भ्रमराम्बाष्टकम्
शङ्कराचार्यः
१९१०

॥ श्री ॥
॥ भ्रमराष्टकम् ॥



चाञ्चल्यारुणलोचनाश्चितकृपाचन्द्राकचूडामणिं
चारुस्मेरमुखा चराचरजगत्सरक्षणीं तत्पदाम् ।
पञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जिता
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥१॥

कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थली
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनी भगवतीं श्रीमातर भावये ॥२॥

राजन्मत्तमरालमन्दगमना राजीवपत्रेक्षणा
राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् ।
राजीवायतमन्दमण्डितकुचा राजाधिराजेश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥३॥

षट्तारा गणदीपिका शिवसती षड्वैरिवर्गापहा
षट्चक्रान्तरसस्थिता वरसुधा षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदा षड्भावगा षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ४ ॥

श्रीनाथादृतपालितत्रिभुवना श्रीचक्रसंचारिणीं
ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् ।
दीनानामतिवेलभाग्यजननीं दिव्याम्बरालकृता
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ५ ॥

लावण्याधिकभूषिताङ्गलतिका लाक्षालसद्रागिणीं
सेवायातसमस्तदेववनिता सीमन्तभूषान्विताम ।
भावोल्लासवशीकृतप्रियतमा भण्डासुरच्छेदिनी
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ६ ॥

धन्या सोमविभावनीयचरिता धाराधरश्यामला
मुन्याराधनमेधिनीं सुमवता मुक्तिप्रदानव्रताम् ।
कन्यापूजनसुप्रसन्नहृदया काञ्चीलसन्मध्यमा
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ७ ॥

कर्पूरागरुकुङ्कुमाङ्कितकुचा कर्पूरवर्णस्थिता
कृष्टोत्कृष्टसुकृष्टकमदहना कामेश्वरीं कामिनीम् ।
कामाक्षीं करुणारसार्द्रहृदया कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ८ ॥

गायत्रीं गरुडध्वजा गगनगा गान्धर्वगानप्रिया
गम्भीरा गजगामिनीं गिरिसुता गन्धाक्षतालकृताम् ।
गङ्गागौतमगर्गसनुतपदा गा गौतमीं गोमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ९ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ भ्रमराम्बाष्टकं सपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=भ्रमराम्बाष्टकम्&oldid=288376" इत्यस्माद् प्रतिप्राप्तम्