिकत्वस्यावश्यं प्राप्तेः ।
 भेदस्य धर्मिभेदेन भिन्नत्वमेकत्वं वाऽस्तु न काचित्क्षतिः ।
 उक्तोभयत्वावच्छिन्नस्य संसर्गतया (* `-च्छिन्नसंसर्ग-' मु.) भानमप्रमाणिकमित्यङ्गीकारे तु पारमार्थिकवृत्तित्वपारमार्थिकान्यत्वोभयाभावत्वमेव प्रकृते धर्मिसत्तासमानसत्ताकत्वेन विवक्षितम् ।
 इत्थं च तादृशोभयाभाववद्भेदवत्त्वं साध्यम् ।
 यद्वा पारमार्थिकान्यनिरूपितत्वपारमार्थिकवृत्तित्वोभयाभाववद्भेदाधिकरणत्वं साध्यम् ।
 भेदस्याश्रयभेदेन भेदानङ्गीकारे पटवृत्तिघटभेदे जीवादिवृत्तित्वस्यापि सत्त्वेन तादृशोभयाभावस्य तत्रासत्त्वेऽप्यचेतनमात्रवृत्तिचेतनभेदे पारमार्थिकवृत्तित्वाभावादुभयाभावत्वं (* `अपारमार्थिकवृत्तित्वादुभया-' हु.) प्रसिद्धम् ।
 अधिकरणतायाः साध्यत्वपक्षे भेदस्याश्रयभेदेन भेदाभावेऽपि तदधिकरणतानामाश्रयभेदेन भिन्नत्वात् ।
 घटादिभेदनिरूपितपटादिनिष्ठाधिकरणतासु पारमार्थिकवृत्तित्वाभावदुभयाभावत्वं प्रसिद्धम् ।
 तथा च नाप्रसिद्धविशेषणता ।
 पक्षे उक्तसाध्यं तु भेदस्य पारमार्थिकत्वं विना न पर्यवस्यति ।
 भेदे तदधिकरणत्वे वा पारमार्थिकवृत्तित्वस्यैव सत्त्वेनापारमार्थिकत्वाभावप्रयुक्तस्य वा पारमार्थिकनिरूपितत्वाभावप्रयुक्तस्य वोभयाभावस्य वक्तव्यत्वादिति रीत्या कर्तव्यमित्येषा दिक् ।
 नन्वत्र लक्ष्म्या जीवत्वाभावेनापक्षत्वाद् यथाकथञ्चिदल्पशक्तित्वादिना तस्या अपि पक्षकोटौ निवेशे दुःखानुसन्धातृत्वरूपहेत्वभावेन भागासिद्धिप्रसङगात् सपक्षत्वे तत्र हेत्वभावादसाधारण्यमिति चेन्न ।
 पक्षत्वेऽपि तत्साधारणानुसन्धातृत्वस्यैव हेतुत्वाङ्गीकारेण भागासिद्धि(द्ध्यादि)विरहात् ।
 तद्व्यावृत्तहेतुपरिष्कारपक्षे तस्याः पक्षबहिर्भावेऽपि तन्मात्रे उक्तसाध्यनिश्चये बीजाभावेन सन्दिग्धसाध्यवत्तया पक्षतुल्यत्वेन सपक्षत्वाभावेन तत्र हेतोरवृत्तावप्यसाधारण्यविरहात् ।
 तत्र साध्यसिद्धेरपेक्षितत्वे एतदनुमानसिद्धजीव (* `एतदनुमानसिद्धसाध्यकजीव' मु)दृष्टान्तेनैवाल्पशक्तिकत्वादिनोक्तसाध्यस्य साधयितुं शक्यत्वात् न (* `साधनान्न कोऽपि' मु.) दोषः ।
 व्यतिरेकदृष्टान्तभूते ब्रह्मणि हेत्वभावो न सिद्ध इत्याशङ्क्य निषेधति ॥ ब्रह्मणश्चेति ॥ यद्वा ब्रह्माननुसंहितत्वघटिताद्यानुमानहेतोर्ब्रह्मपक्षकानुमानहेतोश्चासिद्धिमाशङ्क्य निराकरोति ॥ ब्रह्मणश्चेति ॥ अपुरुषार्थत्वप्रसङ्गादिति ॥ संसारदशायां स्वकीयदुःखमात्रभोक्तृत्वं ब्रह्मभावे तु तत्तादात्म्यापन्न सकलजीवदुःखभोक्तृत्वापत्त्या मुक्तेरत्यन्तहेयताप्रसङ्गश्च ज्ञातव्यः ॥ निरञ्जनत्वश्रुतीति ।
 निरञ्जनः परमं साम्यमुपैतीति श्रुत्या निरञ्जनपदेन दुःखभोक्तृत्वादि सकलदोषराहित्योक्तेस्तद्विरोध इति भावः ।
 पञ्चम्यन्तद्वमवश्यम्भावे हेतुः ॥ नासिद्धिरिति ॥ उक्तावतारिकाद्वयानुरोधेन न दृष्टान्तासिद्धिः हेत्वसिद्धिरित्यर्थद्वयमनुसन्धेयम् ।

(14) (का.) ॥ अनुमानानि चेति ॥ भेद इत्यादिः ।
 उच्यन्त इति शेषः ।
 यद्यपि पूर्वपक्षक्रमेण सामान्यत एवात्मनानात्वसाधकानुमानमादौ वक्तव्यम् ।
 तथापि प्रधानसिद्धौ सुतरां गुणसिद्धिरिति भावेनाह - जीव इति ॥ अत्र दुःखेति स्वरूपकीर्तनम् ।
 न तु हेतुघटकम् ।
 एवं च नित्यसुखाद्यनुसन्धातरि ब्रह्मणि व्यभिचारवारणाय ब्रह्माननुसंहितेति सार्थकम् ।
 न च ब्रह्मणः सर्वज्ञत्वेन ब्रह्माननुसंहिताप्रसिद्धिः ।
 स्वीयत्वेनानुभवस्यैवानुसन्धानत्वात् ।
 स्वीयत्वं च स्वनैच्याद्यापादकत्वम् ।
 न तु स्वधर्मत्वम् ।
 अतो नान्तःकरणवृत्तिदुःखासङ्ग्रहः ।
 एतल्लाभार्थं च दुःखपदमिति ध्येयम् ।
 यद्यपि अर्जुनाननुसंहितकिञ्चित्सुखाद्यनुसन्धातुरिन्द्रस्य तदभेदवदत्राप्यभेदोपपत्तेरप्रयोजकत्वम् ।
 तथापि भेदतत्प्रतिनिधिविशेषोभयसाधारणभेदव्यवहारविषयमात्रस्य साध्यत्वान्न दोषः ।
 जीवब्रह्मणोर्बाधकाभावेन भेदस्यैव सिद्धेः ।
 स्वाभाविकविशेषसिद्ध्याऽपि परनिवृत्तेश्च ।

अत्रान्वयव्याप्तौ दृष्टान्ताभावादाह - व्यतिरेकेणेति ॥ यद्यपि प्रथममीश्वरधर्मिकभेद एव प्रत्यक्षस्योक्तत्वादनुमानमपि तत्रैवादौ वक्तुमुचितम् ।
 तथापि जीवधर्मिकभेदस्य जीवप्रयक्षसिद्धत्वेन तत्रानुमानव्युत्पादनसौकर्यात्तदेवादावुक्तम् ।
 पूर्वपक्षक्रमेण च पूर्वमीश्वरधर्मिकभेदे प्रत्यक्षं प्रदर्शितम् ।
 पूर्वपक्षिणा च प्राधान्यात्तदेवादौ प्रतिक्षिप्तमिति नासङ्गतिः ।

॥ ब्रह्म वेति ॥ अत्र जीवत्वावच्छिन्नप्रतियोगिताकभेदः साध्यः ।
 तेन जीवप्रतियोगिकभेदस्य जीवसाधरण्येऽपि न व्यतिरेकाप्रसिद्धिः ।
 तत्तज्जीवप्रतियोगिकभेद एव साध्य इत्यप्याहुः ।
 अत्रापि हेतौ दुःखपदं स्वरूपकीर्तनमेव ।
 न चैवं जीवानुसंहितदुःखाभावानुसन्धातृत्वस्य ब्रह्मण्यपि सत्त्वादसिद्धिरिति वाच्यम् ।
 दुःखध्वंसप्रागभावयोरेव जीवानुसंहितत्वात् ।
 ईश्वरस्य च दुःखात्यन्ताभावानुसन्धातृत्वेन दोषाभावात् ।
 एवं चाननुसन्धातृत्वमात्रस्य ब्रह्मण्यभावादसिद्धिरतो जीवानुसंहितेति सार्थकम् ।
 न च व्यभिचारावारकत्वात्तद्वैयर्थ्यमिति शङ्क्यम् ।
 व्यभिचारवदसिद्धेरप्यनुमितिविरोधित्वाविशेषेण विमतं कर्त्रजन्यं शरीराजन्यत्वादित्यादौ शरीरादिविशेषणवदसिद्धिवारकत्वेऽप्यवैयर्थ्यस्य शास्त्रे समर्थितत्वात् ।
 अखण्डाभावसम्पादकत्वेनावैयर्थ्यं चोभयत्र तुल्यम् ।
 केचित्तु दुःखानुसन्धातृत्वतदभावयोरेवात्र हेतुत्वम् ।
 दुःखे ब्रह्माननुसंहितत्वाद्यभिधानं तु व्यतिरेकदृष्टान्ते हेत्वभावसत्त्वप्रदर्शनपरमित्याहुः ।
 तच्चिन्त्यम् ।
 तत्प्रदर्शनस्य दुःखादीनामित्यग्रिमग्रन्थेनैव लाभेन ब्रह्माननुसंहितत्वाद्यभिधानवैयर्थ्यस्य दुर्वारत्वात् ।
 यद्यपि द्वितीयानुमाने घटादेरन्वयदृष्टान्तत्वं सम्भवत्येव ।
 तथापि अन्वयदार्ढ्यायैव व्यतिरेकेण जीववदित्युक्तम् ।
 यद्यपि च प्रथमे ब्रह्मानुसंहितसार्वज्ञाद्यननुसन्धातृत्वस्य, द्वितीये जीवाननुसंहितसार्वज्ञाद्यनुसन्धातृत्वस्य च हेतुत्वं सम्भवति, तथापि परमते शुद्धस्यानुसन्धातृत्वाभावादसिद्धिः स्यादतो न तदनुसरणम् ।
 न चैवं प्रथमे ब्रह्मानुसंहिताप्रसिद्ध्या परस्य हेत्वप्रसिद्धिरिति वाच्यम् ।
 ब्रह्माननुसंहितेत्यनेन ब्रह्मनिष्ठाभावप्रतियोग्यनुसन्धानविषयत्वस्य विवक्षितत्वेन दोषाभावात् ।

अत्र साध्यशरीरे धर्मिसत्तासमानसत्ताकत्वविशेषणव्यावृत्तिं व्यञ्जयन् पारमार्थिकत्वेन भेदविशेषणाविशेषणयोः पूर्वपक्षोक्तसाध्याप्रसिद्धिसिद्धसाधनरूपदोषानवकाशं दर्शयति - अत्रेति ॥ एतदनुमानद्वय इत्यर्थः ।
 अस्य च `नाप्रसिद्धविशेषणत्वं' `न सिद्धसाधन'मित्याभ्यामन्वयः ।
 अथ सत्तात्वादिना ब्रह्मसत्तासमानसत्ताकव्यावहारिकभेदमादाय सिद्धसाधनवारणाय पारमार्थिकत्वेनैव समानत्वं विवक्षणीयम् ।
 तथा च परं प्रति साध्याप्रसिद्धिस्तदवस्थैव ।
 पारमार्थिकत्वव्यावहारिकत्वान्यतररूपेण समानत्वोक्तौ तु सिद्धान्ते व्यावहारिकत्वाप्रसिद्ध्या साध्याप्रसिद्धिः ।
 सत्तात्वव्याप्यरूपेण तद्विवक्षणे च पारमार्थिकव्यावहारिकान्यतरत्वेन ब्रह्मसत्तासमानत्वमादाय सिद्धसाधनम् ।
 यत्तु समानत्वमभेद एव ।
 सिद्धान्ते भेदस्य धर्मिस्वरूपत्वेन तत्र धर्मिसत्तातिरिक्तसत्ताविरहादिति ।
 तन्न ।
 परमते घटादौ साध्यप्रसिद्ध्यनुपपत्तेः ।
 मैवम् ।
 तदधिकरणयावत्कालवृत्तित्वं तत्समानत्वमित्यङ्गीकारात् ।
 व्यावहारिकस्य व्यवहारनिवृत्तिकालावृत्तित्वेन सिद्धसाधनाद्यनवकाशात् ।
 यद्वा , ब्रह्मसत्ताभिन्नत्वतदभिन्नत्वान्यतररूपेण समानत्वं विवक्षणीयम् ।
 ब्रह्मसत्ताभिन्नत्वेन धर्मिसत्तासमानसत्ताकभेदस्य घटादौ प्रसिद्धत्वान्नाप्रसिद्धविशेषणत्वम् ।
 ब्रह्मणि ब्रह्मसत्ताभिन्नत्वेन ब्रह्मसत्तासमानत्वासम्भवेन तदभिन्नत्वेन तत्समानसत्ताकभेदः सिद्ध्यन् ब्रह्माभिन्नः पारमार्थिक एव सिद्ध्यतीति दिक् ।

अत्र च घटादिसत्तासमानसत्ताकभेदस्य ब्रह्मण्यभ्युपगमात् सिद्धसाधनमतो धर्मीति ।
 यद्यपि घटादेर्मेयत्वादिकं प्रति धर्मित्वमस्त्येव ।
 तथापि स्वधर्मित्वं विवक्षितम् ।
 स्वपदस्य च तत्तद्भेदपरत्वान्न दोषः ।
 न चैवमात्मधर्मिकभेदस्य परमते स्वधर्मिसत्तासमानसत्ताकत्वाभावात् साध्याप्रसिद्धिरिति वाच्यम् ।
 सजातीयसाध्यस्य घटादौ प्रसिद्ध्यैवानुमाननिर्वाहात् ।
 अन्यथा पक्षीयवह्नेः प्रागसिद्धत्वेनानुमानोच्छेदप्रसङ्गात् ।
 वस्तुतः स्वनिष्ठत्वस्वनिष्ठसत्तासमानसत्ताकत्वोभयसम्बन्धेन धर्मिविशिष्टो भेदः साध्यः ।
 एवं च साध्यस्यानुगतत्वाद्धटादौ तत्प्रसिद्धिः सुलभैव ।
 एतेन भेदस्यानुगतत्वपक्षे घटादिसत्तासमसत्ताकतद्धर्मिकभेदस्यैवात्मन्यभ्युपगमेऽपि न सिद्धसाधनावकाशः ।
 गुणादौ द्रव्यवृत्तित्वविशिष्टसत्ताया इव घटादिवृत्तित्वविशिष्टभेदस्यात्मन्यभावादिति ।

ननु ज्ञानसुखदुःखादीनामैकाधिकरण्यनियमेन दुःखानधिकरणे जीवे तदनुसन्धानस्याप्यभावात् प्रथमानुमाने स्वरूपसिद्धिः ।
 अन्यथा ब्रह्मणोऽप्यविशेषेण दुःखानुसन्धानापत्त्या द्वितीये तद्दोष इत्यत आह - दुःखादीनामिति ॥ वृत्त्यात्मकानामेव ज्ञानसुखादीनामैकधिकरण्यनियमात् तदनुसन्धानस्य च साक्षिप्रत्यक्षत्वेन जीवगतत्वे बाधकाभावान्न प्रथमेऽसिद्धिः ।
 ब्रह्मणश्च दुःखानुसन्धातृत्वे तद्भावं प्राप्तस्यापि तदापत्त्या, मुक्तित्वेन पराङ्गीकृतब्रह्मभावस्य पुरुषार्थत्वानुपपत्तेः `निरनिष्टः' इत्यादिश्रुत्यप्रामाण्यप्रसङ्गाच्च ब्रह्मणो दुःखाननुसन्धातृत्वावश्यकत्वान्न द्वितीयेऽपि दोष इति भावः ।

(14) (श.) - एवं जीवेशयोर्जीवानां च भेदे प्रत्यक्षप्रमाणमभिधायानुमानान्याह - अनुमानानि चेति ॥ भेदे सन्तीति शेषः ।
 तत्र तावद्ब्रह्मप्रतियोगिकजीवधर्मिकभेदेऽनुमानमाह - जीव इति ॥ धर्मिसत्तासमानसत्ताकेति ॥ धर्मी जीवः ।
 तस्य यादृशी सत्ता तत्समानसत्ताको यो भेदः तदधिकरणमित्यर्थः ।
 ब्रह्माननुसंहितं यद्दुःखं तदनुसन्धातृत्वात् ।
 तदनुभुवितृत्वादित्यर्थः ।
 अत्रानुसन्धानशब्दोक्तानुभवो नाम दुःखादौ स्वात्मीयत्वाभिमानेनात्मनि तत्कृतनीचोच्चतालक्षणा विक्रियैव नतु ज्ञानमात्रम् ।
 तथाच सर्वज्ञस्य ब्रह्मणः कथं दुःखानुभवाभाव इति न शङ्क्यम् ।
 अन्वयदृष्टान्ताभावादाह - व्यतिरेकेति ॥ ब्रह्मणि ब्रह्मप्रतियोगिकभेदाभावेन साध्याभावो दुःखानुसन्धातृत्वस्याभावेन हेत्वभावश्च द्रष्टव्यः ।
 इदानीं जीवप्रतियोगिकेश्वरधर्मिकभेदेऽनुमानमाह - ब्रह्म वेति ॥ अत्र धर्मि ब्रह्म ।
 शिष्टं पूर्ववत् ।
 जीवानुसंहितम् ।
 जीवेनानुसंहितम् अनुभूतं यद्दुःखं तदननुसन्धातृत्वात् ।
 तदननुभवितृत्वादित्यर्थः ॥ व्यतिरेकेणेति ॥ जीवे जीवप्रतियोगिकभेदाभावेन साध्याभावः ।
 जीवानुसंहितदुःखानुसन्धातृत्वस्यैव विद्यमानत्वेन तदननुसन्धातृत्वाभावाद्धेत्वभावश्च द्रष्टव्यः ।
 अत्रानुमानद्वये किं पारमार्थिकभेदः साध्यः उत व्यावहारिकः ।
 नाद्यः ।
 अप्रसिद्धविशेषणत्वात् ।
 नद्वितीयः ।
 सिद्धसाधनादिति शङ्कापरिहाराय साध्यद्वये धर्मिसत्तासमानसत्ताकेति विशेषणमुपात्तम् ।
 तेन कथं दोषद्वयपरिहार इत्यतः क्रमेण तदुभयपरिहारं दर्शयति - अत्रेत्यादिना न सिद्धसाधनमित्यन्तेन ॥ घटो ब्रह्म नेति प्रतीतिबलात् घटे ब्रह्म प्रतियोगिकभेदस्तावदस्ति ।
 तस्य धर्मी घटः तस्य यादृशी सत्ता व्यावहारिकी तत्समानसत्ताकत्वं प्रसिद्धमेव मायावादिनः ।
 अतो नाद्यानुमानेऽप्रसिद्धविशेषणत्वम् ।
 तथा घटो जीवो नेति प्रतीतिबलात् घटे जीवभेदः सिद्धः ।
 तस्य घटरूपधर्मिसमानसमत्ताकत्वं प्रसिद्धमेवेति न द्वितीयानुमानेऽप्रसिद्धविशेषणत्वम् ।
 तथा जीवस्य धर्मिणः पारमार्थिकत्वेन तत्समसत्ताकत्वेन सिध्यन्भेदः पारमार्थिक एव सिध्यतीति नाद्यानुमाने सिद्धसाधनम् ।
 ब्रह्मणो धर्मिणः पारमार्थिकत्वेन तत्समसत्ताकत्वेन सिध्यन्भेदः पारमार्थिक एव सिध्यतीति न द्वितीयानुमाने सिद्धसाधनमित्यर्थः ।
 ननु दुःखस्यान्तःकरणवृत्तित्वाज्जीवे दुःखमेव नास्तीति तदनुसन्धातृत्वस्याप्यभावाद्धेतोः स्वरूपासिद्धिरित्यत आह - दुःखादीनामिति ॥ अनुसन्धातृत्वादित्यस्य नासिद्धिरिति वक्ष्यमाणेनान्वयः ।
 जीवस्य दुःखानुसन्धाने दुःखस्य जीवगतत्वं न प्रयोकजकम् ।
 जीवावर्तिनोऽपि घटादेरनुसन्धानदर्शनादिति भावः ।
 ननु ब्रह्मणोऽपि दुःखानुसन्धातृत्वे बाधकाभावाद्द्वितीयहेतोः स्वरूपासिद्धिरित्यत आह - ब्रह्मण इति ॥ मायावादिमते जीवस्य ब्रह्मभाव एव मोक्ष इत्यङ्गीक्रियते ।
 तत्र यदि ब्रह्मणोऽपि दुःखानुसन्धानन्तर्हि तद्भावापन्नजीवस्यापि तत्स्यात् ।
 तथाच तादृशमोक्षस्य पुरुषैरर्थ्यत्वाभावेन पुरुषप्रयोजनत्वं न स्यादित्यर्थः ॥ निरञ्जनेति ॥ निरनिष्टो निरवद्य इत्यादिनिर्दुःखत्वादिप्रतिपादकश्रुतिविरोधादित्यर्थः ॥ तदभावेति ॥ दुःखानुसन्धातृत्वाभावेत्यर्थः ।

(15) नन्वत्र जीवशब्देनानवच्छिन्नचैतन्यविवक्षायां तस्य दुःखाननुसन्धातृत्वेनासिद्धिप्रसङ्गादन्तःकरणेन वाऽज्ञानेन वाऽवच्छिन्नचैतन्यं विवक्षणीयम् ।
 न च तद्युक्तम् ।
 अवच्छिन्नस्य मिथ्यात्वेन तत्सत्तासमानसत्ताकत्वेन सिध्यतो भेदस्य पारमार्थिकत्वासिद्धिरिति चेत् कस्तर्हि तवापि जीवशब्दार्थः ।
 अवच्छिन्नमेवेति चेत् तर्हि जीवस्य मुक्तिर्मिथ्या स्यात् ।
 ननु जीवभाव एव मिथ्या चैतन्यं तु सत्यमेवेति चेन्न यच्चैतन्ये (यत्र चैतन्ये) मिथ्याभूतो जीवभावस्तत्सत्यमेव ।
 तदेव चैतन्यं जीवशब्देनास्माभिर्विवक्षितमिति सन्तोष्टव्यम् ।
 तदेव चैतन्यं दुःखानुसन्धात्रिति नासिद्धिः ।
 दुःखानुसन्धातृत्वं मिथ्यैवेति चेत्किमनेनाकाण्डताण्डवेन ।
 न ह्यस्माभिस्सत्यत्वं (तत्सत्यत्वं) हेतौ विशेषणीकृतम् ।
 ननु जीवब्रह्मणोर्भेदसिद्धेः पूर्वं कथं पक्षदृष्टान्तभाव इति चेन्न ।
 त्वयाऽभ्युपगतेन व्यावहारिकभेदेनैव पक्षदृष्टान्तभावोपपत्तेः ॥
(15) (भ.) नन्वत्राद्यानुमाने धर्मिसमसत्ताकेति भेदस्य विशेषणेऽपि न भवदभिमतपारमार्थिकत्वसिद्धिरित्याशयेन शङ्कते - नन्वत्रेत्यादिना ।
 परमुखेनैव समाधिप्रकारंसूचयितुं पृच्छति - कस्तर्हीति ।
 तव जीवब्रह्मणोरभेद इति वदतः ।
 मत इति शेषः ॥ अवच्छिन्नमेवेतीति ।
 अन्तःकरणाद्यवच्छिन्नं चैतन्यमेवेत्यर्थः ॥ तर्हीति ।
 अवच्छिन्नस्य मिथ्यात्वाङ्गीकारान्मिथ्याभूतस्य च ब्रह्मभावरूपसत्यमुक्त्ययोगाज्जीवस्य शास्त्रेषूच्यमाना मुक्तिर्मिथ्या स्यादिति भावः ।
 नन्ववच्छिन्नस्य जीवत्वेऽपि तस्य मिथ्यात्वेऽपि न तस्योच्यमाना मुक्तिर्मिथ्याऽऽपद्यते ।
 जीवशब्दार्थस्य सर्वस्यापि मिथ्यात्वे हि तथा स्यात् ।
 न चैवम् ।
 यत्र चैतन्ये जीवभाव आरोपितस्तच्चैतन्यं सत्यमेव ।
 तस्य च मुक्तिः सम्भवत्वेवेति भावेन शङ्कते - नन्विति ॥ तर्हि वयमपि वदामस्तदेव चैतन्यं जीवशब्द वाच्यम् ।
 यत्र जीवभाव आरोपित इति ब्रूष इति भावेन समाधत्ते ॥ यत्र चैतन्य इति ॥ तथा च धर्मिपदेन तादृशचैतन्यस्यैव लाभेन तत्समसत्ताकत्वसिद्धौ भेदस्य पारमार्थिकत्वमेव सिध्यतीति भावः ।
 नन्वेवंसत्यचैतन्यस्यैव जीवशब्दार्थत्वेन विवक्षितत्वे तस्य मन्मते दुःखानुसन्धातृत्वाभावेन हेतोरसिद्धिः स्यादित्यत आह - तदेवेति ॥ आरोपितजीवभावं चैतन्यमित्यर्थः ।
 तस्य च दुःखानुसन्धातृत्वं त्वयाऽप्यङ्गीकृतमेवेति भावः ।
 नन्वङ्गीकृतमपि तस्य दुःखानुसन्धातृत्वं मन्मते न सत्यम् ।
 किन्तु मिथ्यैवेति कथं नासिद्धिर्हेतोरिति शङ्कते - दुःखानुसन्धातृत्वमिति ॥ मिथ्यैवारोपितमेवेत्यर्थः ।
 आरोपितमप्यनुसन्धातृत्वं चैतन्ये त्वयाऽङ्गीकृतमेवेति तस्य सत्यतानङ्गीकारमात्रेण कथमसिद्धिः ।
 न हि तत्र सत्यत्वं विशेषणं दत्तमस्माभिरिति भावेन प्रत्याह - किमनेनेति ॥ अकाण्डताण्डवेनेति ॥ वाद्यादिविरहितनर्तनतुल्येनानुपयुक्तेन तन्मिथ्यात्ववर्णनेनेत्यर्थः ॥ पक्षदृष्टान्तभाव इति ॥ आद्यानुमाने जीवस्य पक्षत्वं ब्रह्मणो दृष्टान्तत्वम् ।
 द्वितीयानुमाने ब्रह्मणः पक्षत्वं जीवस्य दृष्टान्तत्वमित्यर्थः ।

(15) (मु.) ।
 नन्वत्रेति ॥ अनुमानद्वयेऽपीत्यर्थः ॥ अन्तःकरणेन वेति ॥ अज्ञानमात्रस्य जीवभावं प्रत्यप्रयोजकत्वादनुसन्धानं प्रत्यनुपयोगाच्च पक्षान्तरपरिग्रहः ।
 परेणैव परिहारं वाचयति - कस्तर्हीति ।
 वैदिकव्यवहारेष्विति शेषः ॥ मुक्तिर्मिथ्या स्यादिति ॥ अवच्छिन्नस्य मिथ्यात्वेन स्वरूपत एव तस्य बाध्यत्वे कस्य मुक्तिरिति भावः ।
 सन्तोष्टव्यमिति ॥ उक्तानुमानदूषणाय वृथा व्यथा कार्येति भावः ।
 नन्वत्राप्युक्तं दूषणमित्यत आह - तदेवेति ॥ सत्यचैतन्ये मिथ्याभूतो जीवभाव आरोप्यत इति त्वयैवोक्तत्वात् ।
 दुःखानुसन्धातृत्वस्यैव जीवशब्दार्थत्वादिति भावः ।
 शुद्धस्य मोक्षानङ्गीकारे दुःखानुसन्धानान्वयोऽपि तस्यैव ।
 अन्यथा वैय्यधिकरण्यादिति भावः ॥ अकाण्डेति ॥ अविच्छिन्नेत्यर्थः ॥ कथमिति ॥ अन्योन्याश्रयादिति भावः ।
 व्यावहारिकेति ॥ प्रतिभासिकाद्वैलक्षण्यमात्रेण परेण व्यवहाराङ्गीकारादिति भावः ।
 वस्तुतस्तु सन्दिग्धेनापि भेदेन पृथिवी इतरेभ्यो भिद्यत इत्यादाविव पक्षदृष्टान्तभावोपपत्तिः ।
 अस्य ग्राह्यसन्देहत्वेनाप्रतिबन्धकत्वादित्याद्यूह्यम् ।
 प्रत्यधिकरणं (* `न प्रत्यधिकरणम्' इति मु.पाठः ।
) ब्रह्मभेदस्यान्यत्वे मानाभावेन जीवगतस्य व्यावहारिकब्रह्मभेदस्य व्यावहारिकघटेऽपि सत्त्वेन घटापेक्षया धर्मिसत्तासमानसत्ताकत्वेन पुनस्तेनान्यथासिद्धिः ।

(15) (कु.) ॥ नन्वत्रेति ॥ प्रथमानुमाने पक्षवाचकजीवशब्देनेत्यर्थः ॥ पारमार्थिकत्वासिद्धिरिति ॥ तथाच सिद्धसाधनमिति भावः ।
 गूढाभिसन्धिः पृच्छति - कस्तर्हीति ।
 जीवनिष्ठा मुक्तिर्मिथ्या स्यात् ।
 न हि मिथ्याभूतधर्मिनिष्ठो मिथ्यात्वतत्समशीलधर्मातिरिक्तो धर्मो न मिथ्येति युज्यत इत्यर्थः ।
 यद्वा जीवस्य मुक्तिरिति वाक्यं मिथ्या स्यात् ।
 अप्रामाण्यात् ।
 यदि जीवो मिथ्याभूतस्तदा ब्रह्मज्ञानेन तन्निवृत्तिः स्यात् ।
 तथा च ब्रह्मज्ञानेन जीवो मुच्यत इति वाक्यमप्रमाणं स्यात् ।
 मुक्त्याधारस्य जीवस्याभावादिति भावः ॥ नन्विति ॥ तस्य मुक्त्याधारत्वान्नोक्तदोष इति भावः ।
 आशयमुद्धाटयति - यत्रेति ॥ ननु तस्य दुःखानुसन्धातृत्वाभावादसिद्धिरित्यत आह - तदेवेति ॥ उपाधेर्जडस्यानुसन्धातृत्वायोगेनोपाधिना निमित्तेन चैतन्य एवानुसन्धातृत्वस्य वाच्यत्वादिति भावः ।

(15) (हु.) पक्षनिष्कर्षार्थं शङ्कते - नन्विति ॥ अनवच्छिन्नेति ॥ अविद्ययाऽन्तःकरणोपाधिभिर्वाऽनवच्छिन्नेत्यर्थः ।
 प्रसङ्गादिति विवक्षणीयमित्यनेनान्वेति तवापीति ।
 `अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः ।
 तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत' इत्यादौ दुःखित्वेन मुक्तत्वरूपदुःखप्रहाणवत्त्वेन च प्रतिपाद्यते ।
 जीवशब्दार्थः स क इत्यर्थः ॥ अवच्छिन्नमेवेतीति ।
 अविद्ययाऽन्तःकरणेन चेत्यर्थः ।
 जीवशब्दोक्तानामेव तेषामिति परामर्शेन मुक्तिर्दुःखप्रहाणरूपोच्यते ।
 सा मिथ्या स्यात् प्रातिभासिकी स्यात् ।
 इदमुक्तं भवति ।
 अविद्याद्युपाध्यपगम एव जीवस्य मुक्तिरूपदुःखनाशहेतुस्तदपगमे तु विशेषणनाशेन तद्विशिष्टस्वरूपात्मकजीव एव नष्ट इति जीवनिष्ठमुक्तेरभावादुक्तश्रुतिर्घटस्य चैतन्यमिति वाक्यवदप्रमाणमेव स्यादिति ॥ नन्विति ॥ जीवभाव एवेति ॥ जीवत्वं चैतन्ये आरोपितं तत्तादात्म्यापन्नं विशिष्टं वेत्यर्थः ।
 ॥ चैतन्यं तु सत्यमिति ॥ तथा च यो बालस्तस्यैदानीं स्थविरत्वमित्यादिवाक्येन यथा बाल्योपलक्षितपिण्ड एव स्थविरत्वं प्रतीयते न तद्विशिष्टे बाधात् ।
 तथा प्रकृते तेषामिति जीवत्वोपलक्षितान्परामृश्य मुक्तिरुच्यते ।
 तत्र मुक्तिसम्बन्धस्याबाधान्न तद्वाक्याप्रामाण्यमिति भावः ।
 परं प्रति समाधिं वक्तुं तेन विवादं कर्तुमशक्यत्वस्थापनाय गूढाभिसन्धिना यत्पृष्टं तदिदानीमुद्धाटयति - यत्रेत्यादिना ।
 जीवो जीवत्वविशिष्टो मिथ्याभूत आरोपित इति व्युत्क्रमेणोद्देश्यविधेयभावः ॥ तच्चैतन्यमिति ॥ तथा च जीवत्वोपलक्षितञ्चैतन्यमेव पक्षः ।
 जीवत्वविशिष्टस्य तादात्म्येन तत्राध्यासेन तद्धर्मभूतजीवत्ववत्त्वस्यापि तत्राध्यस्ततया तद्धर्मत्वादिति भावः ।
 ननु जीववत्त्वस्य स्वोपहित एव सत्त्वात्तद्वत्त्वेनोपहितस्यैव पक्षत्वप्राप्त्या तत्रोक्तसाध्यत्वाभ्युपगमात्सिद्धसाधनतेति चेन्न ।
 शुद्धे जीववत्त्वसंसर्गस्याभावे पूर्वोक्तजीवमुक्तिवचनाप्रामाण्यापत्त्या तस्मिञ्जीववत्त्वसम्बन्धस्यावश्यकत्वे स्वोपहितप्रतियोगिकेन स्वोपहितावृत्तिना तादात्म्येन जीववत्त्वस्य पक्षतावच्छेदकत्वे उपहितव्यावृत्तेः शुद्धसङ्ग्रहाच्च ।
 उपहिते उपहितप्रतियोगिकत्वविशिष्टतादात्म्याभावाच्छुद्धे (* `उपहितं प्रति प्रतियोगिकत्व-' मु.) तत्सत्त्वाच्च ।
 तदुपहितत्वं स्वविषयताव्यापकतत्प्रकारकत्वरूपमेवोभयमतानुरोधान्निवेश्यम् ।
 अतः सिद्धान्ते विशिष्टातिरिक्तोपहिताप्रसिद्धावपि न पक्षासिद्धिरिति ज्ञेयम् ।
 तर्हि चैतन्ये दुःखानुसन्धातृत्वमसिद्धमित्यत आह - तदेवेति ॥ जडस्यानुसन्धानरूपज्ञानायोगात् ।
 अन्यथे`क्षतेर्नाशब्द'मित्यत्रेक्षत्याश्रयत्वेन प्रधानव्यावृत्त्ययोगात् ।
 अनुसन्धातृत्वमपि चेतन एव वक्तव्यममिति नासिद्धिरित्याशयः ।
 असिद्ध्यभिप्रायेण शङ्कते - दुःखेति ॥ मिथ्यैवेति ॥ स्वात्यन्ताभाववत्येव प्रतीयमानमित्यर्थः ।
 तथा चासिद्धिरिति भावः ।
 किं वस्तुतो मिथ्येति कृत्वा स्वरूपासिद्धिरित्यभिप्रायः? उत सत्यत्वं हेतुविशेषणमवश्यं वाच्यम्, अन्यथाऽऽरोपितदुःखानुसन्धातृत्वमादाय ब्रह्मण्येव व्यभिचारापत्तेरतः साधनाप्रसिद्धिरिति ? ॥ नाद्यः ।
 त्वन्मते सवानुमानस्थलेऽप्यसिद्धेर्बाधस्य च दुर्वारतयाऽनुमानप्रामाण्यवार्तोच्छेदापत्तेरतस्तद्वारणाय प्रतियोगिवैय्यधिकरण्यादिकं निवेश्यासिद्धिबाधादिलक्षणं (* `-सिद्धिर्बाधादि-' मु.) ।
) परिष्कार्यमिति कथमसिद्ध्युद्भावनमित्याशयेनाह - किमनेनेति ॥ अनवसरेऽनुपयुक्तवचनेनेत्यर्थः ।
 अनुमानदोषकथनावसरे तदनुपयुक्तमिथ्यात्वकथनमसङ्गतमिति भावः ।
 द्वितीयं निराचष्टे ॥ न हीति ।
 अनुसन्धातृत्वं चैतन्ये वर्तत इति तव मम च सम्मतम् ।
 तत्र मिथ्यात्वसत्यत्वविषये पुनरावयोर्विवादः ।
 तत्र विवादविषये सत्यत्वरूपं (* `-विषयसत्यत्व-' इति मु.) वा मिथ्यात्वरूपं वा धर्ममविशेषणीकृत्यानुसन्धातृत्वमात्रस्य हेतुत्वेनोपादानान्न साधना (*साध्या)प्रसिद्धिरन्यतरमतेनोद्भावयितुं शक्येति भावः ।
 त्वन्मते आरोपितधूममादाय धूमत्वावच्छिन्नस्य वह्निव्यभिचारवारणाय प्रातिभासिकव्यावृत्तस्य व्यावहारिकधूममात्रवृत्तेर्धूमत्वस्य हेतुतावच्छेकत्वम् ।
 मन्मते च तस्यासत्त्वेन तत्र धूमत्वस्यैवाभावाद्धूमत्वस्य हेतुतावच्छेदकत्वम् ।
 ननु धूमे सत्यत्वं विशेषणं देयम् ।
 तद्वत्प्रकृतेऽपि ब्रह्मण्यारोपितानुसन्धातृत्वस्य मन्मतेऽलीकत्वेन त्वन्मते प्रातिभासिकत्वेन तमादायावयोर्मते व्यभिचारप्रसक्त्यभावेन कुतो हेतौ सत्यत्वविशेषणं देयमिति भावः ॥ पक्षदृष्टान्तभावेति ॥ केवलपारमार्थिकदृष्ट्या तव प्रवृत्तौ मम तव चैक्येन वादिप्रतिवादिभावस्यैवानुपपत्तिः स्यादिति भावः ।

(15) (का.) आद्यानुमाने पक्षं परिष्कर्तुमाशङ्कते - नन्विति ॥ अनवच्छिन्नेति ॥ यद्यपि यावद्विशेषणानवच्छिन्नस्य बोधयितुमशक्यत्वान्न पक्षत्वसम्भवः ।
 सिद्धान्ते पक्षाप्रसिद्धिश्च ।
 तथाप्यनवच्छिन्नपदस्यान्तःकरणाद्यनवच्छिन्नपरतया तदनवच्छिन्नत्वेन पक्षत्वे तात्पर्यान्न दोषः ।
 बहुजीवपक्षेऽन्तःकरणेनेति, एकजीवपक्षेऽज्ञानेनेति ।
 अवच्छिन्नं विशिष्टम् ।
 तस्य च मिथ्यात्वमपारमार्थिकत्वं, व्यावहारिकत्वमिति यावत् ।
 तथाच तत्सत्तासमानसत्ताकभेदस्य सिद्धत्वात् सिद्धसाधनं, पारमार्थिकभेदासिद्धेरर्थान्तरं चेत्याशयः ।
 अत्र विशिष्टघटकविशेष्यांशस्यैव पक्षत्वमङ्गीकृत्य समाधास्यन् उक्तसिद्धसाधनाद्यभावस्फुटीकरणाय पृच्छति - कस्तर्हि तवेति ॥ अवच्छिन्नमिति ॥ सामान्ये नपुंसकम् ।
 अवच्छिन्नं चैतन्यमिति वा ॥ मिथ्या स्यादिति ॥ शशशृङ्गादिवदसती स्यादित्यर्थः ।
 जीवस्य मिथ्यात्वेनाज्ञानवत् प्रविलीनस्य बह्मभावायोगादिति भावः ।
 तथाच निष्प्रयोजनत्वेन वेदान्तानामनारम्भणीयत्वप्रसङ्ग इति ध्येयम् ।
 जीव शब्दार्थविशिष्टघटकविशेष्यांशस्य ब्रह्मत्वापत्तिरेव जीवमुक्तिशब्दार्थः ।
 तत्र च नोक्तदोष इत्याशङ्कते - नन्विति ॥ जीवभावोपलक्षितचैतन्यस्य पक्षत्वान्नार्थान्तरादीत्याशयेन समाधत्ते ॥ यत्रेति ॥ सन्तोष्टव्यमित्यनेनाभ्युपेत्यैवेदमुक्तम् ।
 वस्तुतो विशिष्टस्यापि सत्यत्वमेवेति सूचितम् ॥ तदेवेति ॥ दुःखानुसन्धातृत्वस्य जीवभावनियतत्वादिति भावः ।

नन्वपारमार्थिकदुःखानुसन्धातृत्वस्य ब्रह्मण्यनैकान्त्यात् पारमार्थिकत्वेन हेतुर्विशेषणीयः ।
 तथाच परमते हेत्वसिद्धिरित्याशङ्कते - दुःखानुसन्धातृत्वमिति ॥ स्यादेवं यदि पारमार्थिकत्वेन हेतुर्विशेषितः स्यान्न चैवं, प्रातिभासिकानैकान्त्यस्यादोषत्वात् ।
 अन्यथाऽनुमानमात्रोच्छेदापत्तेरिति भावेनाह - किमनेनेति ॥ अनवसरताण्डवायितेनानेनानुक्तोपालम्भेन किमस्माकमनिष्टम् ? न किमपीत्यर्थः ।
 अथायं पूर्वपक्षाभिप्रायः ।
 दुःखानुसन्धातृत्वस्य मिथ्यात्वान्न पक्षधर्मत्वम् ।
 सत्यानृतयोः सम्बन्धानुपपत्तेः ।
 यद्यप्यध्यस्ताधिष्ठानभावरूपः सम्बन्धोऽस्ति ।
 तथापि नासौ हेतुत्वनियामकः ।
 सिद्धान्ते दुःखानुसन्धातृत्वस्यानारोपितत्वेन तदनुपपत्तेः ।
 किन्त्वाश्रयाश्रयिभावः ।
 तथाच परेषामसिद्धिरिति ।
 अत्र ब्रूमः ।
 अनुसन्धातृत्वसम्बन्धेन दुःखवत्त्वस्यैवात्र हेतुत्वम् ।
 अनुसन्धातृत्वं च परमते स्वाधिष्ठान एव, सिद्धान्ते च स्वाधार एव दुःखादेर्वृत्तिनियामकमिति न कोऽपि दोषः ।

॥ कथं पक्षदृष्टान्तभाव इति ॥ यद्यपि प्रकृते वादिविप्रतिपत्त्या भेदस्य सन्दिग्धत्वान्न सन्दिग्धसाध्यकत्वादिलक्षणपक्षत्वानुपपत्तिरस्ति ।
 तथापि पक्षत्वसहितदृष्टान्तत्वानुपपत्तेर्विवक्षितत्वान्न दोषः ।
 यद्वा , भेदसिद्धेः पूर्वमभेदनिश्चये यथा जीवस्य पक्षत्वमनुपपन्नं तथा तत्सन्देहे ब्रह्मणो दृष्टान्तत्वमनुपपन्नमित्यर्थे तात्पर्यम् ।
 अत एव भेदसिद्धेः पूर्वमित्यपि सङ्गच्छते ।
 अन्यथा भेदसिद्ध्युत्तरमपि पक्षत्वानुपपत्तिसत्त्वेन तदसङ्गतेः ।
 अत्र जीवे ब्रह्मभेदसन्देहेऽपि ब्रह्मणि तदभेदानिश्चयान्नोक्तदोषः ।
 न चाभेदे तदनुपपत्तिः, व्यावहारिकभेदेनैव तदुपपत्तेरित्याशयेन समाधत्ते ॥ त्वयेति ॥ यद्यपि केवलचैतन्यभेदः परेण नाभ्युपगतः ।
 तथापि विशिष्टभेदस्य विशेष्यीभूतचैतन्यप्रतियोगिकत्वमस्तीति स एव पक्षदृष्टान्तभावोपपादक इति भावः ।
 यद्वा , सार्वज्ञादिविशिष्टचैतन्यमेव दृष्टान्तः ।
 तत्प्रतियोगिकभेद एव साध्य इति न कश्चिद्दोषः ।
 अथ तथापि जीवब्रह्मणोरभेदवादिनां ब्रह्मचैतन्येऽपि दुःखानुसन्धातृत्वसत्वाद्व्यभिचारः ।
 अभेदस्य विप्रतिपत्त्या सन्दिग्धत्वेऽपि सन्दिग्धानैकान्त्यं दुर्वारमिति चेन्न ।
 हेतुमति साध्याभावसन्देहाधीनव्यभिचारसन्देहस्यादोषत्वात् ।
 प्रकृते च तस्य हेतुमति जीवे ब्रह्माभेदसन्देहमूलत्वात् अन्यथा पक्षीयव्यभिचारसन्देहस्य सार्वत्रिकत्वेनानुमानोच्छेदप्रसङ्गादिति ।

(15) (श.) जीवपक्षकानुमाने धर्मिसमसत्ताकेति विशेषणेऽपि न सिद्धसाधनत्वपरिहार इति शङ्कते - नन्वित्वादिना पारमार्थिकत्वासिद्धिरित्यन्तेन ॥ अन्तःकरणेनेति बहुजीववादिमतेन अज्ञानेनेत्येकजीववादिमतसाधारण्येनेति ध्येयम् ।
 अत्र प्रतिबन्द्या समाधत्ते ॥ कस्तर्हीत्यादिना सन्तोष्टव्यमित्यन्तेन ॥ तव जीवस्य ब्रह्मभावो मुक्तिरिति वदतः ॥ तर्हीति ॥ यद्यवच्छिन्नं जीवशब्दार्थस्तर्हि तस्य मिथ्यात्वेन मिथ्याभूतस्य ब्रह्मज्ञाननिवर्त्यत्वेन ब्रह्मात्मैक्यापरोक्षज्ञानसमये जीवस्यैवाभावाज्जीवस्य ब्रह्मभावो मुक्तिरित्येतन्मृषा स्यादित्यर्थः ।
 ननु जीवशब्दार्थभूतमविद्यादिविशिष्टं नसर्वं मिथ्या किन्तु विशेषणभाग एव ।
 विशेष्यभागस्य तु सत्यत्वेन निवृत्त्यभावात्तस्य ब्रह्मभावरूपा मुक्तिर्युक्तैवेति शङ्कते - नन्विति ॥ जीवभावः जीवत्वम् ॥ यत्र चैतन्य इति ॥ तथाच जीवस्यपारमार्थिकत्वेन तत्समसत्ताकत्वेन सिध्यन्भेदःपारमार्थिक एव सिध्यतीति न सिद्धसाधनमिति भावः ।
 मिथ्याभूतो जीवभाव इति परमतानुवादः ।
 स्वमते जीवभावस्य सत्यत्वादिति ध्येयम् ।
 ननु यदि सिद्धसाधनतापरिहाराय सत्यचैतन्यमेव जीवशब्दार्थोऽङ्गीक्रियते ।
 तर्हि तस्य दुःखानुसन्धातृत्वाभावात्स्वरूपासिद्धिः स्यादित्यत आह - तदेवेति ॥ अहं दुःखीत्यत्र चैतन्यस्यैवास्मच्छब्दार्थत्वादिति भावः ॥ अकाण्डताण्डवेनेति ॥ अत्र ताण्डवाङ्गादिकं काण्डशब्देन विवक्षितम् ।
 तथाच काण्डाभावेऽपि ताण्डवायितेन दुखानुसन्धातृत्वमिथ्यात्वेन किमित्यर्थः ।
 यथा नर्तनाङ्गमृदङ्गादिसद्भावेन नर्तनं सङ्गतं तदभावे त्वसङ्गतं तद्वदत्रापि दुःखानुसन्धातृत्वस्यास्माभिः सत्यत्वे वर्णिते तन्मिथ्यात्वकथनं सङ्गतं, तदभावे तत्कथनमसङ्गतमेवेति भावः ।
 एतदेवाह - नहीति ॥ हेतौ दुःखानुसन्धातृत्वे ।
 येन तन्मिथ्यात्ववर्णनं सङ्गतं स्यादिति भावः ।
 वस्तुगत्या भवदभिमतं सत्यत्वं निराकृतमिति चेन्न ।
 तस्य प्रसङ्गान्तरत्वेन प्रकृतासङ्गत्यपरिहारादिति हृदयम् ।
 नन्वाद्यानुमाने जीवस्य पक्षत्वं ब्रह्मणो दृष्टान्तत्वं द्वितीये ब्रह्मणः पक्षत्वं जीवस्य दृष्टान्तत्वं न सम्भवति ।
 पक्षदृष्टान्तभावस्य भेदसापेक्षत्वात् ।
 जीव्रब्रह्मणोर्भेदस्याद्याप्यसिद्धत्वादिति शङ्कते - नन्विति ॥ नचानेनैवानुमानेन तयोर्भेदसिद्ध्या पक्षदृष्टान्तभावोपपत्तिरिति वाच्यम् ।
 भेदसिद्धौ पक्षदृष्टान्तभावोपपत्त्याऽनुमानप्रवृत्तिरनुमानप्रवृतौ च तेन भेदसिद्धिरित्यन्योन्याश्रयापातादिति भावः ।
 पक्षदृष्टान्तभावे हि भेदमात्रमपेक्षितं ननु तस्य पारमार्थिकत्वमपि ।
 तथात्वे त्वन्मते पर्वतमहानसयोः पारमार्थिकभेदाभावेन पक्षदृष्टान्तभावानुपपत्तिप्रसङ्गात् ।
 भेदमात्रं तु जीवब्रह्मणोस्त्वयाप्यङ्गीकृतमिति तेन पक्षदृष्टान्तभावोपपत्तिरिति परिहरति - त्वयेति ॥
(16) यद्वा जीवो ब्रह्मप्रतियोगिक(तात्त्विक)तादात्म्याधिकरणं न भवति ब्रह्म वा जीवप्रतियोगिक(तात्त्विक)तादात्म्याधिकरणं न भवति ।
 पूर्वहेत्वोरेव साध्यनिर्देशो द्रष्टव्यः ।
 न चैवमप्रसिद्धविशेषणत्वं दोषाय ।
 तद्धि साध्यकोटेरप्रसिद्धेः(द्धौ) साध्यतदभाववत्त्वेन सन्देहानुदयात्पक्षताविघटनद्वारा पक्षधर्मताविघटकत्वेन दोष उताप्रसिद्धे साध्ये तेन हेतोर्व्याप्तिग्रहणायोगेन व्याप्तिविघटनेन वा उभयविघटनेन वा ।
 नाद्यः ।
 ब्रह्म जीवप्रतियोगिक(तात्त्विक)तादात्म्यापन्नं(तादात्म्यावच्छिन्नं) न वेति संशयाभावेऽपि जीवप्रतियोगिक(तात्त्विक)तादात्म्यं ब्रह्मण्यस्ति न वेति सन्देहमात्रेणाभिधेयत्वसाधकानुमान इव पक्षतोपपत्तेः (पक्षधर्मतोपपत्तेः)।
 न द्वितीयः ।
 केवलव्यतिरेकिणि साध्याभावस्यैव व्याप्तिग्रहात् ।
 अत्र साध्याभावस्य जीवतादात्म्यस्य जीवे प्रसिद्धेः ।
 यत्र व्यतिरेकिणि भावः साध्यस्तत्राभावस्य व्याप्त्युपयोगिनो भावज्ञानाधीनत्वात्साध्याप्रसिद्धिर्दोषाय ।
 प्रकृते त्वभावस्य साध्यत्वान्न दोषः ।
 न तृतीयः ।
 उभयाविघटनेनादूषणत्वात् ।
 व्याप्तिपक्षधर्मतान्यतरविघटकत्वे(विघटकत्वेनैव) हि दूषणम् ।

(16) (भ.) पूवोक्तानुमानद्वये धर्मिसमसत्ताकेति विशेषणप्रवेशेन गौरवमित्यपरितोषादाह - यद्वेति ॥ पूर्वहेत्वोरेवोति ।
 पूर्वोक्तहेतुभ्यामेवेत्यर्थः ।
 आद्यानुमाने ब्रह्माननुसंहितदुःखानुसन्धातृत्वादिति ॥ द्वितीये च जीवानुसंहितदुःखाननुसन्धातृत्वादिति पूर्वोक्तावेव हेतू बोध्याविति भावः ॥ न चैवमप्रसिद्धविशेषत्वमिति ॥ सर्वत्राद्वैतवादिना ब्रह्मजीवप्रतियोगिकतात्त्विकतादात्म्यस्यैवाङ्गीकारादिति भावः ।
 यद्यप्यप्रसिद्धविशेषणत्वमस्ति ।
 तथाऽपि न तेनानुमितिप्रतिबन्धरूपदोषोऽस्तीति भावेनोक्तं दोषायेति ।
 तद्धि पक्षधर्मताविघटनेन वा व्याप्तिविघटनेन वोभयविघटनेन वा दोष इति योजना ।
 कथं पक्षधर्मताविघटनमित्यत उक्तं पक्षत्वविघटनद्वारेति ।
 तदपि कथमित्यत उक्तं साध्यकोटीत्यादि ।
 साध्यरूपैककोटीत्यर्थः ।
 तथा च सन्दिग्धसाध्यवत एव धर्मिणः पक्षत्वात्तद्वृत्तिहेतोरेव पक्षधर्मत्वात्सन्देहेभावे पक्षत्वासिद्धौ हेतोः पक्षधर्मता न घटत इत्यर्थः ।
 व्याप्तिविघटनोपपादनायोक्तमप्रसिद्धनेत्यादि ।
 जीवो ब्रह्मप्रतियोगिकतात्त्विकतादात्म्याधिकरणं न भवतीत्याद्यनुमाने ईश्वरप्रतियोगिको जीवधर्मिकस्तु भेदो जीवस्य प्रत्यक्षः ।
 नाहं निर्दुःखो न सर्वज्ञ इत्यनुभवादिति प्राक् पक्ष एव साध्यप्रसिद्धेरुपपादितत्वेन किं पराङ्गीकारमात्रेण साध्याप्रसिद्धिमभ्युपगम्य तस्य दोषहेतुतानिरासायासेनेति भावेन ब्रह्मपक्षकद्वितीयानुमान एव साध्याप्रसिद्धेरदूषणत्वमुपपादयति - नाद्य इत्यादिना ।
 यद्यपीश्वरधर्मिको जीवप्रतियोगिको भेद ईश्वरस्य प्रत्यक्ष इति प्रागुक्तत्वाद्द्वितीयानुमानेऽपि साध्याप्रसिद्धिर्नास्ति ।
 तथाऽपि परबुद्धेरप्रत्यक्षत्वादुत्तमः पुरुषस्त्वन्य इतीश्वरवाक्येन तत्प्रत्यक्षानुमाने पुनस्तत्रापि साध्याप्रसिद्धिशङ्कायां तन्निरासे प्रयासगौरवमालोच्य द्वितीयानुमाने साध्याप्रसिद्धिमभ्युपगम्य तस्या अदूषणत्वकथनमिदमिति बोध्यम् ।
 केचित्तूपलक्षणाभिप्रायेण द्वितीयानुमानेऽप्रसिद्धविशेषणत्वस्य दोषत्वाभावकथनमिदमित्याहुः ।
 यद्यपि नायं पन्थाः सैद्धान्तिकः ।
 आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ।
 केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चनेत्युक्तेः ।
 तथाऽपि परमतानुसारेणेदमिति बोध्यम् ॥ ब्रह्मेति ॥ तत्र जीवप्रतियोगिकतात्त्विकतादात्म्यपन्नमिति साध्याभावकोटिप्रदर्शनम् ।
 न वेति साध्यकोटिप्रदर्शनम् ।

तथा च ब्रह्मरूपपक्षधर्मिकसाध्यतभावकोटिकसंशयासम्भवेऽपि साध्याभावधर्मिकपक्षवृत्तित्वतदभावकोटिकसन्देहमात्रेण पक्षत्वोपपत्त्या हेतोः पक्षधर्मत्वोपपत्तेरित्यर्थः ।
 क्वचित्साध्यधर्मिकपक्षवृत्तित्वतदभावकोटिकसंशयेनापि पक्षतोपपत्तिर्द्रष्टव्या ।
 नेयं रीतिः शास्त्रानुबद्धेति मन्तवयमिति भावेनात्र दृष्टान्तमाह - अभिधेयत्वसाधकानुमान इवेति ॥ शब्दोऽभिधेयः प्रमेयत्वादित्यत्राभिधेयत्वस्य केवलान्वयित्वेन तदभावाप्रसिद्ध्या शब्दोऽभिधेयत्वावान्न वेति सन्तेहेसम्भवेऽप्यभिधेयत्वं शब्दवृत्ति न वेति सन्देहमात्रेण यथा शब्दस्थपक्षतोपपत्तिस्तथाऽत्रापीति भावः ।
 इदमपि पक्षतासम्पादनं परोक्तानुसारेणैव ।
 न स्वमतरीत्या ।
 स्वमते लिङ्गजन्यप्रतीतिविषयरूपसाध्यधर्मवत्तामात्रस्य पक्षतारूपत्वेन सन्दिग्धसाध्यधर्मवत एव पक्षत्वनियमाभावात् ।
 घनगर्जितश्रवणेन घनानुमाने ज्ञात्वाऽपि परीक्षार्थं पृच्छन्तं प्रति प्रयुक्तानुमाने प्रत्यक्षादिना निश्चितेऽप्यर्थे दार्ढ्यार्थं प्रयुज्यमानानुमाने च साध्यसन्देहाभावेन साध्यधर्मवतः पक्षताभावप्रसङ्गात् ।
 स्वकारणायत्ततया जायमानायामनुमितौ प्राक् साध्यसिद्धेरप्रतिबन्धकत्वाच्च ।
 सिद्ध्यभावस्यानुमितावनङ्गत्वाच्च ।
 न हि सामग्री बुद्धिमती येन यन्मया कर्तव्यां तदन्येनैव कृतमित्यालोच्योदासीत ।
 अत एव सिषाधायिषा सहकृतसिद्ध्यभावः पक्षतेत्यादिवादा अपि स्थवीयांस एव ।
 पर्वते वह्निं दृष्ट्वा किञ्चिद्दूरगतस्य सहसा धूमदर्शने वह्न्यनुमितेरनुभवसिद्धत्वात् ।
 न हि तत्र सिषाधयिषाऽस्ति ।
 नापि सिद्ध्यभाव इति ॥ केवलव्यतिरेकिणीति ।
 हेतोः साध्येन व्याप्तिग्रहे हि साध्यप्रसिद्धेरुपयोगः ।
 साधनाभावेन साध्याभावस्य व्याप्तिग्रहे तु न साध्यप्रसिद्धिरुपयोगिनी ।
 केवलव्यतिरेकी चायं हेतुरिति भावः ।
 ननु केवलव्यतिरेकिणि व्यतिरेकव्याप्तिग्रहे साध्यप्रसिद्धेरनुपयोगेऽपि साध्याभावप्रसिद्धिस्त्वावशियक्येव ।
 साऽपि कथमत्रेत्यत आह - अत्रेति ॥ जीवतादात्म्याभावस्यैव साध्यत्वेन तदभावो जीवतादात्म्यं जीवे प्रसिद्धमेवेति भावः ।
 ननु जीवच्छरीरंसात्मकं प्राणादिमत्त्वादित्यत्र व्यतिरेकव्याप्तिग्रहे प्रतियोगितया साध्यप्रसिद्धेरप्यावश्यकत्वेन कथं सा नोपयोगिनीति तत्राह - यत्र त्विति ॥ तथा च सात्मकत्वानुमाने सात्मकत्वस्य भावरूपत्वेन व्यतिरेकव्याप्तिग्रहे प्रतियोगिभूतसात्मकत्वाज्ञानस्यापेक्षितत्वेन तदप्रसिद्धौ व्याप्तिग्रहायोगेन साध्याप्रसिद्धेर्दोषत्वेऽपि न प्रकृतानुमाने साध्याप्रसिद्धिर्दोषाय ।
 जीवतादात्म्याभावस्य साध्यत्वेन तस्याप्रसिद्धत्वेऽपि व्यतिरेकव्याप्तौ जीवतादात्म्याभावाभावरूपजीवतादात्म्यस्य जीवे प्रसिद्धत्वेन तस्य हेत्वभावेन व्याप्तिग्रहस्य सुशकत्वादिति भावः ।
 अभावस्याभावज्ञानस्य ।
 भावज्ञानाधीनत्वात् साध्यरूपप्रतियोगिज्ञानाधीनत्वात् ॥ उभयविघटनेनेति ॥ असिद्ध्यादिहेत्वाभासदोषेषु पक्षधर्मताव्याप्त्युभयविघटनेन दूषणत्वस्यादर्शनादित्यर्थः ।
 तत्कुत इत्यत आह - व्याप्तीति ।
 अन्यतरविघटकत्वमात्रेणैव दूषणत्वं न तूभयविघटकत्वेनापि गौरवात् ।
 अतोऽत्रापि नोभयविघटकत्वेन दूषणत्वमङ्गीकार्यमिति भावः ।

(16) (मु.) एवं द्वितीयप्रयोगेऽपीत्यतः सत्येव समाधाने विषयव्याप्तिसूचनार्थं प्रकारान्तरेण प्रयुङ्क्ते ॥ यद्वेति ॥ समाधानं तु ब्रह्मप्रतियोगिकाभेदो न जीवघटयोरेकः ।
 तस्य धर्मिस्वरूपत्वेन प्रत्यधिकरणमन्यान्यत्वात् ।
 तथा हि ।
 अन्योन्याभावो धर्मिस्वरूपो धर्म्यभिन्नत्वेनारोप्यमाणप्रतियोगिकः सः स्वयमपि धर्मिणा तदवस्थानापन्नः ।
 यथा धर्मिभिन्नतयाऽऽरोप्यमाणप्रतियोगिकः संसर्गाभावो धर्मिभिन्न इति ॥ विपक्षे भेदपरम्परयाऽनवस्थेत्यनुकूलतर्कः ।
 अस्तु वाऽसन्नेक एव भेदः ।
 तथाऽपि यावद्धर्मिसत्तासमानसत्ताकेति विशेषणान्न दोषः ।
 न जीवघटोभयधर्मिकस्य विरुद्धसत्ताद्वयप्रत्याहत्या व्याहतिरिति वाच्यम् ।
 पक्षधर्मताबलाद्व्याहतार्थस्यापर्यवसानात् ।
 किञ्च जीवजडयोः पारमार्थिकत्वैकरूपसत्ताकत्वस्याप्यनेन लाभात् ।
 न चैवं जीवस्यापि व्यावहारिकपर्यवसानं किन्न स्यादिति वाच्यम् ।
 सन्दिग्ध एव पर्यवसानस्य न्याय्यत्वादिति ॥ तादात्म्याभावस्यैव भेदत्वेन पूर्वानुमानापेक्षयाऽत्र को भेद इति चेन्न ।
 तादात्म्यारोप्यकस्यैव भेदत्वात् ।
 इह च तादात्म्याभावसाध्यत्वात् ।
 न चैवं भेदसाधनासङ्गतिरिति वाच्यम् ।
 तादात्म्यविरोधिमात्रस्यैवादौ भेदपदेन विवक्षितत्वात् ।
 व्यावहारिकतादात्म्यस्याभावेन सिद्धसाधनतावारणाय तात्त्विकेति ॥ अप्रसिद्धेति ॥ सर्वस्यापि तत्त्वतो ब्रह्मपदाभिधेयचैतन्यात्मकत्वाङ्गीकारादिति भावः ।
 साध्यासिद्धिर्न दूषणमिति भावेनाह - तद्धीति ।
 पक्षत्वविघटनद्वारेण पक्षधर्मताविघटनद्वारेणेत्येकविधो विकल्पः ।
 अप्रसिद्धकोटिकसंशयासम्भवे सन्दिग्धत्वरूपपक्षत्वाभावेनेत्यर्थः ॥ उभयेति ॥ उक्तव्याप्तिपक्षधर्मतारूपद्वयेत्यर्थः ।
 प्रकारत्रयं विना दोषतायोगादिति भावः ।
 साध्याप्रसिद्धौ पक्षविशेष्यकसाध्यतदभावोभयकोटिकसंशयाभावेऽपि साध्यतदभावान्यतरविशेष्यकेन पक्षवृत्तित्वावृत्तित्वकोटिसंशयेनालमित्याह (* `-कोटिकसंशय-' इति पाठः सम्भाव्यते, बहुव्रीहौ कप्रत्ययस्यानियतत्वेऽपि प्रायिकत्वात् ।
) ॥ ब्रह्मण्यस्ति न वेतीति ।
 एवञ्च ब्रह्मवृत्तित्वतदवृत्तित्वयोरेव कोटित्वेन तयोः सत्त्वज्ञानत्वादौ प्रसिद्धत्वादिति भावः ।
 अभिधेयत्वेति शब्दोऽभिधेय इत्यत्राभिधेयत्वस्य केवलान्वयित्वेन नेति कोट्यप्रसिद्ध्याऽभिधेयो न वेति संशयायोगेऽपि अभिधेयत्वं शब्देऽस्ति न वेति सन्देहमात्रेणैवेत्यर्थः ।
 यथाकथञ्चित्पक्षतावच्छेदकसामानाधिकरण्यसंशयोऽनुमित्यङ्गम् ।
 न तु तस्यानुमितिसमानविशेष्यप्रकारतापेक्षेति भावः ।
 वस्तुतस्तु जिज्ञासुं प्रत्यनुमानप्रवृत्तावेव संशयोऽङ्गम् ।
 प्रतिवादिनं प्रति सिषाधयिषायाम् ।
 वादिप्रतिवादिमध्यस्थानां स्वस्वसिद्धान्तनिश्चयित्वात् ।
 किञ्च कोटिज्ञानस्यैव संशयं प्रति हेतुत्वं लाघवात् ।
 अतश्चारोपरूपाप्रसिद्धिः सर्वत्र युज्यते ।
 न हि परस्य विशेषदर्शनवतः सा न युक्तेति वाच्यम् ।
 तस्याप्याहार्योपपत्तेः ।
 प्रतिवादिनं प्रति प्रवृत्तौ तु संशयस्याप्याहार्यहेतुत्वाङ्गीकारात् ।
 अपि च तादात्म्याधिकरणं न भवतीति प्रतिज्ञावाक्यादेव कोटिप्रसिद्धिरस्तु ।
 अयोग्यताज्ञानं वाक्यार्थज्ञानप्रामाण्य एव प्रतिबन्धकम् ।
 तज्ज्ञानं तु विशेषदर्शनं चन्द्रप्रादेशेन चन्द्रप्रादेशत्वप्रत्यक्षसामग्रीवशाद्भवत्येवेति ॥ साध्याभावस्य व्याप्तिग्रहणादिति ॥ एवञ्च साध्यव्याप्तेरग्रहणे तदप्रसिद्धिरदोष इति भावः ।
 इदं च पररीत्यैव ।
 वस्तुतस्त्वधिकरणविशेषस्याप्रसिद्धत्वेऽप्यधिकरणानुबन्धेनैवेदमनेन व्याप्तं तदभावव्यापकीभूताभावप्रतियोगित्वादित्यन्वय एव सुग्रहः ।
 उपलक्षणमेतत् ।
 विशेषतत्साध्याप्रसिद्धावपि यो यदवृत्तिधर्माधिकरणं स तत्तादात्म्याधिकरणं न भवतीति सामान्यव्याप्तिस्तु सुग्रहेति ॥ अभावव्याप्तिग्रहेऽपि प्रतियोगिप्रसिद्धिरावश्यिकीत्यत आह - यत्रेत्यादिना ॥ दोषायेति ॥ कथञ्चिदिति शेषः ।
 तत्रारोप्यद्वयप्रसिद्धेरूपपादयितुं शक्यत्वादिति भावः ।
 अन्यथा साध्याप्रसिद्धिर्न दोष इति विरोधः ॥ अभावस्य साध्यत्वादिति ॥ अभावाभावस्य भावत्वेन प्रतिज्ञानानपेक्षणादिति भावः ।
 इदं चापाततोऽभावाभावस्य भावत्वेऽपि न विधिमुखेन व्यतिरेकधीः ।
 किन्त्वभावाभावत्वेन ।
 ईदृश्या एव व्यभिचारधीविरोधित्वादिति ॥ वस्तुतस्तूक्तरीत्याऽऽरोपरूपाप्रसिद्धिरवसेया ।
 अस्तु प्रकारान्तरेण दुष्टत्वमित्यत आह - व्याप्तीति ।

(16) (कु.) ननु धर्मित्वमेकं नानुगतम् ।
 तथा च यदि घटसत्तासमानसत्ताकं भेदविशेषणं तदा सिद्धसाधनता विशेषणवैय्यर्थ्यं च ।
 यदि ब्रह्मसत्तासमानसत्ताकत्वं तदा साध्याप्रसिद्धिरित्यत ओह ॥ यद्वेति ॥ ब्रह्म वा जीवप्रतियोगिकेति ॥ इदं द्वितीयानुमानाभिप्रायेण ।
 एवं प्रथमानुमानेऽपि जीवो ब्रह्मप्रतियोगिकतात्विकतादात्म्याधिकरणं न वेति सन्देहासम्भवेऽपि ब्रह्मप्रतियोगिकतात्त्विकतादात्म्यं जीववृत्ति न वेति सन्देहसम्भवेन पक्षता बोध्या ।
 न च पक्षविशेष्यकसाध्यतदभावकोटिकसंशयान्यसंशयेनापि पक्षतायां सिद्धिदशायामपि यादृशतादृशसंशयेन पक्षतापत्तिरिति (* प्रायिकत्वादत्र `वाच्यम्' इति पदेन भाव्यम् ।
) ।
 प्रकृतानुमितिनिवृत्त्य (* `-निवर्त्य-' इति पाठेन भाव्यमिति भाति ।
)संशयस्यातिप्रसङ्गभञ्जकत्वात् ।
 प्रकृतानुमितिश्च भिन्नविशेष्यकप्रकारकाऽप्यनुभवविरोधात् (* `-भवानुरोधात्' इति पाठेन भाव्यमिति भाति ।
) तादृशसंशयनिवृत्तिकेति (* `-निवर्तिका-' इति पाठेन भाव्यमिति भाति ।
) भावः ।
 इदमुपलक्षणम् ।
 वस्तुतस्तु घनगर्जितेन घनाद्यनुमानानुरोधेन विशिष्टसिद्ध्यभावः पक्षता सा तु संशयाभावेऽप्यक्षता ।
 पक्षधर्मता तु न तावत्तत्तद्धर्मधर्मिता ।
 किन्तु पक्षताभिमतधर्मवृत्तितैव सा तु संशयनिरपेक्षितैवेति न तद्विघटकता साध्याप्रसिद्धेरित्यपि बोध्यम् ।
 तत्राभावज्ञानस्य व्याप्त्युपयोगिनो भावाधीनत्वादिति पाठः साधुः ।
 क्वचित्तत्राभावव्याप्तिप्रतियोगिनो भावाधीनत्वादिति पाठः ।
 तत्र व्याप्तिप्रतियोगिनो व्याप्त्याश्रयस्याभावज्ञानाधीनत्वादित्यर्थः ॥ उभयविघटनेनेति ॥ यद्यप्युभयविघटनेऽनुमितिप्रतिबन्धो भवत्येव तथाऽप्युभयविघटकत्वं न दूषकताबीजं गौरवादव्याप्तेश्चेति भावः ।

(16) (हु.) शिष्यव्युत्पादनायोक्तार्थदार्ढ्याय चानुमानान्तराण्याह - यद्वेति ॥ केचित्तु धर्मित्वेन निवेशे घटादिरूपधर्मिसत्तासमानसत्ताकभेदं व्यावहारिकमादाय सिद्धसाधनता ।
 स्वधर्मीति निवेशे पक्षदृष्टान्तयोरेकसाध्यालाभ इत्यरुचेराह यद्वेतीत्याहुः ।
 इति साध्यनिर्देशः पूर्वोक्तहेतोः कर्तव्य इत्यर्थः ॥ ब्रह्मप्रतियोगिकतात्त्विकतादात्म्याधिकरणं न भवतीति ॥ ननु तादात्म्ये तात्त्विकत्वं विशेषणं व्यर्थम् ।
 सामान्यतस्तादात्म्यानाधिकरणत्वमात्रसाधनेनाप्यभिमतार्थसिद्धेः ।
 यथाकथञ्चित्तत्तादात्म्याधिकरणत्वे तत्सामान्यानाश्रयत्वबाधापत्त्याऽत्यन्तभेदसिद्धेः ।
 न चारोपितस्य जीवतादात्म्यस्य ब्रह्मणि, ब्रह्मतादात्म्यस्य च जीवे सत्त्वाद्बाधवारणाय तत्सार्थक्यमिति वाच्यम् ।
 आरोपितानारोपितयोर्मिलित्वा तादात्म्यत्वाख्यैकधर्मस्यैवाभावात् ।
 आरोपितस्यैवासत्त्वेन किञ्चिदधिकरणावृत्तितद्वत्तामादाय बाधप्रसक्त्यभावाच्च ।
 नापि परं प्रति बाधसिद्धसाधनतावारणायेति वाच्यम् ।
 तात्त्विकतादात्म्यस्य त(त्व)न्मतेऽङ्गीकृतत्वेन तादत्म्यसामान्याभावस्य तन्मतेऽनङ्गीकारेण सिद्धसाधनानवकाशात् ।
 तात्त्विकतादात्म्यमङ्गीकुर्वतस्तात्त्विकत्वदानेऽप्यदानेऽपि बाधस्यावश्यकत्वेन तस्यादूषणत्वात् ।
 अन्यथा सर्वत्र प्रतिवादिनाऽनभ्युपगतस्यैव साधनीयत्वेन बाधावश्यकतया परार्थानुमानकथोच्छेदप्रसङ्गगात् ।
 तादात्म्ये तद्दानेऽपि व्यावहारिकतदभावमादाय सिद्धसाधनानिस्ताराच्च ।
 तस्मात्तात्त्विकत्वस्य न तादात्म्यविशेषणतासम्भवः ।
 नापि तदभाव (*वे )विशेषणत्वमपारमार्थिकम् ।
 तादात्म्याभावमादाय सिद्धसाधनतावारणायेति वाच्यम् ।
 समासमध्यपतितस्य पदस्य समासबहिर्भूतस्वासमभिव्याहृतनञर्थान्वय्यबोधकत्वात् ।
 परमार्थत्व (*पारमार्थिकत्व)विशिष्टतादात्म्याभावरूपभेदस्य परं प्रत्यसिद्धत्वाच्च ।
 व्यतिरेकव्याप्तिमूलकानुमानेनापि यद्धर्मावच्छिन्नव्यापकतावच्छेदकत्वं हेत्वभावत्वे गृहितं तद्धर्मावच्छिन्नाभावानुमापकत्वस्य हेतौ सत्त्वेऽपि पारमार्थिकत्वविशेषिततादृशाभावानुमितौ बीजाभावात् ।
 तस्मात्तात्त्विकपदमफलमेवेति चेन्न ।
 अत्र तात्त्विकपदं न पारमार्थिकपरं किन्तु मुख्यपरम् ।
 स तु तादात्म्यपदस्यैकत्वपरतातात्पर्यग्राहकम् ।
 अन्यथा जीवब्रह्मणोः सादृश्याभेदादितात्पर्येण शास्त्रे तादात्म्यैक्यादिपदानां बहुशः प्रयोगात् ।
 तादात्म्येत्येतावत एवोक्ते तेषामप्युपस्थितौ तदभावस्य वा मुख्यामुख्य साधारणरूपावच्छिन्नाभावस्य वा प्रकृते साध्यत्वभ्रमेण प्रकृते बाधशङ्का स्यात् ।
 तात्त्विकपददाने तु मुख्यैक्यमित्यर्थलब्ध्या तदभावस्यैव साध्यतालाभान्न बाधशङ्काप्रसक्तिः ।
 तथा च जीवप्रतियोगिकैक्यत्वावच्छिन्नप्रतियोगिताकाभावो ब्रह्मप्रतियोगिकैक्यत्वावच्छिन्नप्रतियोगिताकाभावश्चानुमानद्वये यथायथं साध्ये ।
 अयमभावस्तादात्म्यनिष्ठस्वरूपसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभाव एव भेदादन्य एवाधिकरणीभूतब्रह्मादिस्वरूपतया (* इत आरभ्य अग्रिमप्रसक्तिपदपर्यन्तं मु.पाठे `एवाधिकरणीभूतप्रसक्तिः' इत्येव दृश्यते ।
) परमते पारमार्थिक एव सिध्यति ।
 तेन तस्य व्यावहारिकत्वमादाय सिद्धसाधनतापर्सक्तिः ।
 ।
 भेदस्तु तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताको वा तादात्म्यावच्छिन्नप्रतियोगिताको वा भेदत्वमखण्डोपाधिर्वा ।
 अभेदसामान्यमपारमार्थिकमिति (* `-अखण्डोपाधिर्नाभेदसामान्यमपारमार्थिकमिति' मु.) पराभ्युपगमपक्षेऽत्यन्ताभावस्यैव साधनेनास्माकं कृतार्थतेत्याशयेनैतदनुमानं प्रवृत्तमिति न कोऽपि दोषः ।
 अत एवोत्तरग्रन्थेषु तात्त्विकत्वविशेषणं तादात्म्येऽनुपादायैव व्यवहारः ।
 पूर्वं तादात्म्याभावस्य भेदत्वेन व्यवहारादत्र तस्यातिरिक्तत्वाङ्गीकारे पूर्वोत्तरविरोध इति चेन्न ।
 भेदस्य तस्य च समनैय्यत्येनैक्यमिति मतविशेषाभिप्रायेण तथा व्यवहृतत्वेन विरोधाभावात् ।
 केचित्तु परार्थानुमानस्य विप्रतिपत्तिपूर्वकत्वाद्विप्रतिपत्तौ च तात्त्विकतादात्म्यत्वेन परेण स्वपक्षोत्कीर्तनं कार्यम् ।
 अन्यथाऽनिर्वचनीयतादात्म्यमादाय पर्यवसानात्परस्यार्थान्तरापातात् ।
 तथा च तदभावरूपसिद्धान्त(सिद्धान्त्यभिमत)कोटिस्तात्त्विकत्वघटितैवेति तात्त्विकपदं सार्थकमित्याहुः ॥ न चैवमप्रसिद्धविशेषणत्वमिति ॥ न च ब्रह्मैक्यस्य जीवैक्यस्य वा घटादावभावाद्धटादावेव तदभावः प्रसिद्ध इति कथमप्रसिद्धविशेषणतेति वाच्यम् ।
 तादात्म्यमैक्यमित्यनर्थान्तरं तद्वृत्यसाधारणधर्मस्यैव (तत्)तादात्म्यरूपत्वात् ।
 भेदाभावरूपैक्यस्य च प्रतियोगितावच्छेदकस्वरूपत्वेन तत्रैव पर्यवसानात् ।
 इत्थं (* `इत्थं यथा' मु.) गन्धवत्त्वलक्षणकथनात्प्राक् पृथिवीत्वस्य सर्वत्र प्रसक्तौ सत्यां जलाद्यसङ्कीर्णवस्तुज्ञानाभावाज्जलादिभेदस्य कुत्रापि प्रसिद्ध्यभावाज्जलादिभेदव्याप्यवत्ताज्ञानासम्भवमाशङ्क्याभावसाध्यकव्यतिरेकित्वात्तादृशसाध्याभावभूतजलत्वव्यापकीभूताभावप्रतियोगिगन्धवानिति ज्ञानाज्जलभेदानुमितेः परैरङ्गीकारात्तद्ब्रह्मत्वस्य जीवस्य च सर्वत्र प्रसक्तिदशायां तादात्म्याभावस्य क्वचिदधिकरणे निश्चयाभावादप्रसिद्धविशेषणता तद्रीत्यैव समाधानं वक्तुं शक्यतेत्यदोषः ।
 पृथिवीत्वस्य सर्वत्र प्रसक्तिदशायां जलादित्रयोदशान्यतमभेदाधिकरणत्वेन व्यक्तिविशेषानिर्णयात्तत्र जलभेदादेरनुपस्थितिवदिहापि दशाविशेषे तादृशतादात्म्याभावस्यानुपस्थितिसम्भवात् ।
 यद्वाऽद्वैतवादिभास्करस्य मते समस्तजगतः सच्छक्तिमद्ब्रह्मपरिणामित्वाङ्गीकारात्समस्तजगति ब्रह्मतादात्म्यमेवं जीवचित एव ब्रह्मत्वात्तदुपादानकत्वेन जीवतादात्म्यमपि सर्वत्र वर्तते ।
 मायावादिमतेऽपि सर्वत्र ब्रह्मचैतन्यारोपितप्रपञ्चाधिष्ठानब्रह्मासाधारणधर्मरूपसत्ताया अङ्गीकृतत्वात्तादात्म्यं तदभिन्नजीवतादात्म्यं च केवलान्वयीत्यङ्गीकृतमिति तेनाप्रसिद्धविशेषणतोद्भावयितुं शक्यत एव ।
 सत्तायाश्च ब्रह्मासाधारणधर्मत्वं `त्वानन्दो विषयानुभवः सत्ता चेति सन्ति त्रयो धर्माः, अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त' इति पञ्चपादिकोक्तेः सिद्धमिति न कोऽपि क्लेशः ॥ दोषाय चेति ॥ न चेत्यस्यात्रान्वयः ।
 प्रकृतानुमानविघटनरूपदोषाय न भवतीत्यर्थः ॥ उभयविघटनेनेति ॥ प्रत्येकं व्याप्तिग्रहविघटनेन पक्षधर्मताविघटनेन (* `प्रविघटनेत्येकं व्याप्तिग्रहपक्षधर्मताविघटनेन' मु.) चेति द्वित्वावच्छिन्नसम्पादानेन चेत्यर्थः ॥ ब्रह्मेति ॥ जीवप्रतियोगिकेति ॥ पूर्वं जीवरूपधर्मिणः प्रत्यक्षविषयत्वेन तत्र हेत्वादेः सुग्रहत्वादनुमितिर्झटिति भवतीति तात्पर्येण जीवपक्षकानुमानस्य प्रथमत उक्तत्वेऽपीदानीं संशयधर्मिणो जीवप्रतियोगिकतादात्म्यस्य प्रत्यक्षसिद्धत्वात्तद्धर्मिकसंशयस्य सौकर्यमिति प्राधान्यमनुसृत्य द्वितीयानुमान एव संशय उपपादितः ॥ पक्षतोपपत्तिरिति ॥ साध्यानुमितिनिवर्तनीयसंशयमात्रस्य पक्षतात्वाभ्युपगमादसमानधर्मितावच्छेदककस्याप्यस्य संशयस्यानुमितिनिवर्त्यत्वानुभवात्पक्षतात्वमिति भावः ।
 इदन्तु संशयस्य पक्षतात्वमभ्युपेत्य ।
 सिद्ध्यभावपक्षतात्वमते तु न कोऽपि दोषः ॥ अभावः साध्य इति ॥ तत्राभावरूपसाध्याभावज्ञानस्य भावरूपप्रतियोगिज्ञानाधीनत्वादिति तत्र साध्योपस्थितेरावश्यकत्वमिति भावः ॥ व्याप्त्युपयोगिन इति ॥ व्याप्तिज्ञानं प्रति विशेषणज्ञानमुद्रया हेतुभूतं यज्ज्ञानं तद्विषयीभूतस्येत्यर्थः ॥ अभावस्येति ॥ अभावाभावस्य भावरूपतया तस्य स्वसाध्याभावत्वेन ज्ञानार्थं साध्योपस्थितेरपेक्षणेऽपि साध्यीभूताभावीयप्रतियोगितावच्छेदकरूपेणैव व्याप्तिशरीरे भानाभ्युपगमेन तत्र साध्योपस्थितेरनपेक्षणादिति भावः ।
 न च जलभेदानुपस्थितिदशायां जलतादात्म्यरूपजलत्वस्य सर्वत्र ग्रहे गन्धाभावस्य तद्व्यापकता ग्रहीतुं (*न) शक्यते ।
 गन्धवत्यपि तत्प्रसक्त्या व्यभिचारग्रहादिति वाच्यम् ।
 जलत्वस्य प्रत्यक्षेण जले ग्रहकाले गन्धाभावस्यापि तत्र पूर्वमेव व्यापकत्वादेर्गृहीतत्वेनेदेनीं तत्स्मरणरूपपरामर्शेनोक्तानुमितिसम्भवात् ।
 पूर्वमगृहीतत्वेऽपीदानीं जलतादात्म्यादौ पृथिव्यनुयोगित्वादिसन्देहरूपतदतिप्रसक्तस्य सत्त्वेऽपि तस्य गन्धाभावनिरूपितव्यभिचारस्य जलत्वसंशयरूपत्वेन पर्यवसानेऽपि ग्राह्यसंशयस्य पक्षनिश्चये प्रतिबन्धकत्वाभावात् ।
 तथा यथाकथञ्चिदनुकूलतर्केण तदपसरणोपपत्तेश्च व्यापकत्वग्रहे युज्यत एव ।
 एवं शाब्दनिश्चयेऽप्युक्तव्यभिचारसंशयस्याप्रतिबन्धकत्वात् ।
 प्रत्युत योग्यताज्ञानमुद्रयाकारणत्वादाप्तवाक्यादिनाऽपि तन्निश्चयो युज्यत इति न कोऽपि दोषः ॥ उभयविघटनेनादूषत्वादिति ॥ व्याप्तिविघटकत्वेन पक्षताविघटनद्वारा ।
 यत्पक्षधर्मताविघटनं तेन चेति यद्दूषणत्वं तदभावादिति भावः ।
 साध्यसन्देहस्य पक्षतात्वमते तद्विघटनेन पक्षधर्मताविघटकत्वेऽपि तस्य पक्षतात्वपक्षं दूषयित्वा सिद्ध्यभावरूपपक्षतात्वस्यैव सिद्धान्तितत्वेन तद्विघटनस्याप्रसिद्धविशेषणेन कर्तुमशक्यत्वेन विघटनद्वयस्यैवायोगात् ।
 संशयपक्षतामते विघटनद्वयसत्त्वेऽपि तयोर्न समुचितत्वेन दूषकत्वं समुचितत्वेनोद्भावने बाधविशिष्टव्यभिचारोद्भावकस्यैवाधिक्येन निग्रहापत्तेः ।
 किन्तु बाधव्यभिचारयोरिव पृथगेवोद्भावनीयत्वात्पृथगेव दोषत्वमित्यर्थः ।
 विकल्पकोटौ निवेशस्तु यथाकथञ्चित्सम्भावितत्वमात्रेणेति द्रष्टव्यम् ॥ व्याप्तिपक्षधर्मताऽन्यतरेति ॥ प्रत्येकविघटकत्वेनेत्यर्थः ।
 तथा चैकदैकमेवोद्भावनीयमित्यर्थः ।
 तृतीयकल्पदूषणं शिष्यव्युत्पादनायैव ।
 न प्रकृतोपयुक्तत्वेन ।
 प्रकृते व्याप्तिपक्षधर्मतयोरुभयोरप्युपपादितत्वेन समुचितयोर्द्वयोर्दूषकत्वेऽपि क्षतिविरहादिति द्रष्टव्यम् ॥
(16) (का.) भेदे धर्मिसत्तासमानसत्ताकत्वमनिवेश्यापि पारमार्थिकभेदसाधनप्रकारमारभते ॥ यद्वेति ॥ पूर्वोक्तहेत्वोः क्रमेणेति शेषः ।
 तथाच जीवो ब्रह्मप्रतियोगिकतादात्म्याधिकरणं न भवति, ब्रह्माननुसंहितदुःखानुसन्धातृत्वाद्व्यतिरेकेण ब्रह्मवत् ।
 ब्रह्म वा जीवप्रतियोगिकतादात्म्याधिकरणं न भवति, जीवानुसंहितदुःखाननुसन्धातृत्वाद्व्यतिरेकेण जीववदित्युक्तं भवति ।
 न च ब्रह्मतादात्म्याधिकरणीभूतब्रह्मप्रतियोगिकव्यावहारिकभेदस्य जीवेऽभ्युपगमात्सिद्धसाधनमिति वाच्यम् ।
 ब्रह्मतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्य साध्यत्वात् ।
 घटाकाशे महाकाशप्रतियोगिकभेदाभ्युपगमेऽपि महाकाशतादात्म्यानधिकरणत्वाप्रतीत्या तदधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्येव जीवे व्यावहारिकस्यापि ब्रह्मतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्य परानभ्युपगतत्वेन दोषाभावात् ।

नन्वेवं परमते सर्वस्यैव ब्रह्मतादात्म्याधिकरणत्वात्तदवच्छिन्नप्रतियोगिताकभेदरूपसाध्याप्रसिद्धिरत आह - न चैवमिति ॥ यद्यपि काञ्चनमयवह्न्यादेः साध्यतायामिव साध्ये साध्यतावच्छेदकाभावरूपसाध्याप्रसिद्धिः साक्षादनुमितिविरोधितया दोष एव ।
 तथापि प्रकृते न तादृशासिद्धिरुद्भावयितुं शक्या ।
 विप्रतिपत्त्या भेदे ब्रह्मतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकत्वसन्देहेन तदनिर्णयात् ।
 तत्सन्देहस्य च साध्यसन्देहाधायकत्वेनाविरोधित्वात् ।
 किन्तूक्तसाध्यस्य क्वचिदगृहीतत्वादज्ञानरूपासिद्धिरेवोद्भाव्या ।
 सा च नाभावसाध्यकव्यतिरेक्यनुमाने दोष इति भावः ।
 एतदेवोपपादयति - तद्धीति ॥ पक्षधर्मताविघटनेन वा व्याप्तिविघटनेन वोभयविघटनेन वा दोष इति सम्बन्धः ।

ननु साध्यस्याप्रसिद्धावपि हेतोः पक्षधर्मत्वसम्भवात् कथं तस्यास्तद्विघटकत्वमित्यत उक्तम् ॥ पक्षताविघटनेनेति ॥ तदपि कथम् ? अतः साध्यकोटीत्यादि ।
 अथ पक्षताविशिष्टपक्षधर्मताज्ञानं नानुमितिहेतुः ।
 पक्षतायाः स्वरूपसत्याः पृथगेव हेतुत्वात् ।
 किन्तु पक्षतावच्छेदकवति हेतोर्धर्मत्वज्ञानमेव हेतुरिति कथं पक्षताविघटकस्यानुमित्यौपयिकपक्षधर्मताविघटकत्वमिति चेत् सत्यम् ।
 तथापि पक्षतायाः स्वातन्त्र्येण हेतुत्वे तद्विशिष्टपक्षधर्मताया अनुमितिप्रयोजकत्वानपायात् एकदेशविघटकस्य विशिष्टविघटकत्वमव्याहतमेव ।

अप्रसिद्धेनेत्याद्ययोगादित्यन्तं व्याप्तिविघटने हेतुः ।
 साध्यस्याप्रसिद्धौ तन्निरूपितव्याप्तिग्रहायोगादित्यर्थः ॥ उभयविघटनेनेति॥ उक्तरीत्या व्याप्तिपक्षधर्मतोभयविघटनेनेत्यर्थः ।

ब्रह्मधर्मिकभेदानुमानस्य प्राधान्यादन्योपलक्षकतया तत्र साध्याप्रसिद्धेरदोषत्वमुपपादयति - नाद्य इत्यादिना ॥ ननु पक्षधर्मिकसाध्यतदभावकोटिकसन्देहस्यैव पक्षतात्वात् कथमन्यविधसंशयेन पक्षतोपपत्तिरत आह - अभिधेयत्वसाध्यकानुमान इति ॥ अभिधेयत्वं शब्देऽस्ति न वेति संशयेनेति शेषः ।
 यथा शब्दोऽभिधेयः प्रमेयत्वादित्यादौ साध्याभावाप्रसिद्ध्या साध्यतदभावकोटिकसंशयासम्भवेऽपि साध्ये पक्षनिष्ठत्वतदभावकोटिकसंशयस्य पक्षतात्वमुपेयते, तथाऽत्र जीवतादात्म्यरूपसाध्याभावे पक्षनिष्ठत्वतदभावकोटिकसंशयस्य पक्षतात्वमुररीक्रियते, विशेषाभावादिति भावः ।
 इदमुपलक्षणम् ।
 विप्रतिपत्त्यधीनसाध्य संशयस्य सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्य च पक्षतात्वसम्भवो द्रष्टव्यः ।
 ननु साध्याप्रसिद्धौ कथं साध्याभावस्यापि व्याप्तिग्रहः ।
 प्रतियोगिप्रसिद्धेरभावधीहेतुत्वादित्यत आह - यत्रेति ॥ शब्दो गगनविशेषगुणः शब्दत्वाद्व्यतिरेकेण रूपवदित्यादौ ।
 व्याप्त्युपयोगिनः साध्याभावे हेत्वभावनिरूपितव्याप्तिग्रहप्रयोजकस्य ।
 अभावस्य साध्याभावज्ञानस्य ।
 भावज्ञानाधीनत्वात् साध्यज्ञानप्रयोज्यत्वात् ।
 साध्याप्रसिद्धिर्दोषाय व्याप्तिग्रहविघटनद्वाराऽनुमितिविघटनायेत्यर्थः ।

अयमाशयः ।
 व्यतिरेकिणि तद्धर्मावच्छिन्नाभावसाध्यकानुमितौ तद्धर्मावच्छिन्नाभावाभावत्वेन व्याप्तिज्ञानवत्तद्धर्मेण व्याप्तिज्ञानमपि हेतुः ।
 वह्न्यभावाभावत्वेनेव वह्नित्वेन व्याप्तिज्ञानादपि वह्न्याभावानुमितिदर्शनात् ।
 तथाच प्रकृते प्रसिद्धजीवतादात्म्यत्वेन व्याप्तिग्रहात्तदवचिछन्नाभावसाध्यकानुमितिर्न साध्यसिद्धिमपेक्षत इति ।

अथ सिद्धान्ते व्यतिरेकस्यान्वयमुखेनैव साध्यसाधकतया कथमप्रसिद्धसाध्यव्याप्त्यनुमापकत्वं तस्येति चेन्न ।
 यो यव्द्यापकीभूताभावप्रतियोगी स तदभावव्याप्यः ।
 वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवदिति सामान्यव्याप्त्या पक्षधर्मताबलादप्रसिद्धसाध्यव्याप्त्यनुमितिसम्भवादिति विभावनीयम् ॥ उभयाविघटनेनेति ॥ उक्तरीत्या व्याप्तिपक्षधर्मताग्रहाविघटकत्वेन अनुमित्यविघटकत्वादित्यर्थः ।
 ननु तथापि बाधादिवदसिद्धेरपि साक्षादनुमितिविरोधित्वेनैव दोषत्वमस्त्वत आह - व्याप्तीति ॥ बाधादेरपि साध्यसन्देहरूपपक्षताविघटकत्वेन दोषत्वं बोध्यम् ॥
(16) (श.) - पूवोक्तानुमानद्वये धर्मिसत्तासमानसत्ताकेति विशेषणप्रवेशेन गौरवमित्यपरितोषादाह - यद्वेति ॥ पूर्वहेत्वोरिति ॥ तथाच जीवः ब्रह्मप्रतियोगिकं यत्तादात्म्यमैक्यं तदाश्रयो न भवति ब्रह्माननुसंहितदुःखानुसन्धातृत्वात् व्यतिरेकेण ब्रह्मवत् ।
 ब्रह्म वा जीवप्रतियोगिकं यत्तादात्म्यं तादाश्रयं न भवति जीवानुसंहितदुःखाननुसन्धातृत्वात् व्यतिरेकेण जीववदित्यनुमानद्वयमुक्तं भवति ।
 ननु सर्वत्र जीवब्रह्मप्रतियोगिकतादात्म्याधिकरणत्वस्यैव मयाऽङ्गीकारेण तदभावरूपसाध्याप्रसिद्ध्योभयत्राप्यप्रसिद्धविशेषणत्वमित्याशङ्क्य निराकरोति ॥ नचेति ॥ एवमुक्तरीत्या प्रतिज्ञाकरणेऽप्रसिद्धविशेषणत्वस्य स्फुटत्वेन कथं तदपलाप इत्यत उक्तम् ॥ दोषायेति ॥ तत् विद्यमानमप्यप्रसिद्धिविशेषणत्वम् ।
 पक्षधर्मताविघटकत्वेन दोष इत्यन्वयः ।
 कथं तस्य पक्षधर्मताविघटकत्वमित्यत उक्तम् ॥ पक्षताविघटनद्वारेति ॥ पक्षताश्रयवृत्तित्वं पक्षधर्मत्वम् ।
 पक्षताया अभावे तदाश्रयवृत्तित्वरूपपक्षधर्मत्वमपि नेत्यर्थः ।
 पक्षताविघटकत्वमेव कथमित्यत उक्तम् ॥ साध्यतदभाववत्त्वेन सन्देहानुदयादिति ॥ सन्दिग्धसाध्यधर्मवत्ता हि पक्षता ।
 साध्यसन्देहस्यैवाभावे तद्धटितपक्षतापि नेत्यर्थः ।
 साध्यसन्देहानुदय एव कुत इत्यत उक्तम् ॥ साध्यकोटेरप्रसिद्धेरिति ॥ तथात्वेकोटिस्मृतेरभावादिति भावः ॥ व्याप्तिग्रहणायोगेनेति ॥ व्याप्तिरूपसप्रतियोगिकपदार्थज्ञाने साध्यरूपप्रतियोगिज्ञानस्याकारणत्वादिति भावः ॥ उभयेति ॥ व्याप्तिपक्षधर्मतारूपोभयेत्यर्थः ।
 उपलक्षणाभिप्रायेण द्वितीयानुमानेऽप्रसिद्धविशेषणत्वस्य दोषत्वाभावमाह - नाद्य इत्यादिना ॥ इति सन्देहमात्रेणेति ॥ पक्षधर्मिकसाध्यतदभावकोटिकसन्देहवत्साध्यतदभावान्यतरधर्मिकपक्षवृत्तित्वतदभावकोटिकसंशयस्यापि पक्षताघटकत्वादिति भावः ।
 अत्रैव दृष्टान्तमाह - अभिधेयत्वसाधकेति ॥ शब्दोऽभिधेयः प्रमेयत्वादित्यत्राभिधेयत्वस्य केवलान्वयित्वेन तदभावाप्रसिद्ध्या शब्दोऽभिधेयत्ववान्न वेति पक्षधर्मिकसाध्यतदभावकोटिकसन्देहाभावेऽपि साध्यतदभावान्यतरधर्मिकपक्षवृत्तित्वतदभावप्रकारकसन्देहमात्रेण यथा पक्षधर्मता तथाऽत्रापि साध्याभावधर्मिकपक्षवृत्तित्वतदभावकोटिकसंशयेन पक्षतोपपत्तेरित्यर्थः ॥ अत्रेति ॥ द्वितीयानुमाने हि जीवतादात्म्यानधिकरणत्वं साध्यं तदभावश्च जीवतादात्म्याधिकरणत्वं तच्च जीवे प्रसिद्धमतस्तत्र साधनाभावेन व्याप्तिग्रहस्सम्भवतीत्यर्थः ।
 नन्वभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वेन प्रतियोगिभूतसाध्यस्याप्रसिद्धत्वे तदभावज्ञानायोगात्कथं तत्र व्याप्तिग्रह इत्यत आह - यत्रेति ॥ शब्द आकाशविशेषगुणः आकाशमात्रवृत्तिगुणत्वात् व्यतिरेकेण रूपवदिति केवलव्यतिरेक्यनुमाने साध्यस्याकाशविशेषगुणत्वस्य भावरूपत्वेन तदभावस्याभावरूपत्वात् ।
 प्रतियोगिभूताकाशविशेषगुणत्वस्याप्रसिद्धत्वेन तदभावस्य ज्ञातत्वेन तत्र व्याप्तिग्रहासम्भवात्साध्याप्रसिद्धिर्दोषाय ।
 प्रकृते जीवतादात्म्यस्य भावरूपत्वेन तज्ज्ञानस्य प्रतियोगिज्ञनानधीनत्वात्तत्र व्याप्तिग्रहसम्भवेन साध्याप्रसिद्धिर्न दोषायेत्यर्थः ।
 अभावस्य साध्याभावज्ञानस्य ।
 भावज्ञानाधीनत्वात् साध्यरूपप्रतियोगिज्ञानाधीनत्वात् ।
 कुत इत्यत आह - व्याप्तीति ॥ असिद्ध्यादिहेत्वाभासानां हि व्याप्तिपक्षधर्मतान्यतरविघटकत्वेनैव दोषत्वं प्रसिद्धं नतु प्रकारान्तरेण ।
 अतोऽप्रसिद्धविशेषणत्वस्यापि व्याप्त्यादिविघटकत्वाभावेन दूषणत्वमेव नेत्यर्थः ।

(17) यद्वा ब्रह्मप्रतियोगिकाभेदो न जीवधर्मिको ब्रह्मधर्मिको वाऽभेदो न जीवप्रतियोगिकः ।
 जीवानुसंहितदुःखाननुसन्धातुरभेदत्वात् ।
 व्यतिरेकेण जीवप्रतियोगिकजीवधर्मिकैक्यवत् ।
 जीवप्रतियोगिकमैक्यं वा न ब्रह्मधर्मिकं जीवधर्मिकमैक्यं वा न ब्रह्मप्रतियोगिकं ब्रह्माननुसंहितदुःखानुसन्धातुरभेदत्वात् ।
 व्यतिरेकेण ब्रह्मधर्मिकब्रह्मप्रतियोगिकैक्यवत् (ब्रह्मप्रतियोगिकब्रह्मधर्मिकैक्यवत्)।
 एवं यज्ञदत्तादिभ्यो देवदत्तादीनां भेदः साध्यः ।

(17) (भ.) एतस्मिन्नप्यनुमानद्वयेऽप्रसिद्धविशेषणत्वशङ्कानिरासप्रयासगौरवमित्यपरितोषादाह - यद्वेति ॥ अननुसन्धातुरभेदत्वातिति ॥ अननुसन्धातृ यद्ब्रह्म तत्सम्बन्ध्यभेदत्वादित्यर्थः ।
 सम्बन्धश्चाद्ये प्रतियोग्यनुयोगिभावरूपो द्वितीये धर्मिधर्मभावरूपो बोध्यः ।
 एवमुत्तरत्रापि ॥ व्यतिरेकेण जीवप्रतियोगिकेति ॥ तत्र हि जीवधर्मिकत्वं जीवप्रतियोगिकत्वं च वर्तते न तु तदभावः ।
 एवं जीवानुसंहितदुःखानुसन्धातृजीवसम्बन्धित्वमेव वर्तते ।
 न तु तदननुसन्धातृमसम्बन्धित्वमिति साध्यसाधनाभावोऽवगन्तव्यः ।
 एवमुत्तरत्रापि ।
 एवं जीवेशभेदेऽनुमानाष्टकमभिधाय परस्परजीवभेदेऽपि तमेव प्रकारमतिदिशति ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकधर्मिसमसत्ताकभेदाधिकरणम् ।
 यज्ञदत्ताननुसंहितदुःखानुसन्धातृत्वात् व्यतिरेकेण यज्ञदत्तवदित्यादिरूपेण भेदः साध्य इत्यर्थः ।


(17) (मु.) ननु भूः शशविषाणोल्लखिता भूत्वादित्यादौ को दोष इति चेत् ।
 प्रमाणबाध इति समाधेयम् ।
 यस्याप्रसिद्धविशेषणत्वे दोषाभिमानस्तेनापि सन्तोष्टव्यमिति प्रकारन्तरेण प्रयुङ्क्ते ॥ यद्वेति ॥ जीवधर्मिकत्वाद्यभावस्य सार्वज्ञादौ प्रसिद्धेर्न दोषः ॥ अननुसन्धातुरभेदत्वादिति ॥ अत्र धर्मित्वप्रतियोगित्वोदासीनसम्बन्धमात्रं (* `धर्मि च प्रतियोगित्वौदासीन्यसम्बन्धमात्रं' मु.) षष्ठ्यर्थः ॥ ब्रह्मप्रतियोगिको वा जीवप्रतियोगिक इति ॥ जीवब्रह्मणोरभेदे जीवो ब्रह्मणैको ब्रह्म वा जीवेनैकमिति तयोरैक्यं प्रति धर्मित्वप्रतियोगित्वे स्याताम् ।
 तन्निषेधे त्वैक्यमेव निषिद्धं भवतीति भावः ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणम् ।
 तत्तादात्म्याधिकरणं वा न भवति ।
 तत्पुण्याभोक्तृत्वाद् व्यतिरेकेण तद्वत् ।
 अन्वयेन घटवत्याद्यूह्यम् ।
 अन्यपुण्यादेरन्यभोक्तृत्वे कृतहानाकृताभ्यागमप्रसक्तेर्नासिद्धिः ।

(17) (कु.) साध्यप्रसिद्धिसौकर्यायाह - यद्वेति ॥ अनुमानचतुष्टये पक्षे तात्त्विकत्वं विशेषणं बोध्यम् ।
 तेन न सिद्धसाधनता ।
 जीवाननुसंहितदुःखानुसन्धातुरिति षष्ठी ।
 आद्ये साध्येति (* `साध्येति' मु.) प्रतियोग्यनुयोगिभावो द्वितीये धर्मिधर्मभावो बोध्यः ।
 एवमुत्तरत्रापीति ।
 न च घटादौ घटप्रतियोगिघटधर्मिकयोर्भेदयोर्वा साधारण्यमिति वाच्यम् ।
 अभेदस्य घटात्मकत्वेन घटप्रतियोगिकधटधर्मिकभेदस्य पटाद्यात्मकत्वेन पटाद्यात्मकतया घटधर्मिकभेदसय्प्येवंरूपत्वेन हेतोरति सत्त्वात् ।
 यद्यप्युत्तरानुमानयोगेनैव साधारण्यं न सुपरिहरम् ।
 तथाऽप्यनुकूलतर्कसनाथत्वात् व्यतिरेकिणि सत्प्रतिपक्षोन्नायकता न सम्भवतीति न तस्य दोषत्वमिति भावः ।
 प्रासङ्गिकभेदसाधनमाहः ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं यज्ञदत्ताननुसंहितदुःखानुसन्धातृत्वात् ।
 व्यतिरेकेण यज्ञदत्तवदित्यादिरूपेणेत्यर्थः ।

(17) (हु.) ॥ उक्तप्रयासप्रद्वेषादनुमानान्तरणि दर्शयति - दुःखानुसन्धातुरभेदत्वादिति ॥ प्रथमानुमानपक्षे प्रतियोगित्वं षष्ठ्यर्थः ।
 द्वितीयानुमानपक्षे आधेयत्वं षष्ठ्यर्थ इति ध्येयम् ॥ जीवप्रतियोगिकेति ॥ प्रथमानुमानतात्पर्येण जीवप्रतियोगिकेति ॥ द्वितीयतात्पर्येण जीवधर्मिकेति ॥ जीवप्रतियोगिकेत्याद्यत्राप्यनुसन्धातुरिति षष्ठ्याऽनुमानभेदेनार्थद्वयं द्रष्टव्यम् ।
 अनुमानचतुष्टयेऽप्यस्मन्मते परमते चाभेदस्य धर्मिस्वरूपत्वेन सत्यत्वात्तत्र साधनीयस्यात्यन्ताभावरूपसाध्यस्याधिकरणस्वरूपत्वमत्यन्ताभावस्याभ्युपगच्छता मिथ्यात्वस्य वक्तुमशक्यतया न व्यावहारिकसाध्यमादायार्थान्तरतोद्भावनावकाशः ।
 जीवानां परस्परं भेदसाधनेऽपीमं प्रकारमतिदिशति ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकैक्याभाववान् यज्ञदत्ताननुसंहितदुःखाननुसन्धातृत्वात् व्यतिरेकेण यज्ञदत्तवदिति प्रकारो द्रष्टव्यः ।

(17) (का.) अप्रसिद्धविशेषणत्वशङ्कानास्कन्दितमनुमानान्तरमाह - यद्वेति ॥ अभेदस्तादात्म्यम् ।
 यद्यपि ब्रह्मप्रतियोगिकाभेदो न जीवप्रतियोगिकः, ब्रह्मधर्मिकाभेदो वा न जीवधर्मिक इत्युक्तावप्यर्थाज्जीवब्रह्मणोर्भेदः सिद्ध्यति ।
 तथापि अभेदसाधकत्वेन पराभिमतस्य तत्त्वमसीत्यादिवाक्यस्य ब्रह्मणि जीवप्रतियोगिकाभेदो जीवे ब्रह्मप्रतियोगिकाभेदो वा प्रतिपाद्यः ।
 साक्षात्तद्विरोधित्वं च यथोक्तानुमानानामेवेति तदनुसरणम् ।
 तत्र प्रथमचतुर्थयोः द्वितीयविरोधित्वं, द्वितीयतृतीययोः प्रथमविरोधित्वमिति द्रष्टव्यम् ।
 हेतौ तादात्म्यत्वमात्रस्य दृष्टान्तेऽनैकान्त्यादननुसन्धातृतादात्म्यत्वस्य चासिद्धेर्जीवानुसंहितेत्यादि व्याख्यातार्थकम् ।
 अत्र जडतादात्म्यस्य पक्षसमत्वेनान्वयदृष्टान्ताभावादाह - व्यतिरेकेणेति ॥ न च परमते जीवप्रतियोगिकैक्यस्य ब्रह्मप्रतियोगिकत्वमप्यस्त्येवेति न व्यतिरेकिदृष्टान्तस्यापि सम्भव इति वाच्यम् ।
 जीवैक्यादेर्जीवत्वादिरूपतया तत्र दुःखाननुसन्धातृत्वरूपहेत्वभावस्योभयवादिसिद्धत्वात् ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं तदननुसंहितदुःखाद्यनुसन्धातृत्वाद्व्यतिरेकेण यज्ञदत्तवदित्यादिप्रकारेणेत्यर्थः ।

(17) (श.) पूर्वोक्तानुमानद्वयेऽप्रसिद्धविशेषणत्वस्य दूषणत्वनिरासप्रयासगौरवमित्यपरितोषात्पक्षान्तरमाह - यद्वेति ॥ जीवप्रतियोगिकजीवधर्मिकैक्यवदिति ॥ तत्र हि जीवधर्मिकत्वं वर्तते जीवानुसंहितदुःखानुसन्धाता जीवः तत्प्रतियोगिकाभेदत्वमेवास्ति नतु तदननुसन्धातुरभेदत्वम् ।
 तथा जीवप्रतियोगिकत्वं वर्तते ।
 जीवानुसंहितदुःखानुसन्धाता जीवः ।
 तद्धर्मिकाभेदत्वं च सिद्धमिति भावः ।
 एवं ब्रह्माभेदस्य जीवसम्बन्धित्वनिषेधकानुमानमभिधाय जीवाभेदस्य ब्रह्मसम्बन्धित्वनिषेधकमपि तदाह - जीवप्रीतयोगिकेति ॥ ब्रह्मधर्मिकब्रह्मप्रतियोगिकैक्यवदिति ॥ तत्र हि ब्रह्मधर्मिकत्वं वर्तते ।
 ब्रह्माननुसंहितदुःखाननुसन्धातृ ब्रह्म ।
 तत्प्रतियोगिकाभेदत्वं चास्ति ।
 नान्यथा त्विति (* अस्य वाक्यस्य सङ्गतिर्न लभ्यते ।
) ।
 तथा ब्रह्मप्रतियोगिकत्वं वर्तते ब्रह्माननुसंहितदुःखाननुसन्धातृ ब्रह्म तद्धर्मिकाभेदत्वमेवास्तिनान्यथेति साध्यसाधनाभावसिद्धिरिति भावः ।
 जीवेशयोर्भेदसाधनप्रकारमन्योन्यजीवभेदसाधनेऽप्यतिदिशति ॥ एवमिति ॥ जीवब्रह्मपदस्थाने देवदत्तयज्ञदत्तादिपदानि प्रक्षिप्य देवतत्तो यज्ञदत्तप्रतियोगिकधर्मिसवासमानसत्ताकभेदाधिकरणम् ।
 यज्ञदत्ताननुसंहितदुःखानुसन्धातृत्वात् ।
 व्यतिरेकेण यज्ञदत्तवदित्यादयः सर्वे प्रयोगा अत्र द्रष्टव्या इति भावः ।

(18) नन्वौपाधिकभेदमात्रेण (उपाधिभेदमात्रेण) दुःखानुसन्धातृत्वाननुसन्धातृत्वोपपत्तेः पारमार्थिकभेदसाधनेऽप्रयोजकत्वमेवेति चेन्मैवम् ।
 औपाधिकभेदेऽपि योगिनो नानादेहजन्यसुखाद्यतुसन्धानस्यैव दर्शनात् ।
 अत्र देहस्य चान्तःकरणस्य चोपाधेर्भिन्नत्वात् ।
 न ह्यन्यदेहस्थमन्तःकरणमन्यदेहस्थं भवति ।
 तत्राविद्योपाधिरेक एव भवतीति चेत् ।
 इहाप्येकजीववादिन एक एव ।
 बहुजीववादिनस्तु सुप्तावपि कारणात्मनाऽन्तःकरणानुवृत्तिं वदतो नाविद्यावच्छेदो जीवभावहेतुः ।
 किन्तर्ह्यन्तःकरणमेव ।
 ततश्च तदेव नियामकं वाच्यम् ।
 तच्च योगिष्वपि (योगिन्यपि) विद्यत (भिद्यत) इत्युक्तम् ।

(18) (भ.) ननु जीवब्रह्मणोर्वा परस्परजीवानां वा दुःखाद्यनुसन्धानाननुसन्धाने न पारमार्थिकभेदप्रयोजके ।
 स्वरूपैक्ये विद्यमानेऽप्यौपाधिकभेदमात्रेण तदुपपत्तेः ।
 अतोऽप्रयोजका एते सर्वेऽपि हेतव इत्याशङ्क्य निषेधति ॥ ननु चेति ॥ उपाधिभेदमात्रेण उपाधिकृतभेदमात्रेण ।
 उपाधीनां भेदमात्रेणेति वा ॥ औपाधिकभेदेऽपीति ।
 उपाधिकृतभेदेऽपीत्यर्थः ।
 अभ्युपगम्योक्तिरियम् ।
 स्वमते उपाधेर्भेदं प्रति कारकत्वाभावात् ।
 उपाधीनां सम्बन्धी औपाधिक उपाधिनिष्ठ इति यावत् ।
 तादृशभेदेऽपीति वा ।
 योगिनः सौभर्यादेः ।
 तथा चौपाधिकभेदोऽप्रयोजक इति पारमार्थिकभेद एव परस्परमननुसन्धाने प्रयोजक इति स्वीकार्य इति भावः ।
 ननु देह एव नोपाधिः किन्त्वन्तःकरणमपि ।
 तथा च देहभेदसद्भावेऽपि सौर्भादावन्तःकरणस्यैकत्वेनानुसन्धानं सम्भवति ।
 न तथा प्रकृते ।
 अन्तःकरणानां भिन्नत्वादित्यत आह - देहस्येति ॥ न सौभरिदेहेऽप्यन्तःकरणमेकं किन्तु भिन्नमेव कथमन्यथैकदेहस्थान्तःकरणस्यान्यदेहे भोगावच्छेदकत्वं सम्भवेदिति भावः ।
 ननु देहान्मनसो न भिन्नत्वमङ्गीकर्तुमुचितम् ।
 देहवत्तस्योत्पत्त्यभावात् ।
 मनो नित्यमनादित्वादिति श्रुतेः ।
 न ह्यनादेरेकस्य मनसः प्रतिशरीरं भिन्नत्वं सम्भवति ।
 अतः कथं तस्य भिन्नत्वमुच्यत इति चेत् ।
 सत्यम् ।
 तथाऽप्येकस्यैव मनसो बहुधाविभक्तत्वेन तत्तद्भौतिकांशैरूपचितत्वाच्च सीताभूषणवद्भेदाङ्गीकारवदियं भिन्नत्वोक्तिरिति बोध्यम् ।
 अत एव न्यायमृते द्वितीयपरिच्छेदे आत्मभेदेऽनुकूलतर्ककथनावसरे न चान्तःकरणरूपोपाधिभेदो दुःखाद्यनुसन्धाने तन्त्रं योगिनश्चान्तःकरणमेकमेवेति वाच्यमित्याशङ्क्य चैतन्यैक्येऽन्तःकरणभेदस्याप्रयोजकत्वादित्येवोक्तम् ।
 न तु योगिनोऽप्यन्तःकरणभेदः साधितः ।
 तेन ज्ञायते योगिनामन्तःकरणमेकमेवेत्येतदनुमितमिति ।
 नन्वन्तःकरणाद्युपाधेर्भिन्नत्वेऽप्यविद्यालक्षणोपाधेः सौभयोदियोगिन्येकत्वादन्योन्यमनुसन्धानम् ।
 प्रकृते त्वविद्याभेदान्नानुसन्धानमिति शङ्कते - तत्रेति ॥ योगिनीत्यर्थः ।
 उत्तरमाह - इहेपीति ।
 देवदत्तादिष्वपीत्यर्थः ॥ एकजीववादिन इति ॥ मत इति शेषः ।
 एक एव ।
 उपाधिरिति वर्तते ।
 अवच्छेद्यजीवस्यैकत्वादवच्छेदकाविद्याऽप्येकैव ।
 तथा चानुसन्धानं दुर्वारमिति भावः ॥ बहुजीववादिनस्त्विति ।
 मत इति शेषः ।
 अयमाशयः ।
 यद्यपि बहुजीववादेऽविद्याभेदोऽस्ति ।
 तथापि सा न जीवभावहेतुः किन्त्वन्तःकरणमेव ।
 यद्यन्तःकरणमेव जीवभावे हेतुत्वेनाभिमतं न स्यात्तर्हि सुप्तावन्तःकरणस्य कारणात्मनाऽनुवृत्तिर्नाङ्गीक्रियेत ।
 अविद्यावच्छेदादेव सुप्तावपि जीवभावावस्थित्युपपत्तेः ।
 अङ्गीक्रियते च सा तेन सुप्तावन्तःकरणविलयाज्जीवभावापगमेन तदैव ब्रह्मभावरूपा मुक्तिः स्यादिति शङ्कानिरासः ।
 कार्यात्मना विलयेऽपि कारणात्मनाऽवस्थितेः ।
 तथा च योगिन्यविद्योपाधेरेकत्वेऽपि जीवभावहेत्वन्तःकरणस्य प्रतिशरीरं भिन्नत्वाद्देवदत्तादिवदनुसन्धानाभाव एव युक्तः ।
 अस्ति चानुसन्धानम् ।
 तेन ज्ञायते स्वरूपैक्यमेवानुसन्धाने प्रयोजकं नोपाधिभेदाभाव इति ॥ तथा च दुःखाद्यनुसन्धातृत्वतदभावौ पारमार्थिकभेदमेवाक्षिपत इति ।

(18) (मु.) नन्वेतद्धेतवोऽप्रयोजकाः ।
 यदि भेदो न स्यात् तर्हि सुखाद्यनुसन्धानं स्यादिति हेतूच्छित्तितर्कस्य मिथ्याभेदेनान्यथासिद्धिरिति शङ्कते - नन्विति ॥ तस्य तद्व्यभिचारित्वेन न तेनान्यथासिद्धिरित्याह - औपाधिकेति ॥ औपाधिकभेदस्यान्वयव्यभिचारेणाप्रयोजकत्वादिति भावः ॥ अत्रेति ॥ योगिन्यौपाधिकभेदं दर्शयति - अत्रेति ॥ बहुरूपाणि गृहीतवति योगिनीत्यर्थः ।
 अस्तु भेदमात्रं नान्तःकरणभेद इत्यत आह - न हीति ।
 अणुत्वादिति भावः ।
 ननु तर्हीशजीवेष्वन्तःकरणाभावः स्यात् ।
 तात्कालिकान्तःकरणजननाङ्गीकारादिति चेन्न ।
 चैतन्येन सह तस्याप्यंशभेदाङ्गीकरणात् ।
 अन्तःकरणांशानां चान्योन्यत्वात् ।
 तथाऽपि योगिनोऽनुसन्धानसत्त्वे को हेतुरिति चेन्न ।
 अन्यथा शरीबाहुल्यग्रहणेच्छानुपपत्तेः ।
 नन्वंशानां परस्परानुसन्धानाभावेऽप्यंशिनो यावदवयवगतानुसन्धानं स्यादेव ।
 तदंशानामन्तःकरणतयांऽशांशिनोरभेदस्यापि सत्त्वेनोपाध्यैक्यात् ।
 तावन्मात्रेण बहुरूपेच्छेति ॥ विश्लेषावस्थायामुपाध्यैक्याभावात् ।
 उपाध्यैक्यमाशङ्कते - तत्रेति ॥ इहापीति ।
 अयोगिष्वित्यर्थः ।
 एक एव जीव ईश्वरमायाकल्पितोऽन्ये तदविद्याकल्पितास्तदंशा इत्यङ्गीकारादिति भावः ।

(18) (कु.) औपाधिकभेदेऽपीति ।
 तथा च न सोऽनुसन्धानाननुसन्धानप्रयोजक इति तन्निर्वाहाय स्वरूपभेद एव तात्त्विकः स्वीकार्य इति भावः ।
 सुप्तावपि कारणात्मनाऽन्तःकरणानुवृत्तिं वदन्त इति सुप्तावन्तःकरणाव्याप्तिवारणारय क्वचित्त्वन्तःकरणानुवृत्तिं वदन्तो नाविद्यावच्छेदो जीवभावहेतुः किन्तर्ह्यन्तःकरणमेव वदन्तीति पाठः ।
 तत्र बहुजीववादिन इति प्रथमाबहुवचनम् ।
 पाठान्तरे तु वदन्तीति नास्ति ।
 तत्र बहुजीववादिन इति षष्ठ्येकवचनं बोध्यम् ।

(18) (हु.) अनुमानेऽप्रयोजकतामाशङ्कते - नन्वौपाधिकेति ॥ तथा च स्वाभाविकैक्येऽनुसन्धानाननुसन्धानव्यवस्थानुपपत्तिरूपतर्कानुत्थानादप्रयोजकतेति भावः ॥ औपाधिकभेद इति ॥ अनुसन्धाने स्वाभाविकैक्यमेव प्रयोजकं न तूपाधिनिमित्तकभेदाभावः ।
 तत्सहितमैक्यं वा योगानुगृहीतनानाशरीरावच्छिन्नसुखानुसन्धातृषु व्यभिचारात् ।
 तस्य चान्यत्र व्यवस्थापितत्वादिति भावः ।
 नन्वन्तःकरणकृतभेदाभाव एव प्रयोजकः ।
 स च योगिषु वर्तत इत्यतोऽन्तःकरणैक्यं निराकरोति ॥ अन्तःकरणस्य चेति ॥ नहीति ।
 देहानां परस्परं विश्लिष्टत्वेन तत्रैकान्तःकरणस्य स्थित्यङ्गीकारे तस्य दीर्घत्वापत्त्या पुरुषान्तरशरीरेऽप्यवस्थानापत्तेरिति भावः ।
 जीवोपाधित्वं नान्तःकरणस्य किन्त्वविद्यायास्तस्या निरंशत्वेनाप्रतिपाद्यत्वेन सर्वशरीरेष्वेकत्वं युज्यत इत्याशङ्क्य निराकरोति ॥ अविद्योपाधिरिति ॥ एकजीववादिन इति ॥ तथा चैकजीववादे दूषणं दुष्परिहरमेवेति भावः ।
 इदं च योगिविषये दूषणपरिहारमभ्युपगम्योक्तम् ।
 घटपटाद्युपाधिभिर्घटाकाशादिभेदवद्युगपन्नानादेहसम्बन्धादविद्यायामेव भेदस्यावर्जनीयतया तन्मूलकजीवभेदस्याप्यवर्जनीयत्वमिति ज्ञेयम् ।
 सुप्तावपीति ॥ कारणात्मनेति ॥ सूक्षमरूपात्मसंस्काररूपेणेत्यर्थः ।
 तथा चान्तःकरणतत्संस्कारान्यतरोपाध्यवच्छिन्नचेतनस्यैव जीवत्वात्सुषुप्तौ जीवसिद्धिः ।
 अन्यथा जीवस्यैव लयापत्तेरित्यर्थः ॥ नाविद्येति ॥ तथात्वे सुषुप्तावविद्यासत्त्वादेव जीवसम्बभवे सुषुप्तावन्तःकरणस्य सूक्ष्मरूपेण कथनमयुक्तं स्याद्वैय्यर्थ्यादिति भावः ।
 नन्वन्तःकरणकारटमविद्यैव ।
 अन्तःकरणात्मनाऽवास्थानेऽविद्यैव सेति प्राप्तमित्यविद्योपाधिकत्वमागतमिति वाच्यम् ।
 सत्यम् ।
 अविद्यैवान्तःकरणकारणमिति ॥ तथाऽपि तदानीमपि कल्पितभेदेन कार्यावस्थापन्नमेव स तु जीवोपाधिः ।
 अन्यथा चैत्रमैत्रयोर्युगपत्सुप्तिकाले शुद्धेकाविद्योपाधिबलादैक्यप्राप्त्या परस्परसुषुप्तिस्मरणाद्यापातात् ।
 तथा च बहुजीववादेऽन्तःकरणस्यैव जीवोपाधित्वात्तत्रोक्तदूषणं दृढमेव ।
 बहुजीववादे प्रतिनियतबहुज्ञानाङ्गीकारे नैष दोष इति चेत् ।
 तत्र प्रमाणाभावगौरवादिदूषणसत्त्वात् ।
 शरीरभेदप्रयुक्ताविद्याभेदादित्युक्तदोषापरिहाराच्चेत्यलम् ।
 अत्रान्तःकरणवृत्तिं वदत इति पाठे बहुजीववादिन इति षष्ठयैकवचनं वदन्त इति पाठे प्रथमाबहुवचनमेव ।
 तस्य किं तर्ह्यन्तःकरणमेवेत्यनन्तरमित्याहुरित्यध्याहृत्य तेन सह तस्यान्वयो वाच्यः ।

(18) (का.) ननूक्तानुमानेषु विपक्षे बाधकाभावादप्रयोजकत्वम् ।
 न चैवमेकस्यैव स्वाननुसंहितानुसन्धातृत्वापत्तिः ।
 तत्प्रतियोगिकभेदमात्रस्य तत्प्रयोजकत्वेनाप्युपपत्तेः पारमार्थिकभेदस्यानावश्यकत्वादित्याशङ्कते - नन्विति ॥ उपाधिभेदमात्रेण पारमार्थिकभेदाभावेऽप्यविद्याद्युपाधिकृतभेदेन ।
 दुःखेत्यादेर्जीवेश्वरयोरित्यादिः ।
 अप्रयोजकत्वम् उक्तहेतूनामिति शेषः ।
 तदननुसंहितानुसन्धातृत्वादौ तत्प्रतियोगिकपारमार्थिकभेद एव प्रयोजको वाच्यः ।
 अन्यथा योगसिद्धसौभर्यादीनां स्वेच्छागृहीतनानादेहावच्छिन्नचैतन्यानुसंहितानुसन्धातृत्वानुपपत्तेः ।
 तथाच विपक्षे हेत्वनुपपत्तिरेव बाधिकेत्याशयेन समाधत्ते ॥ मैवमिति ॥ उपाधेर्भिन्नत्वादित्यन्तमौपाधिकभेदे हेतुः ।
 नन्वन्तःकरणकृतभेदस्यैवाननुसन्धानप्रयोजकत्वान्न देहभेदेऽप्यनुसन्धानानुपपत्तिरित्यत आह - अन्तःकरणस्य चेति ॥ ननु देहभेदेऽप्यन्तःकरणैक्यमस्त्वत आह - न हीति ॥ अन्तःकरणस्याकाशादिवदव्याप्तत्वादिति भावः ।
 अथ तस्य यावद्देहव्यापित्वे को दोष इति चेत् तर्हि तदन्तरानुवर्तिपुरुषान्तरस्यापि तदन्तःकरणग्रस्तत्वेन तत्कृतभेदाभावात्तत्पुरुषीयानुसन्धानापत्तेः ।

किं च किमन्तःकरणैक्ये चैतन्यैक्यं नियामकमुत देहैक्यम् ।
 नाद्यः ।
 अयोगिनामपि अन्तःकरणैक्यप्रसङ्गात् ।
 नान्त्यः ।
 योगिनामपि तदनुपपत्तेः ।
 न च तत्तद्देहगतभोगानुसन्धानं तत्तद्देहागतान्तःकरणैक्यनियामकमतो नोक्तदोष इति वाच्यम् ।
 भोगानुसन्धानस्यान्तःकरणैक्यनिबन्धनत्वेनान्योन्याश्रयात् ।
 सिद्धान्ते त्वन्तःकरणांशानां देहभेदेन भेदेऽप्यात्मैक्यस्यानुसन्धाननियामकत्वान्न कश्चिद्दोषः ।
 अस्तु तर्ह्यविद्योपाधिकृतभेद एवाननुसन्धाननियामकः ।
 चैत्रमैत्रादेरविद्याभेदादननुसन्धानस्यायोगिनो देहभेदेऽप्यविद्यैक्यादनुसन्धानस्य चोपपत्तेः ।
 न च भेदकाभावात्कथमविद्याभेद इति वाच्यम् ।
 तस्यानादित्वाभ्युपगमादित्याशयेनाशङ्कते - तत्रेति ॥ नानादेहवति योगिनीत्यर्थः ।
 अविद्याभेदस्याननुसन्धाननियामकत्वं किमेकजीववादमाश्रित्योच्यते किं वा बहुजीववादम् ।
 आद्ये दोषमाह - इहेति ॥ अयोगिनि चैत्रादावित्यर्थः ॥ एक एवेति ॥ अविद्योपाधिरित्यनुवर्तते ।
 मत इति शेषः ।
 तथाचैक एव हिरण्यगर्भो जीवस्तदन्ये तु घटादिवत्स्वरूपेणैव मिथ्याभूता इति मते परस्पराननुसन्धानप्रयोजकस्याविद्योपहितपरस्परभेदस्य चैत्रमैत्रादिषु दुर्वचत्वेन परस्पराननुसन्धानानुपपत्तिरिति भावः ।
 द्वितीये दोषमह ॥ बहुजीवेति ॥ सुप्तौ कार्यात्मनाऽन्तःकरणवृत्त्यसम्भवात् कारणात्मनेत्युक्तम् ।
 तथाचाविद्योपाधेर्जीवभावहेतुत्वे तत एव सुप्तौ जीवभावोपपत्तेरन्तःकरणानुवृत्तिवैयर्थ्यमिति भावः ।
 नन्वविद्योपाधेर्जीवभावहेतुत्वाभावेऽप्युक्तव्यवस्थानियामकत्वमस्त्वत आह - ततश्चेति ॥ व्यवस्थानियामकमिति ॥ चैतन्यैक्येऽपि परस्परभोगाननुसन्धाननियामकपरस्परभेदप्रयोजकतया तस्यैव तदनुसन्धानमिति नियमनिर्वाहकमित्यर्थः ।
 ऐक्यवादे निरुक्तव्यवस्थानिर्वाहार्थमेव जीवभेदस्य कल्पितत्वेन तन्नियामकस्यैव तन्नियामकत्वप्राप्तेरिति भावः ॥ तच्चेति ॥ स्वसम्बद्धदेहभेदेन अननुसन्धानं परस्परप्रयोजकमन्तःकरणं चेत्यर्थः ।
 तथाच योगिनो नानादेहगतभोगानुसन्धानानुपपत्तितादवस्थ्यमिति भावः ।

(18) (श.) - ननु पारमार्थिकभेदसाधकेषूक्तानुमानेषु सर्वत्र हेतुरस्तु साध्यं मा भूदिति शङ्कायां बाधकाभावादप्रयोजकत्वम् ।
 नच यदि जीवब्रह्मणोर्जीवानाञ्चान्योन्यं पारमार्थिकभेदो न स्यात् तर्हि जीवस्य दुःखानुसन्धानं ब्रह्मणश्च तदननुसन्धानम् एकस्य जीवस्य सुखमपरस्य दुःखमित्यादिव्यवस्था न स्यादिति बाधकं वाच्यम् ।
 उक्तव्यावस्थायाः पारमार्थिकभेदाभावेऽप्यौपाधिकभेदेनोपपत्त्या तर्कस्यान्यथासिद्धत्वादिति शङ्कते - नन्वौपाधिकभेदमात्रेणेति ॥ उपाधिकृतभेदमात्रेणेत्यर्थः ॥ औपाधिकभेदेपीति ॥ सौभर्यादियोगिनो हि योगप्रभावाद्युगपदनेकशरीराणि बिभ्रति ।
 तत्रैकदेहस्थस्य दुःखेऽन्यदेहस्थस्यापि दुःखम् एकस्य सुखेऽपरस्यापि सुखं भवतीति वस्तुगतिः ।
 तत्रोपाधिकृतभेदसद्भावेऽप्यन्योन्यादुःखानुसन्धानदर्शनेनौपाधिकभेदस्य नोक्तव्यवस्थानियामकत्वमिति न तर्कस्यान्यथासिद्धिरित्यर्थः ।
 ननु योगिस्थले औपाधिकभेद एव नास्तीत्यभेदतोऽन्योन्यानुसन्धानं युक्तमित्यत आह - अत्रेति ॥ देहस्योपाधेर्भिन्नत्वादिति सम्बन्धः ।
 ननु तत्र देहलक्षणोपाधिसद्भावेऽप्यन्तःकरणोपाधेरेकत्वादन्योन्यानुसन्धानमित्यत उक्तमन्तःकरणस्येति ॥ अन्तःकरणभेदमेवोपपादयति - नहीति ॥ अन्तःकरणस्य मनोरूपत्वेन मनआदीन्द्रियाणां प्रतिशरीरं भिन्नत्वादिति भावः ।
 ननु देहान्तःकरणोपाधेर्भेदेऽप्यविद्याख्योपाधेरेकत्वाद्योगिष्वप्यन्योन्यमनुसन्धानं प्रकृते त्वविद्याभेदान्नानुसन्धानमिति शङ्कते - तत्रेति ॥ योगिस्थल इत्यर्थः ।
 किमेकजीववादिमतानुसारेणोच्यते, उत बहुजीववादिमतानुसारेण ? आद्य आह - इहापीति ॥ तन्मतेऽवच्छेद्यजीवस्यैकत्वादवच्छेदकाविद्याया अप्येकत्वम् ।
 तथाचोक्तरीत्याऽप्यनुसन्धानन्दुर्वारमिति भावः ।
 द्वितीये आह - बहुजीववादिनस्त्विति ॥ अविद्यावच्छेदः अविद्यायाः परिच्छेदः ।
 सत्यं बहुजीववादिमतेऽविद्योपाधेर्भिन्नत्वमिति ।
 तथाप्यविद्यावच्छेदस्य जीवभावहेतुत्वाभावादेवाविद्याभेदस्य नोक्तव्यवस्थानियामकत्वमित्यर्थः ॥ अन्तःकरणमेवेति ॥ अन्तःकरणावच्छेद एव ॥ कुत एतदित्यत उक्तम् ॥ सुप्तावपीति ।
 बहुजीववादी स्वग्रन्थे सुप्तिकालेऽपि कारणात्मनाऽन्तःकरणं तिष्ठतीति प्रतिपादितवान् ।
 तच्चान्तःकरणावच्छेदस्य जीवभावहेतुत्वे सङ्गच्छते ।
 यद्यन्तःकरणावच्छेदस्य जीवभावहेतुत्वन्तर्हि सुप्तिकालेऽन्तःकरणविलयेनावच्छेदकाभावाज्जीवत्वापगमे तदानीमेव ब्रह्मैक्यानुभवरूपमुक्तिप्रसङ्ग इति शङ्कायां कार्यात्मनाऽन्तःकरणविलयेऽपि कारणात्मना विद्यमानत्वेन तदधीनजीवत्वानिवृत्तेर्न तदानीं मुक्तिप्रसङ्ग इति परिहारसम्भवात् ।
 नचैतदविद्यावच्छेदस्य जीवभावहेतुत्वे सङ्गच्छते ।
 तथात्वेऽविद्याया एवसुप्ताववस्थानकथनप्रसङ्गादिति भावः ।
 तदेव भिन्नान्तःकरणमेव ।
 न ह्येकस्य जीवभावहेतुत्वमपरस्य व्यवस्थानियामकत्वमिति भावः ।
 ततः किमित्यत आह - तच्चेति ॥ व्यवस्थानियामकं भिन्नान्तःकरणमित्यर्थः ।
 उक्तम् अन्यदेहेत्यादिना ।
 तथाच योगिष्वन्तःकरणभेदसद्भावेऽपि व्यवस्थाभावान्न तस्य व्यवस्थापकत्वम् ।
 ततश्च व्यवस्थानियामकत्वेन पारमार्थिकभेदस्यावश्यकत्वान्नाप्रयोजकत्वमिति भावः ।

(19) अपि च पृथिवीत्वं जलत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नम् ।
 जातित्वात् प्रमेयत्वाद्वा जलत्ववत् ।
 न च पृथिवीत्वेतरत्वमुपाधिः ।
 तस्य पक्षेतरत्वात् ।
 अनुकूलतर्काणां वक्ष्यमाणत्वाच्च ।
 एवं जलत्वतेजस्त्ववायुत्वमनस्त्वपक्षीकारेणानुमानचतुष्टयमूहनीयम् ।

(19) (भ.) यत्प्रागुक्तमात्मत्वं नानाव्यक्तिनिष्ठं जातित्वात्पृथिवीत्ववतित्यस्यासिद्धिरिति तत्रात्मत्वस्य जातित्वसाधनद्वाराऽऽत्मभेदं साधयितुमनुमानान्याह - अपिचेत्यादिना इत्याद्यनुमानान्यात्मभेदं साधयन्तीत्यन्तेन ॥ नैय्यायिकमतावष्टम्भेनैवैतान्यनुमानानि प्रवृत्तानि ।
 इत्थं हि तन्मतप्रक्रिया ।
 पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नव द्रव्याणि ।
 तत्राकाशत्वकालत्वदिक्त्वानि न जातयः ।
 एकव्यक्तिकत्वात् ।
 पृथिवीत्वादिषट्कं तु जातिरिति ।
 तत्र पृथिवीत्वस्य जलत्वादिचतुष्टयेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभेदसिद्धौ तादृशजातेरात्मत्वानतिरेकात्तस्य जातित्वसिद्धौ तन्निर्वाहायात्मनानात्वमङ्गीकार्यमेवेत्यात्मभेदसिद्धिः ।
 एवमुत्तरत्रापि ॥ जलत्वेति ॥ जलत्वादिचतुष्टेयतरा या द्रव्यत्वसाक्षद्व्याप्या
जातिस्तद्भिन्नमित्यर्थः ।
 दृष्टान्ते पृथिवीत्वजातिभिन्नत्वेन साध्यपर्यवसानम् ।
 साध्ये सत्ताजातिव्युदासाय व्याप्येति विशेषणम् ।
 न च तथाऽपि प्रमेयत्वादिव्याप्या भवत्येवेति वाच्यम् ।
 जातिव्याप्यत्वस्य विवक्षितत्वात् ।
 प्रमेयत्वादेरजातित्वात् ।
 व्याप्यजातिभिन्नमित्येवोक्ते रूपत्वजातिभिन्नत्वसिद्ध्याऽर्थान्तरता ।
 अतो द्रव्यत्वेति ।
 तावत्येवोक्ते घटत्वमादायार्थान्तरता ।
 अतः साक्षादिति ।
 घटत्वं च द्रव्यत्वव्याप्यपृथिवीत्वव्याप्यमिति न द्रव्यत्वं प्रति साक्षाद्व्याप्यम् ।
 तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यस्यैव तत्साक्षाद्व्याप्यत्वात् ।
 तावत्येवोक्ते जलत्वादिजातिभिन्नत्वसिद्ध्याऽर्थान्तरता ।
 अतो जलत्वतेजस्त्ववायुत्वमनस्त्वेतरेति जातिविशेषणम् ।
 ननु द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वमावश्यकमेव ।
 अन्यथा शब्दोऽनित्यः कृतकत्वादित्यत्र कृतकत्वस्यैवोपाधित्वापत्तेः ।
 साध्यसमव्याप्तत्वेन तस्यानित्यत्वव्यापकत्वात् ।
 स्वव्याप्यत्वानङ्गीकारे स्वाभिन्नसाधनाव्यापकत्वाच्च ।
 अतोऽभेदेऽपि व्याप्यव्यापकभावमङ्गीकृत्य कृतकत्वे साधनव्यापकत्वमङ्गीकरणीयम् ।
 तद्वदत्रापि द्रव्यत्वस्य द्रव्यत्वव्याप्यत्वेऽङ्गीकार्ये तद्भिन्नत्वसिद्ध्याऽर्थान्तरतेति चेन्न ।
 व्याप्यव्यापकभावस्य भिन्नाश्रयत्वनियमात् ।
 प्रपञ्चमिथ्यात्वानुमानखण्डनटीकायां तत्त्वोद्योतटीकायां च तथैवोक्तत्वात् ।
 न च तथात्वे शब्दानित्यत्वानुमाने कृतकत्वस्योपाधित्वापत्तिः ।
 अनिष्टाभावात् ।
 साधनस्य साध्यव्याप्यत्वग्राहकप्रमाणविरोधेन साधनसद्भावे तद्व्यापकस्य साध्यस्यापि सत्त्वनियमात्पक्षे व्यभिचारव्याप्यत्वासिद्ध्योर्वा बाधप्रतिपक्षयोर्वाऽनुन्नायकत्वात् ।
 अतो द्रव्यत्वस्य द्रव्यत्वव्याप्यत्वाभावान्न तद्भेदमादायार्थान्तरतेति ।
 अभ्युपगम्य चेदमुक्तम् ।
 वस्तुतस्तु तत्र कृतकत्वस्योपाधित्वं नास्त्येव ।
 साधनाव्यापाकत्वस्यैवाभावात् ।
 न हि साधनाव्यापकत्वं साधनव्यापकत्वाभावः किन्तु साधानवदवृत्तित्वम् ।
 न हि कृतकत्वं शब्दावृत्ति ।
 तद्वति तदभावायोगादिति ।
 केचित्त्वभेदेऽपि व्याप्यव्यापकभावमभ्युपेत्य द्रव्यत्वस्य द्रव्यत्वव्याप्यत्वेऽपि द्रव्यत्वसाक्षाद्व्याप्यत्वं नास्ति ।
 तद्व्याप्याव्याप्यत्वे सति तद्व्याप्यत्वं हि साक्षाद्व्याप्यत्वम् ।
 न च द्रव्यत्वे तदस्ति ।
 द्रव्यत्वव्याप्ये द्रव्यत्वे तदव्याप्यत्वाभावात् ।
 अतो नार्थान्तरतेत्याहुः ॥ पक्षेतरत्वादिति ॥ पक्षेतरत्वरूपत्वादित्यर्थः ।
 पक्षेतरत्वस्याप्युपाधित्वेऽनुमानमात्रोच्छेदप्रसङ्ग इति भावः ।
 ननु पक्षेतरत्वस्यापि वह्निरनुष्णः पदार्थत्वादित्यादौ वह्नीतरत्वादेरिवोपाधित्वं किन्न स्यादित्यत आह - अनुकूलतर्काणामिति ॥ वक्ष्यमाणत्वादिति ॥ आत्मपदप्रवृत्तिनिमित्तस्यात्मत्वस्य जातित्वाङ्गीकारे लाघवमित्यादिनेति शेषः ।
 तथा च पृथिवीत्वनिष्ठभेदप्रतियोगिन आत्मत्वस्य जातित्वमनङ्गीकृत्यौपाधिकधर्मत्वं (* ``-प्रतियोगिनमात्मत्वजातित्व-' मु.) यद्यङ्गीक्रियेत तर्हि तस्योपाधिज्ञानाधीनज्ञानत्वेन गौरवप्रसङ्ग इत्याद्यनुकूलतर्कसद्भावादात्मत्वस्य जातित्वेऽवश्यमङ्गीकार्ये तद्भिन्नत्वस्य पृथिवीत्वे सत्त्वेन पृथिवीत्वेतरत्वस्य पक्ष एव साध्यव्यापकताभङ्गान्नोपाधित्वम् ।
 वह्न्यनौष्ण्याद्यनुमाने त्वनुकूलतर्काभावाद्वह्नीतरत्वादेरुपाधित्वं सम्भवतीति भावः ॥ एवमिति ॥ जलत्वं पृथिवीत्वतेजस्त्ववायुत्वमानस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नम् ।
 जातित्वात्प्रमेयत्वात्पृथिवीत्ववदित्यादिरूपेणोह्यमित्यर्थः ।

(19) (मु.) सिद्धान्त्युत्प्रेक्षितानुमानानि प्रयुङ्क्ते ॥ पृथिवीत्वमित्यादिना ॥ जातिभिन्नमिति ॥ भेदप्रतियोगित्वेनात्मत्वजातिसिद्धावनेकानुगतत्वनियमेनात्मनानात्वसिद्धिरिति भावः ।
 पृथिवीत्वस्य स्वेन भेदायोगाज्जलत्वादीनामितरान्तविशेषणेनैव (* `-जलत्वादीनितरान्त-' मु.) वारणादाकाशकालदिशामेकद्रव्यत्वे विवादाभावेन तत्रापर्यवसानात् ।
 द्रव्याणां नवत्वनियमेन जात्यन्तरकल्पने गौरवात् नान्यथासिद्धिः (* `अन्यथासिद्धिः' मु.) ।
 गुणत्वादिनाऽन्यथासिद्धिवारणाय द्रव्यत्वव्याप्येति ।
 घटत्वादिना तद्वारणाय साक्षाद्व्याप्येति ।
 बुद्धिगुणत्वादिना तद्वारणाय जातीति ।
 नन्वस्माभिरसत्प्रतियोगिकभेदस्याङ्गीकारादुक्तजातेरसत्त्वेऽपि तद्भिन्नत्वेनान्यथासिद्धेरिति (* `-सिद्धि-' इति पाठेन भाव्यमिति भाति ।
) चेन्न ।
 तादृशसज्जातिभिन्नत्वस्यैव विवक्षितत्वात् ।
 न्यायमतरीत्या वैतदनुमानप्रवृत्तिरित्यदोषः ।
 अत एव द्रव्यनवत्वाद्युपपत्तिः ।
 अस्मद्रीत्या त्वहन्त्वाहङ्कारत्वादीतरेत्यपि ग्राह्यम् ॥ जलत्ववदिति ॥ पक्षीकृतपृथिवीत्वभिन्नं तदिति ज्ञेयम् ॥ पक्षेतरत्वादिति ॥ तस्योपाधित्वेऽनुमानमात्रोच्छेदप्रसक्तिरिति भावः ।
 ननु तेजोऽनुष्णं पदार्थत्वादित्यादौ बाधाद्युन्नीततेजोव्यतिरिक्तत्वमुपाधिर्भवत्येव बाधकाभावे पक्षेतरत्वस्योपाधित्वं न्याय्यमेवेत्यत आह - अनुकूलतर्काणामिति ॥ एवमिति ॥ जलत्वं पृथिवीत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वात्पृथिवीत्ववदित्याद्यूह्यम् ।

(19) (कु.) आत्मत्वजातिसाधनेनात्मनानात्वं सेत्स्यतीत्याशयेनाह - अपि चेति ॥ दृष्टान्ते पृथिवीत्वमादाय साध्यं बोध्यम् ।
 पक्षे चात्मत्वजातिमादायेत्यात्मनानात्वसिद्धिः ।
 न च कालत्वादिभेदमादायार्थान्तरता ।
 धर्मिग्राहकमानेन लाघवतर्कसनाथेन तदैक्यसिद्धेः ।
 जलत्वादीतरत्वविशेषणं तु तद्भेदमादाय सिद्धसाधनतावारणाय ।
 सत्ताभेदमादाय तद्वारणाय द्रव्यत्वव्याप्येति ।
 घटत्वादिभेदमादाय तद्वारणाय साक्षादिति ।
 नन्वनुकूलतर्काभावे पक्षेतरत्वस्यापि सत्प्रतिपक्षोन्नायकतया दूषणत्वं स्यादेवेत्यत आह - अनुकूलतर्काणामिति ॥ एवमिति ॥ तदा पृथिवीत्वान्यत्वं साध्ये देयम् ।
 जलत्वादि च पक्षीकर्तव्यम् ।
 पृथिवीत्वादि दृष्टान्तीकर्तव्यमिति भावः ।

(19) (हु.) ॥ अपि चेति ॥ पृथिवीत्वमित्यादि ।
 जलत्वादिभिन्ना या द्रव्यत्वसाक्षाद्व्याप्या जातिः पृथिवीत्वं तद्भिन्नत्वं जलत्वरूपे दृष्टान्ते हेत्वधिकरणजात्यन्तरेष्वपि वर्ततेऽतो न कुत्रापि व्यभिचारशङ्का ।
 पक्षे च हेतुबलादुक्तसाध्यसिद्धौ सत्यां पृथिवीत्वे स्वभेदमादायोपपादयितुम्शक्यत्वादतिरिक्तात्मत्वरूपजातिसिद्धिद्वाराऽऽत्मभेदसिद्धिः ।
अत्र जलत्वादिभेदप्रतीत्यसिद्धत्वात्सिद्धसाधनमर्थान्तरता च स्यादिति जलत्वादिनिवेशः ।
   (* अयं हु.पाठः ।
 `अत्र जलत्वादिभेदनिवेशः' इति अपूर्णवाक्यं मु.पाठे ।
 `अत्र जलत्वादिभेदस्य सिद्धत्वात् सिद्धसाधनम्-' इति पाठः सम्भाव्यते ।
) ।
 प्रतियोगितया जातेरनुपादाने गगनपरिमाणपृथिवीजलादिवृत्तित्रित्वबहुत्वादिभेदमादायोक्त(एव) दोष इति जातित्वेन जातेर्निवेशः ।
 घटत्वादिभेदमादाय तद्दोषवारणाय द्रव्यत्वसाक्षाद्व्याप्येति ।
 तत्त्वं च द्रव्यत्वभिन्ना स्वभिन्ना च द्रव्येतरावृत्तिर्या या जातिस्तत्तदवच्छिन्नभेदकूटवद्वृत्तित्वे सति द्रव्येतरावृत्तित्वम् ।
 इदं च जलत्वपृथिवीत्वादौ स्फुटम् ।
 घटत्वादिषु तादृशभेदकूटान्तर्गतपृथिवीभेदवत्यवृत्तित्वान्न तेषां साक्षाद्व्याप्यत्वम् ।
 न चेदं पृथिवीत्वजलत्वादावपि दुर्घटम् ।
 पृथिवीत्वभिन्ना द्रव्यत्वभिन्ना या जातयो घटत्वादिरूपाः पृथिवीत्वव्याप्या जलत्वव्याप्याः काश्चन जातयश्च ।
 तत्तदवच्छिन्नभेदकूटवत्त्वं न पृथिव्यां नापि जलादौ ।
 सर्वस्या अपि पृथिव्या जलदेश्च किञ्चिज्जात्याक्रान्तत्वात् ।
 अतस्तादृशकूटवद्गगनादिर्गुणादिकं वा तत्र पृथिवीत्वादेरवृत्तित्वादिति वाच्यम् ।
 द्रव्यत्वव्याप्यव्याप्यजातेः परमाणुष्वस्वीकारेण परमाणुमादायैवोपपादनसम्भवात् ।
 केचित्तु तत्तदवच्छिन्नभेदसामानाधिकरण्यकूटस्यैव (* `-सामानाधिकरण्यभेदकूटस्यैव' मु. हु.पाठे लिखित्वा उपर्यङ्कितम् ।
 अर्थदृष्ट्या नावश्यकम् ।
) निवेशनीयत्वाददोषः ।
 पृथिवीत्वे घटत्वावच्छिन्नभेदसामानाधिकरण्यं पटान्तर्भावेण पटत्वावच्छिन्नभेदसामानाधिकरण्यं घटान्तर्भावेणेत्येवं क्रमेण तत्तज्जात्यवच्छिन्नभेदकूटसामानाधिकरण्यकूठं (* `-सामानाधिकरण्यं' इत्येतावदेव मु. ।
 वस्तुतः `तत्तज्जात्यवच्छिन्नभेदसामानाधिकरण्यकूटम्' इति पाठः सम्भाव्यते ।
) वर्तत इति पृथिवीत्वजलत्वादिकं द्रव्यत्वसाक्षाद्व्याप्यं घटत्वादिकं तु नैवं स्वशब्देन घटत्वोपादने तद्भिन्नद्रव्यत्वभिन्नद्रव्येतरावृत्तिजातिमध्ये पृथिवीत्वस्यापि निविष्टतया तदवच्छिन्नभेदसामानाधिकरण्यविरहादित्याहुः ।
 स्वभिन्नत्वद्रव्यत्वभिन्नत्वयोर्द्रव्येतरावृत्तिजातौ निवेशान्न स्वमादाय द्रव्यत्वमादाय च पृथिवीत्वादेरुक्तद्रव्यत्वसाक्षाद्व्याप्यत्वभङ्गः ।
 द्रव्येतरावृत्तित्वनिवेशान्न सत्तामादायोक्तदोषः ।
 जातित्वेन निवेशान्न पृथिवीमात्रवृत्तियावत्त्वरूपसङ्ख्यावच्छिन्नभेदसामानाधिकरण्याभावात् उक्तदोषः ।
 सत्ताया गुणत्वस्य च द्रव्यत्वसाक्षाद्व्याप्यत्ववारणाय विशेष्यदलम् ।
 (* `द्रव्येतरावृत्तित्व यावत्त्वरूपसङ्खयावच्छिन्नभेदसामानाधिकरणाय विशेष्यदलम् ।
' इति त्रुटिबहुलः मु.पाठः ।
)
 यद्वोक्तभेदकूटनिवेशे गौरवात्स्वभिन्नद्रव्यत्वभिन्नद्रव्येतरावृत्तिजातित्वावच्छिन्नाभाववद्वृत्तित्वं विशेषणदलार्थः ।
 तादृशपटत्वरूपयत्किञ्चिज्जात्यभाववति घटवत्त्वस्य वृत्तित्वात् साक्षाद्व्याप्यत्ववारणाय तादृशजातिसामान्याभावनिवेशः ।
 द्रव्यत्वव्याप्यव्याप्यजातीनां परमाणुष्वभावादेवोक्तलक्षणनिर्वाहाय द्रव्यत्वस्य
 (* तादृशपटत्वेत्यादिवाक्यद्वयस्थाने `तादृशपटत्वरूपयत्किञ्चिज्जात्यभावनिवेशः' इत्येतावदेव मु.पाठे दृश्यते ।
) द्रव्यत्वसाक्षाद्व्याप्यत्वमुक्तरूपमिष्टमेव ।
 (* `परन्तु' इति मु.पाठे वाक्यादौ ।
) प्रकृतानुमाने द्रव्यत्वमादाय सिद्धसाधनतावारणाय द्रव्यत्वनिष्ठभेदप्रतियोगितावच्छेदकम् (* `च्छेदकत्वम्' मु. ।
) अधिकं निवेश्य तादृशव्याप्यत्वं द्रव्यत्वाद्व्यावर्तनीयम् ।
 ननूक्तसाक्षाद्व्याप्यत्वस्य स्वत्वघटितत्वेनाननुगतत्वप्राप्त्या दृष्टान्तानुरोधेन स्वपदार्थतया पृथिवीत्वस्यैव निविष्टत्वेन तेन कथमात्मत्वस्य सिद्धिः ।
 प्रत्युत पृथिवीत्वरूपपक्षे स्वभेदाभावाद्बाध एव इति चेन्न ।
 स्वाभाववदवृत्तित्वस्वभिन्नत्वोभयसभ्बन्धेन स्वविशिष्टजातिमत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्त्वस्वाभाववदवृत्तित्वोभयसम्बन्धेन द्रव्यत्ववज्जातित्वमेव द्रव्यत्वसाक्षाद्व्याप्यजातित्वमनुगतम् ।
  सम्बन्धशरीरे जातिमत्त्वं च स्वाभाववदवृत्तिस्वभिन्नत्वोभयसम्बन्धेनैतादृशमहासम्बन्धः द्वितीयसम्बन्धश्चेत्युभयं द्रव्यत्वस्य (* `द्रव्यत्वस्यैव' मु.) लक्ष्यभूतजातिषु निवेशे बोध्यम् ।
 अत्र द्रव्यत्वसाधारण्येन (* `अस्य द्रव्यात्मसाधारण्येन' मु.) द्रव्यत्वसाक्षाद्व्याप्यजातित्वरूपत्वम् ।
 प्रकृते तद्वारणाय स्वाश्रयवृत्तिभेदप्रतियोगितावच्छेदकत्वं वा (* `स्वभिन्नत्वं वा' इत्यधिकं मु.) तृतीयसम्बन्धेन वा (* `तृतीयसम्बन्धे' मु.) निवेश्योक्तसम्बन्धत्रयेण द्रव्यत्वविशिष्टजातित्वं तत्साक्षाद्व्याप्यजातित्वं वाच्यम् ।
 यथाश्रुतानुसारेण निष्कर्षे सम्बन्धप्रयोजनादिकमनुसन्धेयम् ।
 स्वत्वस्य सम्बन्धशरीरे निवेशाभावप्रयुक्तबाधकानुसन्धाने (* `-सन्धातुः' हु.) स्वाभाववदवृत्तित्वस्थानेऽभाववद्वृत्तित्वसम्बन्धावच्छिन्नस्य स्ववृत्त्यवच्छेदकताकभेदवत्त्वमेव (* `-अवच्छिन्नस्ववृत्ति-' मु.) सम्बन्धघटकं बोध्यमित्येषा दिक् ॥ जातित्वादिति ॥ अत्र प्रमेयत्वरूपकेवलान्वयिहेत्वन्तरोपादानमुक्तसाध्यस्य व्यभिचारशङ्का कुत्रापि न कर्तव्येति सूचनाय ।
 जातित्वहेतोर्व्यर्थविशेषणकत्वादिदोषाभावस्तु `यद्धेतुव्यवच्छेदकत्वेत्यादिना तत्त्वोद्योतटीकाया'मुक्तप्रकारेण बोध्यः ।
 पक्षेतरत्वस्याप्यनुकूलतकार्भावेऽप्युपाधित्वं वर्तत एवेत्याशङ्क्याह - अनुकूलतर्काणामिति ॥ आत्मपदप्रवृत्तिनिमित्तस्य जातित्वे लाधवमुपाधित्वे गौरवमित्यादीनामित्यर्थः ।

(19) (का.) इदानीमात्मत्वं नानाव्यक्तिनिष्ठं जातित्वात् घटत्ववदित्याद्यनुमानेषु पूर्वपक्षोक्तदोषमुद्दिधीर्षुराद्यानुमानेऽसिद्धिशङ्कापरिहारायाऽत्मत्वस्य जातित्वसाधकप्रमाणं तावदाह - अपि चेति ॥ इत्यनुमानान्यात्मत्वजातिसाधनद्वाराऽऽत्मभेदं साधयन्तीति सम्बन्धः ।
 अत्र पृथिवीत्वभेदमादाय दृष्टान्ते साध्यसत्त्वं, पक्षे तु तदयोगादात्मत्वजातिभेदमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः ।
 न चाकाशत्वादिजात्यन्तरसिद्ध्याऽर्थान्तरमाशङ्क्यम् ।
 तर्कविरोधेन तदसिद्धेर्वक्ष्यमाणत्वात् ।
 आत्मैक्यग्राहकतर्काणां च बलवत्प्रमाणविरुद्धत्वेनाभासत्वादिति ।
 एतेन विभुत्वादिजात्यन्तरसिद्ध्याऽर्थान्तरमित्यपास्तम् ।
 द्रव्यत्वयाप्यजातिराकाशाद्यवृत्तिः सत्ताद्रव्यत्वातिरिक्तजातित्वात् पृथिवीत्ववदित्यादितर्कविरुद्धत्वात् ।
 संस्कारशून्यावृत्तित्वेन जातिर्विशेषणीयेत्यप्याहुः ।

अत्र च जलत्वादिजातिभेदमादाय सिद्धसाधनवारणाय जलत्वाद्यतिरिक्तत्त्वं जातिविशेषणम् ।
 घटत्वादिभेदमादाय तद्दोषवारणाय द्रव्यत्वसाक्षाद्व्याप्येति ॥ द्रव्यत्वसाक्षाद्व्याप्यत्वं च द्रव्यत्वव्याप्यजात्यव्याप्यत्वे सति द्रव्यत्वव्याप्यत्वम् ।
 घटत्वादिवारणाय सत्यन्तम् ।
 द्रव्यत्वव्याप्यभूतत्वादिव्याप्यस्य पृथिवीत्वादेः सङ्ग्रहाय तत्र जातिपदम् ।
 गुणत्वादिवारणाय विशेष्यदलम् ।

अथ व्याप्यत्वस्य तदभाववदवृत्तित्वरूपत्वेन द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वसम्भवात्तद्भेदमादाय सिद्धसाधनम् ।
 यत्तु द्रव्यत्वस्य द्रव्यत्व्याप्यद्रव्यत्वरूपजातिव्याप्यतया न द्रव्यत्वसाक्षाद्व्याप्यत्वमिति ।
 तन्न ।
 तथासति पृथिवीत्वादेरपि द्रव्यत्वव्याप्यद्रव्यत्वरूपजातिव्याप्यतया द्रव्यत्वसाक्षाद्व्याप्यजात्यसिद्ध्यापत्तेः ।
 द्रव्यत्वव्याप्यद्रव्यत्वभिन्नजात्यव्याप्यत्वविवक्षणे तु द्रव्यत्वस्यापि द्रव्यत्वसाक्षाद्व्याप्यत्वाक्षतेः ।

एवं द्रव्यत्वव्याप्यजात्यव्याप्यत्वस्य द्रव्यत्वव्याप्यजात्यभाववद्वृत्तित्वरूपतया पृथिवीत्वादेरसङ्ग्रहः ।
 पृथिव्यां द्रव्यत्वव्याप्यजातिसत्त्वेन तदभावासम्भवात् ।
 द्रव्यत्वव्याप्ययत्किञ्चिज्जात्यभाववद्वृत्तित्वविवक्षणे च घटत्वादेरपि सङ्ग्रहप्रसङ्ग इति चेन्मैवम् ।
 न्यूनवृत्तित्वरूपव्याप्यत्वस्य विवक्षितत्वात् ।
 न्यूनवृत्तित्वं च तत्समानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सति तत्समानाधिकरणत्वम् ।
 सत्तागुणत्वयोः द्रव्यत्वव्याप्यत्ववारणाय सत्यन्तविशेष्यभागयोः प्रवेशः ।
 द्रव्यत्वस्य च द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वाभावान्न द्रव्यत्वव्याप्यत्वम् ।
 द्रव्यत्वव्याप्यजात्यव्याप्यत्वशरीरे च द्रव्यत्वव्याप्यत्वं द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमात्रम् ।
 अधिकस्य वैयर्थ्यात् ।
 तदव्याप्यत्वं च तत्समानाधिकरणत्वे सति तत्समानाधिकरणभेदप्रतियोगितावच्छेदकं यत्तदन्यत्वम् ।
 स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वस्वसमानाधिकरणत्वोभयसम्बन्धेन तादृशजातिविशिष्टान्यत्वमिति यावत् ।
 पृथिवीत्वादेर्द्रव्यत्वव्याप्यजलत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वात् तथाविधघटत्वादिसमानाधिकरणत्वाच्चासङ्ग्रहापत्तिरतो दलद्वयनिवेशः ।
 इत्थं च द्रव्यत्वव्याप्यं पृथिवीत्वादि ।
 तद्व्याप्यं घटत्वादि ।
 तदन्यत्वं च पृथिवीत्वादेरिति तत्सङ्ग्रहः ।

गगनावृत्तिविशेषगुणवत्त्वादिधर्मभेदमादाय सिद्धसाधनवारणाय जातिपदम् ।
 (* `अत्र च जलत्वादिजातिभेदमादाय सिद्धसाधनवारणाय' इत्यादिना प्रक्रान्तस्य दलकृत्यविचारस्य अन्तिमकृत्यविचारः अत्र प्रस्तुतः ।
 मध्ये हि द्रव्यत्वसाक्षाद्व्याप्यत्वदलविचारे सति तत्परिष्कारः विस्तरेण कृतः ।
 तत्समाप्तौ पुनरत्रोर्वरितः दलकृत्यविचारः प्रस्तूयते ।
)

यद्यपि तादृशजातिनिष्ठप्रतियोगिताकस्य पृथिवीत्वघटोभयभेदस्य पृथिवीत्वेऽपि सत्त्वात्सिद्धसाधनम् ।
 तादृशजातित्वानधिकरणत्वसाधने च पृथिवीत्वस्यापि तादृशजातित्वाधिकरणत्वाद्बाधः ।
 तथापि तादृशजातिप्रतियोगिकप्रतियोग्यवृत्तिभेदसाधनाददोषः ।
 उभयभेदस्य प्रतियोगिवृत्तित्वात् ।

जातित्वं चाखण्डोपाधिः ।
 अतो गुरुधर्मस्य हेतुतानवच्छेदकत्वे नित्यानेकसमवेतत्वस्य हेतुत्वासम्भवेऽपि न क्षतिः ।
 आधेयत्वमात्रं वा हेतुत्वेन विवक्षितम् ।
 प्रमेयत्वाद्वेत्यत्र प्रशब्दः प्रकृतसाधनस्य प्रामाणिकत्वद्योतनार्थः ।

॥ न चेति ॥ यद्यपि पक्षे साध्यसन्देहान्न पक्षेतरत्वे साध्यव्यापकत्वनिश्चयः सम्भवति ।
 तथापि तस्य सन्दिग्धोपाधित्वमव्याहतम् ।
 न च तस्य न प्रतिपक्षोन्नायकत्वं, तदधीनप्रतिपक्षसन्देहस्य च साध्यसन्देहतया न विरोधित्वमिति वाच्यम् ।
 स्वारसिकसन्देहस्याविरोधित्वेऽप्याहितसन्देहस्यानुमानविरोधित्वादिति भावः ।
 पक्षेतरत्वस्य सन्दिग्धोपाधित्वेऽपि न दूषकत्वम् ।
 अन्यथाऽनुमितिमात्रोच्छेदापत्तेरित्याशयेनाह - तस्येति ॥ नन्वनुकूलतर्कसत्त्व एव सन्दिग्धोपाधेरदूषकत्वम् ।
 अन्यथा वह्निरनुष्णः कृतकत्वादित्यादौ वह्नीतरत्वोपाधेर्दूषकत्वानुपपत्तेरित्यत आह - अनुकूलतर्काणामिति ॥ `विपक्षे गौरवप्रसङ्गरूपाणा'मित्यादिः ।

॥ एवमिति ॥ जलत्वं पृथिवीत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वात् पृथिवीत्ववदित्यादिप्रकारेणेत्यर्थः ।
 इदमुपलक्षणम् ।
 पृथिवीत्वं जलाद्यवृत्तिद्रव्यवृत्तिकिञ्चिज्जातिमदवृत्ति, द्रव्यत्वव्याप्यजातित्वाज्जलत्वादिवत् ।
 पृथिवीत्वं गन्धज्ञानान्यतरवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं, मेयत्वाद्धटत्ववदित्यादिकमप्यात्मत्वजातिसाधकमूहनीयम् ।

(19) (श.) - इदानीमात्मत्वस्य जातित्वसाधनद्वाराऽऽत्मनां भेदसाधकानुमानान्याह - अपिचेत्यादिना आत्मभेदं साधयतीत्यन्तेन ॥ अत्र पृथिवीत्वस्य जलत्वादिचतुष्टयेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नत्वसिद्धौ तादृशजातेरात्मत्वानतिरेकात्तस्य जातित्वसिद्धौ तन्निर्वाहायाऽऽत्मनामनेकत्वमङ्गीकार्यमित्यात्मभेदसिद्धिः ।
 एवमग्रेऽप्युपयोगो बोद्धव्यः ॥ जलत्वेति ॥ जलत्वादिभ्य इतरा या द्रव्यत्वसाक्षाद्व्याप्यजातिः तद्भिन्नमित्यर्थः ।
 दृष्टान्ते पृथिवीत्वभिन्नत्वेन साध्यपर्यवसानम् ।
 साध्ये जातिभिन्नमित्युक्ते सत्ताजातिभिन्नत्वसिद्ध्याऽर्थान्तरम् ।
 अतो व्याप्येति ॥ तस्याः द्रव्यादीतरवृत्तितया व्यापकत्वात्तत्परिहारः ।
 नच सापि प्रमेयत्वव्याप्यजातिर्भवत्येवेति वाच्यम् ।
 जातिं प्रति व्याप्यत्वस्य विवक्षितत्वात् ।
 व्याप्यजातिभिन्नमित्युक्ते रूपत्वभिन्नत्वसिद्ध्याऽर्थान्तरम् ।
 तस्य रूपमात्रवृत्तित्वेन व्याप्यजातित्वात् ।
 अतो द्रव्यत्वेति ॥ तस्य च गुणत्वव्याप्यत्वात्तत्परिहारः ।
 द्रव्यत्वव्याप्यजातिभिन्नमित्युक्ते घटत्वभिन्नत्वसिद्ध्याऽर्थान्तरमित्यत उक्तम् ॥ साक्षादिति ॥ घटत्वं च न द्रव्यत्वसाक्षाद्व्याप्यजातिः ।
 तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यत्वं हि तत्साक्षाद्व्याप्यत्वम् ।
 यथा पृथिवित्वं द्रव्यत्वसाक्षाद्व्याप्यम् ।
 तत् द्रव्यत्वम् ।
 तद्व्याप्यजातिः जलत्वादिः ।
 तद्व्याप्यत्वे सति द्रव्यत्वव्याप्यत्वात् ।
 न तथा घटत्वम् ।
 तत् द्रव्यत्वम् ।
 तद्व्याप्यं पृथिवीत्वम् ।
 तद्व्याप्यत्वेन तद्व्याप्याव्याप्यत्वाभावात् ।
 द्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नमित्युक्ते जलत्वादीनामपि द्रव्यत्वसाक्षाद्व्याप्यजातित्वेन तद्भिन्नत्वसिद्ध्याऽऽर्थान्तरमतो जलत्वतेजस्त्ववायुत्वमनस्त्वेतरेति ।
 अतः सर्वं सार्थकम् ।
 ननु तथापि जलत्वादीतरसाक्षाद्व्याप्यजातिर्द्रव्यत्वं तद्भिन्नत्वसिद्ध्याऽऽर्थान्तरम् ।
 नच द्रव्यत्वस्य द्रव्यत्वं न व्याप्यम् ।
 अभेदे व्याप्यव्यापकभावानङ्गीकारात् ।
 अन्यथा शब्दो नित्यः कृतकत्वादित्यत्र कृतकत्वस्योपाधित्वप्रसङ्गात् ।
 कृतकत्वस्यानित्यत्वव्यापकत्वात् ।
 अभेदे व्याप्यव्यापकभावानभ्युपगमेन कृतकत्वाव्यापकत्वाच्च ।
 अतस्तदङ्गीकारे तु नायं दोषः ।
 कृतकत्वस्य कृतकत्वव्यापकत्वेन साधनव्यापकत्वात् ।
 अतः कथमिति चेन्न ।
 द्रव्यत्वस्य द्रव्यत्वव्याप्यत्वेऽपि साक्षाद्व्याप्यत्वाभावात् ।
 तथाहि ।
 तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यत्वं तत्साक्षाद्व्याप्यत्वम् ।
 नच द्रव्यत्वे तदस्ति ।
 तत् द्रव्यत्वम् ।
 तद्व्याप्यं द्रव्यत्वं तद्व्याप्यत्वं द्रव्यत्वे वर्तते नतु तद्व्याप्यत्वम् अतो न दोष इति जलत्ववदिति ॥ नचेति ॥ जलत्वे साध्यव्यापकत्वात् पक्षे साधनाव्यापकत्वात् पृथिवीत्वे तरत्वमुपाधिरिति नेत्यर्थः ।
 कुत इत्यत आह - पक्षेतरत्वादिति ॥ पक्षेतरत्वस्याप्युपाधित्वं किं न स्यादिति चेत् तथात्वे पर्वतो वह्निमान्धूमवत्त्वादित्यत्र महानसे साध्यव्यापकत्वात्पक्षे साधनाव्यापकत्वाच्च पर्वतेतरत्वमुपाधिस्स्यात् ।
 तथाचानुमानमात्रोच्छेदः स्यादिति भावः ।
 ननु विषमोयमुपन्यासः पर्वतो वह्निमानित्यत्र यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यादित्यनुकूलतर्कबलात्पर्वते वह्निसिद्धौ तत्र पर्वतेतरत्वाभावेन साध्याव्यापकत्वात्पर्वतेतरत्वस्य नोपाधित्वम् ।
 यथाहुः ।
 `अनुकूलेन तर्केण सनाथे सति साधने ।
 साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भव' इति ।

सनाथे सस्वामिक साधने सति पक्षे साध्यव्यापकताभङ्गादिति सम्बन्धः ।
 प्रकृते चानुकूलतर्काभावात् ।
 वह्निरनुष्णः पदार्थत्वादित्यत्र वह्नीतरत्वस्येव (पक्षेतरत्वस्यापि) पृथिवीत्वेतरत्वस्याप्युपाधित्वं युक्तमित्यत आह - अनुकूलतर्काणामिति ॥ आत्मपदप्रवृत्तिनिमित्तस्य जातित्वाङ्गीकारे लाघवमित्यादिनेति शेषः ।
 तथा चात्राप्यनुकूलेन तर्केण बलेन पक्षे साध्यसिद्धौ तत्र पृथिवीत्वेतरत्वाभावेन साध्यव्यापकत्वान्नायमुपाधिरिति भावः ।
 पृथगुपन्यासे गौरवादाह - एवमिति ॥ जलत्वं पृथिवीत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वात् पृथिवीत्ववदित्याद्यूह्यमित्यर्थः ॥

(20०) द्रव्यत्वं पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरजातिं प्रति साक्षाद्व्यापकं सत्तासाक्षाद्व्याप्यजातित्वात् गुणत्ववत् ।
 सर्वाणि मनांसि स्पर्शानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तानि द्रव्यत्वात् सत्ताधिकरणत्वात् प्रमेयत्वाद्वापृथिवीवत् ।
 दिग्भेदवादिनां तु सर्वत्र दिक्त्वानधिकरणत्वग्रहणं कार्यम् ।
 सर्वा पृथिवी जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्ता द्रव्यत्वात् सत्ताधिकरणत्वात् जलवत् ।
 सत्ता द्रव्यत्वान्यात्मनिष्ठजात्यन्या जातित्वात् प्रमेयत्वात् घटत्ववत् ।
 द्रव्यत्वं वा सत्तान्यात्मनिष्ठजात्यन्यत् (आत्मनिष्ठसत्तान्यजात्यन्यत्) जातित्वात् घटत्ववत् ।
 आत्माणुत्ववादिनां तु आत्मा द्रव्यत्वव्याप्यजात्यधिकरणम् अविभुद्रव्यत्वात् पृथिवीवदित्यद्यनुमानान्यात्मभेदं साधयन्ति ।

(20) (भ.) ॥ गुणत्ववदिति ॥ अत्र रूपत्वजातिमादाय तद्व्यापकत्वेन साध्यपर्यवसानं बोध्यम् ।
 साध्ये जातिं प्रति व्यापकमित्येवोक्तौ घटत्वमादायार्थान्तरता ।
 अतः साक्षादिति ।
 तावत्येवोक्ते पृथिवीत्वादिपञ्चकमादायार्थान्तरता ।
 तन्निरासायेतरान्तम् ।
 हेतौ जातित्वादित्येवोक्तौ सत्तायां व्यभिचारः ।
 व्याप्यजातित्वादित्युक्तावपि पुनः सत्तायामेव व्यभिचारः ।
 प्रमेयत्वं प्रति व्याप्यत्वात्तस्याः ।
 अतः सत्ताव्याप्यजातित्वादिति ।
 तावत्येवोक्ते घटत्वादौ व्यभिचारस्तद्वारणाय साक्षादिति ॥ सर्वाणि मनांसीति ॥ अत्र मनांसीत्येव निर्देशे कतिपयमनसां पक्षत्वसम्भवेन तेषु स्पर्शानाघिकरणानि यानि द्रव्यत्वसाक्षाद्व्याप्यमनस्त्वजातिमन्त्यवशिष्टमनांसि तद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरता ।
 अतः सर्वाणीति ।
 इत्थं च जातिपदस्यात्मत्वजातिमादायैव पर्यवसानम् ।
 स्पर्शानधिकरणेति विशेषणेन पृथिवीत्वजलत्वतेजस्त्ववायुत्वजातिमतां पृथिव्यादीनां व्यावर्तितत्वात् ।
 सर्वेषामपि मनसां पक्षीकृतत्वेन मनस्त्वजातिमतां मनसामपि ग्रहीतुमशक्यत्वात् ।
 स्वस्य स्वव्यतिरिक्तत्वायोगात् ।
 आकाशकालदिशां च द्रव्यत्वव्याप्यजात्यनाश्रयत्वात् ।
 साध्ये जातिमद्व्यतिरिक्तानीत्येवोक्ते सत्तादिजातिमद्गुणकर्मव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् ।
 अतो व्याप्येति ।
 तर्ह्यपि सत्ताजातिव्याप्यगुणत्वकर्मत्वजातिमद्गुणकर्मव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् ।
 अतो द्रव्यत्वेति ।
 तर्ह्यपि द्रव्यत्वव्याप्यघटत्वादिजातिमद्धटादिव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् ।
 अतः साक्षादिति ।
 अथाऽपि द्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वादिजातिमत्पृथिव्यादिचतुष्टयातिरिक्तत्वसिद्ध्याऽर्थान्तरम् ।
 अतः स्पर्शानधिकरणेति ।
 नन्वेवं स्पर्शानधिकरणद्रव्यत्वव्याप्यजातिमत्पृथिव्यादिचतुष्टयातिरिक्तमित्येवालम् ।
 साक्षादिति व्यर्थम् ।
 द्रव्यत्वपरम्पराव्याप्यघटत्वादिजातिमतां घटादीनां स्पर्शानधिकरणपदेनैव व्यावर्तितत्वादिति चेत् ।
 सत्यम् ।
 तथाऽप्यात्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वसिद्ध्यर्थं तदिति केचिदाहुः ।
 एके त्वभेदेऽपि व्याप्यव्यापकभावमङ्गीकृत्य द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वमस्त्येवेति द्रव्यत्वव्याप्यजातिपदेन द्रव्यत्वजातेरेव ग्रहणसम्भवेन तत्सिद्ध्या पुनरर्थान्तरता स्यात् ।
 अतस्तन्निरासाय साक्षादिति ।
 साक्षाद्व्याप्यत्वं च तद्व्याप्याव्याप्यत्वे सति तद्व्याप्यत्वम् ।
 द्रव्यत्वस्य च द्रव्यत्वव्याप्यत्वादेव तद्व्याप्याव्याप्यत्वाभावेन द्रव्यत्वसाक्षाद्व्याप्यत्वाभावात् ।
 आत्मत्वजातिमादायैव तस्य पर्यवसानमिति साक्षात्पदकृत्यामाचक्षते ।
 वस्तुतस्त्वभेदे व्याप्यव्यापकभावो नास्त्येवेति पक्षे साक्षात्पदमनपेक्षितमेवेति बोध्यम् ॥ पृथिवीवदिति ॥ तत्र तादृशमनस्त्वजातिमादाय तद्वन्मनोव्यतिरिक्तत्वेन साध्यं बोध्यम् ।
 ननु दिक्षु स्वाभाविकभेदवादिनां मते दिक्त्वस्य जातित्वोपगमेन पृथिवीत्वादिपक्षकानुमानेषु दिक्त्वभिन्नत्वसिद्ध्या द्रव्यत्वपक्षकानुमाने दिक्त्वजातिं प्रति साक्षाद्व्यापकत्वसिद्ध्या मनःपक्षकानुमाने दिक्त्वजातिमद्दिग्भेदसिद्ध्याऽर्थान्तरतैवेति तत्राह - दिग्भेदवादिनां त्विति ॥ तानुद्दिश्येत्यर्थः ॥ दिक्त्वानधिकरणत्वग्रहणमिति ॥ उपलक्षणमेतत् ।
 दिक्त्वग्रहणमित्यपि ग्राह्यम् ।
 अत्र सर्वत्रेत्युक्तत्वात् ।
 तथा च मनःपक्षकानुमाने स्पर्शानधिकरणेतिवत् दिक्त्वानधिकरणेति पूरणीयम् ।
 इतरानुमानेषु जलत्वादिसमकक्षतया दिक्त्वेति पूरणीयमिति भावः ।
 एवमेव वक्ष्यमाणपृथिवीपक्षकानुमानेऽपि दिक्त्वानधिकरणमित्यपि द्रष्टव्यम् ।
 अत एवात्र सर्वत्रेत्युक्तम् ॥ सर्वा पृथिवीति ॥ अत्रापि सर्वपदकृत्यं यत्किञ्चित्पृथिवीपक्षीकारे उक्तरूपपृथिवीत्वजातिमदवशिष्टपृथिवीव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरवारणमेव पूर्ववदनुसन्धेयम् ।
 साध्ये जलादिभेदमादायार्थान्तरतानिरासायानधिकरणान्तम् ।
 गुणादिव्यतिरिक्तत्वमादाय तद्वारणाय द्रव्यत्वव्याप्येति जातिविशेषणम् ।
 अत्रापि साक्षात्पदमात्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वसिद्ध्यर्थमित्याहुः ॥ जलत्ववदिति ॥ अत्र पृथिवीभेदमादाय साध्यपर्यवसानम् ॥ सत्तेति ॥ द्रव्यत्वान्या आत्मनिष्ठा या जातिस्तदन्येत्यर्थः ।
 अत्रात्मनिष्ठद्रव्यत्वजातिव्युदासाय द्रव्यत्वान्येति ॥ पृथिवीत्वादिवारणायात्मनिष्ठेति ॥ सा च जातिरात्मत्वं विना नान्या भवितुमर्हतीति भावः ॥ घटत्ववदिति ॥ अत्र सत्ताजातिमादाय तदन्यत्वं साध्यं बोध्यम् ॥ द्रव्यत्वं वेति ॥ अत्रापि द्रव्यत्वभेदमादाय दृष्टान्ते साध्यपर्यवसानम् ॥ अविभुद्रव्यत्वादिति ॥ अत्राकाशादावनैकान्त्यवारणायाविभ्विति ।
 गुणादौ तद्वारणाय द्रव्यत्वादिति ।
 नैय्यायिकादिभिरात्मनोऽणुत्वानङ्गीकारात्तद्रीत्या हेतोरसिद्धिशङ्कावारणायादावेवात्माणुत्ववादिनामित्युक्तम् ॥ इत्याद्यनुमानानीति ॥ अत्रादिपदेनात्मत्वं जातिः स्वाश्रयरूढपदप्रवृत्तिनिमित्तत्वात् घटत्ववत् ।
 आत्मपदं स्ववाच्यनिष्ठसत्ताद्रव्यत्वान्यजातिप्रवृत्तिनिमित्तकं रूढत्वात् घटपदवत् ।
 आत्मा वा आत्मपदप्रवृत्तिनिमित्तजात्याश्रयस्तत्पदरूढार्थत्वात् ।
 यो यत्पदरूढार्थः स तत्पदप्रवृत्तिनिमित्तजात्याश्रयः ।
 यथा घटपदरूढार्थो घटो घटपदप्रवृत्तिनिमित्तघटत्वरूपजात्याश्रय इत्यादीन्यनुमानानि ग्राह्याणि ।

(20) (मु.) साक्षाद्व्यापकमिति ॥ तद्व्याप्यतयाऽऽत्मत्वजातिसिद्धिरिति भावः ।
 घटत्वादिव्यापकत्वेनान्यथासिद्धिवारणाय प्रतिज्ञायां साक्षादिति ।
 व्याप्यान्तरशून्ये चरमव्याप्ये शरावोदञ्चनत्वादौ व्यभिचारवारणाय हेतौ साक्षाद्व्याप्येति ।
 जातिपदं स्वरूपकथनम् ॥ जातिमद्व्यतिरिक्तानीति ॥ व्यतिरेकप्रतियोगिविशेषणतयाऽऽत्मत्वजातिसिद्धिरिति भावः ।
 मनोऽन्तरादन्यथासिद्धिवारणाय सर्वाणीति पक्षविशेषणम् ।
 अथाऽपि मनसामन्योन्यं भेदेनान्यथासिद्धिरिति चेन्न ।
 मनस्त्वावच्छिन्नव्यतिरेकाधिकरणत्वस्य साध्यत्वात् ।
 न चैवं साध्यवैकल्यम् ।
 मनस्त्वावच्छिन्नेति स्थाने द्रव्यत्वसाक्षाद्व्याप्येति सामान्याश्रयणोपपत्तेः ।
 यद्वा द्रव्यत्वसाक्षाद्याप्यजातिमद्व्यतिरिक्तानीत्यस्योक्तजात्यवच्छिन्नप्रतियोगिताकव्यतिरेकाधिकरणानीत्यर्थः ।
 पृथिव्यादिचतुष्टयवारणाय स्पर्शानधिकरणेति ।
 जात्यादिव्यतिरिक्तसिद्धसाधनतावारणाय (* `-व्यतिरिक्तत्वसिद्ध्या सिद्धसाधनता-' इति पाठेन भाव्यमिति भाति ।
) जातिमदिति ।
 गुणादिभ्यस्तद्वारणाय द्रव्यत्वव्याप्येति ॥ पृथिवीवदिति ॥ उक्तरूपमनोभिन्ना सेति ज्ञेयम् ।
 भेदवादिनां तस्यापि जातित्वेन सर्वत्रान्थासिद्धिरित्यत आह - सत्तेति ॥ अत्र द्रव्यत्वव्याप्यात्मनिष्ठत्वेनान्यथासिद्धिवारणाय द्रव्यत्वान्येति ।
 उक्तरूपसत्ताभिन्नं तदिति ज्ञेयम् ।
 द्रव्यत्वमिति पूर्ववत् ॥ आत्मेति ॥ सत्ताद्रव्यत्वाभ्यामर्थान्तरवारणाय द्रव्यत्वव्याप्येति ।
 आकाशादौ व्यभिचारवारणाय हेतावविभ्विति ।
 एतदसिद्धिर्माभूदित्यादावात्माणुत्ववादिनामित्युक्तम् ॥ इत्यादीति ॥ पृथिवीगुणा जलतेजोवायुमनस्त्वासमानाधिकरणजातिसमानाधिकरणगुणभिन्ना गुणत्वाद्रूपवत् ।
 बुद्धिः सत्ताद्रव्यत्वान्यजातिसमानाधिकरणा शब्दान्यगुणत्वाद्रूपवत् ।
 पृथिवी जलादीतरविशेषगुणाधिकरणजातिमद्विभिन्ना प्रमेयत्वाज्जलवत् ।
 आत्मत्वमात्मसमानाधिकरणप्रतियोगिताकसमानाधिकरणं धर्मत्वात्पटवदित्याद्यूह्यम् ।

(20) (कु.) ॥ द्रव्यत्वमिति ॥ घटत्वादिव्यापकत्वमादाय सिद्धसाधनतावारणाय साक्षादिति ।
 इतरं तद्व्यापकत्वमादाय सिद्धसाधनतावारणाय (* एतद्वाक्याशयः न स्फुटः ।
 तथा इतरम् इति प्रयोगोऽपि असाधु, इतरत् इति हि साधु ।
)।
 व्यापकत्वमधिकदेशवृत्तित्वम् ।
 तेन द्रव्यत्वस्य स्वव्यापकत्वमादाय न सिद्धसाधनता ।
 जातिं प्रति व्यापकत्वमेव विशिष्टजातिव्यापकत्वम् ।
 तेन गुणकर्मपृथिव्यन्यत्वविशिष्टसत्ताव्यापकत्वमादाय न सिद्धसाधनता ।
 अपरजातौ व्यभिचारवारणाय सत्तासाक्षाद्व्याप्येति ।
 तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यत्वं तस्मात्साक्षाद्व्याप्यत्वम् ॥ गुणत्वादिवदिति ॥ गुणत्वादिसाक्षाद्व्यापकत्मादाय साध्यं बोध्यम् ।
 कर्मत्वेऽप्युत्क्षेपणत्वादिसाक्षाद्व्यापकत्वमादाय साध्यसत्त्वान्न व्यभिचारः ॥ सर्वाणि मनांसीति ॥ कतिपयमनसां पक्षीकारेण मनोऽन्तरव्यतिरिक्तत्वमादाय सिद्धसाधनतावारणाय सर्वाणीति ।
 स्पर्शानधिकरणेति जातिमतो विशेषणम् ।
 रूपादिव्यतिरिक्तत्वमादाय तद्वारणाय द्रव्यत्वसाक्षाद्व्याप्येति ।
 साक्षात्पदमात्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वसिद्ध्यर्थमिति ॥ पृथिवीवदिति ॥ मनोव्यतिरिक्तत्वमादाय साध्यं बोध्यम् ॥ दिग्भेदवादिनामिति ॥ स्वाभाविकदिग्भेदवादिनामव्यवहितानुमाने स्पर्शानधिकरणदिक्त्वानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तानीति साध्यं कर्तव्यम् ।
 दिक्त्वभेदमादाय सिद्धसाधनतावारणाय सर्वानुमानेषु दिक्त्वेतरत्वं साध्ये विशेषणं देयमिति भावः ॥ सर्वा पृथिवीति ॥ यत्किञ्चित्पृथिवीपक्षीकारे पृथिव्यन्तरभेदमादाय सिद्धसाधनमिति सर्वेति ।
 अधिकरणान्तं जलादिभेदमादाय सिद्धसाधनतावारणाय ।
 गुणत्वादिव्यतिरिक्तत्वमादाय तद्वारणाय द्रव्यत्वसाक्षाद्व्याप्येति ।
 साक्षात्पदमात्मत्वस्य साक्षाद्व्याप्यत्वसिद्ध्यर्थम् ॥ जलत्ववदिति (* `जलवदि'तिपाठेन भाव्यम् ।
)॥ पृथिवीभेदमादाय साध्यं बोध्यम् ॥ सत्तेति ॥ द्रव्यत्वभेदमादाय सिद्धसाधनतावारणाय द्रव्यत्वान्येति ।
 गुणत्वादिभेदमादाय तद्वारणायात्मनिष्ठेति ।
 आत्मभेदाभावेऽप्यात्मवृत्तिभेदमादाय तद्वारणाय जातीति ॥ घटत्ववदिति ॥ सत्ताभेदमादाय साध्यं बोध्यम् ॥ द्रव्यत्वं चेति ॥ पूर्ववदेव कृत्यानि ।
 दृष्टान्ते तु द्रव्यत्वमादाय साध्यं बोध्यम् ॥ आत्माणुत्ववादिनामिति ॥ स्वरूपासिद्धिपरिहारायेदम् ।
 गगनादौ व्यभिचारवारणायाविभ्विति ।
 गुणादौ व्यभिचारवारणाय विशेष्यम् ॥ आत्मभेदं साधयन्तीति ॥ आत्मत्वजातिसाधनेनेति भावः ।

(20) (हु.) ॥ द्रव्यत्वमिति ॥ साक्षाद्व्यापकमिति ॥ तद्व्यापकीभूतस्वभिन्नं प्रत्यव्यापकत्वे सति तद्व्यापकमित्यर्थः ।
 इदं च घटत्वादिव्यापकतामादाय सिद्धसाधनतावारणाय साक्षाद्व्याप्येति ।
 घटत्वादौ व्यभिचारवारणाय समवायेन सत्तानिरूपितव्याप्यत्वलाभाय हेतौ जातित्वोत्कीर्तनम् ।
 अन्यथा कालिकेन घटत्वस्य जन्यमात्रे सत्त्वात्सत्ताव्याप्यजातेः समवायेन कस्या अपि सर्वत्राभावाद्धटत्वस्यापि सत्ताव्याप्यजात्यव्याप्यत्वगर्भितसाक्षाद्व्याप्यत्वं प्रसज्येत ।
 सत्ताव्याप्यत्वस्य सम्बन्धसामान्येन निवेशे कालिकेन तथात्वाभावादसिद्धिश्च स्यादतस्तदावश्यकम् ॥ सर्वाणि मनांसीति ।
 अत्रैतदनुमानात्पूर्वं द्रव्यत्वं पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वभिन्नद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं प्रमेयत्वादिति पाठो दृश्यते ।
 तत्र द्रव्यत्वसाक्षाद्व्याप्यत्वं द्रव्यत्वसाधारणमेव निर्वाच्यम् ।
 तेनात्मत्वजातिसिद्धेः प्राक् साध्याप्रसिद्धिः प्रकृतानुमानसिद्धात्मत्वजातावेव व्यभिचारादस्यानुमानस्यासदनुमानत्वमिति शङ्कानवकाशः ।
 न चानुमित्युत्पत्तेः पूर्वमात्मत्वजातेरेवानुपस्थितत्वान्न तत्र व्यभिचारग्रहावकाशः सिद्ध्यनन्तरं तस्या जातेः सिद्धत्वेनैव व्यभिचारग्रहं प्रत्युपजीव्यत्वेन व्यभिचारग्रहेण तद्विघटनानुपयोग इति वाच्यम् ।
 
 तत्सिद्ध्युत्तरमप्युक्तव्यभिचारग्रहस्य परामर्शाप्रामाण्यग्रहसम्पादनद्वारोक्तानुमित्यप्रामाण्यग्रहजननेन प्रकृतसाध्यासिद्धिविघटकस्याऽकरसिद्धत्वात् ।

 सर्वाणि मनांसीत्यत्र मनस्त्वावच्छेदेन साध्यसिद्धेरुद्देश्यतालाभाय सर्वाणीति ।
 तत्सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे (* `साध्यत्वे' मु.) ऽनुमित्यनन्तरं मनस्त्वसामानाधिकरण्येन साध्याभावसन्देहानिवृत्तौ तत्रैव प्रकृतहेतोर्व्यभिचारसन्देहाहिताप्रामाण्यसन्देहस्य प्रकृतपरामर्शजननेना (* `-परामर्शे जननेन-' मु.)नुमित्यप्रामाण्यसन्देहः स्यात् ।
 एवं किञ्चिन्मनोवत्तदन्यमनसामपि हेतु(मत्त्व)सत्त्वेऽपि साध्याभावः किन्न स्यादित्यप्रयोजकताशङ्का च स्यात्तन्निरासाय यत्नान्तरकरणम् ।
 प्रक्षालनाद्धीति न्यायेनानुचितमिति मनस्त्वावच्छेदेनैव साध्यसाधनस्योचितत्वात् ।
 यत्किञ्चिन्मनोभेदस्यान्यमनसि सत्त्वात्सिद्धसाधनतावारणाय सर्वाणीत्युक्तमिति तु न सत् ।
 तथात्वेऽपि तन्मनस्येतन्मनोभेदरूपसाध्यस्यैतन्मनसि तन्मनोभेदरूपसाध्यस्य सत्त्वेन सिद्धसाधनताऽनुद्धारात् ।
 न चैक एव भेदः सर्वपक्षेषु नास्तीति वाच्यम् ।
 किमतः साध्यतावच्छेदकाक्रान्तव्यक्तीनां मध्ये एकैकत्र पक्षे एकैकस्या व्यक्तेः सत्त्वमात्रेण सिद्धसाधनताया आवश्यकत्वात् ।
 अन्यथा पर्वतत्वावच्छेदेन वह्निनिश्चयदशायां सिद्धसाधनताभावप्रसङ्गात् ।
 न चैकभेद एवसाध्य इति वाच्यम् ।
 भेदे एकत्वसङ्खयारूपगुणाभावेन साध्याप्रसिद्धेः ।
 अन्यादृशस्य निवेशे गुणस्य वा तत्राङ्गीकारेऽप्येकत्वस्याव्यावर्तकतयैकभेदत्वरूपसाध्यतावच्छेदकस्यापि सर्वभेदेष्वव्याहतेः ।
 अन्यादृशं तु प्रकृतोपयोगि निर्वोढुमशक्यम् ।
 नियतैकव्यक्तेरेकसाध्यतेत्यसत् पक्षे (`-व्यक्तेरेव साधनेऽसत्पक्षे' मु.) दृष्टान्ते चैकभेदस्यानुपादानात् ।
 न च मनस्त्वावच्छेदेन साधनेऽपि तत्तन्मनोभेदाः तादृशजातिमत्स्पर्शानधिकरणप्रतियोगिताका भवन्त्येवेति तानादाय सिद्धसाधनता ।
 तादृग्जातिमत्स्पर्शानाधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्तु न निवेशयितुं शक्यते ।
 तादृशजातिमत्स्पर्शानधिकरणं नेति प्रतीतिसिद्धभेदरूपस्य साध्यमनस्त्वजातिमति मनस्यभावेनाबाधात् ।
 अतस्तादृशयत्किञ्चिदेकजातीयाव्यापकप्रतियोगिताकभेद एव साध्यत इति वाच्यम् ।
 तथा च कथं तन्मनोभेदमादाय सिद्धसाधनता सर्वत्वेन निवेशोत्तरमिति वाच्यम् ।
 हन्त तर्हि तददानेऽपि कथं सिद्धसाधनता ।
 भवदुक्तसाध्यपरिष्कारे व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्य प्रत्येकाङ्गीकारे सिद्धसाधनतैव ।
 मनोघटभेदस्य मनस्यबाधात् ।
 यत्किञ्चित्त्वनिवेशादननुगमे गौरवं च ।
 स्पर्शानधिकरणवृत्तितादृशजात्यवच्छिन्नप्रतियोगिताकभेदत्वेन (`-त्वेनैव' मु.)0 साध्यत्वात्तत्र तन्मनोभेदमादाय सिद्धसाधनताप्रसक्तेः ।
 तस्मादुक्तप्रयोजनमेव युक्तम् ।
 पृथिवीभेदादिकमादाय सिद्धसाधनतावारणाय स्पर्शानधिकरणेति ।
 तेषामप्युत्पत्तिकालावच्छेदेन स्पर्शाभाववत्त्वात्पुनस्तद्दोषवारणाय स्पर्शानधिकरणत्वावच्छिन्नप्रतियोगिताकत्वनिवेशः (* `स्पर्शानधिकरणत्व-' मु.) ।
 द्रव्यवृत्तिजातिनिवेशेऽपि सत्तायास्तथात्वात्तदाश्रयगुणभेदमादाय सिद्धसाधनतावारणाय द्रव्यत्वव्याप्यत्वनिवेशः ।
इ (* इदं वाक्यम् हु.पाठे नास्ति ।
) द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वात्तदाश्रय (* अस्मिन्नपि वाक्ये एतत्पर्यन्तं हु.पाठे नास्ति ।
) गगनादि (* `गुणादि-' हु.)भेदमादाय सिद्धसाधनतावारणाय साक्षादिति ।
 साक्षात्त्वं च मुख्यत्वं प्रकृते विवक्षितम् ।
 तच्च भेदघटितम् ।
 अभेदे व्याप्यव्यापकभावस्य प्राचीनैरनङ्गीकृतत्वेन तस्य मुख्यत्वात् ।
 तथा च (* `तथा च' इति हु.पाठे नास्ति ।
) द्रव्यत्वभिन्नद्रव्यत्वव्याप्यजातिमत्स्पर्शाधिकरणमिति लभ्यते ।
 गगनादिकं च न तथेति (* `च तथेति न' मु.) सिद्धसाधनतावकाशः ।
 इदं तु यथाश्रुतसाध्यानुसारेणापाततः स्पर्शानधिकरणद्रव्यवृत्तिजात्यवच्छिप्रतियोगिताकभेदनिवेशस्यावश्यकत्वेन सत्ताद्रव्यत्वे समुदायोक्तदोषासंस्पर्शात् ।
 परन्तु गुणभेदादिकमुपादाय दोषवारणाय द्रव्यवृत्तित्वमात्रं जातौ देयमित्याहुः ।
 अन्ये त्वत्र व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदानङ्गीकारात्तादृशजातिमत्प्रतियोगिताकभेदत्वेनैव(-तेव्न) साध्यता ।
 तत्तन्मनोभेदमादाय सिद्धसाधनतावारणं तु साध्यीभूतभेदे पक्षतावच्छेदकव्यापकताभानस्यावश्यकत्वात्तत्र (* `-भेदपक्षतावच्छेदक-' मु.) पक्षतावच्छेदकीभूतमनस्त्ववन्निष्ठभेदप्रतियोगितानवच्छेदकत्वलक्षणं भेदघटितमेव व्यापकत्वं साध्ये वा तत्साध्यतावच्छेकसम्बन्धे वा भासते न तु मनोनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकवत्त्वरूपम् ।
 इदं (* `इत्थं' मु.) चैकैकभेदस्य तादृशभेदघटितव्यापकत्वाभावादेव न सिद्धसाधनतावकाशः ।
 तथा च स्पर्शानधिकरणीभूतद्रव्यत्वसत्तादिजातिमद्गगनादिभेदमादाय सिद्धसाधनतावारणाय द्रव्यत्वसाक्षाद्व्याप्यत्वं जातौ देयमेव ।
 परन्तु द्रव्यत्वस्य स्वव्याप्यत्ववत्स्वसाक्षाद्व्याप्यत्वस्याप्यभेदेनोक्तदोषानिस्तारात् साक्षात्पदस्य मुख्यार्थकत्वमाश्रित्य द्रव्यत्वभिन्नत्वे सति तद्व्याप्यत्वार्थकत्वे पर्यवसानं कर्तव्यमित्याहुः ।
 परे तु (* `परन्तु' मु.) अवच्छेदकावच्छेदेनानुमितौ साध्ये वा साध्यतावच्छेदकसम्बन्धे वा यद्व्यापकत्वं भासते तन्न परामर्शे साध्ये वा तत्सम्बन्धे वा तद्भानमनुरुध्य किन्तु परामर्शस्यावच्छेदकावच्छेदेन हेत्ववगाहित्वमनुरूद्ध्यैव ।
 तच्चान्यत्र यथा (* `तथा' मु.) क्लृप्तं तथाऽत्रापीत्यङ्गीकर्तव्यम् ।
 तथा च घटा रूपध्वंसवन्तः पर्वतो वह्निमानित्यनुमितिषु सर्वत्रात्यन्ताभावघटितव्यापकत्वभानस्यैवानुमितेरप्रामाण्यवारणायावश्यकत्वमभ्युपगन्तव्यतया (* `-उपगन्तव्यम् ।
 तथा च' मु.) अत्रापि तद्भानस्यैव प्राप्त्या (* `प्रसिद्ध्या' मु.)ऽवच्छेदकावच्छेदेन साध्यसाधनेऽपि सिद्धसाधनताऽर्थान्तरयोरावश्यकत्वात् ।
 न हीदं वाक्यं येन वक्तृतात्पर्यानुसारेणार्थावगाहिनीमनुमितिं परामर्शो जनयेत् ।
 स्पर्शानधिकरणद्रव्यनिष्ठजात्यवच्छिन्नभेदसाधनेनैवाभिमतार्थसिद्धौ व्यासज्यवृत्तिधर्मावच्छिन्नभेदानभ्युपगमसाक्षाद्व्याप्यत्वनिवेश (* `-भेदानभ्युपगमात्साक्षाद्व्याप्यत्वादिनिवेशेन' मु.)साक्षात्पदार्थान्तरादितात्पर्याद्यनेकप्रयासस्य ग्रन्थकृतामनौचिती च ।
 तस्मान्नेदं साक्षाद्व्याप्यत्वपदप्रयोजनकथनं युक्तं किन्तु हेतौ व्यर्थविशेषणघटितत्वे यथा व्याप्यत्वासिद्ध्या न तथा साध्यशरीरे वैयर्थ्यं साध्यविशेषणानामुद्देश्यप्रतीत्यर्थत्वात् ।
 उद्देश्यतापि (* `उद्देश्यताकुक्षिषु' मु.) कुत इत्येतावन्मात्रमवशिष्यते त(अ) त्र इत्थं ब्रूमः ।
 पृथिवीत्वादिसमशीलत्वसिद्ध्यसिद्धिशङ्कान्तरनिरासद्वारेणेत्यभिप्रायेणेति (* `पृथिवीत्वादिसमशीलत्वं सिद्धं सिध्यतु शङ्कान्तर-' हु. )।
 शङ्कान्तरं च यथा घटदौ घटत्वव्याप्यच्चैत्रजन्यदशघटेषु चैत्रजन्यतावच्छेदकजातयोऽपि प्राचीनैरङ्गीकृता लिप्यादावनुभवसिद्धाश्च ।
जानेऽहं चैत्रस्येयं लिपिर्न मैत्रस्य तस्य तु विलक्षणेति सर्वलोकसिद्धव्यवहारात् ।
 उत्पत्तिक्षणद्वितीयक्षण एव न(ना)श्यमाना अपि पदार्थाः प्राचां ग्रन्थे व्यवहृताः ।
 तथा सुरभ्यसुरभ्यवयवारब्धद्रव्येऽवयवगन्धेन कार्ये गन्धजनने विरुद्धम् गन्धद्वयस्य (* `सुरभ्यसुरभ्यवयवारब्धद्रव्येऽवयवगन्धहेनकार्ये गन्धजनने विरुद्धगन्धद्वयस्य' मु.) कार्ये आपत्तिरेकस्यैवोत्पत्तिरित्यत्र नियामकाभावात् ।
 चित्रगन्धस्यापि सिद्धान्तेऽनङ्गीकारात्तत्रावयविनि गन्धो नास्त्येव किन्त्ववयवगन्धस्यैव प्रत्यक्षं न चैवं चित्ररूपस्याप्यसिद्धिरिति वाच्यम् ।
 बहिर्द्रव्यप्रत्यक्षे उद्भूतरूपस्य कारणतायाः क्लृप्तत्वेन धर्मिणि रूपाभावे तत्प्रत्यक्षानुपपत्त्या तत्सिद्ध्यर्थं चित्ररूपस्याभ्युपगमादिति प्राचां ग्रन्थे व्यवहारः ।
 तथोक्तं तर्कदीपिकायाम् - `सुरभ्यसुरभ्यवयवारब्धे द्रव्ये परस्परविरोधे गन्धानुत्पादाच्चित्रगन्धानङ्गीकारात् ।
 तत्राद्यक्षणावच्छिन्ने घटे उत्पन्नविनष्टघटादौ च गन्धवत्त्वलक्षणमव्याप्तमिति' ।
 इत्थं च प्रकृते चैत्रजन्येषूत्पन्नविनष्टदशघटेष्वेवासम्भाविता(नां) शीतानुष्णाशीतवज्जलपृथिव्युभयारब्धचैत्रमैत्रजन्येषु केषुचिद्द्रव्येषु चित्रस्पर्शस्यापि सिद्धान्तविरुद्धतया कस्यापि स्पर्शस्याभावेन स्पर्शानधिकरणेषु वा चैत्रमैत्र (* `मैतादि' मु.)जन्यतावच्छेदकजातीनामनुभवसिद्धानां चापह्नोतुमशक्तत्वात्ता जातीरुपादाय सिद्धसाधनम् ।
 तासां स्पर्शानधिकरणवृत्तित्वात् ।
 तदवच्छिन्नभेदस्य मनस्यभावात् (अबाधात्) ।
 एतेन स्पर्शासामानाधिकरण्यस्य जातौ निवेशेनैव द्रव्य(त्व)सत्त्वयोर्वारणात् द्रव्यत्वव्याप्यत्वमेव नोपादेयं कुतस्तरां साक्षात्पदमित्यपि प्रत्युक्तम् ।
 उक्तजातीरुपादाय सिद्धसाधनताया अवारणादिति ।
 तच्छङ्कानिरासस्तु तादृशपदार्थस्वरूपाणां बलवतीभिर्युक्तिभिर्निराकरणपूर्वकं तादृशजातिखण्डनेन वा ता अङ्गीकृत्य वा प्रकृतानुमाने जातिषु द्रव्यत्वसाक्षाद्व्याप्यत्वविशेषणप्रक्षेपेण वा भवति (भवतीति) तत्र तत्खण्डनादीनां प्रकृतानुपयोगेनानवसरदुःस्थत्वात्तदङ्गीकृत्यैव समानाधिकरणे सिद्धान्ते उत्कर्षसत्त्वात्स्वाभिमतात्मत्वजातेः पृथिवीत्वसमशीलत्वस्यापि सिद्धेश्चैतदेव युक्तमित्याशयेन द्रव्यत्वसाक्षाद्व्याप्यत्वोपादानमित्याहुः ॥ दिग्भेदवादिनां त्विति ॥ प्राचीनैकदेशिसिद्धान्तिनेत्यर्थः ।
 अत्र सर्वत्र दिक्त्वानधिकरणत्वमित्येतदनुमानपूर्वोत्तरानुमानसहितैतदनुमानाभिप्रायेण ।
 जातिभेदसाधकानुमानेषु दिक्त्वमादाय सिद्धसाधनतावारणाय दिक्त्वभेदोऽपि जातौ निवेश्य इति ज्ञेयम् ॥ सर्वा पृथिवीति ।
 अत्र सर्वपदप्रयोजनं पूर्ववदेव ॥ साक्षाद्व्याप्येतीति ॥ अन्ये त्वित्युक्तमतरीत्याऽपरे त्वित्युक्तमतरीत्या केवलोद्देश्यप्रतीत्यर्थकत्वेन वा ।
 सार्थकमिति ध्येयमित्याहुः ।
 वस्तुतः पृथिवीत्वावच्छेदेन साध्यस्य साधनेऽपि पक्षतावच्छेदकव्यापकतावच्छेदकत्वस्यात्यन्ताभावघटितस्यैव साध्यतावच्छेदकभानस्यानुमितौ व्यवस्थापितत्वात् ।
 जलत्वादिजातिचतुष्टयानधिकरणपृथिवीरूपद्रव्यवृत्तिघटत्वपटत्वाद्यवच्छिन्नप्रतियोगिताकभेदानामुक्तजातिचतुष्टयानधिकरणपृथिवीरूपद्रव्यवृत्तिजात्यवच्छिन्नप्रतियोगिताक (* `जलत्वादिजातिचतुष्टयानधिकरणपृथिवीरूपद्रव्यवृत्तिघटत्वपटत्वाद्यवच्छिन्नप्रतियोगिताकभेदानामुक्तजातिचतुष्टयानधिकरणपृथिवीरूपद्रव्यवृत्तिजात्यवच्छिन्नं प्रति' मु. ।
 `जलत्वादिजातिचतुष्टयानधिकरणपृथिवीरूपद्रव्यवृत्तिघटत्वपटत्वाद्यवच्छिन्नप्रतियोगिताकभेदानां घटत्वपटत्वाद्यवच्छिन्नप्रतियोगिताकभेदानाम् उक्तजातिचतुष्टयानधिकरणपृथिवीरूपद्रव्यवृत्तिजात्यवच्छिन्नप्रतियोगिताक' हु. ।
 पाठद्वयाधारेण अयं पाठः सम्भाव्यते ।
)भेदत्वेन पृथिवीत्वव्यापकत्वात्सिद्धसाधनतावारणाय साक्षाद्व्याप्यत्वविशेषणं जातौ सार्थकमित्यनुसन्धेयम् ।
 अन्ये तु `सर्वाणि मनांसि' इत्यत्र तादृशजातिमद्व्यक्तिभेदस्य साध्यत्वे तत्तन्मनोभेदमादाय सिद्धसाधनता ।
 तादृशजातिमत्त्वावच्छिन्नप्रतियोगिताकभेदसाधने बाधः ।
 तादृशजातिशरीरे मनस्त्वस्यापि घटकत्वात् ।
 अतस्तादृशयत्किञ्चिज्जातिसमनियतव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदः साध्यम् ।
 तच्च प्रत्येकं सर्वमनस्सु वर्ततेऽतः सिद्धसाधनं दुर्वारमिति मनस्त्वसमनियतव्यासज्यवृत्तिधर्मस्य पक्षतावच्छेदक्(ता)अलाभाय सर्वाणि मनांसीति ।
 व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिकप्रत्येकवृत्तिधर्मावच्छिन्नभेदाम्युपगमपक्षे मनस्त्वावान्तरजातिसिद्ध्याऽपि साध्यस्योपपन्नतयाऽर्थान्तरता स्यादिति जातिर्द्रव्यत्वसाक्षाद्व्याप्यत्वेन विशेषिता ।
 तन्निवेशेऽपि पृथिवीत्वादिकमादाय सिद्धसाधनतावारणाय स्पर्शानधिकरणवृत्तीति ।
 स्पर्शाधिकरणत्वं च (सर्ववाद्यभ्युपगत)सम्बन्धसामान्येन बोध्यम् ।
 तेनात्मैक्येऽप्याकाशकालदिगात्मस्वात्मातिरिक्तोक्तत्रयेषु कालदिशोर्बहुत्वमङ्गीकृत्य प्रत्येकं तयोर्वा गगनकालयोर्वा कालदिशोर्वो गगनदिशोर्वा जातिसिद्ध्याऽपि साध्यसत्त्वनिर्वाहादर्थान्तरतेति शङ्कानवकाशः ।
 काले कालिकसम्बन्धेन दिशि च दिक्कृतविशेषस्पर्शसत्त्वेनोक्तजातिषु स्पर्शसामानाधिकरण्यविरहात् ।
 दिक्कृतविशेषणतया दिगुपाधिषु वृत्त्यभ्युपगमान्मनस्त्वसङ्ग्रहणसम्भवेन दृष्टान्ते साध्यसत्त्वोपपत्तिः ।
 न च तथाऽपि गगनात्मनोर्जातिसिद्ध्याऽपि सम्भवादर्थान्तरता दुर्वारेति वाच्यम् ।
 शब्दासामानाधिकरण्यस्यापि जातिविशेषणत्वात् ।
 न चात्मैक्येऽपि मनः साधारण्येन जात्यभ्युपगमसम्भवात्पुनरर्थान्तरता दुर्वारेति वाच्यम् ।
 तथा सति मूर्तत्वस्यापि जातित्वापत्या साङ्कर्यसम्भवे तथाविधजातिकल्पनासम्भवाभावदित्यभिप्रायात् ।
 मूर्तामूर्तोभयवृत्तिभिन्नत्वं वा देयम् ।
 वस्तुतस्तु यथाश्रुते पृथिवीत्वादीनां द्रव्यत्वव्याप्यमूर्तत्वव्याप्यतया द्रव्यत्वसाक्षाद्व्याप्यत्वशेषणेनैव स्पर्शानधिकरणेत्यादि व्यर्थमेव स्यात् ।
 अतः साक्षाद्व्याप्येत्येतद्द्रव्यविभाजकोपाधेः परिचायकमेव ।
 तथाच स्पर्शासमानाधिकरणद्रव्यविभाजकजातिपर्याप्तावच्छेदकताकभेदः साध्यम् ।
 तत्र प्रत्येकं कस्यापि मनसः पक्षत्वाऽङ्गीकारेऽपि न दोष इति सूचनाय सर्वाणि मनांसीत्युक्तम् ।
 सर्वाण्येव मनांसीत्यर्थः ।
 `सर्व एव शुभः काल' इत्यादाविव तद्व्यक्तित्वेन मनसामुपस्थितिसम्भवः ।
 सर्वा पृथिवीत्यादावप्येवमेव प्रयोजनमूह्यमित्याहुः ।
 आत्माणुत्वेति वक्ष्यमाणहेतोरसिद्धिवारणायाविभ्विति (* `-वारणायैतन्मतानुसारेणाविभ्विति' मु.) गगनादौ गुणादौ च व्यभिचारवारणाय हेतुघटकविशेषणविशेष्यभागौ ॥ इत्याद्यनुमानानिचेति ।
 आत्मा द्रव्यत्वन्यूनवृत्तिजातिमान् घटात्मसंयोगाद्घटवत् ।
 आत्मा(न)णुत्वपक्षे शरीरात्मसंयोगाच्छरीरवदित्यादीनि द्रष्टव्यानि ।
 (* इत आरभ्य वाक्यत्रयथाने हु.पाठे एतद्भिन्नमेकं वाक्यं दृश्यते ।
 तदेवम् - `आत्मा द्रव्यत्वन्यूनवृत्तिजातिमा शब्दान्यविशेषगुणवत्त्वात् पृथिव्यात्माद्यन्यतरत्वाद्वा पृथिवीवत्' इति ।
) अणुपक्षे तु पूर्वोक्तसाध्य एवाणुत्वं क्रियावत्त्वं वा हेतुर्मनदिदृष्टान्तः (* `मनआदिदृष्टान्त' इति पाठेन भाव्यमिति भाति ।
) ।
 क्रियावत्त्वं च `सोऽस्माच्छरीरादुत्क्रम्ये'ति श्रुतिसिद्धमेव ।
 अणुत्वपक्षे आत्मसंयोगान्तःकरण (* `-गो+न्तः-' इति पाठेन भाव्यमिति भाति ।
) एवेति वक्तुं शक्यत्वादिदं न घटते ।
 कण्ठोक्तानुमानानामिवैषामप्यनुकूलतर्कसानाथ्येनार्थसाधकत्वात् ।

(20) (का.) ॥ द्रव्यत्वमिति ॥ अत्र रूपत्वादिजातिमादाय दृष्टान्ते, आत्मत्वजातिमादाय पक्षे साध्यसत्त्वं बोध्यम् ।
 द्रव्यत्वस्य पृथिवीत्वादिसाक्षाद्व्यापकतया सिद्धसाधनवारणायेतरान्तम् ।
 अष्टद्रव्यवृत्त्युपाधिव्यापकत्वमादाय तद्दोषवारणाय जातिपदम् ।
 तादृशजातित्वावच्छिन्नव्यापकत्वं जातेर्बाधितमतस्तादृशयत्किञ्चिदेकजातिव्यापकत्वलाभाय समासमुपेक्ष्य जातिं प्रतीत्येकवचनान्तं पृथगुपात्तम् ।
 पृथिवीत्वादिभिन्नघटत्वव्यापकत्वमादाय सिद्धसाधनमतः साक्षात्पदम् ।

साक्षाद्व्यापकत्वं च तद्व्यापकजात्यव्यापकत्वम् ।
 व्यापकत्वं चाधिकदेशवृत्तित्वम् ।
 तच्च तदवच्छिन्नभेदवद्वृत्तित्वे सति तद्वद्वृत्तित्वम् ।
 पृथिवीत्वादिभिन्नं यद्रूपत्वादि तद्वद्वृत्तिरूपत्वादिकं प्रति तदवच्छिन्नभेदवद्वृत्तिरसत्वादिकं प्रति च गुणत्वस्य व्यापकत्वात् दृष्टान्तस्य साध्यवैकल्यापत्तिरतः सत्यन्तविशेष्यदलयोर्निवेशः ।
 तादृशधर्माव्यापकत्वस्य साध्यत्वे गुणत्वस्य विशेषगुणत्वादिरूपतादृशधर्मव्यापकतया साध्यवैकल्यमतस्तादृशजात्यव्यापकत्वमनुसृतम् ।
 न च पृथिवीत्वादिव्यतिरिक्तरूपत्वादिव्यापकगुणत्वाव्यापकत्वस्य द्रव्यत्वे सिद्धत्वात्सिद्धसाधनमिति वाच्यम् ।
 तदव्यापकत्वस्य तदवच्छिन्नभेदवदवृत्तित्वरूपतया तादृशगुणत्वाव्यापकत्वस्य द्रव्यत्वे बाधितत्वात् ।
 न च पृथिवित्वादिव्यतिरिक्तगुणत्वव्यापकसत्ताजात्यवच्छिन्नभेदवदवृत्तित्वमादाय सिद्धसाधनमिति वाच्यम् ।
 तदवच्छिन्नभेदवदसमवेतत्वस्य विवक्षितत्वात् ।
 सत्ताजात्यवच्छिन्नभेदवत्समवेतत्वस्यैवाप्रसिद्ध्या सिद्धसाधनानवकाशात् ।
 एवं च स्वाधिकरणवृत्तित्वस्वावच्छिन्नभेदवद्वृत्तित्वोभयसम्बन्धेन पृथिवीत्वादिव्यतिरिक्तकिञ्चिज्जातिविशिष्टजात्यवच्छिन्नभेदवदसमवेतत्वं साध्यमिति निष्कर्षः ।
 उभयसम्बन्धप्रवेशात् पृथिवीत्वादिव्यतिरिक्तरूपत्वाद्यवच्छिन्नभेदवद्वृत्तिस्तादृशरसत्वादिमद्वृत्तिश्च या रसत्वादिजातिः तद्व्यापकत्वेऽपि गुणत्वरूपदृष्टान्तस्य न साध्यवैकल्यम् ।
 तेन रूपत्वव्यापकगुणत्वं प्रति गुणत्वस्य स्वाधिकरणवृत्त्यभावाप्रतियोगित्वेन व्यापकत्वादव्यापकत्वरूपसाध्यवैकल्यं दृष्टान्तस्येति निरस्तम् ।
 अधिकदेशवृत्तित्वरूपव्यापकत्वस्यैव विवक्षितत्वादिति ।

हेतौ जातित्वमात्रस्य सत्तायामनैकान्त्यात् सत्ताव्याप्येति ।
 व्याप्यत्वं च पूर्ववन्न्यूनवृत्तित्वरूपं ग्राह्यम् ।
 अतः स्वस्य स्वव्याप्यत्वमादाय न दोषः ।
 घटत्वादौ व्यभिचारवारणाय साक्षात्पदम् ।
 यद्यपि घटत्वादौ पृथिवीत्वादिभिन्नघटत्वादिव्यापकत्वरूपसाध्यसत्त्वान्न व्यभिचारावकाशः ।
 तथापि पृथिवीत्वादिभिन्नद्रव्यत्वव्यापकद्रव्यगुणान्यतरत्वरूपधर्मान्तराव्यापकत्वसिद्ध्याऽर्थान्तरवारणाय तद्व्यापकजात्यव्यापकत्वे सति तद्व्यापकत्वमेव साक्षाद्व्यापकत्वपदेन विवक्षणीयमित्याशयेन तदुपादानात् ।
 अन्यथा तु नोपादेयमेव साक्षात्पदमित्यवधेयम् ।
 गगनावृत्तिधर्मसमवायित्वे व्यभिचारवारणाय जातित्वनिवेशः ।
 एतच्चोपलक्षणम् ।
 द्रव्यत्वं मूर्तावृत्तिजातिमद्वृत्ति, सत्तासाक्षाद्व्याप्यजातित्वादमूर्तवृत्तिजातित्वाद्वा गुणत्वादिवत् ।
 द्रव्यत्वमात्मवृत्तिजातिव्यापकम्, आत्मानात्मवृत्तिजातित्वात् सत्तावदित्यादिकमप्यूह्यम् ।

॥ सर्वाणि मनांसीति ॥ दृष्टान्ते मनस्त्वजातिमद्व्यतिरिक्तत्वेन पक्षे चात्मत्वजातिमद्व्यतिरिक्तत्वेन साध्यपर्यवसानं बोध्यम् ।
 अत्र यत्किञ्चिन्मनसः पक्षत्वे मनोऽन्तरव्यतिरिक्तत्वमादाय सिद्धसाधनात् सर्वाणीत्युक्तमिति केचित् ।
 तच्चिन्त्यम् ।
 सर्वेषामपि मनसां चालिनीन्यायेन तादृशजातिमन्मनःप्रतियोगिकभेदवत्त्वेन सर्वपदोपादानेऽपि सिद्धसाधनानुद्धारात् ।
 तादृशजात्यवच्छिन्नप्रतियोगिताकभेदवत्त्वस्य साध्यार्थत्वे च सर्वपदवैयर्थ्यात् ।
 न च तादृशजातिमत्प्रतियोगिकयत्किञ्चिदेकभेदस्य साध्यत्वान्न दोषः ।
 एकमनोभेदस्य सर्वमनस्स्वभावादिति वाच्यम् ।
 तादृशभेदप्रतियोगिन्यनैकान्त्यात् ।
 साध्ये साक्षात्पदवैयर्थ्यप्रसङ्गाच्च ।
 मनस्त्वावान्तरजातिमत्प्रयोगिकैकभेदस्य सर्वमनस्स्वभावादेव सिद्धसाधनानवकाशात् ।
 यत्तु द्रव्यत्वव्याप्यद्रव्यत्ववद्गगनादिभेदमादाय सिद्धसाधनवारणाय साक्षात्पदम् ।
 द्रव्यत्वस्य च द्रव्यत्वव्याप्याव्याप्यत्वाभावान्न दोष इति ।
 तन्न ।
 द्रव्यत्वसाधारणद्रव्यत्वव्याप्यत्वविवक्षायां द्रव्यत्वव्याप्याव्याप्यत्वे सति द्रव्यत्वव्याप्यजात्यप्रसिद्ध्या साध्याप्रसिद्धेः ।
 यदप्यात्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वसिद्ध्यर्थं साक्षात्पदमिति ॥ तदपि न ।
 तत्सिद्धेः प्रकृतानुपयुक्तत्वात् ।
 तस्मात्तादृशजात्यवच्छिन्नप्रतियोगिताकभेद एव साध्यः ।
 सर्वपदं त्ववच्छेदकावच्छेदेन साधनस्यापि साधुत्वज्ञापानर्थम् ।

पृथिव्यादिव्यतिरिक्तत्वमादाय सिद्धसाधनवारणाय स्पर्शानधिकरणेति ।
 जातिगुणादिव्यतिरिक्तत्वेन सिद्धार्थतानिरासाय द्रव्यत्वव्याप्यजातिमदिति ।
 मनस्त्वावान्तरचित्तत्वादिजातिमद्व्यतिरिक्तत्वमादाय तद्दोषभङ्गाय साक्षात्पदम् ।
 एतत्सूचनार्थं सर्वाणि मनांसीत्युक्तम् ।
 चित्तादिभेदेन नानाजातीयानीत्यर्थः ।
 तेन मनस्त्वावान्तरजातेरप्रामाणिकत्वात् साक्षात्पदवैयर्थ्यमिति शङ्कानवकाशः ।
 यद्यप्यत्रात्मपृथिव्यादिसाधारणजात्यन्तरसिद्ध्याऽर्थान्तरसम्भवः ।
 तथापि स्पर्शानधिकरणेत्यनेन स्पर्शासमानाधिकरणत्वस्य जातौ विवक्षितत्वान्न दोषः ।
 पृथिवीत्वादिकं द्रव्यत्वसाक्षाद्व्याप्यं, द्रव्यविभाजकजातित्वात् मनस्त्ववदित्यनुमानविरोधेन तादृशजात्यन्तरासिद्धेश्च ।
 आत्माकाशादिमात्रसाधारणजात्यन्तरसिद्धिस्तु प्रागेव दूषितेति ।
 नन्वेवमपि स्वाभाविकदिग्भेदवादिनां मते दिक्त्वजातिमद्व्यतिरिक्तत्वमादाय सिद्धसाधनमत आह - दिग्भेदवादिनामिति ॥ अत्र द्रव्यपक्षकानुमाने ।
 उपलक्षणमेतत् ।
 द्रव्यत्वादिपक्षकोक्तानुमानेष्वपि दिक्त्वेतरत्वग्रहणं कार्यम् ।

॥ सर्वा पृथिवीति ॥ जलतेजोवायुमनसां त्वप्रत्ययेनान्वयः ।
 अन्यत्पूर्ववत् ।
 अनयैव रीत्या प्रत्येकं जलादिपक्षकानुमानान्यूह्यानि ।
 एवं पृथिव्यादिद्रव्याणि आत्मवृत्तिजातिमद्व्यतिरिक्तानि अनात्मत्वात् गुणादिवदित्यनुमानं बोध्यम् ।

॥ सत्तेति ॥ अत्र दृष्टान्ते सत्तान्यत्वमादाय पक्षे चात्मत्वान्यत्वमादाय साध्यसत्त्वं द्रष्टव्यम् ।
 द्रव्यत्वपृथिवीत्वादिभेदमादाय सिद्धसाधनवारणाय द्रव्यत्वान्यत्वात्मनिष्ठत्वयोः जातौ, जातेश्च गुणभेदमादाय तद्दोषनिरासाय निवेशः ।
 यद्यप्यात्मत्वसिद्धेः प्रागात्मनिष्ठत्वस्य निवेशासम्भवः ।
 जातिं विना व्यक्तिभानायोगात् ।
 तथापि तद्व्यक्तित्वेनाष्टद्रव्यान्यद्रव्यत्वेन वा तन्निवेशान्न दोषः ।
 न चैवमप्यात्मपृथिव्युभयानुगतजात्यन्तरसिद्ध्याऽर्थान्तरमिति वाच्यम् ।
 तस्य विनिगमनाविरहेण यावद्द्रव्यवृत्तित्वे तुल्यव्यक्तिकतया द्रव्यत्वानतिरेकात् ।
 एतेन द्रव्यत्वं वेत्यादिकं व्याख्यातप्रायम् ।

॥ आत्मेति ॥ जीवात्मेत्यर्थः ।
 तेन नेश्वरे भागासिद्धिः ।
 अत्र द्रव्यत्वादिजात्या सिद्धार्थतावारणाय द्रव्यत्वव्याप्येत्युक्तार्थकम् ।
 एकत्वादिना तद्दोषवारणाय जातीति ।
 गगनादौ व्यभिचारवारणायाविभ्विति ।
 विभुत्वं च सर्वमूर्तसंयोगित्वं परममहत्त्ववत्त्वं वा ।
 तच्छून्यत्वरूपाविभुत्वस्य गुणादावनैकान्त्यात् द्रव्येति ।
 एतादृशहेतोरसिद्धिपरिहारायैवात्माणुत्ववादिनामित्युक्तम् ।
 नत्वात्मविभुत्वपक्षे हेत्वन्तरासम्भवात् ।
 प्रत्यक्षद्रव्यत्वादेर्हेतुत्वसम्भवात् ।
 एवं पटो पटात्मान्यतरवृत्तिजातिशून्यो मेयत्वाद्धटवत् ।
 सत्ताद्रव्यत्वाभ्यामनेन ज्ञायमानमिदमिदानीमात्मवृत्तिजात्या न ज्ञायते, वस्तुत्वाद्वस्त्वन्तरवदित्यादिकमात्मत्वजातिसाधकमनुमानं द्रष्टव्यम् ॥ द्रव्यत्वव्याप्यजातीति ॥ तादृशजात्यन्तरविशिष्टदशमद्रव्यसिद्ध्या पृथिवीत्वादिपक्षकानुमानेष्वर्थान्तरमित्यर्थः ॥ गौरवादिति ॥ धर्मधर्म्युभयकल्पनातो धर्ममात्रकल्पनाया लघुत्वादिति भावः ।
 न चैकव्यक्तौ जातिकल्पनायोगाद्व्यक्त्यन्तरकल्पनमावश्यकमेवेति वाच्यम् ।
 अक्लृप्तानेकव्यक्तिकल्पनापेक्षया क्लृप्तव्यक्त्यन्तर्भावेन जातिकल्पने लाघवानपायात् ।

(20) (श.) ॥ सत्तेति ॥ सत्ताजातिसाक्षाद्व्याप्यजातित्वादित्यर्थः ।
 दृष्टान्ते रूपत्वव्यापकत्वेन साध्यपर्यवसानम् ।
 साध्ये जातिं प्रति व्यापकमित्येवोक्ते घटत्वं प्रति व्यापकत्वसिद्ध्याऽर्थान्तरत्वम् अत उक्तं साक्षादिति ॥ साक्षाद्व्यापकत्वं च तद्व्यापकाव्यापकत्वे सति तद्व्यापकत्वम् ।
 द्रव्यत्वस्य घटत्वव्यापकपृथिवीत्वव्यापकत्वेन तद्व्यापकाव्यापकत्वाभावेन साक्षाद्व्यापकत्वाभावान्न दोषः ।
 जातिं प्रति साक्षाद्व्यापकमित्युक्ते पृथिवित्वादिपञ्चकं प्रति साक्षाद्व्यापकत्वादर्थान्तरम् ।
 अतः पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरेति ।
 अतः सर्वं सार्थकम् ।
 अत्रापि पूर्वोक्तरीत्या द्रव्यत्वस्य साक्षाद्व्यापकत्वाभावान्न द्रव्यत्वमादायार्थान्तरं शङ्क्यम् ।
 साधने जातित्वादित्युक्ते व्याप्यजातित्वादित्युक्ते सत्ताव्याप्यजातित्वादित्युक्ते च घटत्वे व्यभिचारः ।
 तस्य व्याप्यजातित्वेन व्यापकत्वरूपसाध्याभावात् ।
 अतः साक्षादिति ।
 घटत्वं तु पृथिवीत्वद्रव्यत्वद्वारा सत्ताव्याप्यमिति न दोष इति ध्येयम् ॥ स्पर्शानधिकरणेति ॥ स्पर्शानधिकरणं यद्द्रव्यत्वसाक्षाद्व्याप्यजातिमत्तद्व्यतिरिक्तानीत्यर्थः ।
 दृष्टान्ते तादृशजातिमन्मनोव्यतिरिक्तत्वेन साध्यपर्यवसानं पक्षे सर्वपदपरित्यागे यत्किञ्चिन्मनसां पक्षत्वापत्त्या तत्र स्पर्शानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्यन्मनस्तद्व्यतिरिक्तत्वसिद्व्यार्थान्तरम् ।
 अतः सर्वाणीति ।
 साध्ये जातिमद्व्यतिरिक्तानीत्युक्ते सत्ताजातिमत्कर्मव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् ।
 अतो व्याप्येति ।
 व्याप्यजातिमद्व्यतिरिक्तानीत्युक्ते सत्ताव्याप्यकर्मत्वजातिमत्कर्मव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरमतो द्रव्यत्वेति ।
 द्रव्यत्वव्याप्यजातिमद्व्यतिरिक्तानीत्युक्ते उक्तरीत्या द्रव्यत्वव्याप्यद्रव्यत्वजातिमद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरमतः साक्षादिति ।
 द्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तानीत्युक्ते द्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वादिजातिमत्पृथिव्यादिचतुष्टयव्यतिरिक्तत्वसिद्ध्या अर्थान्तरम् ।
 अतः स्पर्शानधिकरणेति ।
 पृथिव्यादिचतुष्टयस्य स्पर्शाधिकरणत्वान्न दोषः ।
 ननु पृथिवीत्वपक्षकानुमाने जलत्वादिचतुष्टयेतरजातिर्दिक्त्वं तद्भिन्नत्वसिद्ध्याऽर्थान्तरम् ।
 एवं जलत्वादिचतुष्टयपक्षकानुमानेष्वपि ।
 तथा द्रव्यत्वपक्षके पृथिवीत्वादिपञ्चकेतरदिक्त्वजातिं प्रति साक्षाद्व्यापकत्वसिद्व्याऽर्थान्तरम् ।
 तथा मनःपक्षकानुमाने स्पर्शानधिकरणद्रव्यत्वसाक्षाद्व्याप्यदिक्त्वजातिमद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् ।
तथा वक्ष्यमाणे पृथिवीपक्षकानुमाने जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणद्रव्यत्वसाक्षाद्व्याप्यदिक्त्वजातिमद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् ।
 नच दिश एकत्वेन व्यक्त्यभेदाद्दिक्त्वं जातिरेव न भवतीति वाच्यम् ।
 यन्मते दिशि स्वाभाविकभेदोऽङ्गीक्रियते तन्मतेऽर्थान्तरापरिहारादित्यत आह - दिग्भेदवादिनामिति ॥ अत्र मनःपक्षकानुमाने स्पर्शानधिकरणदिक्त्वानधिकरणेति कर्तव्यम् ।
 सर्वत्र पृथिवीत्वपक्षकानुमाने मनस्त्वदिक्त्वेतरेति कर्तव्यम् ।
 द्रव्यत्वपक्षकानुमाने मनस्त्वदिकत्वेतरजातिं प्रतीति कार्यम् ।
 वक्ष्यमाणे पृथिवीपक्षकानुमाने मनस्त्वदिक्त्वानधिकरणेति कर्तव्यमित्यर्थः ॥ जलत्वेति ॥ जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणं यद्द्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तेत्यर्थः ।
 दृष्टान्ते तादृशजातिमत्पृथिवीव्यतिरिक्तत्वेन साध्यपर्यवसानम् ।
 अत्र पृथिवीत्येव पक्षनिर्देशे यत्किञ्चित्पृथिव्याः पक्षत्वापत्त्या तत्र जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणद्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वजातिमत्पृथिव्यन्तरव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् अतः सर्वेति ।
 साध्ये द्रव्यत्वेत्यादेर्मनःपक्षकानुमानोक्तकृत्यमेव द्रष्टव्यम् ।
 द्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तेत्युक्ते द्रव्यत्वसाक्षाद्व्याप्यजलत्वादिचतुष्टयवद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् अतो जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणेति ॥ द्रव्यत्वेति ॥ द्रव्यत्वान्या याऽऽत्मनिष्ठा जातिस्तदन्येत्यर्थः ।
 दृष्टान्ते सत्तान्यत्वेन साध्यपर्यवसानम् ।
 साध्ये जात्यन्येत्येवोक्ते घटत्वजात्यन्यत्वसिद्ध्याऽर्थान्तरम् ।
 अत आत्मनिष्ठेति ।
 आत्मनिष्ठजात्यन्येत्येवोक्ते द्रव्यत्वजात्यन्यत्वसिद्ध्याऽर्थान्तरम् ।
 अतो द्रव्यत्वान्येति ।
 द्रव्यत्वान्यजात्यन्येत्युक्तघटत्वान्यत्वमादायार्थान्तरम् ।
 अत आत्मनिष्ठेति ।
 द्रव्यत्वान्यात्मनिष्ठान्येत्युक्ते सुखान्यत्वसिद्ध्याऽर्थान्तरम् ।
 अतो जातीति ॥ द्रव्यत्वमिति ॥ अत्र दृष्टान्ते द्रव्यत्वान्यत्वेन साध्यपर्यवसानम् ।
 साध्ये आत्मनिष्ठजात्यन्यदित्युक्ते सत्तान्यतासिद्ध्याऽर्थान्तरम् अतस्सत्तान्येति ।
 जातिपदकृत्यन्तु विशिष्टसत्तापक्षकानुमानवद्द्रष्टव्यम् ।
 आत्मनो व्याप्तत्वाद्विशेषणासिद्धिरित्यत उक्तम् आत्माणुत्ववादिनामिति ।
 मत इति शेषः ।
 साध्ये जात्यधिकरणत्वसिद्ध्याऽर्थान्तरमतो द्रव्यत्वव्याप्येति ।
 हेतौ द्रव्यत्वादित्युक्ते गगने द्रव्यत्वं वर्तते द्रव्यत्वव्याप्यजात्यधिकरणत्वाभावाद्व्यभिचारः ।
 अतोऽविभ्विति ।
 अविभुत्वादित्युक्ते गुणे अतो द्रव्यत्वेति ।
 उपन्यस्तानुमानानां कुत्रोपयोग इत्यत आह - इत्यादीति ॥

(21) न चात्र द्रव्यत्वव्याप्यजातिमत्पदार्थान्तरसिद्ध्याऽर्थान्तरत्वम् ।
 क्लृप्ते धर्मिणि धर्मविशेषसाधनमात्रेणानुमानपर्यवसानसम्भवे तद्विशिष्टे धर्मिण्यनुमानपर्यवसाने गौरवात् ।
 न चात्मनो द्रव्यत्वासिद्ध्याऽसिद्ध्यादिः ।
 आत्मनि निर्गुणे रूपादिगुणाभावेऽप्ययावद्द्रव्यभाविनां द्वित्वादिगुणानां व्यावहारिकाणामङ्गीकारे बाधकाभावात् ।
 गुणाद्यन्तर्भावप्रसङ्गाच्च द्रव्यत्वसिद्धेः(सिद्धिः) ।
 न चानुकूलतर्काभावादप्रयोजकत्वाभाससमानयोगक्षेमत्वे ।
 आत्मपदप्रवृत्तिनिमित्तस्य आत्मत्वस्य जातित्वाङ्गीकारे लाघवम् ।
 औपाधिकत्वे तु (औपाधिकधर्मत्वाङ्गीकारे तु ) तस्योपाधिज्ञानसापेक्षत्वेन गौरवमित्यनुकूलतर्कसनाथत्वात्(तर्करक्षकोपेतत्वात्) ।
 तुल्यव्यक्तिकत्वादीनां च बाधकानामभावात् ।

(21) (भ.) ॥ न चात्रेति ॥ मनःपक्षकानुमाने पृथिवीपक्षकानुमाने चेत्यर्थः ॥ जातिमत्पदार्थान्तरेति ॥ आत्मत्वातिरिक्तजातिमद्दृष्टान्ते साध्यवैकल्यम् ।
 तद्यदात्मातिरिक्तपदार्थान्तरं तत्सिद्ध्येत्यर्थः ॥ क्लृप्ते धर्मिणीति ।
 नवद्रव्यपतितेऽत्रात्माख्ये धर्मिणि द्रव्यत्वसाक्षाद्व्याप्यजातिविशेषरूपधर्मसाधनमात्रेणेत्यर्थः ॥ न च द्रव्यत्वासिद्ध्येति ॥ आत्मनो निर्गुणत्वाद्गुणवत्वाधीनं द्रव्यत्वं कथं तस्योपपद्येतेति भावः ॥ असिद्ध्यादिरिति ॥ आत्मपक्षकानुमानेऽसिद्धिः सत्तापक्षकानुमाने साध्ये द्रव्यत्वान्येति विशेषणवैयर्थ्यं द्रव्यत्वपक्षकानुमानेऽतिरिक्तसर्वानुमानेष्वपि बाध इत्यर्थः ॥ रूपादिगुणाभावेऽपीति ।
 रूपादिगुणानां पटादिषु स्वरूपानुबन्धित्वदर्शनेन यावद्द्रव्यभावितयाऽऽत्मनि तदङ्गीकारे आत्मवत्पारमार्थिकत्वापत्त्या निर्गुणत्वश्रुतिव्याकोपापातेन तेषामनङ्गीकार्यत्वादिति भावः ।
 द्वित्वादीत्यादिपदेन त्रित्वादीनां ग्रहणम् ।
 तेषामपेक्षाबुद्धिजन्यत्वेन तद्विनाशे विनाशादयावद्द्रव्यभावित्वमुपपन्नमिति भावः ।
 अयावद्द्रव्यभाविनामपि पारमार्थिकत्वे पुनर्निर्गुणत्वश्रुतिविरोध इत्यत उक्तं व्यावहारिकाणामिति ॥ बाधकाभावादिति ॥ निर्गुणत्वश्रुतिस्तु पारमार्थिकगुणाभावमात्रविषयिणीति भावः ॥ गुणाद्यन्तर्भावप्रसङ्गाच्चेति ॥ आत्मनः पदार्थत्वने द्रव्यत्वानङ्गीकारे गुणाद्यन्तर्भावः स्यात् ।
 स च न युक्तः ।
 न तावद्गुणेऽन्तर्भावः ।
 जात्याश्रयत्वानङ्गीकारात् ।
 नापि कर्मणि ।
 संयोगविभागौ प्रत्यसमवायिकारणत्वाभावात् ।
 नापि सामान्ये ।
 अनेकसमवेतत्वाभावात् ।
 न च समवाये ।
 असम्बन्धरूपत्वात् ।
 नापि च विशेषे ।
 नित्यद्रव्याश्रितत्वाभावात् ।
 नाप्यभावे ।
 प्रतियोग्यनिरूप्यत्वात् ।
 अतो द्रव्यत्वसिद्धिरिति भावः ।
 नन्वेतेष्वनुमानेष्वप्रयोजकत्वशङ्कायां न किञ्चिद्बाधकमस्ति ।
 जलत्वतेजस्त्वसमकक्षतयाऽऽत्मत्वमपि निवेश्य तदितरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नत्वस्यापि साधयितुं शक्यत्वेनाकाशत्वादेरपि जातित्वसिद्धिप्रसङ्गेनाभाससाम्यं चेत्याशङ्क्य निराकरोति ॥ न चेति ।
 अत्र योगो नाम व्याप्त्यादिसम्पत्तिः ।
 क्षेमस्तु प्रमाणबाध इति ज्ञेयम् ॥ आत्मपदप्रवृत्तिनिमित्तस्येति ॥ अयमाशयः ।
 आत्मत्वरूपधर्म एव नास्तीति तावद्वक्तुं न शक्यम् ।
 तथा सति प्रवृत्तिनिमित्ताभावेनात्मन्यात्मशब्दप्रयोग एव न स्यात् ।
 स च जातिर्नचेन्निर्वक्तव्यः ।
 न च स्वप्रकाशत्वमेवात्मत्वमिति वाच्यम् ।
 परमते परावेद्यत्वमेव स्वप्रकाशत्वमित्यङ्गीकारात्स्वप्रकाशत्वस्यैवाधिकधर्मत्वप्राप्त्यापररूपोपाधिज्ञानसापेक्षत्वेन गौरवापातात् ।
 जातित्वाङ्गीकारे तु लाघवम् ।
 तस्या अखण्डत्वेनान्यानपेक्षणात् ।
 तथा च गौरवापत्तिरूपानुकूलतर्कोपोद्बलितत्वेनानुमानानां नाप्रयोजकत्वादीति ।
 ननु सबाधकं लाघवमात्रमकिञ्चित्करम् अन्यथा गगनपदप्रवृत्तिनिमित्तस्य गगनत्वस्यापि जातित्वं स्यादित्यत आह - तुल्यव्यक्तित्वादीनामिति ॥ आत्मत्वस्य जातित्वाङ्गीकार इति वर्तते ।
 `व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।
 रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रह' इति वचनाद्व्यक्त्यभेदादीनि षड् जातिबाधकानि ।
 तत्र तावत्तुल्यत्वादीनि पञ्चबाधकान्यात्मत्वस्य जातित्वाङ्गीकारे न सन्ति ।
 तथा हि ।
 तुल्यत्वं नाम तुल्यव्यक्तिकत्वम् ।
 तुल्यदेशवृत्तित्वमिति यावत् ।
 तथा च घटत्वाश्रयघटमात्रवृत्तित्वात्करीरत्वस्य न जातित्वम् ।
 परस्पपरिहारेण वर्तमानयोरेकत्र समावेशः सङ्करः ।
 यथा भूतत्वमूर्तत्वयोः ।
 भूतत्वं गगनेऽस्ति न मूर्तत्वम् ।
 मूर्तत्वं च मनस्यस्ति न भूतत्वम् ।
 तयोश्च पृथिव्यादिभूतचतुष्टये समावेशः ।
 अतो न ते जाती ।
 घटत्वे पुनः सत्ताजात्यङ्गीकारे तत्रापि पुनः सत्ताजात्यङ्गीकारप्रसङ्गादनवस्थितेर्जातौ न जातिरङ्गीकार्या ।
 विशेषेषु विशेषत्वरूपजात्यङ्गीकारे रूपहानिर्बाधिका ।
 रूपहानिर्नाम स्वभावहानिः ।
 परमाणुगतविशेषाणां च परमाणुष्वन्योन्यव्यावृत्तिधीहेतुत्वरूपमन्त्यव्यावर्तकत्वस्य भावः ।
 आत्यन्तिकत्वं च कदाऽपि संशयाद्यहेतुत्वम् ।
 अत एव परमाणुप्रत्यक्षवतां योगिनां तत्तद्गतविशेषदर्शिनां कदाऽपि परमाणुषु संशयविपर्ययौ न जायेते ।
 यदि विशेषेष्वपि विशेषत्वजातिः स्यात् तर्हि सर्वेषां विशेषाणां विशेषत्वरूपसमानधर्माक्रान्तत्वेन घटादिष्विव कदाचित्संशयादिसम्भवेन तदाश्रयपरमाणुष्वपि संशयादिप्राप्तौ तेषामुक्तस्वभावहानिः स्यात् ।
 अतो न विशेषेषु जातिरिति ॥ समवाये समवायत्वजात्यङ्गीकारेऽसम्बन्धो बाधकः ।
 यदि समवाये जात्यङ्गीक्रियेत तर्हि जातिव्यक्त्योः समवायनियमात्समवाये पुनः समवायान्तरमङ्गीकरणीयम् ।
 समवायश्चैक एव ।
 अतः समवाये समवायाभ्युपगमे आत्माश्रयापत्त्या न समवायत्वं समवाये जातिरिति ॥ तथा चात्मत्वस्य जातित्ङ्गीकारे न तावत्तुल्यव्यक्तित्वं बाधकम् ।
 आत्मन्यात्मत्वसमनियतधर्मान्तराभावात् ।
 सद्भावे वा तस्यैव जातित्वापातात् ।
 नापि सङ्करः ।
 आत्मत्वस्यात्ममात्रवृत्तित्वात् ।
 नाप्यनवस्थितिः ।
 तदभावात् ।
 नापि रूपहानिः ।
 आत्मस्वभावस्य कस्याप्यनपायात् ।
 नाप्यसम्बन्धः ।
 समवायसम्भवादिति भावः ।

(21) (मु.) अन्तिमत्रयव्यतिरिक्तानुमानानामात्मनो जातिमत्त्व इव जातिमद्दशमद्रव्यसिद्धौ पर्यवसानं किन्न स्यादित्यत आह - न चात्रेति ॥ अन्तिमत्रयव्यतिरिक्तानुमानेष्वित्यर्थः ॥ असिद्ध्यादिरिति ॥ आत्मनो निर्गुणस्येत्याद्युक्तदिशाऽन्त्यानुमानेऽसिद्धिः ।
 अत एवोपान्ते सत्ताद्रव्यत्वरूपात्मनिष्ठजात्यन्यत्वेन दृष्टान्ते साध्यस्य वक्तव्यत्वेन द्रव्यत्वस्यात्मन्यभावे साध्यवैकल्यं चेत्यर्थः ॥ अयावद्द्रव्येति ॥ यावद्द्रव्यभाविगुणाङ्गीकारेऽस्य तु कदाऽप्यनिवृत्त्या निर्गुणत्वभङ्गः स्यात् ।
 उक्तगुणाङ्गीकारे तूत्तरत्र भाविनिर्गुणत्वविरोधादिति भावः ।
 द्रव्यत्वानङ्गीकारे बाधकं चाह - गुणानामिति ॥ अद्रव्यत्वे गुणाद्यन्यतमत्वं स्यात् ।
 अन्यथाऽपदार्थत्वापत्तिरिति ॥ ननु द्रव्यादिषट्कातिरिक्तत्वेऽपि पदार्थत्वमङ्गीक्रियते को दोष इति चेत् ।
 तर्हि गुणादिपञ्चकभिन्नत्वमेव द्रव्यत्वं विवक्षितमिति कथमसिद्ध्यादिः ॥ अप्रयोजकत्वाभाससमानयोगक्षेमत्व इति ॥ अन्यत्र सहचारसम्भवेऽपि पक्षे व्यभिचारसम्भवादप्रयोजकत्वम् ।
 न च हेतुमति साध्याभावेनोपाधिसहचारभङ्गेनानुमानमात्रोच्छेदः स्यादिति तर्कोऽस्तीति वाच्यम् ।
 व्यभिचारोच्छेदकस्य व्यभिचारेऽवश्यमुपाधिरित्यनौपाधिकत्वस्यासम्मतेः ।
 न चोपाधिर्न दृश्यत इति वाच्यम् ।
 बाधकाभावे पक्षेतरत्वादीनामपि तथात्वात् ।
 किञ्चाद्यानुमाने जलादीतरेति वदात्मत्वेतरेत्यपि प्रवेशे जातिमद्दशमद्रव्यस्याप्यापत्तिः ।
 तत्रानधिकरणत्वस्यापि प्रवेशे पुनर्द्रव्यान्तरसिद्ध्यापत्तिः ।
 तथाऽऽकाशादीनामपि जातिमत्वं सुसाध्यम् ।
 तथा मनोव्यतिरिक्तपक्षकेष्वनित्यसमानाधिकरणे जातिविशेषणे आत्मानित्यत्वं स्यादित्याभाससाम्यं चेत्यर्थः ॥ लाघवमिति ॥ जात्युपाध्योर्जातिर्बलीयसीति न्यायादिति भावः ॥ उपाधीति ।
 बुद्धिगुणकत्वस्वप्रकाशत्वाद्युपाध्यधीनेति भावः ।
 यद्यप्युक्तोपाधिनैवानुगतप्रतीत्युपपत्तावनौपाधिकत्वाङ्गीकारो व्यर्थः ।
 तथाऽप्यखण्डव्यवहारसिद्ध्यर्थं पराङ्गीकृतानुवादोऽयमिति ज्ञातव्यम् ।
 इदं गौरवं न फलमुखं येन दोषः स्यात्किन्तु कारणमुखमिति दर्शयितुमादावात्मपदप्रवृत्तिनिमित्तस्येत्युक्तम् ।
 ननु व्यक्तिबहुत्वनिश्चय एव जात्युपाध्योरिति न्यायावतारिका ।
 इह तु तत्सन्देहात्कालपर्यन्तत्वेन जातित्वमेव गुर्विति चेन्न ।
 व्यक्तिभेदस्य प्रत्यक्षसिद्धत्वेनाकल्पनात् ।
 प्रत्युतौपाधिकत्वकल्पनस्यैव व्यक्तिभेदग्राहकप्रत्यक्षाद्यप्रामाण्यकल्पनपर्यन्तत्वेन ततोऽतिगौरवमिति ॥ एवञ्च यद्यात्मत्वं न जातिस्तर्हि कल्पनागौरवमिति तर्कसत्त्वान्न दोषः ।

(21) (कु.) ॥ असिद्ध्यादिरिति ॥ अव्यवहितानुमाने स्वरूपासिद्धिः सत्तापक्षकानुमाने साध्ये विशेषणवैयर्थ्यं कतिपयेषु बाध इति भावः ॥ बाधकाभावादिति ॥ तथा च गुणाश्रयत्वरूपव्यापकनिवृत्त्यभावान्न द्रव्यत्वासिद्धिरिति भावः ॥ गुणाद्यन्तर्भावेति ॥ आत्मनो व्यावहारिकद्वित्वादिगुणानाश्रयत्वे सत्ताश्रयत्वे कर्मणो व्यतिरिक्तत्वेन जातिमात्राश्रयो गुण इति गुणलक्षणाक्रान्तत्वाद्गुणान्तर्भावः स्यात् ।
 सत्तानाश्रयत्वेत्वभावान्तर्भावप्रसङ्गात् ।
 द्वित्वादिगुणाश्रयत्वमङ्गीकार्यम् ।
 ततश्च द्रव्यत्वसिद्धिरिति भावः ॥ न चानुकूलतर्काभावादिति ॥ पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वात्मत्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नजातित्वाज्जलत्ववदिति ॥ सत्ता द्रव्यत्वान्याकाशनिष्ठजात्यन्येत्याभाससमानयोगक्षेमत्वमित्यर्थः ।
 ननु सबाधकं लाघमवकिञ्चित्करम् ।
 अन्यथा गगनपदप्रवृत्तिनिमित्तं गगनत्वमपि जातिः स्यादित्यत आह - तुल्यव्यक्तिकत्वादीनामिति ।

(21) (हु.) ॥ न चेति (* `न चात्रेति') ॥ पदार्थान्तरेति ॥ आत्मसहितनवद्रव्यातिरिक्तेत्यर्थः ॥ क्लृप्ते धर्मिणीति ।
 सर्वप्रत्यक्षसिद्धात्मस्वेव तज्जातिकल्पने लाघवम् ।
 अन्यथा धर्मधर्मिणोरुभयोः कल्पने गौरवं स्यादित्यर्थः ।
 ननु तर्हि क्लृप्तेषु गगनादिष्वेव तत्सिध्येत् ।
 न च तेषां धर्मिग्राहकप्रमाणेनैकत्वेनैव सिद्धत्वाज्जातिकल्पनाऽयुक्तेति वक्ष्यतीति वाच्यम् ।
 तादृशयुक्त्यैकैकगगनादौ तादृशजातिसिद्ध्यभावेऽप्याकाशकालदिक्षु वा विनिगमकाभावानु (* `विनिगमकाभावात् ।
' मु.)सन्धानेऽप्यात्मसाहित्येन वा तेषु जात्यङ्गीकारसम्भवात् ।
 आत्मभेदासिद्ध्याऽर्थान्तरतेति चेन्न ।
 सन्दिग्ध एव न्यायप्रवृत्तिर्न तु बाधित इति न्यायात् ।
 गगनकालदिक्षु द्रव्यत्वसाक्षाद्व्याप्यजातेरभावस्यैव निश्चिततया तत्र विवादाभावेन बाधितार्थान्विहायान्यसन्दिग्धात्मस्वेव जातिसिद्धेः ।
 अत एव सर्वाणि मनांसीत्याद्यनुमितिविषयसाध्यसत्त्वनिर्वाहाय केषुचिन्मनस्स्वेक(का )द्रव्यत्वसाक्षाद्व्याप्या जातिरेकाऽपरमनस्स्वेका तादृशी जातिर्मनस्त्वाख्यैका तदुभयव्यापि(काता) माऽस्त्वेव (* `अस्त्वेवं' मु.) ।
 पक्षता तु सर्वमनसां मनःपदार्थत्वेनास्तु ।
 साध्यीभूतभेदद्वयस्यैव तादृशसाध्यतावच्छेदकरूपेण पक्षतावच्छेदकव्यापकत्वादवच्छेदकावच्छेदेन साध्यसिद्धेरपि नानुपपत्तिः ।
 अत आत्मत्वासिद्ध्याऽर्थान्तरतेति शङ्काऽपि निरस्ता ।
 निष्प्रामाणिकजातिद्वयाङ्गीकारे गौरवाज्जातिचतुष्टयाङ्गीकारस्यापि सम्भवादतिप्रसक्तेश्च ।
 तादृशजातिद्वयाद्यभावेन मनस्त्वरूपसाक्षाद्व्याप्यजातिमङ्गीकृत्यैव तस्य पक्षतावच्छेदकत्वेनोपादानात्तत्रैतच्छङ्कनस्यैव साहसिकत्वात् ।
 गगनादावपि बाधितत्वाभावात्तत्र जातिसिद्ध्याऽर्थान्तरतेत्याग्रहश्चेत् ।
 साध्यशरीरे पूर्वतरानुमानेषु सर्वेषु द्रव्यत्वसाक्षाद्व्याप्यजातौ शब्दान्यविशेषगुणशून्यमहदवृत्तित्वविशेषणं देयमतो नार्थान्तरताप्रसक्तिरिति द्रष्टव्यम् ।
 न च द्रव्यत्वेत्यविभुद्रव्यत्वादित्यनुमता(मना)भिप्रायेणासिद्ध्युद्भावनमितरानुमानाभिप्रायेण त्वादीति ।
 आत्मन्यपि द्रव्यत्वसाक्षाद्व्याप्यजातेर्व्यापकद्रव्यत्वाभावेन बो(बा)धितत्वग्रहात्तादृशानुमानबलादात्मातिरिक्ते तादृशजातिमद्द्रव्यान्तरमेव सिद्ध्येदित्यर्थान्तरता ।
 द्रव्यान्तरस्याप्यभावनिश्चये (* `-निश्चयेन पक्षे साध्याभावनिश्चयेन' मु.) बाधो वेत्येतदुभयमादिपदार्थतया बोध्यम् ।
 आत्मनि व्यापकीभूतद्रव्यत्वाभावसिद्धौ बीजाभावः ।
 निर्बीजशङ्कायाः पर्यवसानाभावेन तादृशशङ्कस्य कथकताया एवाभावात् ।
 न च द्रव्यत्वलक्षणत्वेन (* `द्रव्यलक्षणेन' हु.) द्रव्यत्वं प्रति व्यापकीभूतगुणाभावादेव तत्सिद्धिः ।
 तत्रैव बीजाभावात् ।
 नन्वात्मनि तत्तद्गुणाभावसिद्ध्या गुणसामान्याभावसिद्धिः ।
 ज्ञानेच्छादीनां भवतो मनःपरिणततया मनोगुणत्वाङ्गीकारात् ।
 अनुद्भूतरूपादिसत्त्वे मानाभावः ।
 उद्भूतरूपादिसत्त्वे महत आत्मनश्चाक्षुषाद्यापत्तेः ।
 महत्त्वानङ्गीकारेण तदापत्तिवारणे तत्र तच्छब्दाभाव (* `तत्सद्भावे' हु.) एव मानाभावः ।
 पूर्वमात्मनि रूपं स्थितं तदा चाक्षुषमपि स्थितमिदानीं (* `स्थितमिदानीं' मु.) तन्नाशान्न चाक्षुषत्वमपीत्यसत् ।
 तत्र रूपादिनाशोत्पादस्यैवाभावात् ।
 आत्मनो नित्यत्वेनाश्रयनाशरूपकारणाभावात्तत्र पाकादेरप्रामाणिकत्वात् ।
 तथात्वे रूपान्तरोत्पादावश्यकत्वाच्च ।
 पाकादिरूपकारणासम्भवाच्च ।
 तथैकत्वपरिमाणादिगुणानामपि प्रत्यक्षाद्यविषयत्वेनाप्रामाणिकत्वेनैव तदभावसिद्धेः ।
 तथा च विशेषाभावकूटबलादेव सामान्याभावसिद्धिरिति (* `समाधावसिद्धिरिति' मु) चेन्न ।
 तावताऽपि द्वित्वसंयोगादिसद्भावे द्वा सुपर्णेत्याद्यागमव्यवहारस्य द्वि (*त्व)शब्दपरिषस्वजात इति शब्दबलाच्च सिद्धत्वेनायावद्द्रव्यभावितया तेषामपेक्षाबुद्ध्यन्यदीयक्रियाभिरुत्पत्तिविनाशाङ्गीकारेण द्वित्वसंयोगादिगुणाभावसिद्ध्या विशेषाभावकूटरूपहेतुरसिद्ध एव ।
 अत आत्मनि द्रव्यत्वाभावशङ्कैवात्युक्तेत्याशयेनाह (* `द्रव्यत्वाभावशङ्कैवेत्युक्ततेत्याशयेनाह' मु.) ॥ आत्मनीति ॥ निर्गुण इति ॥ निर्गुणत्वेन श्रौतव्यवहारादिविषयेऽपीत्यर्थः ।
 इदं च निर्गुण इति श्रुतिबलादेव निर्गुणत्वं स्वीक्रियत इति शङ्काद्योतनाय द्वित्वादीनामिति ।
 तथा द्वित्वादिबोधकोक्तश्रुतिसद्भावेन निर्गुणत्वश्रुतेस्सत्प्र (*तत्प्र)तिपक्षतत्वेन न स्वार्थनिर्णायकत्वम् ।
 विचारदशायां तु द्वित्वाद्यङ्गीकारे बाधकाभावेन तच्छ्रुतेः स्वार्थतात्पर्यनिर्णयविषयत्वेन बलवत्याः (*वत्तया) निर्गुणत्वश्रुतेः (*श्रुति)गुणसामान्याभावपरत्वे तद्बाधात् रूपादिरूपगुणाभावपरत्वमिति भावः ।
 ननु नेह नानेति श्रुत्या सर्वस्य निषिद्धत्वात्कथं द्वित्वादिकमात्मन्य (*नाम)ङ्गीकर्तुं शक्यमित्यतो व्यावहारिकाणामिति ।
 पृथिव्यादिष्वपि पारमार्थिकगुणाभावेन व्यावहारिकगुणाश्रयत्वेनैव द्रव्यत्वस्यैवात्रापि द्रव्यत्वस्यावश्यकत्वमिति भावः ॥ गुणाद्यन्तर्भावेति ॥ द्रव्यत्वानङ्गीकार इति शेषः ॥ प्रसङ्गाश्चेति ॥ गुणाद्यन्तर्भावापादकतर्कबलादित्यर्थः ।
 द्रव्यभिन्नत्वे सति पदार्थत्वात् गुणादिवद्गुणाद्यन्यतमत्वापत्तिः ।
 न चेष्टापत्तिः ।
 असमवेतत्वात्सत्प्रतियोगिकत्वाभावाच्च गुणाद्यभावान्तर्भावस्य वक्तुमशक्यत्वात् ।
 तस्मादापाद्याभावाद्विशिष्टापादकाभावो (*पादको)ऽस्त्वित्यापादकाभावसिद्धौ तस्य पदार्थत्वरूपविशेष्याभावेन पर्यवसाने आत्मनोऽलीकत्वाप्राप्त्या (*त्वापत्त्या) विशेषणाभावेन पर्यवसाने द्रव्यत्वसिद्धेरिति भावः ।
 यद्वा निर्गुणत्वप्रतिपादकश्रुतिविषय आत्मनि श्रुतिप्रामाण्याय गुणाभावसत्त्वमपेक्षितम् ।
 तच्च यावद्द्रव्यभाविगुणवति न स्थातुं शक्नोति ।
 अयावद्द्रव्यभाविगुणसत्त्वेऽपि तत्सत्ताकालातिरिक्तकालावच्छेदेन गुणाभावसत्त्वेन श्रुतिप्रामाण्याभावरूपबाधकाभावेन तत्सत्त्वसम्भव इत्यर्थः ।
 सर्वथा तदनङ्गीकारे बाधकमाह - गुणेति ॥ तेषां निर्गुणल(त्व)क्षणत्वादिति भावः ॥ न चानुकूलतर्केत्यादि ॥ आभाससमानेति ॥ आत्मत्वजातिसिद्ध्यनन्तरमपि तद्भिन्नत्वमपि द्रव्यत्वसाक्षाद्व्याप्यजातौ निवेश्य साध्योपादानेन जात्यन्तरादिसाधकानुमानैरात्मा न जातिमान् आत्माभावान्यतरत्वादभाववदित्यादिभिश्च समानयोगक्षेमत्वमित्यर्थः ।
 यद्यप्याभाससाम्यमप्रयोजकतापर्यवसानेनैव दूषणम् ।
 अन्यथा साम्यमात्रसद्भावस्य दूषकत्वे धूमानुमानस्यापि प्रमेयत्वेनाभाससाम्याद्दुष्टत्वापत्तेः ।
 तथाऽपि सुधोक्तरीत्याऽसाधकत्वापादक(त्व)मपि तस्य वर्तत इत्याशयेन पृथगुत्कीर्तनम् ॥ उपाधिज्ञानसापेक्षत्वेनेति ॥ औपाधिकधर्मत्वं नाम नानापदार्थघटितधर्मत्वम् ।
 तज्ज्ञानेन च तद्धटकनानापदार्थज्ञानस्यावश्यकत्वेन तज्ज्ञानाधीनप्रवृत्तिनिमित्तज्ञानाधीनशक्तिज्ञानाङ्गीकारे उपस्थितिगौरवं शक्यतावच्छेदकगौरवं च स्यादित्यनुकूलतर्केणाप्रयोजकत्वशङ्कानिरासादेतेषां साधकत्वमितरेषां पुनरनुकूलतर्काभावात्प्रत्युताप्रामाणिकबहुजातिगौरवमित्यादिप्रतिकूलर्कोत्थानाच्च न साधकत्वमिति भावः ।
 न च तर्हि विभुपदशक्यतावच्छेदकलाधवानुसाराद्विभुत्वजातिरपि सिध्येदुक्तानुमानादिनेति वाच्यम् ।
 केवलानुमानस्याकामगामित्वेन कस्याप्यर्थस्य न साधकत्वं बाधकत्वं च ।
 किन्तु प्रत्यक्षादिसिद्धार्थे सन्देहे युक्तिस्तत्सहायेनार्थसाधिका भवतीति स्वपरयोः सिद्धान्तः ।
 इत्थं चात्मत्वजातेरहमहमित्यादिप्रत्यक्षविषयत्वात्तत्र सन्देहे उक्तानुमानानि तदनुग्राहकतया निर्णायकानि ।
 न च तथा विभुत्वस्थले तस्य प्रत्यक्षवेद्यत्वाभावाच्छक्यतावच्छेदकलाघवमात्रानुसारेण जातिकल्पने नानार्थोच्छेदकप्रसङ्गादित्याशयात् ।
 ननु तर्हि घटं दृष्ट्वा लोकानामयं घट इति करीर इति व्यवहारानुसारात्करीरत्वादिकमिति सिध्येत् ।
 बाधक(साधक)सद्भावात्तेषां जातित्वं नास्तीत्यङ्गीकारे प्रकृतेऽपि तथाऽस्त्वित्याशङ्क्य तुल्यव्यक्तिकत्वस्याबाधकत्वमित्यभिप्रायपूर्वकं (* `-आशङ्कामेकव्यक्तिकत्वस्याबाधकत्वम्-' हु.) निराचष्टे ॥ तुल्येति ।

(21) (का.) मायिनामाशङ्कां मायिरीत्यैव निरस्यति - न चेति ॥ निर्गुणश्रुतिविरोधेनात्मनि गुणवत्त्वासिद्ध्या तद्व्याप्यद्रव्यत्वजातिरप्यसिद्धेत्यर्थः ॥ असिद्ध्यादिरिति ॥ अव्यवहितपूर्वानुमाने स्वरूपासिद्धिर्बाधश्च ।
 तत्पूर्वानुमाने साध्याप्रसिद्धिः ।
 तत्पूर्वानुमाने द्रव्यत्वान्येति विशेषणवैयर्थ्यम् ।
 तत्पूर्वानुमानेष्वात्मनि द्रव्यत्वव्याप्यजातिसिद्धिमादाय साध्यपर्यवसानायोगादुद्देश्यासिद्धिरित्यर्थः ॥ आत्मनीति ॥ अयं भावः ।
 निर्गुणश्रुत्या पारमार्थिकगुणनिषेधेऽपि व्यावहारिकगुणाङ्गीकारे बाधकाभावः ।
 न च गुणानां यावद्द्रव्यभावित्वेन पारमार्थिकत्वापत्तिः ।
 यावद्द्रव्यभाविरूपादिगुणाङ्गीकारायोगेऽप्यपेक्षाबुद्धिजन्यद्वित्वाद्यङ्गीकारे बाधकविरहादिति ।
 नन्वत्र साधकाभाव एव बाधक इत्यत आह - गुणाद्यन्तर्भावेति ॥ अवृत्तित्वेन गुणाद्यनन्तर्भूतस्य परिशेषाद्द्रव्यत्वसिद्धेरित्यर्थः ।
 ननूक्तानुमानेषु हेतुरस्तु साध्यं माऽस्त्वित्यप्रयोजकशङ्कावारकतर्काभावादसाधकत्वम् ।

एवं पृथिवीत्वं जलत्वादिक्लृप्तजातिव्यतिरिक्तद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वात्, सत्ता द्रव्यत्वान्याकाशनिष्ठजात्यन्या जातित्वाद्धटत्ववदित्याद्याभाससाम्यं चेत्याशङ्कां निराह - न चेति ॥ आभाससमानेति ॥ योगक्षेमयोः साधकबाधकभावाभावयोराभाससमानत्वमित्यर्थः ।
 तथाचोक्तानुमानस्याभासत्वादस्याप्यभासत्वमविशेषादिति भावः ।
 आभाससाम्यं विघटयिष्यन्ननुकूलतर्कमुपपादयति - आत्मपदेति ॥ आत्मपदशक्यतावच्छेदकस्येत्यर्थः ॥ लाघवमिति ॥ जातेरखण्डत्वेन विशेषणज्ञानाद्यनपेक्षत्वादिति भावः ॥ औपाधिकत्वेति ॥ विशिष्टधर्मस्वरूपत्वेत्यर्थः ।
 अनेकवस्तुघटितस्वप्रकाशत्वादेरात्मपदप्रवृत्तिनिमित्तत्व इति यावत् ॥ गौरवमिति ॥ यद्यपि स्वप्रकाशत्वादेरात्मपदप्रवृत्तिनिमित्तत्वाभावेऽपि स्वघटकोपाधिज्ञानसापेक्षज्ञानकत्वमस्त्येवेति न लाघवावकाशः ।
 प्रत्युत जात्यन्तरकल्पनादेव गौरवम् ।
 तथाप्यात्मपदशक्तिज्ञानादेरनेकोपाधिज्ञानाधीनत्वकल्पनादनेकोपाध्यन्तर्भावेन शक्यतावच्छेदकत्वकल्पनाच्च गौरवं बोध्यम् ।

एवमात्मत्वजातौ साधकसत्त्वमुपपाद्य बाधकासत्त्वमप्युपपादयति - तुल्यव्यक्तिकत्वादीनामिति ॥ घटत्वकलशत्वयोर्भिन्नजातित्वे जातिसमनैयत्यरूपतुल्यव्यक्तिकत्वं बाधकम् ।
 भूतत्वमूर्तत्वयोर्जातित्वे परस्पराभावसमानाधिकरणत्वे सति परस्परसमानाधिकरणत्वरूपसाङ्कर्यम् ।
 जातेर्जातिमत्त्वे जातिपरम्परया अनवस्था ।
 विशेषस्य जातिमत्त्वे जातेरेव व्यावर्तकतया स्वतोव्यावृत्तत्वरूपतत्स्वरूपस्य, जात्यन्यत्वे जातिशून्यत्वे च सति समवेतत्वरूपतल्लक्षणस्य वा हानिः ।
 अभावस्य जातिमत्त्वे समवायवैधुर्यं बाधकम् ।
 आत्मत्वजात्यङ्गीकारे चैतेषामभावादित्यर्थः ।

(21) (श.) ननूपन्यस्तसर्वानुमानैः पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिसिद्धौ तादृशजातेरात्मत्वानतिरेकात्तस्य जातित्वसिद्धावात्मभेदसिद्धिरिति मतम् ।
 तन्न आत्मान्यतादृशजात्यन्तरविशिष्टदशमद्रव्यसिद्ध्याऽर्थान्तरादित्याशङ्क्य निराकरोति ॥ नचेति ॥ पृथिवीत्वादिपञ्चकान्यद्रव्यत्वसाक्षाद्व्याप्यजातिमदात्मान्यव्यक्तिसिद्ध्याऽर्थान्तरतेत्यर्थः ॥ क्लृप्त इति ॥ आत्मा धर्मी क्लृप्तः तत्रात्मत्वजातिरूपधर्मविशेषानुमानपर्यवसाने लाघवम् ।
 धर्ममात्रस्य कल्प्यत्वात् ।
 कल्प्यविशेषधर्मविशिष्टव्यक्त्यन्तरपर्यवसाने गौरवम् ।
 धर्मधर्मिणोरुभयोरपि कल्प्यत्वात् ।
 धर्मिकल्पनातो वरं धर्मकल्पनमिति न्यायादुक्तरीत्यैव साध्यपर्यवसानमिति भावः ।
 नन्वात्मनि निर्गुणे गुणाश्रयत्वरूपद्रव्यत्वस्य मन्मतेऽसिद्ध्याऽऽत्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यजातित्वासिद्धिः ।
 तथाचानुमानस्य विशेष्यासिद्धिरित्याशङ्क्य निराकरोति ॥ नचेति ॥ व्यावहारिकाणामिति ॥ तथाच `केवलो निर्गुणश्चे'ति श्रुतिः पारमार्थिकगुणनिषेधपरेति भावः ।
 गुणानां त्रिकालाबाध्ययावद्ब्रह्मभावित्वे तेषामपि पारमार्थिकत्वमेवेत्यत उक्तमयावद्द्रव्यभाविनामिति ॥ सत्येवद्रव्येऽपेक्षाबुद्धिनाशेन द्वित्वानाशाद्द्रव्यं यावत्कालं तिष्ठति तावदसतामित्यर्थः ॥ बाधकाभावादिति ॥ त्वत्पक्षेपीति शेषः ॥ गुणादीति ॥ यद्यात्मनो द्रव्यत्वं न स्यात्तदा तस्य गुणादिपदार्थेष्वन्तर्भावः पदार्थान्तरत्वं वा वक्तव्यम् ।
 तत्राद्ये न तावद्गुणेन्तर्भावः द्रव्यासमवेतत्वात् ।
 तत एव न कर्मणि अचलनात्मकत्वाच्च ।
 नापि सामान्ये अनेकानुगतत्वाभावात् ।
 नापि समवाये असम्बन्धरूपत्वात् ।
 नापि विशेषे नित्यद्रव्यानाश्रितत्वात् ।
 नाप्यभावे प्रतियोग्यनिरूप्यत्वादिति ।
 नापि द्वितीयः पदार्थानां सप्तत्वनियमात् ।
 अतः परिशेषाद्द्रव्यत्वसिद्धिरिति भावः ।
 नन्वपिचेत्यादिनोक्तेष्वात्मत्वजातिसाधकेष्वनुमानेषु सर्वत्र हेतुरस्तु साध्यं मास्त्वित्यप्रयोजकताशङ्कायां बाधकतर्काभावादप्रयोजकत्वम् ।
 तथा पृथिवीत्वं जलत्वतेजस्त्ववायुत्वमनस्त्वात्मत्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वादित्याकाशत्वादेर्जातित्वसाधकाभासानुमानसाम्यं चेत्यत आह - नचेति ॥ अप्रयोजकत्वेति ॥ अप्रयोजकत्वं चाभाससमानयोगक्षेमत्वं चेति विग्रहः ।
 योगशब्देन व्याप्त्यादिसाधकसम्पत्तिर्विवक्षिता ।
 क्षेमशब्देन च प्रमाणबाधाद्यभावः ।
 तथाचाऽभासानुमानतुल्यसाधकबाधकाभाववत्त्वमित्यर्थः ।
 आत्मपदप्रवृत्तिनिमित्तस्य आत्मत्वस्य ॥ लाघवमिति ॥ जातेरखण्डत्वेनान्यज्ञाननिरपेक्षरणादिति भावः ।
 औपाधिकत्वे स्वप्रकाशत्वरूपत्वे ॥ उपाधीति ॥ स्वप्रकाशत्वस्य त्वन्मते इतरावेद्यत्वरूपत्वेनेतररूपोपाधिज्ञानाधीनत्वादित्यर्थः ।
 उपाधिप्रत्ययं विनोपहितप्रत्ययानुपपत्तेरिति भावः ॥ इत्यनुकूलतर्करक्षकोपेतत्वादिति ॥ अनुमानानां विपक्षे कल्पनागौरवरूपानुकूलतर्काख्यरक्षकोपेतत्वादित्यर्थः ।
 नचैवमाकाशपदप्रवृत्तिनिमित्तस्य जातित्वानङ्गीकारे गौरवमिति तत्रापि वक्तुं शक्यमिति वाच्यम् ।
 तत्र जातिबाधकसद्भावेन जातित्वस्याङ्गीकारानर्हत्वेन गौरवस्यादोषत्वादिति भावः ।
 यदा होदयनः ।
 व्यक्तेरभेदस्तुलक्यत्वमित्यादिना ।
 तत्र न तावदात्मत्वस्य जातित्वाङ्गीकारे तुल्यत्वादीनि पञ्च बाधकानि सन्तीत्यर्थः ।
 (* अत्रान्तिमवाक्यत्रयस्थले श.पाठे अयं प्रघट्टकः दृश्यते - `यदाहोदयनः ।
 व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।
 रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः ॥ इति ।
 तत्रानेकेषु घटेषु `घटोऽयं घटोऽयं' इति अनुगतप्रत्ययव्यवहारयोर्निर्वाहाय घटत्वरूपानुगतजातिरङ्गीक्रियते ।
 अन्यथा तयोर्निर्निबन्धनत्वापत्तेः ।
 न च घटरूपादिनिबन्धनत्वं तयोर्वाच्यम् ।
 तेषामननुगतत्वात् ।
 अतोऽनुगतजातिरङ्गीकार्या ।
 एवं व्यक्त्यनेकत्वस्य जातित्वप्रयोजकत्वात् व्यक्त्यभेदो जातिबाधकः ।
 यथाऽऽकाशस्यैकत्वात् आकाशत्वं न जातिः ।
 तत्र जात्यापादकानुगतप्रत्ययादेरभावात् ।
 द्रव्यत्वापेक्षया सत्तायाः अधिकदेशवृत्तित्वेन परत्वात्, पृथिवीत्वस्य न्यूनदेशवृत्तित्वेन अपरत्वात्तयोः जातित्वमङ्गीक्रियते ।
 तथा च किञ्चिज्जात्यपेक्षया परापरभावापन्नत्वस्य जातिप्रयोजकत्वात् तुल्यदेशवृत्तित्वाख्यतुल्यत्वं जातिबाधकम् ।
 यथा घटत्वतुल्यदेशवृत्तिकरीरत्वं न जातिः ।
 परस्परपरिहारेण वर्तमानयोः एकत्र समावेशः सङ्करः ।
 यथा भूतत्वमूर्तत्वयोः ।
 भूतत्वं मूर्तत्वपरिहारेण गगने अस्ति ।
 मूर्तत्वं च भूतत्वपरित्यागेन मनसि ।
 तयोः पृथिव्यां समावेशात् ।
 जातौ जात्यङ्गीकारे अनवस्थितिः बाधिका ।
 विशेषेषु जात्यङ्गीकारे विशेषस्वरूपहानिः बाधिका ।
 तथा हि ।
 आप्यपरमाणुप्रभृतीनां समानजात्याक्रान्तत्वेन जात्यादेः व्यावर्तकत्वासम्भवात्, तेषु योगिनां अन्योन्यव्यावृत्तिधीजननेन अन्त्यव्यावर्तकत्वस्वभावाख्याः विशेषाः अङ्गीक्रियन्ते ।
 तेषामन्त्यव्यावर्तकत्वं च कदापि संशयाद्यहेतुत्वम् ।
 न चैतद्विशेषेषु जात्यङ्गीकारे सम्भवति ।
 तथात्वे सर्वेषां विशेषाणां विशेषत्वरूपसाधारणधर्मापन्नत्वेन कदाचित् संशयविषयत्वापत्त्या स्वाश्रयनित्यद्रव्येषु संशयहेतुत्वापत्तेः ।
 अतः विशेषेषु जात्यङ्गीकारे अन्त्यव्यावर्तकरूपहानिः अनिवार्या ।
 समवायत्वजात्यङ्गीकारे असम्बन्धो बाधकः ।
 समवयस्य एकत्वेन समवाये समवायाभ्युपगमे आत्माश्रयापत्त्या समवायतन्निष्ठजात्योः सम्बन्धाभावात् ।
' - इति ।
)
(22) व्यक्त्यभेदोऽपि न बाधकः ।
 तथा हि ।
 आत्मत्वजातिसाधनद्वाराऽऽत्मभेदः साध्यः ।
 स च सन्दिग्धः ।
 न च साध्याभावसन्देहोऽनुमानं निरुणद्धि (अनुमानविरुद्धः)।
 (अन्यथा) अनुमानमात्रोच्छेदप्रसङ्गात् ।
 एवं तर्हि गगनत्वादिकमपि जातिः स्यादिति चेन्न ।
 तेषां धर्मिग्राहकमानेन लाघवानुगृहीतेनैकत्वसिद्धेः(सिद्धौ बाधात्) ।
 न चैवं प्रकृते धर्मिग्राहकप्रत्यक्षस्य भेदग्राहकत्वेनोपपादनात् ।
 न चापारमार्थिकभेदेनाप्युपपत्त्याऽर्थान्तरत्वम् (आत्मत्वजात्युपपत्त्याऽर्थान्तरत्वम्)।
 जातेर्धर्मिसत्तासमानसत्ताकभेदवद्व्यक्त्याश्रयत्वात् (-व्यक्त्याश्रितत्वात्)।
 अन्यथा गगनत्वस्यापि जातित्वापत्तेः ।

(22) (भ.) पञ्चबाधकानामभावेऽपि व्यक्त्यभेदो बाधकोऽस्त्वित्यत आह - व्यक्त्यभेदोऽपीति ।
 यद्यप्यैक्यवादिनाऽऽत्मव्यक्तेरभेदोऽङ्गीक्रियते ।
 तथाऽपि स नेदानीमपि निश्चितः किन्तु सन्दिग्धः ।
 अत एवात्मत्वस्य जातित्वसाधनद्वाराऽऽत्मभेदः साध्यते ।
 अभेदश्च भेदाभावरूपः ।
 न च साध्याभावसन्देहोऽनुमितिविरोधी ।
 अनुमानमात्रोच्छेदप्रसङ्गात् ।
 प्रत्युत पक्षताघटकत्वेनानुमित्यङ्गम् ।
 अतो नात्र व्यक्त्यभेदोऽपि बाधक इत्यर्थः ।
 इदमपि न्यायमतानुसारेणैव ।
 सिद्धान्ते व्यक्त्यभेदादेरजातिबाधकत्वात् ।
 तथा हि ।
 व्यक्त्यभेदस्तावन्न जातिबाधकः ।
 यथोक्तं तत्त्वनिर्णये ।
 `यतः स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः ।
 कथमस्मि स इत्येव सम्बन्धः स्यादसंहित' इति ।
 व्याख्यातं च तट्टीकायां `जातितो जीवत्वादिजातिभेदत' इति ।
 आदिपदेन विष्णुत्वग्रहः ।
 तथा च विष्णुत्वस्य जातित्वेन प्रमाणसिद्धत्वात्तत्र व्यक्त्यनेकत्वाभावान्न व्यक्त्यभेदो जातिबाधक इत्यवगम्यते ।
 एवं तुल्यत्वमपि न बाधकम् ।
 तुल्यव्यक्तिकयोरुभयोरपि जातित्वाङ्गीकारे बाधकाभावात् ।
 न च घटत्ववत्करीरत्वस्यापि जातित्वापत्तिः ।
 घटत्वातिरिक्तस्य करीरत्वस्याभावात् ।
 घटकरीरशब्दवदेतयोरपि शब्दयोः पर्यायत्वात् ।
 एवं सङ्करोऽपि न बाधकः ।
 मानुषेषु परस्परपरिहारेण वर्तमानयोरपि यतित्वगार्हस्थ्ययोर्देवेषु साङ्कर्यस्य श्रुतिसिद्धत्वात् ।
 अत एव ते न जातीति (* `जातयः' इति पाठेन भाव्यमिति भाति ।
) इति चेत् ।
 तर्हि ब्राह्मणत्वादीनामपि जातित्वाभावापातात् ।
 न च साङ्कर्याभावात्तेषां जातित्वमिति वाच्यम् ।
 साङ्कर्यस्य जातिबाधकतासिद्ध्युत्तरकालीनत्वादस्याः कल्पनायाः ।
 न चैवं भूतत्वमूर्तत्वोरपि जातित्वापत्तिः ।
 मूर्तत्वस्य परिच्छिन्नपरिमाणरूपत्वेनौपाधिकधर्मतया जातित्वशङ्कानर्हत्वात् ।
 अत एव न परापरभावानुपपत्तिरिति ।
 अनवस्थितिरपि न बाधिका ।
 जातौ जात्यङ्गीकारेऽप्यनवस्थाभावात् ।
 यथोक्तमनुव्याख्याने ।
 `अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।

 अनन्यत्वान्नाऽनवस्थे'ति ।
 विशेषसमवाययोः स्वरूपस्यैवाभावात्तत्र विशेषत्वसमवायत्वरूपधर्मस्याप्यभावेन तयोर्जातित्वनिरासार्थं रूपहान्यसम्बन्धयोर्बाधकत्वकल्पनं तु दूरोत्सारितमिति सङ्क्षेपः ॥ एवं तर्हीति ॥ व्यक्त्यभेदस्य बाधकत्वाभाव इत्यर्थः ॥ गगनत्वादिकमिति ॥ कालत्वं दिक्त्वं चादिपदार्थः ।
 निराकरोति ॥ तेषामिति ॥ गगनकालदिशामित्यर्थः ॥ तेषामिति ॥ सामान्येन परामर्शान्नपुंसकता ।
 गगनकालदिग्रूपपदार्थानामिति वा ॥ धर्मिग्राहकेति ॥ शब्दः क्वचिदाश्रितो गुणत्वाद्रूपवदित्यनुमानेन सामान्यतः शब्दाश्रयद्रव्ये सिद्धे तस्य पृथिव्याद्यष्टान्यतमत्वस्य बाधितत्वात्तदतिरिक्तद्रव्यं यत्सिद्ध्यति तदेवाकाशं भवति ।
 तस्य चानेकत्वे प्रमाणाभावेन तत्कल्पने गारैवापत्त्या लाघवादेकत्वमेवाङ्गीकार्यम् ।
 एवं कालदिशोरपि ।
 तथा च लाघवानुगृहीतेन धर्मिग्राहकमानेनैकत्वस्यैव सिद्धेर्गगनादिव्यक्तिनानात्वाभावेन तत्र गगनत्वादिजात्यङ्गीकारे व्यक्त्यभेदो बाधको भवत्येवेति भावः ।
 प्रकृतेऽपि तथैवास्त्वित्यत आह - न चैवमिति ॥ उपपादनादिति ॥ `तत्र ब्रूम' इत्यादिग्रन्थेनोपपादितत्वादित्यर्थः (*प्राक् द्वादशे मूल इत्यर्थः ।
) ।
 ननु प्रत्यक्षस्य भेदावगाहित्वेऽपि न पारमार्थिकभेदावगाहित्वम् ।
 अद्वैतश्रुत्यादिविरोधात् ।
 अतोऽपारमार्थिकभेदेनाप्यात्मत्वजात्युपपत्त्या पुनरर्थान्तरतैवेति ॥ तत्राह - न चेति ॥ जातेरिति ॥ त्वन्मतेऽपि घटत्वादिजातेर्धर्मिसत्तासमानसत्ताको यो भेदो व्यावहारिकस्तद्वत्यो या व्यक्तयो घटादिरूपास्तदाश्रितत्वाङ्गीकारात् ।
 प्रकृतेऽप्यात्मत्वजातेर्धर्मिभूतात्मसत्तासमानसत्ताकभेदवत्यो या व्यक्तय आत्मरूपास्तदाश्रितत्वेऽङ्गीकार्ये आत्मवत्तद्भेदस्यापि पारमार्थिकत्वमेव पर्यवस्यतीति भावः ।
 व्यक्तौ भेदमात्रेण जातित्वोपपत्त्या धर्मिसमसत्ताकत्वविशेषणमतन्त्रमेवेत्यत आह - अन्यथेति ।
 गगनेऽपि प्रातिभासिकभेदस्य त्वन्मते सत्त्वेन तावन्मात्रस्यैव जातित्वप्रयोजकत्वे गगनत्वस्य जातित्वं दुर्वारमेव ।
 अतो धर्मिसमसत्ताकत्वविशेषणमावश्यकमेव ।
 ततश्च धर्मिणो गगनस्य व्यावहारिकत्वेन तत्समसत्ताकत्वस्य प्रातिभासिकभेदेऽयोगेन न गगनत्वस्य जातित्वमिति वाच्यम् ।
 तद्वदत्रापि तादृशभेद एव जातित्वप्रयोजक इत्यङ्गीकार्यमिति नार्थान्तरतेति भावः ।

(22) (मु.) ननु जातिबाधकाभाव एवोक्तन्यायावतार इत्यतः प्रकृतेऽपि तुल्यव्यक्तिकत्वादिकं नास्तीत्याह - व्यक्त्यभेदोऽपीति ।
 प्रकृते साध्याभावरूपतया सन्दिग्धत्वात्सन्देहस्य साध्यसन्देहत्वेनाप्रतिबन्धकत्वादिति भावः ।
 जातेरेव साध्यत्वात्कथमेतदित्यत आह - आत्मत्वेति ॥ अयं भावः ।
 इह चात्मत्वजातिसाधनं न तावन्मात्रतात्पर्यकम् ।
 वैयर्थ्यात् ।
 किन्तु तद्द्वारा व्यक्तिभेद एव साध्यः ।
 एवञ्च परम्परयाभेदस्य साध्यत्वेन न भेदसन्देहोऽनुमितिप्रतिबन्धकः प्रत्युत गुण एवेति ॥ ननु साक्षात्साध्यसन्देह एवाप्रतिबन्धक इति चेन्न ।
 साध्यनियतसंशयमात्रस्य तथात्वात् ।
 अन्यथा वह्निसामग्रीसंशयः प्रतिबन्धकः स्यात् ।
 ननु सत्प्रतिपक्षादिस्थले साध्यसन्देहोऽप्यनुमानं निरुणद्धीति चेत् ।
 सत्यम् ।
 विरोध्याहितस्य तथाभावेऽपि स्वारसिकसंशयस्य गुणत्वात् ॥ गगनत्वादिकमिति ॥ उक्तन्यायादेवेति भावः ॥ धर्मिग्राहकेति ॥ शब्दस्योपादानकार्यत्वादिनेत्यर्थः ॥ न च पारमार्थिकेति ॥ घटादावपारमार्थिके भेदस्य घटत्वेऽपि कृतेनेत्यर्थः ॥ धर्मिसत्तेति ॥ धर्मिणामेव व्यावहारिकत्वेन भेदस्य तथात्वोपपत्तावात्मनो धर्मित्वेन पारमार्थिकत्वसिद्धिरिति भावः ।
 एवञ्च जातिलक्षणेऽनेकानुगतत्वं धर्मिसत्तासमानसत्ताकभेदवद्वृत्तित्वमिति जातिसिद्ध्यैवभेदपारमार्थ्यसिद्धिः ।
 यद्वा ॥ गगनत्वस्यापीति ।
 तत्रापि प्रातिभासिकव्यक्तिभेदस्यैव जातिघटकत्वसम्भवादिति भावः ॥
(22) (कु.) ॥ अन्यथेति ॥ तत्रापि प्रातिभासिकधर्मिभेदस्य सत्त्वादिति भावः ।
 

(22) (हु.) शङ्ककाभिप्रायमाविष्कृत्य निराकरोति ॥ व्यक्त्यभेदोऽपीति ॥ साध्याभावसन्देह इति ॥ स्वारसिकसन्देह इत्यर्थः ।
 आहितस्तु भवत्येव स च प्रकृते नास्त्येव ।
 तस्य परामर्शादौ अप्रामाण्यशङ्कामूलकत्वात् (* `परामर्शादेव प्रामाण्य-' मु.) ।
 तेषां च प्रकृतेऽनुकूलतर्कभयेनानुत्थितेरिति भावः ॥ धर्मिग्राहकमानेनेति ॥ शब्दरूपगुणाश्रयतया गगनस्य सिद्धिः ।
 तत्र पृथिव्यादिचतुष्टयकल्पने गौरवप्रतिसन्धानेनैको विभुराकाशः सिध्यति ।
 एवमिदानीं घट इत्यादिप्रतीतिषु तरणिपरिस्पन्दो घटादीनां सम्बन्धघटकतया लाघवादेको विभुः कालः सिध्यति ।
 इह घट इत्यादिप्रतीतिनिर्वाहाय मूर्तसम्बन्धघटकतया लाधवादेका विभुर्दिक् सिध्यति ।
 तत्र जात्यङ्गीकारे नानागगनादिप्राप्त्या तस्य धर्मिग्राहकमानबाधादित्यर्थः ।
 न चेतीत्यर्थान्तरमित्यनेन सम्बन्धः ।

(22) (का.) ननु तथापि व्यक्त्यभेदो बाधकः ।
 यथोक्तम् ।
 `व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।
 रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रह' इत्यत आह - व्यक्त्यभेद इति ॥ आत्मत्वस्य जातित्वे व्यक्त्यभेदः स्वाश्रयप्रतियोगिकभेदवदवृत्तित्वं विरोधीति न वाच्यम् ।
 तस्य साक्षाज्जातित्वानुमितिविरोधित्वे मानाभावात् ।
 फलीभूतात्मभेदानुमितौ च तन्निश्चयस्यैव बाधविधया विरोधित्वात्, तस्य च प्रकृतेऽभावादित्याह - आत्मत्वेति ॥ आत्मभेदः आत्मत्वस्य स्वाश्रयप्रतियोगिकभेदवद्वृत्तित्वम् ।
 स च सन्दिग्ध इति ॥ तत्सन्देहस्य च व्यक्त्यभेदसन्देहतया न विरोधित्वमिति भावः ।
 ननु तत्सन्देह एवानुमितिप्रतिबन्धको भविष्यतीत्यत आह - न चेति ॥ अनुमानमात्रोच्छेदप्रसङ्ग इति ॥ सर्वत्र साध्यसन्देहसत्त्वादिति भावः ।
 एतच्च साध्यसन्देहः पक्षतेति मतेनोक्तम् ।
 सिद्ध्यभावपक्षतापक्षे तु साध्यसन्देहस्यानुमित्यव्यवहितपूर्वमनावश्यकत्वात् सन्दिग्धसाध्यकानुमानोच्छेदप्रसङ्गो द्रष्टव्यः ।

ननु संशयसाधारणव्यक्त्यभेदज्ञानमात्रस्य जातित्वानुमितौ मणिमन्त्रादिवत् स्वातन्त्र्येणैव विरोधित्वम् ।
 अन्यथोक्तक्रमेण गगनत्वादिजातिसिद्धिप्रसङ्गात् ।
 तथाच नात्मत्वजातिसिद्धिरित्याशङ्कते - एवमिति ॥ व्यक्त्यभेदसन्देहस्य जातित्वानुमित्यविरोधित्व इत्यर्थः ।
 स्यादेवं यदि प्रकृत इव गगनव्यक्त्यभेदः सन्दिग्धः स्यात् ।
 न चैवम् ।
 अपि तु प्रमित एव ।
 तथाच तत एवातिप्रसङ्गवारणादुक्तविरोधित्वे मानाभाव इति भावेन समाधत्ते ॥ धर्मिग्राहकेति ॥ शब्दो द्रव्याश्रितो गुणत्वाद्रूपवदित्यनुमानेन शब्दस्यैकद्रव्याश्रितत्वे लाघवमिति लाघवग्रहसहकृतेन पृथिव्याद्यष्टद्रव्याश्रितत्वबाधे सत्यष्टद्रव्यातिरिक्तैकद्रव्याश्रितत्वस्यैव सिद्ध्या गगनत्वादेर्जातित्वाभावनिश्चयादित्यर्थः ।
 धर्मिग्राहकेत्यनेनोपजीव्यतया प्राबल्यं सूचितम् ।
 तेन वैपरीत्यशङ्कानवकाशः ॥ प्रत्यक्षस्येति ॥ साक्षिणो नाहं निर्दुःख इत्यादिरूपस्य भेदग्राहकत्वेनैव पूर्वमुक्तत्वादित्यर्थः ।
 एवं च नोक्ताभाससाम्यमित्याशयः ।

आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वादिति फलीभूतानुमाने साध्यशरीरे भेदसामान्यप्रवेशादारोपितभेदसिद्ध्याऽप्यनुमानपर्यवसानादर्थान्तरमित्याशङ्क्य निराचष्टे ॥ न चेति ॥ आत्मत्वजात्युपपत्त्या आत्मत्वस्य जातित्वोपपत्त्या ॥ जातेरिति ॥ तथाच धर्मिसत्तासमानसत्ताकभेदस्यैव साध्यघटकत्वादात्मनि पारमार्थिकभेदं विना साध्यापर्यवसानान्नार्थान्तरत्वमिति भावः ।
 ननु जातेर्भेदवद्व्यक्त्याश्रितत्वमित्येव नियमो न तु धर्मिसत्तासमानसत्ताकत्वमपि तत्र निवेश्यत इत्यत आह - अन्यथेति ॥ जातित्वापत्तेरिति ॥ गगनेऽप्यौपाधिकभेदसत्त्वादिति भावः ।
 एतच्च मायिमतेनोक्तम् ।
 सिद्धान्तिभिरौपाधिकभेदानङ्गीकारात् ।

(22) (श.) तर्हि व्यक्त्यभेदो बाधकोऽस्त्वित्यत आह - व्यक्त्यभेदोऽपि न बाधक इति ॥ अयमर्थः ।
 व्यक्त्यभेदो हि नेदानीमपि निश्चितः आवयोस्तत्रैव विवादात् ।
 किन्तु सन्दिग्धः ।
 तथाचात्रभेदस्य साध्यत्वादभेदस्य तदभावरूपत्वात् तत्सन्देहस्य साध्यतदभावकोटिकसंशयत्वात् तस्य च सार्वत्रिकत्वेनानुमानमात्रोच्छेदकतया दूषणत्वात् प्रत्युत पक्षताघटकत्वेनानुमित्यङ्गत्वात् भेदानुमित्यप्रतिबन्धकत्वात् व्यक्त्यभेदो नात्र बाधक इति ॥ एवन्तर्हीति ॥ तत्रापि व्यक्तिभेदस्योक्तरीत्या बाधकत्वपरिहारसम्भवादिति भावः ॥ धर्मिग्राहकेति ॥ आकाशो धर्मी ।
 शब्दः क्वचिदाश्रितः गुणत्वादित्यनेन शब्दाश्रये सामान्यतः सिद्धे तस्य पृथिव्याद्यष्टान्यतमत्वबाधे तदतिरिक्तो नवम आकाशाख्यः पदार्थोऽङ्गीक्रियते ।
 लाघवादनेकत्वे प्रमाणाभावाच्चैकत्वं च तस्य निश्चितम् ।
 तथाचैकत्वरूपसाध्याभावस्य निश्चितत्वात् भवत्येव तत्र व्यक्त्यभेदो बाधक इति भावः ।
 तर्ह्यत्रापि तथैवास्त्वित्यत आह - नचैवमिति ॥ आत्मग्राहकं साक्षिप्रत्यक्षम् ।
 तच्च भेदग्राहकमेवेति नाहं सर्वज्ञ इत्यादिना प्रागुपपादनादित्यर्थः ।
 तस्मान्नाभाससमानयोगक्षेमत्वमिति भावः ।
 उपपत्त्या आत्मत्वजातेः ॥ जातेरिति ॥ जातेर्हि धर्मिणो व्यक्तेः यदृशी सत्ता तत्समानसत्ताको यो भेदः तद्वत्यो या व्यक्तयः तदाश्रितत्वं नियतम् ।
 घटत्वजातेर्धर्मिणो घटस्य या सत्ता व्यावहारिकी तत्समसत्ताको यो भेदो व्यावहारिकः तद्वत्यो घटव्यक्तयः तदाश्रितत्वदर्शनात् ।
 तथाऽऽत्मत्वजातेरपि धर्मिण आत्मनो यादृशी सत्ता पारमार्थिकी तत्समसत्ताको यः पारमार्थिकभेदः तद्वदात्मवृत्तित्वे आत्मनां पारमार्थिकभेदसिद्ध्याऽर्थान्तरता नेत्यर्थः ।
 जातित्वे व्यक्तिभेदमात्रस्य प्रयोजकत्वमस्तु नतु भेदस्य धर्मिसत्तासमसत्ताकत्वमित्यत आह - अन्यथेति ॥ व्यक्तिभेदभावादेव हि गगनत्वस्य जातित्वपरित्यागः ।
 नचासौ युक्तः ।
 तत्रापि प्रातिभासिकभेदसद्भावात् ।
 अतो गगनत्वमपि जातिः स्यात् ।
 अतोऽत्र प्रातिभासिकभेदसद्भावेऽपि आकाशो धर्मी तस्य या सत्ता व्यावहारिकी तत्समसत्ताकभेदाभावात् न गगनत्वं जातिरिति परिहाराय जातेर्धर्मिसत्तासमानसत्ताकभेदसापेक्षत्वमवश्यमङ्गीकार्यमिति भावः ।

(23) नन्वेतावताऽऽत्मत्वस्य जातित्वमात्रं सिध्यति नात्मभेदः ।
 न च तथात्वे व्यक्त्यभेदो बाधकः स्यात् ।
 स ह्यनुगतव्यवहाराभावेनानुगतव्यवहाररूपजातिविषयकप्रमाणविघटनेन दूषणम् ।
 न चात्मत्वजातावनुगतव्यवहारः ।
 येन तद्विघटनेन जातिरेव न सिध्येदिति व्यक्त्यभेदो दूषणं स्यात् ।
 किन्तु त्वदुक्तानुमानान्येव ।
 ततः कथं भेदसिद्धिरिति चेत् ।
 सत्यम् ।
 नात्र व्यक्त्यभेदो जातेः प्रमाणविघटनेन दूषणम् ।
 येनैवमुपलभ्ये(भे)महि ।
 किन्तर्हि लक्षणविघटनद्वारा ।
 नित्यमेकमनेकानुगतमिति हि तल्लक्षणम् ।

(23) (भ.) तथात्वे आत्मभेदाभावे ।
 व्यक्त्यभेदो हि न साक्षादेव जातिबाधकः ।
 किन्तु जातिविषयकप्रमाणविघटकत्वेन ।
 प्रमाणं च नानाविशेष्यकैकप्रकारकाभिज्ञाभिवादनरूपानुगतव्यवहार एव ।
 अत एव घटादिषु घटत्वादिजातेरङ्गीकारो न गगनादिषु गगनत्वादिजातेः ।
 न च प्रकृते आत्मनि तादृशव्यवहारोऽस्ति ।
 स्वात्मातिरिक्तस्यात्मनः प्रत्यक्षत्वाभावात् ।
 अनुमानादेश्चाद्यापि गहननिविष्टत्वात् ।
 अतः कथं व्यक्त्यभेदस्तत्र तद्विघटकत्वेन जातिबाधकः स्यात् ।
 न च तत्रानुगतव्यवहाराभावेऽपि तत्साधकान्यनुमानान्युपन्यस्तान्येविति वाच्यम् ।
 तैर्जातिमात्रसिद्धावप्यात्मभेदसिद्धेरिति भावेन पूर्वपक्षी समाधत्ते ।
 स हीत्यादिना कथं भेदसिद्धिरित्यन्तेन ।
 आत्मत्वजाताविति विषयसप्तमी ।
 अनुगतव्यवहारः प्रमाणमिति शेषः ।
 तथा चात्मत्वरूपानुगतजात्यङ्गीकारेऽयमात्माऽयमात्मेति नानात्मविशेष्यकात्मत्वरूपैकप्रकारव्यवहार एव न स्यात् ।
 अत आत्मत्वजातावनुगतव्यवहार एव प्रमाणमिति न वाच्यमित्यर्थः ।
 त्वदुक्तानुमानान्येव ।
 प्रमाणमिति शेषः ॥ येनैवमुपलभेमहीति ।
 येनानुगतव्यवहाररूपप्रमाणविघटकत्वाभावेन व्यक्त्यभेदस्यादूषणत्वं प्रतीयेत इत्यर्थः ॥ अनेकानुगतमिति ॥ अनेकसमवेतमित्यर्थः ।
 अनुगतमित्यनन्तरमिति शब्दोऽध्याहार्यः ।
 ततश्च नित्यत्वे सत्येकत्वे सत्यनेकानुगतत्वं हि जातिलक्षणमित्यर्थः सम्पद्यते ।
 तथाचात्मभेदानङ्गीकारे आत्मत्वस्यानेकानुगतत्वानुपपत्त्या जातित्वमेव न स्यादिति भावः ।
 अत्रानेकानुगतत्वमित्यनेकसमवेतत्वमुच्यते ।
 अन्यथा गगनात्यन्ताभावेऽनेकानुगतेऽतिव्याप्तिः स्यात् ।
 समवेतत्वस्य त्वभावेऽभावान्नातिव्याप्तिः ।
 तावत्येवोक्ते आकाशसमवेते शब्देऽतिव्याप्तिः ।
 अतोऽनेकेति ।
 परमाणुसमवेतविशेषेष्वतिव्याप्तिनिरासायैकमिति ।
 संयोगे तद्व्युदासाय नित्येति ।
 नन्वथाऽपि नित्यमनेकानुगतमित्येवालम् ।
 अनेकानुगतत्वमित्यस्यानेकत्वसङ्खयावदनुगतत्वविवक्षायां गुणत्वादिजातावव्याप्तेः स्वाश्रयभिन्नसमवेतत्वे विवक्षणीये तेनैकत्वस्य स्वत एव लाभात् ।
 न हि प्रतिव्यक्तिभिन्नस्य स्वाश्रयभिन्नसमवेतत्वं सम्भवति ।
 अत एकमिति माऽस्त्विति चेत् ।
 सत्यम् ।
 तथाऽपि न सामान्यं विशेषवत्प्रतिव्यक्तिभिन्नं किन्त्वेकमेव सर्वत्रानुगतव्यवहारहेतुरिति स्वरूपकथनार्थमेतदिति नैय्यायिकसम्प्रदायविदः ।

(23) (मु.) ॥ एतावतेति ॥ निर्बाधेन लाघवानुगृहीतेनोक्तानुमानजातेनेत्यर्थः ॥ व्यक्तिभेदो बाधक इति ॥ एवं स्वयं सिध्यतो जातिः स्वबाधकव्यक्त्यभेदं बाधत एव ।
 यावता विना न पक्षे साध्यपर्यवसानं तत्सर्वं पक्षधर्मताबललभ्यमिति न्यायादिति भावः ।
 अनुगतव्यवहारप्रामाण्यकजातावेव तद्बाधो नान्यत्रेत्यत आह - स हीति ।
 एकस्मिन्ननुगतव्यवहारायोगादिति भावः ।
 अनुगतव्यवहार इति प्रमाणीकृत इति शेषः ॥ त्वदुक्तेति ॥ पृथिवीत्वमित्याद्यैरनुमानैरेवानुगतव्यवहारं विना जातिसिद्धौ व्यक्तिभेदस्य कुत्रोपयोग इति भावः ।

(23) (कु.) तथात्वे धर्मिभेदाभावे ॥ स हीति ।
 नानाविशेष्यकैकप्रकारकज्ञानरूपोऽनुगतव्यवहारो हि सङ्कराद्यभावे जातौ प्रमाणम् ।
 व्यक्त्यभेदे हि स न स्यादिति ।
 व्यक्त्यभेदस्य प्रमाणविघटकत्वेन दूषणत्वम् ।
 प्रकृते त्वनुगतव्यवहाररूपप्रमाणाभावेऽपि त्वदुदाहृतानुमानानामेव प्रमाणत्वात् न तस्य बाधकतेति समुदायार्थः ।

(23) (हु.) आत्मभेदविचारावसरे उक्तानुमानैस्तदसिद्ध्याऽर्थान्तरतेत्याशङ्कते - नन्वित्यादिना ।
 एकव्यक्तिमात्रविषयकानुगतप्रतीतेस्तद्विषयकत्वेनैव सम्भवात्तन्निर्वाहाय जातिर्न सिध्यति ।
 व्यक्तिबहुत्वे तु घटो घट इत्यनुगतव्यवहारस्यैकव्यक्त्या निर्वोढुमशक्यत्वात्तादृशनिखिलप्रतीतिषु भासमाना एका (जातिः) सिध्यतीति व्यक्त्यैक्यं जातिग्राहकप्रमाणविघटकमिति भावः ।
 एवमुपलभ्ये (*भे)महि एवमाक्षेपगोचरा भवाम इत्यर्थः ॥ किन्तर्हीति ॥ लक्षणेति ॥ तथा चारोपितव्यक्तिभेदमादाय गगनत्वे जातिलक्षणातिव्याप्तिपरिहाराय स्वसमानसत्ताकभेदवन्नानाव्यक्तिवृत्तित्वघटितं जातित्वं तदेव साध्यशरीरे जातित्वं निवेशनीयम् ।
 अन्यथा जातित्वस्याखण्डोपाधित्वे मानाभावेन तेन रूपेण निवेशायोगः ।
 तथाऽप्युक्तानुमानबलादेव पारमार्थिकात्मभेदमादायात्मत्वं सिध्यतीति भावः ।

(23) (का.) ननूक्तानुकूलतर्कसहकृतेनोक्तानुमानजातेनात्मत्वजातिसिद्धावपि नात्मभेदसिद्धिः ।
 न च तत एव तदनुमानसम्भवः ।
 अप्रयोजकत्वात् ।
 उक्तनियमस्य निर्मूलत्वादित्याशयेन दर्शयति - नन्विति ॥ तथात्वे आत्मभेदाभावे ॥ बाधक इति ॥ आत्मत्वजातिसिद्धिविरोधीत्यर्थः ।
 तथा च विपक्षे बाधकतर्कसम्भवान्नाप्रयोजकत्वमित्यभिसन्धिः ।
 व्यक्त्यभेदो हि न साक्षाज्जातिसिद्धिविरोधी ।
 मानाभावात् ।
 अपि तु कारणविघटनद्वारा ।
 कारणं च क्वचिदनुगतव्यवहारः क्वचिदनुमानम् ।
 प्रकृते त्वनुमानमेव ।
 न च तत्र तस्य व्यक्त्यभेदस्य विरोधित्वं मानाभावादित्याह - स हीति ॥ अनुगतव्यवहारो नाम नानेकेष्वेकधर्मज्ञानम् ।
 अनुगतधर्मसिद्धेः पूर्वं तदसिद्धेः ।
 किन्त्वनेकेष्वेकाकारज्ञानम् ।
 व्यक्त्यभेदश्च व्यक्त्यभेदघटिततादृशप्रमाणविरहसम्पादकत्वेन जातिसिद्धिविरोधीत्यर्थः ॥ न चेति ॥ अन्यथाऽनुमानवैयर्थ्यमिति भावः ।

यदुक्तं न चात्मत्वजातावित्यादि तत्सत्यमेव ।
 किन्तु व्यक्त्यभेदस्य जातिलक्षणविरोधितया तदभावधीसम्पादकत्वाज्जातिसिद्धिविरोधित्वमिति समाधत्ते ॥ सत्यमिति ॥ अत्र जातेः प्रकृतसाधनविषयीभूतात्मत्वजातेरित्यर्थः ।
 यद्यपि व्यक्त्यभेदस्य जातित्वाभावव्याप्यतया साक्षादपि जातिसिद्धिविरोधित्वसम्भवः ।
 तथाप्यनुकूलतर्कास्फूर्तौ तादृशव्याप्यत्वस्य दुर्ग्रहत्वाल्लक्षणविघटनद्वारेत्युक्तम् ।
 लक्षणस्य च लक्ष्यतावच्छेदकव्यापकत्वं, व्यापकाभावस्य व्याप्याभावसाधकत्वं च प्रसिद्धमेव ।
 तथाच व्यक्त्यभेदे लक्षणाभावापत्त्या जातित्वानुपपत्तिरूपानुकूलतर्कसत्त्वादुक्तजातित्वहेतुकानुमानेनात्मभेदसिद्धिरावश्यकीत्याशयः ।

ननु कथं व्यक्त्यभेदस्य जातिलक्षणविघटकत्वमिति चेत्तस्य व्यक्तिभेदघटितत्वादित्याशयेन तार्किकोक्तं जातिलक्षणमाह - नित्यमिति ॥ संयोगादावतिव्याप्तिवारणाय नित्यमिति ॥ गगनपरिमाणादावतिव्याप्तिवारणायानेकानुगतमिति ॥ अनेकसमवेतमित्यर्थः ।
 तेनात्यन्ताभावे नातिव्याप्तिः ।
 अनेकसमवेतत्वं च न पदार्थविभाजकोपाधिरूपेण ।
 तथा सत्यनेकवृत्तितावच्छेदकपदार्थविभाजकोपाधिमत्त्वरूपस्य तस्य विशेषेऽपि सत्त्वादतिव्याप्तेः ।
 किन्तु प्रत्येकं स्वसमवायिप्रतियोगिकभेदवत्समवेतत्वपर्यवसितमेव विवक्षितमिति ज्ञापनायैकमित्युक्तम् ।
 एकमिति क्रियाविशेषणम् ।
 तेनैकसम्बन्धेन समवायेनानेकवृत्तित्वलाभ इत्यप्याहुः ।

(23) (श.) - पूर्वमुक्तानुमानैरात्मभेदमात्रसिद्धिमङ्गीकृत्य तस्य पारमार्थिकत्वासिद्ध्याऽर्थान्तरमाशङ्क्य निराकृतम् ।
 अधुनाभेदस्यैवासिद्ध्याऽर्थान्तरमित्याशङ्कते - नन्विति ॥ एतावता उक्तानुमानसमुदायेन ।
 तथात्वे आत्मभेदमनङ्गीकृत्यात्मत्वस्य जातित्वाङ्गीकारे तस्य प्रकृते बाधकत्वं निराकरोति ॥ सहीत्यादिना ॥ स चानुगतप्रत्ययसाध्यः ।
 अनुगतप्रत्ययोप्यनुगतधर्मसाध्य इत्यनुगताघटत्वादिजातिरङ्गीक्रियत इत्यनुगतव्यवहारोऽत्र जात्यङ्गीकारे प्रमाणम् ।
 व्यक्तिभेदाभावे चानुगतव्यवहारस्यैवाभावादनुगतजात्यङ्गीकरो व्यर्थ इति खलु व्यक्त्यभेदस्यानुगतव्यवहाररूपजातिघटकप्रमाणविघटकत्वेन दूषणत्वम् ।
 नच प्रकृतेऽनुगतव्यवहारबलादात्मत्वस्य जातित्वमङ्गीक्रियते ।
 येनानुगतव्यवहाररूपजातिघटकप्रमाणविघटनेन व्यक्त्यभेदो दूषणं स्यात् ।
 किन्तु अनुमानबलादेवात्मत्वस्य जातित्वस्वकारः ।
 नचोक्तरीत्या व्यक्त्यभेदस्य तद्विघटकत्वमस्तीति समुदायस्यार्थः ।
 व्यवहार इत्यनन्तरं प्रमाणमिति शेषः ।
 जातिरेव आत्मत्वरूपजातिरेव ।
 त्वदनुमानान्येव प्रमाणमिति शेषः ॥ ततः कथमिति ॥ व्यक्त्यभेदस्य दूषणत्वे आत्मत्वस्य जातित्वनिर्वाहाय व्यक्तावात्मनि भेदोऽङ्गीकार्यः तदभावे तु निमित्ताभावादात्मभेदसिद्धिः कथमित्यर्थः ।
 अत्र प्रकृते ॥ लक्षणविघटनद्वारेति ॥ व्यक्त्यभेदे अनेकानुगतत्वरूपलक्षणायोगादिति भावः ।
 किं तज्जातिलक्षणं यद्विघटकत्वेन व्यक्त्यभेदस्य दूषणत्वं जानीम इत्यतो नैयायिकोक्तजातिलक्षणमुपन्यस्यति - नित्यमिति ॥
अनेकानुगतमिति ॥ (* इतः `अत्र सम्प्रदायविदः' इति पर्यन्तं मु.पाठे नास्ति ।
) अनेकसमवेतमित्यर्थः ।
 अन्यथा आकाशात्यन्ताभावेऽतिव्याप्तिः ।
 तत्र नित्यत्वे सत्येकत्वे सत्यनेकानुगतत्वस्य सत्वात् ।
 समवेतत्वमित्युक्तौ च नातिव्याप्तिः ।
 तत्र नित्यत्वे सत्येकत्वे सत्यपि अनेकसमवेतत्वाभावात् ।
 अभावस्य क्वचिदप्यसमवायात् ।
 तथा च नित्यत्वे सत्येकत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम् ।
 अत्र समवेतमित्येवोक्तौ शब्देऽतिव्याप्तिः ।
 तस्याकाशसमवेतत्वात् ।
 अतोऽनेकेति ।
 आकाशस्यैकत्वेन शब्दस्यानेकसमवेतत्वाभावात् परिहारः ।
 अनेकसमवेतमित्युक्ते विशेषेषु ।
 तेषामपि अनेकपरमाणुसमवेतत्वात् ।
 अतः एकेति ।
 तेषामनन्तत्वात् ।
 एकमनेकसमवेतमित्युक्ते संयोगे ।
 तस्य द्विष्ठगुणत्वेनानेकसमवेतत्वादेकत्वाच्च ।
 अतो नित्येति ।
 तस्यानित्यत्वात् ।
 नित्यमित्युक्ते विशेषेषु ।
 अत एकेति ।
 नित्यमेकमित्युक्ते गगने ।
 अतोऽनेकसमवेतमिति ।
 नित्यत्वे सत्यनेकसमवेतत्वमित्युक्ते विशेषेषु ।
 अत एकेति ।
 अत्र सम्प्रदायविदः अत्रैकत्वं न लक्षणशरीरान्तर्गतम् ।
 किन्तु सामान्यं सर्वत्रानुगतव्यवहारहेतुत्वादेकमेव न विशेषवत्प्रतिव्यक्तिभिन्नभिन्नमिति स्वरूपकथनार्थमेवेति ।
 
अत्रेदं चिन्त्यं किमिदमनेकसमवेतत्वं नामानेकत्वसङ्ख्यावत्समवेतत्वं वा स्वाश्रयप्रतियोगिकान्योन्याभाववत्समवेतत्वं वा आद्ये रूपत्वेऽव्याप्तिः ।
 रूपेऽनेकत्वसङ्ख्याभावेन रूपत्वेऽनेकत्वसङ्ख्यावत्समवेतत्वाभावात् ।
 द्वितीये एकपदवैयर्थ्यम् ।
 नच विशेषेष्वतिव्याप्तिपरिहाराय तत् ।
 तेषां प्रतिव्यक्तिनियतत्वेन कुत्रापि विशेषे स्वाश्रयप्रतियोगिकान्योन्याभाववत्समवेतत्वाभावेनानतिव्याप्तेः ।
 नच विशेषसमुदायेऽस्तीति वाच्यम् ।
 समुदायिभिन्नसमुदायाभावात् ।
 भावे वा तस्य समवेतत्वाभावेनातिव्याप्त्यभावाच्च ।
 समुदायस्याप्येकत्वेन दत्तेऽपि विशेषणेऽतिव्याप्त्यपरिहाराच्चेति ।
 ननु कालाकाशसंयोगस्याजन्यत्वेन नित्यत्वादेकत्वात्कालाकाशरूपानेकसमवेतत्वात्समग्रलक्षणस्य तत्रातिव्याप्तिरिति चेन्न ।
 तादृशसंयोगस्यैवाभावात् ।
 कालाकाशयोरमूर्तत्वेन तत्संयोगानङ्गीकारे व्याप्तत्वभङ्गाभावाच्चेति सङ्क्षेपः ।

(24) एवञ्चात्मा धर्मिसत्तासमानसत्ताकात्मप्रतियोगिकभेदाधिकरणं द्रव्यत्वाद्धटवदित्यादीन्यन्यथासिद्धानि (-दीन्यपि सुस्थानि) ।
 चैत्रशरीरं वस्तुतो मैत्रशरीरस्वामिभिन्नस्वामिकं तद्विरुद्धचेष्टाकशरीरत्वादित्यत्र मैत्रशरीरं व्यतिरेकदृष्टान्तः ।
 जीवेशौ धर्मिसत्तासमानसत्ताकभेदवन्तौ विरुद्धधर्माधिकरणत्वात्सम्मतवत् ।
 विरोधश्च न सहानवस्थाननियमलक्षणः ।
 ऐक्यवादिनोऽसिद्धेः ।
 किं तर्हि नित्यत्वानित्यत्वादाविव वध्यघातुकभावलक्षणः ।
 तादृशश्च धर्मः सर्वज्ञत्वासर्वज्ञत्वादिः ।
 न चोपाधिभेदमात्रेण तद्व्यवस्थोपपत्तिर्योगिनि तददर्शनात् ।

(24) (भ.) एवमुपन्यस्तानुमानानामाभासोद्धारेण पूर्वपक्षिणाऽऽशङ्क्य दूषितान्यप्यनुमानानि निर्दोषाणि सिद्धानीत्याह - एवञ्चेति ॥ आत्मनो द्रव्यत्वे आत्मत्वस्य जातित्वे च सिद्धे धर्मिसमसत्ताकेति भेदविशेषणे च विवक्षिते सतीत्यर्थः ।
 आदिपदेनात्मत्वं नानाव्यक्तिनिष्ठं जातित्वात्पृथिवीत्ववदित्याद्यनुमानग्रहणम् ।
 चैत्रशरीरपक्षकानुमानदोषं परिहरति - चैत्रशरीरमिति ॥ व्यावहारिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत इति ॥ अत्र बलवत्कारणाभावे सतीति युगपदिति च हेतौ पूरणीयम् ।
 तेनेन्द्रानभिमतखाण्डवदहनोद्योगिन्यर्जुनशरीरे कालभेदेन गमनशयनवति मैत्रशरीरे च न व्यभिचार इति ध्येयम् ।
 बलवत्कारणं चेशेच्छादि ॥ व्यतिरेकदृष्टान्त इति ॥ तथा चान्वयदृष्टान्ताभावविवक्षया यद्दृष्टान्ताभाव इत्युक्तं तत्परिहृतं भवति ।
 इदानीं विमतौ भिन्नावित्यनुमानदोषं परिहरति - जीवेशाविति ॥ धर्मिसत्तासमानसत्ताकेति भेदविशेषणदानेन पारमार्थिकभेदसाधनेऽप्रसिद्धविशेषणता ।
 व्यावहारिकभेदसाधने सिद्धसाधनमिति चोद्यानवकाश इति ध्येयम् ॥ ऐक्यवादिन इति ॥ आत्मैक्यवादिनो मतेऽज्ञतासार्वज्ञादिधर्माणामेकत्रैवावस्थानाङ्गीकारादिति भावः ॥ वध्यघातुकभावलक्षण इति ॥ अत्र वध्यत्वं नाम परप्रयोज्याभावप्रतियोगित्वम् ।
 घातुकत्वं च परप्रतियोगिकाभावप्रयोजकत्वम् ।
 अयं च गोव्याघ्रादौ नित्यत्वानित्यत्वादौ सर्वज्ञत्वासर्वज्ञत्वादौ च समानः ।
 ननु न समानः ।
 गोव्याघ्रादौ तमः प्रकाशादौ वध्यघातुकभावस्य समानाश्रयाश्रितत्वनियमात् ।
 न च नित्यत्वानित्यत्वादौ समानाश्रयताऽस्ति ।
 न हि नित्ये गगने कदाऽप्यनित्यत्वमस्ति ।
 नापि सर्वज्ञ ईश्वरेऽसर्वज्ञत्वम् ।
 एवमनित्ये घटादौ नित्यत्वं वाऽसर्वज्ञे जीवे सार्वज्ञं वा कदाऽप्यस्तीति चेत् ।
 सत्यम् ।
 अत्रापि समानाश्रयतया प्रसक्तयोरेव नित्यत्वानित्यत्वयोः सर्वज्ञत्वासर्वज्ञत्वयोर्वाऽभावप्रतियोगित्वाङ्गीकारेणाविरोधात् ।
 एतावांस्तु विशेषः ।
 गोव्याघ्रादौ वध्यघातुकभावप्रविष्टोऽभावो ध्वंसरूपः ।
 नित्यत्वानित्यत्वादौ चात्यन्ताभावरूप इति ॥ नन्वेवं तर्ह्यत्यन्ताभावप्रतियोगिनोरप्रामाणिकत्वनियमान्नित्यत्वानित्यत्वयोर्वा सर्वज्ञत्वासर्वज्ञत्वयोर्वाऽप्रामाणिकत्वापत्त्या कथं तदधिकरणत्वं गगनघटयोर्जीवेशयोर्वेति चेत् ।
 सत्यम् ।
 अन्यत्र प्रसक्तानामभावप्रतियोगित्वेनाप्रामाणिकत्वेऽपि स्वस्वाधिकरणे गगनघटादौ जीवेशादौ च नित्यत्वानित्यत्वादीनां सर्वज्ञत्वासर्वज्ञत्वादीनां च प्रामाणिकत्वात् ।
 न च तेषामुक्तरूपवध्यघातुकभावानुपपत्तिः ।
 स्वस्वाधिकरणे परस्परसजातीयसत्ताऽसहिष्णुत्वरूपत्वात्तस्य ।
 न हि नित्यत्वं स्वाधिकरणे गगने प्रसक्तमनित्यत्वं सहते ।
 नाप्यनित्यत्वं स्वाधिकरणे घटादौ प्रसक्तं नित्यत्वम् ।
 एवं सर्वज्ञत्वमपि न स्वाधिकरण ईश्वरे प्रसक्तमसर्वज्ञत्वं सहते ।
 नाप्यसर्वज्ञत्वं स्वाधिकरणे जीवे प्रसक्तं सर्वज्ञत्वम् ।
 अत्र वध्यमपि तदेवाभिप्रेतम् ।
 यद्धि प्रसक्तं सजातीयम् ।
 ततश्च वध्याभिमतस्याप्रामाणिकत्वेऽपि घातुकाभिमतस्य प्रामाणिकत्वमेव ।
 तथा च का नामानुपपत्तिः ।
 जीवे प्रसक्तं यत्सर्वज्ञत्वं तत्सत्ताऽसहिष्णुतया तद्घातुकाभिमतं यदसर्वज्ञत्वं तस्यैव तत्र विरुद्धधर्मत्वेन विवक्षितत्वात् ।
 एवमीश्वरेऽपि यत्प्रसक्तमसर्वज्ञत्वं तत्सत्ताऽसहिष्णुतया तद्घातुकाभिमतं यत्सर्वज्ञत्वं तस्यैवेश्वरे विरुद्धधर्मत्वेन विवक्षितत्वादिति ॥ नन्वेवं विरोधस्य वध्यघातुकभावलक्षणत्वाङ्गीकरणं स्वव्याहतम् ।
 स्वेनैव न्यायामृते द्वितीयपरिच्छेदे जीवब्रह्मणोर्भेदसाधकानुमाननिरूपणावसरे विरोधश्च यद्यपि न सहानवस्थानम् ।
 अद्वैतिनं प्रत्यसिद्धेः ।
 नापि वध्यघातुकभावः ।
 नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायेन तस्याभेदासाधकत्वादित्याद्युक्त्वा तथाऽपि परस्परात्यन्ताभावरूपत्वं वा परस्परात्यन्ताभावव्याप्यत्वं वा कालभेदेनापि सामानाधिकरण्यायोगत्वं वा विरोध इत्युक्तत्वात् ।
 तथा च तत्र वध्यघातुकभावलक्षणं विरोधं निषिध्यात्र तदङ्गीकारे कथं न स्वव्याहतिरिति ॥ उच्यते ।
 द्विविधो हि वध्यघातुकभावः ।
 परस्परविरहसामान्यप्रयोजकत्वरूपः ।
 परस्परध्वंसमात्रप्रयोजकत्वरूपश्चेति ।
 तत्राद्यविवक्षयैतद्ग्रन्थप्रवृत्तिः ।
 द्वितीयविवक्षया न्यायामृते तन्निषेध इति न स्वव्याहतिरिति ॥ अत्र केचित् ।
 नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायात्सर्वज्ञत्वासर्वज्ञत्वयोर्भिन्नाधिकरणत्वे वध्यघातुकभाव एवानुपपन्न इति कथं तेन जीवेशयोर्भेदसमाधानमित्यालोच्यात्र वध्यघातुकभावशब्देन जहल्लक्षणया परस्परविरहरूपत्वं विवक्षितमित्याचक्षते ।
 अन्ये तु परस्परविरहव्याप्यत्वमित्याहुः ।
 तदुभयमपि चिन्त्यम् ।
 उक्तरीत्या मुख्यार्थसम्भवेऽनुपपत्तेरभावात् ।
 लक्षणाबीजस्य सम्बन्धस्य लाक्षणिकप्रयोगे प्रयोजनस्य वाऽनिरूपणाच्च ।
 असर्वज्ञत्वपदेनाल्पज्ञत्वविवक्षायां तस्य सर्वज्ञत्वविरहरूपत्वायोगाच्चेति ।
 नन्वत्र वध्यशब्देनात्यन्ताभावप्रतियोग्यप्रामाणिकमेव विवक्षितमिति यदक्तम् ।
 तन्न ।
 अत्यन्ताभावप्रतियोगिनः क्वचित्प्रामाणिकत्वस्याप्यङ्गीकार्यत्वात् ।
 अन्यथेशेऽल्पशक्तिर्नास्तीति बुद्धेर्निर्विषयत्वं स्यादिति चेन्न ।
 भूतले शशविषाणं नास्तीति बुद्धेरपि निर्विषयत्वापातात् ।
 जीवेऽल्पशक्तेः प्रामाणिकत्वेऽपीशे जीवसाम्येन प्रसक्तायास्तस्या अप्रामाणिकतयाऽऽवश्यकत्वाच्च ।
 ननु च सत्त्वासत्त्वे तावत्प्रामाणिके ।
 ते च परस्परात्यन्ताभावरूपत्वात्परस्परप्रतियोगिभूते ।
 तथा च कथमत्यन्ताभावप्रतियोगिनः प्रामाणिकत्वाभावनिश्चय इति चेन्न ।
 घटादेः सत्त्वस्य तदसत्त्वात्यन्ताभावरूपत्वेऽपि न तत्रासत्त्वस्य प्रतियोगिभूतस्य प्रामाणिकत्वम् ।
 एवं शशविषाणादेरसत्त्वस्य तत्सत्त्वात्यन्ताभावरूपत्वेऽपि न तत्र प्रतियोगिभूतस्य सत्त्वस्य प्रामाणिकत्वम् ।
 एवञ्च सति कथमत्यन्ताभावप्रतियोगिनः प्रामाणिकत्वं प्रत्याशाकर्तुं शक्यते ।
 अत एव न्यायामृतादौ विमतं मिथ्येत्यत्र सत्त्वासत्त्वात्यन्ताभावयोः साध्यत्वे व्याहतिदानं च सङ्गच्छते ।
 `त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता ।
 सत्तोच्यतेऽध्यस्ततुच्छे तं प्रतियोगिनी' इति न्यायामृतेऽध्यस्ततुच्छयोर्द्वयोरेवात्यन्ताभावप्रतियोगित्वकथनाच्च ।
 न च तत्रैव तत्परीक्षाग्रन्थेऽश्वे गोत्वं कदाऽपि नास्तीत्यादौ तत्संसर्ग एव निषिध्यत इति मते देशपदमनपेक्षितमित्युक्तम् ।
 तेन ज्ञायते स्वमतेऽश्वे निषिध्यमानगोत्वेऽव्याप्तिवारणार्थं सर्वदेशीयपदमपेक्षितमिति ।
 ततश्चात्यन्ताभावो द्विविधः ।
 सार्वदैशिकसार्वकालिकरूप एकः ।
 सार्वदैशिकमात्रोऽन्यः ।
 तत्र प्रथमाभावं प्रत्येवाध्यस्ततुच्छयोः प्रतियोगित्वं द्वितीयाभावं प्रति तु प्रामाणिकस्यापि गोत्वादेः प्रतियोगित्वमिति सेत्स्यतीति वाच्यम् ।
 अभावद्वैविध्ये प्रमाणाभावात् ।
 अश्वे निषिध्यमानस्य गोत्वस्य प्रामाणिकत्वायोगात् ।
 तथा हि ।
 किं गोत्वमश्वे प्रसक्तं निषिध्यतेऽप्रसक्तं वा ।
 आद्येऽध्यस्तमेव तत् ।
 न द्वितीयः ।
 अप्रसक्तप्रतिषेधायोगात् ।
 प्रतिषेधप्रतिपादनमेव नियमेन प्रसक्तिसापेक्षं न तत्प्रतिपत्तिरिति चेत् ।
 तथाऽपि यद्गोगतं गोत्वं तदेवाश्वे नास्तीति प्रतीयते ।
 उत तत्सजातीयमन्यदेव ।
 आद्येऽपि सकलगोगतं गोत्वमुतैकगोगतम् ।
 नाद्यः सकलगोत्वानामज्ञातत्वेन तन्नास्तिताप्रतीत्ययोगात् ।
 अश्वे गोत्वानि न सन्तीति प्रतीत्यापाताच्च ।
 न द्वितीयः ।
 तथा सति तद्गोत्वं नास्तीति प्रतीत्यापत्तेः ।
 अन्त्ये तु तुच्छमेवैतत् ।
 सकलसद्गोत्वसजातीयस्यान्यस्याभावात् ।
 तस्मादश्वे नास्तीति निषेध्यं गोत्वमसदेव ।
 ततश्चाश्वे गोत्वसंसर्ग एव निषिध्यते न गोत्वमिति मतमेव स्वमतम् ।
 तत्र सर्वदेशीयपदमनपेक्षितमेव ।
 संसर्गात्यन्ताभावप्रतियोगिनः संसर्गस्याप्रामाणिकत्वेन तदत्यन्ताभावस्य सर्वदेशीयतानियमात् ।
 कारिकायां सर्वदेशीयपदं त्वभ्युपगमवादेन ।
 अत्यन्ताभावस्वरूपकथनार्थं च ।
 अन्यथा सर्वात्यन्ताभावेष्वप्रामाणिकप्रतियोगित्वानुगतिसूचनाय शशविषाणादीनामिति बहुवचनं प्रयुक्तमिति तत्त्वविवेकटीकीयमन्दारमञ्जर्यां स्पष्टमेवोक्तत्त्वात्तद्विरोधापातात् ।
 सिद्धान्तेऽप्रामाणिकस्यैव निषेधप्रतियोगित्वादिति प्रमाणलक्षणटिप्पण्यां श्रीराघवेन्द्रतीर्थकृतायामुक्तत्वाच्च ।
 विस्तृतं चैतदस्माभिर्निर्दोषत्ववादे ।
 अतोऽत्रात्यन्ताभावस्य सिद्धान्ते तुच्छातुच्छोभयप्रतियोगिकत्वमप्यस्तीत्यभियोगेन सर्वज्ञत्वासर्वज्ञत्वादेः परस्परविरहरूपत्वाङ्गीकारेऽपि न प्रामाणिकत्वभङ्गो मन्तव्य इत्युपपद्यते ।
 उपाधिखण्डनमन्दारमञ्जरीग्रन्थविरोधमाशङ्क्य तत्र कथञ्चिदनुपपत्त्यादिकमभिधाय प्रौढिवादेनैवासौ ग्रन्थः प्रवृत्त इत्यादि यत्कैश्चिदुक्तं तदश्रद्धेयमिवाभातीति चिन्त्यम् ।
 न चेति ॥ स्वाभाविकैक्यसद्भावेऽपि मायाविद्यारूपोपाधिकल्पितभेदस्य सत्त्वात्तन्मात्रेणैव जीवेशयोः सर्वज्ञत्वासर्वज्ञत्वादिविरुद्धधर्मव्यवस्थोपपत्तिः ।
 तथा च नानेन पारमार्थिकभेदसिद्धिरित्यर्थः ॥ तद्वति योगिनीति ।
 औपाधिकभेदवति सौभर्यादियोगिनि परस्परमंशानामनुसन्धानस्यैव दर्शनेन ज्ञानाज्ञानसुखदुःखादिव्यवस्थाया अदर्शनादित्यर्थः ।

(24) (मु.) ॥ एवञ्चेति ॥ द्रव्यत्वादेः साधितत्वेनासिद्ध्यादेरभावात्पूर्वपक्षदूषितान्यपि पुनः सिद्धानीति भावः ।
 आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वात्पृथिवीत्ववदित्यादिरादिपदार्थः ॥ चैत्रेति ॥ सकलेत्युक्तदोषग्रासाय हेतौ शरीरत्वप्रवेशः ।
 तर्हि दृष्टान्ताभावादित्युक्तमित्यतो व्यतिरेकेति ।
 शिष्टं विचारितम् ।
 नन्विन्द्रार्जुनादिशरीरेषु स्वाम्यैक्येऽपि विरुद्धाया रावणादिशरीरेषु तद्भेदेऽप्यविरुद्धायाश्चेच्छाया दर्शनादप्रयोजको हेतुः ।
 मैत्रस्यैव जन्मान्तरीयशरीरेषु व्यभिचारश्चेति चेन्न ।
 प्रतिज्ञायां भेदपदस्य द्वित्वनिर्वाहकधर्मसामान्यवाचित्वेनेन्द्रार्जुनादिशरीरावच्छिन्ने तावद्विशेषसद्भावात् ।
 न चैवं चैत्रमैत्रयोरपि विशेषेणार्थान्तरता ।
 तावताऽपि निर्विशेषवादविलयापत्तेः ।
 वस्तुतस्त्विन्द्रार्जुनादिशरीरेष्वैक्यस्य प्रमितत्वाद्भेदे प्रमाणमात्राभावाच्च ।
 सोमाभावे पूतिकस्येव विशेषपरिग्रहः ।
 इह तु भेदस्यैव स्वरसता प्राप्ता ।
 चशब्दाद्बाधकानां निरसिष्यमाणत्वान्मुख्यभेदस्यैव ग्रहो युक्तः ।
 रावणादिशरीरे व्यापकव्यभिचारस्तु नास्माकं परिपन्थी ।
 न चैवं जन्मान्तरीयशरीरे व्यभिचारः सुस्थ एव ।
 तत्स्वामिनो विशेषस्याभावादिति वाच्यम् ।
 हेतौ समानकालीनत्वस्य विशेषणात् ।
 यद्वा मुख्यभेदः साध्यः ।
 तत्र विरुद्धचेष्टाकत्वं नामान्योन्यायतनकसुखाद्यनुसन्धानानधिकरणत्वं विवक्षितम् ।
 उक्तस्थलेऽनुसन्धानस्यैव सत्त्वान्न व्यभिचारादि ।
 जन्मान्तरीयशरीरादिष्वपि स्तन्यादिना प्रवृत्त्या किञ्चिदनुसन्धानाङ्गीकारात् ।
 उत्तरशरीरगतसुखदुःखाद्यनुसन्धानं पूर्वशरीरे नास्तीति तदा व्यभिचार इति चेन्न ।
 अन्यतरानुसन्धानस्यापि विरोधशब्दार्थत्वादित्यलम् ॥ जीवेश्वराविति ॥ पारमार्थिकभेदसाधनेऽप्रसिद्धिः ।
 न चेत्सिद्धसाधनतेत्युक्तदोषग्रहाय धर्मीत्यादि ।
 विरोधस्सहानवस्थाननियमश्चेत्स हि भिन्नाधिकरणत्वनियतो जीवेश्वरभेदसिद्धेः (* `-भेदासिद्धेः' इति मु.पाठः प्रामादिकः ।
) पूर्वमसिद्धमित्यत आह - विरोधश्चेति ॥ नन्वेवं चेद्विरुद्धो हेतुः ।
 नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायेन वध्यघातुकयोरेकाधिकरण्यावश्यम्भावात् ।
 किञ्च सर्वज्ञत्वासर्वज्ञत्वयोरुक्तविरोधासिद्धिः ।
 नित्यत्वानित्यत्वयोरप्युक्तविरोधाभावाद्दृष्टान्तायोगश्चेति चेन्न ।
 इह वध्यघातुकत्वं नाम प्रतियोग्यभावत्वमिति विवक्षणात् ।
 अङ्गीकृत्येदमुदितम् ।
 सहानवस्थान एव विरोधस्तद्वांश्च धर्मो जीवत्वेश्वरत्वनियम्यत्वनियामकत्वरूप एवास्तु ।
 न चैवमसिद्धिः ।
 साध्यसन्देहाहितो हेतुसन्देहो न दोष इत्युक्तत्वात् ।
 सहानवस्थाननियमो नाम नेदं सहावस्थातुमर्हतीति निर्बाधविषयत्वम् ।
 बाधकं निराकरिष्यते ।
 अथवा पारमार्थिकत्वव्यावहारिकत्वौदासीनभेदमात्रसापेक्षत्वं विरोधः स च व्यावहारिकभेदवादिनस्तु नासिद्धः ।
 यद्वा जीवेश्वरयोरसङ्करव्यवहारार्थं वादिद्वयाङ्गीकृततदसाधारणशब्दघटितलौकिकवैदिकव्यवहारेष्वन्योन्यनिष्ठत्वेनाव्यवह्रियमाणधर्माधिकरणत्वमिति दिक् ॥ तद्व्यवस्थेति ॥ सार्वज्ञादिव्यवहारस्येत्यर्थः ।
 तथा च भेदाभावे व्यवस्था न स्यादिति हेतूच्छित्तितर्कस्याप्रसिद्धत्वादप्रयोजको हेतुरिति भावः ।
 नानादेहगतांशेष्वन्योन्यमौपाधिकभेदवत्यपि योगिन्यंशभेदेन सार्वज्ञासार्वज्ञरूपवैलक्षण्यादर्शनादौपाधिकभेदेनान्यथासिद्धिरिति भावः ।
 नन्वारोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोप इति चेन्न ।
 विप्रतिपन्नस्थले क्वापि व्यावहारिकभेदेनोक्तव्यवस्थानुपलम्भेन निमित्तत्वस्यैव भञ्जनात् ।
 ननु विरुद्धधर्मयोर्विशिष्टवृत्तित्वेन जीवेश्वरपदाभिप्रेतचैतन्ये तदसिद्धिरिति चेन्न ।
 विशिष्टपदोक्तविशेषणद्वयस्यैव हेतुत्वात् ।
 न च तदपि विशिष्टयोरेवेति वाच्यम् ।
 अविद्याविशेषणयोरेव हेतुत्वात् ।

(24) (कु.) ॥ एवञ्चेति ॥ आत्मनो द्वित्वगुणाश्रयत्वसमर्थनेन द्रव्यत्वसिद्धावित्यन्वयः ।
 गुणाश्रयत्वसमर्थनेन द्रव्यत्वसिद्धावित्यर्थः ॥ चैत्रशरीरमिति ॥ व्यावहारिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत इति ।
 न चाप्रसिद्धविशेषणतेति वाच्यम् ।
 वस्तुतो मैत्रशिरीरस्वामितादात्म्यापन्नस्वामिकं न भवतीत्यभावसाध्यकत्वात्तत्र च साध्याप्रसिद्धिर्न दोष इत्युक्तं प्राक् ॥ विरुद्धचेष्टाकत्वादिति ॥ मैत्रशरीरचेष्टाविरुद्धचेष्टाकशरीरत्वादित्यर्थः ।
 एवञ्चैकस्वामिकयोर्घटपटयोर्न व्यभिचारः ।
 प्रागुक्तमन्वयदृष्टान्ताभावमङ्गीकृत्य व्यतिरेकदृष्टान्तमाह - मैत्रशरीरमिति ॥ न च कालभेदेन मैत्रशरीर एव गमनागमनयोर्विरुद्धचेष्टयोर्दर्शनाद्व्यभिचार इति वाच्यम् ।
 एककालावच्छेदेनेति हेतुविशेषणात् ।
 न च तथाऽपि खाण्डवदहनाज्ञानदर्शनानुकूलविरुद्धचेष्टादर्शनादिन्द्रार्जुनशरीरयोर्व्यभिचार इति वाच्यम् ।
 उभयवादिसम्प्रतिपन्नं यदेकस्वामिकं तच्छून्यत्वे सतीति विशेषणात् ।
 इन्द्रार्जुनशरीरयोस्त्वावयोरेकस्वामिकत्वसम्प्रतिपत्तेर्न व्यभिचारः ।
 अत एव न सौभर्यादिशरीरे व्यभिचारः ।
 न चाप्रयोजकता ।
 परस्परगतदुःखानुसन्धानप्रसङ्गरूपविपक्षे बाधकतर्कसनाथत्वात् ।
 अत एव नोपाधिसत्प्रतिपक्षाभाससाम्यशङ्का ॥ जीवेश्वराविति ॥ न च जीवस्यापि धर्मित्वात्तत्सत्तासमानसत्ताकभेदवत्त्वं परस्याभिमतमिति सिद्धसाधनतेति वाच्यम् ।
 दत्तोत्तरत्वात् ॥ वध्यघातुकभावलक्षण इति ॥ परस्परात्यन्ताभावरूपत्वलक्षणस्तद्व्याप्यत्वलक्षणो वेत्यर्थः ।
 तेन नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायेन वध्यघातुकभावापन्नज्ञानेच्छाधारे तदापन्नतमः प्रकाशाधारे न व्यभिचारः ।
 संयोगतदत्यन्ताभावयोस्तु नावयोरेकाश्रयत्वमिति तदाधारे न व्यभिचारः ।
 अत एव नित्यत्वानित्यत्वादाविवेति सङ्गच्छति ।
 न हि तत्र नाश्यनाशकभावः सम्भवति ।
 अत एवेत्थमेव न्यायामृतेऽपि बोध्यम् ।
 अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।
 उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।
 स्वाभाविकं तयोरेतन्नान्यथा तु कथञ्चनेत्यादिश्रुतेर्नासिद्धिः ।
 ननु सिद्धान्तेऽत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वेन सर्वज्ञत्वादीनां परस्परात्यन्ताभावरूपत्वे तद्व्याप्यत्वे वा तुच्छत्वापत्तिः ।
 तदाधारत्वस्य पक्षे दृष्टान्ते चासिद्धिः ।
 तुच्छस्येतरात्यन्ताभावसाध्ययोर्व्याप्यत्वायोगश्च ।
 न च तार्किकरीत्याऽयं प्रयोग इति नोक्तदोष इति वाच्यम् ।
 संयोगतदत्यन्ताभावयोस्तु नावयोरेकाश्रयत्वमिति न व्यभिचार इति न्यायामृतीयोत्तरवाक्यविरोधात् ।
 ततः कथमिति चेत् ।
 उच्यते ।
 अत्यन्ताभावस्य न तुच्छमात्रप्रतियोगिकत्वं किन्तु तुच्छप्रतियोगिकत्वं न तु तात्त्विकमत इवातुच्छमात्रप्रतियोगिकत्वं न वा समवायविशेष्यकसंसर्गित्वमित्याशयेनैवायं प्रयोगः ।
 अत एव निरवधिकाभावः सदा भाव इति लक्षणात् ।
 न तु तुच्छप्रतियोगिक इति ॥ भवति च जीवे सर्वज्ञत्वाभावो निरवधिक एवमीशे जीवधर्माभावोऽपि ।
 अन्यथेशेऽल्पशक्तिर्नास्तीत्यादिबुद्धेर्निर्विषयत्वं स्यात् ।
 न चेयमीशाल्पशक्तिसंसर्गाभावविषयिणीति वाच्यम् ।
 संसर्गस्य प्रतियोगिकोटावनुल्लेखात् ।
 बुद्धेः शब्दवत् व्याख्यानायोगात् ।
 ईशत्वं तद्विपर्यय इति उदाहृतश्रुतिविरोधाच्च ।
 अन्यथेह धटो नास्तीत्यग्रे भविष्यतीत्यादिप्रागभावादिबुद्धेरपि संसर्गप्रागभावविषयत्वापातेन घटादीनां प्रागभावादिप्रतियोगित्वमपि न स्यात् ।
 तस्मादतुच्छप्रतियोगिकोऽपि सिद्धान्तेऽत्यन्ताभावोऽस्त्येवेत्याशयो ग्रन्थकारस्य ।
 अत एव न्यायामृते सत्त्वासत्त्वात्यन्ताभावयोः साध्यत्वे व्याहतिदानं लाघवादावश्यकत्वादसत्त्वात्यन्ताभाव एव सत्त्वमिति स्वीकारात् ।
 द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायेनैकतरनिषेधस्यान्यतरविधिरूपत्वात् ।
 मे माता वन्ध्येतिवद्व्याघात इति ।
 मया त्रिकालसर्वदेशीयनिषेधाप्रतियोगित्वतत्प्रतियोगित्वे सत्त्वासत्त्वस्वीकारादिति इति च सङ्गच्छते ।
 परन्तु कदाचिद्धटवत्येव भूतले समयान्तरे प्रतीयमानस्तदभावो न सिद्धान्तेऽत्यन्ताभावः ।
 तस्यामूर्तत्वेनान्यत्र गमनागमनायोगेन घटवत्यपि तदभावबुद्धेः प्रमात्वापातात् ।
 न च समवायविशेषस्य संसर्गतया तेन सम्बन्धेन स नास्तीति कथं प्रमेति वाच्यम् ।
 समवायविशेषस्य संसर्गत्वे प्रमाणाभावात् ।
 अन्यथा सर्वं सर्वत्रास्त्येव ।
 समवायविशेषरूपसंसर्गाभावादप्रतीतिविरुद्धप्रतीतिरित्यपि स्यात् ।
 किन्तु यथायथं घटतद्भूतलसंसर्गप्रागभावादिः ।
 न च शब्दवत्तत्प्रतीतिव्याख्यानमनुपपन्नमिति वाच्यम् ।
 अनन्यगत्या तत्र तथा स्वीकारात् ।
 एतदभिप्रायिक एव भूतले घटाभावबुद्धेर्विषयो न वाच्यः प्राचां यत्र तद्भूतले घटसंसर्गः कदाऽपि न तत्र तत्सम्बन्धात्यन्ताभावविषयोक्तिस्त्वनवस्थैव ।
 उक्तरीत्या तत्र घटात्यन्ताभावविषयत्वस्यापि सम्भवात् ।
 अथवा तत्रापि प्रतीतिर्न व्याख्येया ।
 प्रतियोगिसमवायिदेश इव तदन्यदेशेऽपि कालादादिव घटप्रागभावादिसत्त्वं तयोर्न विरुद्धम् ।
 इह भूतले इदानीं घटो नास्ति अग्रे भविष्यति प्रागभूद्वेति प्रतीतेः ।
 न च तथाऽप्यविद्यमानस्यैव घटादेः समवायान्यदेशवृत्तिप्रागभावप्रध्वंसप्रतियोगित्वमागतं न तु देशान्तरवृत्तेः ।
 प्रतियोगित्वं वर्तमानस्यैव प्रागभावादिविरोधित्वादिति तदर्थप्रतीतिव्याख्यानं दुर्वारमिति वाच्यम् ।
 एतस्मिन्भूतले स घटो भविष्यदभूद्वेति ।
 अस्माकं समग्रो भविष्यत्यभूद्वेति विद्यमानस्यापि प्रागभावादिप्रतियोगित्वबुद्धेरविशेषेण न्यायेऽत्यन्ताभाव इव तत्तदधिकरणे तत्तत्कालावच्छेदेन तत्तत्सम्बन्धेन प्रतियोगित्वस्यैव प्रागभावादिविरोधकल्पनया तत्र हि तत्सह विरोधेन तत्राप्रतीतेरव्याख्यानात् ।
 न चैवमेकघटप्रतियोगिकनानाप्रागभावापातः प्रतीतेरुपलम्भायोगात् ।
 संसर्गप्रागभावविषयत्वादीति चेन्न ।
 प्रतीतिव्याख्यानायोगेन प्रामाणिकगौरवस्य सोढव्यत्वात् ।
 अन्यथा प्रागभावादाविवात्यन्ताभावेऽपि प्रतियोगिवर्तमानत्वस्यैव विरोधिकल्पनेन तद्बुद्धेरपि संसर्गात्यन्ताभावबुद्धित्वं को वारयिता ।
 अति लाघवेन सत्त्वमात्रस्यैवात्यन्ताभावविरोधकल्पनया सर्वत्र सत्प्रतियोगिकात्यन्ताभावबुद्धिः संसर्गात्यन्ताभावविषयत्वमत्यन्ताभावस्य त्वसन्मात्रप्रतियोगिकत्वं को निवारयितेति दिगित्यपि केचित् ।
 ननु ग्रन्थकृत एवमाशयवर्णने मन्दारमञ्जरीविरोधः ।
 तथा हि तत्र भेदग्राहिप्रत्यक्षे बाधाभावव्युत्पादनावसर उक्तम् ।
 स्वं बाधाभाव एव हेतुः ।
 स्वशब्दश्च भेदग्राहिप्रत्यक्षपरः ।
 न च तत्प्रसिद्ध्यप्रसिद्धिभ्यां तदभावस्य दुर्वारमिति वाच्यम् ।
 अत्यन्ताभावस्य प्रतियोगिसत्त्वानपेक्षणात् ।
 ज्ञानन्त्वसतोऽपि साधितमेव ।
 ननु कथमभावो निष्प्रतियोगिकः स्यादिति चेन्न ।
 किमिदं निष्प्रतियोगिकत्वम् ।
 प्रतियोगिप्रतीतिनिरपेक्षत्वं वा प्रामाणिकप्रतियोगिहीनत्वं वा ।
 नाद्यः ।
 अनुक्तोपलम्भात् ।
 न ह्यस्माभिरत्यन्ताभावप्रतीतिः प्रतियोगिप्रतीतिनिरपेक्षेत्युक्तम् ।
 किन्तर्हि प्रसक्तप्रतिषेध इत्युक्तम् ।
 न द्वितीयः ।
 अभावत्वं निष्प्रतियोगित्ववत् ।
 सत्त्वसाक्षाद्व्याप्यधर्मत्वाद्भावत्ववदित्यनुमानेन निष्प्रतियोगिकाभावसाधनात् ।
 अथ भूतलान्तरे घटे विद्यमाने इह भूतले घटो नास्तीति घटस्याभावोऽनुमीयते ।
 अयं प्रागभावध्वंसाभावयोरन्यतरः प्रतियोग्यसमानकालीनत्वात्तयोर्नाप्यन्योन्याभावः ।
 भूतलं घटो न भवतीति प्रसङ्गात् ।
 ततः परिशेषादत्यन्ताभाव एव गम्यते ।
 ततश्चात्यन्ताभावः कथं निष्प्रतियोगिकः स्यादिति चेन्न ।
 इह भूतले घटो नास्तीत्यादौ भूतलघटसंयोगस्यैव निषिध्यमानत्वात् ।
 अवश्यं चैतत्त्वयाऽप्यङ्गीकरणीयम् ।
 घटस्य भूतलान्तरे सत्त्वेन स्वरूपेण निषेधायोगात् ।
 एतद्भूतलसंसृष्टत्वाकारेण निषिध्यत इति चेत् ।
 तर्हि प्राप्ताप्राप्तविवेकेन संसर्ग एव निषिध्यत इत्यायातम् ।
 सविशेषणे हि विधिनिषेधौ सति विशेष्यबाधे विशेषणमुपसङ्क्रामत इति न्यायात् ।
 कथं तर्हि घटो नास्तीत्यत्र घटशब्दोपादानमिति चेत् ।
 भूतल इत्यधिकरणसप्तम्या भूतलस्याश्रयत्वेऽभिहिते आश्रयत्वप्रतिसम्बन्धिन्याधेयत्वे चार्थाद्युक्ते किन्निष्ठाधेयतेत्यकाङ्क्षायां घटनिष्ठेत्यावेदयितुं घटशब्दोपादानात् ।
 एवञ्चेह भूतले घटो नास्तीत्यत्रापि भूतलघटयोराधाराधेयभावो निषिध्यत इति स्थितम् ।
 तत्र यदि नाम तयोराधाराधेयभावः प्रागभूत्तदाऽयमनुभवस्तत्प्रध्वंसविषयकः ।
 यदि तु भविष्यति तदा प्रागभावविषयकः ।
 यदि न जातो न भावी तदा तदत्यन्ताभावविषयकः ।
 एवञ्च शशविषाणं नास्तीत्यादेः शशविषणं नास्तीत्याद्यपि न कल्पनीनयम् ।
 तत्राप्यप्रामाणिकस्य शशविषाणस्यैव प्रतियोगित्वोपपत्तेः ।
 तस्मादत्यन्ताभावस्य निष्प्रतियोगिकत्वात्स्वबाधात्यन्ताभावो हेतुरिति न कश्चिद्दोष इति ।
 ततः कथमेवमाशयवर्णनमिति चेत् ।
 उच्यते ।
 न तावदनुमानविरोधः ।
 तुच्छप्रतियोगिकात्यन्ताभावस्यापि स्वीकारेणाभावत्वस्य निष्प्रतियोगिकनिष्ठत्वात् ।
 निष्प्रतियोगिकमात्रनिष्ठत्वं न तु साध्यार्थः ।
 बाधात् ।
 भावत्वे च व्यभिचाराच्च ।
 हेतूकृतसत्त्वसाक्षाद्व्याप्यधर्मत्वं यद्यपि सत्त्वव्याप्यत्वे सति तद्व्याप्यत्वम् ।
 अभावपृथिव्यन्यतरव्याप्यत्वे सति तदभावस्यासिद्ध्यापत्तेः ।
 नापि तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यत्वम् ।
 प्रागभावत्वे व्यभिचारात् ।
 तथाऽपि सत्त्वसाक्षाद्विभाजकोपाधित्वम् ।
 तदपि भावाभावभेदेन सद्विभागं कुर्वतो मते स्वतन्त्रसद्विरुद्धविभागवादादसिद्धिरिति न मन्तव्यम् ।
 तथा च नानुमानविरोधः ।
 अथ भूतलान्तर इत्यादि ग्रन्थस्तु न साधुसन्दर्भः ।
 तथा हि ।
 अभावत्वस्य निष्प्रतियोगिकनिष्ठत्वं तुच्छप्रतियोगिकनिष्ठत्वं तुच्छप्रतियोगिकात्यन्ताभावत्वे तदन्यत्वे वा सत्यभावात् ।
 प्रकृतस्य स्वबाधकविरहस्य हेतूकृतस्य निष्प्रतियोगिकत्वेऽभावत्वकथन्तायाः समाहितत्वात् ।
 न ह्यत्यन्ताभावमात्रस्य निष्प्रतियोगित्वमनुमानार्थो येन ग्रन्थसन्दर्भः शुद्धः स्यात् ।
 अवश्यं चैतत्त्वयाऽप्यङ्गीकरणीयमित्याद्यपि न नैय्यायिकभयावहम् ।
 तेनाधिकरणान्तरे सत एव घटस्य स्थलान्तरे स्वरूपेणैव निषेधाङ्गीकारात् ।
 एतावान्परं विशेषः ।
 शशशृङ्गादिकं सद्भिः सर्वत्र निषिध्यत इत्युच्यते न तु घटोऽधिकरणविशेषे स्वरूपेण निषिध्यत इत्युच्यते ।
 न पुनर्भूतलसंसृष्टत्वरूपविशेषाङ्गीकारेण सुन्दरो देवदत्तो नास्तीत्यादाविव विशेषणस्य प्रतियोगितावच्छेदककोटावनुपादानात् ।
 अभिमतसंसर्गावच्छिन्ना प्रतियोगिता परं संसर्गमर्यादया भासत इत्यङ्गीकारात् ।
 यदि चाधेयताया घटनिष्ठताज्ञापनाय घटशब्दोपादानं स्यात्तर्हीह घटो नास्तीत्यग्रे भविष्यतीत्यादावपि घटशब्दोपादानस्य तदेव फलं भविष्यतीति प्रागभावादेरपि न घटप्रतियोगिकत्वं स्यात् ।
 अपि त्वाधाराधेयप्रतियोगिकत्वमेव (* अयं कु2.पाठानुसारी ।
 मु.कु1.पाठयोः `त्वाधाराधेयभावप्रतियोगिकत्वमेव' इति दृश्यते ।
) स्यादिति न तस्मादयं ग्रन्थः प्रौढिवादेन प्रागुक्तसामग्रिकात्यन्ताभावनास्तित्वतात्पर्यक एव वक्तव्यः ।
 अत एव मन्दारमञ्जर्यामेव सत्यत्वनिरुक्तिप्रस्तावे निषेधाप्रतियोगित्वमिति (* `निषेधाप्रतियोगित्वमुक्तमिति' इति पाठेन भाव्यमिति भाति ।
) चेन्न ।

 धटादेरपि निषेधप्रतियोगित्वेन लक्षणासम्भवात् ।
 त्रैकालिकनिषेधाप्रतियोगित्वमिति चेन्न ।
 अश्वत्वस्य गवि त्रैकालिकनिषेधप्रतियोगित्वेन तत्राव्याप्तेः ।
 न हि गौः कदाचिदप्यश्वत्वाश्रय इत्यादिग्रन्थः ।
 अश्वत्वादेरत्यन्ताभावप्रतियोगित्वाङ्गीकारपरो दृश्यते ।
 अन्यथा तत्रैव पूर्वोत्तरविरोध उदाहृतन्यायेन न्यायामृतवाक्यविरोधः स्यादिति ॥ अत एवानिर्वाच्यत्वसाधकनिषेधप्रतियोगित्वान्यथाऽनुपपत्तिभङ्गे न्यायामृते ।
 किञ्चेह भूतले घटो नास्तीत्यादिना पराभिमतसामयिकात्यन्ताभावबुद्धेरेव संसर्गाभावविषयत्वव्युत्पादनं न तु गव्यसत्त्वाभावं बुद्धेर्दृश्यते ।
 तथा हि ।
 किञ्चेह भूतले घटो नास्तीति धियः संसर्गाभावो विषयो न तु घटाभावः ।
 इह भूतले घटो नास्तीत्यत्र संयोगो निषिध्यत इत्युदयनोक्तेः ।
 भूतले घटोऽस्तीति बुद्धेस्तत्सम्बन्धविषयत्वे नास्तीति बुद्धेरपि तदभावविषयत्वाच्च ।
 किञ्च न तावदयं घटस्य प्रागभावो ध्वंसो वा प्रतियोगिसमानकालीनत्वात् ।
 नाप्यत्यन्ताभावः ।
 कदाचित्तत्र घटस्य सत्त्वात् ।
 यदि चैतत्कालावच्छेदेनात्यन्ताभावस्तर्हि अत्यन्ताभावातिरिक्तः प्रागभावादिर्न सिध्येत् ।
 संयोगस्य तु भूतले भूतलत्वे ध्वंसो भावित्वे प्रागभावः कदाऽप्यभावे त्वत्यन्ताभाव इत्यसतः संसर्गस्य प्रतियोगित्वसिद्धिः ।
 न च घटे सन्नेव संसर्ग इह निषेध्यः ।
 तस्यापि घटतुल्यत्वेन प्रागभावादिकल्पनाप्रसरात् ।
 यदुक्तं वर्धमानेन घटात्यन्ताभावस्तर्ह्यत्यन्ताभावातिरिक्तः प्रागभावादिर्न सिध्येत् ।
 संयोगस्य तु भूतल एवायम् ।
 घटकाले त्वसम्बन्धान्न भवति ।
 घटात्यन्ताभावस्य भूतलेन सहसम्बन्धश्च तत्संयोगध्वंसादिः ।
 अथवा प्रतियोगिभेदेनेव प्रतियोगितावच्छेदकभेदेनाप्यभावभेदात् ।
 संयुक्तघटाभावोऽयं विशिष्टान्तराभाववदुत्पादविनाशशाल्यप्यन्य एवेति ॥ तत्र नाद्यः ।
 अभावाधिकरणयोः सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वरूपक्लृप्तसम्बन्धत्यागेन संयोगध्वंसादेः सम्बन्धत्वकल्पनेऽऽवश्यकसंयोगध्वंसादेरेव तद्धीविषत्वोपपत्तेः ।
 अन्यथा घटस्य कपालेष्वत्यन्ताभाव एव घटकालत्वाश्रयाश्रयिभावध्वंसादिरूपसम्बन्धाभावादप्रतीतेरिति ॥ घटात्यन्ताभावः केवलान्वयी स्यात् ।
 न द्वितीयः ।
 संयोगस्य निषेध्यकोटित्वादिष्टासिद्धेः ।
 दण्डे सत्यपि पुरुषाभावेन दण्ड्यभाववद्भूतलसंयोगवत्यपि घटाभावेन संयुक्ताभावस्यादर्शनेन क्लृप्तैः संयोगप्रध्वंसादिभिरेव सर्वोपपत्तावुत्पादविनाशशीलसंयुक्ताभावान्तरकल्पनायोगाच्चेति ।
 अत एव न्यायामृते सत्त्वनिरुक्तिप्रस्तावे त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता सत्तोच्यते ।
 अध्यस्ततुच्छेतं प्रति प्रतियोगिनीति सत्त्वलक्षणमभिधाय परीक्षावसरेऽश्वे गोत्वं कदापि नास्तीत्यादौ तत्संसर्ग एव निषिध्यत इति मते देशपदमनपेक्षितमित्युक्तम् ।
 न च तदपि स्वमतमेव न्यायरीत्या देशपदं मन्मते तु नापेक्षितमिति तदर्थ इति वाच्यम् ।
 तथात्वे गगनादेरप्यत्यन्ताभावो केवलान्वयीत्युक्तत्वान्न गगनादावव्याप्तिरितिवदश्वादेरत्यन्ताभावप्रतियोगित्वं नेति न तत्राव्याप्तिरिति वक्तव्यम् ।
 न तदुद्धाराय सर्वदेशीयपदं देयम् ।
 अन्यथा न्यायनये गगनादावव्याप्त्युद्धाराय पदान्तरं देयं स्यादिति ।
 तस्मादत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वं ग्रन्थकर्तुरभिमत एवेति ।
 केचित्त्वत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वं साधयन्त इत्याहुः ।
 प्रध्वंसप्रागभावयोस्तावत्प्रतियोगिना सह कालिको विरोध इति परस्यापि सम्मत इति ॥ तत्र प्रतियोगिना सह कालिकविरोधितावच्छेदकं प्रध्वंसत्वं प्रागभावत्वं चेति नाना वक्तव्यम् ।
 ततो वरं लाघवात् ।
 संसर्गाभावत्वमेवैकमिति घटकालीनतदत्यन्ताभावः सिध्यति ।
 एकरूपेण विरोधकल्पनोपपत्तावत्यन्ताभावस्य दैशिको विरोध इतरयोस्तु कालिक इत्यर्धजरतीयानुपपत्तेः ।
 नन्वेवं ततोऽपि लाघवादभावत्वमेव विरोधितावच्छेदकमस्तु ।
 एवं सति घटकालेऽपि घटान्योन्याभावोऽपि न सिद्धः स्यात्किन्त्वत्यन्ताभाव इवान्योन्याभावोऽप्यसत्प्रतियोगिक एव स्यादिति चेन्न ।
 मन्मतेऽन्योन्याभावस्याभावत्वाभावेनाभावस्य त्रिविधत्वात् ।
 तदुद्भावितानिष्टापादनमापादकाभावादभावत्वस्यैव लाघवाद्विरोधितावच्छेदकत्वे अस्मदिष्टस्यैव सिद्धेः ।
 तदुक्तं भगवत्पादैः ।
 `प्राक् प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते ।
 भावाभावस्वरूपत्वान्नान्योन्याभावता पृथगि'ति ।
 नन्वेतावताऽपि धर्म्यात्मकत्वेनान्योन्याभावस्य भावनिष्ठे तस्मिन्भावात्वेऽप्यभावनिष्ठे तदस्त्येवेति चेत् तावताऽपि प्रागभावादित्रयाणामेवान्योन्याभावरूपत्वेन तेषां प्रतियोगिसमानकालीनत्वं नास्तीत्युक्तं स्यात् ।
 तदस्माकमिष्टमेवेत्यवोचामेवेति ।
 नन्वेवं वायौ रूपात्यन्ताभावो न स्यादिति चेन्न ।
 इष्टापत्तेः ।
 न चैवं वायौ रूपापत्तिः ।
 किं रूपमात्रसद्भाव आपाद्यते वा वायुरूपसद्भावो वा ।
 नाद्यः ।
 घटादौ रूपस्य सत्त्वेनेष्टापत्तेः ।
 न द्वितीयः ।
 वायावित्यधिकरणरूपकारकविभक्तेरुल्लेखात्कारकाणां क्रिययैवान्वयात् ।
 वाय्वधिकरणरूपकर्तृसद्भावरूपक्रियाविशेषणस्यैव शब्दमर्यादया प्रतीतेर्जनकज्ञानस्य च शाब्दबोधसमानाकारकतया वायुरूपसंसर्गविशेषविषयत्वात्तस्य तुच्छत्वेन तदत्यन्ताभावस्यापि वायौ सम्भवान्न कोऽपि चोद्यावकाशः ।
 ननु तादृशसंसर्गस्याकालिकत्वेन कथं तज्ज्ञानं येनापादनमपि वक्तुं शक्यत इति चेत् ।
 कविकाव्यमूलभूतोत्प्रेक्षाज्ञानं चेदाहार्यत्वात्तस्य ।
 अत एव प्रतियोग्यधिकरणसंसर्गारोपोऽपि तत्र कारणमिति त्वदीयसाम्प्रदायिकाः ।
 एतावान्परं विशेषः ।
 तैस्तादृशज्ञानस्य स्वतन्त्रकरणतः स्वीक्रियते ।
 अस्माभिस्तु तदेव प्रतियोगिज्ञानमित्यास्थीयत इति ।
 अत एव वायौ रूपं नास्तीत्यभावप्रतीतिरपि वाय्वधिकरणकरूपकर्तृकसत्तामेव निषेध्यत्वेन विषयीकरोति शाब्दबुद्धिसमानाकारत्वाच्छब्दप्रयोगकरणबुद्धेः ।
 अन्यथाऽतिप्रसङ्गात् ।
 शब्दात्तु वायौ रूपमस्तीति यत्तन्नेत्येव प्रतीतिः ।
 अधिकरणे सप्तम्यनुशासनात् ।
 वाय्वाद्यधिकरणकरूपकर्तृकसत्तायास्त्वलीकत्वाद्युक्तं सार्वात्रिकात्यन्ताभावप्रतियोगित्वम् ।
 अत एव न सुरां पिबेदित्यादावपि बलवदनिष्टाननुबन्धित्वरूपलिङन्तक्रियापदार्थांश एव निषेधान्वय इति तवाऽपि सम्मतम् ।
 रूपाभाववान्वायुरित्यादावपि निषेध्यतया प्रतीयमानं रूपं वायवीयमेव ।
 वायौ स्वीयं रूपं नास्तीत्यप्रतीतेः ।
 अन्यनिष्ठरूपस्यान्यत्राभावमादाय तत्प्रतीतौ घटादावापि रूपं नास्तीत्यादिप्रतीत्यापत्तेः ।
 अत एव तादृशस्थले नञ्प्रसज्यप्रतिषेधमाक्षिपति ।
 उक्तं च ।
 `अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
 प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञि'ति ।
 अत एव संयोगाभावं बुबोधयिषवो भूतले घटो नास्तीत्येव प्रवक्तारो निरस्ताः ।
 एतेन भूतले घटो नेत्येव प्रयोक्तारो निरस्ताः `अव्ययं विभक्ती'त्यादिनाऽर्थाभावे यदव्ययं तत्तेन सह नित्यसमासाम्नानाव्द्यस्तप्रयोगस्य साधुत्वात् ।
 धटो नास्तीत्यादौ `सुप्सुपे'त्यनुवृत्तेस्तिङन्तेन सह समासाप्रसङ्गादेव नासाधुत्वशङ्कावकाशः ।
 न च घटः घटो नेत्यत्रासाधुत्वापत्तिः ।
 विभाषाधिकारे नञ्समासाम्नानात् ।
 न च तत्राप्यव्ययीभावप्रसङ्गः ।
 अर्थाभाव इत्यर्थशब्दोपादानमहिम्ना संसर्गाभाववाचकनञैव समासविधानेनान्योन्याभावस्थले तत्प्राप्तेरेवाभावादितीति ।
 तस्माद्वायौ रूपं नास्तीति शब्दजन्या बुद्धिर्वाव्यधिकरणकरूपकर्तृकसत्त्वनिषेधमेव गोचरयतीति तादृशोल्लेखवती प्रत्यक्षबुद्धिरपि प्रमेयं गोचरयतीति सिद्धमत्यन्ताभावस्यासत्प्रतियोगिकत्वम् ।
 अवश्यं चैतदेवम् ।
 अन्यथा घटो नास्ति घटौ न स्तः घटा न सन्ती वचनव्यवस्था ।
 देवदत्तो नास्ति त्वं नास्यहं नास्मीति पुरुषव्यवस्था च न स्यात् ।
 अस्तित्वं प्रत्यक्षाभावस्य कर्तृत्वं सर्वत्र नास्तीत्येव प्रयोगापत्तेः ।
 युष्मद्युपपदे समानाधिकरणेऽस्मदि च तथा विधेर्मध्यमोत्तमयोरनुशासनादिति ॥ अत्रोच्यते ।
 यत्तावदुक्तं प्रागभावध्वंसयोः प्रतियोगिना सह कालिकविरोधितावच्छेदकं न प्रागभावत्वं ध्वंसाभावत्वं च नाना गौरवात् ।
 किन्तु लाघवात् संसर्गाभावत्वमेकमेव ।
 एवञ्च त्रयाणामेकरूपेण कालिको विरोधो न पुनरत्यन्ताभावस्य दैशिकोऽन्ययोस्तु कालिक इत्यर्धजरतीयमिति सिद्धमत्यन्ताभावस्यासत्प्रतियोगिकत्वमिति ।
 तन्न प्रतियोग्यधिकरणसंसर्गारोपपूर्वकनिषेधधीविषयाभावत्वरूपसंसर्गाभावत्वापेक्षया लघोः क्वाचित्काभावत्वस्योभयानुगतस्य विरोधितावच्छेदकत्वात् ।
 तन्तुपटादीनां संसर्गस्यैवाभावान्न प्रागभावध्वंसयोः संसर्गाभावत्वमिति टीकाकारैस्तयोः संसर्गाभावत्वस्यैव निषेधेन तस्य विरोधितावच्छेदकत्वायोगाच्च ।
 कार्यकारणभेदवादे प्रतियोगिना सह कालिकविरोधस्य दुर्वचत्वाच्च ।
 भेदेन कथञ्चिदुपपादनेऽपि तन्तूनां प्रतियोगिकोटिनिवेशस्य त्यक्तुमशक्यत्वात् ।
 प्रतियोगिताया द्वित्वादिवद्व्यासज्यवृत्तित्वाभावेन प्रतियोगितापर्याप्त्यधिकरणविरोधस्याप्ययोगात् ।
 इदानीं मयि धनं नास्तीत्यग्रे भविष्यतीत्यादिप्रतीत्यनुरेधात् ।
 वर्तमानस्यापि प्रागभावप्रतियोगित्वादेर्दर्शितत्वाच्च ।
 अत्यन्ताभावस्य कालिकविरोधस्वीकारेऽपि दैशिकविरोधस्यावश्यं वक्तव्यत्वेनार्धचरतीयन्यायानिस्तारात् ।
 अन्यथा प्रागभावदेश इवात्यन्ताभावदेशे प्रतियोगिसत्त्वं स्यात् ।
 न चात्यन्ताभावस्य सर्वकालवृत्तित्वात्तत्काले तद्देशे कथं प्रतियोगी स्यादिति वाच्यम् ।
 यत एवं सति कालिकविरोधो दैशिकविरोधस्योपोद्बलक एव न तु निवर्तकः ।
 यदपि नन्वेवं ततोऽपि लाघवादित्यारभ्य तदस्माकमिष्टमित्यवोचामेत्यन्तं तदपि न रमणीयम् ।
 तथा हि ।
 अभावत्वं किं यत्किञ्चित्प्रतियोगिताश्रयविरोधिताश्रयविरोधितावच्छेदकम् ।
 किं वा तदभावनिष्ठप्रागभावादिका यावत्यः ।
 नाद्यः ।
 तथा सति सत्प्रतियोगिकात्यन्ताभावेऽपि स्वमते तुच्छान्योन्याभावसम्भवेन तस्य च तदात्मकत्वेन तदभावनिष्ठान्योन्याभावनिरूपकयत्किञ्चित्प्रतियोगिताश्रयतुच्छेन कालिकविरोधेऽपि तस्य विरोधितावच्छेदकत्वसम्भवेन स्वाभिमतासत्प्रतियोगिकत्वानिर्वाहात् ।
 न द्वितीयः ।
 अभावत्वस्य प्रागभावादिनिष्ठप्रागभावत्वनिरूपकप्रतियोगिताश्रयविरोधिताश्रयविरोधितावच्छेदकत्वेऽपि तन्निष्ठान्योन्याभावत्वनिरूपकप्रतियोगिताश्रयघटादिविरोधितावच्छेदकत्वाभावेनाभावत्वस्य विरोधितावच्छेदकत्वायोगात् ।
 यदपि नन्वेवं वायावित्यारभ्यास्थीयत इत्यन्तम् ।
 तन्न ।
 यदि पर्वतो निरग्निः स्यात् तर्हि निर्धूमः स्यादित्यत्रापि धूमाभावमात्रस्यापाद्यत्वेन तस्य च जलादौ सत्त्वेनेष्टापत्तेः ।
 न च तत्रापि पर्वतवृत्तिधूमाभावो धूमाभाववान्पर्वतो वाऽऽपाद्यः ।
 स च न जल इति नेष्टापत्तिरिति वाच्यम् ।
 वह्न्यभावमात्रेण तदापादनाऽयोगात् ।
 न च निर्वह्निपर्वतादिकमेवापादकमिति वाच्यम् ।
 निर्वह्निमत्पर्वतस्य निर्धूमवत्पर्वतेन व्याप्तेरग्रहात् ।
 धर्मविशेषेऽनिष्टापादनाभावे तेन तन्निष्ठविपक्षज्ञानस्योच्छेदायोगात् ।
 अद्यप्रभृत्येतादृशापाद्यापादकभावस्याश्रुतत्वाच्च ।
 न च धूमाभावस्य जल इव पर्वते नेष्टता इति नेष्टापत्तिरिति वाच्यम् ।
 इहापि रूपस्य वायावनिष्ठत्वेन तदभावात् ।
 तथा च पर्वतो यदि वह्न्यभाववान्स्यात् तर्हि धूमाभाववान्स्यादितिवद्वायुर्यदि रूपात्यन्ताभाववान्न स्यात् तर्हि रूपवान्स्यादिति तर्कः सुस्थ एवेति ।
 अवच्छेदकभेदादापाद्यापादकभावोपपत्तेः ।
 अथवा रूपात्यन्ताभावो यदि वायुवृत्तिर्न स्यात् तर्हि तद्वृत्तिरूपप्रतियोगिकः स्यादिति तर्काकार इति ।
 वायावित्यधिकरणरूपायाः कारकविभक्तेरित्यादि यद्विकल्पितं द्वितीये तदपि न युक्तम् ।
 वायुरूपसद्भावस्यालीकत्वेन वायौ तदत्यन्ताभावस्य सत्त्वेन तदापादनायोगादित्येव वक्तुं युक्तम् ।
 न हि विकल्पस्थले उपादानापेक्षा ।
 अयुक्तं च तदुपपादनमुदाहृततर्कशरीरद्वये सप्तम्याद्यभावात् ।
 प्रसिद्धतर्क इवापाद्यापादकयोर्धर्म्यघटितत्वाच्च ।
 तुच्छात्यन्ताभावस्य वायुवृत्तित्वेऽपि तस्य केवलान्वयित्वेन तस्य रूपाविरोधित्वेन तदापादनरूपचोद्यावकाशासत्त्वाच्च ।
 अलीकस्य ज्ञानसम्भवेऽपि तेन व्याप्तिग्रहायोगाच्च ।
 तर्कविचारावसरेऽभावज्ञानकरणपार्थक्यापार्थक्यविचारस्यासङ्गतत्वाच्च ।
 यदपि अत एव वायौ रूपं नास्तीत्याद्यनुशासनादित्यन्तं तदपि न ।
 तथा हि ।
 अत एवेत्यनेन संसर्गाभावत्वस्य विरोधितावच्छेदकत्वं वोपष्टम्भकत्वेन परामृश्यते ।
 शाब्दबुद्धेस्तदाकारत्वं वोभयं वा ।
 नाद्यः ।
 निरस्तत्वात् ।
 न द्वितीयः ।
 असिद्धेः ।
 तथा हि ।
 कारकाणां क्रिययैवान्वय इत्यत्र न किञ्चित्प्रमाणमस्ति ।
 न हि कारकविभक्तीनां क्रियान्वित एव स्वार्थे शक्तिः ।
 किन्तु योग्येतरान्विते ।
 तत्र यत्कारकं साक्षात्क्रियान्वययोग्यकर्त्रादि तस्य क्रियान्वयः ।
 अधिकरणं तु सर्वं न साक्षात्क्रियान्वययोग्यम् ।
 यथाऽध्वनि देवदत्तश्चरति गङ्गायां देवदत्ताय गां ददाति वृक्षाद्भूमौ पर्णं पततीत्यादावध्वगङ्गाभूम्यादीनां चलनदानपतनाद्याधारत्वाभावात् ।
 न च देवदत्तादिद्वारा क्रियाधारताऽधिकरणानामिति वाच्यम् ।
 आवश्यकत्वेन देवदत्ताद्यन्वयस्यैव वक्तुमुचितत्वात् ।
 अत एवाहुः ।
 यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते तेन तेनान्वितः स्वार्थः पदैरेवाभिधीयत इति ॥ एवञ्च प्रकृतेऽपि रूपनिष्ठवर्तनभावनापरपर्यायसत्ताक्रियाया वायुवृत्तित्वायोगात् ।
 न च वायोस्तथाऽन्वयः ।
 सत्ताजातिस्तु न क्रिया स्वमतेऽनुगतायास्तस्याभावाच्च ।
 एवञ्च वाय्वधिरणकसत्तेत्यन्वयबोधांशो न युज्यते ।
 न वायुरूपकर्तृकसत्येत्यंशोऽपि कर्तुराख्यातोऽभिहिते त्वितरपदोत्तरकर्तृकर्तृकविषयविभक्तेरभावेन रूपकर्तृकनिषेधायोगात् ।
 आख्यातार्थस्तु कर्ता तु प्रकृतिप्रत्ययौ सहार्थं भूतस्तयोः प्रत्ययार्थः प्राधान्येनेति नियमान्न क्रियोपसर्जनतायोगः ।
 अत एव सत्तानिषेध इत्यंशोऽपि न युज्यते ।
 न ह्येवं सम्भवति ।
 तथात्वे या नञर्थं प्रतियोगितयाऽन्वेति ॥ आख्यातार्थस्तु धात्वर्थे उपसर्जनतामश्नुत इति ॥ किञ्चैवं बोधाङ्गीकारे वायौ रूपं नास्त्युक्तेऽपि पुनरधिकरणान्तराकाङ्क्षा स्यात् ।
 तद्वारणार्थं सर्वत्रेत्युक्तिरपि स्यादिति ॥ तस्माद्वाय्वधिकरणरूपकर्तृकसत्तानिषेध इति न शाब्दबुद्धेराकारः ।
 किन्तु चैत्रस्येदं धनं न मैत्रस्येत्यादौ षष्ठ्यर्थं मैत्रस्वत्वस्य नञर्थेऽन्वयेन मैत्रस्वत्वाभाववद्धनमिति बुद्धिवत्पृथिव्यां रूपं न वायावित्यादावपि सप्तम्यर्थाधेयत्वस्य नञर्थेऽन्वयेन वाय्वाद्याधेयत्वाभाववद्रूपमित्येवान्वयबोधः ।
 एवमन्वयबोधे वचनव्यवस्था पुरुषव्यवस्था च सम्यगुपपद्यते ।
 घटादीनामेवास्ति क्रियाकारककर्तृकत्वाङ्गीकारात् ।
 तथा हि ।
 घटादीनां सर्वात्मना निषेधायोगादधिकरणविशेषापादनस्यावश्यकत्वेन तदाधेयत्वनिषेधविशिष्टघटपटत्ववदात्मत्वादेर्विशेष्यत्वस्यौचित्यात् ।
 न चैवं भूतले घटो नास्तीत्यत्र घटात्यन्ताभावो न विषयः स्यादिति वाच्यम् ।
 न भवत्येव शाब्दबोधे प्रात्यक्षिके त्विन्द्रियसम्बद्धविशेष्यतादिसद्भावे भवत्येव विषयः ।
 स तात्पर्यशब्दप्रयोगकारणीभूताऽस्तु शाब्दबुद्धिसमानाकारो मानसादिर्भिन्न एव बोध इति न किञ्चित्सङ्करम् ।
 अस्तु वा वायौ रूपं नास्तीति शब्दस्थले वाय्वधिकरणकरूपकर्तृकसत्तानिषेध इत्याकारो बोधस्तादृशशब्दप्रयोगकारणीभूतोऽपि मानसादिस्तदाकारः ।
 तथापि सर्वैरेव प्रात्यक्षिकैर्बोधैस्तदाकारैरेव भवितव्यमिति न नियमः ।
 स्वस्यानुव्यवसायसाक्षिकाणां तत्तत्सामग्रीबललभ्यानामाकारान्तराणामपि सम्भवात् ।
 न हि ते सर्वेऽप्याकाराः शब्देनाभिलपनीया इति नियमोऽस्ति ।
 केषाञ्चिदाकाराणां शब्देनाभिलपनायोगात् ।
 यथा जातिविशेषविशिष्टपुत्रादिस्वरलिप्यादिबोधाद्याकाराः ।
 यथा वा भूतलविशेष्यकघटप्रकारकप्रत्यक्षबोधाकारो न तत्समानाकारशाब्दबुद्धिजनकशब्देनाभिलपितुं शक्यः ।
 घटाभाववद्भूतलमित्यनेन घटाभावसम्बन्ध्यभिन्नं भूतलमिति बोधात् ।
 एवं भूतलविशेष्यकघटप्रकारकेत्यादेरपि शब्दो विलक्षणाकारमेव बोधं जनयतीति शाब्दबोधक्रियाविदां सुज्ञानमेव ।
 वाय्वाधेयत्वाभाववद्रूपमिति बोधाङ्गीकारे वायौ रूपं नास्तीति प्रयोक्तारो निराकृताः ।
 सप्तम्यर्थस्यैव नञर्थप्रतियोगित्वेनान्वयेनोपपदेन सामर्थ्याभावेन समासाप्रसक्तेः ।
 सप्तमी तु न सुबन्तमिति न तयाऽपि समासप्रसङ्गः ।
 अत एव टीकाकारव्यासतीर्थानां बहवः प्रयोगाः ।
 अस्तु वा वायौ रूपं नास्तीत्यत्र यत्किञ्चिच्चैत्रस्यैदं न मैत्रस्येत्यादौ सत्प्रतियोगिकात्यन्ताभावबोधेन यत्किञ्चिद्बाधकम् ।
 न हि तत्रापि कारकविभक्तिरस्ति षष्ठ्या अकारकत्वात् ।
 अन्यथा राज्ञः पुरुष इत्यत्रापि षष्ठ्यर्थस्य पुरुषेऽन्वयो न स्यात् ।
 अत एव न तृतीयः ।
 किञ्चैवं सति इदानीं घटो नास्त्यग्रे भविष्यति इदानीं त्वमस्यग्रे न भविष्यसि इदानीमहमस्म्यग्रे न भविष्यामि ।
 एवमिदानीं घटो प्राङ्नाभूत् त्वं नाभूः अहं नाभूवमित्यादौ घटप्रतियोगिकध्वंसप्रागभावबोधो जायत इत्यविवादम् ।
 सोऽपि भवदुक्तरीत्या न स्यात् ।
 तत्रापि कारकविभक्तिश्रवणेनाग्रिमकालाधिकरणकघटादिकर्तृकालिकसत्तानिषेध एव प्रतीयेत ।
 न चैवम् ।
 अनुभवविरोधात् ।
 घटादिध्वंसादीनां सत्ताकर्तृकत्वे च ध्वंसप्रागभावादिव्यक्तीनां नानात्वेन वचनविरोधाभावेऽपि पुरुषविरोधः स्यादेव ।
 सर्वत्रापि भविष्यति अभूदित्येव स्यात् ।
 न च तत्रापि ध्वंसादिप्रतियोगिव्यवस्थाकृतैव पुरुषव्यवस्था ।
 `युष्मद्युपपदे समानाधिकरण' इत्यादौ प्रथमैकवचनान्तशब्दप्रतिपाद्यत्वरूपं यदाख्यातार्थकर्त्राद्यभेदान्वययोगतावच्छेदकं रूपं तद्वत्त्वमेव सामानाधिकरण्यं विवक्षितम् ।
 न त्वभेदान्वयोपहितत्वपर्यन्तमिति वाच्यम् ।
 भूतले घटो नास्तीत्यादावपि तुल्यत्वात् ।
 एवञ्च भूतले वृत्तिर्घटाभावः सत्ता कर्तेत्यपि बोधाकारः समाहितो भवति ।
 वचनव्यवस्थायाः पुरुषव्यवस्थासमानयोगक्षेमत्वादिति ।
 किञ्च रूपाभाववान्वायुर्वायौ नीरूपं रूपाभावो वेत्याद्यभिलापस्थले का गतिः ।
 न हि तत्रोक्तकुसृष्टिश्चलति ।
 आद्येऽधिकरणविभक्तेरभावात् ।
 अग्रिमे पुरुषपदस्य नञादिभिः समासात् ।
 न चात्रापि रूपपदं वायुरूपपरम् ।
 अन्यथाऽन्यदीयरूपाभावेनैतादृशबोधेऽभिलापे वा पृथिव्यादावपि तथा बोधाभिलापापात इत्युक्तमिति वाच्यम् ।
 अन्वयितावच्छेदकावच्छिन्नप्रतियोगितावच्छेकत्वस्य व्युत्पत्तिबललभ्यत्वेन तत एव पृथिव्यादौ तथा बोधाभिलापयोरप्रसङ्गेन वृथा लक्षणाङ्गीकारायोगात् ।
 विशेषाभावबोधस्त्विष्ट एव ।
 अपि च घटः पटो न भवतीति यत्तन्नेति योजनया घटकर्तृकपटभावनिषेध एव प्रतीयते ।
 न पटान्योन्याभावः ।
 न च पटपदस्य कारकपदविभक्त्यन्तत्वाभावेनैतदर्थस्य नञर्थेऽन्वयबोधात्पटान्योन्याभावबोध इति वाच्यम् ।
 वायौ रूपं नास्तीत्यादावपि रूपपदस्य तथात्वेन तदर्थस्य नञर्थेऽन्वये बाधकाभावादिति साम्यादिति दिक् ।
 तस्मादेवमाशयवर्णनेन किञ्चिद्बाधकमिति स्थितम् ।
 एवञ्च सति पारतन्त्र्यादिदोषात्यन्ताभावानां भगवल्लक्षणताऽपि समाहिता भवति ।
 अत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वे तु तेषां केवलान्वयित्वेन भगवल्लक्षणत्वं न सम्भवति ।
 (* अयं कु1.अनुसारी पाठः ।
 मु.पाठे एवं दृश्यते - `अत्यन्ताभावस्य तुच्छतामात्रप्रतियोगिकत्वे सिद्धान्ते तथाऽपि न क्षतिः ।
 तथा हि ।
 एतेषां केवलान्वयित्वेन भगवल्लक्षणत्वं न सम्भवति ।
) अस्तु वाऽत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वं सिद्धान्ते तथाऽपि न क्षतिः ।
 तथा हि ।
 हरावेव सर्वज्ञत्वमन्यस्मिन्नेव तदभावः ।
 एवं जीवादावेवासर्वज्ञत्वं हरावेव तदभावः ।
 एवं गव्येव गोत्वं तदन्यस्मिन्नेव तदभाव इत्यादिप्रतीतिः सर्वजनसिद्धा निर्बाधा सर्वसमाधेया ।
 सा तु सर्वज्ञत्वासर्वज्ञत्वगोत्वात्यन्ताभावानामारोपिततुच्छतत्प्रतियोगित्वे तुच्छतत्तत्संसर्गप्रतियोगिकत्वे वा तेषामभावीयविशेषणतासम्बन्धेन केवलान्वयित्वान्न समाधातुं शक्या ।
 आरोपितसर्वज्ञत्वाद्यभावानां हर्यादिष्वपि सत्त्वात् ।
 अतस्तेषां व्यतिरेकितानिर्वाहकं सम्बन्धान्तरमावश्यकम् ।
 यथेश्वरज्ञानस्य विषयतासम्बन्धेन केवलान्वयिनोऽपि व्यतिरेकितायै समवायान्यद्वेति (* `केवलान्वयोऽपि व्यतिरेकितायै सम्बन्धान्तरं समवायोऽन्यद्वेति' कु1. ।
 पाठद्वयेऽप्यर्थो न स्फुटः ।
)।
 यथा वा परमते आकाशात्यन्ताभावस्य केवलान्वयित्वेऽपि प्रतियोगितावच्छेदकसम्बन्धेनाकाशमात्रनिष्ठत्वार्थं प्रतियोगितासम्बन्धः ।
 तच्चात्यन्ताभावस्याश्वाद्यारोपितगोत्वप्रतियोगिकत्वे स्वप्रतियोग्यधिष्ठानत्वमश्वादिमात्रनिष्ठं व्यावृत्तमन्यद्वाऽस्तु ।
 अश्वाद्यनुयोगिकगोत्वप्रतियोगिकसंसर्गप्रतियोगिकत्वे तु स्वप्रतियोग्यनुयोगित्वं गोव्यावृत्तमन्यद्वाऽस्तु तेन विनोक्तप्रतीत्यनिर्वाहात् ।
 एवञ्च सर्वज्ञत्वाभावस्य जीवमात्रनिष्ठसम्बन्ध आवश्यकः ।
 असर्वज्ञत्वाभावस्येश्वरमात्रनिष्ठः ।
 स च स्वरूप एव लाघवात् ।
 तथा च परस्परात्यन्ताभावस्वरूपमसाधारणसम्बन्धस्तदात्मकत्वात् ।
 तेन सम्बन्धेनात्यन्ताभावस्य व्यापकतानिरूपितव्याप्तिमत्त्वात् ।
 परस्परात्यन्ताभावरूपत्वं तद्व्याप्यत्वं च युक्तमिति ।
 एवं सर्वदोषात्यन्ताभावस्यापि नृहरिमात्रनिष्ठः सम्बन्ध आवश्यक इति तेन सम्बन्धेन तस्य लक्षणताऽपि युज्यते ।
 एवं रूपात्यन्ताभावस्य वाय्वादिमात्रनिष्ठः पृथिव्यादिव्यावृत्तः सम्बन्ध आवश्यक इति तेन सम्बन्धेन तस्य तस्य रूपविरोधित्वात् न वाय्वादौ रूपापत्तिरिति दोषसंसर्गात्यन्ताभावेऽपि परम्परया दोषसम्बन्धित्वाद्दोषत्यन्ताभावतया व्यवह्रियत इति न किञ्चिदनुपपन्नम् ।
 नन्वत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वं निर्युक्तिकं सिद्धान्ते कथमङ्गीक्रियत इति चेदुच्यते ।
 तुच्छमात्रप्रतियोगिकत्वं तावत्क्वापि शशशृङ्गं नास्तीति प्रतीतिबलात्सिद्धम् ।
 शशशृङ्गस्य तुच्छत्वात् ।
 तस्य चैतत्प्रतीतिबलात्प्रतियोगिकत्वसिद्धेः ।
 न च तत्र शशशृङ्गं प्रतियोगि किन्तु शृङ्गमात्रं न तत्तुच्छम् ।
 तन्निष्ठा प्रतियोगिता परं व्यधिकरणेन शशीयत्त्वेनावच्छिद्यते ।
 तदवच्छिन्नप्रतियोगिताकः शृङ्गप्रतियोगिताक एवाभावोऽनया प्रतीत्या गृह्यत इति वाच्यम् ।
 तथा सति शशीयं नास्तीति प्रतीत्याकारः स्यात् ।
 शृङ्गत्वस्य प्रतियोगितावच्छेदकाघटस्य प्रतियोगिदिशिभानायोगात् ।
 अन्यत्र तथाऽदर्शनात् ।
 बाधकं विना विशिष्टप्रतियोगिताबुद्धेः स्वरसभङ्गायोगाच्च ।
 अन्यथा देवदत्तवति दण्डी देवदत्तो नास्तीत्यादिबुद्धेरपि देवदत्तमात्रप्रतियोगित्वं दण्डित्वं तदवच्छेदकमिति स्याद्विशिष्टस्य प्रतियोगित्वं न स्यात् ।
 विशिष्टं दण्डदेवदत्तात्मकमतिरिक्तं वेत्यन्यदेतत् ।
 ननु तत्र विशिष्टं सत्त्वमत्रासदिति वैलक्षण्यमिति चेत् ।
 अस्तु किमेतावता ।
 न ज्ञानमभावप्रतीतिकारणं न सम्भवतीति चेत् ।
 असतोऽपि शब्दाभासादिना प्रतीतिसम्भवात् ।
 अन्यथा तवापि प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानं न स्यात् ।
 ननु योग्यानुपलब्धिरभावप्रत्यक्षे कारणम् ।
 योग्यता च तद्व्याप्येतरयावत्तदुपलम्भकसमवधानरूपसदुपलभ्भकत्वदोषघटितम् ।
 तत्सत्त्वेऽनुपलम्भायोगः ।
 तदसत्त्वे न योग्यतेति नासद्विशिष्टाभावः प्रत्यक्ष इति चेन्न ।
 प्रत्यक्षासम्भवेऽपि शाब्दबुद्धेरेव सम्भवात् ।
 किञ्च योग्यतायां दोषातिरिक्तत्वमेवोपालम्भकं वक्तव्यम् ।
 अन्यथा घटाभावोऽपि प्रत्यक्षो न स्यात् ।
 युक्तितौल्यात् ।
 किञ्च संयोगिनाशजन्यसंयोगनाशप्रत्यक्षस्थले एतद्योग्यतानुपलब्धेरभावात् ।
 तर्कितप्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकानुपलब्धिरभावप्रत्यक्षे कारणं वाच्यम् ।
 सा चात्रास्त्येवेति न किञ्चिदनुपपन्नम् ।
 योग्यानुपलब्धिविचारस्तु प्रागेव कृत इति नेह प्रपञ्च्यते ।
 विस्तृतं चैतन्न्यायामृतेऽख्यातिवादान्यथाऽनुपपत्तिभङ्गे ।
 निषेध्यत्वानुपपत्तिभङ्गे च ।
 तथा च सिद्धमत्यन्ताभावस्य तुच्छप्रतियोगिकत्वम् ।
 ननु तथाऽपि तन्मात्रप्रतियोगिकत्वं कुत इति चेत् ।
 शृणु ।
 तुच्छप्रतियोगिकात्यन्ताभावस्यास्ति दौशिक इव कालिकप्रतियोगिना विरोधः ।
 तत्रापि कालिकविरोधितावच्छेदकं न तुच्छाभावत्वं गौरवात् ।
 किन्तु लाघवादत्यन्ताभावत्वमेव ।
 तथा च नात्यन्ताभावकाले प्रतियोगी ।
 अत्यन्ताभावस्य त्वनादिनित्यत्वात् सर्व एव काल इति (* `अत्यन्ताभावस्यानादिनित्यत्ववत्सर्व एवं काले काल इति' मु.) सकलकालावृत्तिप्रतियोगिकत्वसिद्धौ तुच्छमात्रप्रतियोगिकत्वमेव सम्पन्नमिति ।
 अथवा त्वन्मते प्रतियोगितावच्छेदकावच्छिन्नस्य प्रतियोगिनस्तद्देशकालावच्छेदेन तत्तत्सम्बन्धेन तत्राधिकरणे सत्त्वं तत्राधिकरणेऽत्यन्ताभावविरोधित्वम् ।
 तत्र यथा लाघवात्प्रतियोगितावच्छेदकावच्छिन्नांशत्यागेन प्रतियोगिसत्त्वं विरोधि कल्पयित्वा व्यासज्यवृत्तिधर्मावच्छिन्नाभावस्य व्यधिकरणधर्मावच्छिन्नाभावस्य चासम्भव उच्यते ।
 तथा ततोऽपि लाघवाद्यत्र कुत्रापि प्रतियोगिसत्त्वमात्रस्यात्यन्ताभावविरोधित्वमास्थायास्माभिः सत्प्रतियोगिकात्यन्ताभावासम्भव उच्यत इति ॥ अश्वे गोत्वं नास्तीत्यादिप्रतीतिस्तु व्यासज्यवृत्तिधर्मावच्छिन्नाभावव्यधिकरणधर्मावच्छिन्नाभाववत्प्रतीतिवद्विषयान्तरमासादयिष्यति ।
 तच्च विषयान्तरमश्वे गोत्वादिसंसर्गात्यन्ताभाव एव ।
 न च शब्दवत्प्रतीतिव्याख्यानमयुक्तमिति वाच्यम् ।
 त्वन्मते व्यासज्यवृत्तिधर्मावच्छिन्नाभावादिस्थल इवानन्यगतिकत्वात् ।
 अन्यथेदानीमपि धनं नास्त्यग्रे भविष्यति प्रागभूद्वेत्यादिप्रतीतिबलाद्वर्तमानप्रतियोगिकौ प्रागभावध्वंसाभावावप्यङ्गीकार्यौ स्याताम् ।
 यदि च तत्र स्वरूपसंसर्गस्य प्रागभावः प्रध्वंसश्च विषयो लाघवेन प्रतियोगिवर्तमानत्वमात्रस्य प्रागभावप्रध्वंसविरोधिकत्वात् ।
 न तु तेन तेन सम्बन्धेन तत्तत्कालावच्छेदेन तत्राधिकरणे प्रतियोगिसत्त्वे विरोधि गौरव इत्यङ्गीक्रियते तर्हि प्रकृतेऽपि दीयतां दृष्टिरिति सङ्क्षेपः ॥ नचेति ॥ जीवेश्वरयोर्मायाविद्यारूपोपाधिकृतभेदस्य सत्त्वात्सर्वज्ञत्वासर्वज्ञत्वव्यवस्थोपपत्तिरित्यर्थः ॥ योगिनीति ।
 औपाधिकभेदवति प्रतियोगिनि सौभर्यादौ तत्तत्पदार्थविषयकज्ञानाज्ञानयोरदर्शनादित्यर्थः ।

(24) (हु.) एवञ्चेति ॥ आत्मनो गुणाश्रयत्वव्यवस्थापनेन द्रव्यत्वसिद्धौ सत्यामित्यर्थ इति केचित् ।
 वस्तुतस्तु धर्मिसत्तासमानसत्ताकानेकाश्रितत्वस्यावश्यकत्वं तत्रैव व्यक्त्यभेदस्य बाधकत्वमित्यस्य (* `व्यक्तिभेदस्य बाधकमित्यस्य ' मु.) सिद्धौ सत्यामित्यर्थः ॥ इत्यादीन्यपीति ॥ आदिनाऽऽत्मत्वं स्वाश्रयसमानसत्ताकस्वाश्रयप्रतियोगिकभेदवन्नानाव्यक्तिवृत्ति जातित्वाद्धटत्ववदित्यादेर्ग्रहणम् ।
 सुस्थानि पारमार्थिकात्मभेदपर्यवसायीनीत्यर्थः ।
 आरोपितभेदवन्नानाव्यक्तिनिष्ठत्वं जातेर्यदि स्यात् तर्हि आत्मनि द्रव्यत्व(त्वात्मत्वादि)जातय (* अग्रिमवाक्यद्वयस्थाने मु.पाठे `आत्मान्तरघटकत्वे न' इत्येव दृश्यते ।
)आत्मान्तरघटान्तरप्रतियोगिकपारमार्थिकभेदेन विनाप्युपपन्न, न तस्यात्मान्तरघटादिभ्यः पारमार्थिकभेदव्यवस्थापनक्षमाः ।
 यदि च व्यक्त्यैक्यं प्रत्यक्षादिप्रमाद्यविघटकत्वेन दूषणम् ।
 तदाऽनुमानसिद्धात्मत्वस्यात्मन्यात्मान्तरप्रतियोगिकपारमार्थिकभेदव्यवस्थापकत्वं न सिध्येत् ।
 तद्व्यवस्थापने त्विदं सिद्धं भवतीत्युपष्टम्भसङ्गतिः ॥ चैत्रशरीरमिति ॥ अत्र वस्तुतो मैत्रशरीरस्वामिभिन्नस्वामिकमित्येव पाठः ।
 व्यावहारिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत इत्युक्तमिति प्राचीनटिप्पण्युक्तेः ।
 इदं च बहुजीववादिनं प्रति जीवानां परस्परं पारमार्थिकभेदसाधनाय प्रवृत्तमित्याशयेनैकजीववादिनिरासायैतदनुमानप्रयोगे तु तेन सिद्धसाधनता व्यावहारिकभेदमादायोद्भावयितुं न शक्यते ।
 एकमेव शरीरं सजीवमन्यानि शरीराणि स्वप्नदृष्टकशरीराणीव निर्जीवाण्येवेति वा सजीवत्वेऽपि सर्वशरीराधिष्ठितैक एव हिरण्यगर्भो नाम जीव इति वा तैरङ्गीकृतत्वेनैकशरीरस्वामिनि शरीरान्तर[रे ]स्वामिप्रतियोगिकव्याहारिकभेदस्यापि तैरनङ्गीकृतत्वात् ।
 तदा प्रातिभासिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत इत्येतदप्रातिभासिकपरम् ।
 अत एव केषुचित्कोशेषु तत्पदाघटित एव पाठो दृश्यते ।
 तत्र प्रातिभासिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत इति न वक्तव्यम् ।
 पदानां प्रातिभासिकव्यावृत्तधर्मावच्छिन्नोपस्थापन एव [-स्थापकस्यैव] समर्थत्वेन भेदादिपदेन तदुपस्थापनस्यैवाभावात् ।
 अन्यथा वस्तुतः पर्वतो वस्तुतो वह्निमानित्येव प्रयोगापत्तेरित्यभिप्रायः ।
 [ननु] अत्र वस्तुत इत्यनेन पूर्वोक्तमतभेदेन पारमार्थिकत्वस्याप्रातिभासिकत्वस्य वा निवेशे मैत्रशरीरस्वामिप्रतियोगिकपारमार्थिकभेदवत् [-भेदेन] स्वामिरूपसाध्याप्रसिद्ध्याऽप्रसिद्धविशेषणता ।
 अस्य भावसाध्यकत्वेन साध्याप्रसिद्धेर्दोषत्वस्यावश्यकत्वात् ।
 न च वस्तुतो मैत्रशरीरस्वामितादात्म्यापन्नस्वामिकत्वाभाव एवात्र साध्यत्वेन विवक्षितोऽ(तोऽ)भावसाध्यकव्यतिरेक्येवेदमिति वाच्यम् ।
 तथा च (* `तथा सति' इति पाठः सम्भाव्यते ।
) वस्तुत इति विशेषणं प्रतियोकोटौ अभावे वा ।
 नाद्यः (* `प्रतियोगिकाभावे न वाच्यम्' मु.) ।
 विशिष्टप्रतियोगिन एवाप्रसिद्ध्या तन्निरूपितव्यापकताया हेत्वभावे दुर्ग्रहत्वात् ।
 प्रतियोगिप्रसिद्धेरत्रा(-द्धेस्तत्रा)ङ्गीकारेऽपि तदभावरूपसाध्यस्य व्यावहारिकत्वेन वा प्रातिभासिकत्वेन वा सिद्धसाधनताया अनुद्धारात् ।
 अस्य साध्यस्य शरीराधिकरणत्वेन सिद्धस्यापि पारमार्थिकत्वायोगाव्यावहारिकत्वस्यैवोचितत्वात् ।
 सर्वस्याप्यत्यन्ताभावस्य पारमार्थिकत्वमेवेति मताश्रयणे प्रतियोगिकोटौ वस्तुत इत्यनुक्तावपि (* `प्रतियोगिकयोरवस्तुत इत्यनुक्त्वाऽपि' मु.) तादृशस्य स्वामिकत्वसामान्यभावस्य पारमार्थिकत्वस्यैव (प्र)सिद्ध्या प्रतियोगिकोटौ तद्वैयर्थ्यात् ।
 वस्तुतः पारमार्थिकस्वामि(क)त्वस्यैव तन्मते प्रसिद्धिरेव ।
 एतेन प्रतियोगिनि पारमार्थिकत्वानुपादाने स्वामित्वसामान्याभावे पारमार्थिकत्वतादृशस्वामित्वमिथ्यात्वपर्यवसायि स्यात्तेन पराभिमतस्यैव सिद्ध्याऽर्थान्तरता स्यादतस्तन्निवेशनं (* अग्रिमवाक्यस्थाने मु.पाठे `तत्प्रतियोगिनीति' इत्येतावदेव दृश्यते ।
)तत्प्रतियोगिनि तद्दाने तु तस्य पारमार्थिकत्वेनैव गृहीतत्वात् न तन्मिथ्यात्वे पर्यवसानमिति निरस्तम् ।
 अत्यन्ताभावस्य पारमार्थिकत्वसिद्धावपि तस्य तादृशस्वामिकत्वं (* `तादृशस्वामिकत्वे'ति विभक्तिरहिततया भाव्यमिति भाति ।
) सामानाधिकरण्यासिद्ध्या मिथ्यात्वापर्यवसानाच्च ।
 अत्यन्ताभावस्याप्रामाणिकत्वप्रतियोगिकत्वमेवेति (* `अत्यन्ताभावस्य प्रामाणिकत्वप्रतियोगिकत्वमेवेति' मु. ।
 अग्रिमपङ्क्तौ हु.पाठे `अप्रामाणिकप्रतियोगिकत्वेति' दर्शनात् अत्रापि तथैव भाव्यमिति भाति ।
) मते उक्तसाध्यीभूताभावस्य पारमार्थिकप्रतियोगिकत्वायोगाच्च (* `पारमार्थिकत्वप्रति-' मु.) ।
 नाप्युक्तसिद्धसाधनतावारणायाभाव एव वस्तुत इत्येतद्विशेषणमिति पूर्वोक्तद्वितीयक्षः ।
 यद्धर्मावच्छिन्नव्यापकता हेत्वभावस्य गृहीता तदभावेन तद्धर्मावच्छिन्नाभावत्वेन सिध्यतु पारमार्थिकत्वेन सिद्धौ (* `सिद्ध्यै' मु.) तु बीजाभावः ।
 अन्यथा व्यावहारिकत्वेन कुतो न सिध्येत् ।
 न च प्र[भ्र]मात्मकानुमितिसामान्यं स्वविषयं पारमार्थिकत्वेनैव विषयीकरोतीति वाच्यम् ।
 तथात्वे वस्तुत इति विशेषणोपादानमनर्थकमेव ।
 अन्यानुमितीनामिवास्याप्यनुमितेः स्वमहिम्नैवोक्तसाध्यस्य पारमार्थिकत्वव्यवस्थापकत्वसम्भवादिति चेन्न ।
 अत एव वस्तुत इति पदाघटितोऽपि पाठः पुस्तकेषु दृश्यते ।
 तद्दाने तु तस्य पारमार्थिकत्वेनैव गृहीतत्वान्न मिथ्यात्वपर्यवसानम् (* इदं वाक्यं हु.पाठे नास्ति ।
)।
 तत्सत्त्वेऽपि यथाश्रुतसाध्यमेवेदं नाभाससाध(ध्य)कम् ।
 तत्र व्यावहारिकसाध्यादिकमादाय (* `व्यावहारिकमादाय' मु.) सिद्धसाधनतावारणाय वस्तुत इति सार्थकम् ।
 तच्च मैत्रशरीरस्वामिभेदेऽन्वेति ।
 न चाप्रसिद्धविशेषणता दोषः ।
 नैयायिकैरेव तदभ्युपगमात् ।
 वेदान्तिमते तस्या अदूषणताया `आश्रयव्याश्रयसिद्धी साध्यासिद्धिश्च दूषणम् ।
 केषाञ्चिन्न हि ते दोषाः व्याप्तौ सत्यां कथञ्चने'त्यादिना भक्तिपादीयानुव्याख्याने सुधायां च निपुणतरमुपपादितम् ।
 अद्वैतचन्द्रिकाकारोऽपि साध्यस्याप्रसिद्धिर्न दोषः ।
 तत्काले यथाकथञ्चिद्वादिवाक्यादिना तदुपस्थितिमात्रेण साध्यसंशयस्य (* `साध्यसंशयमत्रस्य' हु.) व्यतिरेकव्याप्तेश्चानुकूलतर्कादिसाहित्येन ग्रहीतुं शक्यत्वादित्युपपादितवान्द्वित्रिस्थलेषु ।
 तथा च क्वचिन्नैयायिकरीतिमवलम्ब्य ग्रन्थप्रवृत्तावप्यत्र शुद्धवादिप्रतिवादिरीतिमवलम्ब्यैव ग्रन्थप्रवृत्तौ बाधकाभावात् ।
 यदि चा [वा]ऽयमपि ग्रन्थोऽप्रसिद्धविशेषणताया दूषणत्वमवलम्ब्यैव लापनीय इत्याग्रहस्तदा नैरात्म्यं किञ्चिन्निष्ठाभावप्रतियोगि व्यतिरेकिधर्मत्वादित्यादिना सामान्यतः सात्मकत्वसिद्ध्यनन्तरमेव जीवच्छरीरं सात्मकं प्राणादिमत्त्वादिति व्यतिरेक्यनुमानं प्रवर्तते ।
 तथाऽत्रापि मैत्रशरीरस्वामिभेदश्चिद्वृत्तित्वपारमार्थिकत्वोभयवान् अपारमार्थिकानिरूपककत्वे सति चिद्वृत्तित्वात् चिन्निष्ठानन्दसत्तादिवत् ।
 चिद्वृत्तिशुद्धत्वादौ व्यभिचारवारणाय सत्यन्तम् ।
 तेषां जडामिश्रितत्वादिरूपतयाऽपारमार्थिकानिरूपितत्वाभावात् ।
 सत्ताऽपि ब्रह्मस्वरूप[त्व]मेवातो न देशनिरूपितातो न दृष्टान्तासिद्धिः ।
 तस्यास्तथात्वेऽप्यानन्दज्ञानयोर्दृष्टान्तत्वसम्भवाच्च ।
 गगने स्वाभावाद्यनात्मकतयाऽपारमार्थिकानिरूपिते व्यभिचारवारणाय विशेष्यदलम् ।
 चिति डित्थपिण्डनिष्ठायां भेदस्याज्ञकल्पितस्य परैरप्यङ्गीकारान्न पक्षा(प्र)सिद्धिः ।
 नापि हेत्वसिद्धिः ।
 विशेष्यीभूतचिद्वृत्तित्वस्योपपादितत्वात् ।
 स्वामिपदेन तत्त्वोपलक्षितचेतनस्यैव ग्रहणात् ।
 तस्य पारमार्थिकत्वेनापारमार्थिकानिरूपकत्वरूपविशेषणभागस्यापि सत्त्वात् ।
 तथा चोक्तानुमानेन मैत्रशरीरस्वामिप्रतियोगिकपारमार्थिकभेदवत्सिद्ध्यनन्तरं प्रतिशरीरं जीवभेदसिद्ध्यर्थं तादृशचिदेव स्वामितानिरूपकत्वसम्बन्धेन चैत्रशरीरे (* इत आरभ्य अग्रिम`चैत्रशरीरे' इति पदपर्यन्तम् हु.पाठे न दृश्यते ।
 प्रायः चैत्रशरीरे इति पदस्य द्विधा सद्भावः लेखकं वञ्चयामास ।
) प्रधानतो व्यतिरेकलिङ्गेन साध्यत इति न कश्चिद्दोषः ।
 यद्वा मैत्रशरीरस्वामी चैत्रशरीरे पारमार्थिकप्रतियोगिकत्वापारमार्थिकत्वोभयाभाववत्स्वप्रतियोगिकभेदवत्स्वामिकत्वसम्बन्धेन साध्यते ।
 अयं च मैत्रस्वामिकघटे घटान्तरस्य सम्बन्धः प्रसिद्धः ।
 घटान्तरप्रतियोगिकमैत्रनिष्ठे भेदे पारमार्थिकप्रतियोगिकत्वाभावप्रयुक्तोभयाभावसत्त्वात् ।
 अनेन सम्बन्धेन मैत्रशरीरस्वामिनः साध्यत्वे सम्बन्धघटकतद्भेदेऽपारमार्थिकत्वाभावप्रयुक्तस्यैवोभयाभावस्य वक्तव्यतया मैत्रशरीरस्वामिप्रतियोगिकपारमार्थिकभेदवत्स्वामिकत्वस्योक्तानुमानबलादेव सिद्धेः ।
 परमते उक्तसम्बन्धस्योक्तसाध्यं प्रति व्यधिकरणसम्बन्धतया तत्सम्बन्धावच्छिन्नाभावस्य केवलान्वयितयाऽङ्गीकृतत्वेऽप्युक्तविचारदशायां मैत्रशरीरातिरिक्तेषु सन्दिग्धत्वेन मैत्रशरीरमात्रे तदभावस्य हेत्वभावस्य वादिप्रतिपाद्युभयसम्मतत्वेन निश्चितसहचारेऽप्युभयोः वास्तवभेदो न स्यात्, तर्हि परस्परसुखदुःखानुभवः स्यादित्यादिरूपानुकूलतर्कसहितेन (* `निश्चितसहचारेण स्यादित्यादिरूप-' इत्यनयोः पदयोः मध्यभागः मु.पाठे नास्ति ।
) व्यभिचारसंशयमनादृत्य व्याप्तिग्रहोपपत्तेः ।
 उक्ततर्कबलादेवानुमानहेतोरपि नाप्रयोजकताशङ्काऽपि ।
 अधिकं पूर्वपक्षविवरणेनानुसन्धेयम् (* `विवरणेऽनुसन्धेयम्' मु.) ।
 उक्तानुकूलतर्कानुसन्धानाभावादेव सामान्यतो दृष्टान्ताभावकथनम् ।
 अत्र तु तदभ्युपगमेन दृष्टान्तव्यवस्थापनाभिप्रायेण व्यतिरेकिदृष्टान्तकथनमिति न पूर्वोत्तरविरोधः ॥ तद्विरुद्धेति ॥ एककालावच्छेदेन तच्चेष्टासाध्यफलोत्पत्तिविरोधिव्यापाराश्रयत्वं तद्विरुद्धचेष्टाकत्वम् ।
 प्रकृते तादृशव्यापारवन्तावेव चैत्रमैत्रौ ग्राह्याविति नासिद्धिः ।
 वायूपघातादिवशात् मैत्रचेष्टाविरोधिचेष्टावति मैत्रस्वामिके घटे व्यभिचारापत्ति[-चार]वारणाय शरीरत्वमुपात्तम् ।
 तावत्युक्ते मैत्रशरीर एव व्यभिचारवारणाय विशेषणदलम् ।
 एकस्वामिकत्वे विरुद्धक्रियोत्पत्तिर्न स्यादित्यनुकूलतर्कोत्थापकतया व्याप्तिग्रहौपयिकत्वं सर्वविशेषणघटकानां वर्तत इति न कस्यापि वैयर्थ्यम् ।
 एतत्तर्कोपष्टम्भिततयाऽपि नास्य हेतोरप्रयोजकत्वम् ।
 यत्त्वत्र कथितमिन्द्रार्जुनयोरेककाल एव खाण्डववनदहनतच्छमनरूपविरुद्धचेष्टावतोरेकस्वामिकत्वस्यैव सत्त्वाद्व्यभिचार इति तन्न ।
 उक्तानुमानस्य प्रकृतहेतुसाध्यघटितव्यतिरेकव्याप्तिमूलकस्य व्यभिचाराप्रसक्तेः ।
 यच्छरीरं यच्छरीरचेष्टाविरुद्धचेष्टकं तत्तत्स्वामिभिन्नस्वामिकमिति सामान्यव्याप्त्याऽनुमानस्याप्रवृत्तत्वेन सामान्यव्याप्तौ व्यभिचारचोदनस्याकिञ्चित्करत्वात् ।
 न चैवं सति डित्थविष्णुमित्रशरीरस्य जीवभेदसिद्धिः कथं स्यादिति वाच्यम् ।
 तत्राप्येतादृशव्यतिरेक्यनुमानेन तत्सिद्ध्युत्तरतद्दृष्टान्तकान्वय्यनुमानात्तत्सिद्धिसम्भवात् (* `तत्सिद्ध्युत्तरदृष्टान्तकान्वय्यनुमानादिना वा तत्सिद्धि-' मु.) ।
 ननु तर्ह्यर्जुनादिशरीरादिदृष्टान्तेनोक्तहेतोरप्रयोजकत्वमेव शङ्क्यत इति वाच्यम् ।
 अनुकूलतर्कयोरुक्तत्वात् ।
 तत्रैकस्मिन्नेव विरुद्धचेष्टानुकूलप्रयत्नोत्पादकभगवदिच्छारूपविशेषकारणरूपबलादेकस्वामिकयोः कदाचिद्विरुद्धचेष्टोत्पत्तावप्यन्यत्र भिन्नस्वामिकत्वं विना तन्निर्वाहायोगात् (* `तद्वियोगात्' मु.) ।
 अस्या व्याप्तेरौत्सर्गिकत्वेन बलवद्बाधकैकापोद्यत्वेन सोपाधिकव्यभिचारस्यादूषकत्वादित्युक्तत्वात् ।
 अन्यथा यागीयहिंसायाः पापाजनकत्वेन हिंसात्वस्यापि पापाजनकत्वयोग्यत्वानुपपत्तेः (* `पापाजनकत्वे व्याप्यत्वानुपपत्तेः' मु.) ।
 तत्र यागीयहिंसाभिन्नत्वविशेषणं देयमिति चैत्तर्ह्यत्राप्येकत्र विरुद्धचेष्टोत्पादकप्रयत्नजनकभगवच्छक्त्यादिरूपविशेषकारणा(णान)धीनत्वेन प्रमितत्वविशेषणं दत्वा सामान्यव्याप्त्यादिरपि निर्वोढुं शक्य (शक्यत) एव ।
 विशेषव्याप्तिस्तु सौलभ्याय कुत्रापि विभिन्नस्वामिकत्वसिद्ध्यभावदशायां सामान्यव्याप्तेर्दर्शयितुमशक्यत्वाच्चोपात्तेत्यलम् ।
 इयता भेदस्य व्यासज्यवृत्तित्वमवलम्ब्य तत्सिद्धये द्वित्वाद्यवच्छिन्नपक्षकानुमानन्दर्शयति - जीवेशाविति ॥ जीवे ईशे चेति भेदसिद्धौ द्वित्वेन पक्षीकरणसम्भवः ।
 तत्सिद्धौ च सिद्धसाधनतेति शङ्कानवकाशः ।
 द्वित्वावच्छेदेनैकभेदसिद्धेरभावात् ।
 तत्सिद्धिस्तु द्वित्वस्य पक्षतावच्छेदकत्वमहिम्ना द्वितीयक्षणावच्छिन्नो घटो गन्धवानितिवत् ।
 अत्र व्याप्तिस्तु यदुभयं परस्परविरुद्धधर्माधिकरणं तदुभयं स्वनिष्ठोभयत्वावच्छेदेन परस्परसम्बन्धभेदवदित्युक्तव्याप्तिज्ञानस्य द्वित्वावच्छेदेनैव भेदानुमितिजनकत्वानुरोधेनैव (तत्)सिद्धिः ।
 एतेन पक्षतावच्छेदकत्वमाहिम्ना सिद्धिरित्यनेन तद्भानं न परामर्शकार्यतावच्छेदकमिति सम्प्राप्तम् ।
 तथात्वे उक्तद्वित्वोपलक्षितेऽपि भेदानुमितिजनकत्वं स्यात् ।
 विशिष्टघटे बाधदशायामुत्पत्तिकालोपलक्षितघटे तत्स्थलीयपरामर्शबलेनानुमितिदर्शनात् ।
 तत्रेष्टापत्तौ च चैत्रमैत्रौ चैत्रभेदवन्तावित्यत्रानुमितिर्द्वित्वावच्छेदेन बाधग्रहणदशायां तदुपलक्षिते स्यात् ।
 न च तदाकारानुमितिः (* `चैवमाकारानुमितिः' मु.) कस्याप्यनुभवसिद्धा ।
 तथान्यायोऽपि स न्याय (* `तथा सत्ये सन्याय' इति हु.पाठः ।
 द्वयोरपि अर्थः न स्फुटः ।
) इति कस्यचिदनुमित इति शङ्कानवकाशः ।
 उक्तज्ञानदशायामनुमितिजनकत्वस्यैव सत्त्वात् ॥ सम्मतवदिति ॥ जलानलोभयवदित्यर्थः ।
 अन्यत्र द्वित्वावच्छेदेन भेदमङ्गीकृत्य जीवेशद्वित्वावच्छेदेन परस्य भेदे विप्रतिपत्तिदशायामेवानुमानस्य प्रवृत्तिरिति सम्मतवदित्यनेन सूचितत्वान्न दृष्टान्ते साध्यवैकल्यशङ्कावकाशः ॥ वध्यघातुकभावलक्षण इति ॥ परस्पराभावात्मकत्वं परस्परविरहव्यापकत्वं वा ।
 तच्चैकत्ववादिनाऽपि लौकिकव्यवहारादङ्गीकार्यम् ।
 अन्यथा सर्वमर्यादोल्लङ्घने कथकताया एवासिद्धिप्रसङ्गादित्याशयः ।
 सिद्धन्ते (अभावस्य) प्रामाणिकप्रतियोगित्वनैयत्येऽपि यथेदं घटते तथोपपादितं पुरस्तात् (द्वैतद्युमणौ) ।
 नन्वेकस्मिन्नप्यारोपित (* `-एकस्मिन्नाकारारोपित-' मु.)योर्विरुद्धधर्मयोर्द्वित्वस्य सत्त्वाद्व्यभिचारः ।
 तदर्थं धर्मिसत्तासमानसत्ताकत्वस्य हेतुविशेषणे परस्यासिद्धिरिति चेन्न ।
 पल्लवाज्ञानकार्यत्वाभावरूपप्रातिभासिकत्वाभावस्य हेतुविशेषणत्वाङ्गीकारे दोषाभावात् ।
 मन्मते च पल्लवाज्ञानस्याप्रसिद्ध्या तद्धटितप्रतियोगिताकाभावस्य सत्प्रतियोगिकत्वेनारोपितविरुद्धधर्मयोः सत्त्वेऽपि तयोरसत्त्वेन तद्वत्वस्यैव (* `सद्वृत्तस्यैव' मु.) कुत्राप्यभावादेव (* `कुत्राप्यभावेन' मु.) न व्यभिचारप्रसक्तिरिति ज्ञेयम् ।
 यद्वा भेदस्या[स्य ]व्यासज्यवृत्तित्वपक्षेऽपि पूर्वं ब्रह्मपक्षकानुमानजीवपक्षकानुमाने तयो परस्परं पारमार्थिकभेदसिद्ध्यर्थं पृथगुक्त्वेदानीमेकेनैव तत्साधनार्थमाह - जीवेशादिति ॥ अत्र द्वित्वावच्छेदेन साध्यसाधनं नाम तद्व्यापकत्वेन साधनम् ।
 स्वरूपसम्बन्धरूपावच्छेदकत्वस्यैव तत्पक्षे (* `स्वरूपसम्बन्धरूपावच्छेद्यत्वपक्षे' मु.) बाधितत्वात् ।
 व्यापकता च प्रत्येकवृत्त्योरपि परस्परभेदयोः परस्परप्रतियोगिकपरस्परानुयोगिकभेद[व]त्त्वरूपसाध्यतावच्छेदकरूपेणैवानुमानान्तरेष्विवेति बोध्यम् ।
 संयोगतदभावाधिकरणत्वयोरंशभेदेनैवाङ्गीकृतत्वाद्वृक्षरूपधर्मिणि संयोगसत्त्वमेव न संयोगाभावस्यापि तत्र सत्त्वमिति द्वैतद्युमणौ व्यवस्थापितत्वान्न तदुभयमुपादायोक्तव्याप्तिभङ्गः ॥ न चेति ॥ उपाधिमात्रेणेति ॥ भेदसम्पादकद्वारेत्यादिः ॥ तत्प्रतियोगिनीति ॥ उपाधिप्रतियोगिनि तदभाव इति यावत् ।
 तददर्शनात् उपाधिसामानाधिकरण्यादर्शनादित्यर्थः ।
 भवेदुपाधिभेदसम्पादनद्वाराऽन्ययोर्विरोधमेकाधिकरणवृत्तित्वेऽप्युपपादनक्षमः ।
 यदि स्वाभावविरोधं स्वस्मिन्स्वाभावं स्वं चैकस्मिन्घटमानः स्यात् ।
 न चैतदस्ति ।
 घटावच्छिन्नाकाशो घटाघटभावस्यांशभेदमनुपादायाकाशमात्रे वोपाध्यभावाव्यवहारात् ।
 आकाशे घटसंयोगो नास्ति ।
 घटावच्छिन्नाकाशे घटसंयोगो नास्तीत्यप्रतीतेः ।
 आकाशान्तरे (* `अंशान्तरस्य' मु.) तु स्वाभाविकत्वान्नोपाधिकृतत्वमतोऽस्वस्वाभावयोरेवैकवृत्तित्वं विरुद्धत्वं चोपपादयितुमक्षमः ।
 स्वयमनवतीर्ण इति न्यायेन कथमन्यत्र व्यवस्थां कुर्यादित्याशयः ॥ उपाधिकृतभेदमात्रेणेति पाठे (* `-मात्रेणेति ॥ पटे' मु.) तत्प्रतियोगिन्यौपाधिकपरस्परस्वप्रतियोग्यनुयोगिकभेदप्रतियोगित्वेन त्वदभ्युपगतेषु (कायव्यूहवद्योगिषु) सर्वज्ञत्वाल्पज्ञत्वयोरदर्शनादौपाधिकभेदप्रयोजक इत्यर्थः ।
 तद्वति योगिनीति पाठे औपाधिकभेदवत्सौभर्यादियोगिनि सर्वज्ञत्वाल्पज्ञत्वयोरदर्शनादित्यर्थः (* `-त्वयोर्दर्शनात्-' मु.) ।

(24) (का.) ॥ एवं चेति ॥ उक्तरीत्या प्रथमानुमाने व्यवस्थापिते चेत्यर्थः ।
 अपारमार्थिकभेदेन सिद्धसाधनवारणाय धर्मिसत्तासमानसत्ताकेति ।
 इत्यादीत्यादिना सुखं नानाव्यक्तिनिष्ठं गुणत्वादित्यादीनामुपसङ्ग्रहः ।
 आदिपदेनात्मत्वं नानाव्यक्तिनिष्ठं जातित्वादित्यस्य ग्रहणमिति तु मन्दम् ।
 एतावता प्रबन्धेन तस्यैव व्यवस्थापितत्वात् ।
 प्राथमिकत्वेन तस्यैव कण्ठत उपादातुमुचितत्वाच्च ॥ सुस्थानीति ॥ उक्तविधया द्रव्यत्वस्यात्मनि सिद्धत्वेनोक्तासिद्ध्यनवकाशात् ।
 भेदे धर्मिसत्तासमानसत्ताकत्वनिवेशेन सिद्धसाधनस्य चानवकाशादिति भावः ।
 नन्वेतावता सुखादिपक्षकानुमाने कथं पूर्वोक्तदोषपरिहार इति चेदित्थम् ।
 सुखादीनामप्ययावद्द्रव्यभावित्वेनात्मन्यङ्गीकारे बाधकाभावात् ।
 तेषां प्रत्यक्षत्वेन तत्प्रयोजकमहत्त्वशून्यमनोगुणत्वासम्भवाच्च ।
 सुखं मनोभिन्ननानाव्यक्तिनिष्ठं गुणत्वाद्रूपवदित्यनुमीयते ।
 तथाच न सिद्धसाधनम् ।
 न चैवमपसिद्धान्तः ।
 तार्किकरीत्यैतत्प्रयोगात् ।
 आश्रयत्वानुसन्धातृत्वान्यतरसम्बन्धस्य साध्यघटकत्वाद्वा दोषाभावात् ।
 मनोवृत्तेर्मनोभिन्नाश्रितत्वानुपपत्त्या मनोभिन्नानुसन्धातृकेनैव साध्यपर्यवसानादुद्देश्यसिद्धरिति ।
 अस्यार्थस्य द्वित्वादीनामिति ग्रन्थेनैव लाभान्न पृथगुक्तिः ।

ननु चैत्रशरीरमित्याद्यनुमाने प्रागुक्तदोषापरिहारात् कथमस्य सुस्थात्वमत आह - चैत्रशरीरमिति ॥ उक्तरीत्या सिद्धसाधनवारणाय वस्तुत इति भेदविशेषणम् ।
 धर्मिसत्तासमानसत्ताकेत्यर्थः ।
 अयं भावः ।
 तद्विरुद्धचेष्टाकत्वं तत्क्रियाजनकप्रयत्नानुसन्धात्रननुसंहितप्रयत्नजन्यक्रियावत्त्वम् ।
 अतो नोक्तव्यभिचारः ।
 घटादौ प्रयत्नजन्यक्रियाविरहात् ।
 एतदर्थमेव चेष्टापदम् ।
 न चैवं घटादेर्दृष्टान्तत्वासम्भव इति वाच्यम् ।
 व्यतिरेकेण मैत्रशरीरस्यैव दृष्टान्तत्वसम्भवादिति ।
 यत्तु तद्विरुद्धचेष्टावत्त्वं तत्क्रियाकार्यप्रतिबन्धकक्रियावत्त्वम् ।
 शरीरत्वेन हेतुविशेषणान्न घटादौ व्यभिचार इति ।
 तन्न ।
 इन्द्रार्जुनयोः खाण्डवदाहादौ विरुद्धकार्यक्रियावतोर्व्यमिचारात् ।
 न चोभयसम्प्रतिपन्नैकस्वामिकत्वाभावे सतीति विशेषणान्न दोष इति वाच्यम् ।
 विशेषणवैयर्थ्यादप्रयोजकत्वाच्च ।
 विमतौ भिन्नौ विरुद्धधर्माधिकरणत्वाद्दहनतुहिनवदित्यस्योक्तदोषवारणाय विवक्षितार्थमाह - जीवेशाविति ॥ ननु विरुद्धधर्माधिकरणत्वस्य परस्परधर्मवदवृत्तिधर्मवत्वरूपस्य हेतोरसिद्धिः ।
 मायिमते जीवेश्वरधर्मयोरेकाधिकरणकत्वादित्याशङ्कावारणाय विरोधं विवणोति - विरोधश्चेति ॥ सहानवस्थाननियमः परस्पराधिकरणावृत्तित्वम् ।
 वध्यघातुकभावश्च न नाश्यनाशकभावरूपः ।
 सर्वज्ञत्वासर्वज्ञत्वादीनां तदभावात् ।
 किन्तु भावाभावत्वरूप इति ज्ञापनाय नित्यत्वानित्यत्वादाविवेत्युक्तम् ।

अथ सिद्धान्ते अत्यन्ताभावस्याप्रामाणिकप्रतियोगिकत्वनियमात् कथमीशवृत्तिसर्वज्ञत्वात्यन्ताभावरूपत्वमसर्वज्ञत्वस्य , कथं वा जीवगतासर्वज्ञत्वात्यन्ताभावरूपत्वं सर्वज्ञत्वस्येति चेत् इत्थम् ।
 जीवे आरोपिसर्वज्ञत्वप्रतियोगिकात्यन्ताभाव एवासर्वज्ञत्वम् ।
 स च मतान्तरे प्रतियोगिनेव सिद्धान्ते प्रधानेन विरुद्ध्यते ।
 सर्वज्ञत्ववतीश्वरे सर्वज्ञत्वं नास्तीत्यप्रतीतेः ।
 ईशगतसर्वज्ञत्वस्यासर्वज्ञत्वं प्रति प्रधानत्वादेव प्रतियोगित्वव्यवहारः ।

 एवमसर्वज्ञत्वं सर्वज्ञतादात्म्यनिषेधः ।
 सर्वज्ञतादात्म्यं च सर्वज्ञत्वमेवेति तत्प्रतियोगिकत्वमसर्वज्ञत्वस्य ।
 अन्योन्याभावस्य प्रामाणिकप्रतियोगिकत्वोपपत्तेः ।
 तदभावश्च सर्वज्ञत्वमेव ।
 भावभिन्नात्यन्ताभावस्यैव प्रामाणिकप्रतियोगिकत्वनिषेधात् ।
 `निषेधस्य निषेधश्च भाव एव बलाद्भवेदि'ति वचनात् ।
 अधिकमन्यत्रानुसन्धेयम् ।

॥ सर्वज्ञत्वेति ॥ ननु किमिदं सर्वज्ञत्वम् ।
 न तावत् सर्वविषयकज्ञानवत्त्वम् ।
 मेयत्वादिना सामान्यतः सर्वविषयकज्ञानस्य जीवसाधारण्यात् ।
 नापि यावन्तः पदार्थाः तत्तद्व्यक्तित्वेन तावद्विषयकज्ञानवत्त्वम् ।
 असर्वज्ञादीनां विशिष्य तावद्विषयकज्ञानाभावेन दुर्ज्ञेयत्वापत्तेः ।
 उच्यते ।
 विषयितासम्बन्धावच्छिन्नप्रतियोगिताकाभावानधिकरणज्ञानवत्त्वं सर्वज्ञत्वम् ।
 मेयत्वेन सर्वविषयकेऽपि ज्ञाने घटत्वेन घटाभानाद्विषयितासम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकाभावस्यैव सत्त्वान्नातिव्याप्तिः ।
 असर्वज्ञस्याप्येतादृशसर्वज्ञत्वज्ञानसम्भवान्न दुर्ज्ञेयत्वम् ।
 आदिपदेन स्वातन्त्र्यास्वातन्त्र्यादिपरिग्रहः ।

नन्वप्रयोजको हेतुः ।
 धर्मिसत्तासमानसत्ताकभेदाभावेऽपि तन्न्यूनसत्ताकभेदेनैव विरुद्धधर्मवत्त्वोपपत्तेरित्याशङ्कां निराचष्टे ॥ न चेति ॥ जीवेशयोरविद्याद्युपाधिकृतभेदेनैवोक्तविरुद्धधर्मवत्त्वोपपत्तिरित्यर्थः ।
 योगिनि योगोपात्तनानादेहवति ।
 तददर्शनात् उक्तविधविरुद्धधर्मवत्त्वादर्शनात् ।
 तथाचौपाधिकभेदस्य विरुद्धधर्मवत्त्वनिर्वाहकत्वे योगिनोऽपि तत्प्रसङ्ग इति भावः ।
 पूर्वमौपाधिकभेदस्य विशिष्य दुःखानुसन्धातृत्वतदभावोभयनिर्वाहकत्वं निराकृतम् ।
 इदानीं तु सामान्यतो विरुद्धधर्मद्वयनिर्वाहकत्वमिति न पुनरुक्तिः ।

(24) (श.) इदानीं पूर्वपक्षदूषितानुमानान्युद्धरति ॥ एवं चेति ॥ आत्मनो द्रव्यत्वे आत्मत्वस्य जातित्वे च सिद्धे सतीत्यर्थः ।
 असिद्ध्यभावादिति भावः ।
 आदिपदेनाऽत्मत्वं नानाव्यक्तिनिष्ठं जातित्वादित्याद्यनुमानग्रहणम् ।
 चैत्रशरीरपक्षकानुमानोक्तदोषं परिहरन्नाह - चैत्रशरीरमिति ॥ व्याख्यातमेतदधस्तात् ।
 सिद्धसाधनवारणाय वस्तुत इति ।
 अत्र एकस्वामिकयोर्घटपटयोर्व्यभिचारपरिहाराय हेतौ शरीरपदप्रवेशेऽपि न दृष्टान्तासिद्धिरिति भावः ।
 विमतपक्षकानुमानोक्तदोषं परिहरन्नाह - जीवेशाविति ॥ धर्मिसत्तासमानसत्ताकभेदसाधनात् पारमार्थिकभेदसाधनेऽप्रसिद्धविशेषणत्वम् ।
 व्यावहारिकभेदसाधने सिद्धसाधनमिति चोद्यानवकाश इति भावः ।
 सम्मतवत् दहनतुहिनवत् ।
 अनभिमतपक्षं दूषयन्नभिमतपक्षमाह - विरोध इति ॥ सहानवस्थाननियमेति ॥ नियमेनैकत्रानवस्थितत्वरूपेत्यर्थः ।
 कुत इत्यत आह - ऐक्यवादिन इति ॥ तन्मते आत्मनामेकत्वेन विरुद्धधर्मत्वे वक्ष्यमाणयोरेकत्रैवावस्थानेनैकत्रानवस्थानासम्भवेन स्वरूपासिद्धेरित्यर्थः ॥ वध्यघातुकेति ॥ ननु नाजात एकोऽन्यं हंति नाप्यनाधार इति न्यायेन वृश्चिकादीनां स्वजन्मना मात्रादिहन्तृत्वं भटादीनां समरभूमौघटितानां हन्तृत्वमिति लोके दृष्टम् ।
 तत्र वक्ष्यमाणसर्वज्ञत्वादेर्वध्यघातुकभावे एकस्मादन्यजन्माभावेन घटादीनामिवैकस्थानसम्बन्धो वाच्यः ।
 स च तदाधारजीवेशयोरैक्यमेवापेक्षत इति कथं वध्यघातुकभावविरोधविशिष्टधर्माधिकरणत्वेन भेदसाधनमिति चेन्न अत्र जहल्लक्षणया वध्यघातुकभावशब्देन परस्परविरहरूपत्वस्य विवक्षितत्वात् ।
 वक्ष्यमाणसर्वज्ञत्वादेरपि तथात्वात् ।
 संयोगतदत्यन्ताभावावयोश्चसामानाधिकरण्यं नेत्यावयोर्मतमिति न तदाश्रये व्यभिचारः ।
 अत एवैतादृशविरोधविशिष्टं धर्मं दृष्टान्ततयोपादत्ते ॥ नित्यत्वेति ॥ सुखदुःखादावुक्तविरोधविशिष्टत्वाभावात्तादृशविरुद्धधर्मः क इत्यपेक्षायामाह - तादृश इति ॥ तद्व्यवस्था विरुद्धधर्मव्यवस्था ।
 तथाच धर्मिसत्तासमानसत्ताकभेदासिद्ध्याऽर्थान्तरमिति भावः ॥ योगिनीति ॥ योगिषु देहान्तःकरणाद्युपाधिकृतभेदसद्भावेऽपि सुखदुःखादिविरुद्धधर्मव्यवस्थाया अदर्शनान्नोपाधिभेदमात्रेण तद्व्यवस्थोपपत्तिरित्यर्थः ।

(25) एवं देवदत्तान्तःकरणं यज्ञदत्तान्तःकरणावच्छिनचैतन्याद्वस्तुतो भिन्नचैतन्यावच्छेदकं तद्वृत्त्यनिवर्त्यनिवर्तकत्वात् ।
 व्यतिरेकेण यज्ञदत्तान्तःकरणवत् ।
 एवं देवदत्तस्य स्मरणं वस्तुतो न यज्ञदत्तीयं यज्ञदत्तानुभवाजन्यत्वात् ।
 व्यतिरेकेण यज्ञदत्तस्मरणवदित्यादीनि भेदसाधकान्यूहनीयानि (इत्याद्यूह्यम्)।
 न चासिद्धिः ।
 देवदत्तानुभूते यज्ञदत्तस्य स्मरणानुदयात् ।
 आत्मनां च स्वाभाविकाभेदे सुखदुःखादिव्यवस्थाऽनुपपत्तिर्बाधिका (* `पारमार्थिकसुखदुःखादि-' इति मु.पाठः प्रामादिक इति भाति व्यवस्थायाः पारमार्थिकत्वस्य मायावाद्यसम्मतत्वात् ।
) मन्दारमञ्जर्यामस्माभिरुपपादिता द्रष्टव्या ।

(25) (भ.) एवं जीवेश्वरभेदेऽनुमानमभिधायान्योन्यजीवभेदेऽप्यनुमानान्याह - एवं देवदत्तान्तःकरणमिति ॥ चैतन्याद्वस्तुतो यद्भिन्नं चैतन्यं तदवच्छेदकमित्यर्थः ।
 नित्यसापेक्षत्वाद्भिन्नपदस्य समासः ।
 तद्वृत्त्यनिवर्त्यनिवर्तकत्वादिति ॥ यज्ञदत्तान्तःकरणवृत्तिज्ञानेनानिवर्त्यं यदज्ञानं तन्निवर्तकवृत्तिमत्त्वादित्यर्थः ॥ एवं देवदत्तस्य स्मरणमिति ॥ देवदत्तयज्ञदत्तयोरभेदस्य पारमार्थिकत्वे देवदत्तस्मरणस्य व्यवहारतोऽयज्ञदत्तीयस्यापि वस्तुतो यज्ञदत्तीयत्वं सम्भवत्येव ।
 अतस्तन्निरासाय वस्तुत इति ॥ तेन च देवदत्तयज्ञदत्तयोर्वस्तुतो भेदः सिध्यतीति भावः ।
 देवदत्तयज्ञदत्तयोर्वस्तुत ऐक्याद्देवदत्तीयस्मरणस्य यज्ञदत्तानुभवजन्यत्वमेवास्त्वित्याशङ्क्य निराकरोति ॥ न चासिद्धिरिति ॥ ननु देवदत्तस्मरणस्य यज्ञदत्तीयानुभवजन्यतायास्तयोर्व्यावहारिकभेदेनाप्युपपत्तेर्नस्वाभाविकैक्यं विरुणद्धीति तत्राह - आत्मनां चेति ॥ मन्दारमञ्जर्यामिति ॥ `सुखदुःखादिभोगश्च खरूपैक्येन भेदतः ।
 दृश्यो ही'त्यादिमूलीयटीकाव्याख्यावसर इत्यर्थः ।

(25) (मु.) ॥ तद्वृत्त्यनिवर्त्यनिवर्तकत्वादिति ॥ यज्ञदत्तमनोवृत्त्यनिवर्त्यप्रागभावविषयावरणाज्ञानादिनिवर्तकत्वादित्यर्थः ।
 न च विशेषणासिद्धिः ।
 यज्ञदत्तस्य ज्ञानोत्पत्तौ देवदत्तगताज्ञानानिवृत्तेः ॥ वस्तुतो न यज्ञदत्तीयमिति ॥ यज्ञदत्तीयं नेत्येतद्वस्तुत इत्यर्थः ।
 तेन सर्वमिथ्यात्ववादिनो यज्ञदत्तीयत्वस्याप्यवास्तववत्त्वात्सिद्धसाधनतेति निरस्तम् ।
 व्यावहारिकेण यज्ञदत्तीयत्वाभावेन सिद्धसाधनतावारणाय वस्तुत इति ॥ इत्यादीनीति ।
 देवदत्तेच्छा न वस्तुतो यज्ञदत्तीया तज्ज्ञानाजन्यत्वात् (* `देवदत्ते वस्तुतो यज्ञदत्तीयतज्ज्ञानाजन्यत्वात्' मु.) ।
 तद्भोगानिवृत्त्यत्वाच्च ।
 देवदत्तब्रह्महत्या न वस्तुतो यज्ञदत्तीया ।
 तत्सेतुदर्शनानिवृत्त्यत्वादित्याद्यूह्यम् ।
 विपक्षे बाधकाभावादप्रयोजकाहेतव इत्यत आह - आत्मनामिति ॥ मन्दारमञ्जर्यामिति ॥ तथा हि ।
 यद्यात्मानो न भिन्नाः स्युस्तर्हि परस्परसुखाद्यनुसन्धानं स्यात् ।
 न च शरीरभेदेनोपपत्तिः ।
 तथाऽपि योगिनस्तद्दर्शनात् ।
 तदभावेऽपि मातृगर्भस्थितयो रावणादिशरीरस्थयोश्च तददर्शनात् ।
 न चान्तःकरणभेदेनोपपत्तिः ।
 योगिन्यपि तस्योपपादितत्वात् ।
 एकस्याप्यहरहः सुप्तवतः कारणविलयाङ्गीकारात् ।
 उत्तराहे पूर्वात्हीयानुसन्धानं न स्यात् ।
 नाप्यविद्याभेदानुपपत्तिः ।
 मुक्तस्य संसाराविद्याभिन्नाविद्याभावेन तद्दुःखाद्यनुसन्धानापत्तेः ।
 न चाविद्यैक्यमनुसन्धाने प्रयोजकम् ।
 मुक्तस्य स्वानन्दानुभवस्याप्यभावापत्तेरिति ।

(25) (कु.) ॥ एवं देवदत्तान्तःकरणमिति ॥ भिन्नचैतन्यावच्छेदकमिति ॥ समासस्तु नित्यसापेक्षत्वाद्बोध्यः ॥ तद्वृत्त्यनिवर्त्यनिवर्तकत्वादिति ॥ तद्वृत्त्याऽनिवृत्त्यज्ञानसंशयविपर्ययादितन्निवतकवृत्तिमत्त्वादित्यर्थः ।

(25) (हु.) ॥ एवं देवदत्तेति ॥ वस्तुतो भिन्नेति ॥ एकजीववादिनं प्रति प्रयोगे पूर्वोक्तरीत्या वस्तुत इत्यस्याप्रातिभासिक इत्येवार्थः ।
 तन्मतेऽन्तःकरणस्य जीवौपाधित्वाभावेऽप्येकमहाविद्योपाधिकत्वेन महतस्तत्परिणामभूतनानान्तःकरणावच्छिन्नत्वस्यैकस्मिन्नपि सम्भवात् ।
 बहुजीववादिनं प्रति तु प्रागेव वस्तुत इत्यस्य परमार्थत इत्यर्थः ।
 उद्देश्यसिध्यर्थमेकजीवपक्षेऽपि परमार्थत इत्येवार्थो वा ।
 अप्रसिद्धविशेषणतोद्धारप्रकारस्तु चैत्रशरीरमित्युक्तानुमानविवरणोक्तक्रमेण बोध्यः (-क्रमेणोह्यः) ॥ तद्वृत्तीति ।
 तद्वृत्तिर्यज्ञदत्तान्तःकरणवृत्तिरूपघटाभावज्ञानादिः ।
 तदनिवर्त्यस्य पटसंशयविपर्यादेर्निवर्तकत्वात् पट्ज्ञानोत्पत्तिद्वारा (* `पटोत्पत्तिद्वारा' मु.) निवर्तकत्वादित्यर्थः ।
 तद्वृत्त्यनिवृत्त्यनुवर्तकत्वादिति पाठे तद्वृत्तिभिः स्रक्चन्दनभोगरूपप्रत्यक्षादिभिरनिष्पाद्यसुखादेर्विषयान्तरभोगद्वारा निष्पादकत्वादित्यर्थः ।
 न वस्तुतो यज्ञदत्तीयमिति यज्ञदत्तीयत्वप्रतियोगिकपारमार्थिकाभाववदित्यर्थः ।
 न च मिथ्यात्ववादिना मिथ्यात्वसिद्धये तद्वत्त्वेऽपि तदभावस्य पारमार्थिकस्याङ्गीकारत्सिद्धसाधनता ।
 पारमार्थिकत्वाप्रक्षेपेऽपि तमेवाभेदमादाय सिद्धसाधनता ।
 यज्ञदत्तस्मरणेऽपि पारमार्थिकस्य यज्ञदत्तीयत्वाभावस्य सत्त्वाद्व्यतिरेकासिद्धिश्च ।
 प्रतियोगिवैयधिकरण्यावच्छिन्नस्य तस्य साध्यत्वेऽपि सिद्धसाधनतैव ।
 देवदत्तस्मरणे तथाभूतस्यैव यज्ञदत्तीयत्वप्रतियोगिकपारमार्थिकाभावस्याङ्गीकृतत्वाच्चेति वाच्यम् ।
 न वस्तुतो यज्ञदत्तीयमित्यस्य यज्ञदत्तपिण्डावच्छिन्न[न्ने ]भोक्तृत्वोपलक्षितचित्स्वामिकत्वाभाववदित्यर्थः ।
 देवदत्तस्मरणे तादृशोपेतचित्स्वामिकत्वं च परेणाप्यङ्गीकृतम् ।
 अन्यथैक्यमित्यस्य पारिभाषिकत्वापत्तेः ।
 तथा च तस्य प्रतियोगिवैयधिकरण्यावच्छिन्नस्य साध्यत्वान्न सिद्धसाधनत्वादिकं व्यतिरेकासिद्धिश्चेति द्रष्टव्यम् ॥ इत्यादीनीति ।
 देवदत्तसुखादिपक्षका(नुमाना)दीनीत्यर्थः ॥ द्रष्टव्येति ॥ तथा चानुकूलर्कसनाथत्वान्नाप्रयोजकतेति भावः ॥
(25) (का.) मिथो जीवभेदकानुमानान्तरमाह - एवमिति ॥ अत्र यज्ञदत्तान्तःकरणावच्छिन्नचैतन्यप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदविशिष्टस्यैव साध्यत्वम् ।
 चैतन्यावच्छेदकपदं तु चैतन्यनिरूपितस्य स्वभोग्यवृत्तिकत्वरूपावच्छेदकत्वस्य सम्बन्धत्वलाभार्थम् ।
 नातः साध्याप्रसिद्धिः ।
 तादृशभेदविशिष्टस्य घटादेः प्रसिद्धत्वात् ।
 तस्य चोक्तसम्बन्धेन वृत्त्यसम्भवाच्चैतन्यावच्छेदकत्वमादायैव साध्यपर्यवसानादुद्धेश्यसिद्धिः ॥ तद्वृत्यनिवर्त्यनिवर्तकत्वादिति ॥ यज्ञदत्तान्तःकरणवृत्तिरूपं यज्ज्ञानं तदनिवर्त्यं यदज्ञानादि तन्निवर्तकवृत्त्यारम्भकत्वादित्यर्थः ॥ देवदत्तस्मरणमिति ॥ देवदत्तकर्तृकस्मरणं यज्ञदत्तप्रतियोगिकवास्तवतादात्म्यापन्नकर्तृकस्मरणान्यत् यज्ञदत्तकर्तृकानुभवाजन्यत्वादित्यर्थः ।
 अत्र यद्यपि घटादेरन्वयदृष्टान्तत्वं सम्भवति ।
 तथापि यज्ञदत्तीयस्मृतेस्तदीयानुभवजन्यत्वेन व्यतिरेकव्याप्तेः सुग्रहत्वात्तदनुसरणम् ।
 अत्र च फलतो देवदत्तयज्ञदत्तयोर्भेदसिद्धिः ।
 आदिपदेन देवदत्तानुभवो न वस्तुतो यज्ञदत्तीयो यज्ञदत्तस्मरणाजनकत्वाद् व्यतिरेकेण यज्ञदत्तानुभववदित्यादेः सङ्ग्रहः ।
 देवदत्तस्मरणस्य यज्ञदत्तानुभवजन्यत्वादसिद्धिरित्याशङ्कां वारयति - न चेति ॥ न च मायिमते देवदत्तानुभवस्यैव यज्ञदत्तीयत्वादसिद्धिर्दुर्वारैवेति वाच्यम् ।
 चैतन्यमात्राभेदेऽपि विशिष्टभेदेन तव तदीयत्वासम्भवात् ।
 अन्यथा देवदत्तानुभूते यज्ञदत्तस्मरणप्रसङ्गात् ।
 उक्तानुमानेषु विपक्षे बाधकमाह - आत्मनामिति ॥ सुखदुःखव्यवस्थानुपपत्तिः ॥ तत्सुखं तेनैवानुभूयत इत्यादिनियमानुपपत्तिः ।
 चैत्रादेर्मैत्रादिसुखाद्यनुभवस्यापत्तिरिति यावत् ।

ननु सुखादिव्यवस्थायाः पारमार्थिकत्वे भवेत्स्वाभाविकभेदापेक्षत्वम् ।
 न चैवम् ।
 तस्याः काल्पनिकत्वादित्याशङ्कापनोदाय मन्दारमञ्जर्यामुपपादितेत्युक्तम् ।
 तथाहि ।
 काल्पनिकी व्यवस्था किं व्यवस्थापकमेव नापेक्षते ।
 किं वा पारमार्थिकम् ।
 आद्ये काल्पनिकजीवत्वादिव्यवस्थानिर्वाहायाविद्यादिकल्पनानर्थक्यप्रसङ्गः ।
 द्वितीये काल्पनिकस्यापि व्यवस्थापकस्य स्वाभाविकभेदं विनाऽनुपपत्तेरित्यादिकं तत्र द्रष्टव्यम् ।

(25) (श.) - जीवनामन्योन्यभेदसाधकानुमानान्याह - एवमिति ॥ अत्र यज्ञदत्तान्तःकरणस्य देवदत्तान्तःकरणावच्छिन्नचैतन्यभिन्नचैतन्यावच्छेदकत्वे यज्ञदत्तदेवदत्तयोर्भेदसिद्धिः ॥ देवदत्तेति ॥ यज्ञदत्तान्तःकरणावच्छिन्नं परिच्छिन्नं यच्चैतन्यं यज्ञदत्तचैतन्यं तस्माद्वस्तुतोभिन्नं यच्चैतन्यं देवदत्तचैतन्यं तस्यावच्छेदकं परिच्छेदकमित्यर्थः ॥ तद्वृत्तीति ॥ तद्वृत्त्या यज्ञदत्तान्तःकरणवृत्तिरूपज्ञानेनानिवर्त्यं देवदत्ताज्ञानं तन्निवर्तकत्वादित्यर्थः ॥ यज्ञदत्तान्तःकरणवदिति ॥ तत्र साध्याभावरूपयज्ञदत्तान्तःकरणावच्छिन्नचैतन्यावच्छेकत्वं वर्तते ।
 तादृशचैतन्यं देवदत्तचैतन्यमेव ।
 तदनवच्छेदकत्वात् ।
 तथा तद्वृत्यनिवर्त्यनिवर्तकत्वाभावस्तद्वृत्तिनिवर्त्यनिवर्तकत्वं चास्ति ।
 तद्वृत्त्या यज्ञदत्तान्तःकरणवृत्तिज्ञानेन ।
 निवर्त्यं यद्यज्ञदत्ताज्ञानं तन्निवर्तकत्वादिति ध्येयम् ।
 अत्रैवानुमानान्तरमाह - एवमिति ॥ अत्र देवदत्तयज्ञदत्तयोरभेदेन देवदत्तस्मरणस्यापि यज्ञदत्तानुभवजन्यत्वेन द्वितीयहेतोः स्वरूपासिद्धिरित्याशङ्क्य निराकरोति ॥ नचेति ॥ ननु जीवानामन्योन्यभेदसाधकानुमाने विपक्षे बाधकाभावादप्रयोजकत्वम् ।
 नच तथात्वे सुखदुःखव्यवस्थानुपपत्तिर्बाधिकेत्युक्तमिति वाच्यम् ।
 पारमार्थिकभेदाभावेन पारमार्थिकव्यवस्थानुपपत्तावपि तद्भिन्नव्यस्थाभ्युपगमे बाधकाभावादित्यत आह - आत्मनामिति ॥ पारमार्थिकव्यवस्थासम्भवेऽपि काल्पनिकीव्यवस्था सम्भवतीति चेत् सा किं व्यवस्थापकमेव नापेक्षते उत पारमार्थिकम् ।
 नाद्यः ।
 यक्षानुरूपबलिवदनुगुणव्यवस्थापकस्यावश्यकत्वात् ।
 अन्यथाऽपारमार्थिकजीवादिव्यवस्थासिद्धयेऽविद्यानङ्गीकारप्रसङ्गात् ।
 न द्वितीयः ।
 अपारमार्थिकस्यापि व्यवस्थापकस्य स्वाभाविकभेदातिरेकेण निराकरिष्यमाणत्वादित्यादिमन्दारमञ्जर्यामुपपादिता काल्पनिकव्यवस्थाया अनुपपत्तिर्द्रष्टव्येत्यर्थः ।

(26) श्रुतयश्च द्वा सुपर्णेत्यादिकाः ।
 व्यावहारिकभेदपरास्ता इति चेत् (न)।
 स किं बाध्यः ? बाढमिति चेत् ।
 तर्हि श्रुतेः प्रामाण्यं न स्यात् ।
 बाध्यार्थग्राहित्वात् शुक्तिरूप्याध्यक्षवत् ।
 प्रामाण्यं (च) व्यावहारिकमिति चेत् ।
 किन्तर्ह्यप्रामाण्यं पारमार्थिकम् ? कः (कस्य) सन्देहः? अस्ति महान्सन्देहस्तथागतचरणशरणत्वमजानतः (तथागतचरणशरणं प्राप्तवान्यतः) ।
 ननु श्रुत्युप(स्थित)स्थापितार्थानङ्गीकारे हि श्रुत्यप्रामाण्यं स्यात् ।
 न चास्माभिः श्रुतिप्रतिपादितो भेदो नाङ्गीक्रियते ।
 नाप्यस्माभिरनङ्गीकृतं तत्सत्यत्वं श्रुतौ प्रतिपाद्यम् ।
 तत्र सत्यपदाश्रवणादिति चेत् ।
 नैष दोषः ।
 स्वगोचरार्थाबाधो हि प्रामाण्यम् ।
 तद्बाधश्चाप्रामाण्यम् ।
 तत्कथं श्रुतिवेद्यस्य भेदस्य बाधे श्रुतेः प्रामाण्यम् (प्रामाण्यप्रसङ्गः) ।
 सत्यपदाश्रवणमात्रेण तदनङ्गीकारे एकमेवाद्वितीयं ब्रह्मेत्यादावपि सत्यपदाश्रवणेनाद्वैतमपि पारमार्थिकं न स्यात् ।
 अद्वैतश्रुतेः षड्विधतात्पर्यलिङ्गयुक्तत्वात्तदर्थः पारमार्थिक इति चेन्न ।
 उपक्रमादीनि हि स्वार्थे तात्पर्यं ज्ञापयन्ति ।
 एवञ्चाद्वैतमात्रपरमस्तु(-मात्रं सिध्यति) तात्पर्यलिङ्गवशान् ।
 न तत्सत्यत्वपरं (तत्सत्यत्वं) तस्यातदर्थत्वात् ।
 भेद एव षड्विधतात्पर्यलिङ्गयुक्तत्वमस्माभिरन्यत्रोपपादितम् ।

(26) (भ.) एवं जीवेशभेदे प्रत्यक्षानुमाने अभिधायागमं चाह - श्रुतयश्चेति ॥ जीवेश्वरभेदे प्रमाणमिति शेषः ।
 व्यावहारिकभेदः किं बाध्य उताबाध्य इति विकल्पं हृदि निधायाद्यं दूषयितुं पृच्छति - स किं बाध्य इति ॥ तं पक्षं पूर्वपक्षी कक्षीकरोति ॥ बाढमितीति ।
 बाध्य इत्येतदेव दृढमित्यर्थः ।
 दूषयति - तर्हीति ।
 शुक्तिरूप्याध्यक्षवद्बाध्यार्थग्राहित्वेऽपि न श्रुतेः सर्वथा प्रामाण्याभावः ।
 किन्तु प्रतिपाद्यभेदवत्प्रामाण्यमपि व्यावहारिकमेव ।
 नैवंशुक्तिरूप्याध्यक्षस्य ।
 किन्त्वप्रामाण्यमेवेत्याशयेन शङ्कते - प्रामाण्यमिति ॥ श्रुतिप्रामाण्यस्य व्यावहारिकत्वाङ्गीकारेऽप्रामाण्यस्य व्यावहारिकत्वे तदभेदस्य पारमार्थिकत्वमिति भावेन सोल्लुण्ठं पृच्छति - किन्तर्हीति ।
 अपहासमजानानस्तमेव पक्षमङ्गीकृत्य शङ्कते - कः सन्देह इति ॥ अप्रामाण्यस्य पारमार्थिकत्वविषये न कोऽपि सन्देह इत्यर्थः ।
 उत्तरमाह - अस्तीति ।
 कुत इत्यत आह - तथागतेति ॥ तथागतो बौद्धः ।
 अजानतोऽमन्यमानस्य ।
 आत्मनः ।
 तवेति शेषः ।
 अयं भावः ।
 न हि भवान् बौद्ध इव सर्वथा श्रुत्यप्रामाण्यवादी ।
 किन्त्वद्वैतभागस्य तत्त्वावेदकत्वलक्षणं भेदभागस्यातत्त्वावेदकत्वलक्षणं प्रामाण्यमङ्गीकुरुते ।
 यदीदानीमप्रामाण्यमेव पारमार्थिकमित्युच्यते तर्हि बौद्धमतप्रवेशः स्फुटमेव तवापद्यत इति ॥ शङ्कते - श्रुत्युपस्थापितेति ॥ श्रुतिप्रतिपादितेत्यर्थः ।
 नाङ्गीक्रियते किन्तु भेदमङ्गीकृत्य तत्सत्यत्वं नाङ्गीक्रियत इत्यर्थः ।
 भेदसत्यत्वं श्रुतिप्रतिपाद्यं नेति कथं ज्ञायत इत्यत आह - तत्रेति ॥ श्रुतावित्यर्थः ।
 द्वेत्यादिपदं तु भेदव्याप्यद्वित्वमात्राभिधायीति भावः ।
 उत्तरमाह - नैष इति ॥ श्रुतौ सत्यपदाश्रवणेऽपि तत्सत्यत्वस्य दुर्वारत्वात्सत्यत्वानङ्गीकारे श्रुतेरप्रामाण्यापत्तिर्दुर्वारेत्यर्थः ।
 एतदेवोपपादयति - स्वगोचरार्थेति ॥ स्वप्रतिपाद्येत्यर्थः ।
 तथा चाबाधितार्थप्रतिपादकत्वं प्रामाण्यं बाधितार्थप्रतिपादकत्वमप्रामाण्यम् ।
 तथा च श्रुतिप्रतिपादितभेदस्य त्वया बाध्यत्वाङ्गीकारे कथमप्रामाण्यं न स्यादिति भावः ।
 सत्यपदाश्रवणादित्युक्तदोषं प्रतिबन्द्या परिहरति - सत्यपदेति ॥ तदनङ्गीकारे सत्यत्वानङ्गीकारे ।
 प्रमेयसाम्ये हि प्रतिबन्दीग्रहणम् ।
 नात्र प्रमेयसाम्यमस्तीति भावेन शङ्कते - अथेति ॥ षड्विधतात्पर्यलिङ्गयुक्तत्वादिति ॥ एकमेवाद्वितीयमित्युपक्रमः ।
 तत्त्वमसीत्युपसंहारः ।
 तत्त्वमसि तत्त्वमसीति नवकृत्वोऽभ्यासः ।
 अद्वैतस्य प्रमाणान्तराप्राप्तत्वेनापूर्वत्वम् ।
 तस्य तावदेवचिरमिति फलम् ।
 येनाश्रुतं श्रुतं भवतीत्यर्थवादश्चेत्येवंषड्विधतात्पर्यलिङ्गयुक्तत्वादित्यर्थः ।
 उपलक्षणमेतत् ।
 मृत्पिण्डादिदृष्टान्तैरैक्यस्योपपादितत्वादुपपत्तिरपि ग्राह्या ।
 उपक्रमादीनामप्युपपत्तिविशेषत्वादुपपत्तेः पृथगविवक्षया षड्विधेत्युक्तिः ।
 तथा चाद्वैतश्रुतौ सत्यपदाभावेऽपि तात्पर्यलिङ्गबलेनाद्वैतस्य सत्यता सिध्यति ।
 भेदश्रुतेस्तु तात्पर्यलिङ्गाभावेन न तदर्थस्य भेदस्य सत्यत्वमिति भावः ।
 एतच्च वैषम्यमर्थसत्यत्वेऽप्रयोजकमिति भावेनाह - उपक्रमादीनीति ॥ स्वार्थे श्रुत्यर्थे ।
 ।
 अतदर्थत्वात् श्रुत्यर्थत्वाभावात् ।
 अभ्युपगम्योक्तिरियम् ।
 वस्तुतस्तु वैषम्यमसिद्धमेवेत्याह - भेदेऽपीति ॥ अन्यत्रेति ॥ न्यायामृते द्वितीयपरिच्छेदे ।
 सन्ति च भेदश्रुतेरपि षड्विधतात्पर्यलिङ्गानि ।
 तथा हि ।
 आथर्वणे द्वा सुपर्णेत्याद्युपक्रमः ।
 परमं साम्यमुपैतीत्युपसंहारः ।
 तयोरन्योऽनश्नन्नन्योऽन्यमीशमित्यभ्यासः ।
 शास्त्रैकगम्येश्वरप्रतियोगिकस्य तद्धर्मिकस्य वा कालत्रयाबाध्यभेदस्य शास्त्रं विनाऽप्राप्तेरपूर्वता ।
 पुण्यपापे विधूयेति फलम् ।
 अस्य महिमानमिति स्तुतिरूपार्थवादः ।
 अत्त्यनश्नन्नित्युपपत्तिरित्यादिनोपपादितमित्यर्थः ।
 अत्रापि सप्तविधतात्पर्यलिङ्गयुक्तत्वमिति वक्तव्ये षड्विधेत्युक्तेरुक्त एवाभिप्रायः ।

(26) (मु.) ॥ श्रुतयश्चेति ॥ श्रुतयः सूत्राणि चेति ग्राह्यम् ।
 ॥ व्यावहारिकेति ॥ यद्यप्यनुवादित्वमेव पूर्वपक्षोक्तं तदेवादौ परिहर्तव्यम् ।
 तथाऽपि प्रासङ्गिकतया तस्यापि परिहारलाघवादेवमुक्तिः ।
 यत्नशतेनापि श्रुतेः पारमार्थिकत्वानङ्गीकारे बौद्धवैलक्षण्यं बाध्यार्थत्वस्यैवाप्रामाण्यपदार्थत्वादिति भावेनाह - किमित्यादिना ॥ बाध्यार्थग्राहित्वादिति ॥ नन्विदमेवाप्रामाण्यमिति चेन्न ।
 प्रमाजनकत्वाभावस्येहाप्रामाण्यत्वात् ।
 अङ्गीकरोति कः सन्देह इत्युक्तवतस्त्वास्माभिस्तदुद्भावने कृते महान्सन्देहः कर्तव्योऽस्तीत्यर्थः ।
 ननु श्रुतेस्तदर्थस्य तत्प्रामाण्यस्य चैकसत्ताकत्वेन धर्मिसत्ताकं प्रामाण्यमङ्गीक्रियते ।
 तथा च श्रुतेर्जगतश्च व्यावहारिकत्वाङ्गीकारेऽपि जगतः स्वागमोक्तप्रकारेणैव व्यवस्थामङ्गीकृत्य श्रुतेश्चात्यन्ताप्रामाण्यमङ्गीकृतमिति चेत्किमनेनाकाण्डताण्डवेन ।
 शुक्तिरजतवद्बाध्यार्थत्वापरिहारात् ।
 ब्रह्मज्ञानमात्रबाध्यार्थमपि प्रमाणमिति चेन्न ।
 ब्रह्मणि क्षणिकत्वाद्यारोपस्यापि प्रामाण्यापत्तेः ।
 किञ्च प्रामाण्यद्वैविध्ये गौरवमनुगतनिष्प्रकारकज्ञानेतरज्ञानाबाध्यार्थत्वं प्रामाण्याङ्गीकरणं सम्भवतीति चेन्न ।
 तर्हि द्वैताद्वैतयोरुक्तरूपैकप्रामाण्यकत्वेन तदर्थयोर्व्यावहारिकत्वपारमार्थिकत्वभेदानुपपत्तेः ।
 सर्वथाऽबाध्यार्थत्वं मुख्यप्रामाण्यम् ।
 ब्रह्मज्ञानबाध्यार्थत्वेऽपि तदितराबाध्यार्थत्वममुख्यप्रामाण्यमित्यस्त्येव प्रामाण्येऽवान्तरभेद इति चेत् तर्हि विवक्षामात्रस्य निरङ्कुशत्वेन बौद्धोऽपि वेदार्थस्य ज्ञानविशेषबाध्यत्वं वदन्वेदवादी स्यात् ।
 स्वबाधात्प्रागेवाबाध्यार्थत्वं प्रामाण्यम् ।
 रजतस्थले तु रजतप्रत्यक्षस्य प्रातिभासिकतया प्रत्यक्षबाधात्प्रागेव रजतं बाध्यत इति चेन्न ।
 निष्प्रकारकब्रह्मापरोक्षाव्यवहितपूर्वोत्पन्नरजतादिभ्रमेऽतिव्याप्तिः ।
 किञ्चार्थबाधोनामार्थनाशो भावज्ञानं वा तत्प्रत्यक्षं वा ।
 नाद्यः ।
 श्रुत्यर्थभूतस्य घटादेः प्रपञ्चस्य श्रुतिबाधात्प्रागेव नाशाङ्गीकारात् ।
 न द्वितीयः ।
 विदितवेदान्तस्य नेहनानाऽस्तीत्यादिना प्रागेवापरोक्षतोऽर्थासत्त्वज्ञानात् ।
 अत एव न तृतीयः ।
 चन्द्रप्रादेशप्रत्यक्षस्य तादृशबाधाभावेन प्रामाण्यापत्तेरित्यलम् ।
 ननु यावच्छ्रुत्युक्तं तन्मात्रानङ्गीकारे हि दोषः ।
 इह तु श्रुत्युक्तं सर्वमङ्गीक्रियते ।
 तत्पारमार्थ्यं न तच्छ्रुत्यर्थ इत्याशङ्कते - श्रुतीति ॥ स्वगोचरेति ॥ एवञ्च श्रुत्युक्तं सर्वमङ्गीक्रियते तत्पारमार्थ्यं नेति रिक्तं वचः ।
 अबाध्यप्रतिपत्तेरेवाङ्गीकारपदार्थत्वादिति भावः ।
 किञ्च सत्त्वासत्त्वौदासीन्येन प्रतिपादनायोगात्सर्ववाक्यानां सत्यपदाभावे स्वार्थसत्तापर्यन्तत्वं व्युत्पत्तिसिद्धम् ।
 अन्यथा सत्यं ज्ञानमित्यादावपि सत्यपदसत्त्वेऽपि सत्यतैव स्यान्न तु सत्यतायाः सत्यत्वमिति शङ्कापिशाची दुरूच्चाटा स्यात् ।
 दृश्यते च सत्यं भिदेत्यादौ सत्यपदमपीति ।
 ननु सत्यं पदं विनाऽप्यसत्ये तात्पर्यायोगादैक्यस्य सत्यतासिद्धिः ।
 तात्पर्यं च तल्लिङ्गाद्गम्यत इति शङ्कते - अथेति ॥ छान्दोग्ये एकमेवेत्युपक्रमः ।
 तत्त्वमसीत्युपसंहारः ।
 तत्त्वमसि तत्त्वमसीति नवकृत्वोऽभ्यासः ।
 ऐक्यस्य प्रमाणान्तराप्राप्तत्वादपूर्वता ।
 अथ सम्पत्स्यत इत्यैक्यज्ञानस्य फलम् ।
 येनाश्रुतं श्रुतं भवतीत्यैक्यार्थवादश्चेति ज्ञेयम् ।
 स्वार्थेति स्वप्रकरणे यावदुक्तं तावति तात्पर्यमस्ति ।
 न तूक्तिमात्रमित्येतावन्मात्रमुपक्रमादीनि ज्ञापयन्ति ।
 एवञ्च तात्पर्यमेव स्यान्न तु सत्यत्वमिति भावः ।
 नन्वित्येतत्तात्पर्ययोगात्सत्त्वमपि लभ्यत इति चेत् तर्हि भ्रान्तादिवाक्यस्योपक्रमादिलिङ्गावगततात्पर्यवदुपपत्तेः ।
 वस्तुतस्त्वेकमेवाद्वितीयमित्यिस्य (* `वस्तुतस्त्वेकं वा द्वितीयमित्यिस्य' मु.) समाभ्यधिकराहित्यस्यान्यत्रोक्तत्वाद्विशेषनिषेधः शेषविधिं गमयतीति (* `विशेषनिषेधः ।
 शेषविधिं गमयती 'मु.) भेदोपक्रमत्वादुपसंहारस्यापि दृष्टान्तानुगुण्यायातत्त्वमसीति विच्छेदेन वैकपदत्वमभ्युपेत्य तस्य भावस्तत्त्वमिति विग्रहाश्रयणेन वा नपुं कसकोपपत्त्यर्थं तत्वम्पदस्येदं सर्वमिति जगत्परामर्शकत्वेन वा सादृश्य इत्याद्यर्थकत्वेन वा भेदपरत्वात् ।
 अत एवाभ्यासस्य भेदपरत्वाद्वेदैकवेद्येश्वरभेदस्याप्यपूर्वकत्वात्प्रकरणस्य भेदपरत्वे फलस्यापि तदन्वयात् ।
 भेदज्ञानस्य हेति तत्पदादिकादिश्रवणाच्च भेद एव तात्पर्यमिति च ज्ञेयम् ॥ भेद एवेति ॥ एवञ्च तात्पर्यलिङ्गात्सत्यतासिद्धिश्चेत्समं ममापीति भावः ॥ अन्यत्र न्यायामृते ।
 तथा हि ।
 आथर्वणे द्वासुपर्णेत्युपक्रमः ।
 साम्यमुपैतीत्युपसंहारस्तयोरन्यः अनश्नन्नन्यः, अन्यमीशमित्यभ्यासः ।
 उक्तरीत्याऽऽपूर्वता ।
 पुण्यपापे विधूयेति फलम् ।
 (* अनश्नन्नन्य इत्यारभ्य फलमितिपर्यन्तं मु.पाठे नास्ति ।
) अस्य महिमानमिति वीतशोक इत्यर्थवाद इति ।

(26) (कु.) व्यावहारिकभेदो बाध्योऽबाध्यो वेति विकल्पं मनसि कृत्वाऽऽध्यमाशङ्कते - स किमिति ॥ भ्रान्त्योद्देशयति - नन्विति ॥ भ्रान्तिमाविष्करोति ॥ स्वगोचरार्थाबोधो हीति ।
 श्रुतिप्रामाण्याङ्गीकारे तदर्थं सत्त्वाङ्गीकार आवश्यक इत्यर्थः ।
 वैषम्यमाशङ्कते - अथैतच्छ्रुतेरिति ॥ अथ प्रयोजकं वैषम्यमित्याह - उपक्रमादीनीति ।
 एवञ्चोपक्रमादिबलादद्वैतश्रुतेस्तात्पर्यमात्रमायास्यति ।
 न तु तदर्थं सत्यताप्रतारकवाक्ये सत्यपि तात्पर्यार्थसत्यत्वाभावात् ।
 अद्वैतमात्रमस्तु न तु सत्यत्वमिति परभाष्योक्तिः ।
 असिद्धं च वैषम्यमित्याह - भेदेऽपीति ।
 अन्यत्र न्यायामृते ।

(26) (हु.) ॥ द्वा सुपर्णेत्यादिका इति ॥ आसामागमतया भेदावगमकत्वमुपपादितं पूर्वपक्षविवरणावसरे ॥ किन्तर्हीति ।
 प्रामाण्यं व्यावहारिकमित्युक्ते व्यवहारमात्रं तत्र न वस्तुतस्तदस्तीत्यर्थः ॥ तथागतेति ॥ (* `वस्तुतस्तदस्तीत्यागतमित्यर्थतयागतेति' मु.) बौद्ध इत्यर्थः ॥ प्रतिपादित इति ॥ यस्मिन्धर्मिणि यो धर्मः श्रुत्या बोध्यते तद्विशिष्टधर्मिणोऽत्यन्ताभाव इत्यर्थः ।
 अन्यथा श्रुतिघटकवाक्यबोध्यस्य कस्यचिदनङ्गीकारस्याप्रामाण्यहेतुत्वे वेदघटकसत्वादिपदबोध्यस्याभावात्तवाप्यप्रामाण्यं स्यादिति भावः ॥ नाङ्गीक्रियत इति ॥ किन्तु मिथ्यात्वेनाभ्युपगम्यत इति शेषः ।
 जीवेशौ धर्मीकृत्य द्वा सुपर्णेत्यादिना तत्र भेदोक्ते तत्र तदनङ्गीकारेऽप्रामाण्यं दुर्वारमित्याशयेनाह - नैष दोष इति ॥ सत्त्वेन प्रकारविधया प्रतिपाद्यस्यासत्त्व एव दोषो न प्रकृते तथेत्याशङ्क्याह - सत्यपदेति ।
 षड्विधेत्युपपत्तेर्बहिरङ्गत्वादन्तरङ्गविवक्षया वाऽर्थवादफलयोः सामान्यविशेषभावेनैक्यमाश्रित्य वा षड्विधत्वोक्तिः ।
 उपक्रमादयस्तु न्यायामृते द्रष्टव्याः ॥ न तत्सत्यत्वमिति ॥ अन्यथा शून्यवादिग्रन्थस्थोपक्रमादिभिस्तत्तात्पर्यविषयस्य शून्यस्य सत्यत्वं स्यादित्यर्थः ॥ भेद एवेति ॥ तथा च त्वद्रीत्यैव सत्यत्वं श्रुतिप्रतिपाद्यं जातमित्यर्थः ।

(26) (का.) एवं जीवेशभेदे प्रत्यक्षानुमाने अभिधायागममप्याह - श्रुतयस्त्विति ॥ न श्रुतयः पारमार्थिकभेदे प्रमाणमित्याशङ्कते - व्यावहारिकेति ॥ श्रुत्युक्तो भेदो बाध्योऽबाध्यो वेति विकल्पेन दूषयितुं पृच्छति - स किमिति ॥ प्रामाण्यम् अबाध्यार्थकत्वम् ।
 नन्वारोपितमेव श्रुतेः प्रामाण्यम् ।
 किं त्वब्रह्मज्ञानाबाध्यत्वात् व्यवहारार्हमित्यशङ्कते - प्रामाण्यमिति ॥ अप्रामाण्यं प्रामाण्याभावः ॥ पारमार्थिकमिति ॥ भावाभावयोरेकस्य बाधेऽन्यस्याबाध्यत्वनियमादिति भावः ।
 अत्रेष्टापत्तिमाशङ्कते - कः सन्देह इति ॥ तर्हि बौद्धमतप्रवेशप्रसङ्ग इत्याह - अस्तीति ॥ तथागतो बौद्धः स्वस्य तदनुयायित्वमनभ्युपगच्छत इत्यर्थः ।

शुक्तिरूप्याध्यक्षवदित्युक्तदृष्टान्ताभिप्रायमविज्ञाय शङ्कते - नन्विति ॥ सत्यपदाश्रवणात् ॥ भेदे सत्यत्वसमर्पकपदाश्रवणात् ।
 अबोधकत्वमेव ह्यप्रामाण्यप्रयोजकम् ।
 श्रुतीनां च भेदस्वरूपबोधकत्वान्न तदंशेऽप्रामाण्यम् ।
 तस्य पारमार्थिकत्वं तु न श्रुतिबोधितम् ।
 अतस्तदंशे तदप्रामाण्यमिष्यत एवेति भावः ॥ स्वगोचरेति ॥ अबाध्यार्थबोधकत्वमित्यर्थः ।
 अयं भावः ।
 अबोधकत्ववद्वाध्यार्थबोधकत्वमप्यप्रामाण्यप्रयोजकम् ।
 अन्यथा शुक्तिरजतग्राहकदुष्टेन्द्रियादेरपि प्रामाण्यप्रसङ्गात् ।
 तच्च श्रुतेरप्यविशिष्टमिति तदप्रामाण्यं दुर्वारमेव ।
 न च ब्रह्मज्ञानेतराबाध्यबोधकत्वमेव प्रामाण्यम् ।
 तच्च श्रुतिसाधारणमिति वाच्यम् ।
 शुक्तिज्ञानेतराबाध्यबोधकत्वमेव प्रामाण्यं, तच्च दुष्टेन्द्रियसाधारणमित्यस्यापि सुवचत्वात् ।
 किञ्च यच्छ्रुतेः प्रामाण्यं तद्बाध्यमेवेति तदभावलक्षणाप्रामाण्यप्रसङ्गस्तदवस्थ एवेति ।

भेदसत्यत्वं न श्रुत्युक्तमित्येतद्दूषयति - सत्यपदाश्रवणादिति ॥ द्वा सुपर्णेत्यादावित्यादिः ।
 तदनङ्गीकारे भेदसत्यत्वानङ्गीकारे ॥ न स्यादिति ॥ अयमाशयः ।
 सत्त्वासत्त्वोदासीनप्रतीत्यभावादुक्तश्रुत्याऽपि सत्त्वेनैव भेदप्रतीतेः सम्भवति श्रुतेस्तत्सत्यत्वे प्रामाण्यम् ।
 अन्यथा श्रुतेरद्वैतस्वरूपमात्रग्राहकत्वापत्त्या सत्यत्वाग्राहकत्वादद्वैतमपि तव बाध्यं स्यादिति ।

ननु श्रुतेरद्वैतस्वरूपमात्रग्राहकत्वेऽपि तत्सत्यत्वमुपक्रमादितात्पर्यलिङ्गैरवसीयते ।
 न तु भेदसत्यत्वमित्याशङ्कते - अथेति ॥ `सदेव सोम्येदमग्र आसी'`देकमेवाद्वितीय'मित्युपक्रमः ।
 `ऐतदात्म्यमिदं सर्व'मित्युपसंहारः ।
 `तत्त्वमसी'ति नवकृत्वोऽभ्यासः ।
 ऐक्यस्य मानान्तराप्राप्तत्वादपूर्वता ।
 `अथ सम्पत्स्यत' इति फलम् ।
 `येनाश्रुतं श्रुतं भवती'त्यर्थवाद इति षड्विधतात्पर्यलिङ्गयुक्तत्वादित्यर्थः ।
 यद्यप्युपपत्त्या सह तात्पर्यलिङ्गानि सप्तविधानि ।
 अस्ति चाद्वैतेऽपि श्रौतोपपत्तिर्यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यादित्यादिः ।
 तथाप्युपक्रमादेः सर्वस्यापि उपपत्तिरूपत्वेनार्थसिद्धत्वात् सा न पृथगुक्ता ।
 स्यादेवम् ।
 यद्युपक्रमादिप्रतिपाद्यमैक्यसत्यत्वं स्यात् ।
 न चैवम् ।
 अपि त्वैक्यमात्रम् ।
 अतो न तत्सत्यत्वसिद्धिरित्याह - उपक्रमादीनीति ॥
ननूपक्रमादीनामैक्यसत्यत्वाप्रतिपादकत्वेऽपि तद्व्याप्यतया तत्साधकत्वमव्याहतमित्यत आह - भेद इति ॥ `द्वा सुपर्णे'त्युपक्रमः ।
 `परमं साम्यमुपैती'त्युपसंहारः ।
 `तयोरन्यः' `अनश्नन्नन्यः' `अन्यमीश'मित्यन्यशब्दाभ्यासः ।
 शास्त्रैकसमधिगम्येश्वरभेदपरत्वादपूर्वता ।
 `पुण्यपापे विधूये'ति फलम् ।
 `अस्य महिमान'मित्यर्थवादः ।
 अनश्नन्नित्युपपत्तिश्चेत्युपपत्तिसहितषड्विधतात्पर्यलिङ्गयुक्तत्वं भेदविषयश्रुतेरपि न्यायामृते उपपादितम् ।
 ततश्च भेदसत्यत्वसिद्धिरित्याशयः ।
 यद्वा भेदविषय एव श्रुतेः षड्विधतात्पर्यलिङ्गयुक्तत्वमित्यर्थः ।
 तथाहि ।
 एकमेवाद्वितीयमिति सजातीयद्वितीयराहित्येनैवोपक्रमः ।
 कालादेः सत्त्वश्रवणेन द्वितीयमात्रनिषेधायोगात् ।
 ऐतदात्म्यमित्येतत्स्वामिकत्वेनोपसंहारो न त्वेतत्स्वरूपत्वेन ।
 तद्धितवैयर्थ्यात् ।
 तत्त्वमसीत्यनेनापि तत्सदृशत्वादिकमेवाभ्यस्यते ।
 तत्त्वं पदमुख्यार्थविशिष्टाभेदबाधेन पदद्वयस्य चिन्मात्रलक्षणापेक्षया सामानाधिकरण्यमात्रस्य गौणत्वौचित्यात् ।
 अतत्वमसीति च्छेदे तु स्फुटमेव भेदपरत्वम् ।
 मानान्तरागम्येश्वरभेदपरत्वादपूर्वत्वम् ।
 अथ सम्पत्स्यत इति ब्रह्मप्राप्तिः फलमुच्यते ।
 येनाश्रुतं श्रुतं भवतीत्यर्थवादश्च सादृश्यादिनोपपद्यते ।
 तथैव मृत्पिण्डादिदृष्टान्तैरुपपादनात् ।
 सर्वमृण्मयानामेकमृत्पिण्डविकारत्वाभावेन तदभेदे तात्पर्यायोगादित्यादि द्रष्टव्यम् ।

(26) (श.) एवं जीवेशभेदे प्रत्यक्षानुमाने अभिधायाऽगमञ्चाह - श्रुतय इति ॥ जीवेशयोः पारमार्थिभेदे मानमिति शेषः ॥ व्यावहारिकेति ॥ तथाच पारमार्थिकभेदे प्रमाणत्वेन एतच्छ्रुत्युदाहरणमयुक्तमिति भावः ।
 व्यावहारिकभेदः किं बाध्य उताबाध्य इति विकल्पं हृदिनिधायाद्यं दूषयितुं पृच्छति - स किमिति ॥ उत्तरं शङ्कते - बाढमिति ॥ व्यावहारिकभेदो बाध्य इत्येतत् दृढमित्यर्थः ।
 दूषयति - तर्हीति ॥ कुत इत्यत आह - शुक्तिरूप्येति ॥ शुक्तिरजतप्रत्यक्षस्यापि शुक्तिरजतरूपबाध्यार्थग्राहित्वादेव प्रामाण्याभावो दृष्टः ।
 तथैवागमस्यापि व्यावहारिकभेदरूपबाध्यार्थग्राहित्वे प्रामाण्यं दुर्लभमिति भावः ।
 ननु बाध्यार्थग्राहकस्य पारमर्थिकप्रामाण्यविरोधित्वेन तदसम्भवेऽपि व्यावहारिकप्रामाण्याविरोधित्वात्तादृशप्रामाण्यमागमस्य सम्भवतीति शङ्कते - प्रामाण्यमिति ॥ तथात्वे शुक्तिरजताध्यासस्यापि व्यावहारिकप्रामाण्यं स्यादिति दोषे सत्येव दोषान्तरं वक्तुं पृच्छति - किन्तर्हीति ॥ परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिव्याप्तत्वादिति भावः ॥ कस्येति ॥ वेदप्रामाण्यस्य व्यावहारिकत्वं वदतो मम तदप्रामाण्ये पारमार्थिकत्वनिश्चय एवास्ति न तु संशय इत्यर्थः ।
 दूषयति - अस्तीति ॥ तथागतः बौद्धः ।
 बौद्धेन वेदाप्रामाण्यं पारमार्थिकमित्यङ्गीक्रियते त्वयाऽपि तदभ्युपगमे तन्मताभ्युपगमप्रसङ्गः ।
 तथाच वेदप्रामाण्यस्य व्यावहारिकत्वेन तदप्रामाण्यं किं पारमार्थिकं उत तथाङ्गीकारे बौद्धराद्धान्ताभ्युपगमप्रसङ्गेन पारमार्थिकं नेति संशय एव स्यान्न पारमार्थिकमिति निश्चय इत्यर्थः ।
 यद्वा सन्देहः शङ्का अनिष्टमिति यावत् ॥ श्रुत्युपस्थापितेति ॥ श्रुतिप्रतिपादितेत्यर्थः ।
 ननु श्रुतिप्रतिपादितभेदाङ्गीकारेऽपि तत्प्रतिपादितभेदसत्यत्वानभ्युपगमादप्रामाण्यं स्यादेवेत्यत आह - नापीति ॥ कुत इत्यत आह - तत्र सत्यपदेति ॥ द्वेत्यादिपदं तुभेदापरपर्यायद्वित्वमात्रवाचकमिति भावः ।
 नच प्रामाण्याप्रामाण्ययोः प्रतिपाद्यार्थाङ्गीकारानङ्गीकारौ प्रयोजकौ ।
 अपितु प्रतिपाद्यार्थबाधाबाधावेव ।
 तथाहि प्रतिपाद्यार्थाबाधादेव वह्निरुष्ण इत्यस्य प्रामाण्यं प्रतिपाद्यार्थबाधादेव वह्निरनुष्ण इत्यस्याप्रामाण्यम् ।
 प्रकृते च श्रुतिप्रतिपाद्यार्थस्यभेदस्य बाध्यत्वेऽङ्गीकृते सत्यप्रामाण्यं दुर्वारमिति परिहरति - नैषदोष इत्यादिना ॥ स्वगोचरेति ॥ स्वं प्रामाणत्वेनाभिमतम् ।
 तद्बोध्येत्यर्थः ।
 श्रुतिवेद्यस्य श्रुतिप्रतिपाद्यस्य ।
 तत्र सत्यपदाश्रवणादित्येतत्प्रतिबन्द्या दूषयति - सत्येति ॥ तदनङ्गीकारे भेदसत्यत्वानङ्गीकारे ।
 नन्वेकमेवाद्वितीयमिति श्रुतौ सत्यपदाश्रवणेऽपि तत्प्रतिपाद्यैक्यस्य पारमार्थिकत्वमेव ।
 तस्याः श्रुतेरैक्ये उपक्रमादिषड्विधतात्पर्यलिङ्गयुक्तत्वात् ।
 तथाहि ।
 एकमेवाद्वितीयमित्युपक्रमः ।
 तत्त्वमसीत्युपसंहारः ।
 तत्त्वमसि तत्त्वमसीति नववारमभ्यासः ।
 ऐक्यस्यान्यप्रमाणेनाप्राप्तत्वादपूर्वता ।
 अथ सम्पत्स्यत इति फलम् ।
 येनाश्रुतं श्रुतं भवतीति स्तुतिरूपोऽर्थवादः ।
 यथा सोम्यैकेन मृत्पिण्डेनेति मृत्पिण्डादिदृष्टान्तैरुपपादितत्वादुपपत्तिश्चाधिकेति ।
 नच भेदश्रुतेर्भेदे षड्विधतात्पर्यमस्ति ।
 येन तदर्थस्य पारमार्थिकत्वं स्यादिति शङ्कते - अथेति ॥ यद्यपि तात्पर्यलिङ्गानामुपपत्त्या सह सप्तविधत्वम् ।
 यथोक्तं `उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
 अर्थवादोपपत्ती च लिङ्गन्तात्पर्यनिर्णय' इत्यादिना ।
 तथाप्युपपत्तिविशेषाणामुपक अमादीनां षड्विधत्वादेवमुक्तमित्यदोषः ।
 एकमेवाद्वितीयमित्युपक्रमादीन्यैक्यश्रुतेरैक्ये तात्पर्यं ज्ञापयन्ति ।
 न त्वैक्यसत्यत्वे ।
 कुत इति चेत् ऐक्यस्य श्रुत्यर्थत्वात् ।
 तत्सत्यत्वस्य च श्रुत्यर्थत्वाभावात् ।
 उपक्रमादीनां श्रुत्यर्थ एव तात्पर्यज्ञापकत्वस्वाभाव्यादिति परिहरति - उपक्रमादीनीत्यादिना तदर्थत्वादित्यन्तेन ॥ स्वार्थे स्वं श्रुतिः तदर्थे ।
 तात्पर्यं श्रुतेरिति शेषः ।
 अद्वैतमात्रपरम् ऐक्यवाक्यमिति शेषः ॥ तात्पर्येति ॥ ऐक्यवाक्यस्यैक्ये उपक्रमादितात्पर्यलिङ्गयुक्तत्वादित्यर्थः ।
 मात्रपदव्यावर्त्यमाह - नेति ॥ अतदर्थत्वात् श्रुत्यर्थत्वाभावात् ।
 इदं चाभ्युपेत्योक्तम् ।
 वस्तुतस्तु शकुनिसूत्रादिदृष्टान्तबलेन स आत्मातत्त्वमसीति वाक्यस्यातत्त्वमसीति पदच्छेदेन भेदप्रतिपादकत्वमेव युक्तम् ।
 नह्यभेदं प्रतिज्ञाय भेदे दृष्टान्ताभिधानं संगच्छते ।
 अत एवैकमेवाद्वितीयमित्येत्समाधिकराहित्यप्रतिपादनेन भेदपरम् ।
 एवमेवैतदात्म्यमित्यपि ।
 यथा सोम्येत्यादिप्राधान्यज्ञापनाय सृष्टिप्रतिपादकमित्यङ्गीकार्यम् ।
 एवं चैकमेवाद्वितीयमित्यस्योपक्रमात् ऐतदात्म्यमिदं सर्वमिति तस्यैवोपसंहारात् अतत्त्वमसीति नववारमभ्यासात् शास्त्रं विना शास्त्रैकगम्येश्वरभेदस्याप्रसक्त्याऽपूर्वत्वात् अथ सम्पत्स्यत इति फलश्रवणात् येनाश्रुतं श्रुतं भवतीत्यर्थवादात् शकुनिसूत्रादिदृष्टान्तैरुपपादनात् उपक्रमादितात्पर्यलिङ्गानि भेदपराण्येवेति द्रष्टव्यम् ।
 यदि सत्यपदाश्रवणेऽप्यैक्यश्रुतेः षड्विधतात्पर्यलिङ्गवत्त्वात्तदर्थः पारमार्थिक इत्यङ्गीक्रियते तर्हि सत्यपदाश्रवणेऽपि भेदश्रुतेः षड्विधतात्पर्यलिङ्गोपेतत्वात्तदर्थः पारमार्थिक इत्यङ्गीक्रियतामित्याह - भेदे षड्विधेति ॥ आथर्वणे द्वासुपर्णेत्युपक्रमः, परमं साम्यमुपैतीत्युपसंहारः, तयोरन्यः अनश्नन्नन्यः अन्यमीशमित्यभ्यासः, शास्त्रैकगम्येश्वरप्रतियोगिकस्य तद्धर्मिकस्य वा भेदस्य शास्त्रं विनाऽप्राप्तेरपूर्वता, पुण्यपापे विधूयेति फलम्, अस्य महिमानमिति स्तुतिरूपोऽर्थवादः, अत्ति अनश्नन्निति विरुद्धधर्मोक्त्योपपत्तिरिति भेदश्रुतेर्भेदे तात्पर्यलिङ्गवत्त्वं न्यायामृते द्वितीयपरिच्छेदे उपपादितमित्यर्थः ।

(27) यदि पुनरबाध्यो भेदस्तर्ह्यविवादः ।
 कुतश्च व्यावहारिकभेदपरत्वम् ।
 अद्वैतश्रुतिविरोधादिति चेत्तर्ह्यद्वैतश्रुतेः प्रातिभासिकाद्वैतपरत्वमस्तु ।
 विरोघपरिहारस्य साम्यात् ।
 ननु न श्रुतिप्रतिपादितस्य (श्रुत्युपपादितस्य) बाधादप्रामाण्यं ।
 किन्तर्ह्यभिप्रेतस्य (किन्तु तदभिप्रेतस्य)।
 अन्यथा मीमांसकमतेऽर्थवादभागस्याप्रामाण्यप्रसङ्गः ।
 न चात्र भेदः श्रुतितात्पर्यगोचरः ।
 श्रुतीनां नेह नानेति निषेधाय प्रत्यक्षप्राप्तभेदानुवादित्वादिति चेन्न ।
 नेह नानास्तीति वेदवाक्यानि विमता आत्मानः परमत्मानः परमार्थतो न भिद्यन्ते आत्मत्वात् परमात्मवदित्यनुमानप्राप्ताभेदं द्वा सुपर्णेति निषेधायानुवदन्तीति वैपरीत्यसम्भवात् (वैपरीत्यप्रसङ्गात्)।
 भेदस्य तादात्म्यनिषेधात्मकतया भेदप्रतिपादकानां तादात्म्यनिषेधरूपत्वात् ।
 एतेन निषेधवाक्यत्वादद्वैतवाक्यं प्रबलमिति निरस्तम् ।
 न हि प्रत्यक्षेण प्राप्तिरेवानुवादे (प्राप्तिरनुवादे) प्रयोजिका ।
 तथा सत्य`ग्निर्हिमस्य भेषज'मित्यादावग्नेर्हिमनिवृत्तिं (शीतनिवृत्तिं) प्रति कारणत्वमन्वयव्यतिरेकरूपानुमानप्राप्तं प्रतिपादयत्सर्वसम्मतमनुवादकं न स्यात् ।

(27) (भ.) एवं व्यावहारिकभेदस्य बाध्यत्वपक्षं निरस्याबाध्यत्वपक्षमाशङ्क्य निराकरोति ॥ यदि पुनरिति ॥ अविवाद इति ॥ अबाध्यत्वमङ्गीकारे तदेव पारमार्थिकत्वमिति नावयोर्विवादोऽस्तीति भावः ।
 एवं परोक्तव्यावहारिकभेदपरत्वं श्रुतीनामङ्गीकृत्य बाध्यत्वाबाध्यत्वविकल्पेन दूषणमभिहितम् ।
 इदानीं तदेवानुपपन्नमिति भावेनाह - कुतश्चेति ॥ उत्तरंशङ्कते ।
 अद्वैतेति ॥ अद्वैतस्य पारमार्थिकत्वात्तद्विरुद्धस्य भेदस्यापि पारमार्थिकत्वायोगाद्व्यावहारिकत्वमङ्गीकृत्य भेदाभेदश्रुत्योर्विरोधः परिहरिष्यत इति भावः ।
 एवं तर्हि माऽस्त्वेतया भेदश्रुतीनामद्वैतपरत्वं किन्नाम सादृश्याद्यर्थकत्वमेवास्तु ।
 एवञ्च भेदश्रुतीनां पारमार्थिकभेदपरत्वेऽपि नाद्वैतश्रुतिविरोध इति भावेनाह - किं तर्हीति ॥ विरोधपरिहारस्य साम्यादिति ॥ यथा द्वैताद्वैतश्रुत्योर्विरोधप्राप्तेऽद्वैतस्य पारमार्थिकत्वं द्वैतस्य व्यावहारिकत्वमभिप्रेत्य विरोधः परिह्रियते एवं द्वैतस्यैव पारमार्थिकत्वमङ्गीकृत्वाऽद्वैतश्रुतेः सादृश्याद्यभेदार्थकत्वेन न द्वैताद्वैत श्रुत्योर्विरोध इत्यपि विरोधपरिहारस्य साम्यादित्यर्थः ।
 ननु स्वगोचरार्थाबाधो हि प्रामाण्यमिति यदुक्तं तत्सत्यमेव ।
 तथाऽपि न भेदश्रुतेः प्रामाण्यम् ।
 स्वगोचरार्थो नाम स्वतात्पर्यगोचर एव ।
 न स्वाभिहितमात्रो भेदश्च न श्रुतितात्पर्यगोचरः ।
 येन तस्य बाध्यत्वाङ्गीकारे श्रुतीनामप्रामाण्यं प्रसज्येत ।
 किन्नाम नाहं सर्वज्ञ इत्यादिप्रत्यक्षप्राप्तं भेदं निषेधार्थमनुवदन्त्येव श्रुतय इति भावेन शङ्कते - नन्विति ॥ अभिहितबाधेऽप्यप्रामाण्यं कुतो नेत्यत आह - अन्यथेति ॥ यदि श्रुत्युदितस्य बाधाच्छ्रुतेरप्रामाण्यमङ्गीक्रियते ।
 तर्ह्युत्ताना वै देवगवा वहन्तीत्यर्थवादभागस्याप्रामाण्यं स्यात् ।
 श्रुत्युदितस्य देवगवानामूध्र्ववाहित्वस्य लौकिकगोष्वदृष्टत्वेन बाधितत्वात् ।
 अतस्तत्र मीमांसकमते प्रथमाध्यायतृतीयपादे प्रयोगचोदनाभावार्थकत्वमविभागादिति सूत्रव्याख्यानावसरे यज्ञद्रव्यार्थत्वेन देवसम्बन्धिनो ये मनुष्याणां गावस्तत्स्तुतिपरमेवेदं वाक्यमित्यभिप्रेतार्थमुपपादायैव प्रामाण्यमुपपादितमिति भावः ।
 केचित्तु सोऽरोदीद्यदरोदीदित्यर्थवादेषु मन्त्रेषु च शक्त्या प्रतिपादितानामतात्पर्यविषयीभूतानामर्थानां बाधादित्यर्थ इत्याहुः ॥ वैपरीत्यसम्भवादिति ॥ यदुच्यते तन्नेति वाक्यं परिहारे युक्तिविशेषं च विना निर्निमित्तमभेदे श्रुतीनां निषेधकत्वस्य भेदश्रुतीनामनुवादकत्वस्याङ्गीकारे उक्तरीत्या वैपरीत्यस्याप्यङ्गीकारप्रसङ्गादित्यर्थः ।
 ननु भेदश्रुतीनां भेदमात्रप्रतिपादकत्वात्कथमभेदनिषेधपरत्वम् ।
 येन वैपरीत्यप्रसङ्ग इत्यत आह - भेदस्येति ॥ भेदो नामान्योन्याभावः ।
 स च तादात्म्यप्रतियोगिकः ।
 तथा च तादृशभेदप्रतिपादकश्रुतीनां कथमभेदनिषेधपरत्वाभाव इति भावः ।
 निषेधवाक्यत्वादद्वैतवाक्यं प्रबलं भेदवाक्यं तु न निषेधकमिति ततो दुर्बलमिति कश्चित् ।
 तदप्यनेन निरस्तम् ।
 भेदस्यापि तादात्म्यनिषेधरूपत्वादित्याह - एतेनेति ॥ ननु भेदश्रुतेरनुवादकत्ववदभेदश्रुतेरप्यनुवादकत्वमेवेति वक्तुं न शक्यते ।
 अनुवादे प्रत्यक्षप्राप्तेरेव प्रयोजकत्वात् ।
 न च भेदस्येवाभेदस्य प्रत्यक्षतः प्राप्तिः किन्त्वनुमानत एवेत्यत आह - न हीति ॥ तथा सतीति ।
 कार्यकारणभावस्यातीन्द्रियत्वादग्नेर्हिमनिवृत्तिकारणत्वं न प्रत्यक्षसिद्धमिति भावः ।

(27) (मु.) ननु श्रुत्युक्तभेदोऽबाध्य एव नाप्रामाण्यमित्यत आह - यदीति ।
 प्रतीतभेदपारमार्थत्यागो निर्बीजश्चेत्याह - प्रातिभासिकेति ॥ विरोध्यन्यतरस्यार्थान्तरमेव वाच्यं न तु प्रतीतार्थस्य मुख्यसत्ताकत्वकल्पनं युक्तमिति भावः ।
 यथाऽऽहैको मीमांसको ब्रूयाद्विरोधे शास्त्रयोर्मिथः ।
 एकं प्रमाणमितरं त्वप्रमाणं भवेदिति ।
 किञ्चैवं श्रुत्युक्तजगतो मिथ्यात्वे ब्रह्मापि मिथ्या स्यात् ।
 सत्यं ज्ञानमित्यादिविरोध इति चेन्न ।
 विश्वं सत्यमित्यादिवदुपपत्तेः ।
 अनृतेन हि प्रत्यूढमिति जगतोऽसत्त्वमुच्यतेऽद्वैतं परमार्थत इति ब्रह्मणः पारमार्थ्यमुच्यत इति चेन्न ।
 `याथातथ्यतोऽर्थानि'तिवदुपपत्तेः ।
 असद्वा इदमग्र आसीन्न तत्सन्नासदुच्यते ।
 न सन्न चासञ्छिव एव केवलं सन्न चासन्निषेधशेषो जयतादशेष इति ब्रह्मणोऽपि तथात्वापत्तेः ।
 आहुरसदित्यादिना ब्रह्मासत्त्वं निन्द्यत इति चेन्न ।
 प्रकृतेऽप्यसत्यमाहुर्जगदेतदज्ञा असत्यमप्रतिष्ठं त इत्यादि निन्द्यते च ।
 एतच्छून्यवादिनिन्दनमिति चेत् ।
 समं तवापि ।
 अधिष्ठानज्ञानाय ब्रह्मैकं सत्यमावश्यकमिति चेत् ।
 प्राधान्याय जगदेकमपि तथा स्यात् ।
 निष्प्रधानकब्रह्माङ्गीकारे निरधिष्ठानकोऽपि किन्न स्यात् ।
 मुक्तौ ब्रह्मावशेषः श्रूयत इति चेत् ।
 स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वेति जगदवशेषोऽपि मुक्तौ श्रूयते ।
 सगुणमुक्तावेव जगदवशेषो न निर्गुणमुक्ताविति चेत् ।
 सन्मुक्तावेव ब्रह्मावशेषो नासन्मुक्तौ ।
 सन्मुक्तिरप्रामाणिकीति चेत् ।
 निर्गुणमुक्तिरपि तथैव ।
 यत्र त्वस्य सर्वात्मैवाभूदित्यादिना निर्गुणमुक्तिः श्रूयत इति चेत् ।
 असन्नेव स भवति असद्ब्रह्मेति वेद चेति ब्रह्मासत्त्वज्ञानेनासन्मुक्तिरपि महत्तमपुरुषार्थो श्रूयते ।
 स्वरूपासत्त्वं न पुरुषार्थ इति चेन्न ।
 नैर्गुण्यमपि तथैव ।
 मुक्तौ स्वरूपसत्तावबोधकप्रमाणबाहुल्यादेतद्वचनमन्यथा नेयमिति चेत् ।
 एवं भोगप्रतिपादकवचनबाहुल्यादेर्निर्गुणवचनमप्यन्यथा नेयमित्यलम् ।
 अपि च श्रुत्यर्थानां (* नेयमित्यपि च श्रुत्यर्थताया' मु.) व्यावहारिकत्वं स्वरसतः प्रतीयते ब्रह्मवत्पारमार्थिकत्वं वा स्वरसतः प्रतीयते ।
 नाद्यः ।
 अनुभवविरोधात् ।
 विमतमिथ्यात्वसाधने वैय्यर्थ्यापत्तेश्च ।
 ऐक्यादेरपि स्वरसतः पारमार्थिकत्वानापत्तेश्च ।
 द्वितीये जितमस्माभिः ।
 सर्वत्र प्रतीतपारमार्थ्यं बाधवति त्यज्यते ।
 इह तु भेदवाक्यमैक्यवाक्यबाधितमिति चेन्न ।
 वैपरीत्यस्य प्रातिभासिकत्वस्य वा पारमार्थिक एव द्वैविध्यस्य वा त्रिविधातिरिक्तसत्तान्तरस्य वा सम्भवेनान्यथासिद्धिः ।
 किञ्च व्यावहारिकत्वस्यैव दुर्वचत्वेन श्रुतेः सत्यत्वमष्टमरसारितमिति ॥ भेदस्याभिमतत्वेऽपि तात्पर्यगोचरत्वाभावेन नाप्रामाण्यमित्याशङ्कते - श्रुतीति ॥ अर्थवादेति ॥ उत्ताना वै देवगवा वहन्तीत्यादावभिहितार्थबाधे उपलक्षितप्राशस्त्यरूपं तात्पर्यगोचराबाधमात्रेण प्रामाण्याङ्गीकारादिति भावः ।
 वाक्यान्यनुवदन्तीति सम्बन्धः ।
 तर्हि विनिगमनाविरह इत्यत आह - भेदस्येति ॥ निषेधात्मकतयेति ॥ अन्योन्याभावविषयतयेत्यर्थः ॥ निषेधरूपत्वादिति ॥ निराकरणरूपत्वादित्यर्थः ।
 अभावप्रतिपादनस्य प्रतियोगिप्रसञ्जनपूर्वकं तदपन्हवरूपत्वेनैव प्रवर्तनान्निषेधकत्वमुचितमिति भावः ।
 एतेन पूर्वपक्षोक्तमनुवादित्वं निरस्तं ज्ञेयम् ॥ एतेनेति ॥ भेदवाक्यस्य निषेधकत्वस्वरूपप्रतिपादनेनेत्यर्थः ॥ निषेधवाक्यत्वादिति ॥ अद्वैतपदस्य नार्थगर्भितत्वमिति भावः ।
 यद्वा नेह नानाऽस्तीत्यद्वैतवाक्यस्य नार्थगर्भितत्वादिति भावः ॥ निरस्तमिति ॥ शब्दनिषेधरूपत्वादर्थतो निषेधरूपत्वस्य प्रबलत्वादिति भावः ।
 भेदस्येवैक्यस्य प्रत्यक्षप्राप्त्यभावात्कथमनुवादित्वमित्यत आह - न हीति ।
 स्वानुपजीविमानान्तरप्राप्तिरेवानुवादित्वे तन्त्रमिति भावः ॥ अनुमानप्राप्तमिति ॥ कार्यकारणभावस्यातीन्द्रियत्वादिति भावः ।

(27) (कु.) द्वितीयमाशङ्क्येष्टापत्तिमाह - यदि पुनरिति ॥ भेदश्रुतीनां व्यावहारिकभेदपरत्वं निष्प्रमाणिकमित्याह - कुतश्चेति ॥ अर्थवादादिभागस्येति ॥ सोऽरोदीद्यदरोदीदित्याद्यर्थवादेषु मन्त्रेषु च शक्त्या प्रतिपादितानामतात्पर्यविषयीभूतानामर्थनां बाधादित्यर्थः ।
 वैपरीत्येवोचितमित्याह - भेदस्य तादात्म्यनिषेधात्मकतयेति ॥ निषेधवाक्यत्वादद्वैतवाक्यं प्रबलमिति वाचस्पत्युक्तमप्यत एव निरस्तमित्याह - एतेनेनि ।
 ननु भेदस्य प्रत्येक्षेण प्राप्तेर्भेदवाक्येऽनुवादकता युज्यते नाभेदवाक्ये ।
 अभेदस्य प्रत्यक्षेणाप्राप्तेरित्याशङ्कामाप्रयोजकत्वेन परिहरति - न हीति ।

(27) (हु.) अविवाद आवयोरिति शेषः ।
 अस्माभिरपि तथैवाङ्गीकारादिति (* `अस्माभिस्तथाऽङ्गीकारादिति' मु.) भावः ।
 भेदो व्यवहारकालाबाध्य एव न वस्तुत इत्याशङ्क्य द्वैताद्वैतयोः श्रुतिप्रतिपाद्यत्वसाम्येऽपि उक्तबाध्यत्वमेव (* `श्रुतिप्रतिपाद्यत्वमेव' मु.) कुत इत्याशयेन दूषयितुं पृच्छति - कुतश्चेति ॥ पूर्वं भेदस्य श्रुत्यर्थत्वेऽपि न सत्यत्वेन श्रुत्यर्थत्वमित्याशङ्का निराकृता ।
 इदानीं श्रुत्यर्थत्वमेव नास्तीति शङ्कानिरासार्थो नन्वित्यादिग्रन्थः ॥ श्रुत्यभिप्रेतस्येति ॥ तात्पर्यप्रमाधीनश्रुतिजन्यबोधे (* `-बोधो' मु.) निषेधाप्रतियोगित्वेन भासमानस्येत्यर्थः ॥ अर्थवादभागस्येति ॥ प्रजापतिरात्मनो वपामुदखिददित्यादीनामित्यर्थः ।
 (* इतः वाक्यद्वयं हु.पाठे नास्ति ।
) प्रजापतिवपोत्खननस्य तात्पर्यविषयस्यासत्त्वेऽपि तेषां प्राशस्त्यलक्षकतया प्रामाण्यं वर्तते ।
 तस्यैव तात्पर्यविषयत्वादित्यर्थः ॥ न चेहेति ॥ निषेधाप्रतियोगित्वेनेति शेषः ।
 तस्यैवासत्त्वाङ्गीकारेऽप्रामाण्यं द्वैतवाक्यानि तु निषेधप्रतियोगितयैव द्वैतं बोधयन्तीत्यर्थः ।
 अनुवादस्य प्राप्तिमूलकप्रत्यक्षेणेत्युक्तम् (* इदं पदं हु.पाठे नास्ति ।
 `प्राप्तिमूलकत्वात् प्रत्यक्षेणेत्युक्तम्' इति पाठेन भाव्यम् ।
) ।

(27) (का.) अस्तु तर्ह्यबाध्य एव श्रुत्युक्तो भेद इत्यत आह - यदि पुनरिति ॥ अविवाद इति ॥ अबाध्यत्वस्यैव पारमार्थिकत्वरूपतयाऽस्मदभिमतसिद्धेरिति भावः ।
 भेदश्रुतेर्व्यावहारिकभेदपरत्वे बाधकमभिधाय साधकाभावमाह - कुतश्चेति ॥ अद्वैतस्य व्यावहारिकत्वासम्भवात् प्रातिभासिकेत्युक्तम् ।
 नन्वेवमद्वैतश्रुतीनामप्रामाण्यप्रसङ्ग इति चेत् त्वन्मते द्वैतश्रुतीनामप्रामाण्यप्रसङ्गेन तुल्यत्वादिति भावः ।
 स्यादेवम् ।
 यद्यबाध्यार्थप्रतिपादकत्वं प्रामाण्यं स्यात् ।
 न चैवम् ।
 अपि त्वबाध्यार्थपरत्वम् ।
 द्वा सुपर्णेत्यादीनां च भेदानुवादकानां तन्निषेधपरत्वादेव प्रामाण्योपपत्तिः ।
 अत एव तत्प्रतिपाद्यभेदस्य बाध्यत्वमपीत्याशयेन शङ्कते - नन्विति ॥ अर्थवादभागस्येति ॥ तस्य प्रतिपाद्यार्थाबाधनियमाभावेऽप्यबाध्यविध्यर्थकार्यपरत्वेनैव प्रामाण्याङ्गीकारादिति भावः ।
 मतान्तरे प्रतिपाद्यार्थेऽपि प्रामाण्यात् मीमांसकमत इत्युक्तम् ।
 एवं सत्यद्वैतश्रुतीनां प्रातिभासिकाद्वैतपरत्वेऽपि नाप्रामाण्यप्रसङ्ग इत्याशयेनाह - नेहेति ॥ वाक्यान्यनुवदन्तीत्यन्वयः ।
 भेदवदभेदस्य प्रत्यक्षेण प्राप्त्यभावादाह - विमता इति ॥ ननु द्वासुपर्णेत्यादीनां कथमभेदनिषेधपरत्वम् ? तदर्थकपदाभावादत आह - भेदस्येति ॥ तादात्म्यनिषेधरूपत्वात् अभेदाभावरूपत्वात् ।
 तथाच भेदार्थस्यैव तदर्थकत्वान्नोक्तदोष इति भावः ।

एवं भेदश्रुतेरभेदनिषेधकत्वसमर्थनेन वाचस्पत्युक्तमपि प्रत्युक्तमित्याह - एतेनेति ॥ प्रबलमिति ॥ तथाच तेन भेदश्रुतेरेव बाधः ।
 अन्यथा नेदं रजतमिति प्रत्यक्षस्यापि प्राबल्यासिद्धेरिदं रजतमिति प्रत्यक्षबाधकत्वानुपपत्तिरिति भावः ॥ प्रत्युक्तमिति ॥ भेदश्रुतेरपि निषेधकत्वसाम्ये दुर्बलत्वायोगादिति भावः ।
 अथ भेदस्याभेदनिषेधरूपत्वेऽप्यभेदनिषेधत्वेन भेदाप्रतिपादकत्वात् द्वा सुपर्णेत्यादेर्दुर्बलत्वमेवेति चेदत्र वक्तव्यम् ।
 किमभेदज्ञानं प्रति अभेदनिषेधत्वेनैव भेदज्ञानं विरोध्युत भेदत्वेनापि ।
 आद्येऽनुभवविरेधः ।
 घटः पटभिन्न इत्यादिज्ञानदशायां जात्वपि तदभेदज्ञानानुदयात् ।
 द्वितीये तु कथं द्वा सुपर्णेत्यादेर्दुर्बलत्वम् ? निरोधित्वाविशेषात् ।
 न चैवमुक्तातिप्रसङ्गः ।
 निश्चितप्रामाण्यकत्वेन प्राबल्यात् ।
 परीक्षया च तन्निश्चयात् ।
 निषेधकत्वमात्रस्याप्रयोजकत्वात् ।
 अन्यथा `न हिंस्या'दित्यादे`रग्नीषोमीय'मित्यादिश्रुतिबाधकत्वप्रसङ्गात् ।

 न चैवं भेदाभेदवाक्ययोः प्राबल्यदौर्बल्यानिर्णयः ।
 निरवकाशत्वादिना तन्निर्णयात् ।
 निरवकाशत्वं च भेदवाक्यानामेवेत्यन्यत्र प्रपञ्चितम् ।

नन्वभेदश्रुतीनां नानुवादकत्वसम्भवः ।
 अभेदस्य प्रत्यक्षेणाप्राप्तत्वात् ।
 न च प्राप्तिमात्रमनुवादप्रयोजकम् ।
 सर्वस्याप्यनुमानतः प्राप्तिसम्भवेन श्रुतिमात्रस्याप्यनुवादकत्वप्रसङ्गादित्यत आह - न हीति ॥ इति वाक्यमनुवादकं न स्यादित्यन्वयः ।
 इष्टापत्तिनिरासार्थमनुवादकत्वेन सर्वसम्मतमिति ॥ प्रत्यक्षप्राप्तप्रतिपादकत्वे दोषाभावादन्वयत्त्यतिरेकरूपानुमानप्राप्तं कारणत्वमर्थं प्रतिपादयदिति ॥ कारणत्वस्य कालादिघटितत्वेन प्रत्यक्षासम्भवादिति भावः ।
 यत्सत्त्वे यत्सत्त्वमित्यन्वयमात्रस्य प्रमेयत्वाभिधेयत्वयोः व्यभिचरित्वात् व्यतिरेकनिवेशः ।
 यदभावे यदभाव इति व्यतिरेकस्य नरशृङ्गशशशृङ्गयोर्व्यभिचारित्वादन्वयनिवेषः ।
 न चैवमप्यन्यथासिद्धान्वव्यातिरेकवति व्यभिचारः ।
 अनन्यथासिद्धत्वेनापि विशेषणीयत्वात् ।
 वस्तुतस्तु अन्वयव्यतिरेकवत्त्वस्य नियतपूर्ववृत्तित्वव्याप्यतया तेन तस्मिन् साध्यमाने हिमनिवृत्तिं प्रत्यग्नेरन्यथासिद्धनियतपूर्ववृत्तित्वबाधात् अनन्यथासिद्धनियतपूर्ववृत्तित्वरूपकारणत्वसिद्धिरित्यवधेयम् ।

(27) (श.) - एवं व्यावहारिकभेदस्य बाध्यत्वमित्याद्यपक्षं दूषयित्वा द्वितीयमनूद्य दूषयति - यदीति ॥ अविवाद इति ॥ श्रुतिप्रतिपाद्यभेदस्य पारमार्थिकत्वापरपर्यायाबाध्यत्वाङ्गीकारेऽस्मदभिमतस्यैवाङ्गीकारादावयोर्विवादो न स्यादित्यर्थः ।
 एवं भेदस्य परोक्तव्यावहारिकत्वमभ्युपेत्य दूषणमभिहितम् ।
 इदानीं व्यावहारिकत्वमेव भेदस्य नेत्याह - कुतश्चेत्यादिना साम्यादित्यन्तेन ॥ श्रुतिप्रतिपाद्यभेदस्य व्यावहारिकत्वं कस्मादङ्गीक्रियत इत्यर्थः ।
 उत्तरं शङ्कत ॥ अद्वैतेति ॥ पारमार्थिकाद्वैतेत्यर्थः ॥ विरोधपरिहारस्येति ॥ उभयोरपि श्रुत्योः पारमार्थिकभेदाभेदप्रतिपादकत्वेऽन्योन्यविरोधात् खलु भेदश्रुतेर्व्यावहारिकभेदपरत्वमभेदश्रुतेः पारमार्थिकाभेदपरत्वमङ्गीकृत्य तत्परिहारः क्रियते ।
 तस्य च विरोधपरिहारस्य भेदश्रुतेः पारमार्थिकभेदपरत्वमभेदश्रुतेः प्रातिभासिकाभेदपरत्वमित्यङ्गीकारेऽपि समानत्वादित्यर्थः ।
 ननु व्यावहारिकभेदस्य बाध्यत्वमित्याद्यपक्ष एव स्वीक्रियते ।
 नच तथात्वे श्रुतेर्बाध्यार्थग्राहित्वेनाप्रामाण्यप्रसङ्ग इति वाच्यम् ।
 श्रुतितात्पर्यविषयार्थबाधस्यैवाप्रामाण्ये प्रयोजकत्वेन श्रुतिप्रतिपाद्यबाधस्याप्रयोजकत्वात् ।
 भेदस्य च श्रुतिप्रतिपाद्यत्वेऽपि श्रुतितात्पर्यगोचरत्वाभावादिति शङ्कते - नन्विति ॥ उपपादितस्य प्रतिपाद्यस्य ।
 अभिप्रेतस्य तात्पर्यगोचरस्य ॥ अन्यथेति ॥ यदि तस्य बाधाच्छ्रुतेरप्रामाण्यमङ्गीक्रियते त`र्ह्युत्ताना वै देवगवा वहन्ती'त्याद्यर्थवादभागस्याप्यप्रामाण्यं स्यात् ।
 श्रुत्युदितस्य देवगवानामूर्ध्ववाहित्वस्य बाधितत्वात् ।
 मतान्तरेऽर्थवादाप्रामाण्यस्येष्टत्वान्मीमांसकमत इत्युक्तम् ।
 कुत इत्यत आह - श्रुतीनामिति ॥ श्रुतीनां भेदानुवादित्वादिति सम्बन्धः ।
 अप्राप्तस्यानुवादासम्भवादाह - प्रत्यक्षप्राप्तेति ॥ नाहं सर्वज्ञ इत्यादिप्रत्यक्षप्राप्तेत्यर्थः ।
 अनुवादे प्रयोजनमाह - नेह नानेति ॥ प्रतिबन्द्या समाधत्ते ॥ नेति ॥ ननु नेह नानेति वाक्यस्येह ब्रह्मणि जगति वा भेदो नास्तीति भेदनिषेधकत्वेन तेन निषेधाय द्वासुपर्णेत्यादेर्भेदानुवादकत्वं युज्यते ।
 द्वा सुपर्णेत्यादेस्तु भेदमात्रप्रतिपादकत्वेनाभेदनिषेधकत्वाभावात्कथं तेन निषेधाय नेह नानेत्यादेरभेदानुवादकत्वमित्यत आह - भेदस्येति ॥ भेदो ह्यन्योन्याभावरूपः ।
 स च तादात्म्यप्रतियोगिकत्वेन तन्निषेधरूप एव ।
 तथा च तादृशभेदप्रतिपादकवाक्यस्य तादात्म्यनिषेधरूपत्वेन निषेधाय नेह नानेत्यादेर्भेदानुवादकत्वं युक्तमेवेत्यर्थः ॥ एतेनेति ॥ भेदश्रुतिविरोधादभेदश्रुत्यर्थत्यागो वा उताभेदश्रुतिविरोधाद्भेदश्रुत्यर्थत्यग इति सन्देहे निषेधवाक्यत्वेनाभेदश्रुतेः प्राबल्यात्तद्विरोधेन भेदश्रुत्यर्थस्यैव भेदस्य परित्याग इति यदुक्तमद्वैतवादिना तद्भेदवाक्यस्यापि निषेधकत्वकथनेन निरस्तमित्यर्थः ।
 ननु नाभेदवाक्यस्यानुवादकत्वं युक्तम् ।
 अभेदस्य प्रामाणान्तराप्राप्तेः ।
 नचानुमानतः प्राप्तिरुक्तेति वाच्यम् ।
 अनुवादे प्रत्यक्षतः प्राप्तेरेव प्रयोजकत्वेनानुमानेन प्राप्तेरप्रयोजकत्वादित्यत आह - नहीति ॥ तथा सतीति ॥ प्रत्यक्षतः प्राप्तेरेवानुवादप्रयोजकत्वे `अग्निर्हिमस्यभेषज'मिति वाक्यमनुवादकं न स्यादित्यन्वयः ।
 कुत इत्यत उक्तमग्नेरित्यादिप्रतिपादयदित्यन्तम् ।
 अग्नेर्हिमनिवृत्तिकारणत्वं हि सत्यग्नौ हिमनिवृत्तिरन्यथा नेत्यन्वयव्यतिरेकदर्शनेन हिमनिवृत्तिरग्नितो जन्या ।
 तदन्वयव्यतिरेकानुविधायित्वादित्यानुमानप्राप्तम् ।
 तदेवप्रतिपादयदिदं वाक्यमनुवादकमङ्गीक्रियते ।
 न च तत्रापि प्रत्यक्षप्राप्तस्यैवानुवाद इति वाच्यम् ।
 कार्यकारणभावस्य कालादिघटितत्वेनातीन्द्रियत्वादिति भावः ।
 इष्टापत्तिपरिहारायोक्तं सर्वसम्मतमिति ।
 नेह नानेति वाक्यस्यानुमानेनैक्यप्राप्तिरित्यभिहितम् ।

(28) यद्वा तत्त्वमसीति श्रुत्यर्थापरिज्ञानादद्वैतप्राप्तिरस्तु ।
 अस्ति च श्रुत्यर्थापरिज्ञानप्राप्तस्य श्रुत्यन्तरेण निषेधः ।
 यथेष्टापूर्तयोः परमपुरुषार्थत्वनिषेधः ।
 अथवा प्रवाहतोऽनादिरूपया दुःशास्त्रपरम्परयाऽद्वैतप्राप्तिरस्तु ।
 अस्ति च कुमतप्राप्तस्य निषेधः ।
 `तद्धैक आहुरसदेवेदमग्र आसी'`देकमेवाद्वितीयं' `तस्मादसतः सदजायत' ।
 `कुतस्तु खलु सोम्यैवं स्यादिति होवाच' ।
 `कथमसतः सज्जायेते(सदजायते)'त्यादौ ।
 अत्र हि बौद्धमतप्राप्तमसतः कारणत्वं निषिध्यत इति ॥
तस्मात् द्वा सुपर्णेत्याद्याः श्रुतयो जीवेश्वरभेदे प्रमाणम् ।
 परमं साम्यमुपैति सह ब्रह्मणा विपश्चिता ।
 मम साधर्म्यमागता इत्याद्यास्तु न व्यावहारिकभेदपरत्वेन शङ्कितुमपि शक्याः ।
 मुक्त्यन्तरं भेदप्रतिपादकत्वात् ।
 घटपटादि भेदे तु प्रत्यक्षं सुलभमेव ।

(28) (भ.) अद्वैतश्रुतेरनुवादकत्वसिद्ध्यर्थं प्रकारान्तरेणाद्वैतस्य प्राप्तिं दर्शयति - यद्वेति ॥ तत्त्वमसीति श्रुतेस्तात्पर्यविषयीभूतोऽर्थस्तु तद्गुणसारत्वात्तद्व्यपदेश इति सूत्रकारेणैव सिंहो देवदत्त इत्यादिवज्जीवब्रह्मणोः सादृश्यरूपो दर्शितस्तदपरिज्ञानेनेत्यर्थः ।
 श्रुत्यर्थापरिज्ञानप्राप्तस्य श्रुत्यन्तरेण निषेधः क्व दृष्ट इत्यत आह - अस्तीति ।
 `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तमनीश्वरविषयं काम्यकर्मे`ष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
 नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ती'ति श्रुतिः ।
 पूर्वार्धेनानूद्योत्तरार्धेन तस्य परमपुरुषार्थसाधनत्वं निराकरोति ।
 निन्दायाः प्रतिषेधे तात्पर्यात् ।
 न चैवंविधकर्मणोऽन्यतः प्राप्तिरस्ति ।
 अतः श्रुतितात्पर्यापरिज्ञानमेव तत्प्रापकं वाच्यम् ।
 तद्वत्प्रकृतेऽपीति भावः ॥ इष्टापूर्तयोरिति ॥ इष्टं यजनं पूर्तमन्नदानादिकं तयोरित्यर्थः ।
 अन्येषामपि दृश्यत इति दीर्घः श्रुत्यनुसारेण ।
 श्रुतौ च द्वन्द्वैकवद्भावः ।
 सर्वो द्वन्द्वो विभाषयैकवद्भवतीति वचनात् ।
 वरिष्ठं परमपुरुषर्थसाधनम् ।
 अन्यच्छ्रेयः परब्रह्मापूज्यम् ।
 तत्प्रसादमिति यावत् ।
 न वेदयन्ते न जानन्ति ।
 वरिष्ठमिति वर्तते ।
 प्रकारान्तरेणाप्यद्वैतप्राप्तिं दर्शयति - अथवेति ॥ कथमाधुनिकदुःशास्त्रपरम्परया प्राप्तस्यानादिना वेदेन निषेध इत्यत उक्तं प्रवाहतोऽनादिरूपयेति ।
 अनादिककालतो वृत्ताः समया हि प्रवाहत इति वचनादिति भावः ।
 अस्यां श्रुतौ किं मतप्राप्तं किं निषिध्यत इत्यतः स्पष्टयति - अत्र हीति ।
 इति शब्दः प्रप्तिप्रदर्शनप्रकरणसमाप्तिपरः ।
 उपसंहरति - तस्मादिति ॥ उक्ततीत्या भेदस्य व्यावहारिकत्वाभावदनुवादकत्वाभावाच्चेत्यर्थः ।
 व्यावहारिकभेदपरत्वेन शङ्कितुमप्यशक्यमौक्तभेदश्रुतयः स्मृतयश्च सन्तीत्याह - परममिति ॥ न हि मुक्तौ व्यावहारिकभेदो युज्यत इति भावः ।
 एवमात्मभेदे प्रमाणत्रयमुपन्यस्यैतेन घटपटादिभेदे प्रमाणं निरस्तमित्यादिना प्राक् कृतांशङ्कां निराह - घटपटादीति ॥ सुलभमेवेति ॥ नोपपादनसापेक्षं धर्मिप्रतियोगिनोरुभयोरपि प्रत्यक्षयोग्यत्वेन पूर्वशङ्कानवकाशादिति भावः ।

(28) (मु.) ननु केवलानुमानान्नेश्वरप्राप्तिः ।
 शास्त्रैकसमधिगम्यत्वादीश्वरस्य ।
 आगममूलत्वे स्वानुपजीवत्वाभावात्कथमनुवादित्वमित्यतः प्राप्त्यन्तरमाह - यद्वेति ॥ अपरिज्ञानादिति ॥ तात्पर्यापरिज्ञानादापातप्रतीतिमात्रादित्यर्थः ।
 आधुनिकपुरुषज्ञानात्प्राप्तमर्थं कथमनादिश्रुतेरनुवाद इत्यत आह - अस्तीति ।
 अज्ञानस्यापि प्रवाहतोऽनादित्वादिति भावः ॥ निषेध इति ॥ इष्टापूर्तं मन्यमाना इति शेषः ।
 अत्र साक्षान्निषेधश्रवणेऽपि निन्दार्थवादाद्गम्यत इति ज्ञेयम् ।
 नन्वियं प्राप्तिः श्रुत्यर्थापरिज्ञानादेवेति कुतः शास्त्रादितोऽपि सम्भवादिति चेन्न ।
 यामिमां पुष्पितां वाचं प्रवदन्ति विपश्चित इति समाख्यानात् ।
 विषयव्याप्त्यर्थं प्राप्त्यन्तरमाह - अथवेति ॥ समयस्याधुनिकत्वात्कथमेतदित्याशङ्क्योक्तं प्रवाहत इति ॥ एके शून्यवादिन इदमग्रेऽस्य जगतः पूर्वमेवाद्वितीयमसच्छून्यमेवासीत्तस्मादसतः सज्जगदासीत् ।
 अजायतेत्याहुः ।
 हे सोमार्ह कुतः कारणादेवं स्यादिति होवाच गुरुः शिष्यं प्रति कथमसतः सज्जायेतेति भावेनेत्यर्थः ।
 किञ्च भेदाभेदवाक्ययोः पौर्वापर्यनियमाभावाद्यत्तच्छब्दभावद्भेदवाक्ये विधेयान्तरश्रवणात् ।
 भेदाभेदवाक्ययोरसन्निहितत्वाद्भेदस्याङ्गीकृतार्थान्तरेण सहपाठाच्च नानुवादनिषेध इति भावः ।
 यच्चोक्तं सिद्धानुवादकत्वाद्भेदवाक्यं दुर्बलमिति ।
 तन्न ।
 ब्रहुप्रमाणसंवादस्य दाढर्यहेतुत्वेन गुणत्वात् ।
 एतेन भेदवाक्यस्य वैयर्थ्यमिति निरस्तम् ।
 व्यर्थत्वेऽपि तदर्थस्य सत्यत्वाविरोधाच्च न दोषः ।
 वस्तुतस्त्वनुवादित्वेऽपि न वैयर्थ्यम् ।
 अधिकारिभेदेन प्रवृत्तसमानार्थकशाखान्तरे व्यभिचारात् ।
 अधिकारिभेदेनाप्रवृत्ते सतीति विशेषणे त्वसिद्धिः ।
 यस्य वादिमत्या प्रत्यक्षं भेदनिश्चयग्रहश्च नेष्टे तं प्रति प्रवृत्तत्वात् ।
 किञ्च मा हिं स्यात्सर्वा भूतानीति वाक्ये व्यभिचारः ।
 कस्यापि सर्वहिंसाप्रसक्त्यभावात् ।
 एकदेशेऽपूर्वताऽस्तीति चेत् ।
 समं ममापि सर्वभेदस्य प्रत्यक्षाप्राप्तत्वात् ।
 अपि च सौप्तिकसुखानुभवसिद्धानुवादे आनन्दं ब्रह्मण इति वाक्ये व्यभिचारः ।
 तस्यैव त्रैकालिकत्वविधानार्थं तदिति चेत् ।
 समं प्रकृतेऽपि ।
 उक्तरीत्या भेदप्रत्यक्षस्य श्रुत्युपजीव्यत्वादिति भेदस्य सत्यत्वेऽसन्दिग्धश्रुतिमपि पठति ॥ परममित्यादिना ।
 नन्वत्र साम्यादिरेवोच्यते न च भेदः ।
 न च तद्व्यापकोक्त्या तदनुमातुं शक्यत इति वाच्यम् ।
 तर्ह्यागमतयोदाहरणानुपपत्तिरिति चेन्न ।
 तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं सादृश्यमिति भेदगर्भत्वात् ।
 न च तन्निष्ठत्वमेव लक्षणमस्त्विति वाच्यम् ।
 स्वस्यापि स्वसादृश्यव्यवहारापत्तेश्च ।
 अत एव गगनं गगनाकारमित्यादौ सदृशान्तरनिषेध एव तात्पर्यमिति वदन्ति ।
 ननु तथाऽपि भवतां ब्रह्मसादृश्यं सिद्धान्तविरुद्धमिति चेन्न ।
 `जगद्व्यापारवर्ज'मिति निर्णायकानुसरणसङ्कोचकरणात् ।
 एवञ्च सहभावस्यापि तद्भिन्नत्वे सति तत्क्रियायोगित्वमिति ॥ भेदगर्भ इत्याद्या इति ॥ परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ।
 न यत्र माया किमुतापरे हरेरनुव्रत इत्यादिरूह्यम् ।
 न चेयं सगुणमुक्तिरिति वाच्यम् ।
 मुक्तिद्वैविध्ये मानाभावात् ।
 स्वक्रियान्यथाऽनुपपत्त्या कल्पने त्वन्योन्याश्रयः ।
 अस्तु वा तद्वैविध्यं साम्यवाक्ये पुण्यपापे विधूयेति निरञ्जनत्वोक्तेः ।
 उपसत्तिवाक्ये स्नेहरूपेणेति मिथ्याकारे प्रहाणोक्तेः ।
 अन्त्येन यत्र मायेति मायाभावोक्तेश्च न सगुणमुक्तिपरत्वमिति ।
 एवमात्मभेदं प्रसाध्य जडभेदं साधयति - घटपटेति ॥ नायं घट इति प्रत्यक्षमित्यर्थः ।

(28) (कु.) ॥ श्रुत्यन्तरेणेति ॥ इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढा इत्यादिनेत्यर्थः ॥ मुक्त्यनन्तरमिति ॥ आविद्यकस्य मुक्तावनुवृत्त्ययोगादित्यर्थः ॥ सुलभमेवेति ॥ धर्मप्रतियोगिनोर्योग्यत्वादित्यर्थः ।

(28) (हु.) ॥ इष्टापूर्तयोरिति ॥ `इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
 नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्तीत्याथर्वणश्रुतेरयमर्थः ।
 इष्टं यजनं पूर्तमन्नदानादि ।
 इष्टपदोत्तर`मन्येभ्योऽपि दृश्यत' इति दीर्घ इति विष्णुतत्त्वनिर्णयटीकायामुक्तम् (* `एवं नवानामपि वाक्यानां जीवब्रह्मभेद एव तात्पर्यमिति प्रत्येकमुपपाद्येदानीं सर्वेषामपि भेदपरत्वे समाख्यावाक्यं पठति ॥ यथेति ॥ ' इति तत्सन्दर्भज्ञापिका टीकायाः पूर्वतरपङ्क्तिः ।
)।
 अन्यच्छ्रेयः परमात्मप्राप्तिलक्षणमोक्षरूपश्रेयो ब्रह्म वा वेदयन्ते स्वार्थे णिच् विन्दन्ति ।
 नाकस्य पृष्ठे स्वर्गस्य स्थाने सुकृते सुकृतसाध्येऽनुभूत्वा सुखमनुभूय ।
 इमं लोकमित्यादि ।
 वाशब्दो व्यवस्थितविकल्पे ।
 विष्णौ राजादिवत्सर्वोत्तमत्वज्ञानपूर्वकं (* `राजादिसर्वोत्तमत्व' मु.) तद्विशेषापरिज्ञानपूर्वकं (* `तद्विशेषापरिपूर्वकं ज्ञानं' मु.) च काम्यकर्म कृत्वाऽन्यदेवतोद्देश्यककर्माप्यन्ततो विष्णावेव समर्पयन्ति ।
 ते स्वर्गं भुङ्क्त्वेमं लोकं मानुषलोकं आविशन्ति प्राप्नुवन्ति ।
 अन्येषां भगवत्साम्यमन्येभ्यो भगवतो हीनत्वमित्यादिज्ञानिनो दुर्योधनप्रमुखा अयोग्या दक्षिणा तदर्पितानामाचार्याणां द्रोणादीनां तेजसा स्वर्गं भुक्त्वा तदनन्तरं हीनतरं तमादिरूपं पुनरुत्थानशून्यं क्रमादाविशन्तीति ।
 उक्तं ह्येतदाथर्वणभाष्ये ।
 सर्वेभ्योऽपि परं विष्णुं राजवद्यस्तु मन्यते ।
 याजी स मानुषं याति साम्यहीनत्ववित्तम इति ॥ अत्र विशेषो गीतातात्पर्तनिर्णयतोऽवगन्तव्यः ।
 तथा चेष्टापूर्तादेः परमपुरुषार्थत्वज्ञानिनां निन्दाद्वारा श्रुतिः परमपुरुषार्थत्वं निषेधति ।
 अर्थवादस्य विधिनिषेधावन्तरापर्यवसानायोगात् ।
 निषेधश्च प्राप्तिपूर्वकः ।
 प्राप्तिर्वक्तव्या सा च प्रत्यक्षानुमानाभ्याम् ।
 स्वर्गादेस्तन्निष्ठपुरुषार्थतायास्तज्जनकत्वादीनामतीन्द्रियत्वे प्रत्यक्षाप्रसक्तेः ।
 पक्षसाध्यहेत्वादीनां ग्रहीतुमशक्यत्वेनानुमानस्याप्यप्रवृत्तेः ।
 तथा च `यन्न दुःखेन सम्भिन्न'मित्यादिवाक्यैः स्वर्गनिरूपणपरैर्ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवाक्यैश्च तात्पर्यमविदुषां यागादिसाध्यस्य स्वर्गादेः परमपुरुषार्थत्वभ्रमरूपा प्राप्तिर्वर्तते ।
 तद्विषयीभूतं यथा श्रुत्या निषिध्यते तथेहाप्यस्त्विति भावः ॥ प्रवाहतोऽनादिरूपयेति ॥ इदं चागन्तुकं कथमनादिरूपया श्रुत्याऽनूद्यत इति शङ्कानिरासाय ।
 प्रवाहतोऽनादित्वं च यादृशरूपाश्रयाधिकरण[काल]सामान्यं यादृशरूपाश्रय प्रतियोगिकप्रागभावध्वंसवत्तादृशरूपाश्रयत्वं तेन रूपेण प्रवाहतोऽनादित्वमिति रूपघटितं निर्वाच्यम् ।
 मन्दारमञ्जर्युक्तस्यैकप्रवाहेत्यादिलक्षणवाक्यस्योक्तार्थे पर्यवसानमन्यत्र प्रदर्शितमस्माभिर्ग्रन्थगौरवभयान्नेह प्रदर्शितं सुधीभिः स्वयमूह्यम् ॥ तद्धैक आहुरिति ॥ छान्दोग्योपनिषदि षष्ठेऽध्याये सदेव सौम्येदमग्र आसीदेक एवाद्वितीयमिति स्वमतमुक्त्वा तद्धैक आहुरित्यादिना बौद्धसिद्धन्तोऽनूद्यते ।
 `कुतस्तत्खलु सौम्यैवं स्यादि'त्यादिना तन्निषेधार्थम् ।
 तथेहापि प्रवाहतोऽनाद्यद्वैतमप्राप्तजीवेश्वरैक्यादिकम् ।
  (* अत्र वाक्यादौ `तादात्म्यनिषेधः' इति पदं पठ्यते ।
)तादात्म्यनिषेधरूप(भेद)बोधकश्रुत्या निराक्रियत इत्यर्थः ।
  (* इतः वाक्यद्वयं मु.पाठे `बाध्यत्वायोगादिति भावः' इत्यस्यानन्तरं पठ्यते ।
)अत्र यद्यपि सर्वेषां प्राणिनां देहगेहादिकं प्रत्यपरायत्तस्वामित्वभ्रमो वर्तते ।
 तस्य च भावाभावसाधारणधर्मत्वाद्भगवत्तादात्म्यभ्रमरूप एवेति चतुर्थेऽपि प्राप्तिः ।
 प्रत्यक्षरूपा विष्णुतत्त्वनिर्णये आचार्यैरेवोपपादिता ।
 तथाऽपि साति (* `सा न' मु.)स्फुटतया तादात्म्यभ्रमरूपतया ज्ञातुं शक्या (* इत आरभ्य अग्रिमविद्यमानामितिपदपर्यन्तं हु.पाठे नास्ति ।
)बहूपपादनसापेक्षेत्याशयेन तिसृणामेवोपपादनं कृतमिति ज्ञातव्यम् ॥ आशङ्कितुमपि शक्या इति ॥ मुक्तौ विद्यमानानां बाध्यत्वायोगादिति भावः ।
 ॥ घट इत्यादि ॥ अद्वैतिनां मध्ये मायावादिमते भेदस्य भ्रान्तिगोचरतयाऽङ्गीकृतत्वाद्भेदमात्रसाधने सिद्धसाधनता ।
 भास्करमते सद्रूपत्वेन घटपटादीनामप्यभेद (* `घटपटादीनां मध्ये भेद' मु.) एव घटत्वादिरूपेण तु भेद इत्यङ्गीकृतत्वेन तन्मात्रसाधने सिद्धसाधनता ।
 उभाभ्यां तादात्म्यासामानाधिकरण्यस्य (* `तादात्म्यासमानाधिकरणस्य' इति पाठेन भाव्यमिति भाति ।
) भेदस्य कुत्राप्यनङ्गीकृतत्वादत्यन्ताभेदसाधने (* `-अत्यन्तभेद-' हु.) चाप्रसिद्धविशेषणता घटपटादीनां त्वतात्त्विकस्वरूपं (* `तात्त्विकस्वरूपं' मु.) ब्रह्मैवेति मायिभिरङ्गीकृतत्वाद्भेदे पारमार्थिकविशेषणं मायावादिनो[ना]ऽप्रसिद्धविशेषणतासम्पादकं भास्करस्य सिद्धसाधकसम्पादकमिति भेदसाधनमुपेक्ष्य तात्त्विकतादात्म्याभाव एव साधितः ।
 स चाद्वैतवादिनामसम्मतमेवेति न सिद्धसाधनम् ।
 यद्यपि तादात्म्यत्वावच्छिन्नाभावरूपसामान्याभावसाधनेनैव निर्वाहे तात्त्विकत्वं विशेषणं तादात्म्येनार्थवदिति भाति ।
 तथाऽपि सेत्स्यमानस्य तदभावः पारमार्थिक एव संसिध्यति ।
 न्यूनसत्ताकस्य तदभावस्य तद्विरोधित्वाभावेनानुमितेस्तत्संशयनिवर्तकत्वानुपपत्तेरिति द्योतनाय ।
 यद्वा प्रातिभासिकतादात्म्यमादाय परेण साध्याभाव(रूप)तादात्म्यं प्रति हेत्वभावस्य व्यापकताभङ्गाद्व्यतिरेकव्याप्त्यनुपपत्तिशङ्कने आरोपितस्यासत्त्वेन तदधिकरणाप्रसिद्ध्योक्तशङ्कनमयुक्तमित्याद्युपपादनप्रयासविद्वेषेण साध्यीभूताभावप्रतियोगिकोटौ तन्निवेश इति ज्ञेयम् ।
 यद्यपि वास्तवपदवत्तादात्म्यं ब्रह्मस्वरूपमेव परसिद्धं तच्च घटादावपि परैरङ्गीकृतम् ।
 अन्यथैतद्ग्रन्थसमाप्तिभागस्थपरानुमानद्वयापत्ति(प्रवृत्ति)प्रसङ्गात् ।
 तथा च कथं व्यतिरेके व्याप्तिग्रह इति भाति ।
 तथाऽपि घटे व्यतिरेकसहचारस्य निश्चयादन्यत्र घटे तत्सन्देहेऽपि घटो यदि पटात्मा स्यात्तत्कार्यकारी स्यादित्याद्यनुकूलतर्कबलात्तमवधूय व्याप्तिनिश्चयो भवतीति द्रष्टव्यम् ।
 अभावसाध्यककेवलव्यतिरेकित्वान्नात्राप्रसिद्धविशेषणतेति ॥ अनुपदमप्रसिद्धविशेषणं त्विति मूल एव व्यक्तम् (* `वक्तव्यम्' मु.) ।
 अतस्तच्छङ्कानवकाशः ।

(28) (का.) एवमनुमानादद्वैतप्राप्तिमभिधायागमादपि तामाह - यद्वेत्यादि ॥ श्रुतिप्राप्ताद्वैतस्य श्रुत्यन्तरेण प्रतिषेधे श्रुतेरप्रामाण्यापत्तिरतः ॥ श्रुत्यर्थापरिज्ञानादिति ॥ श्रुतितात्पर्यविषयार्थापरिज्ञानात् ।
 तत्सादृश्यादिरूपार्थे श्रुतितात्पर्यापरिज्ञानादिति यावत् ॥ यथेष्टापूर्तयोरिति ॥ स्वर्गकामो यजेतेत्यादि - श्रुतितात्पर्यविषयस्वार्गपदार्थपरमात्मज्ञानसाधनत्वापरिज्ञानप्राप्तस्य अनित्यसुखस्वरूपस्वर्गसाधनत्वस्य `इष्टापूर्तं मन्यमाना वरिष्टं नान्यच्छ्रेयो वेदयन्ते प्रमूढा' इत्यादौ प्रतिषेध इत्यर्थः ।
 इष्टं यजनं पूर्तमन्नदानादि ।

सयुक्तिकशब्दाभासादप्यद्वैतप्राप्तिमाह - अथवेति ॥ दुःशास्त्रपरम्परया पूर्वपूर्वोपजीव्युत्तरोत्तरमायिशास्त्रेण ।
 ननु आधुनिकशास्त्रप्राप्ताद्वैतं कथमनादिवेदेन निषिद्ध्यत इत्यत आह - प्रवाहतोऽनादिरूपयेति ॥ प्रवाहतोऽनादित्वं चैकप्रवाहमध्यपतितानेकप्रवाहिप्रतियोगिकप्रागभावावच्छिन्नकालावृत्तित्वानधिकरणध्वंसप्रतियोगिप्रवाहित्वमिति मन्दारमञ्जर्यामुक्तम् ।
 तत्र च सादिप्रवाहघटकघटादिक्रियायामतिव्याप्तिवारणाय कालावृत्तित्वानधिकरणेति कालत्वव्यापकार्थकम् ।
 सादिप्रवाहघटकवस्तुध्वंसस्य च न कालत्वव्यापकत्वम् ।
 तस्य तत्प्रवाहोत्तरयावत्कालवृत्तित्वेऽपि तत्प्रवाहघटकानेकवस्तुप्रागभावावच्छिन्नयावत्कालवृत्तित्वाभावादित्येतल्लाभार्थमवच्छिन्नान्तोपादानम् ।
 न त्वस्य लक्षणघटकत्वमनर्थकत्वात् ।
 कालत्वव्यापकप्रवाहित्वमित्येवोक्तौ अनित्यानादिप्रवाहघटकमनोवृत्तीनामसङ्ग्रहात्तादृशध्वंसप्रतियोगित्वपर्यन्तनिवेशः ।
 यद्यप्यनादिप्रवाहघटककामकर्मादिध्वंसानामपि न प्रत्येकं कालत्वव्यापकत्वसम्भवः ।
 तथापि तत्प्रवाहघटकवस्तुध्वंसत्वेन व्यापकत्वं विवक्षणीयमिति ज्ञापनाय प्रवाहिपदम् ।
 यद्यप्येवं न कामकर्मादिध्वंसप्रवाहसङ्ग्रहः ।
 तद्घटकवस्तुध्वंसाप्रसिद्धेः ।
 तथाप्यत्र भावानामेव लक्ष्यत्वान्न दोषः ।
 अभावानामपि लक्ष्यत्वे तत्प्रवाहघटकप्रवाहिप्रागभावावच्छिन्नकालत्वव्यापकप्रवाहित्वं प्रवाहतोऽनादित्वं बोध्यम् ।
 एतेन यथाश्रुतलक्षणस्यानादिप्रवाहघटकचरमव्यक्तावव्याप्तिः ।
 तद्ध्वंसस्य तत्प्रवाहघटकवस्तुप्रागभावावच्छिन्नकालावृत्तित्वात् ।
 एवं तादृशकालावृत्तित्वानधिकरणत्वस्य तादृशकालवृत्तित्वरूपतया तस्य च सादिप्रवाहघटकवस्तुसाधारणत्वादतिव्याप्तिः ।
 तादृशयत्किञ्चित्कालावृत्तित्वानधिकरणत्वस्य तादृशयावत्कालवृत्तित्वपर्यवसितस्य विवक्षायामसम्भवः ।
 कस्यापि ध्वंसस्य तादृशयावत्कालावृत्तित्वात् अवच्छिन्नान्तवैयर्थ्यं चेत्यादिकमपास्तम् ।

केचित्तु एकप्रवाहेत्यादिनैकप्रवाहघटकाः यावन्तः प्रवाहिणस्तत्तत्प्रागभावावच्छिन्नकालवृत्तिध्वंसप्रतियोगित्वं विवक्षितम् ।
 तत्र च सादिप्रवाहवारणायावच्छिन्नान्तोपादानम् ।
 तद्घटकवस्तुध्वंसानां च तद्घटकप्रथमव्यक्तिप्रागभावावच्छिन्नकालवृत्तित्वमित्यदोषः (* `न तद्घटक-' इति पाठेन भाव्यमिति अस्मद्गुरवः श्रीमन्तः वेङ्कटेशबायरिआचार्याः ।
)।
 यद्यपि सामान्यतो यावत्प्रागभावावच्छिन्नकालवृत्तित्वनिवेशेऽपि तद्दोषवारणसम्भवः ।
 तथापि अव्यावर्तकानन्तप्रागभावनिवेशवैयर्थ्यात् तत्प्रवाहघटकप्रवाहिप्रागभावानामेव निवेशः ।
 न चानादिप्रवाहघटकवस्तुध्वंसानामपि प्रत्येकं तादृशयावत्प्रागभावावच्छिन्नकालवृत्तित्वाभावादसम्भव इति वाच्यम् ।
 तत्तत्प्रागभावावच्छिन्नकालवृत्तिवृत्तितत्प्रवाहघटकवस्तुध्वंसत्वाश्रयीभूतध्वंसप्रतियोगित्वस्य विवक्षितत्वात् ।
 न चैवं तत्तत्प्रागभावावच्छिन्नकालवृत्तिवृत्तितत्प्रवाहघटकत्वस्यैव सम्यक्त्वात् ध्वंसप्रतियोगित्वपर्यन्तनिवेशो निष्फल इति वाच्यम् ।
 यथा सन्निवेशेन वैयर्थ्यानवकाशादित्याहुः ।
 एवं च दुःशास्त्राणामप्युक्तरूपानादित्वादनादित एवाद्वैतस्य प्राप्तिसम्भवाद्वेदनिषेध्यत्वोपपत्तिरिति भावः ।

॥ निषेध इति ॥ `असदेवे'त्यादिना परमतमनूद्य `कुतस्त्वि'त्यादिना निषेध इत्यर्थः ।
 कस्य मतेन प्राप्तं किमत्र निषिध्यत इत्याकाङ्क्षायामाह - अत्र हीति ॥ द्वा सुपर्णेत्यादिश्रुतेः पारमार्थिकभेदपरत्वमुपसंहरति - तस्मादिति ॥ अद्वैतश्रुतीनामुक्तरीत्या बाधोपपत्तेरित्यर्थः ।

 व्यावहारिकभेदपरत्वशङ्कानिराससौकर्यात् श्रुत्यन्तराण्यप्याह - परममिति ॥ `यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
 तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।
' `यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' ।
`इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता' इत्याद्या इत्यर्थः ॥ मुक्त्यनन्तरमिति ॥ तद्भिन्नत्वे सति तद्धर्मजातीयधर्मवत्त्वस्यैव साम्यादिशब्दार्थत्वात्तद्भिन्नतत्समानदेशत्वस्यैव तत्सहभावरूपत्वात्तस्य च ब्रह्मदर्शनफलत्वेनोक्तस्याविद्यानिवृत्त्युत्तरभावित्वेनाविद्यकत्वासम्भवादिति भावः ।

एवमात्मभेदं प्रसाध्यानात्मभेदमपि व्यवस्थापयति - घटपटादीति ॥ सुलभमेवेति ॥ धर्मिप्रतियोगिनोः प्रत्यक्षत्वेनोक्तशङ्कानवकाशादिति भावः ।
 अतीन्द्रियभेदे तु पूर्ववदीश्वरप्रत्यक्षमुदाहर्तव्यम् ।
 न च प्रत्यक्षस्य व्यावहारिकविषयकत्वम् ।
 मानाभावात् ।
 अस्यैवार्थस्य व्यावहारिकत्वाव्यावहारिकत्वयोर्व्याघाताच्च ।
 न च भेदस्य प्रत्यक्षत्वेऽपि तस्य परमार्थसत्त्वे किं मानमिति वाच्यम् ।
 सत्त्वेनैव भेदस्य प्रतीयमानत्वात् ।
 तस्य च बाधाभावेन परमार्थत्वादित्यन्यत्र विस्तरः ।

(28) (श.) प्रकारान्तरेणापि तत्प्राप्तिं दर्शयति - यद्वेति ॥ तत्त्वमसीतिश्रुतेस्तात्पर्यविषयीभूतोऽर्थः `तद्गुणसारत्वत्ताद्व्यपदेश' इति ब्रह्मसूत्रोक्तरीत्या सिंहो देवदत्त इत्यादिवत्तत्सदृशोऽसीति तत्वनिर्णयाद्युक्तरीत्या अतत्वमसीति पदच्छेदेन तद्भिन्नोऽसीति च ।
 तदपरिज्ञानदशायामैक्यमर्थतया प्रतीयते तदनुवदति नेह नानेति वाक्यमित्यर्थः ।
 श्रुत्यर्थापरिज्ञानेन प्राप्तं श्रुत्यन्तरेण निषिध्यत इत्येतददृष्टचरमित्यत आह - अस्तीति ॥ `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'ति श्रुतितात्पर्यार्थः स्वर्गपदवाच्येश्वरविषयकं निष्कामं कर्म कार्यमिति ।
 तदपरिज्ञानदशायां प्राप्तमनीश्वरविषयं काम्यकर्म `इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढा' इत्यनूद्य `नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वाविशन्ती'ति निराक्रियते ।
 निन्दायाः प्रतिषेधे तात्पर्यात् ।
 नचैवंविधस्य कर्मणोऽन्यतः प्राप्तिरस्तीति भावः ।
 इष्टं यजनम् ।
 पूर्तम् अन्नदानादिकम् ।
 प्रकारान्तरेणाद्वैतप्राप्तिं दर्शयति - अथवेति ॥ ननु अनादिना वेदेनाऽऽधुनिकवादिकृतशास्त्रपरम्परया प्राप्ताद्वैतनिषेधः कथं क्रियत इत्यत उक्तमनादिरूपयेति ॥ स्वरूपानादित्वायोगादुक्तं प्रवाहत इति ॥ यथोक्तम् ।
 `अनादिकालतो वृत्तास्समया हि प्रवाहत' इति ।
 दुःशास्त्रपरम्परया प्राप्तस्य श्रुत्या निषेधो न दृष्ट इत्यत आह - अस्तिचेति ॥ तदेव दर्शयति - तद्धेति ॥ तत् तत्र जगत्कारणत्वे निरूपणीये ।
 एके शून्यवादिनः ।
 आहुः ह प्रसिद्धम् ।
 किमाहुः ।
 `असदेवेदमग्र आसीत्' अत्रासच्छब्देन शून्यमुच्यते ।
 स्वकार्यं प्रति अन्यन्नास्तीत्येके मन्यन्ते ।
 (* `स्वकार्यपतित मन्यन्नास्तीत्येकेमन्यन्ते ।
' मु.) शून्यातिरेकेण शून्यस्य सहकारिणं द्वितीयं प्रतिषेधति ॥ अद्वितीयमिति ॥ विप्रतिपत्त्यन्तरमाह - तस्मादिति ॥ तस्मादसतः सज्जगदुत्पद्यत इति ॥ एवमनूदितं पक्षं दूषयन्ति ॥ कुत इति ॥ तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः ।
 हे सोम्य कथमेवमसदासीदिति कुत एवं स्यात् न कुतोऽपि ।
 व्याहतेः प्रमाणाभावाच्चेति होवाच ।
 विप्रतिपत्त्यन्तरं दूषयति - कथमिति ॥ कथमसतः सदुत्पद्येत ।
 अदृष्टत्वादसतः कारणत्वानुपपत्तेरित्यर्थः ।
 इत्यादौ निषेधोऽस्तीति सम्बन्धः ।
 अत्र केषां मतेन प्राप्तं किं निषिध्यत इति स्फुटमप्रतीतेराह - अत्रेति ॥ बौद्धेति ॥ बौद्धैकदेशिमाध्यमिकेत्यर्थः ।
 उपसंहरति - तस्मादिति ॥ उक्तरीत्या व्यावहारिकत्वाभावादनुवादकत्वाभावाच्चेत्यर्थः ।
 उदाहृतभेदश्रुतेर्व्यावहारिकभेदपरत्वशङ्कानिरासप्रयासगौरवमिति मन्वानो व्यावहारिकभेदपरत्वशङ्कानास्पदभेदश्रुतीरुदाहरति - परममित्यादिता ॥ यदा पश्य इति श्रुतेरयमर्थः ।
 पश्यतीति पश्यो जीवः ।
 सुवर्णवर्णं जगत्कर्तारं तन्नियामकं चतुर्मुखोत्पादकं परमपुरुषं यदा साक्षात्करोति तदाऽपरोक्षज्ञानी स जीवोऽनिष्टं पुण्यं पापं च विनाश्य निर्लेपस्सन् स्वयोग्यज्ञानानन्दादिना परमपुरुषस्य साम्यं यातीति ।
 `यो वेदे'ति श्रुतेश्च योऽधिकारी हृदयगुहायां परमे व्योम्नि निहितं ब्रह्म वेद स विपश्चिता ब्रह्मणा साकं स्वयोग्यान्सर्वान्कामानश्नुत इत्यर्थः ।
 इदं ज्ञानमिति गीतावाक्यस्य च इदं पूर्वोक्तज्ञानं समाश्रित्य ज्ञानानन्दादिना मम समानधर्मत्वं प्राप्ताः सृष्टौ न जायन्ते प्रलये न व्यथन्तीत्यर्थः ।
 अत्रोक्तसाम्यसहभावसाधर्म्याणां भेदेन विनाऽयोगात्तत्सिद्धिरिति भावः ॥ मुक्त्यनन्तरमिति ॥ पुण्यपापविधूननस्य सर्वविषयभोगस्य सृष्टावजननादेश्च संसारेऽभावान्मुक्त्यनन्तरं भेदप्रतिपादकत्वम् ।
 अविद्यानिवृत्तिरूपमुक्तावनुवृत्तस्य चाविद्यातत्कार्यान्यतरत्वव्याप्तव्यावहारिकत्वं त्वया नाङ्गीकृतमिति भावः ।

(29) अनुमानं च घटः पटप्रतियोगिकतात्त्विकतादात्म्याधिकरणं न भवति ।
 प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नपटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वात् (धर्मवत्त्वात्) व्यतिरेकेण पटवत् ।
 अप्रसिद्धविशेषणत्वं चात्मभेदसाधकानुमान इव परिहर्तव्यम् ।
 व्यावहारिकभेदमात्रेण पक्षदृष्टान्तभावश्च घटपटयोरुदाहरणीयः (उपपादनीयः)।

(29) (भ.) ॥ अनुमानं चेति ॥ प्रमाणमिति शेषः ॥ प्रतियोगीति ॥ प्रतियोगिसामानाधिकरण्यावच्छेदकेनानवच्छिन्नो यः पटनिष्ठात्यन्ताभावस्तत्प्रतियोगिभूतघटत्वरूपधर्माधिकरणत्वादित्यर्थः ।
 अत्र प्रतियोगिपदं तत्समानप्रधानपरम् ।
 अत्यन्ताभावप्रतियोगिनोऽसत्त्वस्य व्यवस्थापितत्वेन घटस्य तदधिकरणत्वायोगादित्यर्थः ॥ व्यतिरेकेण पटवदिति ॥ पटे पटतादात्म्यस्य घटत्वानधिकरणत्वस्य च सत्त्वेन साध्यसाधनयोरभावादिति भावः ॥ अप्रसिद्धविशेषणत्वं चेति ॥ यद्यपि मायावादिना प्रपञ्चमिथ्यात्वं वदता घटपटयोरतात्त्विकतादात्म्यं नाङ्गीक्रियत इत्यप्रसिद्धविशेषणत्वशङ्काप्रसरो नास्त्येव ।
 तथाऽपि जीवब्रह्मणोरैक्यं सर्वप्रमाणविरुद्धमङ्गीकुर्वत इदमपि सम्भावितमिति तन्मतस्यातीवहेयताज्ञापनायेयंशङ्केति द्रिष्यव्यम् ॥ आत्मभेदसाधकानुमान इवेति ॥ घटः पटप्रतियोगिकतात्त्विकतादात्म्यापन्नं न वेति संशयासम्भवेऽपि पटप्रतियोगिकतादात्म्यं घटेऽस्ति न वेति सन्देहमात्रेण घटस्य पक्षत्वोपपत्त्या हेतोः पक्षधर्मतोपपत्तेरिति वा केवलव्यतिरेकिणि साध्याभावस्य साधनाभावेन व्याप्तिग्रहादत्र साध्याभावस्य पटतादात्म्यस्य पटे प्रसिद्धत्वेन व्याप्तिविघटकत्वाभावादिति वा परिहरणीयमित्यर्थः ।
 ननु घटपटयोर्भेदसिद्धेः प्राक् कथं पक्षदृष्टान्तभाव इत्यत आह - व्यावहारिकभेदेति ॥ अन्यथा तव कुत्रापि पारमार्थिकभेदाभावेन पक्षदृष्टान्तघटितानुमानप्रयोग एव क्वचिदपि न स्यादिति भावः ।
 अत्र व्यावहारिकेति पराङ्गीकारसूचनार्थम् ।
 वस्तुतस्तु भेदमात्रेणैवेत्येतावदेवोपयुक्तम् ।
 तेन व्यावहारिकभेदस्य भवद्भिरनङ्गीकारात्कथं तदुक्तिरिति शङ्कानवकाश इति ध्येयम् ।

(29) (मु.) ॥ घट इति ॥ व्यावहारिकसत्तातादात्म्यानङ्गीकारे सिद्धसाधनतावारणाय तात्त्विकेति ॥ प्रतियोगीति ।
 प्रतियोगिना सामानाधिकरण्यस्यावच्छेदको यो धर्मो निष्प्रकारकचैतन्यापरोक्षोत्पत्तिपर्यन्तं स्वाधिकरणे स्वप्रतियोगिप्रतीत्यविरोधित्वरूपो धर्मस्तदनवच्छिन्नस्तद्रहितो यः पटनिष्ठात्यन्ताभावस्तत्प्रतियोगिकम्बुग्रीवादिधर्माधिकरणत्वादित्यर्थः ।
 अयं भावः ।
 परेण हि सर्वमिथ्यात्ववादिना घटत्वादीनां पटादाविव स्वाधिकरणघटादावप्यभावोऽङ्गीक्रियत एव ।
 परन्तु घटत्वस्य पटे योऽत्यन्ताभावः स तत्प्रतियोगिकसमानाधिकरणः ।
 अतः स्वाधिकरणे प्रतियोगिप्रतीतिं निरुणद्धि ।
 पटे तु प्रतियोगिसमानाधिकरणः ।
 अत एव घटे घटत्वाभावसत्त्वेऽपि घटत्वप्रतीत्यविरोधः ।
 इयं प्रतियोगिप्रतीतिर्निष्प्रकारकब्रह्मापरोक्षपर्यन्तमेव ।
 उत्पन्ने तु तस्मिन्नयमपि प्रतियोगिविरोध्येव भवति ।
 एवञ्च प्रतियोगिसामानाधिकरण्यावच्छेदको यो धर्मः स्वप्रतियोगिप्रतीत्यविरोधित्वरूपस्तद्रहितो योऽत्यन्ताभावस्तत्प्रतियोगिघटत्वादिधर्माधिकरणत्वं हेतुरिति ॥ पटनिष्ठेत्येवोक्ते पट एव व्यभिचारः ।
 परेण स्वात्यन्ताभावसमानाधिकरणत्वं मिथ्यात्वमित्यङ्गीकुर्वता पटत्वादेरपि पटनिष्ठात्यन्ताभावप्रतियोगित्वाङ्गीकारात् ।
 अतः प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्युक्तम् ।
 पटे पटत्वात्यन्ताभावस्तु स्वाधिकरणप्रतीत्यविरोधित्वरूपोक्तधर्मावच्छिन्न एव ।
 घटत्वात्यन्ताभावस्तु न तथा ।
 न च घटे पटत्वादिप्रतीतिरपि भ्रमरूपा सम्भवतीति तस्यापि प्रतियोगिसामानधिकरण्यावच्छेदकानवच्छिन्नत्वं नास्त्येव ।
 न च प्रतीतिः प्रमाकारा विवक्षितेति घटे घटत्वप्रतीतिः प्रमात्वानङ्गीकारादिति वाच्यम् ।
 प्रतीतेर्ब्रज्ञानेतरज्ञानाबाध्याया एव विवक्षितत्वात् ।
 प्रतियोग्यसमानाधिकरणेत्येवोक्ते (* `प्रतियोग्यसमानाधिकरणे' मु.) पट एव व्यभिचारः ।
 पटत्वात्यन्ताभावस्य पट एव प्रतियोग्यसमानाधिकरणत्वस्य वक्तुं शक्यत्वात् ।
 तथा हि ।
 प्रतियोग्यसमानाधिकरणत्वं हि प्रतियोगिसमानाधिकरणत्वाभावः ।
 प्रतियोगिसमानाधिकरणत्वं प्रत्यभावोऽन्य एव (* `प्रत्यभावमन्यान्यदेव' मु.) ।
 एवञ्च प्रतियोगिसमानाधिकरणस्याप्यभावस्य (* `प्रतियोगिसमानाधिकरणत्वं चान्त्यस्याप्यभावस्य' मु.) प्रतियोगिसमानाधिकरणान्तरगतप्रतियोगिसमानाधिकरणत्वरूपधर्मराहित्यं युज्यत (* `त्यज्यत' मु.) एव ।
 अतः प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्युक्तम् ।
 एवञ्चाभावान्ततरगतप्रतियोगिसमानाधिकरणत्वस्याभावेऽपि प्रतियोगिसामानाधिकरण्यावच्छेदकत्वं नास्तीति न व्यभिचारः ।
 तत्र प्रतियोगिपदं प्रतियोगितावच्छेदकानवच्छिन्नपरम् ।
 तेन प्रतियोगिसामानाधिकरण्यस्यापि प्रतियोगिविशेषसामानाधिकरण्यावच्छेदकानवच्छिन्नत्वसम्भवाद्व्यभिचार इति निरस्तम् ।
 यद्वा पटनिष्ठसंयोगस्य स्वात्यन्ताभावसामानाधिकरणत्वेन तद्वति पटे व्यभिचारवारणाय प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति विशेषणम् ।
 ननु घटपटोर्धर्मिसत्तासमानसत्ताकभेदः परेणाङ्गीक्रियत एवेति किं तत्साधनेन ।
 न च पारमार्थ्यसाधनार्थं यत्नः ।
 धर्मिणामेव तस्य साध्यत्वात् ।
 एकाधिष्ठानाध्यस्तत्वमेव जडानामैक्यमिति तन्मतम् ।
 न च भेदसाधनप्रसङ्गाच्छिष्यं प्रतीदमुच्यत इत्युत्तरं मायावादिरीत्यैव ग्रन्थचलनाच्छिष्यं प्रति सिद्धसाधनत्वान्नेति चेन्न ।
 घटः पटतादात्म्याधिकरणं न भवतीत्यस्य पटारोपाधिष्ठानाध्यस्तो न भवतीत्यर्थकत्वात् ।
 हेतुवाक्यस्यापि पटधर्मात्यन्तविलक्षणधर्माधिकरणत्वादिति निष्कृष्टार्थः ।
 अत्यन्तविलक्षणयोरेकाधिष्ठाने आरोपासम्भवादिति भावः ।
 यद्वा वाचारम्भणमित्याद्यर्थकत्वेन यज्जडैक्यं तेनाङ्गीकृतं तदभाव एवात्र साध्यत इत्यदोषः ।
 ननु सर्वपदार्थानामैक्याङ्गीकारादप्रसिद्धविशेषणतेत्यत आह - अप्रसिद्धेति ॥ व्याप्त्याद्यविघटकत्वेनेति शेषः ।
 एतदनुमानात्पूर्वं जडभेदासिद्धेः पक्षदृष्टान्तानुपपत्तिरित्यत आह - व्यावहारिकेति ॥ असत्प्रतियोगिकवैलक्षण्येन भेदस्य साधनसाधनाङ्गत्वम् ।
 अन्यथाऽयं पट एतत्तन्तुनिष्ठ इत्यादावपि समानमिति भावः ।

(29) (कु.) ॥ अनुमानं चेति ॥ घटपटभेदे प्रमाणमिति शेषः ।
 अभावस्य साध्यत्वान्न साध्याप्रसिद्धिर्दोष इत्याह - अप्रसिद्धविशेषणत्वं चेति ॥ प्रतियोगिसामानाधिकरण्यावच्छेदकेनावच्छिन्नः पटनिष्ठो योऽत्यन्ताभावस्तत्प्रतियोगी यो धर्मो घटत्वादिस्तदधिकरणत्वं घटत्वस्य तदा यदि घटत्वादिर्घटवृत्तिधर्मः पटे न स्यात् ।
 तत्तदपि तदा यदि तयोः पारमार्थिको भेदस्त्वद्याप्यसिद्धः ।

(29) (हु.) ॥ प्रतियोगीत्यादि ।
 प्रतियोगिपदं स्वप्रतियोगिपरम् ।
 अन्यथा तस्याव्यावर्तकतापत्तेः ।
 अनवच्छिन्नान्तमत्यन्ताभावविशेषणम् ।
 सामानाधिकरण्यं किञ्चिन्निष्ठं ग्राह्यम् ।
 न तु हेतुशरीरनिविष्टात्यन्ताभावनिष्ठम् (* `शरीरनिष्ठात्यन्ताभावनिष्ठम्' मु.) ।
 स्वमते सर्वत्र न्यायमते च व्याप्यवृत्त्यभावे प्रसिद्धेः ।
 तस्य सामानाधिकरण्यस्य योऽअवच्छेदक उभयाधिकरण्यं, घटे गगनाभावे (* `उभयाभावधिकरण्यं घटगगनाभावे' मु.) घटत्वसामानाधिकरण्यं न पट इति प्रतीतेः ।
 गगनाभावनिष्ठघटत्वसामानाधिकरण्यं घटावच्छेद्यं न पटावच्छेद्यमिति तदभिलापवाक्यार्थः ।
 पटे गगनाभावे न घटत्वसामानाधिकरण्यमित्यत्र तु गगनाभावनिष्ठघटत्वसामानाधिकरण्याभावः पटावच्छेद्य इति इदं सार्वभौमेनाङ्गीकृतम् ।
 प्रतियोग्यसमानाधिकरणयत्समानाधिकरणेत्यादिसिद्धान्तलक्षणे मणिकृताङ्गीकृतत्वात् ।
 अयं चात्र ग्रन्थस्तदनुसारेण प्रवृत्तः ।
 घटत्वात्यन्ताभावप्रतियोगिघटत्वसामानाधिकरण्यं यद्गगाभावनिष्ठं (* `यद्गगनत्वाभावादिनिष्ठं' मु.) तदवच्छेदकः पटो न, किन्तु घट एव ।
 तदनवच्छिन्नपटनिष्ठेत्यत्र पटवृत्तित्वविशिष्टेऽभावेऽनवच्छिन्नत्वस्य विशेषणत्वे फलतो पट[घट]निरूपिताधेयतायां घटत्वा[पटत्वा]भावनिष्ठायां पटत्वसामानाधिकरण्यरूपायां विशेषणं पर्यवस्यति ।
 घटत्वाभावे तस्याव्यावर्तकत्वात् ।
 तथा च स्वप्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नपटनिरूपिताधेयतावदभाव इत्यर्थः ।
 तादृशश्च घटत्वात्यन्ताभावस्तत्प्रतियोगिघटत्वरूपधर्मवत्त्वं घटे [हेतौ] वर्तत इत्यर्थः ।
 अस्य प्रयोजनमुत्तरग्रन्थे स्फुटीभविष्यति ।
 घटपटसंयोगादिकमव्याप्यवृत्त्यभावप्रतियोगिनमादाय व्यभिचारवारणाय चेदम् ।
 घटपटसंयोगात्यन्ताभावस्य घट[पट]निष्ठत्वेऽपि तन्निष्ठसंयोगरूपप्रतियोगिसामानाधिकरण्यं प्रति पटस्यावच्छेदकत्वात्तन्निष्ठतदत्यन्ताभावमुपादाय पटादौ व्यभिचारः ।
 सामानाधिकरण्यस्याव्याप्यवृत्तित्वानङ्गीकर्तृदीधितिकृद्रीत्या तु प्रतियोगिसामानाधिकरण्येत्यादेः प्रतियोगिसामानाधिकरण्यानिरूपकनिरूपितपटनिरूपिताधेयतेत्यर्थः (* `प्रतियोगिसामानाधिकरण्यानिरूपकानिरूपिताधेयतेत्यर्थः' हु.) ।
 किञ्चिन्निष्ठप्रतियोगिसामानाधिकरण्यनिरूपकत्वं प्रतियोग्यधिकरणस्यैवेत्युक्तविशेषणेन स्वप्रतियोग्यनधिकरणपटनिष्ठात्यन्ताभावप्रतियोगिधर्मवत्त्वादिति हेतुः पर्यवस्यति ।
 प्रतियोगिवैयधिकरण्ये प्रतियोग्यधिकरणता हेतुतावच्छेदकसम्बन्धावच्छिन्ना बोध्या ।
 प्रयोजनं स्वयमूह्यम् ।
 केचित्तु प्रतियोगिसामानाधिकरण्यरूपं यदवच्छेदकधर्मस्तदनवच्छिन्नस्तदविशिष्टः सन्पटनिष्ठो योऽभाव इत्यर्थः ।
 प्रतियोगिसमानाधिकरणान्यस्याभावविशेषणत्वे वक्ष्यमाणन्यायेन पटत्वाभावादेरतथात्वादेवमुक्तम् ।
 उक्तवाक्यस्यापि प्रतियोयोग्यनधिकरणपटनिष्ठात्यन्ताभावेत्याद्युक्तहेतौ पर्यवसानमत इदमपि कथमिति शङ्कानवकाश इत्याहुः ।

(29) (का.) अत्रैवानुमानान्याहः ॥ अनुमानं चेति ॥ पटेत्यादेः पटप्रतियोगिकतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकभेदवानित्यर्थः ।
 तात्त्विकतादात्म्येति पाठे पटत्वविशिष्टतादात्म्यावच्छिन्नभेदमादाय सिद्धसाधनवारणाय तात्त्विकपदं तदुपलक्षिततादात्म्यनिवेशलाभार्थम् ।
 तदवच्छिन्नव्यावहारिकभेदसिद्ध्याऽर्थान्तरत्वं त्वात्मभेदसाधकानुमानरीत्या परिहरणीयम् ॥ प्रतियोगीति ॥ अव्याप्यवृत्तिसंयोगादिकं व्याप्यवृत्तिपटत्वादिकं चादाय पटे व्यभिचारवारणायानवच्छिन्नान्तनिष्ठान्तयोरभावविशेषणत्वेन निवेशः ।
 न च प्रतियोग्यसमानाधिकरणत्वविशेषणेनैव संयोगाभावादिव्यावृत्तेरनवच्छिन्नान्तव्यावृत्त्यभाव इति वाच्यम् ।
 गुणादौ प्रतियोग्यसमानाधिकरणस्यैव संयोगाभावस्य पटनिष्ठत्वेन तदव्यावृत्तेः ।
 अनवच्छिन्नान्तनिवेशे च प्रतियोगिसामानाधिकरण्यावच्छेदकं यत्संयोगाभावत्वं तदनवच्छिन्नत्वाभावेन तद्व्यावृत्तेः ।
 न चैवं घटत्वाभावादेरपि घटत्वादिरूपप्रतियोगिसामानाधिकरण्यावच्छेदकप्रमेयत्वाद्यवच्छिन्नत्वादसिद्धिरिति वाच्यम् ।
 स्वनिरूपकप्रतियोगिसामानाधिकरण्यावच्छेदकं यद्यत्तदनवच्छिन्नत्वस्य विवक्षितत्वात्, प्रमेयत्वादिनिरूपकप्रतियोग्यप्रसिद्ध्या स्वपदेन तदुपादानायोगात् ।
 संयोगभावत्वादेरेव च तथात्वात् ।

ननु सर्वस्यैव पटतादात्म्याधिकरणत्वात् तदवच्छिन्नभेदरूपसाध्याप्रसिद्धिरत आह - अप्रसिद्धेति ॥ परिहर्तव्यमिति ॥ प्रकृतानुमित्यविरोधित्वेन ज्ञेयमित्यर्थः ।
 अभावसाध्यकव्यतिरेक्यनुमाने तददोषत्वस्योपपादितत्वादिति भावः ।

(29) (श.) एवमात्मभेदे प्रमाणत्रयमभिधायानात्मभेदेऽपि तदुपपादयन् प्रत्यक्षं तावदाह - घटपटादीति ॥ प्रत्यक्षं घटः पटो न भवतीत्याद्यं सुलभमेव नानुमानवत्प्रयासेनोपपादनीयम् ।
 नचास्य प्रत्यक्षस्य नेह नानेति श्रुतिबाधितत्वादप्रामाण्यमिति वाच्यम् ।
 तस्याः श्रुतेश्च ब्रह्मणि गुणकर्मादिभेदनिषेधकत्वेन घटपटभेदबाधकत्वाभावादिति भावः ॥ प्रतियोगीति ॥ घटे घटत्वात्यन्ताभावस्य घटत्वरूपप्रतियोगिसमानाधिकरणत्वाभावेन प्रतियोगिसामानाधिकरण्याप्रसिद्ध्या तदवच्छेदकस्याप्रसिद्धत्वेन तदनवच्छिन्नः पटनिष्ठो योऽत्यन्ताभावः घटत्वात्यन्ताभावः तत्प्रतियोगिधर्मो घटत्वं तदधिकरणत्वादित्यर्थः ।
 प्रतियोगीत्यादिविशेषणकृत्यं स्वयमेव वक्ष्यति - पटवदिति ॥ तत्र हि पटप्रतियोगिकतादात्म्याधिकरणत्वाभावाभावः पटप्रतियोगिकतादात्म्याधिकरणत्वे वर्तते ।
 तादृशघटत्वरूपधर्माधिकरणत्वाभावश्च वर्तत इत्यर्थः ।
 ननु मया पटप्रतियोगिकतादात्म्याधिकरणत्वस्यैवाङ्गीकारात्तदभावरूपसाध्यस्याप्रसिद्धत्वेनाप्रसिद्धविशेषणत्वमित्यत आह - अप्रसिद्धविशेषणत्वं चेति ॥ यथा जीवो ब्रह्मप्रतियोगिकतादात्म्याधिकरणं न भवतीत्यत्राभावस्य साध्यत्वान्नाप्रसिद्धविशेषणत्वस्य दोषत्वं तथेहाप्यभावस्य साध्यत्वाद्व्याप्त्यादिविघटकत्वाभावान्नाप्रसिद्धविशेषणत्वं दूषणमित्यर्थः ।
 ननु घटपटयोर्भेदसिद्धेः पूर्वं कथं तयोः पक्षदृष्टान्तभाव इत्यत आह - व्यावहारिकभेदमात्रेणेति ॥ आत्मभेदसाधकानुमानवदिति वर्तते ।
 तथाच पक्षदृष्टान्तभावे पारमार्थिकभेदस्य प्रयोजकत्वे त्वया तस्य कुत्राप्यनङ्गीकारेणानुमानमात्रोच्छेदापत्त्या भेदमात्रस्य प्रयोजकत्वे वाच्ये तस्य घटपटयोरपि विद्यमानत्वात्तयोः पक्षदृष्टान्तभावोपपत्तिरित्यर्थः ।

(30०) ननु तथाऽपि घटपटयोरपारमार्थिकभेदं वदता मया घटत्वादेरपि पटनिष्ठत्वाङ्गीकारेण पटनिष्ठात्यन्ताभावप्रतियोगिकधर्माधिकरणत्वं घटस्य नास्तीत्यसिद्धिरिति चेन्न ।
 (किं) पटे घटत्वं तथ्यमतथ्यं (मिथ्या) वा ।
 नाद्यः ।
 अपसिद्धान्तात् ।
 द्वितीये तु कथं पटे घटत्वात्यन्ताभावानङ्गीकरणम् ।
 `सर्वेषामेव भावानां स्वाश्रयत्वेन सम्मते ।
 प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मते'ति वचनात् त्वया स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमित्यङ्गीकारात् ।
 पटस्य घटत्वं प्रत्याश्रयत्वमेव नास्तीति तत्र तदत्यन्ताभावाभावेऽपि तत्र तस्य मिथ्यात्वं न विरूध्यत इति चेत् तर्हि पटे घटत्वं प्रत्यनाश्रये (प्रत्यनाश्रयत्वे) घटत्वात्यन्ताभावाधिकरणत्वं सुप्रसिद्धमिति कथमसिद्धिः ।

(30) (भ.) ननु घटपटयोरैक्यवादे पटत्वस्यापि घटे सत्त्वेन पटनिष्ठात्यन्ताभावप्रतियोगित्वाभावाद्धटत्वस्य तदनधिकरणत्वं घटेऽसिद्धमिति शङ्कते - नन्विति ॥ अथाऽप्यप्रसिद्धविशेषणत्वाभावेऽपि कथञ्चित्पक्षदृष्टान्तभावोपपत्तावपीत्यर्थः ।
 पटे घटत्वात्यताभावमङ्गीकारयितुं विकल्पेन पृच्छति - पट इति ॥ सर्वेषामिति ॥ सर्वेषामपि भावानां घटादिपदार्थानां स्वाश्रयत्वेन सम्मते भूतलादावत्यन्ताभावं प्रति प्रतियोगित्वमेव मृषात्मता मिथ्यात्वमिति वचनार्थः ।
 तथा च घटे पटत्वमतथ्यं चेत्तन्निष्ठात्यन्ताभावप्रतियोगित्वं घटत्वस्य दुर्वारमिति कथमसिद्धिरिति भावः ।
 नन्वत एव स्वाश्रयत्वेन सम्मत इत्युक्तम् ।
 तथा च पटस्य घटत्वाश्रयत्वाभावात्तदत्यन्ताभावस्य पटेऽनङ्गीकारेऽपि न घटत्वस्य तथ्यत्वापत्तिः ।
 स्वाश्रयत्वेन सम्मते घटे स्वात्यन्ताभावसामानाधिकरण्यस्य सत्त्वात्तावन्मात्रेणैव मिथ्यात्वोपपत्तेरिति भावेन शङ्कते - पटस्येति ॥ एवं तर्हि न सुतरामसिद्धेरवकाश इति भावेन परिहरति - तर्हीति ।
 तस्यैवार्थः पटस्य घटत्वं प्रत्यनाश्रयत्व इति ॥ सुप्रसिद्धमितीति ।
 घटानाश्रयस्य भूतलस्य घटात्यन्ताभावाधिकरणतानैयत्यस्य सर्वसम्मतत्वादिति भावः ।

(30) (मु.) विशेषणासिद्धिमाशङ्क्य समाधत्ते ॥ नन्विति ॥ अपारमार्थिकभेदाङ्गीकारादित्युपलक्षणम् ।
 वास्तवतादात्म्याङ्गीकारादित्यपि द्रष्टव्यम् ।
 घटत्वादेरित्यादिपदेन पृथुबुध्नोदराकारत्वादेर्ग्रहणम् ।
 घटपटयोरैक्ये घटस्यैव पटत्वेन घटत्वादेः पटावृत्तित्वं नास्तीत्यर्थः ।
 उक्तरीत्या घटत्वादेः पटत्वे पटनिष्ठात्यन्ताभावप्रतियोगित्वं वाच्यम् ।
 यावत्स्वाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वाङ्गीकारात् ।
 एवञ्च तन्मात्रमेवास्तु हेतुविशेषणमिति भावेन परिहरति - पटे घटत्वमिति ॥ कथमिति ॥ तस्यैव मिथ्याशब्दार्थत्वाङ्गीकारात् ।
 तत्र परसम्मतिमाह - परेषामिति ॥ भावानां स्वाश्रयत्वेन सम्मते वस्तुन्येवाधिकरणेऽत्यन्ताभावं प्रति प्रतियोगित्वं मृषात्मेति सम्बन्धः ।
 स्यादेतत् ।
 यदि घटोऽपटत्वं प्रत्याश्रयः स्यात्तदा मिथ्यात्वघटनाय तदत्यन्ताभावोऽपि तत्राङ्गीकार्यः स्यात् ।
 न चैवम् ।
 पूर्वमसिद्धिचोदनं तु पटस्य पटत्वविशेषाघटत्वं प्रत्याश्रयत्वाभावेऽपि घटपटयोस्तादात्म्यमाश्रित्येत्यत आह - पटस्य घटत्वं प्रतीति ॥ सुप्रसिद्धमितीति ।
 तदत्यन्ताभावस्यैव तदन्याश्रयत्वशब्दार्थत्वादिति भावः ।
 यदुक्तं पटत्वविशेषाश्रयत्वं नास्तीति ।
 तन्न ।
 पटस्यैव स्वभावत्वेन तद्विना पटस्य वास्तववेषान्तराभावात् ।
 न हि चेतनेष्विव जडेषु भागत्यागेनैक्यमुच्यत इति ।

(30) (कु.) यस्त्वपारमार्थिको भेदो मयाऽप्यङ्गीकृतः स न परस्परधर्मसङ्क्रान्तिनिवर्तक इत्यतोऽसिद्धिरित्यत आह - नन्वथाऽपीति ।
 अप्रसिद्धविशेषणत्वस्य दोषत्वाभावेऽपीत्यर्थः ।
 परस्परधर्मसङ्क्रान्तौ पक्षदृष्टान्ताभावेऽपि दुरुपपादनीय एवेति न तदङ्गीकारोऽथाऽपीत्यर्थः ॥ असिद्धिरिति ॥ हेत्वसिद्धिरित्यर्थः ।
 अनयैव रीत्या सर्वेषां सर्वधर्मवत्त्वेन पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वस्याप्रसिद्धेः ।
 द्वितीये त्वित्यादि ।
 पटे घटत्वस्य मिथ्यात्वे त्वया स्वसमानाधिकरणात्यन्ताभावप्रतियोगिकत्वं मिथ्यात्वमित्यङ्गीकारात् ।
 पटे घटात्यन्ताभावोऽवश्यमङ्गीकार्यः ।
 तथा च नासिद्धिः ।
 यदि च घटत्वस्याधिकरणं घट एव तन्निष्ठात्यन्ताभावप्रतियोगित्वेनैव तस्य मिथ्यात्वमित्युच्यते ।
 तदा सुतरां घटत्वात्यन्ताभावः पट इति समुदायार्थः ।

(30) (हु.) ॥ तथ्यमिति ॥ अत्रेदं पारमार्थिकमिति प्रामाणिकव्यवहारगोचरीभूतं न वेत्यर्थः ॥ मृषात्मतेतीति ।
 मृषात्वं मतमित्यर्थः ।
 मृषात्मेति पाठः साधुः ॥ सुप्रसिद्धमिति ॥ घटत्वं नास्तीति त्वदीयव्यवहारबलादागतस्य कथमनङ्गीकार इत्यर्थः ॥ असिद्धिरिति ॥ स्वपदेन घटत्वात्यन्ताभावस्य ग्रहणे स्वप्रतियोगिभूतघटत्वाश्रयाप्रसिद्ध्या तद्धटितसाधनाप्रसिद्धिः ।
 अत्यन्ताभावस्यासत्प्रतियोगिकत्वादुक्तावच्छिन्नत्वाभावघटितसाधनप्रसिद्ध्यङ्गीकारे तादृशधर्मवत्त्वं पटे नास्तीति स्वरूपासिद्धिरित्यर्थः ।

(30) (का.) ।
 पटनिष्ठत्वाङ्गीकारेणेति ॥ घटपटयोः स्वरूपैक्यादिति भावः ।
 यद्यप्येवं पटे घटव्यवहारापत्तिरिति वक्ष्यमाणदूषणमत्र शक्यते वक्तुम् ।
 तथापि पटे घटत्वात्यन्ताभावस्यैव प्रकृतोपयुक्तत्वात्तमेव तावदङ्गीकारयति - पट इति ॥ अङ्गीक्रियमाणमिति 4शेषः ।
 ननु पटे घटत्वस्य मिथ्यात्वेऽपि तत्र तदत्यन्ताभावाङ्गीकारः कुत इत्यत आह - सर्वेषामिति ॥ घटादीनां तत्त्वतः स्वाधिकरणाप्रसिद्धेः स्वाधिकरणत्वेन सम्मत इत्युक्तम् ।
 स्वप्रकारकधीविशेष्ये यावतीत्यर्थः ।
 इति वदता त्वयेति सम्बन्धः ।
 तथाच घटत्वादेरेतादृशमिथ्यात्वानुरोधादेव पटादौ तदत्यन्ताभावाङ्गीकार इति भावः ।

ननु स्वाश्रयनिष्ठाभावप्रतियोगित्वमेव मिथ्यात्वम् ।
 स्वाश्रयत्वं च न वास्तवम् ।
 नापि प्रातिभासिकसाधारणम् ।
 येन विरोधः सिद्धार्थता वा स्यात् ।
 अपि तु व्यावहारिकमेवेत्याशयेन शङ्कते - पटस्येति ॥ सुप्रसिद्धमेवेति ॥ परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिव्याप्तत्वनियमादिति भावः ।

(30) (श.) ननु घटपटयोरेकत्वेन घटत्वं यथा घटे वर्तते तथा पटेऽप्यस्ति ।
 एवं च पटे घटत्वात्यन्ताभावो नास्तीति घटत्वस्य पटनिष्ठात्यन्ताभावप्रतियोगित्वाभावेन तदाश्रयस्य पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वाभावादसिद्धिरिति शङ्कते - नन्विति ॥ अप्रसिद्धविशेषणत्वाभावेऽपि स्वरूपासिद्धिरस्तीत्यर्थः ।
 तेनैव पटे घटत्वात्यन्ताभावमङ्गीकारयितुं विकल्पेन पृच्छति - पट इति ॥ अपसिद्धान्तादिति ॥ घटत्वस्यापि सत्यत्वाङ्गीकारे ब्रह्मण एकस्यैव सत्यत्वमिति सिद्धान्तविरोधादित्यर्थः ।
 कुत इत्यत आह - स्वसमानाधिकरणेति ॥ स्वं मिथ्यात्वेनाभिमतम् ।
 तत्समानाधिकरणो योऽत्यन्ताभावः तत्प्रतियोगित्वमित्यर्थः ।
 यथा शुक्तिरूप्यं मिथ्या ।
 तत्रेदं लक्षणमस्ति ।
 स्वं शुक्तिरूप्यम् ।
 तत्समानाधिकरणः तेन सहैकाधिकरणे शुक्तिशकले विद्यमानो योऽत्यन्ताभावः रूप्यात्यन्ताभावः ।
 तत्प्रतियोगित्वमस्ति रूप्यस्य ।
 एवं पटनिष्ठघटत्वस्यापि मिथ्यात्वम् ।
 स्वं घटत्वम् ।
 तत्समानाधिकरणः तेन सहैकाधिकरणे विद्यमानो योऽत्यन्ताभावः घटत्वात्यन्ताभावः तत्प्रतियोगित्वं घटत्वस्याङ्गीकार्यमिति कथं घटत्वात्यन्ताभावः पटे न स्यादित्यर्थः ।
 अङ्गीकारश्च तद्वाक्यादेव ज्ञायते इत्याशयेनोक्तम् ॥ सर्वेषामेवेति ॥ अस्यार्थः सर्वेषां भावानां पदार्थानां स्वाश्रयत्वेन सम्मते विद्यमानात्यन्ताभावप्रतियोगित्वरूपं मिथ्यात्वं तदा विरुध्येत यदि घटत्वं प्रत्याश्रयत्वं पटस्य सम्मतं स्यात् ।
 नचैवमिति शङ्कते - पटस्येति ॥ तत्र पटे ।
 तत् घटत्वम् ।
 तत्र पटे ।
 तस्य घटत्वस्य ॥ सुप्रसिद्धमिति ॥ पटस्य घटत्वं प्रत्याश्रयत्वं नेत्युक्ते तदभावं प्रत्याश्रयत्वस्य परस्परविरुद्धयोरिति न्यायप्राप्तत्वादिति भावः ॥ कथमसिद्धिरिति ॥ पटस्य घटत्वात्यन्ताभावाधिकरणत्वे घटस्य पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वसद्भावादिति भावः ।

(31) ननु तर्हि घटे घटत्वस्य मिथ्यात्वेन घटस्यापि घटत्वं प्रत्याश्रयत्वं नास्तीत्यसिद्धिरिति चेन्न ।
 घटस्य घटत्वात्यन्ताभावं प्रत्याश्रयस्यापि घटत्वाश्रयत्वस्याप्यङ्गीकार्यत्वात् ।
 अन्यथा घटत्वस्य निरधिकरणत्वेन स्वात्यन्ताभावसमानाधिकरणत्वरूपं मिथ्यात्वं घटत्वादेर्न स्यात् ।
 ननु तथाऽपि पटे व्यभिचारः ।
 पटे साध्याभावसद्भावेऽपि साधनाभावाभावात् ।
 पटे पटत्वस्य (पटत्वस्यापि) मिथ्यात्वेन पटनिष्ठात्यन्ताभावप्रतियोगिपटत्वं प्रति पटस्याश्रयत्वादिति चेदत एव हेतुर्विशेषितः प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति ॥ पटे पटत्वात्यन्ताभावे सत्यपि तस्य पटत्वरूपप्रतियोगिसमानाधिकरणत्वेन प्रतियोगिसामानाधिकरण्यावच्छेदकावच्छिन्नतया साधनाभावसद्भावात् ।
 ननु तर्ह्यसिद्धिः ।
 घटपटयोरभेदं वदता पटे घटत्वस्याङ्गीकारेण पटेऽपि घटत्वात्यन्ताभावस्य प्रतियोगिसामानाधिकरण्यादिति चेन्न ।
 त्वयाऽपि घटपटयोरपारमार्थिकभेदं वदता पटे घटव्यवहारप्रसङ्गविरोधपरिहाराय व्यावहारिकभेदमात्रेण बिम्बप्रतिबिम्बसत्त्वासत्त्वव्यवस्थावत्पटे घटत्वात्यन्ताभावस्याङ्गीकार्यत्वात् ।
 घटत्वस्य सार्वत्रिकत्वेऽप्यविद्यावशात्प्रतिनियतो व्यवहार इति चेन् (न) ।
 न ह्यविद्याऽऽरोपितरजताभावेऽपि शुक्त्यादौ रजतमिति व्यवहारं जनयति ।
 तथात्वे घटेऽपि तं जनयेत् ।
 घटपटयोस्तादात्म्यस्य पारमार्थिकत्वाङ्गीकारे तु जीब्रह्मणोरिव घटपटयोः स्वरूपस्यापि पारमार्थिकत्वं स्यादिति प्रपञ्चमिथ्यात्ववाचोयुक्तिरयुक्ता स्यादित्यनुकूलतर्को द्रष्टव्यः ।

(31) (भ.) नन्वेवं सति पनुरसिद्धिर्दुर्वारैव ।
 घटस्यापि घटत्वाधिकरणत्वाभावात् ।
 घटत्वस्य घटेऽपि मन्मते मिथ्यात्वाङ्गीकारात् ।
 अत्यन्ताभावप्रतियोगित्वस्यैव मिथ्यात्वरूपत्वात् ।
 तथा च यदा घटे घटत्वस्यात्यन्ताभावस्तदा धटत्वं प्रत्यनाश्रयत्वमेव तस्य प्राप्तमिति प्रतिबन्दीमाश्रित्य शङ्कते - ननु तर्हीति ।
 अत्यन्ताभावाधिकरणस्य प्रतियोग्यनाश्रयत्वाङ्गीकार इत्यर्थः ।
 घटत्वात्यन्ताभाववति पटे घटत्वं प्रत्यनाश्रयत्ववद्घटत्वात्यन्ताभाववति घटेऽपि तदनाश्रयत्वं त्वया नाङ्गीकर्तुं शक्यम् ।
 तथा सति घटत्वस्य स्वात्यन्ताभावसमानाधिकरणत्वरूपमिथ्यात्वाभावापातात् ।
 तथा च घटस्य घटत्वाश्रयताया अवश्याङ्गीकार्यत्वेन कथमप्रसिद्धिरिति भावेन प्रतिबन्दीं परिहरति - नेति ॥ घटत्वस्य निरधिकरणत्वेनेति ॥ पटस्य तु घटत्वं प्रत्याश्रयत्वं नास्त्येव ।
 तद्वद्धटेऽपि घटत्वानङ्गीकारे घटत्वादेर्निरधिकरणत्वमेव प्रसज्यत इत्यर्थः ।
 प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति विशेषणकृत्यं वक्तुमाक्षिपति - नन्विति ॥ तथाऽपीति ।
 असिद्धिपरिहारेऽपीत्यर्थः ॥ पटे व्यभिचार इति ॥ व्यतिरेका दृष्टान्तभूते पटे व्यतिरेकव्याप्तेर्व्यभिचार इत्यर्थः ।
 तमेवोपपादयति - पट इति ॥ साध्याभावसद्भावेऽपीति ।
 पटप्रतियोगिकतात्त्विकतादात्म्यसद्भावेऽपीत्यर्थः ॥ साधनाभावाभावादिति ॥ साधनस्यैव सत्त्वादित्यर्थः ।
 तमेवोपपादयति - पट इति ॥ नन्वत्यन्ताभावाधिकरणे कथं प्रतियोगिनोऽवकाश इत्यत उक्तं पटे पटस्य मिथ्यात्वेनेति ॥ स्वसमानाश्रयात्यन्ताभावप्रतियोगित्वस्यैव मिथ्यात्वतया मन्मतेऽङ्गीकारादित्यर्थः ॥ अत एवेति ॥ उक्तव्यभिचारपरिहारार्थमेवेत्यर्थः ॥ हेतुरिति ॥ हेत्वन्तर्गतोऽत्यन्ताभाव इत्यर्थः ॥ प्रतियोगिसामानाधिकरण्येति ॥ प्रतियोगिना पटत्वेन यत्सामानाधिकरण्यं तदवच्छेदकं यत्पटीयपटत्वात्यन्ताभावत्वं तदवच्छिन्नतयाऽनवच्छिन्नताऽभावस्तद्गर्भितसाधनाभावादित्यर्थः ।
 यद्यप्यत्र प्रतियोग्यसमानाधिकरणेत्येव पटनिष्ठात्यन्ताभावो विशेष्टुं शक्यस्तावतैव पटत्वात्यन्ताभावव्यावृत्तिसिद्धेः ।
 तथाऽपि घटत्वात्यन्ताभावस्यापि घटे प्रतियोगिसमानाधिकरणत्वात्प्रतियोग्यसमानाधिकरणत्वस्याभावात्तत्प्रतियोगिधर्मोऽप्रसिद्ध एवेति पुनरसिद्धिशङ्का स्यात्तन्निरासाय प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्युक्तिः ।
 एवमुक्ते तु नासिद्धिः ।
 घटत्वात्यन्ताभावस्य सर्वत्रैकत्वेऽपि प्रकृते पटनिष्ठात्यन्ताभावपदेन न सामान्यरूपोऽभावो विवक्षितः ।
 किन्तु पटनिष्ठत्वाववच्छिन्नात्यन्ताभाववान् ।
 एतच्चात्यन्ताभावत्वं न घटत्वसामानाधिकरण्यावच्छेदकं तदवच्छेदकं तु घटनिष्ठत्वावच्छिन्नमेव मायिमते ।
 अतो न घटान्तर्भावेन पटनिष्ठात्यन्ताभावस्य घटत्वरूपप्रतियोगिसामानाधिकरण्यमादाय प्रतियोग्यसमानाधिकरणस्याभावस्याप्रसिद्धिः शङ्क्या ।
 ततश्च तद्धटितहेतोः कथमसिद्धिरिति ॥ नन्विदमेकं सन्धित्सताऽन्यच्चयवत इत्यापन्नम् ।
 यतो व्यभिचारवारणाय विशेषणोपादाने पुनरसिद्धिः प्राप्ता ।
 घटपटयोरभेदवादे पटेऽपि घटत्वसत्त्वात् ।
 तस्य च मिथ्यात्वेन तदत्यन्ताभावस्य प्रतियोगिसामानाधिकरण्यसद्भावेन तदवच्छेदकावच्छिन्नतयाऽनवच्छिन्नत्वाभावादिति भावेन शङ्कते - ननु तर्हीति ॥ त्वयाऽपीति ।
 घटपटयोरभेदं वदताऽपि त्वया पटे घटत्वात्यन्ताभावस्याङ्गीकार्यत्वादिति सम्बन्धः ।
 अत्र प्रतियोग्यसमानाधिकरणस्येति पूरणीयम् ।
 तथा च पटे घटत्वस्यानङ्गीकार्यत्वादिति तात्पर्यं बोध्यम् ।
 अन्यथा घटत्वात्यन्ताभावस्य तेनाप्यङ्गीकृतत्वाद्दोषानिवृत्तेः ।
 कुतो घटत्वं पटे नाङ्गीकार्य मयेत्यत उक्तं पटे घटव्यवहारप्रसङ्गनिरोधायेति ।
 यदि पटेऽपि घटत्वं स्यात् तर्हि घट इव पटेऽपि घटव्यवहारः स्यादिति भिया नाङ्गीकार्यमिति भावः ।
 घटपटयोः पारमार्थिकभेदाङ्गीकारे कथं पटे घटत्वस्यानङ्गीकारः सम्भवेत् ।
 न हि प्रयोजनाधीना प्रमेयसिद्धिर्येन पटे घटव्यवहारप्रसङ्गनिरोधाय तदनङ्गीकार इति स्यादित्यत उक्तं घटपटयोरपारमार्थिकभेदं वदतेति ।
 अत एव त्वयाऽपारमार्थिको भेदोऽप्यङ्गीकृतोऽस्तीति भावः ।
 भेदस्यापारमार्थिकत्वेऽसत्त्वस्यैवापत्त्या पुनरुक्तदोषानिवृत्तिरित्यत उक्तं व्यावहारिकभेदमात्रेणेति ।
 अपारमार्थिकशब्देन व्यावहारिक एव भेदो विवक्षितो नासन्नित्याशयः ।
 नन्विदमप्यसम्भवत्येव ।
 स्वाभाविकैक्ये व्यावहारिकभेदमात्रेण कथं घट एव घटत्वं न पटे इति व्यवस्थोपपत्तिरित्यत उक्तं बिम्बप्रतिबिम्बेत्यादि ।
 यथा त्वन्मते बिम्बप्रतिबिम्बयोरभेदेऽपि व्यावहारिकभेदमात्रेण बिम्बे मुखे बिम्बत्वमेव न प्रतिबिम्बत्वम् ।
 प्रतिमुखे च प्रतिबिम्बत्वमेव न बिम्बत्वम् ।
 तथा बिम्बे सत्यत्वमेव नासत्यत्वं प्रतिबिम्बेऽसत्यत्वमेव न सत्यत्वमिति व्यवस्था स्वीकृतैवमिहापीत्यर्थः ।
 ननु घटपटतादात्म्यवादे घटत्वं घट इव पटेऽप्यस्त्येव ।
 न च तथात्वे पटेऽपि घटव्यवहारापत्तिः ।
 अविद्यावशात्प्रतिनियतव्यवहारोपपत्तेरित्याशङ्कते - घटत्वस्येति ॥ सर्वत्र पटादौ ।
 अविशेषेऽपि सत्त्वेऽपीति यावत् ।
 यद्यविद्यावशात्पटे घटत्वसत्त्वेऽपि घटव्यवहारनिरोधस्तदा त्वन्मते घटपटयोरिव शुक्तिरजतयोरप्यभेदाच्छुक्तौ रजतत्वसद्भावेऽपि कुतस्तत्र सर्वदा न रजतव्यवहार इति पृष्टेऽविद्यावशादेवेति वक्तव्यम् ।
 ततश्च रजतारोपकालेऽपि रजतव्यवहारो न स्यात् ।
 व्यवहारविघटिकाया अविद्याया जागरूकत्वात् ।
 अथैवं ब्रूषे ।
 न केवलाविद्या व्यवहारस्य साधिका बाधिका वा किन्त्वारोपितसापेक्षैव ।
 तथा च रजतारोपसद्भावे रजतमिदमिति व्यवहारं जनयति तदभावे न जनयतीति ।
 तर्ह्यारोपितविषयलक्षणनिमित्तभावाभावयोरेव व्यवहारतदभावप्रयोजकत्वं न केवलाविद्याया इत्यायातम् ।
 तथा च पटे घटत्वरूपनिमित्तसद्भावे तत्र घटव्यवहारो दुर्वार एव ।
 अविद्यामात्रस्याकिञ्चित्करत्वदिति भावेन परिहरति - न हीति ।
 कुतो न जनयतीत्यत आह - तथात्व इति ॥ तं रजतमिति व्यवहारम् ।
 अत्रानुमाने हेतोरप्रयोजकताशङ्कां परिहरति - घटपटयोरिति ॥ साध्ये तात्त्विकतादात्म्येत्युक्तत्वात्तदनुरोधेन तादात्म्यस्य पारमार्थिकत्वाङ्गीकार इत्युक्तम् ।
 केचित्तु किं तदैक्यं पारमार्थिकमुतापारमार्थिकमिति विकल्प्याद्यपक्षे दूषणमिदमित्याहुः ॥ घटपटयोः स्वरूपस्येति ॥ न हि धर्मिप्रतियोगिनोरपारमार्थिकत्वे तत्तादात्म्यस्य पारमार्थिकत्वं सम्भवतीति भावः ।
 इष्टापत्तिं परिहर्तुमाह - प्रपञ्चेति ॥ वाचो युक्तिरित्यलुक् ।
 वाक्प्रयोग इत्यर्थः ।

(31) (मु.) एवं हेतुविशेषणासिद्धिमुद्धृत्येदानीं विशेष्यासिद्धिमाशङ्क्योद्धरति ॥ घटे घटत्वस्येति ॥ हेतौ पटावृत्तिर्घटत्वादिधर्माधिकरणत्वं खलु विवक्षितम् ।
 घटे पटत्वादेर्मिथ्यात्वेन तदत्यन्ताभावसत्त्वात् ।
 पक्षे हेत्वभावस्यैवासिद्धिशब्दार्थत्वादिति शङ्कार्थः ।
 न च हेत्वभावमात्रमसिद्धिः ।
 किन्तु प्रतियोग्यसमानाधिकरण एव हेत्वभावः ।
 प्रकृते घटत्वाभावसत्त्वेऽपि घटत्वमप्यङ्गीकरणीयम् ।
 अन्यथा पटावृत्तिनो घटेऽप्यसत्त्वेनानिराश्रयत्वं स्यात् ।
 स्वात्यन्ताभावसमानाश्रयत्वरूपमिथ्यात्वहानिश्च स्यादिति भावः ।
 प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति पदकृत्यं स्पष्टीकर्तुमाह - नन्विति ॥ पटे तादात्म्यसत्त्वेन साध्याभावसत्त्वात् ।
 पटत्वात्यन्ताभावादेर्मिथ्यात्वेन पटावृत्तिधर्माधिकरणत्वरूपहेतोश्च सत्त्वादिति भावः ॥ हेतुर्विशेषित इति ॥ हेत्वन्तर्गताभावो विशेषित इत्यर्थः ।
 तेन व्यभिचारप्रकारमाह - पटे पटत्वात्यन्ताभाव इति ॥ घटपटयोरेकत्वेन घटत्वस्यापि पटे सत्त्वात्पटेऽपि घटत्वात्यन्ताभावस्य प्रतियोगिसामानाधिकरण्यसत्त्वात्पुनर्विशेषणासिद्धिमाशङ्कते - ननु तर्हीति ।
 एवञ्च सर्वपदार्थानामभेदमङ्गीकृत्य सर्वत्र सर्वधर्माङ्गीकारेऽपि प्रतिनियतव्यवहारसिद्ध्यर्थं व्यवस्थाविशेषोऽङ्गीकर्तव्य एवेति नैवास्माभिरसिद्धिः सुपरिहरेत्याह - नेति ॥ सर्वत्र सर्वधर्माङ्गीकारेऽपि घटत्वात्यन्ताभावो घट एव प्रतियोगिसमानाधिकरणः ।
 पटे तु नेति व्यवस्थाऽङ्गीकार्यैव ।
 एवञ्च तादृशप्रतियोग्यसामानाधिकरण्यमेव हेतुविशेषणमिति नासिद्धिरिति फलितोऽर्थः ॥ अविद्यावशादिति ॥ तस्या अघटितघटनापटीयस्त्वादिति भावः ।
 अविद्याऽपि तद्वति तद्व्यवहारं जनयेत्तद्रहिते तदभावव्यवहारं जनयेन्नान्यथा दर्शनादित्याह - नेति ॥ आरोपितरजाताभावेऽप्यधिष्ठानभूतंशुक्त्यादि तदेव रजतमिति व्यवहारं न हि जनयतीत्यर्थः ।
 अविद्याया अघटितघटकत्वेऽरजतेऽपि रजतमिति व्यवहारं जनयेत् ।
 तदर्थं प्रातिभासिकरजतजन्माङ्गीकारः कुत इति भावः ।
 व्यावहारिकभेदमात्रेण घटे पटावृत्तिधर्मोपपत्तौ पारमार्थिकप्रयोजको हेतुरित्यतस्तर्कमाह - घटपटयोश्चेति ॥ जीवब्रह्मतादात्म्यस्य पारमार्थिकत्वेन यथा तत्सम्बन्धिनोर्जीवब्रह्मणोः पारमार्थिकत्वं तथेति भावः ॥ वाचो युक्तिरिति ॥ वाचः प्रयोगः ।

(31) (कु.) ननु तर्हीति ।
 यथा पटे घटत्वस्य मिथ्यात्वेन तत्र तदत्यन्ताभावस्तथा घटेऽपि घटत्वस्य मिथ्यात्वेन तत्रापि तदत्यन्ताभावः ।
 तथा च तादृशघटत्वाधिकरणत्वं घटेऽपि नास्तीऽति नासिद्धिरित्यर्थः ।
 घटस्य घटत्वप्रतीतिर्यदि घटत्वं कुत्रापि न स्यात्तदा स्वात्यन्ताभावसमानाधिकरणत्वरूपं मिथ्यात्वं तस्य न स्यात् ।
 अतः कुत्रचिदङ्गीकरणीयम् ।
 तच्च प्रतीतिबलाद्धट एवाङ्गीकार्यमिति नासिद्धिरिति भावः ॥ ननु तथाऽपीति ।
 पटत्वस्यापि मिथ्यात्वेन पटेऽपि तदत्यन्ताभावसत्त्वात्पटनिष्ठात्यन्ताभावप्रतियोगिधर्मसामान्याभावेन पट इति व्यतिरेकेव्याप्तौ व्यभिचार इत्यर्थः ।
 अवच्छिन्नेति हेतुविशेषणबलादेव न व्यभिचार इत्याह - अत एवेति ॥ हेतुविशेषितो हेत्वन्तर्गतोऽत्यन्ताभाव इत्यर्थः ॥ पटे पटत्वात्यन्ताभावे सत्त्वेऽपीति ।
 पटे पटत्वात्यन्ताभावसत्त्वेऽपि स प्रतियोग्यसमानाधिकरणः ।
 उक्तरीत्या पटत्वस्यापि तत्र सत्त्वात् ।
 तादृशश्च पटत्वादेरभावतदधिकरणत्वसामान्याभावः पट इति न व्यभिचार इत्यर्थः ।
 अत्र प्रतियोग्यसमानाधिकरणत्वमात्रोक्तौ पटत्वात्यन्ताभावस्यापि घटे प्रतियोगिसमानाधिकरणत्वात्प्रतियोग्यसमानाधिकरणपटनिष्ठात्यन्ताभावप्रतियोगिधर्मोऽप्रसिद्ध एव स्यादिति हेत्वप्रसिद्धिः स्यात् ।
 अतः प्रतियोग्यसामानाधिकरण्यावच्छेदकानवच्छिन्नेति ॥ ननु तथाप्युक्तदोषानिवृत्तिः ।
 पटवृत्तिघटत्वात्यन्ताभावस्य घटरूपप्रतियोगिसामानाधिकरण्यावच्छेदकावच्छिन्नत्वेन तादृशाभावाप्रसिद्धेरिति चेन्न ।
 प्रतियोग्यधिकरणत्वेन पटस्यैव विशेषणात् ॥ ननु तर्हीति ॥ व्यभिचारवारणार्थं हेतुविशेषण इत्यर्थः ॥ त्वयाऽपीति ॥ घटपटयोः पारमार्थिकभेदमनङ्गीकुर्वताऽपीत्यर्थः ॥ पटे घटत्वात्यन्ताभावस्येति ॥ पटे घटत्वस्यानङ्गीकार्यत्वादिति भावः ।
 अन्यथा भावस्य तेनाप्यङ्गीकृतत्वाद्दोषानिवृत्तेः ।
 यद्यप्येतावन्मात्रं प्रागेव वक्तव्यम् ।
 तावतैवासिद्धिपरिहारो भविष्यति कृतं पटे घटत्वमिथ्यात्वविचारेण ।
 तथाऽपि न विचारचातुरीशिक्षायै प्रागेव नोक्तमिति मन्तव्यम् ॥ घटत्वस्येति ॥ मया पटे घटत्वमङ्गीक्रियत एव ।
 न च घटे पटत्वव्यवहारप्रसङ्गः ।
 अघटितघटनापटीयस्याविद्ययैव तन्निरोधोपपत्तिरित्यर्थः ॥ न ह्यविद्यारोपितेति ॥ अविद्या आविद्यकविषयसापेक्षे व्यवहारनिर्वाहिका ।
 अन्यथाऽऽविद्यकरजताभावेऽपि शुक्त्यादौ रजतमिति व्यवहारं जनयेत् ।
 ततश्च तत्राविद्यकरजताङ्गीकारो व्यर्थः स्यात् ।
 पटेऽपि रजतव्यवहारप्रसङ्गश्च स्यात् ।
 एवञ्च घटे आविद्यकघटत्वसत्त्वेऽविद्याया अपि व्यवहारनिरोधो न सम्भवतीति भावः ।
 यद्यपि शुक्तौ शुक्तित्वसत्त्वेऽप्यविद्यायास्तद्व्यवहारनिरोधकत्ववद्धटत्वसत्त्वेऽप्यविद्याया व्यवहारनिरोधः सम्भावितस्तथाऽपि तत्र बाधोत्तरंशुक्तिव्यवहारस्य सत्त्वात्सतोऽपि शुक्तित्वस्य व्यवहारनिरोधोऽविद्याकृत इत्यङ्गीक्रियते ।
 न चैवम् ।
 प्रकृते घटपटव्यवहारस्य कदाऽप्यभावादिति नात्राविद्याकृतस्तन्निरोध इति भावः ।

(31) (हु.) मिथ्यात्वं न स्यादिति ॥ घटत्वादीनामविद्याशक्तित्वमिति मतेनेदम् ।
 तेन तेषामपि ब्रह्मस्वरूपत्वादिष्टापत्तिरिति चोद्यानवकाशः ।
 तन्मतं त्वन्यत्रास्माभिर्निरस्तम् ।
 प्रतियोगिसामानाधिकरण्येत्यादिविशेषणप्रयोजनंशङ्कासमाधानाभ्यां व्यनक्ति ॥ नन्वित्यादिना ॥ बिम्बेति ॥ एकस्यैव मुख्यस्य व्यावहारिकौपाधिकमात्रेणास्य बिम्बत्वमेवास्य प्रतिबिम्बत्वमेव बिम्बस्य सत्यत्वमेव प्रतिबिम्बस्य मिथ्यात्वमेवेति व्यवस्थायाः सत्त्वात् ।
 तादृशव्यवस्थाया न्यायप्रयोगकालेऽपि सत्त्वेनोक्तरीत्या त्वदुद्भावितसाधनाप्रसिद्ध्यप्रसक्तेः ।
 अविद्यैव व्यवहारनियामिका सा यथा जनयति (* `जयति' मु.) तथा व्यवहारो भवति ।
 नैतावता पटे घटत्वानधिकरणत्वं सिध्यतीत्युक्त[क्ति]साधनाप्रसिद्धिर्दुर्वारेति शङ्कते - घटत्वस्येति ॥ अविद्याऽपि स्वकल्पितविषयानपेक्षैव व्यवहारं जनयति ।
 अन्यथाऽतिप्रसङ्गादित्यतो व्यवहारविषयव्यवस्थाऽङ्गीकर्तव्येत्याह ।
 ॥ न हीति ॥ अविद्या शुक्तावारोपितरजताभावेऽपीदं रजतमिति व्यवहारं ते तव मतेऽपि जनयति किं ? न हि (* `किञ्चिन्न हि' मु.) जनयतीत्यर्थः ।
 इष्टापत्तौ बाधकमाह - तथात्व इति ॥ नन्वारोपे सति निमित्तानुसरणम् ।
 न हि निमित्तमस्तीत्यारोप इति न्यायेन व्यवहारसत्त्वे तस्याविद्यामूलकत्वं कल्प्यते ।
 न त्वविद्याऽस्तीत्येतावता तद्व्यवहारापादनं युक्तमिति चेन्न ।
 प्रामाणिकार्थविषयकत्वात्तन्न्यायस्य ।
 न हि पटे घटत्वसत्वे (* `घटे घटस्य सत्त्वे' मु.) किमपि प्रमाणमस्ति ।
 सर्ववस्त्वभावेऽप्यविद्या व्यवहारं जनयतीत्यपि वक्तुं शक्यत्वेन ब्रह्मस्वरूपस्यानिर्वचनीयाम्बरादिप्रपञ्चस्यापि व्यवहारकाल एवासत्त्वप्रसङ्गात् ॥ घटपटयोरिति ॥ जीवब्रह्मणोरिति ॥ तत्र बिम्बत्वप्रतिबिम्बत्वरूपविरुद्धाकारत्यागेनोभयानुगतचैतन्यमात्रस्वरूपमिवात्रापि घटत्वपटत्व[स्व]रूपविरुद्धाकारपरित्यगेनोभयस्वरूपभूतमेकं जडपारमार्थिकं (* `जडं पारमार्थिकं' इति पाठेन भाव्यमिति भाति ।
) स्यादित्यर्थः ।
 न च ब्रह्मैवोभयस्वरूपभूतं तत्त्वम् ।
 `शुक्तिकाज्ञाने रजतं तत्त्वतो ज्ञातं भवति सा हि तस्य तत्त्वमि'ति वाचस्पत्युक्तेरिति वाच्यम् ।
 तथा सति घटपटयोर्जीवचिदात्मकत्वेन जडत्वानुपपत्तेः ।
 प्रपञ्चितं चेदमन्यत्र ।

(31) (का.) हेतुघटकचरमाधिकरणत्वं वास्तवमेव निविष्टमित्याशयेन शङ्कते - नन्विति ॥ व्यावहारिकसाधारणमधिकरणत्वमेव हेतुघटकमित्याशयेन समाधत्ते ॥ घटस्येति ॥ प्रातिभासिकानैकान्त्यं तु न दूषणमिति भावः ।
 अन्यथा घटस्य घटत्वं प्रति व्यावहारिकाधिकरणत्वानङ्गीकारे ॥ निरधिकरणत्वेनेति ॥ घटातिरिक्ते तादृशाधिकरणत्वस्यासम्भावितत्वादिति भावः ।
 स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वस्वात्यन्ताभावसमानाधिकरणत्वयोरविशेषादाह - स्वात्यन्ताभावेति ॥ अनवच्छिन्नान्तविशेषणमव्याप्यवृत्त्यभावमात्रवारकमिति मन्वानो दर्शयति - नन्विति ॥ न च पटे पटत्वाधिकरणत्वस्यापि मिथ्यात्वेन तदभावसत्त्वान्न व्यतिरेकव्यभिचार इति वाच्यम् ।
 व्यतिरेकिणि प्रतियोगिव्यधिकरणसाधनाभावनिरूपितव्याप्तेरेव प्रयोजकत्वात् ।
 पटे पटत्वाधिकरणत्वाभावस्य च प्रतियोगिसमानाधिकरणत्वात् ।
 अन्यथा पृथिवीत्वाभावव्यापकाभावप्रतियोगिसंयोगवत्त्वेन जलादौ पृथिवीत्वसिद्धिप्रसङ्गात् ।
 अनवच्छिन्नान्तदानादेव नायं दोष इति समाधत्ते ॥ अत एवेति ॥ एतादृशदोषप्रसङ्गादपीत्यर्थः ।
 हेतुर्हेतुघटकाभावः ॥ प्रतियोगीति ॥
अथैवं घटत्वाद्यभावस्यापि घटादौ प्रतियोगिसमानाधिकरणत्वेन प्रतियोगिसामानाधिरण्यावच्छेदकानवच्छिन्नाभावाप्रसिद्धिरिति चेदत्राहुः ।
 प्रतियोगिसामानाधिकरण्यस्य निरूपकतया यदवच्छेदकं तदनवच्छिन्नपटवृत्तिकात्यन्ताभावप्रतियोगिधर्मवत्त्वं विवक्षितम् ।
 घटत्वाद्यभावश्च पटादौ तादृश इति नाप्रसिद्धिरिति ।
 तदसत् ।
 प्रतियोग्यधिकरणस्य प्रतियोगिसामानाधिकरण्यावच्छेदकत्वेन निवेशने बीजाभावात् ।
 यत्तु प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्यस्य प्रतियोग्यनधिरणत्वेन पटविशेषणे तात्पर्यान्नाप्रसिद्धिरिति ॥ तच्चिन्त्यम् ।
 तथासति प्रतियोग्यनधिकरणेत्यनुक्त्वा प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्युक्तौ बीजाभावप्रसङ्गत् ।
 अव्याप्यवृत्त्यधिकरणत्वस्याव्याप्यवृत्तित्वे संयोगमादायानैकान्त्याच्च ।
 वस्तुतस्तु परमते अभावानामधिकरणात्मकत्वात् घटनिष्ठघटत्वाभावस्य प्रतियोगिसामानाधिकरण्यावच्छेदकावच्छिन्नत्वेऽपि पटनिष्ठाभावस्य तदनवच्छिन्नत्वमव्याहतमेव ।
 न च प्रतियोगिसामानाधिकरण्यावच्छेदकीभूतघटत्वाभावत्वस्यैक्यान्न पटनिष्ठाभावस्य तदनवच्छिन्नत्वसम्भव इति वाच्यम् ।
 अनुयोगिताविशेषरूपाभावत्वस्याभावभेदेन भिन्नत्वात् ।
 अथवा प्रतियोगिसामानाधिकरण्यरूपं यदवच्छेदकं विशेषणं तदनवच्छिन्नत्वं तद्विशिष्टभिन्नत्वमिति यावत् ।

तदुपलक्षितभिन्नत्वस्य परमते पटवृत्तित्वविशिष्टघटत्वाभावादावभावेऽपि तद्विशिष्टभिन्नत्वमक्षतमेव ।
 पटवृत्तित्वविशिष्टसंयोगाद्यभावे च न प्रतियोगिसामानाधिकरण्यविशिष्टभिन्नत्वमिति न कश्चिद्दोषः ।

परमते प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नाभावाप्रसिद्धिरित्याशङ्कते - ननु तर्हीति ॥ घटपटयोरभेदं वदताऽपि त्वया पटे घटत्वात्यन्ताभावस्य प्रतियोग्यसमानाधिकरणघटत्वाभावस्याङ्गीकार्यत्वादिति सम्बन्धः ।
 ननु घटपटयोरभेदे घटत्वाभावस्य पटे प्रतियोग्यसामानाधिकरण्यमेव कथमुपपद्यत इत्याशङ्क्योक्तम् ॥ घटपटयोर्व्यावहारिकभेदमात्रेणेति ॥ अत्र दृष्टान्तः ॥ बिम्बेति ॥ यथा बिम्बप्रतिबिम्बयोः स्वरूपैक्येऽपि व्यावहारिकभेदबलाद् बिम्बस्यैव बिम्बत्वं सत्त्वं च, प्रतिबिम्बस्यैव प्रतिबिम्बत्वमसत्त्वं चेति व्यवस्था तथा घटस्यैव घटत्वं न तु पटस्येत्यङ्गीकार्यमिति भावः ।
 ननु घटवत् पटेऽपि घटत्वमङ्गीक्रियत एव ।
 न चैवं घट एव घटव्यवहारो न पट इति व्यवस्थानुपपत्तिरिति वाच्यम् ।
 अविद्यासामर्थ्येन तदुपपत्तेरित्याशङ्कते - घटत्वस्येति ॥ तथा चोक्तहेत्वप्रसिद्धितादवस्थ्यमिति भावः ।
 विषयनिरपेक्षाविद्यायाः साक्षात्तादृशव्यवहारनियामकत्वमसिद्धमित्याह - न हीति ॥ अन्यथाऽऽविद्यकविषयवैयर्थ्यप्रसङ्गात् ।
 विषयसम्पादनद्वारैव तस्यास्तादृशव्यवहारनियामकत्वमङ्गीकार्यमिति भावः ।
 ततः प्रकृते किमित्यत आह - तथात्व इति ॥ विषयसम्पादनद्वारा व्यवहारनिर्वाहकत्वे चेत्यर्थः ॥ घटेऽपि तं जनयेदिति ॥ पटे घटत्वरूपविषयसत्त्वादविद्या तद्व्यवहारं जनयेदित्यर्थः ।

यत्तु तथात्वे आरोपितरजताभावेऽप्यविद्यायाः रजतव्यवहारजनकत्वे पटेऽपि रजतव्यवहारं जनयेदिति व्याख्यानं तदसत् ।
 अविद्यासामर्थ्यात् पटे घटव्यवहारं परिहरन्तं प्रति पटे रजतव्यवहारापादनायोगात् ।
 घटरजतयोरविशेषात् ।
 अथ शुक्तौ रजतारोपदशायां शुक्तित्वरूपविषयसत्त्वेऽपि तदव्यवहारवत् पटे घटत्वसत्त्वेऽपि तदव्यवहार उपपद्यतामिति चेन्न ।
 शुक्तौ विरोध्यारोपेण शुक्तित्वव्यवहारप्रतिबन्धसम्भवात् ।
 पटे च विरोध्यारोपाभावदशायां घटत्वव्यवहारस्यापादनीयत्वात् ।
 न च अविद्यासामर्थ्यादेव तत्र तत्प्रतिबन्धोऽस्त्विति वाच्यम् ।
 पटे घटत्वकल्पकाविद्यायास्तद्व्यवहारविरोधित्वायोगात् ।
 पटे घटत्वं परिकल्प्याविद्यायास्तद्व्ववहारविरोधित्वकल्पनस्य प्रक्षालनाद्धीति न्यायेनानुचितत्वाच्च ।

स्यादेतत् ।
 उक्तानुमानेऽसिद्ध्यादिवारणेऽपि विपक्षे बाधकाभावादप्रयोजकत्वं दुर्वारमत आह - घटपटयोरिति ॥ यदि घटपटयोर्भेदः पारमार्थिको न स्यात्तदा तदभेदः पारमार्थिकः स्यात् ।
 ततश्च तयोरपि पारमार्थिकत्वप्रसङ्गः ।
 अन्यथा घटपटनिवृत्तौ तदभेदस्यापि निवृत्त्यापत्तिरिति भावः ।

(31) (श.) प्रतिबन्द्या प्रकारान्तरेण स्वरूपासिद्धिं शङ्कते - नन्विति ॥ तर्हीति ॥ यदि घटे घटत्वस्य मिथ्यात्वात्तदत्यन्ताभावाधिकरणत्वमङ्गीक्रियते तर्हीत्यर्थः ॥ मिथ्यात्वेनेति ॥ तथात्वे घटे घटत्वात्यन्ताभावप्राप्तेरिति भावः ॥ घटस्येति ॥ उक्तात्यन्ताभावप्रतियोगिघटत्वरूपधर्माधिकरणत्वस्य घटे सत्वान्न स्वरूपासिद्धिरिति भावः ॥ अन्यथेति ॥ यदि घटत्वं प्रति घटस्याश्रयत्वं नाङ्गीक्रियते तर्ह्यन्यस्याश्रयस्याभावात् घटत्वस्याश्रय एव नास्तीति स्यात् ।
 तथाच स्वाश्रयत्वेन सम्मते विद्यमानात्यन्ताभावप्रतियोगित्वरूपं मिथ्यात्वं घटत्वस्य न स्यादित्यर्थः ।
 प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति विशेषणकृत्यं वक्तुमाक्षिपति - नन्विति ॥ उक्तरीत्याऽसिद्धिपरिहारेऽपि पटे व्यभिचारः स्यादित्यर्थः ।
 साधनाभावमुपपादयति - पटे पटत्वस्य मिथ्यात्वेनेति ॥ इदं पटे पटत्वात्यन्ताभावोपपादनायोक्तम् ।
 तथाच पटनिष्ठो योऽत्यन्ताभावः पटत्वात्यन्ताभावः ।
 तत्प्रतियोगिपटत्वं तदाश्रयत्वेन पटे पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वरूपसाधनसद्भावादित्यर्थः ॥ अत एवेति ॥ यत एवं पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वरूपो हेतुः पटे व्यभिचरितोऽत एव प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नत्वेन विशेषित इत्यर्थः ।
 यद्यपीदमत्यन्ताभावविशेषणम् ।
 तथापि तद्विशेषणत्वे तद्विशिष्टहेतुविशेषणत्वमप्यस्तीत्यभिप्रेत्यैवमुक्तमिति ध्येयम् ।
 दत्तेऽपि विशेषणे कथं व्यभिचारपरिहार इत्यत आह - पट इति ॥ प्रतियोगिसमानाधिकरणत्वेनेति ॥ पटत्वात्यन्ताभाववति पटे पटत्वरूपप्रतियोगिनोऽपि सत्त्वादिति भावः ॥ प्रतियोगिसामानाधिकरण्येति ॥ पटत्वरूपप्रतियोगिसामानाधिकरण्यं पटत्वात्यन्ताभावेऽस्ति ।
 तदवच्छेदकं पटत्वात्यन्ताभाववत्त्वम् ।
 तदवच्छिन्नतयेत्यर्थः ॥ साधनाभावेति ॥ प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नत्वगर्भितसाधनस्याभावान्न व्यभिचार इत्यर्थः ।
 यदि व्यभिचारपरिहाराय विशेषणोपादानं तर्हि स्वरूपासिद्धिरिति शङ्कते - नन्वित्यादिना ॥ प्रतियोगिसामानाधिकरण्यादिति ॥ पटे घटत्वात्यन्ताभावस्य घटत्वरूपप्रतियोगिसमानाधिकरणत्वे प्रतियोगिसामानाधिकरण्यावच्छेदकघटत्वात्यन्ताभाववत्त्वावच्छिन्नत्वेन प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नत्वगर्भितहेतोरभावादित्यर्थः ।
 घटपटयोरभेदं वदता त्वयाऽपि पटे घटत्वात्यन्ताभावस्याङ्गीकार्यत्वादित्यर्थः ।
 कुत इत्यत उक्तं पटे घटव्यवहारप्रसङ्गेति ।
 यदि पटे घटत्वं तर्हि घटपदव्यवहारप्रयोजकसद्भावात्पटे घटव्यवहारः स्यात् ।
 अतस्तत्परिहाराय पटे घटत्वं नाङ्गीकार्यमित्यर्थः ।
 तयोरभिन्नत्वेन घटो घट एव न पट इति, घट एव घटत्वं न पट इति व्यवस्थैव कथमित्यत उक्तम् ॥ घटपटयोरपारमार्थिकभेदं वदतेति ॥ अभेदमङ्गीकुर्वताऽपि तयोर्व्यावहारिकभेदाङ्गीकारादुक्तव्यवस्थोपपद्यत इत्यर्थः ।
 वस्तुतोऽभिन्नत्वे कथं व्यावहारिकभेदमात्रेणेयं व्यवस्थेत्युक्तं व्यावहारिकेति ।
 यथा हि त्वन्मते बिम्बे बिम्बत्वमेव न प्रतिबिम्बत्वं तथा बिम्बे सत्यत्वमेव न त्वसत्यत्वं प्रतिबिम्बेऽसत्यत्वमेव न सत्यत्वमिति व्यवस्था तथेहापीत्यर्थः ।
 ननु मया पटे घटत्वमङ्गीक्रियत एव ।
 न च तर्हि निमित्तसद्भावात्पटे घटव्यवहारापत्तिरिति वाच्यम् ।
 घटव्यवहारनिमित्तस्य घटत्वस्य घटपटादिसर्वपदार्थेष्वविशेषेऽप्यविद्यासामर्थ्येन घट एव घटव्यवहारो न पट इतिव्यवस्थोपपत्तेरिति शङ्कते - घटत्वस्येति ॥ प्रतिनियतः प्रतिवस्तुनियतः ।
 घटे घट इत्येव न पट इत्यादिरूपः ।
 अविद्याया एतादृशसामर्थ्यमेवासिद्धमित्याह - नहीति ॥ यदि व्यवहारतदभावौ प्रति निमित्ततदभावयोरप्रयोजकत्वमङ्गीकृत्याविद्याया एव तन्निर्वाहकत्वमङ्गीक्रियते ।
 तर्ह्यविद्या शुक्तिकायां रजतारोपाभावदशायां तत्र रजतव्यवहारं जनयेत् ।
 आरोपितरजतत्वरूपनिमित्तस्य त्वयैवाप्रयोजकत्वाभ्युपगमात् ।
 नचैवं तथात्वे घटेऽपि रजतत्वव्यवहारं जनयेदविशेषात् ।
 अतः शुक्तिकायां रजतव्यवहारनिमित्तारोपितरजतत्वसद्भावाज्जनयति ।
 पटे तदभावान्न जनयतीति निमित्ततदभावयोरेव व्यवहारतदभावप्रयोजकत्वमिति पटे घटत्वसत्त्वे घट इति व्यवहारप्रसङ्गो दुर्वार इत्यर्थः ।
 ननूक्तानुमाने हेतुरस्तु घटपटयोरैक्यमेवास्तु नतु तदभावरूपं साध्यमित्यप्रयोजकत्वमिति चेत् अत्र वक्तव्यम् ।
 किमैक्यं पारमार्थिकमुतापारमार्थिकम् ।
 नान्त्यः परस्परविरुद्धयोरिति न्यायेनैक्यस्यापारमार्थिकत्वे तद्विरुद्धभेदस्य पारमार्थिकत्वापत्तेः ।
 आद्य आह - घटपटयोरिति ॥ पारमार्थिकं न निवर्तते अपारमार्थिकं तु निवर्तत इति खलु वस्तुगतिः ।
 तत्र घटपटयोरपारमार्थिकत्वाङ्गीकृतावैक्यमपि निवर्तेत ।
 ततश्च कुतः पारमार्थिकत्वम् ।
 अत ऐक्यस्यापारमार्थिकत्वे घटपटयोः पारमार्थिकत्वमपरिहार्यमिति भावः ॥ जीवब्रह्मणोरिति ॥ यथा तयोः पारमार्थिकाभेदाश्रयत्वेन पारमार्थिकत्वं तथेहापीत्यर्थः ।
 इष्टापत्तिं परिहरति -

(32) किञ्च घटः घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकत्रैकालिकाभावप्रतियोगी द्रव्यत्वात्पटवत् ।
 घटात्यन्ताभावो वा घटप्रतियोगिकपटादिधर्मिकत्रैकालिकाभावान्यः अभावत्वात्पटाभाववत् ।
 घटसंसर्गो वा पटादिधर्मिकत्रैकालिकाभावप्रतियोगितावच्छेदकघटनिष्ठधर्मान्यः संसर्गत्वात्पटनिष्ठसंसर्गवत् ।
 घटप्रागभावो वा घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकानाद्यभावान्यः अभावत्वात् पटप्रध्वंसवत् ।
 घटप्रध्वंसो वा घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकनित्याभावान्यः अभावत्वात् पटप्रागभाववत् ।
 घटपटयोरभेदवादिनाऽपि (पटे घटप्रतियोगिकान्योन्याभावाभावेऽपि) पटप्रतियोगिकात्यन्ताभावादेर्घटसंसर्गानवच्छिन्नप्रतियोगिकत्वादेरङ्गीकार्यत्वान्न साध्यवैकल्यादि दृष्टान्तस्य ।
 तयोः पारमार्थिकाभेदेऽपि व्यावहारिकभेदमात्रेण पटप्रतियोगिकात्यन्ताभावादेर्घटसंसर्गानवच्छिन्नप्रतियोगिकत्वमित्यङ्गीकार्यत्वात् ।
 अन्यथा घटार्थिनः पटे प्रवृत्तिप्रसङ्गः ।
 सिद्धघटस्य पुंसः पटसामाग्र्यनुपादानप्रसङ्गश्च ।
 न च व्यावहारिकान्योन्याभावसिद्ध्याऽर्थान्तरत्वम् ।
 त्रैकालिकत्वादिनाऽन्योन्याभावस्य विशेषितत्वात् ।
 व्यावहारिकत्वे च तदयोगात् ।
 अनुकूलतर्कस्यात्रैवो(न्यत्रो)क्तत्वान्नोपाध्याभाससमानयोगक्षेमत्वाप्रयोजकत्वानि ।

(32) (भ.) उक्तानुमानेऽप्रसिद्धविशेषणत्वादिदोषपरिहारक्लेशमालोच्य यथा तदप्रसक्तिः स्यात्तथाऽनुमानान्तरमाह - किञ्चेति ॥ पटो न घट इति साक्षिकमन्योन्याभावमादाय पक्षे साध्यपर्यवसानं बोध्यम् ।
 अत्राभावप्रतियोगीत्युक्तौ प्रागभावप्रध्वंसादावादायार्थान्तरता ॥ अतस्त्रैकालिकेति ॥ यद्याप्यनित्यगतो भेदोऽनित्य एव तथाऽपि `नष्टानामपि वस्तूनां भेदो नैव विनश्यती'ति मतं नैयानिकमतं चावलम्ब्य त्रैकालिकत्वोक्तिः ।
 घटे घटो नास्तीति प्रतीयमानं घटधर्मिकघटात्यन्ताभावमादायार्थान्तरतानिरासाय पटादिधर्मिकेति ।
 तावत्युक्ते पटे घटो नास्तीति प्रतीयमानं घटात्यन्ताभावमादायार्थान्तरता ।
 तन्निवृत्त्यै संसर्गानवच्छिन्नप्रतियोगिताकेति ॥ अत्यन्ताभावस्य संसर्गाभावप्रभेदत्वेन संसर्गावच्छिन्नप्रतियोगिताकतया तदनवच्छिन्नप्रतियोगिताकत्वाभावात् ।
 इदमपि न्यायमतरीत्यैव ।
 स्वमतेऽत्यन्ताभावस्य संसर्गाभावत्वानङ्गीकारात् ।
 अत्यन्ताभावत्वस्य साक्षादेवाभावविभाजकत्वेन संसर्गाभावप्रभेदत्वस्य तत्त्वसङ्खयानटिकायां दूषितत्वात् ।
 संसर्गप्रतियोगिभावस्य यथासम्भवं प्रागभावादिष्वेवान्तर्भावकथनाच्चेति मन्तव्यम् ।
 पटे पटो नास्तीति प्रतीयमाने पटधर्मिकत्रैकालिकात्यन्ताभावे पटसंसर्गावच्छिन्नप्रतियोगिताके पटसंसर्गानवच्छिन्नप्रतियोगिताकत्वाभावेन दृष्टान्ते साध्यवैकल्यमिति शङ्कानिरासाय घटेति ।
 तथा च पटे पटात्यन्ताभावस्य पटसंसर्गावच्छिन्नप्रतियोगिताकत्वेऽपि घटसंसर्गावच्छिन्नप्रतियोगिताकत्वाभावान्न साध्यवैकल्यमिति पदकृत्यं बोध्यम् ।
 अस्मिन्नप्यनुमानेऽत्यन्ताभावव्यावृत्त्यर्थं संसर्गावच्छिन्नप्रतियोगिताकेति विशेषणप्रवेशाद्गौरवं मन्यमानोऽनुमानान्तराण्याह - घटात्यन्ताभाव इत्यादिना ।
 अत्रान्योन्याभावमादायैव पक्षे तदन्यत्वपर्यवसानं बोध्यम् ।
 दृष्टान्ते पटात्यन्ताभावमादाय तदन्यत्वपर्यवसानम् ।
 अत्राभावान्य इत्युक्ते प्रागभावप्रध्वंसावादाय तदन्यत्वसिद्ध्याऽर्थान्तरत्वम् ।
 अतस्त्रैकालिकेति ।
 तावत्युक्ते घटनिष्ठपटात्यन्ताभावन्यत्वसिद्ध्याऽर्थान्तरता ।
 तद्व्यावृत्त्यर्थं घटप्रतियोगिकेति ।
 तादृशश्चाभावोऽन्यो नास्तीत्यन्योन्याभावमादायैव तदन्यत्वेवाऽन्ये घटपटयोर्भेदसिद्धिरिति भावः ।
 घटसंसर्गो वेति ।
 अत्र पटे घटो नेति प्रतीतिसाक्षिकमन्योन्याभावमादायैव तत्प्रतियोगितावच्छेदको घटनिष्ठो यस्तादात्म्यरूपो धर्मस्तदन्यत्वरूपसाध्यपर्यवसानं पक्षे बोध्यम् ।
 अत्र घटनिष्ठधर्मान्य इत्युक्ते रूपाद्यन्यत्वसिद्ध्याऽर्थान्तरता ।
 अतोऽभावप्रतियोगितावच्छेदकेति ।
 तावत्युक्ते प्रागभावप्रध्वंसाभावप्रतियोगितावच्छेदकोत्तरपूर्वकालीनत्वरूपघटनिष्ठधर्ममादाय तदन्यत्वेऽसिद्ध्याऽर्थान्तरता ।
 तन्निवृत्त्यै त्रैकालिकेति ।
 घटे घटो नास्तीति प्रतीतिसिद्धघटधर्मिकघटप्रतियोगिकात्यन्ताभावमादाय तत्प्रतियोगितावच्छेदकघटनिष्ठसंसर्गरूपधर्मान्यत्वस्य घटसंसर्गे बाधितत्वात्तद्वारणाय पटादिधर्मिकेति ।
 तादृशश्चाभावोऽन्योन्याभावं विना नान्यो भवितुमर्हतीति घटपटयोर्भेदसिद्धिरिति भावः ।
 दृष्टान्ते च पटे घटो नास्तीति प्रतीयमानघटात्यन्ताभावप्रतियोगितावच्छेदकघटनिष्ठसंसर्गान्यत्वमादाय साध्यपर्यवसानम् ॥ घटप्रागभावो वेति ॥ अत्र पटो न घट इति प्रतीतिसाक्षिकमनादिभूतमन्योन्याभावमादायैव तदन्यत्वरूपं साध्यं पक्षे बोध्यम् ।
 अत्रानाद्यभावान्य इत्युक्ते घटनिष्ठपटात्यन्ताभावमादायार्थान्तरता ।
 तद्वारणाय पटादिधर्मिकेति ।
 तावत्युक्ते पटनिष्ठघटात्यन्ताभावमादायार्थान्तरता ।
 तन्निरासाय घटसंसर्गानवच्छिन्नप्रतियोगिताकेति ।
 तादृशश्चाभावो घटप्रतियोकपटधर्मिकान्योन्याभाव एव भवितुमर्हतीति घटपटयोर्भेदसिद्धिः ।
 दृष्टान्ते च पटेपटो नास्तीति प्रतीतिसाक्षिकपटनिष्ठात्यन्ताभावमादाय तदन्यत्वरूपं साध्यं बोध्यम् ॥ घटध्वंसो वेति ॥ अत्रापि घटप्रतियोगिकपटधर्मिकमन्योन्याभावमादायैव तदन्यत्वं पक्षे पर्यवसेयम् ।
 अत्र नित्याभावान्य इत्युक्ते घटे पटात्यन्ताभावमादायार्थान्तरता ।
 अतः पटादिधर्मिकेति ॥ तावत्युक्ते पटे पटात्यन्ताभावमादायार्थान्तारता ।
 अतः संसर्गानवच्छन्नप्रतियोगिताकेति ॥ तथापि पटे पटात्यन्ताभावमादायार्थान्तरता ।
 तस्य पटसंसर्गानवच्छिन्नप्रतियोगिताकत्वादतो घटेति ॥ तादृशश्चाभावः पटो न घट इति प्रतीयमानोऽन्योन्याभाव एव भवतीति विवक्षितसिद्धिः ।
 दृष्टान्ते पटप्रागभावे च पटे पटात्यन्ताभावमादाय तदन्यत्वरूपसाध्यपर्यवसानम् ।
 ननु पूर्वानुमाने एतदनुमाने च घटसंसर्गानवच्छिन्नप्रतियोगिताकपटान्तरादिधर्मिकपटात्यन्ताभावमादाय तदन्यत्वं पक्षेऽस्त्वेति सिद्धसाधनम् ।
 तन्निवृत्त्यर्थं घटप्रतियोगिकत्वेनाभावविशेषणे दृष्टान्ते साध्यवैकल्यम् ।
 घटध्वंसतत्प्रागभावयोर्घटप्रतियोकत्वाभावादिति चेन्न ।
 पटादिधर्मिकेत्यत्र पटादिपदेन पटादिसामान्यस्यैव विवक्षणीयत्वेन प्रतियोगिभिन्नघटादेर्ग्रहीतुमशक्यत्वात् ।
 पटस्य घटादि पटान्तरेणापि भिन्नत्वस्याद्याप्यसिद्धत्वात् ।
 सिद्धौ वा घटेनापि किमपराद्धम् ।
 केचित्त्वेतच्छङ्कानिरासार्थं स्वप्रतियोगिप्रतियोगिकत्वेनाभावं विशिंषन्ति ।
 तच्चिन्त्यम् ।
 उक्तरीत्या पटादिपदेन पटादिसामान्यविवक्षायामुक्तशङ्काया एवानवकाशेन विशेषणदानवैयर्थ्यात् ।
 तादृशाभावस्यान्योन्याभावमत्यन्ताभावं च विनाऽन्यस्याभावादनाद्यभावपदयोर्नित्याभावपदयोर्वा वैयर्थ्यापाताच्चेति ॥ नन्वत्र घटात्यन्ताभावादिपक्षकानुमानचतुष्टये साध्येऽन्यपदेनान्योन्याभाव एव ग्राह्यः ।
 तथा च जडमात्रे तदनङ्गीकारिणं प्रति तस्य कुत्राप्यप्रसिद्धत्वात्कथं तत्साधने नाप्रसिद्धविशेषणता ।
 अन्यथा परम्परां विना साक्षादेव घटः पटाद्भिन्न इत्येव प्रयोगप्रसङ्गादिति चेन्न ।
 अत्र सर्वत्रान्यपदेन भेदमात्रस्य विवक्षितत्वात् ।
 तस्य च व्यावहारिकभेदङ्गीकारिणाऽप्यङ्गीकारादिति ।
 नन्वत्र घटपक्षकाद्यानुमाने दृष्टान्तस्य साध्यवैकल्यम् ।
 घटपटयोरभेदवादे पटाभावस्यापि घटभावरूपत्वेन पटप्रतियोगिकपटधर्मिकात्यन्ताभावस्य घटसंसर्गावच्छिन्नप्रतियोगिताकत्वावश्यम्भावात्तदनवच्छिन्नप्रतियोगिताकत्वाभावेन तादृशाभावं प्रति पटस्य प्रतियोगित्वाभावात् ।
 एवं द्वितीयानुमानेऽपि ।
 दृष्टान्तीकृतस्य पटधर्मिकपटाभावस्य घटपटयोरैक्यवादे घटप्रतियोगितयाऽपि सत्त्वेन घटप्रतियोगिकाभावरूपतासम्भवेन साध्यवैकल्यम् ।
 दृष्टान्तदार्ष्टान्तिकभावस्य भेदव्याप्तत्वेन घटादिपक्षकानुमाने पटस्य वा पटाभावादेर्वा दृष्टान्तत्वानुपपत्तिश्चेत्यत आह - घटपटयोरिति ॥ अत्र प्रथमादिपदेन पटनिष्ठसंसर्गग्रहणम् ।
 द्वितीयादिपदेन द्वितीयतृतीयानुमानयोर्घटप्रतियोगिकपटधर्मिकत्रैकालिकाभावान्यत्वे पटादिधर्मिकत्रैकालिकाभावप्रतियोगितावच्छेदकघटनिष्ठधर्मान्यत्वयोर्ग्रहणम् ।
 साध्यवैकल्यादीत्यदिपदेन तु दृष्टान्तत्वानुपपत्तिः ।
 नन्वभेदवादे कथमिदमङ्गीकर्तुमर्हतीत्यत आह - तयोरिति ॥ घटपटयोरित्यर्थः ।
 अत्राप्यादिपदद्वयेन पूर्वोक्तानामेव ग्रहणम् ।
 ततश्चायमार्थः ।
 आद्यानुमाने तावन्न दृष्टान्ते साध्यवैकल्यम् ।
 पटादिधर्मिकपटप्रतियोगिकात्यन्ताभावस्य घटपटयोर्व्यावहारिकभेदाङ्गीकारेण घटसंसर्गानवच्छिन्नप्रतियोगिकत्वसत्त्वे पटस्य तादृशाभावप्रतियोगितासद्भावात् ।
 नापि द्वितीयानुमाने ।
 घटपटयोर्व्यावहारिकभेदमात्रेण पटात्यन्ताभावस्य घटप्रतियोगिकपटधर्मिकात्यन्ताभावान्यत्वासम्भवात् ।
 न चापि तृतीयानुमाने ।
 पटनिष्ठसंसर्गस्य घटपटयोर्व्यावहारिकभेदाङ्गीकारादेव पटनिष्ठघटात्यन्ताभावप्रतियोगितावच्छेदकघटनिष्ठसंसर्गरूपधर्मान्यत्वसम्भवात् ।
 अत एव घटघटात्यन्ताभावघटसंसर्गपक्षकानुमानेषु पटपटाभावपटनिष्ठसंसर्गानां दृष्टान्तत्वेनोपादानं चोपपद्यत इति ॥ विपक्षे बाधकद्वयमाह - अन्यथेति ॥ व्यावहारिकभेदमात्रेणोक्तव्यवस्थानङ्गीकार इत्यर्थः ॥ सिद्धघटस्येति ॥ बहुव्रीहिः ।
 पदार्थिन इति शेषः ।
 घटपटयोः पारमार्थिकाभेदस्य जागरूकत्वादिति भावः ।
 पटसामान्यादीत्यादिपदेन पटपरिग्रहः ।
 एषा च साध्यवैकल्यशङ्कातत्परिहारश्चाद्यानुमानत्रयविषय एव ।
 न चतुर्थपञ्चमविषयः ।
 तत्र दृष्टान्तीकृतयोः पटध्वंसतत्प्रागभावयोरनाद्यभावनित्याभावान्यत्वस्यैव सत्त्वात् ।
 तर्हि तदनुमानत्रयान्तरमेवैष चर्चः कर्तव्य इति चेत् ।
 सत्यम् ।
 तथाऽपि घटपटभेदसाधनायैतदनुमानपञ्चकस्यापि प्रक्रान्तत्वेन मध्ये चर्चान्तरस्यानुचितत्वात्तदेव साधन एवायं चर्च उचित इति मन्तव्यम् ।
 एके तु घटपक्षकानुमानविषय एवायं चर्च इत्याचक्षते ।
 तत्रादिपदानां कृत्यं किमिति चिन्त्यम् ।
 अन्ये तु घटात्यन्ताभावपक्षकद्वितीयानुमानविषय एवायं चर्च इत्यभिप्रेत्य दृष्टान्तस्य साध्यवैकल्यमुपपाद्यम् ।
 एवं सिसाधयिषितान्योन्याभावेऽपि न घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वम् ।
 घटात्यन्ताभावतदन्योन्याभावयोरभेदात् ।
 तथा च बाध इत्यभिप्रेत्य साध्यवैकल्यादीत्यादिपदेन बाधो ग्राह्यः ।
 दृष्टान्तस्येति पक्षस्याप्युपलक्षणमित्याहुः ।
 तत्राप्याद्यद्वितीययोरादिपदयोः कृत्यं चिन्त्यमेवेति ॥ व्यावहारिकत्वे चेति ॥ व्यावहारिकस्याविद्यकत्वेनाविद्यानिवृत्तौ मोक्षे तन्निवृत्तेरप्यावश्यकत्वेन त्रैकालिकत्वायोगादित्यर्थः ।
 ननु जडभेदसाधकानुमानेषु सर्वत्र पक्षे तरत्वमुपाधिः ।
 एवमेव साध्याभावस्यापि साधयितुं शक्यत्वेनाभाससमानयोगक्षेमत्वम् ।
 हेतूनामप्रयोजकता चेत्यत आह - अनुकूलतर्कस्येति ॥ अन्यत्र न्यायामृत उक्तत्वादित्यर्थः ।
 तत्र हि प्रथमपरिच्छेदे द्वैतप्रत्यक्षस्याद्वैतश्रुतिबाधकत्वखण्डनभङ्गे इदं रूप्यं गौरोऽहमित्यादिभ्रमाणां प्रमात्वं स्यात् ।
 आत्मनि देहाद्भेदस्यानृतादिव्यावृत्तेश्च बोधकानां वेदान्तानामप्रामाण्यं च स्यात् ।
 घटज्ञानेनैव तदभिन्नस्य ब्रह्मतदभेदादेः सर्वस्यापि वस्तुनो ज्ञातत्वेन सार्वज्ञं वेदान्तानां वैयर्थ्यं सद्यो मोक्षश्च स्यात् ।
 सुखदुःखबन्धमोक्षभेदाभेददूषणभूषणजयपराजयभ्रान्तिप्रमादेरपि वस्तुतोऽभिन्नत्वेन सर्वसङ्करापत्त्या स्वक्रियास्वन्यायस्ववचनविरोधाश्च स्युरित्याद्युक्तम् ।
 यद्यप्यत्रैव घटपटयोस्तादात्म्यस्य पारमार्थिकत्वाङ्गीकारे तु जीवब्रह्मणोरिव घटपटस्वरूपस्य पारमार्थिकत्वं स्यादित्यादिनाऽनुकूलतर्कः प्रागुक्तः ।
 दूरस्थवनस्पत्योरभेदग्राहि च प्रत्यक्षं तत्त्वावेदकं स्यादिति वक्ष्यते च ।
 तथाऽपि बहूनामनुकूलतर्काणां ज्ञापनार्थमन्यत्रेत्युक्तमिति ज्ञातव्यम् ।
 केचित्त्वन्यत्र न्यायमृत उक्तत्वादुक्तप्रायत्वादिति व्याख्याय यदि घटपटयोस्तात्त्विकमैक्यं स्यात् तर्हि घटनाशे पटनाशः स्यात् ।
 घटज्ञाने पटज्ञानं स्यादित्यादेस्तर्कस्य सत्त्वादित्याहुः ।

(32) (मु.) नन्वेवं तादात्म्यस्य मिथ्यात्वमस्तु ।
 कथं तावता भेदपारमार्थिकत्वम् ।
 न हीदानीं तादात्म्यनिराकरणमात्रेण परपक्षदूषणमुपक्रान्तम् ।
 किन्तु भेदसत्यत्वसाधनेन स्वपक्षसमर्थनमेव ।
 न च परस्परविरुद्ध्योरन्यतरस्त्वत एव सेत्स्यतीति वाच्यम् ।
 भेदसिद्धावपि तत्पामार्थ्यसाधनोपायाभावादिति चेन्न ।
 यत्र यत्सत्तावच्छिन्नस्य निषेधस्तत्र तत्सत्तावच्छिन्नस्यैव तद्विरुद्धस्यैव धर्मस्य विधिः ।
 एवञ्च पारमार्थिकतादात्म्यनिषेधे तादृशस्यैव भेदप्राप्तिः प्रयोगश्च ।
 तादात्म्यं स्वनिषेधप्रतियोगितावच्छेदकसत्तावत्स्वविरुद्धवन्निष्ठात्यन्ताभावप्रतियोगि मिथ्यात्वाज्जीवेश्वरभेदवत् ।
 न च धर्मिणोऽपि तादृशसत्ताकत्वमुपाधिः ।
 अन्यथा शशविषाणे नित्यत्वस्य मिथ्यात्वेऽनित्यत्वं स्यादिति वाच्यम् ।
 तादात्म्यमुक्तधर्मवत्यधिकरणेऽभावप्रतियोगीति साधने उपाधेरपि पक्षे लाभात् ।
 न चैवमुक्ते शशविषाणनित्यत्वे व्यभिचारः ।
 मिथ्यात्वादित्यस्य सत्तावत्यधिकरणे निषेधप्रतियोगित्वादित्यर्थकत्वादिति ॥ ननु तथाऽपि तादात्म्यनिषेधमुखेन भेदोपलम्भो न साक्षात् ।
 तथाऽपि धर्मिसत्त्वसाधनायासग्रस्तम् ।
 न चैवं साक्षादेव घटः पटाद्भिन्न इति साधयामीति वाच्यम् ।
 भेदाख्यपदार्थस्यैवाभावेनाप्रसिद्धविशेषणत्वात् ।
 भेदव्यवहारस्त्वन्योन्यधर्मात्यन्ताभावेनैवोपपन्नः ।
 न चैवं सर्वाद्वैतवादेऽन्योन्यधर्मात्यन्ताभावोऽप्ययुक्त इति वाच्यम् ।
 धर्माणां स्वात्यन्ताभावसमानाधिकरणत्वाङ्गीकारात् ।
 किञ्च भेदमात्रसाधने व्यावहारिकभेदे सिद्धसाधनम् ।
 पारमार्थिकेति विशेषणे त्वप्रसिद्धिः ।
 न चात्मभेदसाधन इव धर्मिसत्तासमानसत्ताकेति विशेषणसम्भवः ।
 धर्मिणामपि व्यावहारिकत्वादित्यस्वरसात्प्रकारान्तरेण प्रयुङ्क्ते ।
 घटसंसर्गानवच्छिन्नप्रतियोगिताकश्चासौ त्रैकालिकाभावश्च स च घटान्योन्याभाव इत्यभिप्रेतोऽर्थस्तत्प्रतियोगीत्यर्थः ।
 घटप्रतियोगिकपटादिधर्मिकात्यन्ताभावेनान्यथासिद्धिवारणाय घटसंसर्गानवच्छिन्नप्रतियोगिताकेति ॥ अत्यन्ताभावस्योक्तसम्बन्धावच्छिन्नप्रतियोगिताकत्वेन तद्व्युदासः ।
 अत्र संसर्गान्योन्याभावरूपस्थलद्वयेऽपि संसर्गतादात्म्ययोः प्रतियोगितावच्छेदकत्वेन लोकप्रसिद्ध्यनुसारादेवमुक्तिरिति ज्ञेयम् ।
 वस्तुतस्तु तयोरारोप्यसम्बन्धमात्रं नावच्छेदकमित्युक्तं पुरस्तात् ।
 एवञ्चात्र घटसंसर्गानारोप्यकेति तदर्थो ज्ञेयः ।
 एवमुत्तरत्रापि ।
 घटतादात्म्यावच्छिन्नेत्येवोक्तावप्रसिद्धसाध्यवैकल्ये स्यातामित्येवमुक्तिः ।
 संसर्गानवच्छिन्नेत्याद्येवोक्तावपि तावेव दोषावित्यत आदौ संसर्गविशेषतया घटग्रहणम् ।
 अप्रस्तुतचेतनभेदेनार्थान्तरतावारणाय घटादिधर्मिकेति ॥ वियदादिपदेन जडमात्रं विवक्षितमिति ज्ञेयम् ।
 घटप्रागभावान्योन्याभावैरन्यथासिद्धिवारणाय त्रैकालिकेति ॥ अस्मिन्मते प्रागभावध्वंसयोः समवायिदेशवृत्तित्वनियमाभावेन पटादिधर्मिकेत्यनेनैव तद्व्युदासोपपत्तेः ।
 कुतस्तदिति शङ्कानवकाशः ।
 ननु प्रागभावध्वंसयोः संसर्गाभावत्वेन संसर्गानवच्छिन्नेत्यनेनैव व्युदासान्न तदर्थं त्रैकालिकपदमिति चेन्न ।
 अत्रात्यन्ताभावस्यैव संसर्गाभावत्वरीत्याऽनुमानप्रवृत्तेः ।
 यथोक्तं जयतीर्थश्रीमच्चरणैः ।
 यच्चान्यैरत्यन्ताभावस्वरूपमुक्त्वा संसर्गप्रतियोगिकाभावोऽत्यन्ताभाव इति ॥ यद्वा संसर्गानवच्छिन्नेत्यस्य विशेषणान्तराघटितसंसर्गमात्रावच्छिन्नेत्यर्थः ।
 एवञ्चात्रात्यन्ताभावे तन्मात्रावच्छेदकत्वेन तद्व्युदास इति ॥ व्यावहारिकान्योन्याभावमात्रव्युदासाय त्रैकालिकेति ॥ पटवदिति ॥ पटात्यन्ताभावस्य संसर्गानवच्छिन्नत्वेऽपि घटसंसर्गावच्छिन्नप्रतियोगिताकत्वाभावात्तत्प्रतियोगिनि पटे विशिष्टाभावेन साध्यमुपपादनीयम् ।
 घटात्यन्ताभावो वेति ॥ घटप्रतियोगिकः पटादिधर्मिको यस्त्रैकालिकोऽभावस्तदन्य इत्यर्थः ।
 स चान्योन्याभाव एवं वक्तव्य इति भावः ।
 घटाद्यत्यन्ताभावेनार्थान्तरतावारणाय घटप्रतियोगिकेति पटादिधर्मिकेति त्रैकालिकेति पूर्ववत् ॥ पटाभाववदिति ॥ तस्योक्तरूपघटात्यन्ताभावान्यत्वेन साध्यवत्त्वं ज्ञेयम् ।
 ननु तथाऽप्येकस्यात्यन्ताभावस्य घटादिप्रतियोगिकात्यन्ताभावान्यपरत्वेन सिद्धसाधनतेति चेन्न ।
 घटत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य भेदेऽप्यवच्छेदकभेदाभावेनैकत्वात् ।
 न च घटात्यन्ताभावस्य नीलघटात्यन्ताभावान्यत्वेन स एव दोष इति वाच्यम् ।
 प्रतिज्ञायां घटप्रतियोगिकेत्यस्य घटत्वावच्छिन्नप्रतियोगिताकेत्यर्थकत्वात् ।
 ननु तथाऽपि संयोगारोप्यघटात्यन्ताभावस्य सम्बन्धान्तरारोप्यकघटात्यन्ताभावत्वेनान्यथासिद्धिरेव ।
 न चात्र स्वज्ञानकारणीभूतप्रतियोग्यारोपनिष्ठसम्बन्धान्यसम्बन्धानारोप्यकेति ॥ अभावो विशेषयितुं शक्यः ।
 अन्योन्यभावस्यात्यन्ताभावाद्विलक्षणसम्बन्धारोप्यकत्वेन बाधात् ।
 न चात्यन्ताभावमात्रस्यापि पक्षत्वान्नोक्तदोष इति वाच्यम् ।
 सर्वात्यन्ताभावानामन्यत्वेनान्यथासिद्धेः ।
 न चात्यन्ताभावोऽन्य इत्यस्यात्यन्ताभावावच्छिन्नाधिकरणताकान्यत्ववानित्यर्थो विवक्षित इति वाच्यम् ।
 दृष्टान्तसाध्यवैकल्यापत्तेरिति ॥ मैवम् ।
 घटात्यन्ताभावोऽन्य इत्यस्य यावत्स्वाधिकरणकमेकाभावनिरूपितं यदन्यत्वं तद्वानित्यर्थकत्वात् ।
 स्वाधिकरणपदं स्वसमभिव्याहृतपरमिति न साध्यवैकल्यादिदोषः ।
 नन्वत्रान्योन्याभावमात्रासिद्धिदशायामन्य इत्युक्ते साध्याप्रसिद्ध्याऽप्रसिद्धविशेषणतेति चेन्न ।
 अन्यत्रान्यपदस्यान्योन्याभावमङ्गीकुर्वताऽप्यन्यादिव्यवहारविषयतया यद्विवक्षितं तन्मात्रार्थकत्वात् ॥ घटसंसर्गो वेति ॥ घटादिधर्मिको यस्त्रैकालिकाभावास्तत्प्रतियोगितावच्छेदकयोर्घटनिष्ठस्तदन्य इत्यर्थः ।
 संसर्गस्तादात्म्येति धर्मद्वयं ह्यभावप्रतियोगितावच्छेदकतया विवक्षितम् ।
 अत्र संसर्गस्य तादृशधर्मान्यत्वं तादृशतादात्म्यरूपधर्मान्यत्वेन पर्यवस्यति ।
 तदवच्छेद्यप्रतियोगिताको योऽभावोऽन्योन्याभाव एवेति भावः ।
 अत्र घटनिष्ठधर्मान्य इत्येवोक्ते रूपाद्यन्यत्वेनार्थान्तरम् ।
 अतोऽवच्छेदकान्तं विशेषणम् ।
 घटनिष्ठतादृशधर्मान्यत्वसिद्धिवारणाय घटनिष्ठेति ॥ पटनिष्ठसंसर्गवदिति ॥ तस्य पक्षभूतसंसर्गान्यत्वेन साध्यत्वं ज्ञेयम् ।
 शेषं पूर्ववत् ।
 घटप्रागभावो वेति ॥ घटसंसर्गानवच्छिन्नः पटधर्मिको योऽनाद्यभावः स घटाद्यन्योन्याभाव एवेति भावः ।
 अत्र पटनिष्ठकुड्यात्यन्ताभावान्यत्वसिद्धिवारणाय घटप्रतियोगिकेत्यपि विशेषणं ग्राह्यम् ।
 घटात्यन्ताभावान्यत्वासिद्धिवारणाय घटसंसर्गानवच्छिन्नप्रतियोगिताकेत्युक्तम् ।
 व्यावहारिकान्योन्याभावसिद्धिवारणायादीति ।
 इदं तु व्यावहारिकभेदस्यागन्तुकत्वाभिप्रायेणेति ज्ञेयम् ।
 यद्वाऽनादीत्यनौपाधिकेत्यर्थः ।
 अथवा ध्वंसान्यद्वारणायानादीति ।
 अत्र संसर्गानवच्छिन्नेत्यनेनैव पूर्ववद्द्रष्टव्यः ॥ घटप्रध्वंसवदिति ॥ तस्योक्तरूपपक्षीकृत्य तद्धटप्रागभावान्यत्वेन साध्यत्वं ज्ञेयम् ॥ घटप्रध्वंसो वेति ॥ अत्रापि घटप्रतियोगिकेत्यपि ग्राह्यम् ।
 वियत्पदं पूर्ववद्व्यावहारिकवारणाय वा प्रागभावव्युदासार्थं वेति ज्ञेयम् ॥ घटप्रागभाववदिति ॥ तस्योक्तरूपध्वंसान्यत्वेन साध्यवत्तवं ज्ञेयम् ।
 नन्वेतेष्वनुमानेषु दृष्टान्तीकृतपटादौ घटसंसर्गानवच्छिन्नत्वेत्यन्ताभावप्रतियोगित्वादिना साध्यमुपपादनीयम् ।
 तन्न युज्यते ।
 सर्वाभेदवादिनो मम घटस्यैव पटत्वे पटात्यन्ताभावादेरपि घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वात् ।
 एवञ्च साध्यवैकल्याप्रसिद्धविशेषणत्वादीत्यत आह - घटपटयोरिति ॥ घटात्यन्ताभावपदेन कुड्यात्यन्ताभावादेर्ग्रहणम् ।
 न तु घटपटप्रागभावादेः ।
 प्रतियोगित्वादिरित्यादिपदेन द्वितीयाद्यनुमानाभिप्रेतघटादिप्रतियोगिकत्वादेर्ग्रहणम् ।
 तदुपपादयति - तयोरिति ॥ त्वया घटपटादिव्यवहारसाङ्कर्याय व्यावहारिकभेदोऽङ्गीकृतः ।
 तामेव व्यवस्थामाश्रित्य वयं साधयामः ।
 वैयात्याद्व्यवस्थामनङ्गीकुर्वतोऽतिप्रसङ्गमाह - सिद्धपटस्येति ॥ घटपटयोरेकत्वेनोदितोत्पादनीयत्वाभावादिति भावः ॥ त्रैकालिकत्वादिनेति ॥ अत्रादिपदेनानादित्वादेर्ग्रहणम् ।
 ननु किमिदं त्रैकालिकत्वम् ।
 त्रिकालसम्बन्धित्वं वा त्रिकालाबाध्यत्वं वा ।
 नाद्यः ।
 व्यावहारिकेऽप्याकाशादिवत्तदविरोधात् ।
 न द्वितीयः ।
 साध्यवैकल्याप्रसिद्धविशेषणत्वापत्तेः ।
 एवमनादित्वमपि प्रागभावाप्रतियोगित्वं वाऽविद्याप्रयोज्यत्वाभावो वा ।
 तथा नित्यत्वमपि ध्वंसाप्रतियोगित्वं वा बाधागोचरत्वं वेति विकल्पासहमिति ॥ मैवम् ।
 त्रैकालिकाबाध्यत्वमेव त्रैकालिकत्वम् ।
 न चोक्तदोषः ।
 अभावपारमार्थिकवादिनं प्रत्युपपत्तेः ।
 न चैवमन्योन्याभावमात्रसाधने तस्य पारमार्थ्यं स्वतः सेत्स्यतीति त्रैकालिकेति विशेषणं व्यर्थमिति वाच्यम् ।
 संसर्गाभावमात्रस्य पारमार्थिकत्वमङ्गीकृत्यान्योन्याभावमेव यो नाङ्गीकरोति ।
 कथञ्चित्सम्भवेऽपि बाध्य एव भवेदिति मन्यते तं प्रत्युपपत्तेः ।
 यद्वा त्रिकालसम्बन्धित्वं त्रैकालिकत्वम् ।
 न चोक्तदोषः ।

भेदस्य सत्योपाधिजडान्यत्वं तद्विनाशनाश्यत्वं सर्वस्यापि सत्यत्वं यो भास्करोऽङ्गीकरोति तं प्रत्युपपत्तेः ।
 अस्मिन्पक्षे मूले व्यावहारिकपदमौपाधिकपरमिति ज्ञेयम् ।
 एवमनादित्वमपि निर्वचनीयमिति ॥ नन्वेतेष्वप्यनुमानेषु घटान्यत्वमुपाधिः ।
 न च पक्षेतरत्वान्नोपाधित्वम् ।
 पक्षमात्रानभ्युपगतसाध्यकानुमाने तादृशस्यैव वक्तव्यत्वात् ।
 दूषकताबीजसद्भावे पक्षेतरत्वरूपमात्रस्याप्रयोजकत्वात् ।
 किञ्चैते आभाससमानयोगक्षमाः ।
 आद्यप्रयोगे संसर्गानवच्छिन्नेतिवत्तादत्म्यानवच्छिन्नेति प्रयोगे संसर्गाभावान्योन्याभावविलक्षणाभावान्तरसिद्ध्यापत्तेः ।
 घटादिधर्मिकेति स्थाने घटधर्मिकेत्युक्ते स्वस्यैव स्वभेदापत्तेश्च ।
 एवं द्वितीयप्रयोगेऽपीति ।
 अपि च नेति प्रयोजकाः ।
 हेतुसाध्ययोरनुबन्धानुपलम्भे इत्यत आह - अनुकूलेति ॥ अन्यत्रेति ॥ न्यायामृते ।
 तथा हि ।
 यदि जडानां परस्परभेदो न स्यात् ।
 यदि चैक्यं पारमार्थिकं स्यात् तर्हि दूरस्थवनस्पत्यैक्यं प्रत्यक्षं न भ्रान्तिस्तद्बाध एव प्रमा स्यात् ।
 स्वपरपक्षयोरैक्येन परदूषणे स्वक्रियाविरोधः स्यात् ।
 दूषणसाधनयोरेकत्वेन परदूषणमेव तत्साधनं स्यात् ।
 उपाध्यारोपकत्वेन जीवयोरौपाधिकभेदो न स्यात् ।
 घटार्थिनः पटे प्रवृत्तिः स्यात् ।
 परस्य नित्यदुःखमेव भूषणं स्यादित्यादि ।
 ननु वनस्पत्यैक्यप्रत्यक्षं व्यावहारिक्यं गृह्णाति ।
 तच्च नास्तीति भ्रान्तरिति चेत् ।
 तस्यैक्यमात्रग्राहकत्वेन व्यावहारिकत्वोल्लेखस्यानानुभाविकत्वात् ।
 अनुल्लेखिप्रत्यक्षस्यापारमार्थिकार्थस्वाभाव्याद्गृह्यमाणमैक्यमारोपितमेवेति चेत् तर्हि एको वनस्पतिरिति वाक्यजन्यं ज्ञानं प्रमा स्यात् ।
 वाक्यस्य पारमार्थिकविषयत्वोपपत्तेः ।
 तदप्यारोपिताविषयमिति चेत् तर्हि जीवब्रह्मैक्यमपि तथा स्यात् ।
 किञ्चारोपितस्य बाधकोन्नेयत्वेन निर्बाधस्य वायुवनस्पत्यैक्यस्य नारोपितत्वम् ।
 द्वौ वृक्षावित्युत्तरप्रत्यक्षस्य भ्रान्तित्वेन विषयाभावरूपप्रमात्वेन रूपबाधत्वायोगात् ।
 तच्च व्यावहारिकभेदस्वक्रियाविरोधादिपरिहारः सम्भवतीति तन्नापरमार्थतस्तदापत्तिरिति ।

(32) (कु.) ॥ किञ्च घट इति ॥ घटसंसर्गेणानवच्छिन्ना प्रतियोगिता यस्य पटादिधर्मिकत्रैकालिकाभावस्य तस्य प्रतियोगीत्यर्थः ।
 पटे पटात्यन्ताभावमादाय साध्यं बोध्यम् ।
 पक्षे तु घटात्यन्ताभावस्य घटसंसर्गावच्छिन्नप्रतियोगिताकत्वेन तमादाय साध्यपर्यवसानमित्यन्योन्याभावसिद्धिः ।
 तस्य तादात्म्यावच्छिन्नप्रतियोगिताकत्वेन घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वादिति भावः ।
 त्रैकालिकत्वविशेषणं त्वन्योन्याभावस्य त्रैकालिकत्वरूपोद्देश्यसिद्ध्यर्थं साऽपि व्यावहारिकमन्योन्याभावमादाय सिद्धसाधनतानिवृत्त्यर्थमित्यग्रे स्फुटम् ।
 न तु प्रागभावध्वंसाभावमादाय सिद्धसाधनतानिवृत्त्यर्थम् ।
 तयोर्घटसंसर्गावच्छिन्नप्रतियोगिताकत्वेन सिद्धसाधनतानवकाशात् ।
 एवं पटादिधर्मिकेति ॥ यद्यपि पटधर्मिकस्य घटान्योन्याभावस्य न सिद्धान्ते त्रैकालिकत्वं पटाद्यात्मकत्वात्तस्य तथाऽपि न्यायरीत्येदम् ।
 अतद्गुणसंविज्ञानबहुव्रीहिणा नित्यधर्मिकान्योन्याभावाभिप्रायको वेति बोध्यम् ॥ घटात्यन्ताभावो वेति ॥ घटप्रतियोगिकपटधर्मिको यस्त्रैकालिकाभावस्तदन्य इत्यर्थः ।
 पटात्यन्ताभावमादाय सिद्धसाधनतावारणाय घटप्रतियोगिकेति ॥ दृष्टान्ते घटात्यन्ताभावमादाय साध्यं बोध्यम् ॥ पटसंसर्गो वेति ॥ पटधर्मिको यस्त्रैकालिकाभावस्तत्प्रतियोगितावच्छेदको घटनिष्ठधर्मस्तदन्य इत्यर्थः ।
 पटादिसंसर्गान्यत्वमादाय सिद्धसाधनतावारणाय घटनिष्ठेति ॥ धर्मपदार्थं तादात्म्यसंसर्गयोर्विशेषणम् ।
 तेन घटतदवच्छिन्नप्रतियोगिताकस्त्रैकालिकपटधर्मिकोऽभावः सिध्यन् अन्योन्याभाव एव सिध्यति ।
 संसर्गान्यत्वस्य पक्षे बाधादिति भावः ।
 घटसंसर्गान्यत्वमादाय दृष्टान्ते साध्यमिति भावः ॥ घटप्रागभावो वेति ॥ घटसंसर्गेणानवच्छिन्ना प्रतियोगिता यस्य तादृशो यः पटधर्मिकोऽनादिरभावस्तदन्य इत्यर्थः ।
 घटात्यन्ताभावान्यत्वमादाय सिद्धसाधनतावारणाय संसर्गानवच्छिन्नप्रतियोगिताकेति ॥ दृष्टान्तीकृते पटध्वंसे पटादिधर्मिकपटात्यन्ताभावान्यत्वमादाय साध्यसत्त्वात्तदर्थं घटेति ॥ धटात्यन्ताभावो यद्यपि संसर्गानवच्छिन्नप्रतियोगिताकस्तथाऽपि न घटसंसर्गानवच्छिन्नप्रतियोगिताक इति पटघटभेदसिद्ध्यर्थं पटादिधर्मिकेति ॥ पटधर्मिकपटीयरूपादिध्वंसान्यत्वमादाय सिद्धसाधनतावारणायानादीति ।
 घटसंसर्गानवच्छिन्नप्रतियोगिताकभिन्नपटादिधर्मिकपटत्वान्यत्वमादाय तद्वारणायाभावेति ॥ ननु दृष्टान्तीकृतपटध्वंसे यथा पटात्यन्ताभावन्यत्वमादाय साध्यम् ।
 तथा पक्षेऽपि तदन्यत्वमेवादाय साध्यमस्त्येवेति सिद्धसाधनम् ।
 न च तन्निवृत्त्यर्थ घटप्रतियोगिकत्वविशेषणं देयमिति वाच्यम् ।
 दृष्टान्ते साध्यवैकल्यापत्तेः ।
 न च दृष्टान्ते घटप्रागभावान्यत्वमादाय साध्यं भविष्यतीति वाच्यम् ।
 तस्य घटसंसर्गानवचिछन्नप्रतियोगिताकत्वघटादिधर्मिकत्वयोरभावात् ।
 अग्रिमग्रन्थविरोधाच्च ।
 सेयमुभयतः पाशारज्जुरिति चेन्न ।
 स्वप्रतियोगिप्रतियोगिकत्वेनाभावविशेषणात् ।
 स्वशब्दः समभिव्याहृतपरः पक्षे साध्ययोजनदशायां घटप्रागभावं बोधयति ।
 दृष्टान्ते तद्योजने तु पटध्वंसम् ।
 एवञ्च न सिद्धसाधनं न वा दृष्टान्ते साध्यवैकल्यमिति ॥ अनाद्यभावपदं तूपरञ्जके भविष्यतीति इति न किञ्चिदनुपपन्नम् ॥ घटप्रध्वंसो वेति ॥ पूर्ववदेवात्र सर्वं बोध्यम् ।
 ननु जडानां परस्परं तत्त्वतो भेदस्याभाव इति मते घटपटयोरभेदेति घटात्यन्ताभावपटात्यन्ताभावयोरभेदाच्च न पटात्यन्ताभावस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकभिन्नत्वमिति दृष्टान्ते साध्यवैकल्यम् ।
 एवं सिषाधयिषिताऽन्योन्याभावेऽपि न घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वम् ।
 घटात्यन्ताभावतदन्योन्याभावयोरभेदात् ।
 तथा च बाध इत्यत आह - घटपटयोरभेदवादिनेति ॥ इदमुपलक्षणम् ।
 तदुभयात्यन्ताभावयोरभेदवादिना घटात्यन्ताभावघटान्योन्याभावयोरभेदवादिनेत्यपि बोध्यम् ॥ साध्यवैकल्यादीति ।
 आदिपदेन बाधः ।
 दृष्टान्तेत्युपलक्षणं पक्षस्यापि ॥ अन्यथेति ॥ व्यावहारिकभेदानङ्गीकार इत्यर्थः ।
 ननु सर्वत्रापि पक्षेतरत्वस्य तत्समीपशीलस्यैवोपाधेः सम्भवात् ।
 सोपाधिकत्वमन्योन्याभावत्वस्यापि साध्यशरीरप्रवेशेन सम्पन्नस्याभाससमानयोगक्षेमताऽप्रयोजकत्वं चेत्यत आह - अनुकूलतर्कस्येति ॥ अन्यत्र न्यायामृते ।
 उक्तत्वात् उक्तप्रायत्वात् ।
 यदि घटपटयोस्तात्त्विकमैक्यं स्यात् तर्हि घटनाशे पटनाशः स्यात् ।
 घटज्ञाने पटज्ञानं स्यात् ।
 सिद्धघटस्य पुंसः पटसामगर्_युपादानं न स्यादित्यादेस्तर्कस्य सत्त्वात् ।
 हेतोः साध्यव्याप्यत्वेन साध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्यव्यापकत्वात् ।
 न सोपाधिकत्वम् ।
 अन्योन्याभावान्यत्वस्यापि साध्यशरीरे प्रवेशेन सम्पन्नस्याभावस्याभाससमानात्मकस्याभासानामनुकूलतर्काभावेन न समानयोगक्षेमता ।
 अत एव नाप्रयोजकत्वमपीति भावः ।

(32) (हु.) ॥ किञ्चेति ॥ घटसंसर्गानवच्छिन्नेति ॥ पटनिष्ठघटात्यन्ताभावमादाय सिद्धसाधनतावारणाय घटसंसर्गानवच्छिन्नेति ।
 संसर्गानवच्छिन्नत्वमात्रोक्तौ भेदसिद्धेः प्राग्घटनिष्ठतादृशत्रैकालिकाभावाप्रसिद्ध्या साध्याप्रसिद्धिः स्यादतो घटसंसर्गेति ।
 दृष्टान्ते तादृशं पट[घट]निष्ठं पटात्यन्ताभावमादाय साध्योपपत्तिः ।
 तस्य घट[पट]संसर्गावच्छिन्नत्वेऽपि पटसंसर्गानवच्छिन्नत्वात् ।
 पक्षे चोक्तसाध्यसिद्धिरन्योन्याभावं विना न पर्यवस्यति ।
 घटीयप्रागभावप्रध्वंसयोः प्रतियोगिसमवायकारणवृत्तित्वेन पटधर्मिकत्वाभावात् ।
 प्राचीनमते पूर्वापरकालावच्छिन्नसमवाययोरेव तत्प्रतियोगितावच्छेदकतया घटसंसर्गानवच्छिन्नत्वा[न्ना]भावात् ।
 त्रैकालिकात्वाभावाच्च ।
 तादृशाभावान्योन्याभाव एव वक्तव्य इति तत्सिद्धिः ।
 न च पटधर्मिकेति विशेषणं व्यर्थम् ।
 पटनिष्ठघटभेदरूपोद्देश्यसिद्ध्यर्थत्वात् ।
 त्रैकालिकेत्यपि तदर्थमेव ।
 तस्य पारमार्थिकत्वसिद्ध्यर्थत्वमप्यग्रे ग्रन्थ एव व्यक्तम् (* `वक्तव्यम्' मु.) ।
 न च व्यधिकरणसम्बन्धावच्छिन्नघटात्यन्ताभावं पटनिष्ठमादाय सिद्धसाधनमिति वाच्यम् ।
 संसर्गावच्छिन्नपट[घट]निष्ठप्रतियोगित्वानिरूपकत्वस्य तदर्थत्वात् ॥ घटात्यन्ताभाव इति ॥ घटप्रतियोगिकत्वं पटात्यन्ताभावभेदमादाय सिद्धसाधनतावारणायान्यत्र भेदमङ्गीकृत्य घटपटस्थल एव व्यभिचारवेलायामेतत्साध्यस्य प्रवृत्तत्वान्न भेदघटितसाध्याप्रसिद्धिः शङ्क्या ।
 पटधर्मिकत्वत्रैकालिकत्वयोः कृत्यं तु पूर्ववदेव ।
 दृष्टान्ते पक्षीभूतघटात्यन्ताभावभेदमादाय साध्यमुपपादनीयम् ।
 पक्षे तत्सिद्धेः स्वभेदमादाय पर्यवसानायोगात् ।
 तादृशान्योन्याभावसिद्धिः ।
 न च पटनिष्ठघटप्रतियोगिकनानासम्बन्धावच्छिन्नात्यन्ताभावानां मध्ये एकस्मिन्परभेदमादाय (* `-स्मिन्पट-' मु.) साध्योपपादनसम्भवेन सिद्धसाधनता ।
 घटात्यन्ताभावत्वावच्छेदेन साध्यसाधनेऽप्येकस्मिन्परभेदमादाय (* `-स्मिन्पट-' मु.) सर्वपक्षेषु साध्यसत्त्वात्साध्यतावच्छेदकरूपेण पक्षतावच्छेदकव्यापकत्वमबाधितमेव ।
 भेदघटितव्यापकताभानमनुमितौ पूर्वमेव निराकृतमिति न तद्भानबलाद्भेदसिद्धिः स्यात् ।
 घटप्रतियोगिकपटधर्मिकत्रैकालिकाभावत्वावच्छिन्नप्रतियोगिताकभेदसाधने पक्षेऽप्युक्तप्रतियोगितावच्छेदकाक्रान्ते साध्यस्याभावद्बाधापत्तिरिति चेन्न ।
 अन्योन्याभावघटितैव यापकता (* `अन्योन्याभावघटितव्यापकतयैव' मु.) सर्वत्रानुमितावुत्सर्गतो भासते ।
 लघुशरीरत्वात् ।
 तद्बाधग्रहसहकृतसामग्र्यधीनानुमितावत्यन्ताभावघटिता भासत इत्यभ्युपगमेन प्रकृते बाधनिश्चयाभावेनान्योन्याभावघटितव्यापकतया एव भावेनाभिमतसिद्धिः ।
 लाघवज्ञानबलाद्वा प्रकृते तद्भानाङ्गीकारादभिमतसिद्धेः ।
 अथवाऽऽश्रयनिष्ठप्रतियोगिताकत्वस्वसामानाधिकरण्योभयसम्बन्धेन घटात्यन्ताभावत्ववदन्यत्वेन साध्यीभूतभेदस्य विशेषणीयतयोक्तभेदानां तादृशत्वेन तद्वारणेनेष्टसिद्धेः ॥ घटसंसर्ग इति ॥ घटसम्बन्धिसंसर्ग इत्यर्थः ।
 घटनिष्ठत्रैकालिकाभावप्रतियोगितावच्छेदको यो घटनिष्ठधर्मस्तदन्य इत्यर्थः ।
 दृष्टान्ते पटनिष्ठाभावान्तरीयप्रतियोगितावच्छेदकसंसर्गे एतादृशघटसंसर्गभेदमादाय साध्यमुपपादनीनयम् ।
 तत्सिद्धेः स्वान्यत्वमादाय पर्यवसानायोगात् ।
 तादृशाभावप्रतियोगितावच्छेदकीभूतं घटसंसर्गभिन्नतादात्म्यमुपादाय (* `-संसर्गभिन्नतत्तादात्म्य-' हु.) तद्भेदो वक्तव्यः ।
 प्राचीनैस्तादात्म्यस्य संसर्गरूपत्वानङ्गीकारात् ।
 आधाराधेयभावनियामकसंयोगसमवायस्वरूपादेरेव तथात्वाभ्युपगमात् ।
 स एव भेद इत्युद्देश्यसिद्धिः ।
 प्राचीनैस्तादात्म्यावच्छिन्नप्रतियोगिताकाभावस्यैव भेदत्वाभ्युपगमात् ।
 न च तर्हि विषय[यि]तासम्बन्धस्य भवदुक्तसंसर्गपदार्थत्वाभावात्तत्साधारणरूपेण पक्षत्वेऽसिद्धिप्रसङ्गात्तस्य पक्षबहिर्भावावश्यकत्वे पटनिष्ठविषयता(सम्बना)वच्छिन्नाभावप्रतियोगितावच्छेदकीभूतविषयताभेदमादाय सिद्धसाधनता विषयत्वादीनाम् ।
 वृत्त्यनियामकतया तादात्म्यातिरिक्तवृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वानङ्गीकर्तृप्राचीननैयायिकमते तस्य तादृशावच्छेदकत्वमेव नास्तीत्युच्यते ।
 तथाऽप्यत्यन्ताभावीयप्रतियोगितावच्छेदघटत्वभेदस्य घटसंसर्गेषु सत्त्वात्सिद्धसाधनमेवेति वाच्यम् ।
 संसर्गविधया या विलक्षणावच्छेदकता तद्वत्त्वावच्छिन्नप्रतियोगिताकभेदस्यैव साध्यत्वात् ।
 अन्योन्याभावनिरूपितप्रतियोगितानिरूपिततादृशावच्छेदकतायास्तादात्म्य एवाङ्गीकारात्तद्भेदस्यैव (* `-कतायास्तादात्म्याङ्गीकारात्-' मु.) साध्यत्वप्राप्तेः ।
 घटत्वस्य वा तथात्वान्न तद्भेदमादाय सिद्धसाधनता ।
 न चैकसंसर्गे अपरसंसर्गभेदमादाय (* `यत्संसर्ग-' मु.) सिद्धसाधनम् ।
 तादृशाभावीयप्रतियोगितानिरूपितविलक्षणावच्छेदकताकत्वावच्छिन्नप्रतियोगिताकभेदस्य साधने बाधः ।
 पक्षस्यापि तथाविधप्रतियोगितावच्छेदकधर्माक्रान्तत्वादिति चेन्न ।
 पूर्वोक्तरीत्या घटनिष्ठसंसर्गत्वावच्छेदेन तादृशप्रतियोगितावच्छेदकभेदस्य साध्यता व्यापकता च भेदघटितैव भासत इति वा स्वसमानाधिकरणप्रतियोगिताकत्वस्वसमानाधिकरणानुयोगिकत्वोभयसम्बन्धेन घटसंसर्गत्वविशिष्टान्यत्वस्य साध्यीभूतभेदे निवेशनीयतया वारणसम्भवात् ।
 न च प्रतियोगितावच्छेदके घटनिष्ठत्वविशेषणं दृष्टान्तीभूतपटसंसर्गे (* `विशेषणदृष्टा-' मु.) पटनिष्ठतादृशाभावीयप्रतियोगितावच्छेदकघटसंसर्गभेदाभावाद्व्यभिचारवाणायेति वक्तव्यम् [वाच्यम्] ।
 तच्च न घटते ।
 तादृशस्तम्भसंसर्गभेदमादाय (* `तादृशसम्भवसंसर्ग-' मु.) साध्यसत्त्वादिति वाच्यम् ।
 पक्षेऽपि तमादायैव साध्यसत्त्वोपपत्त्या भेदासिद्धिप्रसङ्गवारणाय तस्य सार्थकत्वात् ॥ घटप्रागभावो वेति ॥ घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिको योऽनाद्यभावस्तदन्य इत्यर्थः ।
 दृष्टान्ते घटसंसर्गानवच्छिन्नप्रतियोयोगिताकपटादिधर्मिकोऽनाद्यभावः पटरूपप्रागभावस्तदन्यत्वं वर्तते ।
 पक्षे चैतादृशसाध्यं सिध्यत्पटभेदमादायैव पर्यवस्यति ।
 घटात्यन्ताभावस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वविरहात् ।
 अत एव तद्विशेषणं सार्थकम् ।
 अन्यथाऽत्यन्ताभवाभेदमादायार्थान्तरतापातात् ।
 संसर्गानवच्छिन्नप्रतियोगिताकत्वमात्रनिवेशे पटे पटभेदस्येवान्यभेदस्यापि (* `-भेदस्यैवान्य-' मु.) विचारदशायां तुल्यन्यायेन सन्दिग्धतया पटनिष्ठरूपप्रागभावात्यन्ताभावानां संसर्गानवच्छिन्नप्रतियोगिताकत्वेन संसर्गानवच्छिन्नप्रतियोगिताकपक्षनिष्ठानाद्यभावप्रसिद्धिरतो घटसंसर्गेति ।
 अनादित्वानुपादाने पटनिष्ठरूपध्वंसभेदमादाय (* `घटनिष्ठरूपध्वंसे भेदमादाय' मु.) सिद्धसाधनता स्यादतोऽनादीति ।
 ननु पटनिष्ठरूपप्रागभाव एव हेतोर्व्यभिचारः ।
 न च तादृशरसादिप्रागभावादिभेदसत्त्वान्न व्यभिचार इति वाच्यम् ।
 तथापीति (* `तथात्वेऽपि' मु.) पक्षीभूतपटप्रगभावेऽपि तमादाय साध्यसत्त्वादेव सिद्धसाधनता ।
 तादृशाभावत्वावच्छिन्नभेदसाधने घटप्रागभावस्य पटधर्मिकत्वाभावेनोक्ताभावत्वावच्छिन्नप्रतियोगिताकभेदसत्त्वात्सिद्धसाधनम् ।
 पटे विद्यमानानाद्यभावेषु व्यभिचारश्चाधिकः ।
 पटधर्मिकानाद्यभावे घटप्रतियोगित्वोपादाने (* `पटधर्मिकानाद्यघट-' मु.) भेदसिद्धेः प्राग्घटसंसर्गानवच्छिन्नघटप्रतियोगिकपटधर्मिकाभावाप्रसिद्ध्याऽप्रसिद्धेः ।
 घट[पट]प्रतियोगिकप्रागभावस्य घट[पट]संसर्गनाच्छिन्नत्वविरहात् ।
 पटधर्मिकत्वाच्च ।
 अत्यन्ताभावस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वविरहात् (* `-संसर्गावच्छिन्न-' मु.) ।
 व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकघटप्रतियोगिकपटधर्मिकानाद्यभावभेदमुपादाय सिद्धसाधनतावारणाय घटसंसर्गेत्यस्य संसर्गानवच्छिन्नघटवृत्तिप्रतियोगिताकान्यत्वपर्यन्तमवश्यं विवरणीयतया तस्याप्यघटकत्वात् ।
 अनादिपदवैयर्थ्यं च ।
 पटनिष्ठसंयोगध्वंसादेर्घटप्रतियोगिकत्वेनैव वारितत्वेन तद्भेदमादाय सिद्धसाधनत्वाभावात् ।
 मैवम् ।
 पटधर्मिकोक्ताभावस्यैव स्वप्रतियोगिप्रतियोगिकत्वस्वभिन्नत्वोभयसम्बन्धेन साध्यत्वाङ्गीकारात् ।
 पटध्वंसरूपे दृष्टान्ते पटधर्मिकपटात्यन्ताभाव एवोक्तसम्बन्धेन वर्तते ।
 पक्षे (च) घटप्रतियोगिकानाद्ये भावान्तरभेदमादाय सिद्धसाधनत्वादेरनवकाशात् ।
 न चैवं गगनाभावे प्रमेयत्वभेदे च पटनिष्ठे व्यभिचारः ।
 तत्प्रतियोगिप्रतियोगिकाभावान्तरस्य तत्राभावादिति वाच्यम् ।
 पटे प्रमेयत्वस्य स्वरूपसम्बन्धेन सत्त्वेऽपि व्यधिकरणसम्बन्धानवच्छिन्नानां बहूनामभावानां सत्त्वेनैकस्मिन्नपराभावमादाय साध्यत्वोपपत्तेः ।
 एवं गननस्य समवायस्वरूपसम्बन्धाद्यनवच्छिन्ननानाभावानां घटे सत्त्वेनैकाभावमादायापरस्मिन्साध्यत्वान्न कुत्रापि व्यभिचारः ।
 न च पटधर्मिकत्वानादित्वविशेषणयोर्वैयर्थ्यम् ।
 घटप्रतियोगिकाभावानां घटप्रागभाव उक्तसम्बन्धेनासत्त्वात् ।
 घटीय[पटीय]संसर्गाभावानां घटसंसर्गानवच्छिन्नत्वेनैव वारणादिति वाच्यम् ।
 पटे घटभेदसिद्धेरुद्देश्यत्वेन पटधर्मिकत्वस्य, भेदे ज्ञानकल्पितत्वाभावरूपमिथ्यात्वाभावसिद्ध्यर्थमनादित्वस्य सार्थक्यात् ।
 न चोक्ताभावस्य स्वप्रतियोगिप्रतियोगिकत्वसम्बन्धमात्रेण साध्यत्वेऽप्युक्तसाध्यस्यान्योन्याभावं विना पर्यवसानाभावाद्भेदघटितोभयसम्बन्धेन साध्यता व्यर्थेति वाच्यम् ।
 उक्तवैयर्थ्यपरिहाराय प्रतियोगिप्रतियोगिकत्वस्य पटधर्मिकाभावांशाभाव एव साध्यकोटौ विशेषणीयत्वात् ।
 न च तर्हि स्वप्रतियोगिप्रतियोगितादृशाभावकत्वमात्रं साध्यमस्तु तादृशा[श]भावान्यत्वं व्यर्थमिति वाच्यम् ।
 बहुव्रीह्यर्थसम्बन्धस्यावश्यं निवेशनीयतया तद्भिन्नत्वस्यैव तत्कत्वपदार्थत्वात् ।
 पक्षदृष्टान्तयोः स्वत्वा[सत्त्वा]ननुगमासहिष्णुतायां स्वप्रतियोगिप्रतियोगित्वसम्बन्धेन स्वविशिष्टो यः संसर्गावच्छिन्नघटवृत्तिप्रतियोगिताकान्यपटधर्मिकाभावस्तन्निष्ठप्रतियोगिताकभेदवत्त्वतादात्म्योभयसम्बन्धेन किञ्चिद्विशिष्टत्वं पक्षे साध्यम् ।
 संसर्गकोटौ स्वत्वं परिचायकमिति नाननुगमः (* `नानुगमः' मु.) ।
 सम्बन्धद्वयप्रयोजनं स्फुटमेव ।
 अत्रेदमवधेयम् ।
 उक्तसिद्धसाधनतापरिहाराय स्वप्रतियोगिप्रतियोगिकत्वस्य साध्यतावच्छेदकशरीरान्तः पातितया वा पूर्वोक्तोभयसम्बन्धत्वेन साध्यतावच्छेदकशरीरान्तःपातित्वे (* `साध्यतावच्छेदकीभूतसम्बन्धशरीरान्तः-' मु.) वा प्रकृतानुमानसिद्धान्योन्याभाव एव व्यभिचाराद्धेतोर्वस्तुतो दुष्टत्वापत्तिरतो भेदांशोऽनुपादेय एव व्यर्थत्वाद्दोषसम्पादकत्वाच्च[त्वात्] ।
 न च मूलविरोधः ।
 अस्या गोरन्योऽन्वेष्टव्य (* `अस्मद्गोरन्यो-' मु.) इत्यादावन्यपदस्य भेदघटितसाजात्यावच्छिन्नार्थकताया दृष्टत्वात् ।
 प्रकृते साजात्यघटकप्रतियोगिप्रतियोगिकत्वमुपादाय भेदांशपरित्यागेऽपि मूलार्थस्यापरित्यक्ततया तद्विरोधविरहात् ।
 प्रतियोगिमात्रोक्तावपि स्वप्रतियोग्यप्रतियोगिकत्वस्वभिन्नत्वोभयसम्बन्धेन (* `स्वप्रतियोगिमात्राप्रतियोगिकत्व-' मु.) तादृशाभाव एव साध्यमिति वस्तुतः पूर्वोक्तसाध्ये न कोऽपि दोषः ।
 (वस्तुतः) घटसामान्यभेदतद्धटभेदानु[वु]पादाय परस्परसाध्यसत्त्वान्न व्यभिचारप्रसक्तिः ।
 तथाऽपि मूलोक्तान्यत्ववैयर्थ्यपरिहाराय यथाकथञ्चित्सार्थकीकर्तुमुक्तप्रयास इत्यलमित्याहुः ।
 परे तु घटरूपप्रागभावादिकमादाय सिद्धसाधनतावारणाय (* `-साधनतामादाय' मु.) घटप्रतियोगिकत्वमेवाभावे विशेषणं देयम् ।
 घटप्रतियोगिकपटधर्मिकभेदसिद्धेः प्रागुक्तविशेषणाक्रान्ताभावाप्रसिद्ध्या साध्याप्रसिद्धिरिति न शङ्क्यम् ।
 पटादिधर्मिक इत्यस्य पटावृत्तित्वप्रागभावाभिन्नत्वैतदुभयाभाववदर्थकत्वात् ।
 आदिपदं तु स्तम्भादिकमपि निवेश्यमेव (* `निवेश्य एवमेव' इति पाठेन भाव्यमिति भाति ।
) प्रयोक्तव्यमित्यभिप्रायेण ।
 तादृशश्च पक्षीभूत एव घटप्रागभाव इति तदन्यत्वरूपसाध्यप्रसिद्ध्या दृष्टान्ते तमादायैवोपपादनसम्भवात् ।
 पक्षीभूते स्वस्मिन्स्वभेदमादाय साध्यापर्यवसानात् ।
 घटप्रतियोगिकपटधर्मिकभेदसिद्धिः ।
 घटसंसर्गानवच्छिन्नघटप्रतियोगिकोक्ताभावकत्वमात्रोक्तौ (* `पटसंसर्गिकानवच्छिन्नघटप्रतियोगिकोक्तोभयाभावकत्वमात्रोक्तौ' मु.) घटप्रागभावरूपपक्ष एव तादृश इति स्ववैशिष्ट्यसामान्यं स्वस्मिन्वर्तत इति सिद्धसाधनमर्थान्तरता च स्यादतस्तदन्यत्वपर्यन्तानुधावनम् ।
 ध्वंसप्रागभावप्रतियोगितयोः संसर्गानवच्छिन्नत्वमिति मताश्रयणान्न पुनः साध्याप्रसिद्धिशङ्कावकाशः ।
 घटपटोभयवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकभेदस्य पटाद्यवृत्तित्वाभावेनोभयाभाववत्त्वात् ।
 घटप्रतियोगिकत्वाच्च तदन्यत्वमादाय सिद्धसाधनतानवकाशः ।
 व्यासज्यवृत्तिधर्मावच्छिन्नभेदस्य पटादिरूपप्रतियोगिन्यवृत्तित्वाङ्गीकारेणोक्तोभयाभावविरहात् ।
 अङ्गीकारे वा व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकान्यत्वेनाप्यभावस्य विशेषणीयत्वात् ।
 घटमात्रप्रतियोगिकत्वं वा प्रतियोग्यवृत्तित्वं वाऽभावे निवेश्योक्तदोषो वारणीय इति तु न सत् ।
 प्रथमविशेषणेन घटद्वय[द्वये]भेदस्यावारणेन तदन्यत्वमादाय सिद्धसाधनत्वावारणात् ।
 द्वितीयविशेषणपक्षे घटात्यन्ताभावस्याप्यनेनैव वारणेन घटसंसर्गानवच्छिन्नेत्यस्य वैयर्थ्यापत्तेरिति प्राहुः ।
 वस्तुतस्तु घटसंसर्गानवच्छिन्नेत्यस्य घटसंसर्गावच्छिन्नप्रतियोगिताकोऽभाव इति विग्रहः ।
 घटपदोत्तरषष्ठ्यर्थस्य प्रतियोगित्वस्याभाव एवान्वयः ।
 संसर्गानवच्छिन्नप्रतियोगिताकेत्येतदत्यन्ताभावभिन्नत्वतात्पर्यकम् ।
 अत्यन्ताभावप्रतियोगिताया अवश्यं संसर्गावच्छिन्नत्वनियमात् ।
 प्रागभावध्वंसप्रतियोगित्वयोर्धर्मावच्छिन्नत्वसंसर्गावच्छिन्नत्वाङ्गीकारात् ।
 पटा[घटा]दीत्यत्रादिपदग्राह्यतावच्छेदकरूपं घटत्वाभाववत्त्वम् ।
 तथा च घटप्रतियोगिकोऽत्यन्ताभावभिन्नो घटत्वाभाववद्धर्मिको योऽनाद्यभावस्तदन्यत्वं साध्यं पर्यवसितम् ।
 अत्र घटत्वानधिकरणकपालवृत्तिघटप्रागभावभेदमादाय दृष्टान्तादिषु सर्वत्र साध्यसत्त्वनिर्वाहः ।
 पक्षे स्वभेदमादाय पर्यवसानायोगाद्धटभेदस्य पटादिनिष्ठस्य सिद्धिः ।
 कपालवृत्तिरूपप्रागभावभेदमादाय सिद्धसाधनतावारणाय घटप्रतियोकिति ॥ घटत्वानधिकरणवृत्तिघटात्यन्ताभावभेदमादाय तद्वारणायात्यन्ताभावभिन्नेति ॥ धटध्वंसभेदमादाय सिद्धसाधनतावारणायानादीति ।
 घटत्वेतरधर्मानवच्छिन्नघटवृत्तिप्रतियोगिकत्वं वक्तव्यम् ।
 तेन घटासमवेतभेदस्यापि घटप्रतियोगि(ता)कतया प्रागभावनिष्ठतद्भेदमादाय नार्थान्तरता ।
 घटप्रागभावप्रतियोगिताया धर्मानवच्छिन्नत्वात्तद्भेदमादाय दृष्टान्ते साध्यत्वनिर्वाहः ।
 (* एतद्वाक्यादौ मु.पाठे हु.पाठे च `(पट)भेदस्य घटत्वानधिकरणघटावृत्तित्वेनार्थान्तरतावारणाय' इति पदद्वयं दृश्यते ।
 हु.पाठे लेखकेनायं भागः अङ्कनेन मृष्टः ।
) घटान्यस्मिन्सर्वत्र घटभेदसिद्धेरुद्देश्यायाः सम्पत्तये [च] घ[प]टत्वाभाववद्धर्मिकेति विशेषणमिति सारम् ॥ घटध्वंसो वेति ॥ पूर्वानुमानवदेव सर्वम् ।
 ज्ञानोच्छेद्यस्वरूपं (* `ज्ञानं वेद्यत्वरूपं' मु.) मिथ्यात्वादित्यादिमतनिरासपूर्वकं भेदस्य पारमार्थिकत्वद् सिद्धये नित्यत्वविशेषणमनुसन्धेयम् ।
 घटाभेदस्य (पटे) स्वसिद्ध्यभाववेलायां पटात्यन्ताभावस्यापि घटसंसर्गा(न)वच्छिन्नप्रतियोगिताकत्वेन पटात्यन्ताभावप्रतियोगितात्वमुपादाय कथं पटस्वरूपे दृष्टान्ते साध्यसत्त्वमित्याशङ्कां व्यावहारिकभेदस्य सर्वव्यवहारनिर्वाहक्षमत्वे (न उक्तदूषण)परिहारक्षमत्वमपि वर्तत इत्याशयेन परिहरति - घटपटयोरित्यादिना न दोषप्रसङ्गश्चेत्यन्तेन ॥ (* `न पटसामग्र्यनुपादानप्रसङ्गश्च' इति पाठेन आभ्व्यमिति भाति ॥ अन्योन्याभावोऽपि घटसंसर्गावच्छिन्नो न भवतीति क्रमेण ।
 बाधः साध्यवैकल्यादीत्यत्रादिपदार्थः ।
 (त्रै)कालिकत्वादिनेति पदार्थाय कालिकत्वादिनेति ॥ आदिनाऽनादित्वनित्यत्वयोर्ग्रहः ॥ व्यावहारिकत्वे चेति ॥ अज्ञानकल्पितत्वे ज्ञानोच्छेद्यत्वे चेत्यर्थः ॥ अनुकूलतर्काणामिति ॥ न्यायामृतादावित्यर्थः ।
 भेदस्य पारमार्थिकत्वे (* `अपारमार्थिकत्वे' इति पाठेन भाव्यमिति आभ्ति।
) घटनाशे सति पटानाशः (* `पटनाशः' मु.) स्यात् ।
 बन्धमोक्षयोरैक्यापत्त्येदानीं मुक्तत्वापत्त्या तदर्थं श्रवणाद्यनुपपत्तिरूपस्तर्क इति ज्ञेयम् ॥ नोपाधीति ।
 पक्षेतरत्वमुपाधिः ।
 घ(प)टतादात्म्यानवच्छिन्नघटप्रतियोगिकत्वमप्यभावे निवेश्य प्रयोगे पञ्चमाभावसिद्ध्यापत्त्याऽऽभाससाम्यप्रयोजकत्वं (* `-साम्यमप्रयोजक-' मु.) (चे)वेत्यर्थः ।

(32) (का.) ॥ किञ्चेत्यादि ॥ घटसंसर्गेणानवच्छिन्ना प्रतियोगिता यस्य तादृशो यः पटादिधर्मिकः त्रैकालिकोऽभावस्तत्प्रतियोगीत्यर्थः ।
 दृष्टान्ते पटात्यन्ताभावमादाय साध्यसत्त्वं, पक्षे च तत्प्रतियोगित्वबाधाद्धटपटभेदमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः ।
 घटात्यन्ताभावप्रतियोगितामादाय सिद्धसाधनवारणाय घटसंसर्गानवच्छिन्नेति ।
 तत्र घटपदं दृष्टान्ते साध्यवैकल्यवारणाय ।
 न च संयोगेन पटो नास्तीति प्रतीत्या संयोगसामान्यस्यैव प्रतियोगितावच्छेदकत्वावगाहनात् कथं पटाभावस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वमिति वाच्यम् ।
 लाघवेन प्रतियोगिसंसर्गस्यैव प्रतियोगितावच्छेदकत्वात् ।
 घटत्वसहितसंसर्गानवच्छिन्नत्वविवक्षणाद्वा दोषाभावात् ।
 आत्मानात्मभेदसिद्ध्याऽर्थान्तरवारणाय पटादिधर्मिकेति ।
 पटे घटभेदसिद्धेरुद्देश्यत्वे पटधर्मिकत्वमभावविशेषणम् ।
 दण्डादौ तत्सिद्धेरुद्देश्यत्वे च तद्धर्मिकत्वमेव तथेत्यावेदयितुमादिपदम् ।
 घटध्वंसप्रागभावप्रतियोगितामादाय सिद्धसाधनवारणाय त्रैकालिकेति ।
 न च तयोः प्रतियोगिसमवायिमात्रवृत्तित्वनियमेन पटादिधर्मिकत्वाभावादेव वारणसम्भव इति वाच्यम् ।
 तादृशनियमे मानाभावात् ।
 ध्वंसप्रागभावयोः प्रतीतिबलेन प्रतियोगिसम्बन्धिमात्रवृत्तित्वौचित्यात् ।
 पटादेरपि संयोगादिना प्रतियोगिसम्बन्धित्वात् ।
 यत्तु घटध्वंसप्रागभावयोः संसर्गाभावत्वेन घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वाभावादेव वारणं सम्भवतीति ।
 तच्चिन्त्यम् ।
 ध्वंसप्रागभावयोः संसर्गावच्छिन्नप्रतियोगिताकत्वानङ्गीकर्तृतार्किकैकदेशिमतेनैतत्प्रयोगात् ।
 अत एव सिद्धान्ते पटादिधर्मिकभेदस्य धर्मिस्वरूपत्वेन त्रैकालिकत्वानुपपत्तावपि न बाधप्रसङ्गः ।

 यत्त्वतद्गुणसंविज्ञानबहुव्रीहिणा पटादिपदस्य नित्यमात्रपरत्वान्न दोष इति ।
 तदसङ्गतम् ।
 तथा सति प्रकान्तघटपटभेदासिद्धिप्रसङ्गात् ।
 पटादिधर्मिक समवायादिप्रतियोगित्वसिद्ध्याऽर्थान्तरवारणायाभावपदम् ।
 एवमग्रेऽपि ।

॥ घटात्यन्ताभावो वेति ॥ अत्र घटात्यन्ताभावान्यत्वमादाय दृष्टान्ते साध्यसत्त्वम् ।
 पक्षे तद्बाधादन्योन्याभावान्यत्वमादायैव साध्यपर्यवसानादुद्धेश्यसिद्धिः ।
 पटात्यन्ताभावादन्यत्वमादाय सिद्धसाधनवारणाय घटप्रतियोगिकेति विशेषणं पूर्ववत् ।
 यद्यपि घटात्यन्ताभावस्यापि घटप्रतियोगिकपटादिधर्मिकत्रैकालिकाभावत्वेन तदन्यत्वा सम्भवाद्बाधः ।
 तथापि यादृशाभावादन्य इत्येकवचनान्तेन समासात् ।
 तादृशयत्किञ्चिदभावान्यत्वस्यैव साध्यत्वलाभान्न दोषः ।
 न चैवं तादृशघटपटोभयाभावान्यत्वमादाय सिद्धसाधनम् ।
 घटात्यन्ताभावत्वावच्छेदेन तदन्यत्वसाधनात् ।

॥ घटसंसर्गो वेति ॥ अत्र घटात्यन्ताभावप्रतियोगितावच्छेदको यो घटसंसर्गस्तदन्यत्वमादाय दृष्टान्ते साध्यं बोध्यम् ।
 पक्षे च तदयोगात् पटधर्मिकभेदप्रतियोगितावच्छेदकीभूततादात्म्यान्यत्वमादाय साध्यपर्यवसानादुद्देश्यसिद्धिः ।
 न च घटात्यन्ताभावप्रतियोगितावच्छेदकघटत्वान्यत्वमादाय सिद्धसाधनमिति वाच्यम् ।
 पटधर्मिकत्रैकालिकयत्किञ्चिदभावप्रतियोगितावच्छेदकत्वावच्छिन्नभेदस्य साध्यत्वात् ।
 यत्किञ्चिदभावपदेन घटात्यन्ताभावपरिग्रहे तत्प्रतियोगिताच्छेदकत्वावच्छिन्नभेदस्य पक्षे बाधितत्वेन भेदसिद्धेरावश्यकत्वात् ।
 न च घटस्यैकसंसर्गे अपरसंसर्गावच्छिन्नात्यन्ताभावप्रतियोगितावचछेदकत्वावच्छिन्नभेदस्य सिद्धत्वात् सिद्धसाधनमिति वाच्यम् ।
 घटसंसर्गत्वावच्छेदेन साध्यसिद्धेरुद्देश्यत्वेन दोषाभावात् ।
 पटसंसर्गावच्छिन्नपटात्यन्ताभावप्रतियोगितावच्छेदकभेदमादाय सिद्धसाधनभङ्गाय घटनिष्ठेति ।
 अन्यत् पूर्ववत् ।
 संसर्गत्वं च मिथो भिन्नप्रतियोग्यनुयोगिकसम्बन्धत्वं, तादात्म्यातिरिक्तसम्बन्धत्वं वेति ध्येयम् ॥
॥ घटप्रागभावो वेति ॥ घटस्य यः संसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकानाद्यभावस्तदन्य इत्यर्थः ।
 दृष्टान्ते घटप्रागभावान्यत्वमादाय साध्यसत्त्वम् ।
 पक्षे च तदनुपपत्त्या पटधर्मिकभेदभिन्नत्यमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः ।
 घटध्वंसान्यत्वेन सिद्धसाधनवारणायानादीति ।
 अन्यधर्मिकभेदसिद्ध्याऽर्थान्तरवारणाय पटादिधर्मिकेति ।
 घटात्यन्ताभावान्यत्वेन सिद्धार्थताभङ्गाय संसर्गानवच्छिन्नप्रतियोगिताकेति ।
 पटादिधर्मिकरूपादिप्रागभावान्यत्वमादाय तद्दोषवारणाय घटेति ।
 तस्य च घटप्रतियोगिकत्वाभावान्न दोषः ।
 अत्राभावान्तरस्य दृष्टान्तत्वसम्भवेऽपि पटधर्मिकानाद्यभावान्यत्वस्य पटध्वंसे स्फुटत्वात्तस्यैव दृष्टान्तीकरणमिति ज्ञातव्यम् ।

केचित्तु घटसंसर्गेणानवच्छिन्नप्रतियोगिताको यः पटाधर्मिकानाध्यभावस्तदन्यत्वं साध्यार्थः ।
 घटात्यन्ताभावान्यत्वमादाय सिद्धसाधनवारणाय घटसंसर्गेत्यादि ।
 तत्र घटपदं तु दृष्टान्ते पटात्यन्ताभावान्यत्वमादाय साध्यसत्त्वनिर्वाहार्थम् ।
 घटपटभेरूपोद्देश्यसिद्ध्यर्थं पटादिधर्मिकेति ।
 पटीयरूपादिध्वंसान्यत्वमादाय सिद्धार्थत्वनिरासायानादीति ।
 प्रथमदलस्य घटसंसर्गावच्छिन्नप्रतियोगिताकान्यपरतया तथाविघपटत्वाद्यन्यत्वमादाय तद्दोषवारणायाभावपदम् ।
 नन्वेवं दृष्टान्तवत् पक्षेऽपि पटात्यन्ताभावान्यत्वमादाय सिद्धसाधनम् ।
 न च घटप्रतियोगिकत्वेनाभावो विशेषणीयः ।
 दृष्टान्ते साध्यवैकल्यापत्तेः ।
 न च घटप्रागभावान्यत्वमादाय दृष्टान्ते साध्यसत्त्वनिर्वाह इति वाच्यम् ।
 तस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वपटादिधर्मिकत्वशून्यत्वात् ।
 घटपटयोरित्यग्रिमग्रन्थविरोधाच्च ।
 तस्य पटात्यन्ताभावान्यत्वमादाय दृष्टान्ते साध्यसत्त्वोपपादनपरत्वादिति चेन्न ।
 स्वप्रतियोगिप्रतियोगिकत्वेनाभावविशेषणात् ।
 स्वपदस्य प्रतिज्ञायां पक्षपरत्वादुदाहरणे च दृष्टान्तपरत्वात् न कोऽपि दोष इत्याहुः ।
 तच्चिन्त्यम् ।
 अनादिपदवैयर्थ्यापत्तेः ।
 अनुमानपञ्चकेऽप्यत्यन्ताभावमादायैव दृष्टान्ते साध्यसत्त्वोपपादने त्रैकालिकत्वानादित्वनित्यत्वरूपविभिन्नविशेषणोपादानस्य निर्बीजत्वप्रसङ्गाच्च ।
 एतेन व्यावहारिकभेदसिद्ध्याऽर्थान्तरवारणमनादिप्रदप्रयोजनमित्यपास्तम् ।
 तावन्मात्रस्य तत्प्रयोजनत्वे पूर्वानुमानेऽप्यनादित्वस्यैव लाघवेन निवेशनौचित्यात् ।
 अग्रिमग्रन्थस्त्वनुकूलतयैव व्याख्यास्यते ।
 तस्माद्धटध्वंसप्रागभावयोः संसर्गानवच्छिन्नप्रतियोगिताकत्वपटादिधर्मिकत्वाभ्युपगमाभिप्रायक एवायं ग्रन्थ इति युक्तमुत्पश्यामः ।

॥ घटध्वंसो वेति ॥ घटस्य यः संसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकनित्याभावस्तदन्य इत्यर्थः ।
 दृष्टान्ते घटध्वंसान्यत्वमादाय पक्षे च घटभेदान्यत्वमादाय साध्यमुपपादनीयम् ।
 घटप्रागभावन्यत्वमादाय सिद्धसाधनवारणाय नित्येति ।
 उद्देश्यसिद्ध्यर्थं पटादिधर्मिकेति ।
 घटात्यन्ताभावान्यत्वमादाय सिद्धार्थताभङ्गाय संसर्गानवच्छिन्नप्रतियोगिताकेति ।
 पटीयरूपध्वंसान्यत्वमादाय तद्दोषनिरासार्थं घटेति ।
 अत्रापि पटध्वंसादेर्दृष्टान्तत्वसम्भवेऽपि पूर्ववत् स्फुटप्रतिपत्तये प्रागभावग्रहणम् ।

नन्वत्र घटपक्षकानुमाने दृष्टान्तस्य साध्यवैकल्यम् ।
 घटपटयोरभेदमते पटात्यन्ताभावस्यापि घटसंसर्गावच्छिन्नप्रतियोगिताकत्वेन तदन्याभावप्रतियागित्वस्य पटादावभावात् ।
 एवं घटात्यन्ताभावादिपक्षकानुमानेषु सिद्धसाधनम् ।
 पटात्यन्ताभावस्यापि घटप्रतियोगिकतया पटसंसर्गस्यापि घटनिष्टधर्मतया पटप्रागभावध्वंसयोरपि घटप्रतियोगिकत्वपटधर्मिकत्वसम्भवेन च तत्तदन्यत्वरूपसाध्यस्य घटात्यन्ताभावादिरूपपक्षे सिद्धत्वादित्यत आह - घटपटयोरिति ॥ पटात्यन्ताभावादेरित्यादिपदेन पटसंसर्गपटप्रागभावपटध्वंसानां परिग्रहः ।
 धटसंसर्गानवच्छिन्नप्रतियोगिताकत्वादेरित्यादिपदेन घटप्रतियोगिकत्वधटनिष्ठधर्मत्वपटधर्मिकत्वानां राहित्यपरिग्रहः ।
 दृष्टान्तस्य साध्यवैकल्यादीत्यादिपदेन सिद्धसाधनपरिग्रहः ।
 यत्त्वत्यन्तान्योन्याभावयोरैक्यमते घटान्योन्याभावस्य घटसंसर्गावच्छिन्नप्रतियोगिताकान्यत्वायोगाद् बाधस्यादिपदेन सङ्ग्रह इति तन्न ।
 उभयसिद्धप्रमाणविरोधाभावेन बाधानवकाशात् ।
 अत्यन्ताभावस्य सत्यत्वेन मिथ्याभूतान्योन्याभावैक्यायोगाच्च ।
 अन्यथा पटात्यन्ताभावस्य त्रैकालिकत्वायोगेन दृष्टान्तवैकल्यस्य दुरुद्धरत्वप्रसङ्गात् ।
 तस्माद्भावाद्वैतनिरासपरोऽसौ ग्रन्थ इत्यवदेयम् ।

॥ अन्यथेति ॥ उक्तव्यवस्थानिर्वाहकव्यावहारिकभेदानङ्गीकार इत्यर्थः ।
 सिद्धघटस्य लब्धघटस्य पटसामग्र्यां प्रवृत्तिर्न स्यादित्यर्थः ।
 कारणीभूतपटेच्छानुपपत्तेरिति भावः ।
 त्रैकालिकत्वादिनेत्यादिनाऽनादित्वनित्यत्वपरिग्रहः ॥ तदयोगादिति ॥ त्रैकालिकत्वाद्ययोगादित्यर्थः ।
 व्यावहारिकस्याविद्याकार्यत्वादिति भावः ।
 नन्वेतावताऽप्यर्थान्तरत्वं दुर्वारमेव ।
 यावत्कालवृत्तित्वरूपत्रैकालिकत्वस्य व्यावहारिकभेदेऽपि सम्भवात् ।
 कालस्याप्यविद्याकार्यत्वेन तदभावे तदभावावश्यम्भावात् ।
 एवं पूर्वोत्तरकालराहित्यरूपानादित्वनित्यत्वयोरपि सम्भवो द्रष्टव्यः ।
 मैवम् ।
 प्रागभावाप्रतियोगित्वमनादित्वम् ।
 ध्वंसाप्रतियोगित्वं नित्यत्वम् ।
 तदुभयशालित्वं च त्रैकालिकत्वम् ।
 न चैतद् व्यावहारिके सम्भवति ।
 न च व्यावहारिकेऽप्यविद्यावदनादित्वमिष्यत इति वाच्यम् ।
 स्वरूपतोऽनादित्वेऽविद्याकार्यत्वानुपपत्तेः ।
 अन्यथा नित्यस्य निवृत्तिरित्यपि स्यात् ।
 प्रतियोगितादात्म्याविद्यानधीनप्रतीतिकत्वरूपानादित्वविवक्षायामर्थान्तरशङ्कानवकाशाच्चेति दिक् ।
 ननूक्तानुमानेषु पक्षेतरत्वादिकमुपाधिः ।
 अनुकूलतर्काभावे पक्षेतरत्वस्याप्युपाधित्वसम्भवात् ।
 अत एव तादात्म्यानवच्छिन्नप्रतियोगिताकत्वेनाभावविशेषणादाभाससमानयोगक्षेमत्वमप्रयोजकत्वं चेत्यत आह - अनुकूलतर्कस्येति ॥ घटपटाद्यभेदस्य पारमार्थिकत्वे घटपटादिस्वरूपं पारमार्थिकं स्यादित्यतिप्रसङ्गरूपस्यात्रैवोक्तत्वात् ।
 अन्यत्रेति पाठे जडभेदाभावे मुक्तिसाङ्कर्यादिप्रसङ्गरूपस्य न्यायामृतादौ चोक्तत्वादित्यर्थः ।
 इदमुपलक्षणम् ।
 ` आत्मन आकाशः सम्भूतः ।
 आकाशाद्वायुः ।
 वायोरग्निः ।
 अग्नेरापः ।
 अद्भ्यः पृथिवी ।
 पृथिव्या ओषधयः' इत्यादयः श्रुतयोऽपि जडभेद उदाहर्तव्याः ।
 
(32) (श.) प्रपञ्चेति ॥ उक्तानुमानेऽप्रसिद्धविशेषणत्वस्वरूपासिद्धिव्यभिचारपरिहारे प्रयासगौरवमित्यपरितोषादाह - किञ्चेति ॥ घटसंसर्गानवच्छिन्नेति ॥ घटसंसर्गेणानवच्छिन्ना अव्यावृत्ता प्रतियोगिता यस्यासौ घटसंसर्गानवच्छिन्नप्रतियोगिताकः ।
 यत्प्रतियोगिता घटसंसर्गेण नावच्छिद्यते घटसंसर्गलक्षणप्रतियोगितावच्छेदकरहित इति यावत् ।
 स चासौ पटादिधर्मिकः पटादिवृत्तिः ।
 त्रैकालिकः त्रिकालवृत्तिर्योऽभावः तत्प्रतियोगीत्यर्थः ।
 अत्र पटादिधर्मिकाभावप्रतियोगीत्युक्ते प्रागभावध्वंसाभावप्रतियोगित्वमादायार्थान्तरता अतस्त्रैकालिकेति ।
 तयोश्च क्रमेण प्रतियोगिपूर्वोत्तरकालमात्रवृत्तित्वात् ।
 तावत्युक्तेऽत्यन्ताभावप्रतियोगित्वमादायार्थान्तरता ।
 अतो घटसंसर्गानवच्छिन्नप्रतियोगिताकेति ।
 अत्यन्ताभावस्य संसर्गरूपप्रतियोगितावच्छेदकोपेतत्वान्न तथात्वम् ।
 तावत्युक्ते दृष्टान्ते साध्यवैकल्यम् ।
 एवंविधस्यान्योन्याभावरूपत्वेन तत्प्रतियोगित्वस्य पटे परेणानभ्युपगमात् ।
 अतो घटेति ।
 तादृशश्च पटात्यन्ताभावः तत्प्रतियोगित्वं पटे ।
 परेणाभ्युपगमात् ।
 पटात्यन्ताभावस्य पटसंसर्गावच्छिन्नप्रतियोगिताकत्वेन घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वात् ।
 एवमभावत्रयव्यावृत्ताभावप्रतियोगित्वे घटस्य सिद्धे तादृशाभावस्यान्योन्याभावानतिरेकद्धटपटभेदसिद्धिः ।
 उक्तानुमानेऽत्यन्ताभावव्यावृत्त्यर्थं घटसंसर्गानवच्छिन्नप्रतियोगिताकेति विशेषणप्रवेशाद्गौरवमित्यपरितोषादाह - घटात्यन्ताभाव इति ॥ घटप्रतियोगिकेति ॥ घटप्रतियोगिकः पटादिधर्मिकः त्रैकालिकोयोऽभावः तदन्य इत्यर्थः ।
 अत्र पटप्रतियोगिकपटादिधर्मित्रैकालिकपटात्यन्ताभावान्यत्वसिद्ध्याऽर्थान्तरवारणाय घटप्रतियोगिकेति ॥ इतरत्पूर्ववद्द्रष्टव्यम् ॥ पटाभाववदिति ॥ तत्रोक्तविधघटात्यन्ताभावान्यत्वसद्भावादिति भावः ।
 प्रतियोगितावच्छेदकपक्षकानुमानमाह - घटसंसर्ग इति ॥ पटादिधर्मिकोयोयं त्रैकालिकोभावः तस्य प्रतियोगितावच्छेदकीभूतोयोयं घटनिष्ठधर्मः तदन्य इत्यर्थः ।
 अयमर्थः ।
 त्रैकालिकाभावोहिद्विविधः ।
 अत्यन्ताभावोऽन्योन्याभावश्च ।
 तत्रात्यन्ताभावप्रतियोगितावच्छेदधर्मः संसर्गः ।
 अन्योन्याभावप्रतियोगितावच्छेदकं तादात्म्यम् ।
 तत्र घटसंसर्गस्यपटादिधर्मिकत्रकालिकाभावप्रतियोगितावच्छेदकघटनिष्ठधर्मान्यत्वे सिद्धे घटे तादृशाभावप्रतियोगितावच्छेदकधर्मान्तरसिद्धिः ।
 तस्य तादृशाभावप्रतियोगितावच्छेदकत्वञ्च तादृशाभावं विनानसिध्यति ।
 तादृशश्चान्योन्याभाव एवेति घटपटयोर्भेदसिद्धिरिति अत्र पटादिधर्मिकाभावप्रतियोगितावच्छेदकधर्मान्यत्वमात्रसाधने पटात्यन्ताभावप्रतियोगितावच्छेदकपटनिष्ठसंसर्गान्यत्वसिद्ध्याथा ।
 न्तरम् ।
 अतो घटनिष्ठेति ॥ पटादिधर्मिकाभावप्रतियोगितावच्छेदकघटनिष्ठधर्मान्यत्वसाधने प्रध्वंसप्रागभावप्रतियोगितावच्छेदकपूर्वोत्तरकालीनत्वरूपधमा ।
 न्यत्वसिद्ध्याऽर्थान्तरम् ।
 अतस्त्रैकालिकेति ॥ पटनिष्ठसंसर्गेति ॥ तत्रोक्तविधसंसर्गरूपधर्मान्यत्वसद्भावादिति भावः ।
 त्रैकालकत्वविशेषराप्रवेशेनानुमानद्वयमाह - घटप्रागभाव इत्यादिना ॥ घटसंसर्गानवच्छिन्नेति ॥ घटसंसर्गानवच्छिन्नप्रतियोगिताकः पटादिधर्मिको योऽभावः तदन्य इत्यर्थः ।
 अत्र प्रध्वंसान्यत्वसिद्ध्याऽर्थान्तरवारणायानादीति ।
 तस्य सादित्वात् ।
 अत्यन्ताभावान्यत्वसिद्ध्याऽर्थान्तरवारणाय घटसंसर्गानवच्छिन्नप्रतियोगिताकेति ॥ (घटप्रध्वंसवदिति) घटसंसर्गेति ॥ अत्र प्रागभावान्यत्वसिद्ध्याऽर्थान्तरवारणाय नित्येति ॥ तस्यानित्यत्वात् ।
 शेषं पूर्ववत् ॥ घटप्रागभाववदिति ॥ व्याख्यातप्रायमेतत् ।
 नन्वत्र द्वितीये घटपक्षकानुमाने पटरूपदृष्टान्ते साध्यवैकल्यम् ।
 घटेपटप्रतियोगिकात्यन्ताभावेविद्यमानेऽपि तस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वं नास्ति ।
 घटपटयोरैक्येन पटप्रतियोगिकात्यन्ताभावस्यापि घटसंसर्गावच्छिन्नप्रतियोगिकत्वेन घटत्वसंसर्गानवच्छिन्नप्रतियोगिताकत्वाभावादित्यत आह - घटपटयोरिति ॥ अत्यन्ताभावादेरित्युद्देश्यम् ।
 प्रतियोगिकत्वादेरिति विधेयम् ।
 ननु भेदाभावात्कथमिदमङ्गीकारे तयोरेकत्वादिति भावः ॥ सिद्धघटस्येति ॥ सिद्धोघटो यस्य स तथोक्तः तस्येत्यर्थः ॥ पटसामग्रीति ॥ घटपटयोरैक्येन घटस्य लाभे पटस्यापि लब्धत्वेन पटलाभायतत्सामग्रयां प्रवृत्तिर्न स्यादित्यर्थः ॥ व्यावहारिकेति ॥ उक्तानुमानेषु पारमार्थिकत्वविशेषणाभावादिति भावः ॥ तदयोगादिति ॥ ब्रह्मज्ञानबाध्यत्वस्यैव व्यावहारिकत्वेनान्योन्याभावस्य व्यावहारिकत्वे ब्रह्मज्ञानोत्तरम्बाधः स्यात् ।
 एवं च न त्रिकाले विद्यमानत्वमिति भावः ।
 ननु जडभेदसाधकानुमानेषु सर्वत्र पक्षेतरत्वस्योपाधित्वम् ।
 घटः पटसंसर्गानवच्छिन्नप्रतियोगिताकघटादिधर्मिकत्रैकालिकाभावप्रतियोगित्यपिसाधनसौलभ्येनाभाससमानयोगक्षेमत्वं हेत्वङ्गीकारेण साध्यपरित्यागसम्भवेनाप्रयोजकत्वं चेत्यत आह - अनुकूलतर्कस्यान्यत्रोक्तत्वादिति ॥ जडभेदाभावेभेदसिद्ध्यसिद्ध्योर्दोषतदभावयोश्चाभेदेन स्वक्रियाविरोधः स्यात् ।
 मुक्तिसाङ्कर्यं च स्यादित्यनुकूलतर्कस्य न्यायामृते द्वितीयपरिच्छेदे उक्तत्वादित्यर्थः ।
 उपलक्षणमेतत् ।
 घटपटयोस्तादात्म्यस्य पारमार्थिकत्वाङ्गीकार इत्यादिना प्रागुक्तत्वात् दूरस्थावनस्पत्योश्चशुक्तिरूप्ययोश्चाभेदग्राहिप्रत्यक्षन्तत्वावेदकं स्यादित्यादिना वक्ष्यमाणत्वाच्चेत्यपि द्रष्टव्यम् ।

(33) यदुक्तमभेदे प्रत्यक्षं प्रमाणमिति तदसत् ।
 अहङ्कारस्य चिदचित्संवलनात्मकस्य त्वया भिन्नत्वाङ्गीकारेणाहंप्रत्ययस्य तदभेदेऽप्रमाणत्वात् ।
 आद्यानुमानेऽवेद्यत्वरूपस्वप्रकाशत्वस्यास्माभिरनङ्गीकारादसिद्धिः ।
 अबाध्यत्वं तर्ह्यात्मत्वमिति चेत्तर्ह्यस्माभिर्देहादेः स्वरूपेणाबाध्यत्वाङ्गीकाराद्व्यभिचारः ।
 न च तदपि पक्षतुल्यमिति वाच्यम् ।
 त्वया(अपि) देहात्माभेदस्याध्यस्तत्वाङ्गीकारेण तदभेदस्यापारमार्थिकतया परमार्थतो न भिद्यन्त इति साध्याभावात् ।
 भेदाभावस्यैवाभेदत्वात् ।
 ज्ञानत्वं चेदात्मत्वं (तदा) नैयायिकं प्रत्यसिद्धेः ।
 ज्ञानाधारत्वं चेदात्मत्वं तवैवासिद्धेः ।
 उपाधेर्बाधव्यभिचारान्यतरोद्भावनद्वारा दूषणत्वपक्षे परमात्माननुसंहितदुःखाननुसन्धातृत्वमुपाधिश्च ।

(33) (भ.) एवं भेदे प्रमाणान्यभिधाय यदुक्तमभेदे प्रमाणत्रितयमस्तीति तत्र तावत्प्रत्यक्षं निराकर्तुमाह - पदुक्तमित्यादिना ॥ अहङ्कारस्येति ॥ यद्यप्यहम्प्रत्यय आत्मन एकत्वं गृह्णाति ।
 तथाऽपि त्वन्मते तस्य नात्मविषयः किन्त्वहङ्कार एव ।
 स च चिदचित्संवलनात्मकः ।
 चेतनाचेतनमिश्रान्तःकरणरूप इति यावत् ।
 अतोऽसावात्मना भिन्न एवाङ्गीकृतः ।
 तथा चात्मभिन्नाहङ्कारविषयस्याहम्प्रत्ययस्यात्माभेदे प्रमाणत्वेनाभिधातुमशक्यत्वादित्यर्थः ।
 उपलक्षणमेतत् ।
 अस्तु वाऽहम्प्रत्ययस्यात्मैक्यविषयत्वं तथाऽपि न तेन जीवेश्वराभेदसिद्धिः ।
 अयं स्तम्भ इत्येकाकारेणानुभूयामानस्यापि स्तम्भस्य पिशाचाभेदासिद्धेरित्यपिद्रष्टव्यम् ।
 अथाभेदविषयाण्यनुमानानि क्रमेण निराचष्टे ॥ आद्यानुमान इत्यादिना ।
 विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते आत्मत्वत्परमात्मवदित्यनुमान इत्यर्थः ।
 तत्रात्मत्वं नाम स्वप्रकाशत्वमिति परेणैवोक्तम् ।
 स्वप्रकाशत्वं च न स्वविषयप्रककाशरूपत्वम् ।
 कर्तृत्वकर्मत्वयोरेकत्र त्वन्मतेऽनङ्गीकारात् ।
 किन्त्ववेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वमेवेत्यङ्गीकृतम् ।
 तच्च प्रमणवेद्यत्वाङ्गीकारिणामस्माकमसिद्धमित्यर्थः ।
 देहादेर्नित्यत्वाद्यारोपितधर्मरूपेण बाध्यत्वेऽपि शक्तिरजतादिवत्स्वरूपेण बाध्यत्वाभावाद्धेतुमति देहादौ साध्याभावाद्व्यभिचार इत्याह - तर्हीति ।
 मायिमते देहादेः स्वरूपेणैव बाध्यत्वाङ्गीकारादस्माभिरित्युक्तम् ।
 यद्यपि सिद्धान्ते देहादेरेत्मनि स्वरूपेण वाऽऽत्मत्वादिधर्मरूपेण वाऽऽरोपितत्वं नास्त्येव ।
 मम देह इति ह्येव न देहोऽहमिति प्रमा ।
 उपचारश्च कृष्णोऽहमितीत्यादिवचनात् ।
 यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितमित्यादिपुराणवचनानि तु देहात्मनोः स्पष्टविवेकाभावपराणीत्युक्तत्वाच्च ।
 तथाऽप्यत्र नित्यत्वादिधर्मरूपेणारोपमङ्गीकृत्य स्वरूपेणाबाध्यत्वोक्तिरिति मन्तव्यम् ।
 न च सर्वात्मनाऽबाध्यत्वमेव हेतुत्वेन विवक्षितमिति वाच्यम् ।
 पक्षसपक्षयोरपि धर्मरूपेण बाध्यतासद्भावादसिद्धिसाधनवैकल्ययोरारोपापत्तिरिति ॥ तदपि देहादिकम् ॥ पक्षतुल्यत्वमिति ॥ सन्दिगधसाध्यममित्यर्थः ।
 तथा च तत्र साध्याभावनिश्चयाभावान्न व्यभिचारचोदनावकाश इति भावः ।
 देहादौ साध्याभावमुपपादयति - त्वाऽपीति ।
 आत्माभेदवादिनाऽपीत्यर्थः ।
 तदभेदस्य देहात्माभेदस्य ।
 ननु देहात्माभेदस्याध्यस्तत्वेनापारमार्थिकत्वेऽपि प्रकृतसाध्यस्य भेदाभावत्वेन तस्य सत्यत्वोपपत्त्या कथं देहादौ साध्याभाव इत्यत आह - भेदाभावस्यैवेति ॥ तथा चाभेदो भेदाभाव इति पर्यायत्वान्न देहादौ साध्यसत्त्वमिति भावः ।
 नन्वेवं चेत्सिद्धान्ते कथं कार्यकारणादीनां भेदाभेदोभयाङ्गीकार इति चेत् ।
 सत्यम् ।
 यद्यप्यभेदो न भेदाभावरूपः किन्तु तद्विरोधी ।
 विरोधश्च वध्यघातुकभावरूपः ।
 स च विरोधः क्वचिद्विशेषबलेन प्रतिबद्धो भवति ।
 यत्रात्यन्ताभेद एव तत्र भेदसामान्यघटको विशेषो नास्त्येव ।
 तथा च न सिद्धान्ते काऽप्यनुपपत्तिः ।
 तथाऽपि परमते नैवमङ्गीकर्तुं शक्यते ।
 भेदाभेदयोः क्वचित्सामानाधिकरण्यस्य विशेषानङ्गीकारिणा निर्वोढुमशक्यत्वात् ।
 अतस्तन्मते भेदाभावस्यैवाभेदरूपत्वेनावश्याङ्गीकार्यत्वात्तन्मतरीत्यैवेयमुक्तिरिति ॥ ननु सिद्धान्तेऽपि कथमभेदस्य भेदाभावाद्बहिर्भावः ।
 भेदस्य तादात्म्यप्रतिषेधरूपत्वात् ।
 अभावाभावस्य प्रतियोगिस्वरूपत्वनियमेन तादात्म्यस्य भेदाभावरूपत्वावश्यम्भावादिति चेन्न ।
 तथा सत्यत्यन्ताभावप्रतियोगिनोर्भेदाभेदयोरुभयोरप्यप्रामाणिकत्वप्रसङ्गात् ।
 प्रामाणिकस्यात्यन्ताभावप्रतियोगित्वा सम्भवस्योपपादितत्वात् ।
 अतो भेदो नाम तादात्म्यप्रतिषेधरूपोऽप्यन्योन्येभाव एव ।
 अत एव तस्य धर्मिस्वरूपत्वमङ्गीकृतम् ।
 भावाभावस्वरूपत्वान्नान्योन्याभावता पृथगित्यादौ ।
 अभेदस्तु भावस्वरूप एव न भेदात्यन्ताभावरूपः ।
 अत एव तस्यापि धर्मिस्वरूपत्वमङ्गीकृतम् ।
 अत्यन्ताभावरूपत्वे धर्मिस्वरूपत्वायोगात् ।
 तथा च सिद्धोऽभेदभेदाभावयोर्भेद इत्यलम् ॥ ज्ञानत्वं चेदिति ॥ यद्यपि सिद्धान्तेऽपि न ज्ञानत्वमात्मनः ।
 ज्ञातुर्ज्ञानत्वायोगात् ।
 अत एव प्रमाणलक्षणटीकायां स्वतन्त्रज्ञानमीशज्ञानमितीशज्ञानस्य लक्षणमभिधाय तत्र ज्ञानमितीशव्युदास इत्युक्तम् ।
 तथाऽपि सविशेषतादात्म्यसत्त्वान्नैयायिकं प्रतीत्युक्तम् ।
 तेन ज्ञानात्मनोरत्यन्तभेदस्यैवाङ्गीकारात् ॥ तवैवासिद्धेरिति ॥ ज्ञानरूपस्यात्मनो ज्ञानाधारत्वानङ्गीकारादिति भावः ॥ परमात्माननुसंहितदुःखाननुसन्धातृत्वमिति ॥ अत्र दुःखाननुसन्धातृत्वमित्युक्तौ परस्परदुःखाननुसन्धातृत्वस्य जीवेष्वपि सत्त्वादुपाधेः साधनव्यापकता स्यात् ।
 अतः परमात्माननुसंहितेति दुःखविशेषणम् ।
 ततश्च परमात्माननुसंहितं यद्दुःखं तदननुसन्धातृत्वमित्यर्थः ।
 ततश्च जीवेषु परस्परदुःखाननुसन्धातृत्वसत्त्वेऽपि न परमात्माननुसंहितात्वावच्छेदेन दुःखाननुसन्धातृत्वम् ।
 स्वस्वदुःखानुसन्धानसत्त्वात् ।
 अतो न साधनव्यापकतेति भावः ।
 यदि च दुःखशब्देन दुःखमात्रं विवक्ष्यते तदोपाधि व्यतिरेकेण बाधाद्युद्भावनेऽप्रयोजकताशङ्कायामनुकूलतर्कस्फोरणार्थमिदं विशेषणमिति बोध्यम् ।
 ननूपाधेः प्रतिपक्षोन्नायकत्वेनैव दूषणत्वं न स्वतः ।
 प्रकृते च न प्रतिपक्षः सम्भवति ।
 विमता आत्मानः परमात्मनः परमार्थतो भिद्यन्ते परमात्माननुसंहितदुःखानुसन्धातृत्वाद् व्यतिरेकेण परमात्मवदिति प्रतिपक्षानुमानं कार्यम् ।
 एतच्च प्राक् जीवो ब्रह्मप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणमित्यत्रैवोक्तम् ।
 अतो व्यर्थमिदमुपाध्युद्भावनमित्यत उक्तमुपाधेरित्यादि ।
 माऽस्त्वस्योपाधेः प्रतिपक्षोन्नायकत्वेन दूषणत्वम् ।
 तथाऽपि साध्यव्यापकत्वादुपाधेः पक्षाद्व्यावृतौ पक्षे साध्याभावस्यावश्यकत्वाद्बाधः ।
 पक्ष एव व्यभिचारो वा भविष्यतीति भावः ।
 स एवोपाधिदोषोऽपीति प्रमाणलक्षणादौ प्रतिपक्षोन्नायकत्वेनैवोपाधेर्दूषणताया उक्तत्वाद्बाधव्यभिचारान्यतरोद्भावनद्वारा दूषणत्वपक्ष इत्युक्तम् ।
 आधिक्याख्यनिग्रहस्थानपरिहारायान्यतरेति ।

(33) (मु.) एवं भेदे प्रमाणं प्रतिष्ठाप्याभेदे प्रमाणं पराचष्टे ॥ यदुक्तमित्यादिना ॥ चिदचित्संवलनात्मकस्येति ॥ अहमिति प्रत्ययस्याहङ्कारविशिष्टचैतन्यविषयकत्वेनाहमित्येकाकारेणानुभवेन न शुद्धैक्यसिद्धिरिति ॥ वस्तुतस्त्वहम्प्रत्ययस्य शुद्धविषयत्वेऽपि नाभेदविषयता ।
 चैत्रेण चैत्र एवाहं मैत्रश्च भविष्यामीत्यननुभवात् ।
 किन्तु सर्वात्मना प्रत्युक्तरूपैकाकाराक्रान्तत्वमात्रं गोचरयति ।
 अन्यथा घटेषु घटत्वैकाकारप्रत्ययात्तेषामैक्यं स्यात् ।
 तत्र स्थूलत्वाणुत्वादिभेदप्रत्ययोऽस्तीति चेत् ।
 अत्रापि सुखदुःखादिभेदप्रत्ययोऽस्तीत्युक्तम् ।
 एतेनाहमनुभवस्य विशिष्टैक्यसिद्धिरिति निरस्तम् ॥ आद्य इति ॥ विमता आत्मान इत्याद्यनुमान इत्यर्थः ।
 हेतूकृतमात्मत्वं नाम स्वप्रकाशत्वमित्युक्तम् ।
 तदेव वेद्यत्वं स्वप्रकाशत्वं वा ।
 नाद्य इत्याह - अवेद्यत्वे सतीति ।
 न द्वितीयः ।
 तस्यासिद्धेः ।
 शिष्यशङ्कयाऽस्त्यप्रयोजकत्वं ब्रह्मानन्दाद्यननुसन्धानमुपाधिश्चेत्युत्तरं बाध्यम् ।
 एतेन स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं स्वप्रकाशत्वमिति परास्तम् ॥ स्वरूपेणेति ॥ अन्यथा विज्ञातस्य सम्यग्विदितत्वरूपं बाध्यत्वाङ्गीकारेऽपि स्वरूपेणाबाध्यत्वाङ्गीकारादित्यर्थः ।
 सर्वथा बाध्यत्वविवक्षायामसिद्धिश्चेत्यपि ज्ञेयम् ॥ अध्यस्तत्वाङ्गीकारेणेति ॥ अन्यथा देहात्मवादिचार्वाकनिराकरणानुपपत्तिरिति ध्येयम् ॥ इति साध्याभावादिति ॥ परमार्थत इत्युक्तविशेषणस्य बाधितत्वादित्यर्थः ।
 ननु तर्हि चिदाचिदैक्याभावे तस्य सर्वाद्वैतवादिनं कथमित्यत आह - भेदाभावस्यैवेति ॥ भेदापारमार्थिकत्वाभावस्येत्यर्थः ।
 नाद्वैतवादित्ववादिविरोध इति वाक्यशेषः ।
 यद्वा परमात्मनो न भिद्यन्त इत्यत्र परमात्मप्रतियोगिकभेदाभावमात्रस्यैव विवक्षितत्वेन देहादेरपि पक्षत्वे देहात्मभेदापत्तिरित्यत आह - भेदाभावस्यैवेति ॥ नैयायिकं प्रतीति भेदवादिनां सर्वेषां प्रतिवदित्वादिति भावः ।
 वस्तुतस्तु ज्ञेयभावाज्ज्ञानत्वं दुर्निवाहम् ।
 सव्यभिचारश्चेत्यूह्यम् ॥ उपाधेश्चेति ॥ यत्र परमात्मभेदस्तत्रोपाधिः ।
 शिष्टं तु प्रयोजकतास्फुरणार्थम् ।
 ननूपाधेः सत्प्रतिपक्षोन्नायकत्वेनात्र ब्रह्माननुसंहितदुःखानुसन्धातृत्वानुमानस्य साम्यमेव प्राप्तमिति नास्य स्वपक्षनिर्णायकत्वं स्यात्तथा चास्यैवानुमानस्य पृथक् स्वपक्षनिर्णायकप्रयोगो व्यर्थ इत्यत उक्तमुपाधेर्बाधव्यभिचारोद्भावनद्वारा दूषकतापक्ष इति ॥ परोक्तात्मत्वस्य प्रयोजकत्वादस्य च व्याहतिसत्त्वेन तद्बाधकत्वेनोपपत्तिरिति भावः ।

(33) (कु.) ॥ अहङ्कारस्येति ॥ चिदचित्संवलनात्मकस्येत्यात्मभिन्नत्वे हेतुः ।
 तदभेदे आत्माभेदेऽप्रमाणत्वात् ।
 प्रमाणत्वाभावादित्यर्थः ।
 अथवा प्रमाणत्वादिति पदच्छेदः ।
 तदा तदभेदेऽहङ्कारभेदे ।
 अहङ्काराभेदे एव प्रमाणत्वान्नात्मभेद इति योजना ॥ आद्यानुमान इति ॥ विमता आत्मानः परमात्मनस्तत्त्वतो न भिद्यन्ते आत्मत्वात्परमात्मवदित्यत्रेत्यर्थः ॥ असिद्धिरिति ॥ आत्मत्वं न हि जातिः किन्तु स्वप्रकाशत्वमिति त्वयैवोक्तं तच्चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वमिति त्वयैव निरुच्यते स्वग्रन्थेषु ।
 तत्रावेद्यत्वस्यास्मन्मते आत्मत्वस्यैवाभावादसिद्धिरित्यर्थः ॥ तर्हीति ।
 मन्मते देहादेरारोपितं धर्मतो बाधोऽपि स्वरूपेणाबाध्यत्वात् ।
 परमात्मप्रतियोगितात्त्विकभेदाभावाद्व्यभिचार इत्यर्थः ।
 सर्वात्मना बाध्यत्वं न हेतूकर्तुं शक्यते पक्षसपक्षयोरपि धर्मतो बाधादिति भावः ।
 ननु देहात्माभेदस्याध्यस्तत्वेऽपि देहात्मभेदाभावः सत्यः किन्न स्यादित्यत आह - भेदाभावस्यैवेति ॥ लाघवादिति भावः ॥ उपाधेरिति ॥ साध्यव्यापकस्य पक्षावृत्तिवृत्तित्वे बाधोद्भावनं तद्वृत्तित्वे व्यभिचारोद्भावनं द्वारमित्यर्थः ॥ परमात्माननुसंहितदुःखानुसन्धातृत्वमिति ॥ अत्र परमात्माननुसंहितेति नोपाधिघटकम् ।
 अव्यावृत्तकत्वात् ।
 किन्तूपाधि व्यतिरेकेण बाधोन्नयनदशायामनुकूलतर्कस्फोरणार्थम् ।
 सत्प्रतिपक्षोन्नायकत्वेन दूषकत्वे तु सत्प्रतिपक्षत्वेऽपि पक्षमात्रव्यावर्त्तकविशेषणवत्त्वादयमेवोपाधिः स्यादिति नानेन सत्प्रतिपक्षोन्नयनं कर्तुं शक्यमिति स पक्षस्त्यक्त इति वा बोध्यम् ।
 सुप्तमूर्छितेत्यादिव्यभिचारित्वं तु प्रागेव विवेचितम् ।

(33) (हु.) एवं स्वपक्षे प्रमाणानि व्यवस्थाप्य भेदाभावे परोक्तप्रत्यक्षादिप्रमाणानि क्रमान्निराकरोति ॥ यदुक्तमित्यादिना ॥ चिदचित्संवलनात्मकस्येति ॥ अन्तःकरणावच्छिन्नचित्त एवाहं पदार्थतयाऽन्तःकरणानां च भिन्नत्वेन तद्भेदावश्यकत्वात् ।
 सा प्रतीतिः सर्वचिदैक्ये न प्रमाणं किन्तु अन्तःकरण(त्वरूप)जात्यैक्य एव प्रमाणं स्यादित्यर्थः ।
 तदभेदे चिदभेदेऽप्रमाणत्वात् प्रमाणत्वाभावादित्यर्थः ॥ आद्यानुमान इति ॥ विमता आत्मान इत्यनुमाने आत्मत्वं स्वप्रकाशत्वमिति पूर्वपक्षावसरे उक्तत्वात्तन्निराकरोति ॥ अवेद्यत्वेऽति ॥ अपरोक्षव्यवहारगोचरत्वे सति अवेद्यत्वमिति परैः स्वग्रन्थे निष्कर्षस्य कृतत्वात् ततासिद्धिमाह - अस्माभिरिति ॥ (* इदं सावतरणं प्रतीकं मु.पाठे न दृश्यते ।
) स्वातिरिक्तसंविदनपेक्षत्वमप्यसिद्धं सुषुप्तिकाले (स्व)व्यवहारस्यैवाभावात् ।
 सुषुप्त्युत्तरकालीनस्याभिलपनरूपस्य व्यवहारस्य देहादितादात्म्याध्यासमालादिज्ञानेष्टसाधनताज्ञानादिरूपस्वभिन्नज्ञानसापेक्षताया (* `देहादितादात्म्यरूपासन्मालादिज्ञानेष्टसाधनताज्ञानादिरूपस्य भिन्नज्ञानसापेक्षताया' मु. ।
 ) अपि नियमेन सत्त्वात् ।
 स्वातिरिक्तसंविदधीनस्वव्यवहारस्यैवाभावादित्यपि द्रष्टव्यम् ।
 उपलक्षणविधया दिङ्मात्रप्रदर्शनं कृतम् ।
 अत (एव) एतादृश(स्व)प्रकाशत्वस्य हेतुत्वसम्भवात्कथमनुमानमसिद्धमिति शङ्कानवकाशः ॥ देहादेरिति ॥ स्वरूपेणेति ॥ आत्मतादात्म्यरूपेण वा परानायत्तस्वस्वात्मिकत्वरूपेण वा बाध्यत्वात्स्वरूपेणेत्युक्तम् ।
 सर्वात्मना बाध्यत्वाभावादात्मन्यपि नास्ति, देहतादात्म्यादिरूपेण बाध्यत्वादिति भावः ॥ पक्षतुल्यत्वमिति ॥ परमात्मप्रतियोगिकपारमार्थिकभेदाभावस्य देहादावपि मयाऽङ्गीकारादिति भावः ॥ त्वयाऽपीति ॥ अपिर्नैयायिकादिसमुच्चये ॥ देहात्माभेदस्येति ॥ साध्याभावादिति ॥ भेदाभेदरूपविरुद्धधर्मयोर्मध्येऽभेदस्य पारमार्थिकतायास्त्वयैवोक्तत्वेन भेदस्य पारमार्थिकत्वं बलाद्वाऽऽगतमिति व्यभिचारो दुरुद्धर इति भावः ॥ नैयायिकं प्रतीति ।
 तस्यापि भेदसत्यत्ववादित्वादिदानीं (* `भेदसत्यत्ववादिनीं' मु.) तत्प्रक्रियामवलम्ब्यैव विचारस्य प्रवृत्तत्वादिति भावः ।
 तवैवेति ॥ वृत्तिज्ञानोपादाने तदाधारत्वं मनस एव न पक्षीभूतात्मनि ।
 स्वरूपज्ञानग्रहणे न तदाधारत्वमात्मनि स्वस्य स्वाधारत्वायोगादित्यसिद्धिरित्यर्थः ॥ उपाधेरिति ॥ साध्यव्यापकत्वेन गृहीतोपाध्यभावात्साध्याभावस्यैव निश्चयेन बाध एव तस्यान्तर्भावादिति भावः ।
 सत्प्रतिपक्षोत्थापकत्वे समबलत्वं स्यादिति समबलप्रमाणविरोधस्यैव सत्प्रतिपक्षत्वात् ।
 तच्च न घटते ।
 उक्तोपाध्यभावरूपपरमात्माननुसंहितदुःखानुसन्धातृत्वस्यानुकूलतर्कसाचिव्येन भेदनिर्णायकताया एव सत्त्वात्पक्ष इत्युक्तम् ।
 सत्प्रतिपक्षोत्थापकत्वे पक्षेतरत्वपर्यवसाय्येतदुपाध्यभावरूपसत्प्रतिपक्षहेतावपि (* अयं मु.पाठहु.पाठयोराधारेण निष्पन्नः पाठः ।
 `-त्थापकत्व-' इति हु. `-पर्यवसाने तदुपाधि-' इति मु.) पक्षेतरत्वस्योपाधित्वं वक्तुं शक्यत इति तत्पक्षपरित्याग इति केचित् ।
 विशिष्टोपाध्यभावरूपहेतौ पूर्वोक्तरीत्या व्याप्तिग्रहौपयिकत्वाद्विशिष्टस्योपाधित्वं दुःखाननुसन्धातृत्वमात्रस्यैवोपाधित्वमितरांशस्य साध्याभावानुमानेऽनुकूलतर्कोत्थापकत्वेन सार्थक्यमेवेत्यवधेयम् ।

(33) (का.) एवं भेदे प्रमाणमुपपाद्य परोक्तमभेदप्रमाणं खण्डयति - यदुक्तमिति ॥ अहङ्कारस्येति ॥ अहम्प्रत्ययविषयस्यान्तःकरणावच्छिन्नचिद्रूपस्य शुद्धचिद्रूपत्वाभावान्न तत्प्रत्ययस्य शुद्धचिदैक्यप्रमाणत्वमिति भावः ।
 यदप्युक्तमनुमानानि चेत्यादि तदप्यसदित्याह - आद्यानुमान इति ॥ विमता आत्मनः परमात्मनः परमार्थतो न भिद्यन्ते ।
 आत्मत्वात् ।
 परमात्मवदित्यनुमान इत्यर्थः ।
 अत्र हेतुभूतमात्मत्वं स्वप्रकाशत्वमित्युक्तम् ।
 तद्दूषयति - अवेद्यत्वेति ॥ प्रकाशाविषयत्वरूपस्य स्वेतरप्रकाशाविषयत्वरूपस्य वेत्यर्थः ।
 अस्माभिरनङ्गीकारादित्यनेन स्वात्मकप्रकाशविषयत्वरूपस्वप्रकाशत्वस्य क्रियाकर्मविरोधेन परैरनङ्गीकारादसिद्धिरिति सूचितम् ।
 इतोऽतिरिक्तस्वप्रकाशत्वं तु दुर्वचमेवेति भावः ।
 तर्हि न स्वप्रकाशत्वमात्मत्वम् ।
 अपि तर्ह्यन्यदेवेत्याशङ्कते - अबाध्यत्वमिति ॥ ननु देहादेरारोपितकर्तृत्वाद्याकारेण बाध्यत्वात् कथमबाध्यत्वमित्याशङ्कापरिहाराय स्वरूपेणेत्युक्तम् ।
 अयं भावः ।
 सर्वथाऽबाध्यत्वस्य हेतुत्वेऽसिद्धिः ।
 आत्मनोऽप्यारोपिताकारेण बाध्यत्वात् ।
 अतः सत्त्वेनाबाध्यत्वं वाच्यम् ।
 तच्च सत्त्वप्रकारकप्रमितिविषयत्वपर्यवसितं देहेन्द्रियादौ साध्यशून्येऽप्यस्तीत्यनैकान्त्यमिति ।

ननु देहादावप्यात्माभेदसाधनान्न दोष इत्याशङ्कां निराह - न चेति ॥ पक्षतुल्यं प्रकृतधर्मितुल्यं सन्दिग्धसाध्यकमिति यावत् ।
 निश्चितसाध्याभाववति व्यभिचारस्यैव दोषत्वादिति भावः ।
 देहादेः पक्षतुल्यत्वमसिद्धम् ।
 तत्रात्माभेदाङ्गीकारेऽपसिद्धान्तापत्तेरित्याह - त्वयाऽपीति ॥ अध्यस्तत्वेति ॥ अन्यथा देहात्मनोरितरेतराध्याससमर्थनानुपपत्तेरिति भावः ।
 तदभेदस्य देहपरमात्माभेदस्यापारमार्थिकतया पारमार्थिकभेदाभावरूपसाध्याभावादित्यर्थः ।
 नन्वभेदस्यापारमार्थिकत्वेऽपि कुतस्तादृशसाध्याभाव इत्यत आह - भेदाभावस्येति ॥ न चाभेदस्तादात्म्यम् ।
 तच्च स्वरूपमेव न भेदाभाव इति वाच्यम् ।
 आत्मस्वरूपस्याप्यध्यस्तत्वेन मिथ्यात्वापातात् ।
 न चाध्यस्तमपि देहादिस्वरूपमेव मिथ्या, नात्मस्वरूपमिति वाच्यम् ।
 इतरेतराध्यासे वैचित्र्यकल्पनस्यायुक्तत्वात् ।
 देहात्मनोः पारमार्थिकभेदाभावे तत एव तदुभयस्वरूपैक्यापत्तेश्च ।
 इदमुपलक्षणम् ।
 देहादेः पक्षतुल्यत्वेऽपि सन्दिग्धानैकान्त्यं दुर्वारमेव ।
 अनुकूलतर्काभावे तस्यापि दोषत्वादित्यपि बोध्यम् ।
 ।

॥ असिद्धेरिति ॥ नैयायिकेनात्मनो ज्ञानाधारत्वस्यैवोपगमात् पक्षदृष्टान्तयोः साधनस्य व्याप्तेश्चासिद्धेरित्यर्थः ।
 यद्यपि वृत्तिज्ञाने व्यभिचारः सिद्धान्तेऽपि शक्यते वक्तुम् ।
 तथापि नित्यज्ञानत्वस्य हेतुत्वेन तथेत्याशयः ॥ तवैवासिद्धेरिति ॥ आत्मनो ज्ञानमात्रत्वाङ्गीकारादिति भावः ।
 न चाजडत्वमात्मत्वमिति वाच्यम् ।
 जडत्वस्यानात्मत्वरूपतया परस्पराश्रयात् ।
 न च पृथिव्यादिद्रव्यान्यत्वे सति गुणाद्यन्यत्वमात्मत्वमिति वाच्यम् ।
 मां प्रति गुणाद्यन्यत्वासिद्धेः ।
 तदनुक्तौ तार्किकमते गुणादौ व्यभिचारात् ।
 कथञ्चित् हेतुनिर्वचनेऽप्यनुकूलतर्काभावादुपाध्यादिग्रस्तत्वं दुर्वारमित्याह - उपाधेरिति ॥ अत्र परमात्माननुसंहिताननुसन्धातृत्वमात्रं दुःखाननुसन्धातृत्वमात्रं वोपाधिः ।
 प्रथमे दुःखेति स्वरूपकीर्तनम् ।
 द्वितीये परमात्माननुसंहितेत्युपाधेः साध्यव्यापकत्वोपपादनमित्यवगन्तव्यम् ।
 ननूपाधेर्बाधव्यभिचाराद्यनात्मकत्वाददूषणत्वमित्यत उक्तम् ॥ दूषणत्वपक्ष इति ॥ साक्षादनुमित्यविरोधित्वेन दूषणत्वायोगाद्बाधव्यभिचारोद्भावनद्वारेति ॥ परार्थप्रसङ्गादुद्भावनेत्युक्तम् ।
 बाधोन्नयनद्वारा व्यभिचारोन्नयनद्वारा वेत्यर्थः ।
 प्रकृते चोपाध्यभावेन पक्षे साध्याभावानुमानस्योपाधि व्यभिचारेण हेतौ साध्यव्यभिचारानुमानस्य च सम्भवादिति भावः ।
 यद्वा ननु पक्षे साध्यसन्देहेन विपक्षे च हेत्वभावेन क्वचिदुपाधेव्यभिचारोन्नायकत्वासम्भवात्कथं दूषणत्वमित्यत उक्तम् ॥ बाधव्यभिचारोद्भावनद्वारेति ॥ बाधोन्नीतव्यभिचारोन्नयनद्वारेत्यर्थः ।
 तथा चोपाधेः पक्षे साध्याभावनिश्चयसम्पादनद्वारा व्यभिचारोन्नायकत्वं सम्भवतीत्याशयः ।
 अत्र च बाधोन्नायकत्वेनापि दूषणत्वं बोध्यम् ।

(33) (श.) - एवं भेदेप्रमाणत्रितयमुपपाद्य यदुक्तभेदेप्रत्यक्षं तावदित्यादिना प्रमाणत्रयं तन्निराकुर्वन्प्रत्यक्षं तावन्निराकरोति ॥ यदुक्तमित्यादिना ॥ अहं कारस्येति ॥ अहमिति प्रत्यक्षं खल्वात्माभेदे मानमुक्तम् ।
 तत्तदा स्याद्यदि तस्यात्मविषयकत्वं स्यात् ।
 नच तदस्ति ।
 तस्य त्वन्मतेछेतनाचेतनाचेतनमिश्रितान्तःकरणविषयत्वाङ्गीकारात् ।
 तस्य चात्मनो भिन्नत्वात् ।
 अतो नतद्विषयकाहम्प्रत्यय आत्माभेदेप्रमाणमित्यर्थः ।
 अथात्माभेदसाधकानुमानानि निराचष्टे ॥ आद्य इत्यादिना ॥ विमता आत्मानः परमार्थतः परमात्मनो न भिद्यन्ते आत्मत्वात् परमात्मवदित्यत्र परेणैव खल्वात्मत्वं स्वप्रकाशत्वं नजातिविशेष इत्युक्तम् ।
 तत्र स्वप्रकाशत्वं स्वविषयप्रकाशत्वरूपं कर्तृकर्मविरोधेन परेण नाङ्गीक्रियत इति प्रमाणान्तरावेद्यत्वरूपमेव तदङ्गीकार्यम् ।
 तच्च मां प्रत्यसिद्धम् ।
 मयाऽऽत्मनः प्रमाणान्तरवेद्यत्वाङ्गीकारादित्यर्थः ।
 तर्ह्यन्यदेवात्मत्वमस्त्वितिचेत् तत्किमबाध्यत्वरूपमुतज्ञानत्वरूपमथज्ञानाधारत्वरूपमिति विकल्पान्हृदिनिधायाध्यन्तावद्दूषयितुं शङ्कते - अबाध्यत्वमिति ॥ इदं चात्मनस्त्वयाप्यङ्गीगृतमिति न पूर्वोक्तदोष इति भावः ।
 दूषयति - तर्हि ति ॥ व्यभिचार इति ॥ अबाध्यत्वरूपहेतुमतिदेहादावात्मभेदाभावरूपसाध्याभावाद्व्यभिचार इत्यर्थः ।
 व्यभिचारमाशङ्क्यनिराकरोति ॥ नचेति ॥ तत् देहादि ।
 पक्षतुल्यं पक्षे यथाऽऽत्मभेदाभावः साध्यते तथा देहादावपि अतस्तत्र साध्याभावस्य सन्दिग्धत्वेन साध्यात्यन्ताभावनिश्चयवति हेतुवृत्त्यभावान्न व्यभिचार इत्यर्थः ।
 ननूक्तरीत्या निश्चितव्यभिचाराभावेऽपि सन्दिग्धव्यभिचारः स्यादेव ।
 साध्याभावसन्देहवतिहेतुनिश्चयस्यैव सन्दिग्धव्यभिचारत्वादिति चेन्न ।
 तथात्वे सर्वेषां हेतूनां साध्याभावसन्देहवति पक्षे विद्यमानत्वेनानुमानमात्रोच्छेदापत्तेः ।
 किन्तु निश्चितसाध्याभाववतिहेतुसन्देह एवसन्दिग्धव्यभिचारः ।
 नचायं प्रकृतेऽस्तीति भावः ।
 पक्षतुल्यत्वमेवासिद्धमित्याह - त्वयेति ॥ परमार्थत इति ॥ पारमार्थिकं परमात्मप्रतियोगिकभेदाभावरूपं यत्साध्यं तदभावादित्यर्थः ।
 कुत इत्यत उक्तं रदभेदस्येति ॥ देहात्माभेदस्येत्यर्थः ।
 तदपिकुत इत्यत उक्तम् ।
 त्वयेति ॥ अध्यस्तत्वमारोपितत्वम् ।
 अन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येति तदीयभाष्यादिति भावः नन्वत्रभेदाभाव एव साध्यते नाभेदः अतो मया देहाभेदस्याध्यस्तत्वाङ्गीकारेण तस्यापारमार्थिकत्वेऽपि देहात्मभेदाभावस्य पारमार्थिकत्वेनास्त्येव देहादौ साध्यमित्यत आह - भेदाभावस्येति ॥ तथाचाभेदस्याध्यस्तत्वाङ्गीकारे भेदाभावस्यापि तदङ्गीकृतमिति भावः ।
 द्वितीययमाशङ्क्य निराचष्टे ॥ ज्ञानत्वं चेदिति ॥ देहस्यचज्ञानरूपत्वाभावान्नोक्तदोष इति भावः ॥ नैयायिकं प्रतीति ॥ ज्ञानसमवायिकारणत्वमात्मत्वमिति वदता तेनात्मनो ज्ञानरूपत्वानङ्गीकारादिति भावः ।
 तृतीयमाशङ्कते - ज्ञानाधारत्वमिति ॥ न अयारिकेनात्मनो ज्ञानाधारत्वाङ्गीकारान्नोक्तदोष इति भावः ॥ तवैवासिद्धेरिति ॥ त्वन्मते आत्मनो निर्गुणत्वेन ज्ञानाधारत्वानङ्गीकारादुक्तदोष इति भावः ॥ परमात्माननुसंहितेति ॥ परमात्माननुसंहितं परमात्माननुभूतं यद्दुःखं तदननुसन्धातृत्वं तदननुभवितृत्वमित्यर्थः ।
 यत्रात्माभिन्नत्वं तत्र परमात्माननुसंहितदुःखाननुसन्धातृत्वं यथा परमात्मनि ।
 यत्रात्मत्वं न तत्र परमात्माननुसंहितदुःखाननुसन्धातृत्वम् ।
 जीवेष्वात्मत्ववत्सुपरमात्माननुसंहितदुःखानुसन्धातृत्वस्यैव सत्वेन साधना व्यापकत्वादिति भावः ।
 ननूपाधेः साक्षाद्धेतुदोषत्वाभावेन प्रतिपक्षोद्भावकत्वेन हेतुदोषत्वं वाच्यम् ।
 एवं चात्मानः परमात्मनः परमार्थतो भिद्यन्ते ।
 परमात्माननुसंहितदुःखानुसन्धातृत्वाद्व्यतिरेकेण परमात्मवदित्युपाधि व्यतिरेकेण प्रतिपक्षानुमानं कार्यम् ।
 इदं चव्यर्थम् ।
 आत्मभेदसाधनावसर एवास्योक्तत्वादित्यत उक्तम् उपाधेर्बाधव्यभिचारोद्भावनद्वारा दूषणत्वपक्ष इति ॥ उपाधेः साधनाव्यापकत्वे साधनवतः पक्षद्वयावर्तमान उपाधिः साध्यव्यापकत्वेन साध्यमपि व्यावर्तयति ।
 तथाच पक्षे साध्याभावनिश्चयाद्बाधः ।
 पक्षे साध्याभावपमाया एवबाधत्वात् ।
 तथोक्तरीत्या पक्षे साध्याभावनिश्चये तस्यैव विपक्षत्वात्तत्र हेतोः सत्वान्न व्यभिचारः ।
 हेतोर्विपक्षवृत्तित्वस्यैव व्यभिचारत्वादिति यन्मतं तदनुसारेणेदमुपाध्युद्भावनम् ।
 नतु तस्य स्वव्यतिरेकेण प्रतिपक्षोत्थापकत्वमिति मतानुसारेण ।
 अतो नवैयर्थ्यमिति भावः ।

(34) विमता आत्मानः परमात्मनोऽपरमार्थतो (अपरमार्थतोऽपि) न भिद्यन्ते आत्मत्वात् परमात्मवदित्याभाससमानयोगक्षेमत्वं च ।
 अनुकूलतर्काभावादप्रयोजकता च ।
 द्वितीये देवदत्तशब्देन तच्छरीरावच्छिन्नचैतन्यविवक्षायां यज्ञदत्तादिशरीराणां देवदत्तशरीरावच्छिन्नचैतन्याधीनत्वासम्भवेन तद्भोगायतनत्वे साध्ये बाधः ।
 अनवच्छिन्न(चैतन्य)विवक्षायां तस्याभोक्तृत्वेन बाधः ।
 सुप्तमूर्च्छितशरीरेषु व्यभिचारः ।
 तेषामपि पक्षसमत्वे (पक्षत्वे) बाधः ।
 न च वाच्यं भोगायतनत्वात्यन्ताभावानधिकरणत्वं साध्यमिति ।
 त्वया भोगायतनत्वस्य मिथ्यात्वाङ्गीकारेण तदधिकरणस्य शरीरस्य तदत्यन्ताभावाधिकरणत्वाङ्गीकारात् ।
 तृतीये साध्यानिरुक्तिः ।
 न चाधिष्ठानयाथात्म्यज्ञाननिवर्त्यत्वं तत् ।
 निवृत्तिशब्देन ध्वंसविवक्षायां मिथ्यात्वासम्भवात् अत्यन्ताभावविवक्षायां च बाधः ।
 त्वयाऽपि व्यवहारदशायां भेदाङ्गीकारेण (भेदाङ्गीकारे) तदयोगात् ।
 पारमार्थिकत्वाकारेण तथात्वमिति चेन्न ।
 अबाध्यत्वरूपस्य पारमार्थिकत्वस्य त्वयोच्यमानबाध्यत्वज्ञानाधीनज्ञानत्वेनान्योन्याश्रयात् ।

(34) (भ.) ॥ विमत इत्यादि ।
 विमतात्मनां परमात्मप्रतियोगिकापारमार्थिकभेदस्य तेनाङ्गीकारात्तदभावसाधनमनिष्टम् ।
 दृष्टान्ते पारमार्थिकभेदस्य तेनाङ्गीकारात् साध्यवैकल्यप्राप्तयाऽनुमानस्याभासत्वं च ज्ञातव्यम् ॥ द्वितीय इति ॥ विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वाद्देवदत्तशरीरवदित्यर्थः ।
 अत्र भोगायतनत्वात्यन्ताभावानधिकरणत्वं साध्यम् ।
 तेन सुषुप्तमूच्छ्रितमृतशरीरेषु न बाधो नापि व्यभिचार इति यत्प्राक् पूर्वपक्षिणोक्तं तदिदानीं दूषयिष्यन् प्रस्तावनाय पूर्वपक्षिणाऽऽशङ्क्य परिहृतमेव दूषणं स्वयमाह - सुप्तमूच्छ्रितेति ॥ यदर्थमिदं दूषणमभिहितं तदिदानीमाशङ्क्य निराकरोति ॥ न च वाच्यमिति ॥ मिथ्यात्वाङ्गीकारेणेति ॥ तन्मते स्वात्यन्ताभावसमानाधिकरणत्वरूपत्वान्मिथ्यात्वस्येति भावः ॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यत्रेत्यर्थः ।
 प्राङ्निरुक्तमेव मिथ्यात्वमाशङ्क्य निराकरोति ॥ न चेति ॥ अत्यन्ताभावविवक्षायां वेति ॥ अत्र निवृत्तिशब्देन यद्यप्यत्यन्ताभावविवक्षा कर्तुं न शक्यते ।
 तस्याजन्यत्वात् ।
 ज्ञाननिवर्त्यत्वस्य च ज्ञानजन्यनिवृत्तिप्रतियोगित्वरूपत्वात् ।
 तथाऽपि निवृत्तप्रतियोगितया ज्ञायमानत्वमेव निवर्त्यत्वमिह विवक्षणीयम् ।
 उभयत्रापि बाधमुपपादयति - त्वयाऽपीति ।
 भेदमिथ्यात्ववादिनाऽपि त्वया व्यवहारदशायां ज्ञानोत्तरजीवन्मुक्तिदशायां भेदानुवृत्त्यङ्गीकारेण ज्ञानेन भेदध्वंसस्यैवाभावात् ।
 अत्यन्ताभावस्य तु व्यवहारदशायां भेदाङ्गीकारेण सुतरामयोगात्तदयोगान्निरुक्तमिथ्यात्वायोगादित्यर्थः ।
 केचित्तु प्रध्वंसार्थकत्वपक्षे मिथ्याभूतस्य विनाशायोगादिति भाव इति बाधोपापादनं बहिरेव कृत्वा त्वयाऽपीति वाक्यमत्यन्ताभाव एवोपपादनार्थं प्रवृत्तमित्याहुः ।
 अत्यन्ताभावपक्षमङ्गीकृत्य बाधं परिहर्तुं शङ्कते - पारमार्थिकत्वाकारेणेति ॥ तथात्वमिति ॥ अत्यन्ताभावप्रतियोगित्वमित्यर्थः ॥ अबाध्यत्वेति ॥ पारमार्थिकत्वं नामाबाध्यत्वम् ।
 तच्च बाध्यत्वज्ञानाधीनज्ञानम् ।
 अभावज्ञानस्य प्रतियोगिज्ञानाधीनत्वात् ।
 बाध्यत्वं च पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वम् ।
 तथाचाबाध्यत्वसिद्धौ तद्रूपेणात्यन्ताभावप्रतियोगित्वरूपबाध्यत्वसिद्धिः ।
 तत्सिद्धौ च तदभावरूपाबाध्यत्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः ।

(34) (मु.) ॥ अपरमार्थतोऽपि न भिद्यन्त इति ॥ व्यावहारिकभेदेनापि रहिता इति यावत् ॥ परमात्मवदिति ॥ तस्य परप्रतियोगिकभेदाभावेन व्यावहारिभेदस्याभावादिति भावः ॥ अनुकूलतर्काभावादिति ॥ यदि परमात्माभेदो न स्त्तर्ह्यात्मत्वं न स्यात् ।
 नान्यतोऽस्तिद्रष्टेत्यादिनाऽन्यस्य ज्ञातृत्वनिषेधादिति तर्कोऽस्तीति चेन्न ।
 यदि परमात्माभेदः स्यात् ।
 केन कं पश्येदिति तस्य ज्ञातृत्वनिषेधादिति वैपरीत्येन तर्कस्य परानुकूलत्वादिति दिक् ॥ द्वितीय इति ॥ विमतानि शरीराणीत्यनुमान इति शेषः ॥ अधिष्ठानत्वासम्भवेनेति ॥ तस्य परिच्छिन्नत्वादिति भावः ।
 अधीनत्वासम्भवेनेति पाठे यज्ञदत्तादिशरीराणां यज्ञदत्तप्रयत्नानुगुणव्यापारविकलत्वेन तद्भोगायतनत्वादिति भावः ॥ बाध इति ॥ अपसिद्धान्तश्चेत्यपि ग्राह्यम् ।
 ननु देवदत्तान्यविशिष्टप्रविष्टविशेष्यभिन्नविशेयकविशिष्टान्तरमिति तद्भोगायतनत्वमेव देवदत्तभोगायतनत्वमिति चेन्न ।
 एकस्य विशेष्यस्य विरुद्धाविशिष्टद्वयनिवेशः किं स्वरूपेणोत विशेषणान्तरोपोद्बलितेन ।
 एकस्यैव शुक्लत्वपीतत्वयोर्दर्शनात् ।
 दण्डित्वकुण्डलित्वयोरविरुद्धत्वोपपत्तिः ।
 न द्वितीयः ।
 अनवस्थाद्यपत्तेरिति ॥ तदत्यन्ताभावानधिकरणत्वाङ्गीकारादिति ॥ स्वात्यन्ताभावसमानाधिकरणत्वं मिथ्यात्वमित्यङ्गीकारेणात्यन्ताभावाधिकरणत्वं साध्यमिति चेन्न ।
 त्वन्मते सर्वस्य सर्वात्मकत्वे सर्वधर्माणां सर्वत्र सत्त्वेन प्रतियोग्यसमानाधिकरणात्यन्ताभावस्यैवाप्रसिद्धत्वात् ।
 वस्तुतस्तु हेतोरप्रयोजकत्वं देवदत्तकर्मार्जितत्वमुपाधिश्चेति मूर्धाभिषिक्तं दूषणद्वयम् ।
 न च विमतानि शरीराणि देवदत्तकर्मार्जितानि शरीरत्वादित्युपाधेरपि पक्षे साधयितुं शक्यत्वादिति भाव्यम् ।
 तत्र देवदत्तभोगायतनत्वस्योपाधित्वात् ।
 द्वयोः सन्दिग्धत्वेन शङ्कितोपाधित्वोपपत्तेः ।
 द्वयोर्युगपत्साधने चैकेन वा भेदलाभादाधिक्येन निग्रह इति ॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वादित्यनुमान इत्यर्थः ॥ साध्यानिरुक्तिरिति ॥ व्यावहारिकत्वप्रातिभासिकत्वयोः प्रत्येकं पक्षदृष्टान्ताननुगमादनुगतस्यानिर्वचनादिति भावः ।
 ननु निरुक्तमेवेत्यतस्तदाशङ्क्य निराह - न चेति ॥ निवृत्तिशब्दस्य द्वेधासम्भावितोऽर्थो नोभयमपीत्याह - तदयोगादिति ॥ अत्यन्ताभावप्रतियोगिभेदस्य स्वात्यन्तासत्त्वप्राप्तेर्धर्माङ्गीकारे चैकस्याधिष्ठानज्ञानोत्पत्तौ भेदस्यापि न कस्यापि तत्प्रतीतिः स्यादिति भावः ।
 नन्वत्यन्ताभावप्रतियोगित्वं न स्वरूपेण येनासत्त्वं स्यात्किन्तु धर्मान्तरेणेति शङ्कते - पारमार्थिकत्वेति ॥ अबाध्यत्वेति ॥ प्रकारान्तरेण पारमार्थिकत्वस्य दुर्वचत्वादिति भावः ।
 अबाध्यत्वं पारमार्थिकत्वम् ।
 तव बाध्यत्वं नाम स्वरूपेणानिषेध्यत्वे सति पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वमिति पुनः पारमार्थिकत्वप्रवेशादन्योन्याश्रयत्वमिति भावः ।

(34) (कु.) ॥ तृतीये त्विति ॥ भेदो मिथ्या भेदात्वाच्चन्द्रभेदवदित्यत्रेत्यर्थः ।
 तत्साध्यम् ॥ निवृत्तिशब्देनेति ॥ अधिष्ठानयाथात्म्यज्ञानजन्यध्वंसप्रतियोगित्वं तज्जन्यात्यन्ताभावप्रतियोगित्वं वा न साध्यम् ।
 त्वया ब्रह्मज्ञानोत्तरदशायां जीवन्मुक्तिदशायां भेदानुवृत्त्यङ्गीकारेण तदयोगात् ।
 अत्यन्ताभावस्य च जन्यत्वायोगादित्यपि बोध्यम् ॥ चरमवृत्तेः पूर्ववृत्त्यनधिकविषयत्वेन तदनिवृत्यनिवर्तकत्वायोगाश्चेत्यपि बोध्यम् ॥ पारमार्थिकत्वाकारेणेति ॥ जीवन्मुक्तिदशायां पारमार्थिकत्वाकारो निवर्तते ।
 अत एव दग्धपटायमानत्वादिति भावः ॥ अबाध्यत्वरूपस्येति ॥ बाध्यत्वनिरुक्तौ पारमार्थिकत्वप्रवेशितस्य नाबाध्यत्वगर्भत्वादन्योन्याश्रय इति भावः ।

(34) (हु.) ॥ विमता आत्मान इति ॥ अपरमार्थत इति ॥ तथा च व्यावहारिकपरमात्मभेदाभावसाधनस्याप्यापात इति भावः ॥ द्वितीय इति ॥ (* इत आरभ्य वाक्यद्वयम्, `बाध इति भावः' इतिपर्यन्तं हु.पाठे नास्ति ।
) सर्वाणि शरीराणीत्यनुमान इत्यर्थः ॥ तदधिकरणत्वाङ्गीकारादिति ॥ (* मूले इदं पदं उपलब्धभेदोज्जीवनपाठेषु न लभ्यते ।
) तथा च तदधिकरणत्वसाधने बाध इति भावः ।
 पूर्वपक्षभागस्थैतद्वाक्यस्यान्ये (* `पूर्वपक्षमागच्छैतद्वाक्यस्यान्ये' मु.) त्विति रीत्या यथाश्रुतसाध्यपरतया व्याख्यानपक्षेऽपि भोगायतनत्वादेरनुभवबाध एव द्रष्टव्यः ॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वादित्यनुमान इत्यर्थः ॥ साध्यानिरुक्तिरिति ॥ असत्त्वसाधनेऽपसिद्धान्तो बाधश्च सदसद्विलक्षणत्वसाधनेऽप्रसिद्धविशेषणताऽतः साध्यानिरुक्तिरित्यर्थः ॥ बाध इति ॥ तदुपपादयति - त्वयाऽपीति ।
 जन्यजनकभावादिव्यस्थाया भेदाधीनतयाऽऽत्मज्ञानेन तन्निवृत्तौ तज्जन्यत्वादेः साध्यघटकस्यैवायोगाद्बाधः ।
 अत्यन्ताभावे तज्जन्यत्वस्यैवाभावात्तद्धटितसाध्यसत्त्वानिर्वाहाद्बाध इत्यर्थः ॥ पारमार्थिकत्वाकारेणेति ॥ ज्ञानजन्यपारमार्थिकत्वावच्छिन्नप्रतियोगिकध्वंसप्रतियोगित्वं तदर्थ इत्यर्थः ॥ अबाध्यत्वरूपस्येति ॥ पारमार्थिकत्वस्य बाध्यत्वाभावारूपतया बाध्यत्वशरीरेऽबाध्यत्वं निविष्टमित्यात्माश्रय इत्यपि द्रष्टव्यम् ।
 ननु ज्ञानजन्यध्वंसप्रतियोगित्वमेव बाध्यत्वम् ।
 न पारमार्थिकत्वस्य तच्छरीरे निवेशः ।
 किन्तु ज्ञानेन पारमार्थिकत्वेन तस्मिन्नध्यस्तेन विशिष्टस्य जगतो नाशो भवति ।
 अत एव दग्धपटायमानतया जगदवस्थानं जीवन्मुक्तौ ।
 तथा च वस्तुतस्तादृशध्वंसमादाय बाध्यत्वमुपपादनीयमिति वाच्यम् ।
 वस्तुतः तादृशध्वंसस्य तादृशध्वंसत्वेनैव निवेश इदानीं ज्ञानविषयताविशिष्टघटस्य नाशात्तस्य बाध्यत्वव्यवहारस्येदानीमप्यापत्तिः ।
 अधिष्ठाने यथाऽऽत्मज्ञानेति (* `यथार्थज्ञानेति' इति पाठेन भाव्यमिति भाति ।
) निवेशेऽधिष्ठानत्वस्यारोपविशेष्यत्वादन्यस्यानतिप्रसक्तस्य निर्वक्तुमशक्यत्वात् भेदप्रतीतेस्तया तस्य च स्वमिथ्यात्वेऽसिद्धिः प्रागसिद्धतयाऽप्रसिद्धविशेषणत्वादिकं बोध्यम् ।

(34) (का.) ॥ विमता आत्मान इति ॥ यद्यप्यत्र व्यावहारिकभेदस्य परं प्रत्यसिद्ध्या साध्याप्रसिद्धिः ।
 तथापि व्यवहारगोचरभेदशून्यत्वस्य साध्यत्वान्न दोषः ।
 परमते पारमार्थिकस्यैव व्यवहारगोचरत्वात् ।
 यद्वा ब्रह्मज्ञानेतराबाध्यभेदशून्यत्वं साध्यम् ।
 न च प्रत्यक्षविरुद्धत्वान्नैवमनुमानसम्भव इति वाच्यम् ।
 परमार्थतो न भिद्यन्त इत्यस्य प्रमाणत्रयविरुद्धत्वात् ।
 तच्च व्युत्पादितम् ॥ अनुकूलतर्काभावादिति ॥ न चैक्ये लाघवमेवानुकूलतर्क इति वाच्यम् ॥ लाघवस्य प्रमाणबाधितत्वात् ।
 अन्यथा परमलाघवात् शून्यवादमेवाङ्गीकुर्याः ।
 ब्रह्मातिरिक्तवियदाद्यशेषप्रामाणिकप्रपञ्चस्यात्यन्तानुपपन्नाविद्याकल्पितत्वकल्पन एव गौरवाच्च ।

॥ तद्भोगायतनत्व इति ॥ देवदत्तशरीरावच्छिन्नचैतन्यभोगावच्छेदकत्वे साध्ये बाध इत्यर्थः ।
 अन्यथा यज्ञदत्तशरीरसुखादौ देवदत्तस्य ममेदमित्याद्यनुसन्धानापत्तेरिति भावः ॥ बाध इति ॥ साध्याप्रसिद्ध्या पक्षे साध्यसत्त्वानिर्वाह इत्यर्थः ।
 अथ देवदत्तप्रतियोगिकपारमार्थिकभेदाभाववद्भोगावच्छेदकत्वस्य साध्यघटकत्वान्नायं बाधः ।
 यज्ञदत्तादेस्तादृशभेदाभाववत्त्वसम्भवात् ।
 अथवा देवदत्तभिन्नभोगानवच्छेदकत्वे सति भोगावच्छेदकत्वमात्रं साध्यमस्तु ।
 भोक्तुर्देवदत्तत्वमर्थात् सेत्स्यतीति चेदेवमपि देवदत्तयज्ञदत्तादीनां पारमार्थिकभेदग्राहकोक्तविधप्रत्यक्षादिप्रमाणबाधो दुर्वारः ।
 न च तेषामप्रामाण्यम् ।
 प्रामाण्ये बाधकाभावात् ।
 बलवद्विरोधिप्रमाणानुपलम्भादिति ।
 एवमत्र देवदत्तकर्मनिर्मितत्वमुपाधिरित्यादिकं च द्रष्टव्यम् ।
 अत्र प्रागुक्तदोषे परोक्तसमाधानं दूषयितुमाह - सुषुप्तमूच्छ्रितेति ॥ विवृतमेतदधस्तात् ॥ त्वयेत्यादि ॥ तथा च पुनर्बाध एवेति भावः ।

अथ देवदत्तभोगायतनत्वस्य पारमार्थिकत्वेनाभावेऽपि व्यावहारिकत्वेन तत्सत्त्वाभ्युपगमात्तेन रूपेण तदभावानधिकरणत्वस्य साध्यत्वान्न बाधावकाशः ।
 न च परं प्रति व्यावहारिकत्वाप्रसिद्धिः ।
 सप्रकारकज्ञानाबाध्यत्वेन भोगायतनत्वस्य योऽभावस्तदनधिकरणत्वस्यैव साध्यत्वात् ।
सप्रकारकज्ञानाबाध्यत्वस्य च परमते पारमार्थिक एव प्रसिद्धेरेति चेन्न ।
 सप्रकारकज्ञानाबाध्यत्वेन भोगायतनत्वाभावस्यैवाप्रसिद्धेः ।
 व्यधिकरणधर्मावच्छिन्नाभावानङ्गीकारिभिः सामान्यरूपेण विशेषाभावानभ्युपगमात् ।
 न च सप्रकारकज्ञानाबाध्यत्वविशिष्टभोगायतनत्वत्वेन भोगायतनत्वाभावस्य विवक्षितत्वान्न दोष इति वाच्यम् ।
 तस्य केवलभोगायतनत्वत्वापेक्षया गुरुत्वेनाभावप्रतियोगितानवच्छेदकत्वात् ।
 एतेन भोगायतनत्वस्य मिथ्यात्वे तदत्यन्ताभाववत्तदधिकरणत्वस्यापि मिथ्यात्वेन तदनधिकरणत्वमप्यव्याहतमेवेति नोक्तबाधावकाश इत्यपास्तम् ।
 व्यावहारिकत्वादिना तदधिकरणत्वाभावस्याप्रसिद्धेः ।
 तदधिकरणत्वाभावमात्रस्य साध्यत्वे तु प्रातिभासिकत्वादिना तदभावमादायार्थान्तरतादवस्थ्यादिति दिक् ।

॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वात् चन्द्रभेदवत् इत्यनुमाने निर्दुष्टमिथ्यात्वनिर्वचनासम्भव इत्यर्थः ।
 सम्भवन्निर्वचनस्य दुष्टत्वादिति भावः ।
 तदेवाह - न चेति ॥ बाध्यत्वरूपं मिथ्यात्वमिति शेषः ॥ मिथ्यात्वासम्भवादिति ॥ सत्यत्वप्रतिक्षेपासम्भवादित्यर्थः ।
 प्रध्वंसप्रतियोगित्वस्य मन्मते सत्यत्वव्याप्यत्वादिति भावः ।
 अत्र दृष्टान्ते साध्यवैकल्यमपि बोध्यम् ।
 न चाधिष्ठानयाथात्म्यज्ञानजन्यध्वंसप्रतियोगिज्ञानविषयत्वविवक्षणात् न दोष इति वाच्यम् ।
 तद्धि भ्रमाविषयत्वपर्यवसितम् ।
 तथा च मया सतोऽपि भ्रमविषयत्वाङ्गीकारेणार्थान्तरतादवस्थ्यात् ॥ तदयोगादिति ॥ अत्यन्ताभावप्रतियोगित्वासम्भवादित्यर्थः ।
 अन्यथाऽत्यन्तासत्त्वापत्तिरिति भावः ।
 केचित्तु अधिष्ठानयाथात्म्यज्ञानजन्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमित्यङ्गीकारे जीवन्मुक्तिकालीनव्यवहारदशायां त्वया भेदानुवृत्त्यङ्गीकारेणासम्भवप्रसङ्गादिति व्याचक्षते ।
 व्यवहारसतोऽपि भेदस्य पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वोपगमान्न दोष इत्याशङ्कते - पारमार्थिकत्वेति ॥ तथात्वमत्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति शेषः ॥ अबाध्यत्वेति ॥ पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वरूपबाध्यत्वज्ञानस्य पारमार्थिकत्वज्ञानाधीनत्वात्तस्य चैतादृशबाध्यत्वाभावरूपस्य बाध्यत्वज्ञानाधीनत्वेनान्योन्याश्रयादित्यर्थः ।
 उपलक्षणमेतत् ।
 दृष्टान्ते साध्यवैकल्यं च ।
 पारमार्थिकत्वेन चन्द्रभेदाभावाप्रसिद्धेः ।
 असतः सद्रूपेण प्रतियोगित्वानुपगमात् ।
 न चात्यन्ताभावप्रतियोगित्वमात्रं मिथ्यात्वम् ।
 तच्च सद्रूपेण असद्रूपेण वा मतद्वयसिद्धमेवेति वाच्यम् ।
 भेदस्य सत्त्वेऽप्यसत्त्वेनात्यन्ताभावप्रतियोगित्वसम्भवादर्थान्तरप्रसङ्गात् ।

(34) (श.) - विमता इत्यादि ॥ आत्मनां परमात्मनः सकाशादपारमार्थिकभेदस्य तेनाङ्गीकारत्तदभावसाधनस्यानिष्टवत्वं परमात्मनि परमात्मप्रतियोगिकापारमार्थिकभेदस्य तेनानङ्गीकारान्नसाध्यवैकल्यं दृष्टान्तस्येति ध्येयम् ॥ द्वितीय इति ॥ विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वद्देवदत्तशरीरवदित्यर्थः ।
 अत्र किं देवदत्तशब्देन देवदत्तशरीरावच्छिन्नचैतन्यं विवक्षितमुततदनवच्छिन्नचैतन्यमिति विकल्पौहृदिकृत्वाद्यमनूद्यदूषयति - देवदत्तशब्देनेति ॥ तद्भोगायतनत्व इति ॥ देवदत्तशरीरावच्छिन्नचेतन्यभोगसाधनत्वेसाध्ये तस्य विमतेषु यज्ञदत्तादिशरीरेष्वभावाद्बाध इत्यर्थः ।
 यज्ञदत्तादिशरीरेषु देवदत्तशरीरावच्छिन्नचैतन्यभोगसाधनत्वेसाध्ये तस्य विमतेषु यज्ञदत्तादिशरीरेष्वभावाद्बाध इत्यर्थः ।
 यज्ञादत्तादिशरीरेषु देवदत्तशरीरावच्छिन्नचैतन्यस्य भोगसाधनत्वं कुतो नास्तीत्य उक्तं यज्ञदत्तादिशरीराणामिति ॥ तदधीनमेव हि तद्भोगसाधनं स्वरूपमात्राभेदेऽप्यवच्छिन्नस्य भिन्नत्वेन देवदत्तशरीरावच्छिन्नचैतन्याधीनत्वस्य प्रत्यक्षबाधितत्वेन त्वयाप्यनङ्गीकारादिति भावः ।
 किं शरीरावच्छिन्ने आत्मन्यहंकारगतमवेव भोक्तृत्वादिकमारोपितम् ।
 तत्रानवच्छिन्नस्यात्मनोऽहंकारसान्निध्यस्यैवाभावान्न तत्र भोक्तृत्वाद्यारोप इति त्वयाऽङ्गीकारेणानवच्छिन्नचैतन्यभोगसाधनात्वस्य साधने बाध इति भावः ॥ तेषामपीति ॥ अतो न तत्र साध्याभावनिश्चय इति न व्यभिचार इति भावः ॥ बाध इति ॥ तत्र भोगसाधनत्वरूपसाध्यस्यैवाभावादंशे बाध इत्यर्थः ।
 तनुचैतद्दोषपरिहाराय भोगायतनत्वशब्देभोगायतनत्वात्यन्ताभावानधिकरणत्वं प्रागेवविवक्षितमित्यत आह - नचेति ॥ त्वयेति ॥ त्वयाहिसर्वेषु शरीरेषु विद्यमानं भोक्तृत्वं मिथ्येत्यङ्गीक्रियते ।
 मिथ्यात्वं चस्वात्यन्ताभावसमानाधिकरणत्वम् ।
 एवं च शरीरेशुभोगायतनत्वं तदत्यन्ताभावश्चाङ्गीकार्यः ।
 तथाच भोगायतनत्वात्यन्ताभावानधिकरणत्वरूपसाध्यस्याभावाद्बाध इति भावः ॥ तदधिकरणस्येति ॥ भोगायतनत्वाधिकरणस्येत्यर्थः ।
 तदत्यन्ताभावः भोगायतनत्वात्यन्ताभावः ॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वात् चन्द्रभेदवदित्यत्र मिथ्यात्वरूपसाध्यनिर्वचनं दुर्घटमित्यर्थः ॥ अधिष्ठानेति ॥ व्याख्यातमेतदधस्तात् ।
 तत्किं मिथ्यात्वं निवर्त्यत्वं निवर्त्यत्वं निवृत्तिप्रतियोगित्वम् ।
 तत्र निवृत्तिर्नामध्वंसोवात्यन्ताभावोवा ।
 आध्यमनूद्यदूषयति - निवृत्तिशब्देनेति ॥ मिथ्याभूतस्य विनाशायोगादिति भावः ।
 द्वितीयमनूद्यदूषयति - अत्यन्ताभावेति ॥ बाधमेवोपपादयति - त्वयेति ॥ अद्वैतवादिनाऽपि जीवेशभेदस्य व्यावहारिकसत्यत्वमङ्गीकुर्वता व्यवहारदशायां भेदोऽस्तीति अङ्गीक्रियते ।
 अन्यथा तस्य व्यावहारिकत्वायोगात् ।
 व्यवहारकालेविद्यमानस्य चैत्रकालिकनिषेधरूपात्यन्ताभावप्रतियोगित्वमनुपपन्नमिति भावः ।
 तदयोगात् अत्यन्ताभावप्रतियोगित्वादयोगात् ।
 न वयं स्वरूपेणात्यन्ताभावप्रतियोगित्वं ब्रूमो येन व्यवहारकाले सतो भेदस्य तन्न स्यात्_ ।
 अपितु पारमार्थिकत्वाकारेणैव ।
 व्यावहारिकत्वेन रूपेण सतोऽपि पारमार्थिकत्वरूपेण अत्यन्ताभावप्रतियोगित्वं सम्भवत्येव ।
 यथा श्यामत्वेन रूपेण सतोऽपि घटस्य रक्तत्वरूपेणात्यन्ताभावप्रतियोगित्वमित्याशयेन शङ्कते - पारमार्थिकत्वाकारेणेति ॥ पारमार्थिकत्वरूपेण धर्मेणेत्यर्थः ।
 तथात्वमत्यन्ताभावप्रप्रतियोगित्वमित्याशयेन शङ्कते - पारमार्थिकत्वाकारेणेति ॥ पारमार्थिकत्वरूपेण धर्मेणेत्यर्थः ।
 तथात्वमत्यन्ताभावप्रतियोगित्वम् ॥ अबाध्यत्वरूपस्येति ॥ पारमार्थिकत्वकारेणात्यन्ताभावप्रतियोगित्वं हि मिथ्यात्वम् ।
 पारमार्थिकत्वं चाबाध्यत्वमेव ।
 तच्च बाध्यत्वाभावः ।
 बाध्यत्वं च मिथ्यात्वमेव ।
 तथाच रिक्तमिथ्यात्वज्ञानेऽबाध्यत्वरूपपारमार्थिकत्वज्ञानस्य काणत्वं पारमार्थिकत्वज्ञाने मिथ्यात्वरूपबाध्यत्वज्ञानस्य कारणत्वमित्यन्योन्याश्रय इत्यर्थः ॥ त्वयोच्यमानेति ॥ त्वयेदानीं निरुच्यमाने इत्यर्थः ।

35) भेदत्वेन प्रतीयमानत्वादित्यत्र किमिदं प्रतीयमानत्वम् ? (किमिदंप्रतीयमानत्वम् ?) ।
 प्रमाविषयत्वमप्रमाविषयत्वं वा ? प्रतीतित्वसामान्यावच्छिन्नविषयत्वं वा ? (प्रमात्वमप्रमात्वं वा ? किं वा प्रतीतित्वसामान्यम् ?) ।
 नाद्यः ।
 तवासिद्धेः ।
 न द्वितीयः ।
 ममासिद्धेः न तृतीयः ।
 चन्द्रभेद(प्रत्यक्ष)प्रतीतेरपि मिथ्यात्वेनाप्रामाणिकत्वात्प्रामाणिकाप्रामाणिकयोरनुगतसामान्याभावेनासिद्धेः ।
 भेदाभेदयोः भेदेऽनैकान्त्यं च ।
 तस्यापि पक्षत्वे बाधः ।
 भेदाभेदयोर्भेदस्यापारमार्थिकत्वेऽनेनैवानुमानेनाभेदस्यापि मिथ्यात्वं स्यात् ।
 व्यावहारिकभेदसद्भावेऽपि परमार्थतो ब्रह्माभिन्नस्य (व्यावहारिकभेदसद्भावेऽपरमार्थतो ब्रह्मणो भिन्नस्य) जीवस्य पारमार्थिकत्ववत्परमार्थतः पारमार्थिकाभेदाभिन्नो भेदः (अपि) पारमार्थिकः स्यादिति मिथ्यात्वसाधने बाधः ।
 पारमार्थिकापारमार्थिकब्रह्मप्रपञ्चभेदे व्यभिचारः (व्यभिचारश्च) ।
 ब्रह्मणि(णो) धर्मिसमसत्ताकभेदो नास्तीति पारमार्थिकत्वं घटादौ सोऽस्तीत्यपारमार्थिकत्वमिति चेन् (न) ।
 तर्हि जीवब्रह्मणोः प्रपञ्चवद्धर्मिसत्तासमानसत्ताकभेदो नास्तीति तयोरपारमार्थिकत्वं प्रपञ्चः पारमार्थिकः स्यात् ।
 (तर्हि ब्रह्मणः प्रपञ्चात् धर्मिसमानसत्ताकोऽभेदो नास्तीति तदपारमार्थिकत्वं प्रपञ्चवत् स्यात् ।
) चन्द्रभेदे प्रातिभासिकत्वमुपाधिश्च ।
 स च न पक्षे साधयितुं शक्यः ।
 व्यावहातरिकत्वाङ्गीकारविरोधात् ।
 अभेदो मिथ्या अभेदत्वात् देहात्मभेदवदित्याद्याभाससाम्यं च ।
 न च दृष्टान्तस्य साध्यवैकल्यं शङ्क्यम् ।
 तथात्वेऽ`न्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्ये'त्यध्यासभाष्यस्योन्मत्तप्रलापत्वप्रसङ्गात् ।
 गौरोऽहं कृशोऽहमित्यादिज्ञानस्य तत्त्वावेदकत्वेन प्रामाण्यप्रसङ्गाच्च (तत्त्वावेदकप्रामाण्यप्रसङ्गाच्च) ।
 चतुर्थे तु नानापदार्थानामेव सेनावनादिवदुपाधिभेदेन जगच्छब्दवाच्यतया पदार्थान्तराभावेन घटादीनां तदभेदसाधने बाधः ।
 पृथिव्यादीनां जगदाख्यपदार्था(न्तरा)रम्भकत्वे तदारब्धे जगति पृथिवीत्वादीनां साङ्कर्यप्रसङ्गः ।
 गुणादीनां जगदन्तर्भूतानां तदारम्भकत्वे(त्वेन) तेषां द्रव्यत्वापत्तिश्च ।
 निरवयवानां (गुणादीनां) द्रव्यारम्भकत्वप्रसङ्गाच्च(ङ्गश्च) ।
 घटादीनामत्यन्त्यावयवित्वहानिश्च स्यात् ।
 घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते (स्वप्रतियोगिकभेदाभावसाधने) सिद्धसाधनम् ।
 परस्परं भेदाभावमात्रसाधने तु (भेदमात्राभावसाधने तु) साध्यविकलो दृष्टान्तः ।
 आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतं द्रष्टव्यम् ।
 (आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ।
 ग्रन्थगौरवभयान्नेह तन्यते ।
) तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ।

(35) (भ.) भेदत्वादिति हेतोरसिद्धिपरिहारार्थं भेदत्वेन प्रतीयमानत्वादित्यर्थो विवक्षित इत्युक्तं तद्दूषयितुं विकल्पयति - भेदत्वेनेति ॥ प्रमात्वमप्रमात्वं वेत्यादि ।
 किं सा प्रतीतिः प्रमारूपोत भ्रान्तिरूपा किं वा प्रतीतिसामान्यमिति भावः ॥ तवासिद्धेरिति ॥ भेदप्रतीतेस्त्वया प्रमात्वानङ्गीकारादिति भावः ।
 ममासिद्धेः मया तस्याः प्रमात्वाङ्गीकारादिति भावः ।
 तृतीयपक्षेऽप्यसिद्धिमुपपादयति - न तृतीय इति ॥ यथा चन्द्रभेदस्य प्रातिभासिकत्वेनाप्रामाणिकत्वात्प्रामाणिकाप्रमाणिकयोरनुगतभेदत्वसामान्याभावादसिद्धो हेतुरित्युक्तम् ।
 तथा चन्द्रभेदप्रतीतेरपि प्रातिभासिकत्वेनाप्रामाणिकत्वादुभयसाधारणसामान्याभावात्प्रतीयमानत्वहेतुरप्यसिद्ध इत्यर्थः ।
 क्वचित्प्रत्यक्षप्रतीतेरिति पाठः ।
 तदा भ्रमरूपचन्द्रभेदप्रत्यक्षप्रतीतेरित्यर्थः ।
 किञ्चास्तां तावदन्ये भेदाभेदयोस्तु भेदः पारमार्थिको वाच्यः ।
 तथा च तत्र हेतुरनैकान्त्यमित्याह - भेदाभेदेति ॥ तस्यापि पक्षत्वाङ्गीकारात्कथमनैकान्त्यमित्यत आह - तस्यापीति ।
 अंशे बाध इत्यर्थः ।
 भेदाभेदयोर्भेदस्य पारमार्थिकत्वे स्यादनैकान्त्यमंशे बाधो वा ।
 न चैवं किन्त्वसावपारमार्थिक एवेत्यत आह - भेदाभेदयोरिति ॥ तयोर्भेदस्यापारमार्थिकत्वेऽभेदस्यैव पारमार्थिकत्वापत्त्याऽपारमार्थिकभेदाभिन्नस्य भेदस्यापि भेदरूपत्वेन भेदो मिथ्या भेदात्वादित्यनुमानेनैव मिथ्यात्वं स्यादिति भावः ।
 एवं भेदाभेदयोर्भेदस्यापारमार्थिकत्वे तयोरभेदापत्त्या भेदाभिन्नस्याभेदस्य मिथ्यात्वं स्यादित्युक्तम् ।
 इदानीं तेनैव न्यायेन भेदस्याप्यभेदाभिन्नताया अङ्गीकार्यत्वे पारमार्थिकाभेदाभिन्नस्य भेदस्यापि पारमार्थिकत्वस्थितौ भेदस्य मिथ्यात्वसाधने बाधश्च स्यादिति भावेनाह - व्यावहारिकेत्यादिना ।
 ननु परमार्थतः पारमार्थिकाभेदाभिन्नस्यापि भेदस्य न पारमार्थिकत्वप्राप्तिः ।
 तयोर्व्यावहारिकभेदस्याप्यङ्गीकारादित्यत उक्तम् ॥ व्यावहारिकभेदसद्भावेऽऽपीति ।
 तथा च पारमार्थिकाभेदसद्भावे व्यावहारिकभेदोऽकिञ्चित्करः ।
 अन्यथा परमार्थतो ब्रह्माभिन्नस्य जीवस्यापि व्यावहारिकभेदसद्भावमात्रेणापारमार्थिकत्वं स्यादिति भावः ।
 भेदत्वहेतोर्दूषणान्तरं चाह - पारमार्थिकेति ॥ ब्रह्मप्रञ्चयोर्भेदस्तावत्पारमार्थिक एवेत्यङ्गीकार्यम् ।
 ब्रह्मणः पारमार्थिकत्वात्प्रपञ्चस्य त्वन्मतेऽपारमार्थिकत्वात् ।
 विरुद्धधर्माधिकरणयोश्च जलानलवद्भेदस्य नैयत्यात् ।
 ततश्च तयोर्भेदे व्यभिचारश्च स्यादित्यर्थः ॥ बाधो वेति ॥ तस्यापि पूर्ववत्पक्षत्वाङ्गीकृताविति भावः ।
 क्वचिद्बाधो वेति पाठ एव नास्ति ।
 अत एव कैश्चनैतद्वाक्यं न व्याकृतम् ।
 ननु ब्रह्मप्रपञ्चयोः पारमार्थिकापारमार्थिकत्वेऽपि तयोर्भेदः पारमार्थिकः कुतः ।
 न च तयोर्भेदस्यापारमार्थिकत्वे ब्रह्मणो वा प्रपञ्चवदपारमार्थिकत्वापत्तिः ।
 प्रपञ्चस्य वा ब्रह्मवत्पारमार्थिकत्वापत्तिरिति वाच्यम् ।
 भेदस्यापारमार्थिकत्वेऽपि ब्रह्मप्रपञ्चयोः पारमार्थिकत्वापारमार्थिकत्वाङ्गीकारोपपत्तेः ।
 तत्र प्रयोजकान्तरसद्भावेन भेदापारमार्थिकत्वस्याप्रयोजकत्वादिति भावेन शङ्कते - ब्रह्मण इति ॥ यद्यपि ब्रह्मणि प्रपञ्चाद्भेदोऽस्ति तथाऽपि न स धर्मिसमसत्ताकः ।
 पारमार्थिको न भवतीति यावत् ।
 घटादौ प्रपञ्चे तु ब्रह्मप्रतियोगिको भेदो धर्मिसमसत्ताकः ।
 व्यावहारिक इति यावत् ।
 अतस्तयोर्भेदस्यापारमार्थिकत्वेऽपि न पारमार्थिकत्वादिक्षतिरिति भावः ।
 दूषयति - नेति ॥ तर्हीति ।
 नियामकप्रमाणं विनैव पारमार्थिकत्वे धर्मिसत्ताकभेदाभावस्यापारमार्थिकत्वे च तत्सद्भावस्य प्रयोजकत्वेऽङ्गीक्रियमाण इत्यर्थः ॥ जीवब्रह्मणोरिति ॥ धर्मिसमसत्ताकभेदो यत्रास्ति तस्य पारमार्थिकत्वं यत्र स नास्ति तस्यापारमार्थिकत्वमित्यपि व्यावस्थायाः सुकरत्वाज्जीवब्रह्मणोस्तदभावादपारमार्थिकत्वं प्रपञ्चस्य तत्सद्भावात्पारमार्थिकत्वमिति वैपरीत्यमपि प्रसज्येतेत्यर्थः ।
 एवमपि त्वया ब्रह्मणि प्रपञ्चवदेवापारमार्थिकत्वं स्यादेवेति परिहाराभिप्राय इत्याहुः ॥ चन्द्रभेद इति ॥ इत्थं हि वाक्ययोजना ।
 अस्मिन्ननुमाने प्रातिभासिकत्वमुपाधिश्च ।
 कथम् ।
 दृष्टान्ते चन्द्रभेदे प्रातिभासिकत्वं वर्तते ।
 अतः साध्यव्यापकः ।
 स चोपाधिः पक्षे विमतभेदे साधयितुमशक्यः ।
 तस्य व्यावहारिकत्वाङ्गीकारविरोधात् ।
 अतः साधनाव्यापक इति ॥ कुतः साध्यवैकल्यं न शङ्क्यमित्यत आह - तथात्वे इति ॥ देहात्मभेदस्य सत्यत्वाङ्गीकारे देहात्मनोरन्योन्यात्मकताया अध्यस्तत्ववर्णनपरस्य त्वदीयभाष्यस्योन्मत्तप्रलपितवाक्यवत्स्वाभ्युपगमविरोधः स्यादित्यर्थः ।
 दूषणान्तरमाह - गौरोऽहमिति ॥ देहात्मनोरभेदे गौरत्वादीनां देहधर्माणामेवात्मधर्मत्वेन तज्ज्ञानस्य तत्त्वविषयकतापत्त्या प्रमात्वप्रसङ्गाच्चेत्यर्थः ।
 तत्त्वावेदकत्वेनेत्यस्य तत्त्वविषयकतेत्यर्थः ।
 न चेष्टापत्तिरिति वाच्यम् ।
 अन्योन्यधर्मांश्चाध्यस्येति भाष्यस्योन्मत्तवाक्यत्वप्रसङ्गादिति भावः ।
 अत एव पूर्ववाक्येऽन्योन्यधर्मांश्चाध्यस्येत्यंशस्याप्युदाहरणम् ॥ चतुर्थे त्विति ॥ विमतो जगदाख्यः पदार्थः तत्त्वतः स्वान्तर्भेदहीनो दृश्यत्वाद्गगनादिवदित्यनुमान इत्यर्थः ।
 तत्र तात्त्विकस्वान्तर्भेदहीनत्वं नाम जगदन्तर्गतानां घटादिपदार्थानामान्योन्यं वा तैश्च घटादिभिर्जगतो वा पारमार्थिकभेदाभावः ।
 तथैव पूर्वपक्षग्रन्थ उपपादितत्वात् ।
 तत्र घटादीनां तदभेदसाधने ।
 जगत्प्रतियोगिकभेदाभावसाधने ।
 घटादीनां सकाशात्तस्य जगतो भेदाभावसाधन इति वा बाध इत्यर्थः ।
 कुतो बाध इत्यत उक्तम् ॥ पदार्थान्तराभावेनेति ॥ घटादिव्यतिरिक्तजगदाख्यपदार्थान्तराभावेनेत्यर्थः ।
 सति हि पदार्थान्तरे कस्यचित्पदार्थस्य ततो भेदो वा भेदाभावो वा साधयितुं शक्यते न तु तस्यैवाभावे ।
 न हि शशविषणाद्धटादेर्भेदाभावः साधनार्हः ।
 अतोऽतिरिक्तजगद्व्यक्तेरेवाभावेन ततो भेदाभावसाधने बाधो युक्त इत्यर्थः ।
 पदार्थान्तराभावेऽपि कुत इत्यत उक्तं नानापदार्थानां हि जगच्छब्दवाच्यतयेति ॥ हिशब्द एवार्थे ।
 तत्कथमित्यत उक्तम् उपाधिभेदेनेति ॥ काललक्षणोपाधिविशेषेणेत्यर्थः ।
 तत्र दृष्टान्तकथनं सेनावनादिवदिति ॥ यथा करितुरगरथादीनामेवैकस्थानस्थितिलक्षणोपाधिना सेनाशब्दवाच्यत्वं यथा च नानावृक्षाणामेकस्थाननिवासेन वनशब्दवाच्यत्वं यथा वा धान्यादीनामेकस्थाने मिलितानां राशिशब्दवाच्यत्वमेवं विवक्षितैककालोपाधिग्रस्तानां घटादीनामेव जगच्छब्दवाच्यत्वमित्यर्थः ।
 अत एवोक्तं मन्दारमञ्जर्याम् ।
 प्रवाह इति गीयन्ते सजातीयाः प्रवाहिणः ।
 कालेनोपाधिना ग्रस्ता नानावृक्षा वनं यथेति ॥ उपलक्षणमेतत् ।
 घटादीनां परस्परभेदाभावसाधनेऽपि प्रत्यक्षादिविरोधाद्बाध इत्यपि द्रष्टव्यम् ।
 ननु न घटादय एव जगच्छब्दार्थः किन्तु तन्तुभिः पट इव घटादिना नापदार्थैर्जगदाख्यः पदार्थ आरभ्यते ।
 अतो नोक्तदोष इत्यत आह - पृथिव्यादीनामिति ॥ जातिसाङ्कर्यप्रसङ्ग इति ॥ पृथिव्याद्यारब्धस्यावयविनः पृथिवीत्वादिनियमात्पृथिव्यादिसर्वपदार्थारब्धे जगति जातिसाङ्कर्यं स्यादित्यर्थः ।
 इदमपि न्यायमतरीत्यैवोक्तम् ।
 सिद्धान्तेऽनेकविजातीयारब्धेऽपि द्रव्ये जातिसाङ्कर्याभावात् ।
 न हि पृथिव्यादिकमपि केवलपृथिव्यादिमात्रारब्धम् ।
 किन्त्वेकैकमपि भूतं भूतत्रयारब्धमेव ।
 तथा हि श्रुतिः ।
 तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति ॥ व्यवहारस्तु तत्तद्भूतभागानां वैशेष्यात् ।
 उक्तं च सूत्रेषु ।
 वैशेष्यात्तु तद्वादस्तद्वादः ।
 त्र्यात्मकत्वात्तु भूयस्त्वादिति ॥ साङ्कर्यस्य जातिबाधकत्वाभावस्योपपादितत्वाच्चेति ॥ द्रव्यत्यापत्तिरिति ॥ द्रव्यस्यैव समवायिकारणत्वादिति भावः ।
 इदमपि न्यायमतालम्बनेनैव ।
 सिद्धान्ते गुणवदुपादानं गुणवदुपादेयतया परिणत इत्यङ्गीकारात् ॥ निरवयवानामिति ॥ इदमपि न्यायरीत्यैव ।
 सिद्धान्ते निरवयववस्तुन एवाभावात् ।
 यथोक्तम् ।
 अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।
 सर्वदिक्ष्वपि सम्बन्धादिति ॥ अतिप्रसङ्गश्चेति ॥ निरवयवैर्गुणक्रियाजात्यादिभिरपि द्रव्यरम्भप्रसङ्ग इत्यर्थः ॥ अन्त्यावयवित्वहानिश्चेति ॥ द्रव्यान्तरानारम्भककार्यद्रव्यस्यैवान्त्यावयवित्वादिति भावः ।
 ननु घटादिसमुदायरूपं वा तदारब्धं वा जगत्पक्षीकृत्य नैवमनुमीयते ।
 किन्तु घटादीनेव पक्षीकृत्य स्वान्तर्भेदहीनत्वं साध्यते ।
 अतो नोक्तदोष इत्यत आह - घटादीति ॥ स्वान्तर्भेदशब्देनेति ॥ हीनशब्दोत्तरेणेति शेषः ।
 अथवा स्वान्तर्भेदशब्देन स्वप्रतियोगिकभेदं गृहीत्वा तदाभावसाधन इति व्याख्येयम् ॥ भेदाभावमात्रसाधन इति ॥ स्वान्तः पदेन स्वप्रतियोगिकत्वं न विवक्ष्यते ।
 किन्तु परस्परप्रतियोगिकत्वमेव ।
 तथा च कथं सिद्धसाधनमिति भावः ॥ साध्यविकलो दृष्टान्त इति ॥ आकाशेंऽशानां मिथो भेदस्यैव सत्त्वादिति भावः ।
 नन्विदमेव साध्यवैकल्यमाशङ्क्य प्रागेव निराकृतमित्यत आह - आकाशभेदसाधनं त्विति ॥ आकाशेंऽशभेदसाधनं त्वित्यर्थः ।
 अन्यत्र मन्दारमञ्जर्याम् ।
 नन्वथाऽपि प्रतीति बलात्संयोगतदत्यन्ताभावयोः सामानाधिकरण्यमस्त्वित्यादिना तस्मादाकाशभेदवादिनं प्रतीति साधूक्तमित्यन्तेन ग्रन्थेनाकाशभेदवादिनं प्रति प्रतीत्यसिद्धेरिति टीकावाक्यविवरणावसरे कृतमाकाशभेदसाधनं द्रष्टव्यमित्यर्थः ।
 नैतावताऽऽकाशांशानां मिथो भेदः सिद्धान्तेऽङ्गीकृत इति भ्रमितव्यम् ।
 यदाऽऽकाशभेदो नास्तीति सिद्धान्तस्तदान्तशब्दो विशेषवचन इत्युपाधिखण्डनटीकायां खेऽपि देशान्तरस्य स इति मूलव्याख्यानावसर उक्तत्वात् ।
 सिद्धान्ते आकाशांशानां देशविशेषाणां यावद्द्रव्यभावित्वादत्यन्ताभेदस्याङ्गीकारद्भेदवाच्यन्तरश्ब्दप्रयोगो नोपपद्यत इत्यत आहेति यदेति वाक्यस्य मन्दारमञ्जर्यामेवावतारितत्वाच्च ।
 किन्नामाकाशे औपाधिकभेदाङ्गीकारिणं नैयायिकं प्रति कश्चन स्वाभाविकमेवांशभेदमङ्गीकृत्य प्रत्यवतिष्ठते चेत्तं प्रति नैयायिकस्य न किमप्युत्तरमित्यभिप्रायेणैवाकाशभेदसाधनं त्वस्माभिरन्यत्र कृतमित्युक्तिरिति बोध्यम् ।
 अत एव तत्र मन्दारमञ्जर्यामेव परेणौपाधिकभेदोऽङ्गीक्रियते ।
 तं प्रति स्वाभाविकभेदमङ्गीकारयतीत्याहेति प्रकारान्तरेणैतदेव वाक्यमवतारितमिति ॥ केचित्त्वाकाशांशानां स्वाभाविकभेदसाधनमन्यत्र न्यायामृतादौ कृतमित्यर्थ इत्याहुः ।
 परोक्तानुमाननिराकरणमुपसंहरति - तस्मादिति ॥ उपपादितरीत्या दुष्टत्वादित्यर्थः ।
 आत्माभेद इत्युपलक्षणम् ।
 अनात्मभेद इत्यपि ग्राह्यम् ।
 प्राधान्यादात्माभेदमात्रस्य सङ्कीर्तनम् ।
 अन्यथा चतुर्थानुमानेऽनात्मभेदमात्रनिरासादात्माभेदसाधनाभावेन सामान्येनात्माभेदानुमाननिराकरणोपसंहारायोगात् ।
 केचित्तु तत्र विमतमिति सर्वं चेतनाचेतनजातं विवक्षितमतो नात्माभेदेऽनुमनामित्युपसंहारोपपत्तिरित्याहुः ।
 तत्र चेतनस्यापि विमतपदेन सङ्ग्रहे तत्र दृश्यत्वहेतोर्भागासिद्धेर्दुर्वारत्वात्कथं पूर्वपक्षिणस्तदभिप्रायकल्पनमिति चिन्त्यम् ।

(35) (मु.) यच्चोक्तं भेदत्वेन प्रतीयमानत्वेन हेतूकृतं भेदत्वमिति तद्विकल्प्य निराह - प्रतीतेरपि मिथ्यात्वेनेति ॥ परेणारोपस्थले ज्ञानार्थयोरुभयोरपि प्रातिभासिकत्वाङ्गीकारादित्यर्थः ॥ अनुगतसामान्याभावेनेति ॥ अयं भावः ।
 भेदत्वादित्यत्र मिथ्यासत्ययोरनुगत सामान्याभावदसिद्धिशङ्कायां तदनुगमाय भेदस्याननुगमेऽपि तदुभयप्रतीत्योर्भेदप्रतीतत्वस्यानुगतत्वेन भेदत्वं नाम भेदत्वेन प्रतीयमानत्वादित्युक्तम् ।
 तत्तु भ्रमस्थलेऽर्थमिथ्यात्वेऽपि प्रतीतेः सत्यत्वमिति मते सम्भवति न तु तत्त्वत इति ॥ तस्यापि पक्षत्वे इति ॥ भेदाभेदयोर्भेदस्तस्यापि पक्षत्वे वयाधातेन बाध इत्यर्थः ।
 व्यावहारिकभेदेन व्याहतिपरिहार इत्यङ्गीकारे बाधकमाह - भेदेति ॥ अभेदस्यापि मिथ्यात्वं स्यादिति ॥ भेदाभेदयोः परमार्थत एकत्वापत्त्या भेदमिथ्यात्वसाधनस्यैवाभेदमिथ्यात्वसाधनत्वादिति भावः ।
 यदि चैवमभेदस्यापारमार्थिकत्वं तदा सकलभेदस्यापि मिथ्यात्वसाधने बाधः स्यात् ।
 यो यत्साकं तदभिन्नस्तत्सत्ताक इति व्याप्तेः ।
 यद्वा भेदः सत्यः सत्याभेदभिन्नत्वात् यो यत्सत्ताकभिन्नः स सत्यो तथा जीवो ब्रह्मभिन्न इत्यनुमानमत्राभिप्रेतमित्यूह्यम् ॥ व्यभिचार इति ॥ ब्रह्मप्रपञ्चयोर्भेदस्य पारमार्थिकत्वाभावे तयोः पारमार्थिकत्वव्यावहारिकत्वरूपवैलक्षण्यायोगादिति भावः ॥ बाधो नेति ॥ तस्यापि पक्षत्व इति शेषः ।
 ब्रह्मणः पारमार्थिकत्वेऽपि प्रपञ्चप्रतियोगिकभेदस्य तथात्वाभावात् ।
 न व्यभिचार इति शङ्कते - ब्रह्मण इति ॥ प्रपञ्चः पारमार्थिकः स्यादिति ॥ जीवब्रह्मणोः प्रपञ्चप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाभावात्प्रपञ्चवदेव मिथ्यात्वं स्यादित्यर्थः ।
 प्रयोगश्च ।
 ब्रह्म मिथ्या भवितुमर्हति प्रपञ्चप्रतियोगिकपारमार्थिकभेदशून्यत्वात् प्रपञ्चवदिति ॥ चन्द्रभेद इति ॥ चन्द्रभेदे विद्यमानस्य मिथ्यात्वस्य प्रातिभासिकत्वं प्रयोजकत्वं न भेदत्वमित्यर्थः ।
 ननूक्तहेतुनैवोपाधिं पक्षे साधयामीत्यत आह - स चेति ॥ न च घटादौ साध्यव्यापकताभाव इति वाच्यम् ।
 भेदत्वरूपसाधनावच्छिन्नसाध्यव्यापकतापत्तेः ।
 व्यावहारिकभेदस्य पक्षत्वान्न दोषः ॥ साध्यवैकल्यं न शङ्क्यमिति ॥ परस्य सर्वाद्वैतवादित्वादिति भावः ॥ उन्मत्तेति ॥ असत्यत्वेऽन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येत्यारोपोक्त्ययोगादिति भावः ।
 ननु भाष्ये चाध्यासोक्तिर्व्यावहारिकस्यैव पारमर्थिकैक्यं त्वनुमतमेवेति चेत् तर्हि तदारोपितैक्यमेव दृष्टान्तीकृतमिति कथं साध्यवैकल्यम् ।
 नन्वेवमपि देहात्मनोः पारमार्थिकैक्ये व्यभिचार इति चेन्न ।
 तस्यापि पक्षत्वात् ।
 तथाऽप्यात्मनः स्वप्रतियोगिकैक्ये व्यभिचार इति चेन्न ।
 भेदसामानाधिकरण्यैक्यत्वस्यैव हेतुत्वात् ।
 न च विशेषणासिद्धिः ।
 यत्र परेणाभेदमङ्गीकृत्य व्यावहारिकभेदोऽङ्गीक्रियते तत्स्थलीयाभेदस्यैव पक्षीकृतत्वात् ।
 किञ्च भेदः पारमार्थिकोभेदत्वाच्चन्द्रभेदवत् ।
 ब्रह्म मिथ्या वस्तुत्वाच्चन्द्रभेदवदित्याभाससाम्यं चेत्यूह्यम् ॥ गौरोऽहमिति ॥ अस्य देहात्माभेदप्रत्यक्षत्वादिति भावः ।
 नन्विदं प्रत्यक्षं व्यावहारिकं देहात्माभेदं गृह्णाति ।
 अतो भ्रान्तमिति चेन्न ।
 किमत्र व्यावहारिकं यदैक्यं गृह्णातीत्यर्थः ।
 उतैक्यं व्यावहारिकं गृह्णातीति ।
 नाद्यः ।
 तदभावात् ।
 द्वितीये ऐक्यांशे प्रमा स्यात् ।
 न चेष्टापत्तिः ।
 अन्योन्यात्मकतामध्यस्येति विरोधात् ॥ चतुर्थेति ॥ विमतं तात्त्विकस्वान्तर्भेदहीनामित्यत्रेत्यर्थः ।
 अत्र विमतपदेन जगदाख्यः पदार्थः पक्षीकृतः ।
 अत्र घटाद्यतिरिक्तस्तदनुगत उच्यते ।
 उत घटादिरेवेत्यभिप्रेत्या क्रमेण निराह ।
 यथा विजातीयगजतुरगाद्या एकदेशत्वोपाधिना एकराजाधीनत्वोपाधिना वा एकदेशेनेत्युच्यते न गजाद्यतिरिक्तांशे नास्ति ।
 तथा घटाद्या एकबुद्ध्युपारूढत्वाद्युपाधिना जगदुच्यते ।
 एवञ्चातिरिक्तजगत एवाभावेनाभेदसाधने बाध इत्यर्थः ।
 एकैकस्य घटादेरनेकत्वायोगादिति भावः ।
 तन्त्वारब्धपटवज्जगदपि किन्न स्यादित्यत आह - पृथिव्यादीनामिति ॥ पृथिवीत्वं जलत्वं विना पृथिव्यां जलत्वं च तद्विना जले तद्द्वयमपि जगति कारणगतजातेः कार्येऽप्यावश्यकत्वादिति साङ्कर्यमिति भावः ॥ द्रव्यत्वापत्तिश्चेति ॥ समवायिकारणत्वस्यैव द्रव्यत्वपदार्थत्वादिति ज्ञेयम् ॥ द्रव्यारम्भकत्व इति ॥ निरवयवस्य महतो द्रव्यारम्भकत्वे सिद्धान्तहानिप्रसङ्गाच्चेत्यर्थः ।
 किञ्च घटादिपदार्थानां जगदारम्भकत्वं प्रत्येकं मिलितानां वा ।
 नाद्यः ।
 एकस्यानारम्भकनियमात् ।
 अनेकानुगतधीविरोधाच्च ।
 न द्वितीयः ।
 भूतभविष्यतां जगदुत्पत्तौ मेलनासम्भवात् ।
 किञ्च जगत आरभ्यत्वेऽनाद्यन्तं जगदेतदिति वचनविरोधः ।
 घटादीनां जगत्त्वेऽप्यनादित्वविरोध इति चेन्न ।
 घटादिप्रवाहस्य जगत्त्वात् ।
 घटाद्यभावकाले गगनादौ जगत्त्वस्य पर्याप्तत्वाच्च ।
 द्वितीयं दूषयति - घटादिपदार्थानामिति ॥ स्वप्रतियोगिकेति स्वान्तशब्दस्य तदर्थत्वौचित्यादिति भावः ।
 अस्तु वैको वा जगत्पदार्थः ।
 आकाशे आकाशांशभेदसत्त्वात्साध्यवैकल्पम् ।
 कथं तत्रंशभेद इत्यत आह - आकाशभेदसाधनं त्विति ॥ अन्यत्र मन्दारमञ्जर्याम् ।
 तथा हि ।
 आकाशः स्वाभाविकस्वान्तर्भेदवान् युगपदनेकमूर्तसंयोगित्वात् ।
 न च कालादौ व्यभिचारः ।
 पक्षतुल्यत्वात् ।
 न च हेतुरप्रयोजकः ।
 आकाशानां यदि भेदो न स्यात् तर्हि मूर्तानां सामानाधिकरण्यं स्यादिति बाधकरण्डसत्त्वात् ।
 न चौपाधिकभेदादविरोधः ।
 उपाधीनामपि सामानाधिकरण्यविरोधात् ।
 अन्यथा घटादीनामपि तत्सङ्गप्रतियोगित्वोपाधिनौपाधिकः स्वांशभेदः स्यात् ।
 न स्वाभाविकः ।
 किञ्चाहं देशान्तरादागतो देशान्तरे च गच्छामि ।
 इह पक्षी नेह पक्षीत्यादिप्रतीतिस्तद्भेदे मानम् ।
 न चास्यालोकादिभेदविषयत्वम् ।
 अन्धकारेऽपि स्पार्शनादिनेह स्तम्भो नेह स्तम्भ इति प्रतीतेः ।
 किञ्च यत्र गृध्रस्तत्रैव रात्रावपीत्यधिकरणैक्यं प्रतीयते ।
 सौरचन्द्रावलोकयोश्चन्योन्यत्वेनालोकविषयत्वे तदसम्भवात् ।
 किञ्च यत्रालोकस्तत्रान्धकार इति धीर्नलोकाधिकरणत्वं सहते ।
 न च सर्वासां प्रतीतीनामौपाधिकविषयत्वं वाच्यम् ।
 इह पक्षी नेह पक्षीत्यादावुपाध्यदर्शनात् ।
 न च पक्षिशरीरतदभावयोरेकाधिकरण्यम् ।
 आत्माश्रयात् ।
 उपलक्षके चेत्प्रदर्शिता ।
 स्वाभाविकैकदेशाभावे घटस्योपाधेयार्वदाकाशसम्बन्धित्वम् ।
 सर्वोऽपि घटाकाशः स्यात् ।
 यदत्रोक्तं घटाकाशः स्यादिति कोऽर्थ इति ।
 तत्रायमेव प्रदेशो घटाकाशो नान्यः ।
 किन्तु महाकाशोऽयमिति यद्वैलक्षण्यं प्रतीयते तन्न स्यादिति ॥ यच्चोक्तमुपादेयवदाकाशसम्बन्धित्वेऽप्युपाधेः प्रतिबिम्बपक्षपातित्वेन स्वपरिमाणादिकं प्रतिबिम्बभूतघटाकाश एवोपरञ्जयति ।
 न महाकाश इति ॥ तत्तु प्रक्रियाविलसितम् ।
 घटाकाशमहाकाशयोर्बिम्बप्रतिबिम्बभावस्यैवाभावात् ।
 पूर्वमेकमेकमेव मुखमिदानीं मुखान्तरमुत्पन्नमितिवदाकाशान्तरमुत्पन्नमित्यप्रतीतेः ।
 किन्तु पूर्वप्रदेशोऽयं चैक एवाभूदिदानीं विच्छिन्नं भागद्वयमित्येव प्रतीतिः ।
 तथाऽप्युपाध्यनुसरणनियमाद्भेदस्य न स्वाभाविकत्वमित चेन्न ।
 सूक्ष्मबुद्धीनामुपाध्यभावेऽपि भेदप्रतीतेः ।
 मूढबुद्धीनां तु समुद्रमध्यपतितस्य पाराद्यदर्शनावस्थायां जलानामन्योन्यसादृश्यात्संश्लेषविशेषाच्च जलभेदाज्ञानवदुपपत्तेः ।
 कुतश्चायं स्वाभाविकभेदे प्रद्वेषः ।
 सावयवत्वेऽनित्यत्वं स्यादिति चेन्न ।
 कृतकत्वस्य विरोधिसन्निपातस्य द्रव्यत्वावच्छिन्ने साध्ये मध्यमपरिमाणस्यैव बाधितत्वात् ।
 सांशत्वेऽपि सोपादानत्वरूपसावयवत्वानङ्गीकाराच्चेत्यलं प्रपञ्चेन ।
 यच्चोक्तं संयोगः स्वात्यन्ताभावसमानाधिकरण इति ।
 तन्न ।
 विरोधात् ।
 अग्रे वृक्षः कपिसंयोगी मूले नेत्यबाधितप्रतीतिबलादङ्गीक्रियत इति चेन्न ।
 अग्रे मूले चेत्यधिकरणभेदस्यैव प्रतीतेः ।
 न च वाच्यं वृक्षः संयोगी नेत्युभयत्र वृक्षस्यैव विशेष्यतया भानात्तस्यैवाधिकरणत्वम् ।
 नाग्रमूलयोरिति ॥ तथात्वेऽग्रे मूले चेति सप्तम्यनुपपत्तेः ।
 अग्रमूल पुरस्कारं विनाऽपि संयोगतदभावप्रतीत्यापत्तेश्च ।
 अग्रमूलयोरप्यधिकरणत्वानुभवविरोधाच्च ।
 अग्रे वृक्षः कपिसंयोगीत्यादौ मतुपः संयोगतदभावसम्बन्धितासामान्यविषयकत्वेनाधिकरणताऽविषयत्वाच्च ।
 तस्मान्नेयं प्रतीतिर्वृक्षाधिकरणत्वगोचरा ।
 किन्तु मूलाग्रयोरेवाधिकरणत्वम् ।
 वृक्षस्तु तादृशमूलाग्रवानिति परम्परया संयोगतदभावयोर्वृक्षसम्बन्धिता गोचरतैव ।
 अन्यथाऽग्रे कपिर्मूले नेति प्रतीत्या कपेरपि स्वात्यन्ताभावसमानाधिकरणत्वं स्यात् ।
 स्वात्यन्ताभावसमानाधिकरणत्वं नाम तदधिकरणसमवेतत्वमेवेति चेन्न ।
 संयोगात्यन्ताभावस्य तदभावापत्तेः ।
 तस्मात्स्वस्वोचितसम्बन्धेन स्वात्यन्ताभावसमानाधिकरणत्वं कप्यादीनां सुवचमेव ।
 कपिसंयोगस्यैव तथात्वेन तदुपपत्तौ कपेरपि तत्कल्पने गौरवमिति चेत् तर्हि संयोगस्य यः समवायस्तस्यैव तथात्वेनोपपत्तौ संयोगस्यातत्कल्प्यम् ।
 किञ्चाग्रे वृक्षश्च समवायी मूले नेति प्रतीत्या समवायोऽपि स्वात्यन्ताभावसमानाधिकरणः स्यात् ।
 अपि च वृक्षादावंशभेदेनोपपत्तावप्याकाशभेदेऽनङ्गीकारेण तदनुपपत्तेश्चेत्यलम् ।

(35) (कु.) प्रमेयत्वं प्रमाविषयत्वम् ।
 अप्रमेयत्वमप्रमाविषयत्वम् ।
 प्रतीतित्वं प्रतीतिविषयत्वम् ।
 क्वचित्तु प्रतीयमानत्वं प्रमात्वं प्रतीतित्वं सामान्यं वेति पाठः ।
 तत्र प्रतीयमानत्वघटकं प्रतीतित्वमित्यर्थः ॥ प्रत्यक्षप्रतीतेरपीति ।
 भ्रमरूपचन्द्रभेदप्रत्यक्षरूपप्रतीतेरपि त्वन्मते प्रातिभासिकत्वेनोभयसाधारणसामान्यायोगादित्यर्थः ॥ भेदाभेदेति ॥ भेदाभेदयोर्मिथ्यात्वाभावादनैकान्त्यमित्यर्थः ।
 ननु तस्यापि पक्षीकरणान्नानैकान्त्यमित्यत आह - तस्यापीति ।
 भेदाभेदस्य पारमार्थिकत्वमवश्यमङ्गीकार्यम् ।
 तत्रापि मिथ्यात्वे साध्ये बाध इत्यर्थः ।
 कुतः पारमार्थिकत्वमङ्गीकार्यमित्यत आह - भेदाभेदयोरिति ॥ अनेन भेदाभेदसाधकेन ।
 ननु भेदाभेदयोर्भेदो यदि प्रातिभासिकः स्यात्तदा भेदमिथ्यात्वसाधकेनाभेदस्यापि मिथ्यात्वं स्यात् ।
 न चैवं किन्तु व्यावहारिकः ।
 अत एव न बाधोऽपि ।
 व्यावहारिकस्यापि मिथ्यात्वादत आह - व्यावहारिकभेदसद्भावेऽपीति ।
 जीवब्रह्मणोरिव व्यावहारिकभेदस्य पारमार्थिकभेदविरोधित्वाभावात् ।
 पारमार्थिकाभेदाभिन्ने भेदे पारमार्थिकत्वमावश्यकमिति दुरुद्धरो विरोध इत्यर्थः ।
 पारमार्थिकापारमार्थिकेति ब्रह्मप्रपञ्चयोर्विशेषणं तद्भेदपारमार्थिकत्वद्योतनाय ।
 तस्यापि पक्षत्वे आह - बाधो वेति ॥ ब्रह्मप्रपञ्चयोर्भेदस्यापारमार्थिकत्वे द्वयोः पारमार्थिकत्वमपारमार्थिकत्वं वा स्यात् ।
 न त्वेकस्य पारमार्थिकत्वमपरस्यापारमार्थिकत्वमतस्तस्य पारमार्थिकत्वे वक्तव्ये तत्र च मिथ्यात्वे साध्ये बाध इत्यर्थः ।
 ननु ब्रह्मप्रपञ्चभेदस्यापारमार्थिकत्वेऽपि तयोः पारमार्थिकत्वापारमार्थिकत्वव्यवस्था प्रकारान्तरेण भविष्यतीत्याशयेन शङ्कते - ब्रह्मण इति ॥ धर्मिसत्तासमानसत्ताकभेदतदभावापारमार्थिकत्वपारमार्थिकत्वव्यवस्थापकावित्यत्र नियामकाभावात् ।
 विपरीतो नियम्यनियामकभावः किन्न स्यादित्यत आह - तर्हीति ।
 तथा च न साधनव्यापकतेति भावः ।
 अन्योन्यधर्मांश्चेत्यस्योपन्यासस्तु व्यवहितेनाधस्थेनान्वयप्रदर्शनार्थः ।
 क्वचिदन्योन्यात्मकमध्यस्थेत्येव पाठः ॥ गौरोऽहमिति ॥ देहात्माभेदस्य मिथ्यात्वाभावे गौरोऽहमित्यादिज्ञानस्याप्रमात्वप्रसङ्गाद्विषयाभावादिति भावः ॥ चतुर्थ इति ॥ विमतं तात्त्विकस्वान्तर्भेदहीनं मतत्वत इत्यत्रेत्यर्थः ।
 जगदत्र पक्षः ।
 तच्च पटादिवन्न घटपटारब्धद्रव्यान्तरं किन्तु सेनावनादिन्यायेन केनचिदुपाधिविशेषणं प्रमेयत्वादिना क्रोडीकृतम् ।
 घटपटाद्येव तत्र तात्त्विकस्वान्तर्भेदहीनत्वे साध्ये बाधः ।
 ब्रह्मप्रपञ्चयोस्तात्त्विकभेदस्य साधितत्वात् घटादिरूपजगति तत्प्रयोगिकाभेदसाधने इष्टापत्तेरग्रे वदिष्यति ।
 ननु पृथिव्याधारजगदाख्यः पदार्थः किन्न स्यादित्यत आह - पृथिव्यादीनामिति ॥ प्रथिव्याद्यारब्धस्यावयविनः प्रथिवीत्वादिनियमाज्जगति पृथिवीत्वादेः साङ्कर्यं स्यादित्यर्थः ॥ द्रव्यत्वापत्तिश्चेति ॥ समवायिकारणं द्रव्यमिति तल्लक्षणादिति भावः ॥ घटादीनामिति ॥ द्रव्यारम्भकत्वेति ।
 द्रव्यानारम्भकं कार्यद्रव्यमन्त्यावयवीति तल्लक्षणत्वादिति भावः ॥ आकाशभेदसाधनमिति ॥ आकाशांशनां स्वाभाविकभेदसाधनमन्यत्र न्यायमृतादौ कृतमित्यर्थः ।
 तथा च पराभिप्रेतसाध्यस्यापि तत्र वैकल्यमित्यर्थः ।

(35) (हु.) ॥ किमिदं प्रतीयमानत्वमिति ॥ प्रतीयमानत्वघटकप्रतीतित्वमित्यर्थः ।
 क्वचित्प्रतीतत्वमित्येव (* `क्वचित्प्रतीतिभेदप्रतीतित्वमित्येव' मु.) पाठः ॥ तवेति ॥ त्वन्मते (भेदप्रतीतेः) भ्रमत्वादिति भावः ॥ ममेति (* `प्रमेति' मु.) ॥ तत्प्रतीतेः प्रमात्वस्यैव मयाऽङ्गीकृतत्वादिति भावः ॥ त्वत्पक्ष इति ॥ प्रतीतेरिति ॥ त्वत्पक्षे भ्रमस्याविद्यावृत्तिरूपतया विषयत्वान्मिथ्यात्वेन तत्र प्रतीतित्वस्यैवाभावेन प्रतीतिविषय[त्वस्य ]चन्द्रभेदेऽसत्त्वाद्दृष्टान्ते साधनवैकल्यमित्यर्थः ।
 प्रामाणिकाप्रामाणिकयोरेकजातिस्त्वन्यत्र निराकृतेति भावः ॥ भेदाभेदभेद इति ॥ भेदाभेदयोर्भेदस्तत्रेत्यर्थः ॥ बाध इति ॥ तस्य पारमार्थिकत्वावश्यम्भावादिति भावः ।
 कुत इत्यतस्तदुपपादयति - भेदाभेदयोरिति ॥ अनेनैवेति ॥ भेदमिथ्यात्वसाधक[बाध]स्यैवाभेदमिथ्यात्वसाधकत्वावश्यम्भावादिति भावः ।
 परमार्थतस्तयोरभेदेऽपि व्यावहारिकसर्वव्यवस्थासम्भव इत्यत आह - व्यावहारिकभेदसद्भाव इति ॥ परमार्थत इति ॥ अपरमार्थतो ब्रह्मणो भिन्नस्येति च्छेदः ।
 तथा च पारमार्थिकब्रह्मणाऽपरमार्थतो भेदवतो जीवस्य पारमार्थिकाभेदवत् ।
 पारमार्थिकभेदेन सहापारमार्थिकभेदवतो जीवस्य भेदस्य भेदेन सह पारमार्थिकाभेदस्य सत्त्वेन पारमार्थिकत्वप्राप्त्या मिथ्यात्वसाधने बाध एवेति भावः ॥ परमार्थतोऽभेदादिति ॥ परमार्थतोऽभेदादित्यर्थः ।
 न च स्वरूपतः परमार्थस्य पारमार्थिकप्रतियोगिकपारमार्थिकभेदाभावस्तस्य पारमार्थिकत्वापादकः ।
 जीवब्रह्मणोर्दृष्टत्वात् ।
 न चेह तथा भेदस्यापारमार्थिकत्वादिति वाच्यम् ।
 व्याप्यतावच्छेदककोटौ पारमार्थिकत्वनिवेशे गौरवात् (* इतः यत्प्रतियोगिकपारमार्थिकेतिपर्यन्तं मु.पाठे नास्ति ।
) साध्यस्यापि हेतुज्ञानकाले एवसाध्यत्वप्राप्त्या तेन साधनाभावप्रसङ्गाच्च ।
 अतः यत्प्रतियोगिकपारमार्थिकभेदाभावो यत्र तत्र (* `यत्र तस्य' मु. `यस्य तत्र' हु.) परमार्थतस्तदात्मकत्वमित्येव व्याप्तिः ।
 असत्यपि सत्प्रतियोगिकभेदः पारमार्थिक (* `सत्प्रतियोगिकभेदेऽपारमार्थिकभेद' मु.) एवातो न कुत्रापि व्यभिचार इत्याशयेनोक्तापादनात् ।
 केषुचित् पुस्तकेषु व्यावहारिकभेदसद्भावेऽपि परमार्थतो ब्रह्मणो भिन्नस्य जीवस्य पारमार्थिकत्ववत्परमार्थतः पारमार्थिकाभेदाभिन्ने भेदे पारमार्थिकत्वं स्यादिति मिथ्यात्वसाधने बाध इति पाठस्तत्र न कोऽपि क्लेशः ॥ पारमार्थिकापारमार्थिकेति ॥ इदं च भेदस्य मिथ्यात्वे ब्रह्मणोऽपारमार्थत्वं (प्रपञ्चस्य परमार्थत्वं) स्यादित्यनिष्टसूचनाय ॥ व्यभिचारश्चेति ॥ पक्षबहिर्भाव इत्यादिः ॥ बाधो वेति ॥ पक्षान्तर्भाव इत्यादिः (* तथा चैतट्टिप्पणिरीत्या `बाधो वा' इत्येव पाठः ।
 काशिकारीत्या `तस्यापि पक्षत्वे बाधो वा' इति ।
) ।
 प्रपञ्चप्रतियोगिकब्रह्मधर्मिकभेदस्य मिथ्यात्वान्न तत्र व्यभिचारबाधौ ।
 न च तर्हि ब्रह्मणोऽपारमार्थिकजगता सहाभेदापत्तिः ।
 इष्टापत्तेः ।
 न च तर्हि ब्रह्मणोऽपारमार्थिकत्वापत्तिः ।
 आपादकाभावात् ।
 अपारमार्थप्रतियोगिकाभेद एवापादक इति चेत् (न) ।
 स्वसमानसत्ताकतादृशाभेदस्यैवापारमार्थिकत्वं प्रति व्याप्यत्वाभ्युपगमात् ।
 ब्रह्मणि तदभावेनापादनायोगात् ।
 नापि ब्रह्मप्रतियोगिकप्रपञ्चनिष्ठभेदे बाधव्यभिचारौ तस्य मिथ्यात्वाभ्युपगमात् ।
 न च तर्हि ब्रह्मणोऽपि मिथ्यात्वं स्यात् (* `मिथ्यात्वस्य' मु.) परमार्थनिष्ठाभेदप्रतियोगित्वादिति चेन्न ।
 अपारमार्थिकनिष्ठप्रतियोगिसमानसत्ताकाभेदे प्रतियोगित्वस्यैवापारमार्थिकत्वव्याप्यत्वेन जगन्निष्ठब्रह्माभेदस्य ब्रह्मसमानसत्ताकत्वाभावेनापादनासम्भवात् ।
 अन्यथाऽऽरोपितरजतानुयोगिकाभेदवच्छुक्तेरप्यपारमार्थिकत्वं स्यादित्यभिसन्धिपूर्विकामाशङ्कामुद्घाट्य दूषयति - ब्रह्मण इति ॥ धर्मिसमानसत्ताकोऽभेद इति ॥ अभेद इति छेदः ।
 अपारमार्थिकप्रतियोगिकाभेद इत्यर्थः ।
 तस्य व्याप्तिग्रहाय सहचारं दर्शयति - घटादाविति ॥ सोऽस्तीत्यपारमार्थिकप्रतियोगिकधर्मिसमानसत्ताकभेद इत्यर्थः ।
 एतेन प्रपञ्चे ब्रह्मभेदस्य मिथ्यात्वमाश्रित्य कृता शङ्काऽपि तुल्यन्यायेनोपपादितप्राया भवतीति न न्यूनता ।
 तत्पक्षस्य शङ्कायामेवानभिप्रेतत्वे पूर्वं सामान्योक्त्या ब्रह्मप्रतियोगिकप्रपञ्चभेदे प्रपञ्चप्रतियोगिकब्रह्मभेदे च (* `ब्रह्मप्रतियोगिकप्रपञ्चभेदे प्रपञ्चप्रतियोगिकत्वं ब्रह्मभेदे च' मु. ।
 ब्रह्मप्रतियोगिकप्रपञ्चप्रतियोगिकब्रह्मभेदे' हु.।
) व्यभिचारबाधयोरुक्तत्वेनैकत्र तद्दोषमुद्धृत्यान्यत्र तदकरणे शङ्काया असामाञ्जस्यप्रसङ्गात् ।
 न च भेदद्वये व्यभिचारादिशङ्काया अभिप्रेतत्वे ब्रह्मप्रपञ्चभेद इत्येकवचनासङ्गतिरिति वाच्यम् ।
 प्रपञ्चैकस्याभावेन ब्रह्मघटभेदघटब्रह्मभेदपटभेदादिसङ्ग्रहाय जात्यैकवचनत्वात् ।
 अपारमार्थिकत्वावच्छिन्नप्रतियोगिताकस्वसमानसत्ताकभेदशून्यत्वं यत्र तत्रापारर्थिकत्वमिति व्याप्तेर्घटादिप्रपञ्चान्तर्भावेन तवापि सिद्धत्वात् ।
 अपारमार्थिक[त्व]प्रपञ्चप्रतियोगि[ता]कस्वसमानसत्ताकभेदे शून्यत्वे ब्रह्मणोऽपारमार्थिकत्वं दुर्वारं स्यात् ।
 अतस्तस्य सत्यत्वेऽभ्युपगन्तव्ये बाधकव्यभिचारौ दुर्वारावेवेत्याशयेन (* `बाधकव्यभिचारावेवेत्याशयेन' मु.) समाधत्ते ॥ तर्हीति ।
 स्वसमानसत्ताकभेद इति ॥ अत्र स्वसमानसत्ताकभेद इति छेदः ।
 अन्ये तु ॥ बाधो वेति ॥ ब्रह्मप्रपञ्चभेदस्यापारमार्थिकत्वे द्वयोः पारमार्थिकत्वमपारमार्थिकत्वं वा स्यात् ।
 न त्वेकस्यैव पारमार्थिकत्वमपरस्यापारमार्थिकत्वमित्यवश्यं भेदस्यापारमार्थिकत्वे वक्तव्ये तत्र मिथ्यात्वसाधने बाध इत्यर्थः ।
 ननु ब्रह्मप्रपञ्चभेदस्यापारमार्थिकत्वेऽपि तयोः पारमार्थिकत्वापारमार्थिकत्वव्यवस्था प्रकारान्तरेण (* इतः अग्रिम`व्यवस्थापक'शब्दपर्यन्तं हु.पाठे नास्ति ।
 तत्स्थाने एवं दृश्यते - `व्यवस्थापिकावित्यत्र नियम्यनियामकभावः विपरीत एव नियम्यनियामकभावः किं न-' इति पठ्यते ।
) भविष्यतीत्याशयेन शङ्कते - ब्रह्मण इति ॥ धर्मिसत्तासमानसत्ताकभेदतदभावापारमार्थिकत्वपारमार्थिकत्वव्यवस्थापकावित्यत्र (* `-भेदतदभावौ पारमार्थिकत्वापार-' इति पाठेन आभ्व्यमिति भाति ।
) विपरीत एव नियम्यनियामकभावः किं न (* `-व्यवस्थापकाविति किञ्चिन्न' मु. ।
 `इत्यत्र विपरीत एव नियम्यनियामकभावः किं न' इति भागः प्राक् प्रदर्शितहु.पाठात् स्वीकृतः ।
) स्यादित्याह तर्हीत्याहुः ।
 तन्मते उभयत्रापि भेद इत्येव छेदः ।
 प्रपञ्चवदिति दृष्टान्तस्तु अपारमार्थिकत्वाशय एव ।
 तदुक्तिरपि स्वरूपतो मिथ्यात्वापादनाय ।
 अन्यथोपहितरूपेण मिथ्यात्वाङ्गीकारादिष्टापत्तिः स्यादित्यवधेयम् ।
 क्वचित्पुस्तके वाक्यद्वयेऽपि धर्मिसमानसत्ताकभेद इति पाठो दृश्यते ।
 ततचैष (तत्रैष) एवार्थ इति ध्येयम् ॥ प्रातिभासिकत्वमिति ॥ ब्रह्मज्ञानेतरबाध्यत्वादिरूपमित्यर्थः ॥ न चेति ॥ तत्प्रातिभासिकत्वम् ।
 अन्योन्यस्मिन्निति युष्मदस्मत्प्रत्ययगोचरयोरित्यनेन प्रकृतयोरात्मानात्मनोरन्योन्यस्मिन् (* `प्रकृतयोरात्मनोरन्योन्यस्मिन्' मु.) आत्मन्यनात्मनोऽनात्मन्यात्मनोऽध्यस्य सर्वोऽपि व्यवहार इति भाष्यार्थः ॥ गौरोऽहमिति ॥ गौरवर्णशरीरस्याहं पदार्थात्मनि भासमानाभेदस्याध्यस्तत्वादित्यर्थः ।
 नन्वन्यतरचन्द्रस्यारोपितत्वादारोपितानारोपितभेदस्य (* `नन्वन्यतरचन्द्रस्यारोपितानारोपितभेदस्य' मु.) सत्य(साध्य)त्वात्साध्यविकलो दृष्टान्त इति सर्वगतत्वाधिकरणतत्त्वप्रकाशिकायामुक्तम् ।
 न च चन्द्रान्तरारोपस्य पूर्वपक्षदूषितस्य सिद्धान्ते व्यवस्थापनपूर्वं (* `व्यवस्थापनम् ।
 पूर्वं' मु.) साध्यवैकल्यस्य दृढीकृतत्वात् (तत्)परित्यागेन दूषणान्तरस्यैव कथनाच्च तद्विरोध इति चेन्न ।
 यतश्चन्द्रान्तरारोप एव युक्तिसिद्धो भवति ।
 तथा हि ।
 चन्द्रान्तरारोपेऽङ्गुलिचलनादिनैकचन्द्रचलनस्यापरचन्द्रचलनाभावस्य च प्रत्ययानुपपत्तिः (* `प्रतीत्युपपत्तिः' मु.) ।
 क्रियामात्रस्य चन्द्र एवारोपस्वीकारात् ।
 एवं वक्रत्वादेरप्युभयत्रापि तुल्यतया प्रत्ययप्रसङ्गश्च ।
 अतो भीषणत्वादिविशिष्टसर्पस्य रज्जाविव वक्रत्वचलनादिविशिष्टचन्द्रस्यैवारोपो वाच्यः ।
 न च पूर्वपक्षोक्तरीत्याऽधिष्ठानानुपपत्तिः ।
 पुरोवृत्तिचन्द्रस्यैवाधिष्ठानत्वसम्भवात् ।
 न च पुरोवृत्तिचन्द्रभिन्नतया प्रतीयमानस्य कथं (तत्)तादात्म्येन भानमिति वाच्यम् ।
 तत्तादात्म्यभानं विनैव चन्द्रस्य भ्रमगोचरतासम्भवात् ।
 न च भ्रमविषयस्य नियमेनाधिष्ठानतादात्म्येनैव (* `नियमताधिष्ठानतादात्म्येनैव' मु.) भानमिति नियमः ।
 परमते स्फटिकादौ लौहित्यरूपप्रतिबिम्बाध्यासस्थले प्रतिबिम्बस्य, सर्वपक्षेऽत्रैव भ्रमे भासमानक्रियादेः, स्थिरेष्वेव पर्वतादिषु चलनभ्रमस्थले चलनादेः, केशोण्ड्रकादिभ्रमस्थले च (* इतः अग्रिम`केशोन्ड्रकादिस्थल'इतिपदपर्यन्तं हु.पाठे नास्ति ।
) दीर्धतया भासमानरश्म्यादीनां च तादात्म्येन भासमानवस्त्वन्तरानिरूपणात् ।
 पर्वतादिवृत्तिरूपादीनामारोप्यमाणादतिरिक्तत्वेनैव भानात् ।
 केशोण्ड्रकादिस्थले तेषां दीपसम्बन्धित्वेनैव भानेन तदतिरिक्तत्वस्यैव दर्शनात् ।
 अन्तरालभागे तत्तादात्म्यापन्नतया भासमानस्यैन्द्रियकस्यानुपलम्भात् ।
 स्फटिकरूपे लौहिताभेदाध्यास इत्युक्तावपि मुखाध्यासस्थलेऽगतिरेव (* `मुखादिस्थले गतिरेव' मु.) दर्पणान्तर्गततयैव भानात् ।
 न च मायावादिना बौद्धेन वा (* `बौद्धेनैव' मु.) निरधिष्ठानभ्रमः स्वीकर्तुं शक्योऽपसिद्धान्तप्रसङ्गात् ।
 न च भ्रमविषयीभूततादात्म्येन भासमानत्वस्यैव तदधिष्ठानरूपत्वाच्चन्द्रादीनां चातथात्वात्कथमधिष्ठानत्वमिति वाच्यम् ।
 उक्तभ्रमेऽधिष्ठाननिरूपणान्यथाऽनुपपत्त्या शुक्तिरजतादिभ्रमे रजतादौ भासमानसत्त्वस्याधिष्ठानभूतसत्पदार्थनिरूपणान्यथाऽनुपपत्त्या च तद्भ्रम[तदुप]जनककरणसन्निकर्षाश्रयत्वस्यैवाधिष्ठानत्वपदार्थत्वाभ्युपगमात् शुक्तिकासन्निकृष्टचक्षुषा दोषवशाद्रजताकारज्ञानमिवोक्तदोषसहितचक्षुषा सह चन्द्रदीपादीनां सन्निकर्षवशादेव चन्द्रदीपादिषु प्रतीयमानवक्रत्वादिमच्चन्द्रान्तरभेददीर्घाकाररश्म्याद्याकारकज्ञानोत्पत्यङ्गीकारात् ।
 तत्र भासमानारोपितचन्द्रस्यासत्त्वेन सत्यचन्द्रे भासमानतद्भेदस्य सत्यत्वात् ।
 न चैक एवायं चन्द्र इति भेदबाधानुभवविरोधः ।
 अनयोरन्यतर एक एव चूतोऽपरः पनस इति चूतपनसयोः स्वरूपस्वत्वावगाहित्वपूर्वकं तयोस्तादात्म्यमात्रस्य बाधावगाह्यनुभववदनयोरभेद एव न तु भेद इत्यनुभवाभावात् ।
 प्रत्युत भासमानयोरनयोर्मध्ये एतत्प्रदेशस्थ एक एव चन्द्रोऽस्ति न त्वपर इति भेदावशेषपूर्वकं चन्द्रस्यैव बाधानुभवात् ।
 न चारोपप्रयोजकस्मरणानुपपत्तिरूपपूर्वपक्षोक्तदोषः ।
 तस्य प्रधानज्ञानमुद्रया अपेक्षितत्वेन परिदृश्यमानचन्द्रस्याधिष्ठानस्यापि प्रधानत्वे (* `प्रधानत्वेन' मु.) बाधकाभावेन तज्ज्ञानमात्रेणारोपोपपत्तेः ।
 तज्ज्ञानं चानुभवरूपं यथाकथञ्चित्स्मरणरूपं वा ।
 त्वन्मते भेदभ्रमहेतुभेदज्ञानवदित्युभयथाऽपि न दोषः ।
 चन्द्रान्तरारोपोऽपि बौद्धसम्मतः ।
 यत्स्वरूपत एव कल्पितं तन्मिथ्या यथाऽङ्गुल्यवष्टम्भनिमित्तोऽपरश्चन्द्रमा इति विष्णुत्तत्त्वनिर्णयटीकायां तन्मतोपन्यासात् ।
 इत्थं च चन्द्रान्तरस्यारोपितत्वेन तद्भेदस्य सत्यत्वेन टीकोक्तं दृष्टान्ते साध्यवैकल्यं सुदृढमेव ।
 एतद्ग्रन्थे तद्व्यवस्थापनाभावस्तु भेदत्वहेतोरसिद्धेरप्युक्तत्वेन तादृशासिद्धेर्भेदारोपपक्षाश्रयतात्पर्येणाप्युपपादयितुं शक्यत्वेनैकस्मिन्नेव पक्षे निर्भरस्याप्रदर्शितत्वात्तद्व्यवस्थापनानावश्यकतेति सहृदयैराकलनीयम् ॥ चतुर्थे त्विति ॥ विमतं तत्त्वत इत्यनुमान इत्यर्थः ॥ उपाधिभेदेनेति ॥ पृथिव्यादिसमुदायत्वेनेत्यर्थः ॥ पदार्थान्तराभावेनेति ॥ न चापेक्षाबुद्ध्या समुदायाख्यं नानासमुदायं शङ्क्यम् ।
 एकं विशिष्टमुत्पद्यते ।
 तत्र न वक्ष्यमाणदूषणानां प्रसक्तिः ।
 तत्रांशवृत्तिधर्माणामनङ्गीकारात् ।
 अन्यथा दण्डसम्बन्धाद्दण्डविशिष्टपुरुषोत्पत्तौ दण्डत्वपुरुषत्वजात्योः साङ्कर्यापत्तिरिति वाच्यम् ।
 वर्तमानकालमात्रवृत्तिसमुदायस्य तथा वक्तुं शक्यत्वेऽप्यतीतानागतानां ज्ञानानां (* `अंशानां' हु.) मेलनस्य कदाऽप्ययोगेन प्रकृते तादृशसमुदायोत्पत्तेर्वक्तुमशक्यत्वादित्यभिप्रायात् (* `समुदायोक्तेर्वक्तुमशक्य-' मु.) ।
 घटादितुल्यतया पृथिव्याद्यारब्धत्वाङ्गीकारे (* पाठद्वयाधारेण निश्चितः अयं पाठः ।
 तथा हि पाठद्वयम् - `पृथिव्याद्याधारत्वाङ्गीकारे' मु.।
 `द्यारब्धत्वाङ्गीकारे' हु.।
) वक्ष्यमाणदूषणानामपि सङ्गतेः ॥ बाध इति ॥ भेदस्य प्रत्यक्षतः सत्यत्वेनैव निश्चितत्वादिति भावः ॥ पृथिवीत्वादीनामिति ॥ दारुपाषाणादिनिर्मितगृहादावप्येष(प्येवं) दोषः स्यादिति चेन्न ।
 तस्य सर्वप्रत्यक्षादिसिद्धत्वेन यथाकथञ्चिद्दोषपरिहारसम्भवेऽपि प्रकृतस्याप्रामाणिकत्वादेवैते दोषा अभ्युच्चयत्वेनोक्ता इत्यभिप्रायात् ॥ गुणादीनामिति ॥ द्रव्यत्वापत्तिश्चेति ॥ समवायिकारणत्वस्य द्रव्यलक्षणत्वादित्यर्थः ॥ निरवयवानामिति ॥ न च निरवयवपरमाणूनां द्रव्यारम्भकत्वदर्शनात्कथमेतदिति वाच्यम् ।
 गगनस्यैकस्य द्रव्यान्तरारम्भकत्वे लोके गगनव्यवहारभागिपदार्थस्यैवाभावप्रसङ्गः ।
 घटारम्भकपरमाणूनामिव तस्य पृथगप्रतीतेः ।
 अंशत आरम्भकत्वं तु निरवयवस्यानुपपन्नमिति तात्पर्येण निरवयवत्वविशेषणोपादानात् ॥ आकशभेदसाधनमिति ॥ आकाशांशानां (* `आकाशानां' मु.) स्वाभाविकभेदसाधनमित्यर्थः ।
 अन्यत्र न्यायामृतादौ ।
 तथा च पराभिमतस्वान्तर्भेदशून्य(रूप)त्वसाध्यस्यापि तत्र वैकल्यमित्याशयः ।

(35) (का.) परोक्तहेतुमपि दूषयति - भेदत्वेनेति ॥ इदंप्रतीयमानत्वमित्येकपदम् ।
 इदं वक्ष्यमाणविशेषसामान्याकारबोधौपयिकं प्रतीयमानत्वपदं यत्परं तत्प्रतीतिविशेषणं किमित्यर्थः ।
 तेन न वक्ष्यमाणविकल्पानुपपत्त्यवकाशः ॥ तवासिद्धेरिति ॥ भेदमात्रस्य मिथ्यात्वेन तत्प्रतीतेः प्रमात्वायोगात् पक्षदृष्टान्तयोर्हेत्वसिद्धेरित्यर्थः ॥ ममासिद्धेरिति ॥ घटपटादिभेदास्यारोपितानारोपितचन्द्रभेदस्य च सत्यत्वादिति भावः ।
 न च चन्द्रान्तरस्यारोपितत्वे गौरवम् ।
 चन्द्रसमीपदेशे चन्द्रान्तरारोपं विना तत्प्रतीत्यनुपपत्तेः ।
 मिथ्यैव चन्द्रान्तरं प्रत्यभादित्यनुस्मृतेश्च ।
 एतेन दृष्टान्ते साध्यवैकल्पं च सूचितम् ।

॥ चन्द्रभेदप्रत्यक्षप्रतीतेरिति ॥ तन्मते चन्द्रभेदप्रत्यक्षस्य भ्रमत्वेन प्रातिभासिकत्वात् व्यावहारिकप्रातिभासिकयोरनुगतसामान्याभावेन हेत्वसिद्धेरित्यर्थः ।
 अन्यथा बाष्पारोपितधूमादिमति वह्न्याद्यभावादनुमानोच्छेदप्रसङ्ग इति भावः ।
 अभ्युपेत्यापि दोषमाह - भेदाभेदेति ॥ भेदाभेदयोर्यो भेदस्तत्रेत्यर्थः ॥ तस्यापि पक्षत्व इति ॥ तत्साधारणविमतेः पक्षतावच्छेदकत्वात् पक्षे व्यभिचारस्य चादोषत्वादिति भावः ।
 ननु भेदाभेदभेदस्यापि मिथ्यात्वाङ्गीकारात् न बाध इत्यत आह - भेदाभेदयोरिति ॥ मिथ्यात्वं स्यादिति ॥ अभेदस्यापि भेदत्वेन पक्षत्वात् हेतुमत्त्वाच्चेति भावः ।
 अत्रैव दोषान्तरमाह - व्यावहारिकेति ॥ पारमार्थिकः स्यादिति ॥ अभेदस्य पारामर्थिकत्वे तदभिन्नभेदस्य मिथ्यात्वायोगादिति भावः ।
 भेदाभेदयोः व्यावहारिकभेदसत्त्वात् कथमभेद इत्यत उक्तम् ॥ परमार्थतोऽभिन्न इति ॥ व्यावहारिकभेदश्च न पारमार्थिकाभेदविरोधीत्याशयः ।
 अत्र दृष्टान्तो व्यावहारिकेत्यादिः ।
 स्थलान्तरे व्यभिचारमाह - पारमार्थिकेति ॥ पारमार्थिकं ब्रह्म अपारमार्थिकश्च प्रपञ्च इत्यनयोर्भेदस्य पारमार्थिकत्वात् तत्रापि व्यभिचार इत्यर्थः ॥ तस्यापीति ॥ ब्रह्मप्रपञ्चभेदस्यापीत्यर्थः ।
 तस्यापारमार्थिकत्वे च ब्रह्मवत् प्रपञ्चस्य पारमार्थिकत्वापत्त्या तदन्तर्गतभेदे पुनर्बाध एवेत्यर्थः ।

स्यादेवं यदि ब्रह्मप्रतियोगिकपारमार्थिकभेदशून्यत्वं ब्रह्मधर्मापादकं स्यात् ।
 न चैवम् ।
 अपि तु ब्रह्मप्रतियोगिकधर्मिसत्तासमसत्ताकभेदशून्यत्वमेवातो नोक्तदोष इत्याशङ्कते - ब्रह्मणीति ॥ भेदो ब्रह्मभेदः ॥ प्रपञ्चवत् स्यादिति ॥ तुल्यन्यायेन प्रपञ्चप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदशून्यत्वस्य प्रपञ्चधर्मापादकत्वप्राप्तेरिति भावः ।
 चन्द्रभेद इति साध्यव्यापकत्वप्रदर्शनार्थम् ।
 यद्यपि मिथ्यात्ववति घटदौ न प्रातिभासिकत्वम् ।
 तथापि भेदत्वावच्छिन्नसाध्यव्यापकत्वादुपाधित्वमिति ॥ नन्वस्य साधनव्यापकत्वात् नोपाधित्वम् ।
 भेदत्वेन पक्षेऽप्युपाध्यनुमानादित्याशङ्कां वारयति - न चेति ॥ तथा चापसिद्धान्त इति भावः ।
 शङ्करभाष्यविरोधमेव विवणोति - गौरोऽहमिति ॥ देहात्माभेदस्य मिथ्यात्वानङ्गीकारे तद्विषयस्य गौरोऽहमित्यादिज्ञानस्याबाधितविषयत्वेन प्रमात्वापत्त्या तद्भ्रमत्ववर्णनपरभाष्यविरोध इति भावः ।
 प्रामाण्यप्रसङ्गाच्चेति पाठे तु दूषणान्तराभिधानमेतदिति ज्ञातव्यम् ।
 यत्तु जीवेशाभेदस्यापि मिथ्यात्वमिष्टमेवेति नोक्ताभाससाम्यापत्तिः ।
 न चैवं भेदस्य सत्यत्वापत्तिः ।
 श्रुत्या दृश्यत्वावच्छेदेनैव मिथ्यात्वावधारणादिति तत् तुच्छम् ।
 भेदाभेदोभयमिथ्यात्वस्य व्याहतत्वेन श्रुत्यापि प्रतिपादयितुमशक्यत्वात् ।
 उपपन्नस्यैव श्रुत्यर्थत्वात् ।
 अन्यथाऽभिमान्यधिकरणविरोधादिति ।

चतुर्थानुमाने विमतं जगत् तत्त्वतः स्वान्तर्भेदहीनं मेयत्वात् गगनवत् इत्यत्र गगनादिवत् जगतः स्वतन्त्रपदार्थत्वे तदवयवरूपतदेकदेशप्रसिद्ध्या तदभेदरूपसाध्यसिद्धिः स्यात् ।
 न चैवम् ।
 नानावस्तूनामेव सेनावनादिपदार्थत्ववत् समूहत्वविशेषोपाधिना जगत्पदार्थत्वात् ।
 तदवच्छिन्ने च साध्यस्य विशेषणाप्रसिद्ध्या बाध इत्याह - चतुर्थे त्विति ॥ नन्वस्तु तर्हि गगनादिवत् जगत् पदार्थान्तरमेव ।
 न चैतावता पृथिव्यादीनां कथमभेदसिद्धिरिति वाच्यम् ।
 पृथिव्यादीनां जगदुपादानत्वेन तदेकदेशत्वादित्याशङ्क्याऽह ॥ पृथिव्यादीनामिति ॥ जातिसाङ्कर्यप्रसङ्ग इति ॥ पृथिव्याद्यारब्धस्य पृथिव्यादित्वनिमादिति भावः ॥ जगदन्तर्भूतानामिति ॥ जगदारम्भकत्वे हेतुः ॥ द्रव्यत्वापत्तिरिति ॥ उपादानत्वरूपारम्भकत्वस्य द्रव्यधर्मत्वादिति भावः ।
 निरवयवानां विभुद्रव्याणां जगदाख्यद्रव्यारम्भकत्वे ततोऽपकृष्टपरिमाणत्वप्राप्त्या विभुत्वव्याघात इति द्रष्टव्यम् ॥ अन्त्यावयवित्वहानिश्चेति ॥ अन्त्याववित्वस्य द्रव्यानारम्भकद्रव्यत्वरूपत्वादिति भावः ।
 इदमुपलक्षणम् ।
 पृथिव्यारब्धस्य जगतोऽपि जगदन्तर्गतत्वेन जगदारम्भकत्वावश्यम्भावेन जगदन्तरस्वीकारापत्त्याऽनवस्था च बोध्या ।
 ननु विशिष्टघटादिः स्वान्तर्भेदहीन इति साधनान्नोक्तदोष इत्याशङ्क्य साध्यविकल्पेन दूषयति - घटादिपदार्थानामिति ॥ साध्यविकल इति ॥ मया गगने घटादिप्रतियोगिकपारमार्थिकभेदाभ्युपगमादिति भावः ।
 स्वैकदेशभेदाभावसाधनेऽप्याह - आकाशेति ॥ आकाशैकदेशानामाकाशेन मिथश्च तात्त्विकभेदसाधनमन्यत्र न्यायामृतादौ कृतमतो दृष्टान्ते साध्यवैकल्यमिति भावः ।

एवं विमतौ परमार्थतः परस्पराभिन्नौ प्रमेयत्वात् परस्परवत् इत्याद्यशेषाभिलषितभेदसाधकानुमानेषु प्रत्यक्षादिप्रमाणबाधः ।
 सर्वत्र साक्षिणः पारमेश्वरस्य च भेदप्रत्यक्षस्य प्रमाणसिद्धत्वात् ।
 विमतौ न परमार्थतः परस्पराभिन्नौ परस्परविरुद्धधर्मवत्त्वात् व्यतिरेकेण परस्परवत् इत्यनुमानात्, द्वा सुपर्णेत्याद्यागमाच्च ।
 परस्परविरुद्धधर्मानधिकरणत्वमन्ततः पक्षेतरत्वमप्युपाधिः ।
 विमतौ व्यवहारतो परस्पराभिन्नौ मेयत्वात् परस्परवत् इत्याभाससाम्यम् ।
 अनुकूलतर्काभावादेवाप्रयोजकत्वं चेत्येवमाद्यन्तदोषदुष्टत्वात् नाद्वैतमुपादेयम् ।

यदत्र केनचित्प्रलपितम् ।
 सोऽयं भेदः किं धार्मिस्वरूपस्तद्धर्मो वा ।
 नाद्यः ।
 भिन्नमिति प्रतीतौ प्रकारत्वानुपपत्तेः ।
 घटभेदप्रतीत्योरविशेषप्रसङ्गाच्च ।
 विषयवैलक्षण्याभावात् ।
 ग्राहकसामग्रीवैचित्र्यानुपपत्तेश्च ।
 घटप्रतीतौ भेदसन्देहानुपपत्तेश्च ।
 अज्ञातांशाभावात् ।
 भेदस्य सप्रतियोगित्वानुपपत्तेश्च ।
 धर्मिणो घटादेर्निष्प्रतियोगिकत्वात् ।
 रूपादेरपि धर्मिस्वरूपत्वापत्तेश्च ।
 भेदवदभेदस्यापि धर्मिस्वरूपत्वेन भेदाभेदयोरभेदापत्तेश्च ।
 तत्प्रतीत्योरविशेषप्रसङ्गाच्च ।
 तत्पदयोः पर्यायत्वापत्तेश्च ।
 एतेन कारणत्वादीनां धर्मिस्वरूपत्वमप्यपास्तं वेदितव्यम् ।
 द्वितीये भावोऽभावो वा ? नाद्यः ।
 जात्यादिरूपत्वे सप्रतियोगिकत्वाद्यनुपपत्तेः ।
 पृथक्त्वादिरूपत्वे च गुणादौ भेदप्रत्ययानुपपत्तेः ।
 अन्योन्याभावेनैवोपपत्तौ पृथक्त्वरूपगुणान्तरानङ्गीकाराच्च ।
 नान्त्यः ।
 भेदस्यान्योन्याभावरूपत्वे कपिसंयोगवति वृक्षे तद्भेदसत्त्वप्रसङ्गात् ।
 मूले वृक्षो न कपिसंयोगीति प्रतीतेः ।
 अत्यन्ताभावरूपत्वे च नास्ति न भवतीति प्रतीत्योरविशेषप्रसङ्गात् ।
 स्वस्मिन्नपि स्वात्यन्ताभावसत्त्वेन स्वभेदबुद्ध्यापत्तेश्च ।
 तद्भेदस्य तद्धर्मात्यन्ताभावरूपत्वे च प्रथमदोषानिस्तारात् ।

किञ्च प्रतियोगिप्रमाणयोरभावान्न भेदसिद्धिः ।
 तथाहि न तावत् घटभेदस्य घटः प्रतियोगी ।
 घटवति घटभेदानुपपत्तेः ।
 लघवादभावत्वावच्छेदेनैव प्रतियोगिविरोधावधारणात् ।
 किञ्च भेदस्याभेदाभावत्वेनाभेदस्यैव तत्प्रतियोगित्वं स्यात् ।
 न चाभेदो घटादिस्वरूप एवेति वक्तुं शक्यम् ।
 घटवति घटभेदानुपपत्तेः ।
 न चाभेदस्यापि भेदप्रतियोगित्वं सम्भवति ।
 तज्ज्ञानस्य भेदज्ञानाधीनत्वात् भेदज्ञानस्य च प्रतियोगिज्ञानाधीनत्वेनान्योन्याश्रयात् ।
 अत एव न तत्र प्रत्यक्षं प्रमाणम् ।
 अन्योन्याश्रयात् ।
 एवं घटे पटभेदाभेदयोः संशयनिश्चयदशायां पटे घटभेदनिश्चयादर्शनात् घटभेदनिश्चये पटभेदनिश्चयस्य हेतुत्वं वाच्यम् ।
 `यत्संशयव्यतिरेकनिश्चयौ यत्र प्रतिबन्धकौ तन्निश्चयस्तद्धेतु'रिति नियमात् ।
 एवं पटभेदनिश्चये घटभेदनिश्चयस्य हेतुत्वमित्यन्योन्याश्रयः ।
 किञ्च प्रतियोगित्वग्राहकसन्निकर्षाभावान्न प्रतियोगित्वविशेषितभेदप्रत्यक्षसम्भवः ।
 ज्ञानमेव सन्निकर्ष इति चेत् हन्त तर्हि तज्ज्ञानं प्रतियोगित्वविषयं भेदज्ञानापेक्षमित्यन्योन्याश्रयः ।
 नाप्यनुमानम् ।
 देवदत्तो यज्ञदत्तभेदवान् तद्दुःखानुसन्धातृत्वादित्यादेरौपाधिकभेदेनाप्युपपत्तेः ।
 अत एव नागमः ।
 पारमार्थिकभेदासाधकत्वात् ।
 तस्मात् सर्वाऽपि भेदप्रतीतिरनिर्वचनीयाविद्याविलास एवेति युक्तम् ।
 तदुक्त`मसम्भवनीयावभासचतुरा हि से'ति ।
 
तदेतत् सर्वमपि विशेषाङ्गीकारपराहतम् ।
 तथाहि - भेदस्तावत् धर्मिस्वरूपस्तद्धर्मश्च भवति ।
 अभेदेऽपि धर्मधर्मिभावो विशेषप्रभावात् ।
 अत एव भिन्नमिति प्रतीतौ प्रकारत्वमपि ।
 घटभेद्रप्रतीत्योर्वैलक्षण्यमपि विशेषादेव ।
 न च विशेषस्य तटस्थस्य प्रतीतिवैचित्र्यनियामकत्वे विषयवैयर्थ्यात् विज्ञानवादप्रसङ्गः ।
 विषयविधया तथात्वे चानुभवविरोध इति वाच्यम् ।
 घटत्वभेदत्वरूपप्रकारवैचित्र्यादेव प्रतीतिवैचित्र्यम् ।
 प्रकारयोस्तु विशेषकृतं वैचित्र्यमित्यत्र दोषाभावात् ।
 अत एव ग्राहकसामग्रीवैचित्र्यमप्युपपद्यते ।
 ग्राह्यवैचित्र्यस्योपपादितत्वात् ।
 एतेन घटप्रतीतौ भेदसन्देहानुपपत्तिरित्यपि निरस्तम् ।
 घटत्वेन तत्प्रतीतावपि भेदत्वेन तदप्रतीतेः ।
 घटत्वभेदत्वयोरभेदेऽपि विशेषसद्भावादेव तदुपपत्तेः ।
 भेदस्य सप्रतियोगिकत्वमपि विशेषबलादेव ।
 न चैवं घटो न सप्रतियोगिक इति व्यवहारानुपपत्तिः, सप्रतियोगिकभेदाभिन्नत्वादिति वाच्यम् ।
 तदभिन्नत्वेऽपि तद्विशेषस्यैव तद्व्यवहारविषयत्वात् ।
 अभेदे भेदकार्यनिर्वाहको विशेषः ।
 रूपादेर्धर्मिस्वरूपत्वं त्विष्यत एव ।
 न चैवं रूपप्रतीतौ रसादिप्रतीतिप्रसङ्गः ।
 रसत्वादिना तदप्रतीतेर्विशेषत एवोपपत्तेः ।
 भेदाभेदयोरभेदश्चेष्ट एव ।
 परापेक्षया भेदस्य स्वापेक्षयाऽभेदत्वे बाधकाभावात् ।
 न चैवं घटे स्वापेक्षयेव परापेक्षयाऽपि अभेदव्यवहारप्रसङ्गः ।
 स्वरूपे विशेषभावादिति वाच्यम् ।
 विशेषाभावे स्वापेक्षयेत्यस्यैवानुपपत्तेः ।
 तद्भावे तु तत एव स्वाभेदो न पराभेदः ।
 अत एव न भेदाभेदप्रतीत्योरविशेषः ।
 न वा तत्पदयोः पर्यायत्वम् ।
 प्रतिपाद्यवैचित्र्यस्योक्तत्वात् ।
 एतेन कारणत्वादिकमपि व्याख्यातम् ।

यच्चोक्तं भावोऽभावो वेति, तत्र ब्रूमो यो भेदो यत्र प्रतीयते स तत्स्वरूप इति ।
 न चैवं घटात्यन्ताभावे प्रतीयमानघटभेदस्य घटात्यन्ताभावरूपतया तस्य च घटेऽपि सत्त्वात् घटभेदप्रतीतिप्रसङ्ग इति वाच्यम् ।
 घटे घटभेदत्वेन तदसत्त्वात् ।
 न च स्वरूपप्रतियोगिप्रतियोगितावच्छेदकाविशेषे भेदत्वात्यन्ताभावत्वयोरप्यविशेष इति वाच्यम् ।
 घटनिषेधोऽत्यन्ताभावो घटतादात्म्यनिषेधोऽन्योन्याभाव इति विशेषात् ।
 घटो न भवतीति साक्षाद्धटस्य प्रतियोगित्वं भासत इति चेत् घटोऽपि प्रतियोग्येव ।
 तादात्म्यं भेदप्रतियोगितावच्छेदकमित्यप्याहुः ।

एतेन संयोगेन संयोग्यत्यन्ताभावस्य संयोगरूपसंयोगितादात्म्यावच्छिन्नप्रतियोगिताकतया तद्भेदत्वापत्तिरिति निरस्तम् ।
 संयोगस्य संयोग्यत्यन्ताभावाप्रतियोगित्वात् ।
 तदवच्छेदकत्वेऽपि संयोगत्वेनैव ।
 न तु तादात्म्यत्वेनेति विशेषात् ।
 वस्तुतोऽन्योन्यात्यन्ताभावयोः सदसत्प्रतियोगिकत्वाभ्यामस्ति महान् विशेषः ।
 एतेन नास्ति, न भवतीति प्रतीत्योरविशेषप्रसङ्गोऽपि निरस्तः ।
 यदपि मूले वृक्षः कपिसंयोगी नेति प्रतीतेर्मूलावच्छिन्नवृक्षे कपिसंयोगिभेदः सिद्ध्येदिति तदिष्टमेव विशिष्टभेदवादिनाम् ।
 न चैवं प्रत्यभिज्ञाविरोधः ।
 शाखामूलाद्यवच्छिन्नयोरभेदस्यापि सत्त्वात् ।
 न च भेदाभेदयोर्विरोधः ।
 विशेषबलादविरोधोपपत्तेः ।
 न चैवं विशेष एवास्तु, किं भेदेनेति वाच्यम् ।
 भेदस्य प्रमितत्वात् ।

यत्त्वभावत्वावच्छेदेन प्रतियोगिविरोधावधारणात् घटवति घटभेदानुपपत्तिरिति ।
 तदसत् ।
 घटवति घटप्रागभावादेरनुपपत्तेः ।
 प्रागभावादेः प्रतियोगिदेशवृत्तित्वस्य प्रमितत्वात् ।
 प्रतियोगिकालावृत्तित्वरूपो विरोधस्तत्रावधार्यत इति चेत् तर्हि भेदस्य प्रतियोगिदेशकालवृत्तित्वस्य प्रमितत्वात् प्रतियोगिवस्त्ववृत्तित्वरूपो विरोधोऽत्रावधार्यताम् ।
 प्रतियोगिनैकदैकत्रानवस्थानरूपविरोधः प्रागभावाद्यनुगत इति चेत् स्वाभावेनैकदैकत्रानवस्थानरूपविरोधो भेदाद्यनुगत इत्यस्तु ।
 वस्तुतः प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिविरोधः सर्वाभावसाधारणः ।
 भेदस्यापि तादात्म्येन प्रतियोगिविरुद्धत्वात् ।

यदपि भेदस्याभेदाभावत्वान्न घटादेस्तत्प्रतियोगित्वमिति, तदपि न ।
 प्रागभावादेरिव भेदस्य स्वाभावाभावत्वेऽपि घटादिप्रतियोगिकत्वाविरोधात् ।
 अभेदस्य घटादिस्वरूपत्वेऽपि न दोषः ।
 अभेदत्वेनाभेदस्य प्रतियोगिन्येव सत्त्वात् ।
 घटत्वघटाभेदत्वयोर्विशेषसद्भावादेव घटत्वेन घटवति घटाभेदत्वेन तदसत्त्वसम्भवात् ।
 यदपि भेदाभेदयोः परस्परज्ञानाधीन ज्ञानत्वादन्योन्याश्रय इति ।
 तत्तुच्छम् ।
 घटाभेदज्ञानहेतोर्घटभेदाज्ञानस्याघटत्वेन घटज्ञानमात्राधीनत्वात् ।
 अत एव भेदप्रत्यक्षमप्युपपद्यते ।
 यदपि घटपटभेदयोरन्योन्यज्ञानाधीनज्ञानत्वादन्योन्याश्रय इति ।
 तदपि न साधु ।
 घटपटभेदयोरन्योन्यसंशयस्य ग्राह्यसंशयवदन्योन्यज्ञानाप्रतिबन्धकत्वेनान्योन्यज्ञानाधीनज्ञानत्वासिद्धेः ।
 अन्यथा ग्राह्यसंशयस्यापि प्रतिबन्धकत्वप्रसङ्गेन वस्तुमात्रस्यैव स्वज्ञानाधीनज्ञानत्वापत्या ज्ञानमात्रापलापापत्तेः ।
 विपक्षे बाधकाभावेन यत्संशयेत्यादिनियमस्याप्रयोजकत्वाच्च ।
 यदपि प्रतियोगित्वांशे सन्निकर्षाभावात् प्रतियोगिविशेषितभेदप्रत्यक्षानुपपत्तिरिति ।
 तदतिमन्दम् ।
 निर्विकल्पकोपस्थितेरेव सन्निकर्षत्वसम्भवात् ।
 तस्याश्च भेदज्ञानानपेक्षत्वेनान्योन्याश्रयानवकाशरत् ।
 प्रतियोगित्वस्य प्रतियोगिस्वरूपत्वेन तदुपस्थितेस्तत्सन्निकर्षत्वसम्भवाच्च ।

एवमनुमाने धर्मिसत्तासमानसत्ताकत्वेन भेदविशेषणादुद्देश्यसिद्धिः ।
 न चाप्रयोजकत्वम् ।
 विपक्षे चैत्रादेर्मैत्रादिदुःखानुसन्धानापत्तेर्बाधकत्वात् ।
 चैत्रमैत्रयोरैक्याच्चैत्रचैतन्यस्य मैत्रीयदुःखाद्यनुसन्धानमिष्टमेवेति वाच्यम् ।
 मैत्रशरीरोत्पन्नदुःखादेश्चैत्रशरीरेऽनुसन्धानस्यानिष्टत्वात् ।
 न च तत्तच्छरीरगतान्तःकरणभेदादनुसन्धानाभाव इति वाच्यम् ।
 योगिन्यनुपपत्तेरुक्तत्वात् ।
 अत एवाऽगमोऽपि स्वाभाविकभेदमेव ग्राहयति ।
 अत्त्यनश्नन् इत्युक्ताशनानशनयोः स्वाभाविकभेदेन विनाऽनुपपत्तेः ।
 मुक्तौ भेदश्रुतीनामुदाहृतत्वाच्च ।
 न च भेदस्य वस्तुस्वरूपत्वाङ्गीकारात् स्वरूपस्य च स्वाभाविकत्वे विवादाभावादर्थान्तरमिति वाच्यम् ।
 यतो न भेदो वस्तुस्वरूपमात्रम् ।
 धर्मधर्मिभावाद्यनुपपत्तेः ।
 किन्तु तद्विशेष इत्युक्तम् ।
 तथा च धर्मत्वपरप्रतियोगिकत्वादिविशेषितवस्तुस्वरूपविशेषस्य साध्यत्वान्न दोषः ।

अथ वस्तुस्वरूप एव विशेषसद्भावे किं मानमिति चेदिदं तावत् स्वरूपस्य वस्त्वभिन्नत्वेऽपि वस्तुनः स्वरूपमिति सम्बन्धानुभवादेव स्वरूपस्य वस्तुतो विशेषसिद्धिः ।
 एवं - `यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
 एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति', `एकधैवानुद्रष्टव्यं', `नेह नानास्ति' इत्यादिश्रुतिभिः ब्रह्मणस्तद्धर्माणां चाभेदः सिद्धः ।
 दृश्यते च `सत्यं ज्ञानमनन्तं ब्रह्म', `आनन्दं ब्रह्मणो विद्वान्' इत्यादौ विशेष्यविशेषणभावादिना व्यवहारः ।
 तदुभयविरोधादर्थादाक्षिप्यते विशेषः ।
 एवं घटतद्धर्माणामपि पृथगनुपलम्भेनैकत्वे सिद्धे धर्मधर्मिभावादेर्विशेष एव शरणमिति ॥
यत्त्वनिर्वाच्याविद्यासामर्थ्यादेव सर्वलौकिकवैदिकव्यवहारोपपत्तौ किं विशेषेणेति ।
 तत्तुच्छम् ।
 अविद्याया विषयनिरपेक्षत्वे विज्ञानवादप्रसङ्गात् ।
 तत्सापेक्षत्वे च तत्स्वभावभूतयोरभेदधर्मत्वयोर्विरोधध्रौव्यात् ।
 अभेद एव स्वाभाविको धर्मत्वं तु मिथ्यैवेति चेत् तर्हि तत्प्रतिपादकश्रुतीनाम् अतत्त्वावेदकत्वादप्रामाण्यप्रसङ्गः ।
 परमार्थतो निर्विशेषचैतन्यस्वरूपमात्रे सर्वश्रुतीनां तात्पर्यान्नायं दोष इति चेन्न ।
 दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् ।
प्रतीतविशेषपरित्यागेनाप्रतीतनिर्विशेषस्वीकारात् ।
 शब्दतो निर्विशेषानुभवस्यादृष्टत्वाच्च ।
 न च सोऽयमित्यादौ तत्तेदन्ताविशिष्टयोरभेदान्वयबाधेन स्वरूपमात्रबोधो दृष्ट एवेति वाच्यम् ।
 तत्राप्यतीतसम्बन्धरूपतत्तोपलक्षितस्य तत्कालसम्बन्धध्वंसरूपतत्ताविशिष्टस्य वा वर्तमानकालसम्बन्धरूपेदन्त्वविशिष्टेनाभेदान्वयात् ।

किञ्चाद्वैतवादे तावदविद्यैव नोपपद्यते ।
 विकल्पदोषात् ।
 सत्यत्वे द्वैतप्रसङ्गात् ।
 मिथ्यात्वे कल्पकाभावः ।
 स्वकल्पितत्वे आत्माश्रयात् ।
 अविद्यान्तरकल्पितत्वे चानवस्था ।
 तथा च कुतो धर्मत्वादेर्मिथ्यात्वपरिकल्पनावकाशः ।
 नन्वेवमनुपपन्नत्वं मिथ्यात्वे साधकमेव ।
 उपपन्नत्वे हि सत्यत्वं स्यादिति चेत् तर्हि लाघवादात्मैवाविद्येति कल्प्यताम् ।
 आत्मनोऽविद्यात्वमविद्यानिवृत्तावात्मनिवृत्त्यापत्त्याऽनुपपन्नमिति चेदत एव मिथ्येत्यस्य सुवचत्वात् ।
 आत्मनोऽविद्यात्वमप्रामाणिकमिति चेत्तद्धर्मस्याविद्यात्वे किं प्रमाणमुपलब्धमायुष्मता प्रतीतप्रमाणानां निरस्तत्वादिति दिक् ।

नन्वेवं विशेषोऽपि नोपपद्यते ।
 विकल्पदोषात् ।
 तथाहि ।
 धर्मधर्मिणोर्विशेषो यदि धर्मधर्मिभ्यां भिन्नस्तर्हि भेद एवास्तु किमन्तर्गडुना विशेषेण ।
 यद्यभिन्नस्तर्हि धर्मधर्मिणावेव स्तो न विशेषः ।
 तथा च धर्मधर्मिभावोऽपि न स्यादिति चेन्मैवम् ।
 अभिन्नत्वेऽपि विशेषस्य तन्मात्रत्वाभावेन दोषाभावात् ।
 विशेषस्य विशेषित्वे विशेषानवस्था स्यादिति चेत् वस्त्वन्तरत्वाभावेनादोषत्वादिति ।
 स्यादेतत् ।
 भेदविशेषयोर्नित्यत्वेनानित्यघटादिस्वरूपत्वम् ।
 अनित्यत्वे चोत्तरकालं निर्विशेषाभेदापत्तिरिति चेन्मैवम् ।
 अनित्यगतस्यानित्यत्वेऽप्युत्तरकालं वस्तुन एवाभावेन निर्विशेषाभिन्नवस्त्ववशेषप्रसङ्गाभावात् ।
 नित्यगतस्य नित्यत्वेन सर्वाभेदप्रसङ्गस्यात्यन्तमयुक्तत्वाच्च ।
 तस्माज्जडजीवेश्वराणां मिथः स्वाभाविक एव पञ्चविधो भेदः ।
 तथा हि श्रुतिः --
`जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।

जीवभेदो मिथश्चैव जडजीवभिदा तथा ।

मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ॥
सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।

न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः ॥
कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते ।

द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्' ॥ इत्यादिः ॥
अत्र जीवेश्वरभेदत्वं नाम न जीवेश्वरोभयप्रतियोगिकभेदत्वम् ।
 परस्परभेदस्योभयप्रतियोगिकत्वाभावेनासङ्ग्रहात् ।
अत एव नोभयानुयोगिकभेदत्वम् ।
 एकस्योभयानुयोगिकत्वाभावात् ।
 नापि जीवेश्वरान्यतरप्रतियोगिकभेदत्वमन्यतरानुयोगिकभेदत्वं वा ।
 जडेश्वरभेदादेः पृथगुपादानवैयर्थ्यात् ।
 नापि जीवेश्वरान्यतरप्रतियोग्यनुयोगिकभेदत्वम् ।
 मिथो जीवभेदस्य पृथगुपादानानुपपत्तेः ।
 किन्तु जीवेश्वरद्वित्वसमानाधिकरणप्रतियोगितानुयोगिताकभेदत्वम् ।
 जीवेश्वरगतप्रतियोगित्वानुयोगित्वयोर्जीवेश्वरद्वित्वसमानाधिकरणत्वाज्जीवेश्वरभेदसङ्ग्रहः ।
 जडेश्वरगतप्रतियोगित्वानुयोगित्वयोरतथात्वान्न तत्सङ्ग्रहः ।
 न चैवं मिथोजीवभेदसङ्ग्रहापत्तिः ।
 तत्प्रतियोगित्वानुयोगित्वयोः प्रत्येकं जीवेश्वरद्वित्वसमानाधिकरणत्वादिति वाच्यम् ।
 स्वानुयोगिवृत्तिजीववेश्वरद्वित्वसमानाधिकरणप्रतियोगिताकभेदत्वस्य विवक्षितत्वात् ।
 मिथो जीवभेदस्य च स्वानुयोगिवृत्ति यज्जीवेश्वरद्वित्वं तत्समानाधिकरणप्रतियोगिताकत्वाभावेनासङ्ग्रहात् ।
 एतेन जडेश्वरभेदत्वं जडजीवभेदत्वं च व्याख्यातं वेदितव्यम् ।
 मिथो जीवभेदत्वादिकं च जीवप्रतियोगिकजीवानुयोगिकभेदत्वादिरूपम् ।
 जीवत्वं चात्र भगवत्प्रतिबिम्बत्वमेवेति सङ्क्षेपः ।

नन्वेवमीश्वरस्य परब्रह्मत्वानुपपत्तिः ।
 तस्य त्रिविधपरिच्छेदराहित्यरूपत्वात् ।
 देशकालपरिच्छेदातिरिक्तवस्तुपरिच्छेदस्य तद्भेदरूपत्वादिति चेन्मैवम् अप्रामाणिकं भाषिष्टाः ।
 `अथ कस्मादुच्यते ब्रह्मेति बृहन्तोह्यस्मिन् गुणा' इत्यादिनिगमनिरुक्तनिरवधिकनिःशेषनिर्दोषकल्याणगुणपूर्णत्वस्यैव परब्रह्मत्वरूपत्वात् ।
 तस्मात् जडजीवेश्वराणां परस्परभेदप्रपञ्चस्य पारमार्थिकत्वात् परमेश्वरपरमप्रसादसिद्धये सकलजगज्जन्मादिकारणत्वाद्यनन्तकल्याणगुणाकरतया सर्वोत्तमत्वेन सर्वदैव समुपास्यः श्रीनारायण एवेति सिद्धम् ।

(35) (श.) एवं साध्यं निराकृत्य हेतुमपि निराकरोति ॥ भेदत्वेनेत्यानिना ॥ चन्द्रभेदस्य मिथ्यात्वेनाप्रामाणिकत्वात्प्रामाणिकाप्र आमाणिकानुगतसामान्याभावेन भेदत्वसामान्यं नहेतुरित्यतोभेदत्वेन प्रतीयमानत्वं हेतुरित्युक्तम् ॥ तत्र प्रतीयमानत्वं प्रतीतिगोचरत्वम् ।
 तच्च प्रतीतिस्वरूपं कीदृशमित्यर्थः ॥ प्रतीतित्वसामान्यमिति ॥ प्रमाऽप्रमानुगतं प्रतीतित्वसामान्यमित्यर्थः ॥ तवेति ॥ त्वयाभेदप्रतीतेः प्रमात्वानङ्गीकारादिति भावः ॥ प्रतीतेरपीति ॥ यथा चन्द्रभेदस्य मिथ्यात्वेनाप्रामाणिकत्वात्प्रामाणिकाप्रामाणिकानुगतभेदत्वसामान्याभावः तथाभेदप्रतीतेरपि मिथ्यात्वेनाप्रामाणिकत्वात्प्रामाणिकाप्रामाणिकानुगतप्रतीतत्वरूपसामान्याभावेन स्वरूपासिद्धो हेतुरित्यर्थः ॥ भेदाभेदेति ॥ भेदश्चाभेदश्च भेदाभेदौ तयोर्भेदेव्यभिचार इत्यर्थः ।
 तत्र भेदत्वं वर्ततेमिथ्यात्वं नास्तीति भावः ॥ बाध इति ॥ मिथ्यात्वरूपसाध्याभावादिति भावः ।
 ननु भेदो मिथ्यैवातो न बाध इत्यत आह - भेदाभेदयोरिति ॥ अपारमार्थिकत्वे मिथ्यात्वे ।
 अनेन भेदो मिथ्येत्यादिना ॥ अभेदस्यापि मिथ्यात्वं स्यादिति ॥ यदि भेदाभेदसयोर्भेदस्य मिथ्यात्वं तर्हि मिथ्यात्वस्यासत्वपर्यायत्वेन भेदाभेदयोर्भेद एव नास्तीति स्यात् ।
 भेदाभावेचतयोरभेद एव स्यात् ।
 एवं चानेनानुमानेन भेदस्य मिथ्यात्वे साधिते तदभिन्नाभेदस्यापि तत्स्यात् ।
 अत एव तद्दोषपरिहाराय भेदाभेदस्य सत्त्वेङ्गीकार्ये बाधो दुष्परिहर इति भावः ।
 प्रकारान्तरेण बाधमुपपादयति - व्यावहारिकेति ॥ अभेदस्य खलु परेण पारमार्थिकत्वमङ्गीक्रियते ।
 यद्युक्तरीत्या भेदाभेदयोरभेदः स्यात् तर्हि पारमार्थिकाभेदाभिन्नो भेदोऽपि पारमार्थिकः स्यादिति पुनस्तस्य मिथ्यात्वसाधने बाधः स्यात् ।
 ननु भेदाभेदयोः पारमार्थिकाभेदेऽपि व्यावहारिकभेदस्य प्यङ्गीकारादभेस्यपारमार्थिकत्वे पिनभेदस्य पारमार्थिकत्वमित्यत उक्तं व्यावहारिकेत्यादि ।
 जीवेशयोव्योवहारिकभेदसद्भावेऽपि तस्याप्रयोजकत्वेन परमार्थतः पारमार्थिक ब्रह्माभिन्नत्वेन जीवस्य यथा पारमार्थिकत्वमङ्गीक्रियते तथेहापीत्यर्थः ।
 स्थलान्तरेव्यभिचारमाह - पारमार्थिका अपारमार्थिकेति ॥ पारमार्थिकं ब्रह्म ।
 अपारमार्थिकः प्रपञ्चः ।
 अनयोर्भेदत्वेन प्रतीयमानत्वं वर्तते ।
 मिथ्यात्वं नास्तीति व्युभिचार इत्यर्थः ।
 तस्यापि मिथ्यात्वान्न व्यभिचार इत्यतोब्रह्म प्रपञ्चयोः पारमार्थिक अपारमार्थिकत्वविशेषणं तस्यापि मिथ्यात्वान्न व्यभिचार इत्यतोब्रह्मणो पारमार्थिकत्वं प्रपञ्चस्यपारमार्थिकत्वं स्यात् ।
 अत एव तद्दोषपरिहाराय तयोर्भेदस्य सत्त्वे वाच्ये स्यादेव व्यभिचार इति भावः ।
 ननु ब्रह्मप्रपञ्चयोर्भेदस्य मिथ्यात्वेऽपि नोक्तदोषः ।
 तथाहिपारमार्थिकत्वे धर्मिसमसत्ताकभेदरहितत्वं प्रयोजकम् ।
 आरमार्थिकत्वे तुधर्मिसमत्ताकभेदवत्त्वम् ।
 एवं च ब्रह्मणि धर्मिसत्तासमानसवशकः पारमार्थिको भेदो नास्तीति तस्य पारमार्थिकत्वम् ।
 प्रपञ्चे धर्मिसमसत्ताकव्यावहारिको भेदोऽस्तीति तस्यापारमार्थिकत्वम् ।
 अतो नब्रह्मणोपारमार्थिकत्वं प्रपञ्चस्य पारमार्थिकं स्यादित्यापादनं युक्तमित्या शङ्कते - ब्रह्मणो धर्मीति ॥ एवमपि त्वया ब्रह्मणि प्रपञ्चप्रतियोगिकधर्मिसमसत्ताकभेदानङ्गीकारादेवप्रपञ्चाभिन्ने ब्रह्मणि प्रपञ्चवदेवापारमार्थिकत्वं स्यादेवेति परिहरति - नेति ॥ चन्द्रभेद इत्युपाधेः साध्यव्यापकत्वोपपादनायोक्तम् ।
 तथाच यत्र मिथ्यात्वं तत्र प्रातिभासिकत्वं यथा चन्द्रभेदे ।
 अतः साध्यव्यापकत्वम् ।
 यत्र भेदत्वं तत्र प्रातिभासिकत्वमिति ननियमः ।
 हेतुमत्यपिविमतभेदेप्रातिभासिकत्वाभावेन साधनाव्यापकत्वमिति भावः ।
 ननु विमतो भेदः प्रातिभासिकोभेदत्वाच्चन्द्रभेदववदिति पक्षे पिप्रातिभासिकत्वं साध्यते ।
 अतः साधनव्यापकत्वान्नायमुपाधिरित्यत आह - स चेति ॥ व्यावहारिकत्वेति ॥ त्वयाविमतभेदस्य व्यावहारिकत्वाङ्गीकारेणेदानीं प्रातिभासिकत्वसाधने स्ववाक्यविरोध इत्यर्थः ॥ साध्यवैकल्यमिति ॥ देहात्माभेदस्यासत्वत्वादिति भावः ।
 कुत इत्यात आह - तथात्व इति ॥ यदि देहात्मभेदस्य मिथ्यात्वं न स्यात् तर्हि तस्य मिथ्यात्वप्रतिपादकभाष्यस्याविद्यमानप्रतिपादकोन्मत्तवाक्यतुल्यत्वं स्यादित्यर्थः ।
 अन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येति शाङ्करभाष्यस्यात्मनि देहतादात्म्यं देहे चात्मतादात्म्यमारोप्येत्यर्थः ।
 अत्राध्यस्येत्यनेन मिथ्यात्वं प्रतिपाद्यत इति ध्येयम् ।
 दूषणान्तरमाह - गौरोहमिति ॥ यदि देहात्माभेदस्य सत्यत्वं तर्ह्यात्मन एवदेहत्वेन देहधर्माणाङ्गौरत्वादीनामात्मनि सत्यत्वेन तदवगाहिज्ञानं तत्वावेदकं स्यात् ।
 नचेष्टापत्तिः ।
 अन्योन्यधर्माश्चध्यस्येत्युत्तरभाष्ये आत्मनि देहधर्माणां मिथ्यात्वप्रतिपादनविरोधादिति भावः ॥ चतुर्थ इति ॥ विमतं जगत्तत्त्वतः स्वान्तर्भेदशून्यं दृश्यत्वाद्भगगनवदित्यत्रेत्यर्थः ॥ नानेत्यादि ॥ उक्तानुमानेन हि जगदाख्यपदार्थस्य स्वैकदेशैः पटादिदभिर्भेदाभावस्साध्यते ।
 तत्तदा स्यात् यदि घटादीनां जगदाख्यपदार्थैकदेशत्वं स्यात् ।
 न चैतदस्ति ।
 घटादिनानापदार्थानामेव कालाद्युपाधिविशेषेण जगच्छब्दवाच्यतया कालघटादिव्यतिरेकेण जगदाख्यपदार्थान्तरस्याभावात् ।
 अत्र दृष्टान्तस्सेनावनादिवदिति ।
 यथा गजतुरगादीनामेवैकस्थाननिवासेन सेनाशब्दवाच्यत्वं यथा वा नानावृक्षाणमेकस्थाननिवासेन वनशब्दवाच्यत्वं तथेहापीत्यर्थः ।
 ननु नानापदार्थानामेव जगच्छब्दवाच्यत्वं किन्तु तं तु भिन्न पट इवनानापदार्थैर्जगदाख्यपदार्थ आरभ्यते ।
 अतो घटादीनान्तदेकदेशत्वसम्भवान्नोक्तदोष इत्यत आह - पृथिव्यादीनामिति ॥ साङ्कर्यप्रसङ्ग इति ॥ परस्परपरिहारेण विद्यमानयोरेकत्र समावेशः साङ्कर्यम् ।
 पृथिवीत्वपरिहारेण जलत्वं जले जलत्वपरिहारेण पृथिवीत्वं पृथिव्याम् उभयोस्तदारब्धे जगति समावेशः ।
 एवमन्यत्रापि ।
 अतो जातिमात्रस्य साङ्कर्यप्रसङ्ग इत्यर्थः ॥ द्रव्यत्वापत्तिश्चेति ॥ समवायिकारणस्य द्रव्यत्वादिति भावः ।
 निरवयवानां गुणकर्मादीनाम् ।
 सावयवपदार्थस्यैव द्रव्यारम्भकत्वादिति भावः ।
 ननु निरवयवानाम पिपरमाणूनां द्व्यणुकाख्यद्रव्यारम्भकत्वं दृष्टमिति कथमिदमनिष्टमिति चेन्न ।
 द्रव्यारम्भकशब्देन महद्द्रव्यारम्भकत्वस्याभिप्रेतत्वात् ॥ अन्त्यावयवित्वहानिश्चेति ॥ कार्यद्रव्यत्वे साति द्रव्यान्तरानारम्भकत्वं ह्यन्त्यावयवित्वम् ।
 यदि घटादीनामपि जगदाख्यद्रव्यारम्भकत्वन्तर्ह्यत्यावयवित्वहानिः स्यादित्यर्थः ।
 ननु न घटादिपदार्थैरारब्धं जगदाख्यं पदार्थं पक्षीकृत्य तस्य स्वान्तर्भेदहीनत्वं साध्यते ।
 येनोक्तदोषः ।
 किन्तु घटादिकमेव पक्षीकृत्य तस्य स्वान्तर्भेदहीनत्वं साध्यते ।
 अतो नोक्तदोष इत्यत आह - घटादीति ॥ स्वान्तर्भेदशब्देन हीनशब्दसाहितेनेति शेषः ।
 अतः स्वानतर्भेदशब्दमात्रस्य भेदाभावासाधकत्वात्कथमिदमिति चोद्यानवकाशः ॥ सिद्धसाधनमिति ॥ घटादीनां स्वाप्रतियोगिकभेदाभावस्यास्माभिरप्यङ्गीकारादिति भावः ।
 साध्यविकल इति ॥ घट मठाकाशादीनामन्योन्यभेदस्यैव सद्भावादिति भावः ।
 तत्रोक्तबाधकपरिहारायाह - आकाशभेदेति ॥ अन्यत्र मन्दारमञ्जर्याम् ।
 आत्माभेदसाधकानुमाननिराकरणमुपसंहरति - तस्मादिति ।

 (36) यच्चेदमुच्यते (घटपटाद्यभेदेऽनुमानं प्रमाणमिति) ।
 विमतं घटादि पटप्रतियोगिक(तात्विक)तादात्म्याधिकरणम् अभिधेयत्वात् प्रमेयत्वाद्वा पटवत् ।
 पटो वा न घटाद्वस्तुतो भिद्यते द्रव्यत्वात् पृथिवीत्वाद्वा घटवदिति ।
 अत्रेदं वक्तव्यम् ।
 मुद्गरप्रहारादिना घटः किं नश्यत्युत नेति ।
 न चेदनित्यत्वप्रतिपादकश्रुतिविरोधोऽपसिद्धान्तश्च ।
 घटार्थं क्रियमाणव्यापारवैयर्थ्यं च स्यात् ।
 (घटाद्यर्थक्रियाकरणादिदोषापत्तिश्च ।
) आद्ये तदैव गगनादिरविद्याप्रपञ्चः (गगनाविद्यादिप्रपञ्चः) किं नश्यत्युत नेति ।
 आद्ये (घटाद्यर्थ)क्रियाभावः प्रसज्येत ।
 गगनाविद्ययोर्नाशायोगाच्च ।
 महाप्रलयमोक्षौ च स्याताम् ।
 द्वितीये कथं पटस्य घटादिना पारमार्थिकाभेदः ।
 न हि नष्टे रजतेऽनुवृत्तायाः शुक्तेः पारमार्थिकाभेदः ।
 दूरस्थवनस्पत्योरभेदग्राहि च प्रत्यक्षं तत्त्वावेदकप्रमाणं स्यात् ।
 वस्तुतस्तयोस्तादात्म्यादिति प्रतिकूलतर्का ऊह्याः ।
 अभेदसाधकानुमानमात्रस्य प्रत्यक्षानुमानागमबाधकतर्कपराहतिसोपाधिकत्वाभाससमानयोगक्षेमत्वादीनि साधारणदूषणानीति ।
 अद्वैतश्रुतयस्तु भगवत्पादैरेवान्यत्रान्यथा व्याख्याताः ॥ छ ॥
रमानाथाय हरये पूर्णानन्दशरीरिणे ।

निर्दोषगुणपूर्णाय सर्वयज्ञभुजे नमः ॥
(रमानाथाय रामाय सर्वयज्ञभुजे नमः ॥
निर्दोषगुणपूर्णाय पूर्णानन्दशरीरिणे ॥ 1 ॥)
॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारङ्गतश्रीमद्ब्रह्मण्यतीर्थपूज्यपादशिष्येण व्यासयतिना कृतं भेदोज्जीवनं समाप्तम् ॥
(॥ इति श्रीब्रह्मण्यपूज्यपादानां शिष्येण व्यासयतिना रचितं भेदोज्जीवनं सम्पूर्णम् ॥ छ ॥)

(36) (भ.) एवं केनचिच्छङ्कितमनुमानचतुष्टयं निराकृत्यापरेण शङ्कितमनात्मभेदसाधकमनुमानद्वयमपि निराकर्तुमनुवदति ॥ यच्चेदमुच्यत इति ॥ अत्र घटवदित्यनन्तरमिति शब्दोऽध्याहार्यः ॥ अपसिद्धान्तश्चेति ॥ परेणापि घटादेर्मिथ्यात्वसिद्ध्यै परिच्छिन्नत्वाङ्गीकारेण व्यावहारिकविनाशाङ्गीकारादिति भावः ॥ घटाद्यर्थक्रियेति ॥ मुद्गरादिप्रहारानन्तरमपि तेन घटेन जलाहरणाद्यर्थक्रियाकरणरूपदोषश्चेत्यर्थः ।
 आपत्तिश्चासौ दोषश्चेति दोषापत्तिरिति विपरीतसमासः ॥ तदेवेति ॥ घटनाशकाल एवेत्यर्थः ।
 न गगनाविद्यादीत्यादिपदेन स्तम्भादिसङ्ग्रहः ।
 जगदभेदवादे घटस्य पटेनैव गगनादिनाऽप्यभेदात्तदैव विनाशः सम्भावित इति विकल्पोपपत्तिः ॥ उत नेतीति ।
 वक्तव्यमित्यनुवर्तते ॥ घटाद्यर्थक्रियाभाव इति ॥ तेषां गगनादीनां याऽर्थक्रियाऽवकाशदानादिरूपा तदभावः प्रसज्येतेत्यर्थः ॥ गगनाविद्ययोर्नाशायोगाच्चेति ॥ गगनस्य व्यावहारिकनित्यत्वेनाविद्याया ज्ञानैकनिवर्त्यत्वेन मुद्गरप्रहारादिना घटनाशकाले तयोर्विनाशो न युज्यत इति भावः ।
 तयोर्व्यापकत्वेन नाशायोगादित्यप्याहुः ।
 तादृशयोरपि गगनाविद्ययोरितरेषां चेदानीमेव नाशाङ्गीकारे किं बाधकमित्यत आह - महाप्रलयमोक्षौ स्यातामिति ॥ तदैवेत्यनुवर्तते ।
 तथा च यदि घटनाशकाले सर्वविनाशः स्यात्तर्हीदानीमेव महाप्रलयः स्यात् ।
 अविद्याविनाशे चेदानीमेव मोक्षोऽपि स्यादित्यर्थः ॥ द्वितीय इति ॥ घटनाशेऽपि गगनादीनामनाशश्चेदित्यर्थः ॥ कथमिति ॥ नष्टानष्टयोः पारमार्थिकाभेदायोगादिति भावः ।
 तदेवोपपादयति - न हीति ॥ पारमार्थिकाभेद इति ॥ नष्टरजतेनेति शेषः ।
 अत्र सर्वस्यापि व्यावहारिकप्रपञ्चस्य विप्रतिपत्तिविषयतया नष्टानष्टघटपटयोर्निदर्शयितुमशक्यत्वात्प्रातिभासिकव्यावहारिके रजतशुक्ती एव निदर्शयति ।
 न हि व्यावहारिकयोर्घटपटयोरिव प्रातिभासिकव्यावहारिकयोः रजतशुक्त्योः पारमार्थिकाभेदोऽङ्गीकर्तुं शक्य इति ॥ जडाभेदसाधकानुमाने तर्कपराहतिं चाह (* `तर्कपराहतीन्याह' मु.) ॥ दूरस्थेति ॥ यदि जडानां पारमार्थिकोऽभेदस्तर्हीति पूरणीयम् ।
 एवं प्रत्येकमनुमानानि दूषयित्वा साधारणदूषणैरपि दूषयति - अभेदसाधकानुमानमात्रस्येति ॥ विमता आत्मान इत्याद्यनुमानषट्कस्यापीत्यर्थः ।
 योगक्षेमत्वादीत्यादिपदेनाप्रयोजकत्वपरिग्रहः ।
 तथा हि ।
 आद्यानुमानस्य तावन्नाहं सर्वज्ञो न निर्दुःख इत्यादिप्रत्यक्षपराहतिः ।
 द्वा सुपर्णेत्यागमपराहतिः ।
 जीवो ब्रह्मप्रतियोगिकधर्मिसमानसत्ताकभेदाधिकरणम् ।
 ब्रह्माननुसंहितदुःखानुसन्धातृत्वादित्याद्यनुमानपराहतिः ।
 परमात्मत्वेन सोपाधिकत्वम् ।
 विमता आत्मानः परमात्मनोऽपरमार्थतोऽपि न भिद्यन्ते आत्मत्वात्परमात्मवदित्याभाससमानयोगक्षेमत्वम् ।
 अस्त्वात्मत्वं तथाऽपि साध्यं माऽस्त्वित्यप्रयोजकता च ।
 विमतानि शरीराणि देवदत्तस्यैव भोगायतनानीत्यनुमानस्य न मम यज्ञदत्तशरीरं भोगायतनमिति देवदत्तीयप्रत्यक्षपराहतिः ।
 भिन्नाश्च भिन्नधर्माश्च पदार्था इत्याद्यागमपराहतिः ।
 विमतानि शरीराणि न देवदत्तस्यैव भोगायतनानि देवदत्तानधिष्ठितत्वात् व्यतिरेकेण देवदत्तशरीरवत् ।
 न चासिद्धिः ।
 देवतत्तो न यज्ञदत्तादिशरीराधिष्ठाताऽव्यापकत्वाद् व्यतिरेकेणेश्वरवदित्यनुमानेन तत्सिद्धेः ।
 तथा चानुमानपराहतिः ।
 देवदत्ताधिष्ठितत्वमुपाधिः ।
 विमतानि कलत्राणि देवदत्तस्यैव भोगायतनानि कलत्रत्वाद्देवदत्तकलत्रवदित्यभाससाम्यम् ।
 अनुकूलतर्काभावेन हेतोरप्रयोजकता च ।
 भेदो मिथ्येति तृतीयानुमानेऽपि नाहं सर्वज्ञो नापि यज्ञदत्तो नापि च घट इत्यादिदेवदत्तप्रत्यक्षविरोधः ।
 सत्यं भिदेत्याद्यागमविरोधः ।
 भेदः सत्यः प्रमाणद्रष्दृत्वादात्मवदित्यनुमानविरोधः ।
 आरोपितत्वमुपाधिः ।
 अभेदो मिथ्याऽभेदत्वाद्देहात्माभेदवदित्याभाससाम्यं चोक्तमेव ।
 भेदाभेदभेदे वा ब्रह्मप्रपञ्चभेदे वा भेदत्वसद्भावेऽपि मिथ्यात्वादर्शनादप्रयोजकता च ।
 चतुर्थानुमाने घटादीनामन्योन्यभेदस्याबाधितप्रत्यक्षसिद्धत्वात्सुलभैव प्रत्यक्षपराहतिः ।
 भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपीत्यागमविरोधः ।
 घटो न पटादिभ्यस्तात्त्विकभेदशून्यः ।
 घटत्वाद् व्यतिरेकेण पटवदित्याद्यनुमानविरोधः ।
 ईश्वरत्वमुपाधिः ।
 विमतं तात्त्विकस्वान्तर्भेदवद्दृश्यत्वादित्यपि प्रयोक्तुं शक्यत्वादाभाससाम्यमप्रयोजकता च ।
 एवमेव पञ्चमषष्ठयोरपि प्रत्यक्षादिपराहतिः सोपाधिकत्वं चोपपादनीयम् ।
 अथ श्रुतयश्च नेह नानेत्यादिका अभेदबोधिकेत्युक्तं निराकरोति ॥ अद्वैतश्रुतयस्त्विति ।
 अन्यत्र बृहदारण्यभाष्यादावन्यथा इह ब्रह्मणि किञ्चन नाना भिन्नं गुणकर्मादिकं नानात्वं वा नास्तीत्येवं भगवति भेदाभावपरतया नेह नानाऽस्ति किञ्चनेति श्रुतिर्व्याख्याता ।
 तत्त्वमस्यादिकास्तु सादृश्यपरतया व्याख्याता इत्यर्थः ।
 यथोक्तमनुव्याख्याने स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।
 सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टत इति ॥ इति शब्दस्येत्ययं परिहार इति पूर्वप्रतिज्ञावाक्येन सम्बन्धः ।
 समाप्तिद्योतकत्वं वा ।
 हेत्वर्थको वाऽयमिति शब्दः ।
 तस्माद्विष्ण्वाख्यस्य ब्रह्मणश्चेतनाचेतनात्मकविश्वभिन्नत्वं सिद्धमित्युपसंहारवाक्यशेषेणान्वयः ।
 एवं समापितप्रकरणः श्रीमद्व्यासतीर्थमुनिराट् यदर्थमनेन प्रकरणेन विष्णोर्विश्वतो भेदं समर्थितवान् तल्लक्षणविशिष्टतया विष्णुंस्तुवन्नमति ॥ रमानाथायेति ॥ निर्दोषश्चासौ गुणपूर्णश्चेति विग्रहः ।
 यथा गुणपूर्णत्वसिद्ध्यर्थं विश्वभेदसमर्थनमेवं निर्दोषत्वसिद्ध्यर्थमपि भवतीति भावेन निर्दोषेत्युक्तिः ।
 एतेनादिमश्लोकेऽपि निर्दोषत्वेन चेत्युपलक्षणया ग्राह्यमिति सूचयति ।
 यथोक्तमनुव्याख्याने ।
 तस्य भेदश्च सर्वतः ।
 अदोषत्वसिद्ध्यर्थं यदभेदे तदन्वय इति ॥ भगवन्नमनमिव भगवतीनमनमपि भगवत्प्रीतिहेतुरिति ज्ञापनायोक्तं रमानाथायेति ॥ स्वकृतग्रन्थस्य वाग्यज्ञरूपत्वात्तेन सर्वयज्ञभोक्ता भगवान्प्रीणात्विति भावेनोक्तं सर्वयज्ञभुज इति ॥ यथोक्तं न्यायामृतान्ते ।
 मत्प्रेरकेण हरिणा या पूजा स्वस्य कारिता ।
 वाग्यज्ञरूपा लक्ष्मीशस्तया प्रीणातु केशव इति ॥ नन्वशरीरश्चेद्विष्णुः कथं तस्य सर्वयज्ञभोक्तृत्वम् ।
 शरीरी चेद्यज्ञदत्तवदन्तवान् स्यात् ।
 किञ्च यज्ञभोक्तृत्वाङ्गीकारे तस्यापूर्णताप्रसङ्गः ।
 अपूर्णस्यैव लोके भोगदर्शनादित्यत उक्तं पूर्णानन्दशरीरिण इति ॥ अस्त्येव भगवतः शरीरम् ।
 तच्चान्दादिगुणात्मकमेव ।
 अतो न भोक्तृत्वानुपपत्तिर्नापि मृत्यादिदोषानुषङ्गः ।
 न च तर्हि भोक्तुरपूर्णतापत्तिः ।
 पूर्णानन्दस्यापि क्रीडाभोगोपपत्तेरिति भाव इत्यशेषमतिमङ्गलम् ॥ छ ॥
निर्दोषोरुगुणार्णवाय निखिलाम्नायैकवेद्याय ते सत्याशेषजगज्जनिस्थितिलयज्ञानादिसद्धेतवे ॥
श्रीमन्मध्वहृदब्जसद्मनिवसद्धंसाय कंसद्विषे संसेवत्सु मनः स्वभीष्टतनवे श्रीकृष्णवृष्णे नमः ॥ 1 ॥
भेदोज्जीवनभावदीपनमिदं वाग्बुद्धिशुद्ध्यै कृतं पूर्वाचार्यवचो विचार्य सरसं सङ्गृह्य सारं ततः ॥
बालिश्याद्बत शैशवं खलु मया प्रादर्शि तत्क्षम्यतां वत्सानामिव मातुरौधसपयः पाने प्रसक्तं बुधैः ॥ 2 ॥
क्रोडार्यपादपाथोऽजभाजा भगवता कृता ॥
भूयाद्भगवतः प्रीत्यै भेदोज्जीवनपञ्चिका ॥ 3 ॥ छ ॥
॥ इति श्रीमद्भास्करीवेङ्कटवराहाचार्यपूज्यचरणचरणाराधकेन भगवन्नम्ना विरचितो भेदोज्जीवनभावप्रदीपः समाप्तः ॥ छ ॥ छ ॥

(36) (मु.) विमतं घटादीति ।
 येन भास्करादिना ।
 जगदादीनामपि सत्यत्वं स्वाभाविकभेदाभावश्चाङ्गीक्रियते तस्येदमनुमानमिति ज्ञेयम् ।
 अत्र तात्त्विकपदं स्वाभाविकपरम् ।
 यद्वा मायावादिन एवेदमनुमानम् ।
 अत्र तात्त्विकतादात्म्याधिकरणमित्यस्य तात्त्विकभेदाधिकरणं न भवतीत्यर्थः ॥ श्रुतीति ।
 श्वोभावो मर्त्यस्येत्यादिरुदाहर्तव्या ॥ घटाद्यर्थक्रियेति ॥ यदि मुद्गरप्रहारादिना घटो नश्यति तर्हि तदनन्तरमपि जलाहरणादिक्रियापत्तिरित्यर्थः ॥ तदैवेति ॥ घटनाशकाल एवेत्यर्थः ॥ घटाद्यर्थक्रियाभाव इति ॥ घटनाशे पटादीनामपि नाशेन तदर्थक्रियाऽपि न स्यादित्यर्थः ॥ नाशायोगाच्चेति ॥ नित्यत्वादिति भावः ।
 सर्वस्यापि प्रलयो मोक्षश्च स्यादित्याह - महाप्रलयेति ॥ कथामिति ॥ घटनाशेऽप्यनष्टस्य तदभेदायोगादिति भावः ।
 तत्र दृष्टान्तमाह - न हीति ।
 भ्रमोत्पन्नरजतस्य बाधेऽप्यबाधितायाः शुक्तेरजताभेदादर्शनादित्यर्थः ।
 ननु मुद्गरप्रहारेऽपि न घटनाशः ।
 श्रुतिस्तु सर्वेषां प्रलये युगपन्नाशेनापि चरितार्था ।
 न च मुद्गरप्रहारानन्तरं घटानुपलम्भविरोधः ।
 व्यञ्जकाभावेनोपपत्तेः ।
 तात्कालिकवचनं त्वदर्शनमात्रविषयम् ।
 नष्टो घट इति प्रत्यक्षं त्वव्यक्तत्वं गोचरयति ।
 व्यक्तस्यैवार्थक्रियाकारित्वान्नार्थक्रियापत्तेश्चेत् ।
 मैवम् ।
 नित्यस्याकाशादेः कदाऽपि नाशाभावेन तदात्मकस्याप्यनाशेन श्रुतिव्याकोपात् ।
 किञ्च व्यञ्जकाभावः किमत्यन्ताभावो ध्वंसो वा ।
 आद्ये न कदाऽपि घटो पलब्धिः स्यात् ।
 द्वितीये सर्वेषां युगपन्नाश इत्यस्य भङ्गापत्तिः ।
 न च व्यञ्जकस्याप्यनभिव्यक्तिरेव न नाश इति वाच्यम् ।
 अनवस्थापत्तेः ।
 ननु तथाऽपि व्यावहारिकभेदबलेनैकस्य नाशेऽप्यन्यस्यानाशोपपत्तिरिति वाच्यम् ।
 तस्य व्यवहारतो नाशाभावेऽपि परमार्थतस्तदवश्यम्भावात् ।
 न चेष्टापत्तिः ।
 घटनाशात्पूर्वमुत्तरत्र च गगने विशेषानुलम्भादित्यलमतिपरिहसनीयप्रक्रियानिरासायासलेशेन ।
 जडानां तात्त्विकाभेदे बाधकतर्कं चाह - दूरस्थेति ॥ अद्वैतश्रुतय इति ॥ अद्वैतपरतया पराभिमता इत्यर्थः ॥ अन्यथेति ॥ ईश्वरीयस्वान्तर्भेदाभावस्वातन्त्र्यविशिष्टत्वकारकशक्तिधारकत्वान्तर्नियामकत्वसर्वव्याप्तत्वसादृश्यप्रियत्वस्थानैक्यमत्यैक्यसायुज्यादिविषयतयेत्यर्थः ।
 एवं स्वातन्त्र्याद्यशेषभिन्नो हरिः सर्वोत्तम इत्यशेषगुणाकरत्वादन्योन्यभिन्नजीवजडात्मकात्प्रपञ्चादत्यन्तमतिमङ्गलम् ॥ छ ॥ छ ॥
प्रत्यक्षैः सकलात्मसाक्षिभिरलं निःशेषदोषोज्झितैः प्रत्यक्षागमसम्मताङ्गनिचयौर्निर्बाधतर्कैरपि ॥
साङ्गाम्नायपुराणसस्मृतिकलासूत्रेति हासागमैर्भिन्नोऽस्मत्प्रमितः परात्परतमः श्रीशोऽस्तु मे प्रेयसे ॥ 1 ॥
मुरारिं कल्पाङ्गं बलयति रमाकल्पलतिका वरा कल्पानल्पप्रसवफलपत्रालिमहिता ॥
करालम्बास्माकं मुरहरनगारोहणविधौ सुरामावासा जनयतु मनीषारथफलम् ॥ 2 ॥
प्रारिप्सोर्जगदीश्वरस्य जगतीं नाट्यादिरङ्गायते स्वैरं विश्वधुरं बिभर्ति युवराड्यः स्थापनेच्छोरपि ॥
नासीरः किल वीरभूषणमणिर्यः सञ्जिहीर्षोरसौ वायुर्व्यासदिवाकरस्य तरणी भूतोस्ति मध्वात्मना ॥ 3 ॥
मूढः प्रौढाग्रगण्यो भवति हि बधिरो वाग्धराणामुदारो मूकः स्याद्वावदूको कुकृतिरपगतिः पङ्गुराक्रान्तिगुः स्यात् ॥
व्यङ्गो भूयादनङ्गः कुमतिरपि नृपः पण्डकः पुंप्रवीणो यद्दृष्टिस्वृष्टिमात्रात्सकलमविकलं साऽवताद्भारती नः ॥ 4 ॥
जयार्यवचनाङ्गतागहनभावनानारसा चकास्ति चतुरालयाचरितचारनानापदि ॥
गुरूक्तमणिसन्ततेर्दृढसुवर्णसूत्रैरलं विकीर्णविविधत्रयीकचनिबन्धसैरन्ध्रिका ॥ 5 ॥
वाणी यस्य सतां सुधारसकरी माधुर्यसारोपमा स्वातन्त्र्यासिकठोरतेजितमहाप्रासाग्रधारा सताम् ॥
दृष्टादुष्टजनाघपुण्यफलसम्प्राकारितो व्यासराट् सोऽयं मे दिशताद्दृशङ्कविशिरः पट्टाग्रभूषामणिः ॥ 6 ॥
यज्जिह्वा सिंहपीठे विलसति वचसां राज्यसाम्राज्यलक्ष्मीर्यत्स्वान्तः श्रीर्निशान्ते विहरति स हरिः कान्तया क्लान्तिहीनः ॥
ये श्रीमध्वार्यवाणीविवरणविदुषामग्रगण्या वरेण्यास्ते तीर्थाचार्यवर्या मम किल गुरवो विठ्ठलार्यप्रसूताः ॥ 7 ॥
मुद्गलार्यतनूजेन जनार्दनपुरौकसा ॥
शर्मणाऽऽनन्दतीर्थेन यथा प्रज्ञमभाषि वाक् ॥ 8 ॥
भेदचिन्तारत्नमिदं मध्वशास्त्राब्धिसम्भवम् ॥
बुद्धिशाणसमुल्लीढं ध्रियतां हरिणा हृदि ॥ 9 ॥
इति श्रीपदवाक्यपारङ्गतव्यासतीर्थपूज्यचरणकृतभेदोज्जीवनविवरणं भेदचिन्तारत्नं समाप्तम् ॥ छ ॥ छ ॥

(36) (कु.) ॥ अपसिद्धान्तश्चेति ॥ ब्रह्मज्ञानेनाविद्यकनिवृत्तेरङ्गीकारात् प्रत्यक्षविरोधश्च बोध्यः ॥ घटाद्यर्थक्रियाकरणदोषापत्तिरिति ॥ मुद्गरप्रहरोत्तरमपि घटसत्त्वे घटाद्यर्थक्रिया स्यादित्यर्थः ।
 क्वचित्तु घटार्थं क्रियमाणव्यापारवैयर्थ्यं स्यादिति पाठः ॥ गगनाविद्ययोरिति ॥ व्यापकस्य नाशादर्शनादित्यर्थः ॥ महाप्रलय इति ॥ घटपटादिवत्प्रपञ्चान्तर्गतस्य सर्वस्य नाशे महाप्रलयस्य च मोक्षस्य च नाशः स्यादित्यर्थः ।
 द्वितीये घटादीनां नाशेऽपि गगननाशे कथं घटपटादिना गगनादेः पारमार्थिको भेद इत्यर्थः ।
 शुक्तेः पारमार्थिकभेदो रजते न यदिति जडानां पारमार्थिकभेदः स्यादिति तर्के आपादकं पूरणीयम् ।
 एवं प्रातिस्विकाननुमानदोषानभिधाय साधारणानपि तानाह - अभेदसाधकानुमानमात्रस्येति ॥ आदिपदेनाप्रयोजकत्वसत्प्रतिपक्षौ ।
 एतानि तु तत्र प्रदर्शितान्येव कानिचित्पुनरूह्यानीति भावः ।
 एवमनुमानान्तरेऽपीति ॥ अद्वैतश्रुतय इति ॥ ता विवृताश्च व्याख्याता अस्माभिरन्यत्र बोध्यम् ।
 तथा च युज्यते विष्ण्वाख्यस्य परब्रह्मणो विश्वभिन्नत्वमित्युपसंहारोऽपि बोध्यः ॥ छ ॥ छ ॥
व्यासहंसगतिः कुत्र मादृक् क्वापि गतिः क्व वा ॥
अनयोरिहसंयोगं मन्ये नृहरिसाधितम् ॥ 1 ॥
तर्ककर्कशकशावशतश्चेद्गौरियं विचलिता गुरूमागति ॥
गृष्टिरित्यपि विचिन्त्य दयातः साधुभिः सपदि तत्र विधेया ॥ 2 ॥
विद्वच्चकोरास्तृप्यन्तु भेदचन्द्रिकयाऽनया ॥
भेदोज्जीवनटिप्पण्यानिरूढार्थविलोकनात् ॥ 3 ॥
इति श्रीकुम्भारीनारायणाचार्यसूनुवासुदेवाचार्यविरचिता भेदोज्जीवनटिप्पणी भेदचन्द्रिका समाप्ता ॥ छ ॥ छ ॥

(36) (हु.) ॥ तात्त्विकेति ॥ प्रातिभासिकतादात्म्यमादाय सिद्धसाधनतावारणाय ब्रह्मस्वरूपेण तादात्म्यं तयोर्वास्तवमित्यभिमानः ॥ वस्तुत इति ॥ तादृशभेदमुपादाय बाधवारणायानित्यत्वेति ॥ `ततोऽन्यदार्त'मिति श्रुतीत्यर्थः ॥ अपसिद्धान्तश्चेति ॥ महाप्रलये सर्वेषां कारणावस्थापन्नरूपलयाङ्गीकारादित्यर्थः (* `-स्थानापन्न-' मु.) ॥ घटाद्यर्थमिति ॥ पुनर्घटोत्पत्त्यर्थमित्यर्थः ।
 अन्यथा घटस्य सिद्धत्वात्तद्वैयर्थ्यापात इति भावः ।
 घटार्थक्रियाकरणदोषापत्तिरिति पाठे घटस्य जलाहरणादिरूपा या क्रिया तत्करणप्रसङ्गादित्यर्थः ॥ क्रियाभाव इति ॥ आकाशाभावेन नित्यं तत्क्रियोत्पत्तेरदर्शनादित्यर्थः ॥ नाशायोगादिति ॥ निरवयवत्वेन समवायिकारणनाशरूपकारणाभावात् ।
 नित्यत्वेन कारणशून्ययोः कारणात्मना स्थितिरूपलयायोग इत्यर्थः ॥ महाप्रलयेति ॥ सर्वप्रपञ्चस्य नाशाङ्गीकारपक्षे तन्नाशावश्यकत्वादिति भावः ॥ द्वितीये इति ॥ गगनानीनां नित्यत्व इत्यर्थः ॥ कथमिति ॥ प्रमेयत्वाभिधेयत्वादिहेतुमत्सु गगनादिषु पटप्रतियोगिकतात्त्विकतादात्म्याधिकरणत्वाभावेन व्यभिचारादुक्तहेतवः कथं तत्साधयेरन्नित्यर्थः ।
 नाशेऽपि गगनतादात्म्यं वास्तवमङ्गीक्रियत एव पटस्येत्यत आह - न हीति ।
 तथात्वे रजतार्थिनः शुक्तौ प्रवृत्तिः स्यादेवेति भावः ॥ आभाससमानयोगक्षेमत्वादीनीति ।
 आदिनाऽप्रयोजकत्वसत्प्रतिपक्षौ ग्राह्यौ ॥ श्रुतय इति ॥ व्याख्याता इति ॥ अस्माभिरपि ता विवृता इति शेषः ॥ समास इति ॥ सङ्क्षेपः कृत इत्यर्थः ।
 तस्मात्स्वातन्त्र्यादिगुणविशिष्टो विष्णुरित्युपसंहारवाक्यं पूरणीयमित्यशेषमतिमङ्गलम् ॥ छ ॥
नैजस्वातन्त्र्यादिगुणैः सिद्धभेदस्वरूपवान् ॥
चिदचिद्भ्यः स मे व्यासः प्रीतोऽस्तु जगदीश्वरः ॥ 1 ॥
दुर्वादिभुजगः (* इमौ द्वितीयतृतीयश्लोकौ हु.पाठे न स्तः ।
) परिदर्शनेन नष्टाभिधाममृतवाग्बलतोऽभिरक्षन् ॥
यो व्यासराजयतिराट् तदनुव्रतेयं वाणी ममेह विदुषां वितनोतु मोदम् ॥ 2 ॥
श्रीमद्व्याघ्रपुरीवासिवासुदेवार्यसूनुना ॥
शिष्येण तेषां रचिता भेदोज्जीवनटिप्पणी ॥ 3 ॥
अनया ग्रन्थकृत्या यत्प्राप्तं पुण्यं समस्तशः ॥
अस्मद्गुरुहृदब्जस्थप्राणेशायार्पयाम्यहम् ॥ 4 ॥
इति श्रीव्याघ्रपुर्युपनामक श्रीनाथविरचिता भेदोज्जीवनटिप्पणी भेदसञ्जीवनी (* इदं पदं मु.पाठे नास्ति ।
) सम्पूर्णा ॥
॥ श्रीकृष्णार्पणमस्तु ॥

(36) (का.) दुरन्तदुर्मतध्वान्तध्वंसकृन्मध्वभास्करः ।

बळित्थेत्यादिवेदोक्तगुणः प्रीतोऽस्तु मे सदा ॥
 ॥ इति श्रीमद्व्यासराजतीर्थश्रीपादकृतभेदोज्जीवनयाख्यानं श्रीमहामहोपाध्यायकाशीतिरुमलाचार्यकृतं समाप्तम् ॥

(36) (श.) अनात्मभेदसाधकानुमानानां परेणानुक्तत्वादिदानीतान्यशङ्कते - यच्चेदमित्यादिना ॥ अत्र पटाभेदसाधनमुपलक्षम् ।
 एवमेव घटस्यानात्मप्रपञ्चमात्राभेदः साधनीयः ।
 यथा रजतनाशेऽप्यनुवृत्तायाः न शुक्ते रजताभेदः एवं घटनाशेऽप्यनुवृत्तपटादिप्रपञ्चस्यनघटाभेद इत्याशयेनाह - अत्रेदमित्यादिना शुक्तेः पारमार्थिकाभेद इत्यन्तेन ॥ आनित्यत्वप्रतिपादकश्रुतीति ॥ यमप्येति भुवनमित्यादिश्रुतिविरोध इत्यर्थः ।

॥ अपसिद्धान्त इति ॥ मुद्गरप्रहारादिना घटनाशस्यपूर्वाचार्यैरङ्गीकारात्त्वयेदानीं तदनङ्गीकारे सिद्धान्तविरोध इत्यर्थः ॥ घटाद्यर्थक्रियेति ॥ यदि मुद्गरप्रहारादिना घटो न नश्यति तर्हि तदनन्तरं जलाहरणाद्यर्थक्रियाकारित्वप्रसङ्ग इत्यर्थः ॥ तदैव यदा घटो नश्यति तदैवेत्यर्थः ।
 अर्थक्रियाभाव इति ॥ घटनाशकाल एवाविद्यानाशे घटान्तराद्युत्पत्तिर्न स्यात् ।
 एवं च जलाहरणादिक्रियालोपः स्यादित्यर्थः ॥ नाशायोगाच्चेति ॥ ऐक्यापरोक्षज्ञानेन महाप्रलय एव तन्नाशाभ्युपगमेनेदानीं तन्नाशायोगात् नाशे चेदानीमेव महाप्रलयमोक्षौ स्यातामित्यर्थः ।
 तदेवोपपादयति - नहीति ॥ यथा हि नेदं रजतमिति बाधकज्ञानेन रजते नष्टेऽपि शुक्तेर्नाशभावान्न तयोः पारमार्थिकाभेद एवं घटनाशेऽप्यनष्टस्याविद्यागगनादिप्रपञ्चस्य न घटाभेद इत्यर्थः ।
 अनात्मा भेदसाधकानुमानस्य तर्कपराहतिमाह - दूरस्थवनस्पत्योरिति ॥ यदि जडेपरस्परं पारमार्थिकाभेदोऽङ्गीक्रियते तर्हि दूरे विद्यमानयोर्द्वयोः चूतपनसवृक्षयोरेक एवायं वृक्ष इति योभ्रमोजायते तस्यापि प्रामाण्यं स्तात् ।
 तयोर्वास्तवाभेदेन तदवगाहिनस्तस्य तत्वावेदकत्वादित्यर्थः ।
 एवमात्मानात्मभेदसाधकानुमानानां प्रत्येकं दूषणमभिधायेदानीमभेदमात्रसाधकानुमानसाधारणं तदाह - अभेदसाधकेति ॥ प्रत्यक्षेत्यादि ॥ विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्त इत्याद्यात्माभेदसाधकानुमानस्य नाहं सर्वज्ञो न निर्दुःख इत्यादिप्रत्यक्षविरोधः ।
 द्वासुपर्णेत्याद्यागमविरोधः ।
 जीवः ब्रह्मप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं ब्रह्माननुसंहितदुःखानुसन्धातृत्वात् ।
 व्यतिरेकेण ब्रह्मवदित्यद्यनुमानविरोधः ।
 अनुकूलतर्काभावात्पक्षेतरत्वस्योपाधित्वम् ।
 विमता आत्मानः परमात्मनः परमार्थतोऽपि न भिद्यन्ते आत्मत्वात् परमात्मवदित्यपिसाधयितुं शक्यत्वेनाभाससमानयोगक्षेमत्वम् ।
 विमतं घटादि पटप्रतियोगिकतादात्म्याधिकरणम् अभिधेयत्वादित्याद्यनात्माभेदसाधकानुमानस्य घटः पटो नेत्यादिप्रत्यक्षविरोधः ।
 घटः पटप्रतियोगिकतादात्म्याधिकरणं न भवति प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नपटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वात् व्यतिरेकेण पटवदित्याद्यनुमानविराधः ।
 मिथश्च जडभेदोऽयमित्यागमविरोधः ।
 अनुकूलतर्काभावेन पक्षेतरत्वस्योपाधित्वम् ।
 विमतं घटादि व्यवहारोऽपि पटप्रतियोकितादात्म्यानधिकरणं न भवति अभिधेयत्वात् पटवदिति साधयितुं शक्यत्वेनाभावससमानयोगक्षेमत्वमिति विवेकः ।
 इदानीमभेदसाधकश्रुतीर्निराकरोति ॥ अद्वैतश्रुतय इति ॥ नेहनानेत्याद्या इत्यर्थः ॥ अन्यत्रेति ॥ काठकोपनिषद्भाष्यादौ भगवतो गुणकर्मादिभेदनिषेधकत्वेन व्याख्याता इत्यर्थः ॥ एवं समापितप्रकारणोभगवान् व्यासतीर्थमुनिर्मङ्गलमध्यानिमङ्गलां तानि शास्त्राण्यायुष्मत्पुरुषकाणिभवन्तीमिस्मरणादं तेऽपि तदाचरति ॥ रमानाथायेति ॥ हरये नम इति सम्बन्धः ।
 भेदनिरूपणस्य प्रयोजनसूचनायरमानाथायेति विशेषणम् ।
 अरमापदं चेतनाचेतनात्मकसर्वजगदुपलक्षणम् ।
 तथाच चेतनाचेतनात्मकजगन्नाथायेत्यर्थः ।
 अनेन भेदसमर्थनसय्द्यपद्योक्तजगदीश्वरत्वसमर्थनार्थत्वं सूचिमिति ध्येयम् ।
 भेदकधर्मकथनाय सर्वयज्ञभुज इति ।
 तर्ह्यपूर्णत्वं स्यादित्यत उक्तं गुणपूर्णायेति ।
 स्वस्यानन्दादिगुणपूर्णत्वेऽपि भक्तानुग्रहाय भुङ्क्ते नतु तृप्त्यर्थमिति भावः ।
 यत्र गुणास्तत्र दोषा इति नियमाद्दोषवानपिकिमित्यतो निर्दोषेति ।
 निर्दोषश्चासौ गुणपूर्णश्चेति विग्रहः ।
 यद्वा एतदपिभेदकधर्मकथनम् ।
 ननु हरेः शरीरमस्ति नवा ।
 आद्ये मरणादिप्रसङ्गः ।
 द्वितीये तस्य भोक्तृत्वायोग इत्यत उक्तं पूर्णानन्दशरीरिण इति ।
 अस्त्येवशरीरं तच्च सुखात्मकं नतु विनाशाविनाभाविप्राकृतम् ।
 अतो नोक्तदोष इत्यशेषमतिमङ्गलम् ॥ 6 ॥
पद्मापद्माजवन्द्यायपद्मपत्रनिभेक्षण ॥
पद्मना भायरामायनमः सत्पद्ममालिने ॥
(शर्कराश्रीनिवासेन बालबोधाय निर्मिता ॥
भेदोज्जीवनव्याख्येयं भूयात्प्रीत्यै रमापतेः ॥
भेदोज्जीवनव्याख्यानलब्धं पुण्यमनुत्तमम् ॥
प्राप्यास्मद्गुरवः प्रीताः क्रियासुः करुणां मयि) ॥
॥ इति श्रीव्यासतीर्थविरचितभेदोज्जीवनस्य व्याख्या शर्कराश्रीनिवासविरचिता सम्पूर्णा ॥
(* `एवं नवानामपि वाक्यानां जीवब्रह्मभेद एव तात्पर्यमिति प्रत्येकमुपपाद्येदानीं सर्वेषामपि भेदपरत्वे समाख्यावाक्यं पठति ॥ यथेति ॥ ' इति तत्सन्दर्भज्ञापिका टीकायाः पूर्वतरपङ्क्तिः ।
)

"https://sa.wikisource.org/w/index.php?title=भेदोज्जीवनम्&oldid=399879" इत्यस्माद् प्रतिप्राप्तम्